विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वाष्णेयोऽपि मतैश्चां सर्वेषां प्रवराः शुभाः ॥ अगस्त्यश्च महेन्द्रश्च ऋषिश्चैव मयोभुवः ॥ ३ ॥ परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ पौर्ण- मासाः पारणाश्च ज्याष्णोयाः परिकीर्तिताः ॥ ४ ॥ अगस्त्यः पौर्णमासश्च पारणश्च महातपाः ॥ परस्परमवैवाह्या पौर्णमासाश्च पारणम् ॥ ५ ॥ एतदुक्तं ऋषीणां ते वंशानुक्रमपूरुषम् ॥ अतः परं प्रवक्ष्यामि किं तवानद्य कथ्यताम् ॥ ६॥ वज्र उवाच ॥ पुलस्त्यस्य क्रतोश्चैव महात्मनः ॥ अग- स्त्यस्य तथा चैकं कथं वंशं तदुच्यते ॥ ७ ॥ मार्कण्डेय उवाच ॥ कृतः खलवनपत्योऽस्ति गजश्वेवश्वेतन्तरे ॥ इध्मवाहं स पुत्रत्वे जग्राह नृपसत्तम ॥ ८ ॥ अगस्त्यपुत्रं धर्मज्ञ अगस्त्यात्मकतस्तथा ॥ पुलस्त्यस्य तथा पुत्रः तिरश्चः पृथिवीपते ॥ ९ ॥ तेषां ते जन्म वक्ष्यामि उत्तरत्र यथा विधि ॥ पुलस्त्यप्रजां दृष्ट्वा नातिप्रीतमना ह्यभूत् ॥ १० ॥ अगस्त्यजं दृष्टसुतं तं पुत्रत्वे कृतवांस्तदा ॥ पौलह्यश्च तथा राजन्नागस्त्याः परिकी- र्त्तिताः ॥ ११॥ एते तवोक्ताः प्रवरा द्विजानां महासुभाबा नृप गोत्रकाराः ॥ येषां च नामां परिकीर्त्तनेन पापं समग्रं पुरुषो जहाति ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अगस्त्यवंशानुकीर्त्तनं नामाष्टादशाधिकशततमोऽध्यायः ॥ ११८ ॥ ॥ मार्कण्डेय उवाच ॥ अस्मिन्वैवस्वते प्राप्ते शृणु धर्मस्य पार्थिव ॥ दाक्षायण्यश्च सकलं शृणु त्वं वंशमुत्तमम् ॥ १ ॥ एवं तानि महीदंगं शरी- राणि नराधिप ॥ अरुन्धत्या प्रसूतानि धर्मो वैवस्वतेन्तरे ॥ २ ॥ अष्टौ च वसवः पुत्राः सोमपाश्च वसोस्तथा ॥ धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलौ ॥ ३ ॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ धरस्य पुत्रोद्रविणम्नः कालः पुत्रो ध्रुवस्य च ॥ ४ ॥ काल- स्यावयवानां तु शरीराणि नराधिप ॥ मुहूर्त्तवर्णं कालादि प्रस्तुतान्यविशेषतः ॥ ५ ॥ सोमस्य भगवान्वर्चः श्रमस्त्वपापस्य कीर्त्यते ॥ अनेकजन्मा जनवः कुमारश्चानलस्य तु ॥ ६ ॥ पुरोजवाश्चानिलस्य प्रत्यूषस्य च देवलः ॥ विश्वकर्मा प्रभासस्य त्रिदशानां स वार्धिकः ॥ ७ ॥ जामी दुहितरः प्रोक्ता नागवीथ्यादयो नव ॥ लंबापुत्रः स्मृतो घोषो भानोः पुत्रश्च मानवः ॥ ८ ॥ ग्रहांणां तु सर्वेषां चान्येषामपि तेजसाम् ॥ मरुत्वत्यां मरुत्वन्तः सर्वे पुत्राः प्रकीर्तिताः ॥ ९ ॥ संकल्पायाश्च संकल्पास्तथा पुत्राः प्रकीर्तिताः ॥ मुहूर्त्ताश्च मुहूर्तायाः माध्यात्माख्यासुताः स्मृताः ॥ १० ॥ मत्तोन्मत्तश्च प्राणश्च नरोपाणश्च वीर्यवान् ॥ चित्तिर्नरो हयश्चैव हंसो नारायणस्तथा ॥ ११ ॥ विशुश्चापि प्रभुश्चापि साध्या- द्वादश कीर्तिताः ॥ विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ॥ १२ ॥ ऋतुर्दक्षो वसुः सत्यः कालः कामो धुनस्तथा ॥ ऊर्जवान्मृदुजौ
१ 'श्वेतादि' इति ख० ।
वि० पु०
॥ ७८॥
प्र० सं०
अ० १२१
विश्वेशमाहात्म्य हि ते दशा ॥ १३ ॥ एतावदुक्तं तव कूर्मवंशं संक्षेपतः पार्थिवमुख्यमुख्य ! ॥ व्यासेन वक्तुं न हि शक्तिरस्ति गर्जिन्वता वर्षशते-
रनेकैः ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० धर्मवंशात्तुकल्पितं नामैकनवतितमोऽध्यायः ॥ ११९ ॥ ॥ छ ॥ ॥ छ ॥ मार्क-
ण्डेय उवाच ॥ ॥ अतः परं कश्यपस्य शृणु वंशं नराधिप ॥ यत्र प्रायेण संभूतं जगत्स्थावरजङ्गमम् ॥ १ ॥ अदितेर्द्वादशादित्या देवपुत्राः
प्रकीर्तिताः ॥ धाता पुत्रोऽर्यमा पूषा शक्रोऽशो वरुणो भगः ॥ २ ॥ त्वष्टा विवस्वान्त्वरुणो विष्णुरंशांशमस्तथा ॥ विष्णोरंशन संभूताः
साध्या देवगणा नृप ॥ ३ ॥ त एव तेजसोऽर्डशेन जाताश्चैवादितैः सुताः ॥ नरनारायणौ चोभौ यौ ते गजनयेन्त्रिणौ ॥४॥ इन्द्राविष्णू तथैवोक्त
वादित्येषु नराधिप ॥ मनोन्तरमासाद्य सर्वत्रैव जनार्दनः ॥ ५ ॥ अंशेनैकेन भवति मगणः सोमपायिनाम ॥ तस्मिन्मणे देववरो विष्णुर्लोक
नमस्कृतः ॥ ६ ॥ तेजसाऽभ्यधिको नैको भवतीति न संशयः ॥ यस्तेषामादितिशासनं करोति वसुधाधिप ॥ ७॥ कर्माणिर्यान्यतु तथान्तरेषु
वक्ष्ये भविष्येषु तथा नग्रेन्द्र ॥ मन्वन्तराणां परिकीर्तनेषु शृणुष्व तावद्विनिर्वंशमुख्यम ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क-
ण्डेयवज्रसंवादे आदित्योत्पत्तिर्नाम विशत्यधिकशततमोऽध्यायः ॥ १२० ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ दितिः पुत्रद्वयं गज
अनयामास विश्रुतम् ॥ हिरण्याक्षं च दुर्धर्षं हिरण्यकशिपुं तथा ॥ १ ॥ हिरण्याक्षो हतो राजन्त्वराहेण संयुगे ॥ हिरण्यकश्यपु
राजन्नृसिंहेन निपातितः ॥ २ ॥ हिरण्यकशिपोः पुत्रः प्रह्लादोऽग्निकुलान्तकः ॥ कालनेमिश्च दुर्धर्षो महाबलपराक्रमः ॥ निहतो
आराध्य केशवं देवं प्रह्लादश्च महाबलः ॥ प्रातवांञ्जीवितं दीर्घं बालं दिनमनुत्तमम् ॥ ३ ॥ कालनेमिश्च दुर्धर्षो विष्णुना घातितो भुवि ॥ ३ ॥
वासुदेवेन निवृते तारकामये ॥ ४॥ प्रह्लादस्य सुतः श्रीमान्बाणनामा विरोचनः ॥ विंगंचनसुतः श्रीमान्बलिर्नित्येव विश्रुतः ॥ ५॥ वामनं रूपम-
स्थाथ बद्धो यो विष्णुना पुरा ॥ बलर्वाणः सुतो राजन्भूतो बाहुसहस्रवान् ॥ ७ ॥ पितुन्नृ भृशः श्रीमान्पितृव्यं नवानाव ॥ विवाहं दूतवा
न्कृष्णो नगरं शोणिताह्वयं ॥ ८ ॥ यस्मिन्त्स वै देववरः प्रमथ्य स्कन्दं च रुद्रं विर्जितैः समेतम् ॥ गणं विजित्य नृपतिभगवान् महाद्युर्त हर्यवख्वार
पत्रम् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दितिवंशानुकीर्तनं नामैकविंशत्यधिकशततमोऽध्यायः ॥ १२१॥ वज्र उवाच ॥
हिरण्यकशिपोः पुत्रो कालनेमिर्महासुरः ॥ कथं कृष्णेन निहतन्तमहमाचक्ष्व पृच्छतः॥ ३॥ मार्कण्डेय उवाच ॥ यदा दैत्यवधूं वृत्ते दैत्याः पराजयमन्विताः॥
^१ 'रोचमानस्तथैव च' इति ख०।
॥ ७८॥
मयतारौ समाश्रित्य भूयो देवान्प्रदुद्रुवुः ॥ २ ॥ तत्र देवगणाः सर्वे मयतारपुरःसरैः ॥ दानवैर्निहता युद्धे देवाचार्यं बृहस्पतिम् ॥ ३ ॥ संप्राप्ताः। शरणं विप्रं तांनुवाच बृहस्पतिः ॥ तारकश्च मयश्चैव महाबलपराक्रमौ ॥ ४ ॥ ययुर्जुष्टं देवगणांस्ताविमौ चोदयाम्यहम् ॥ एवमुक्ता. देवगणास्ते वा चार्यो बृहस्पतिः ॥ तुष्टाव देवदेवेशं बहुरूपं हुताशनम् ॥ ५ ॥ बृहस्पतिरुवाच ॥ त्वमग्ने सर्वभूतानामन्तश्चरसि पावक ॥ वेदास्त्वदर्थं जाता श्च जातवेदास्तथा ह्यसि ॥ ६ ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वं हवींषि महाद्युते ॥ त्वं स देव चरस्यात्मा विष्णोरमिततेजसः ॥ ७ ॥ त्वं मुखं सर्वदेवानां सर्वस्यात्मा तथा भवान् ॥ ऊष्मा त्वं देहिनां देहे युक्तःपितवतस्तथा ॥८॥ यच्छक्तिः सर्वदेवानां त्वदीया भूतभावन ॥ प्राता त्वयाहुतिः सम्यग्गदित्य मुपतिष्ठते ॥ ९ ॥ आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ सर्वदेववरेशानः सर्वलोकनमस्कृतः ॥ १० ॥ त्रैलोक्यस्य समुत्पत्तावेकः कारणतां गतः ॥ कालाग्निरुद्रो भगवाञ्जगत्संहारकारकः॥११॥ स्थितौ निमित्तं च भवान्सर्वेषां देहिनां शमः॥ अतीव दुर्धरं देव तव तेजः सुदारुणम् ॥१२॥ तेजसा तेन दैत्येन्द्रान्दहि मा त्वं चिरं कृथाः ॥ सत्वाच ते रणे देव भविष्यति समीरणः ॥ १३॥ इत्येवमुक्तोऽङ्गिरसा महात्मा तथिति तं प्राह नृपेन्द्र पूज्यम् ॥ जीवेऽपि गत्वा पवनं जगाद देवैश्वरस्यानघसिद्धिमिच्छन्॥१४॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽग्निस्तोत्रं नाम द्वाविंशत्यधिकशततमोऽध्यायः ॥ १२२॥ बृहस्पतिरुवाच॥जगदायुर्मेभवान्वायो शरीरस्थः शरीणिनाम्॥अनन्तमुर्तिर्धर्मात्मा देवो नारायणः प्रभुः ॥१॥ अचिन्त्यवीर्यः पुरुषः सदाधारः सनातनः ॥ २ ॥ साक्षिभूतश्च सर्वेषां कर्मणां शुभापायोः ॥२॥ प्राणस्त्वं देहिनां देहे चेष्टितञ्च तथा भवान् ॥ भवाञ्छ्रेष्ठो भवान्ब्रह्मा भवान्विष्णुः सनातनः ॥ ३ ॥ त्वायत्तं हि जगतां वर्षावर्ष शुभाशुभम् ॥ भवान्विसृजते मेघान्भवान्संहरते पुनः ॥ ४ ॥ भवान्धारयते मेघान्वर्षमाणंस्तथा दिवि ॥ आदित्यरश्मिपीतस्य मेधोदरगतस्य च ॥५॥ रसस्य भङ्गा सततं भवानेव नमस्त्वते ॥ तडिद्वन्तानां च तथा भवा न्कर्ता जगत्रये ॥ ६ ॥ अम्भसां भेदकत्वे तु सर्वाधारः समीरणः ॥ परस्परं हि भवतस्तथा संघटनात्प्रभोः ॥ ७ ॥ गर्जितं जायते लोके मेघोदर गतं महत् ॥ बलेन त्वत्समं नान्यं भूतं पश्यामि भूतले ॥ ८ ॥ तस्मात्त्वं कुरु साहाय्यं वद्भूर्हूतविभावसोः ॥ ९ ॥ एतावदुक्तोऽङ्गिरसा महात्मा तथेति तं प्राह समीरणोऽपि ॥ जगाम युद्धं सह पावकेन दैत्येश्वरान्वेदरिपून्महात्मा ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे वायुस्तोत्रं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥ ॥ मार्कण्डेय उवाच ॥ वायुवह्नी सहितौ गत्वा मयतारपुरोगमान् ॥ जिग्यतुः समरे दैत्यान्नानाप्रहरणोद्यतान् ॥ १ ॥ विजितास्ते रणे दैत्या मयतारपुरोगमाः ॥ त्यक्त्वादेवालयाः सर्वे वरुणालयमागताः ॥ २ ॥ एत
'प्र० खं०' 'अ० १२५'
स्मिन्नेव काले तु हिरण्यकशिपोः सुतः ॥ कालनेमिरिति ख्यातः शीतशीर्षोऽप्युदृश्यते ॥ ३ ॥ शतबाहुर्महाकायः पर्वताकारदर्शनः ॥ ब्रह्मलब्धवरो रौद्रो दुग्धशैलसमप्रभः ॥ ४ ॥ एकोदरो द्विपादश्च एकग्रीवः सुरान्तकः ॥ अङ्गुदी बद्धमुकुटः कुण्डलाम्बरभूषणः ॥ ५ ॥ सर्वायुधधरो रौद्रो गदापाणिर्विभीषणः ॥ दत्त्वाऽभयं स दैत्यानां तस्मै मेरुं सुरालयम् ॥ ६ ॥ गत्वा विजित्ये त्रिदशान्स्थान्येनान्यथावरोपयत् ॥ त्रैलोक्यमात्मसा त्कृत्वा सुखमास्ते त्रिविष्टपे ॥ ७ ॥ तस्य ते ह्यनुगाः सर्वे लोकाः स्थावरजङ्गमाः ॥ तदाज्ञाकारिणः सर्वे तद्भावस्यानुवर्तकाः ॥ ८ ॥ पञ्च तत्रा भ्यवर्तन्त विपरीतेन कर्मणा ॥ वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया ॥ ९ ॥ सर्वेषामनुसन्थानात्सरोषो दानवेश्वरः ॥ वैष्णवं पदमन्विच्छ न्ययौ नारायणान्तिकम् ॥ १० ॥ ज्ञात्वा दैत्यमथायान्तं देवापि मधुसूदनः ॥ तार्क्ष्यमावाहयाञ्चक्रे आरुरोह च तं हरिः ॥ स ददर्श हरिं देवं तार्क्ष्यस्थं दैत्यराट् तदा ॥ ११ ॥ सजलजलदनीलं पद्मपत्रातनेत्रं खगपतिमवरूढं कल्पवृक्षोपमानम् ॥ हलमुसलगदाभिः शोभितं देवदेवं वरपुरुष मजेयं शार्ङ्गचक्रासिपाणिम् ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कालनेम्युपाख्याने श्रीमद्भगवद्दर्शनो नाम चत्वारिंश त्यधिकशततमोऽध्यायः ॥ १२४ ॥ ॥ मार्कण्डेय उवाच ॥ दृष्ट्वा स पुरतो देवं दानवस्त्वयभाषत ॥ अद्य स दृश्यते विष्णुर्यो नया येन घातितः ॥ १ ॥ कुतुण्ण्येण शकौथे बभूव किल वामनः ॥ यदा वञ्चितवान्पुत्रे भ्रातृव्यस्य बलिं मम ॥ २ ॥ नृवराहवपुः कृत्वा लोकचित्तहरं पुरा ॥ हिरण्याक्षं जघानेव पितृव्यं मम विस्मितम् ॥ ३ ॥ अपूर्वं रूपमास्थाय नरसिंहस्य दानवाः ॥ पितरं यो जघानेव हिरण्यकशिपुं रणे ॥ ४ ॥ वराहरूपिणानेन पातालतलमास्थिताः ॥ अस्मद्भाग्येभयेनाजो दानवा विनिपातिताः ॥ ५ ॥ नराश्व वपुषा येन मधुकैटभौः पुरा ॥ पातालादाहता वेदास्ततस्तौ युधि घातितौ ॥ ६ ॥ अस्याज्ञाकारिणो देवा न संतिष्ठन्ति शासने ॥ अयं स रक्षां देवानामास्माभिर्विक्रूप्यताम् ॥ ७ ॥ त्रैलोक्ये दैत्यसृद्धतं युद्धेनेव पुनःपुनः ॥ देवसाह्यम् इत्येव तेन वध्योऽथ मे रिपुः ॥ ८ ॥ अतीव स्याद्य कालस्य दुर्नयस्य कृतस्य च ॥ मोक्षयद्देव फलं दैत्याः सर्वं पश्यन्त मा चिरम् ॥ ९ ॥ इत्येतेद्देत्यनाथस्य वाक्यं श्रुतैव दानवाः ॥ जयशब्दं ततश्चक्रुः सिंहनादवं तथा ॥ १० ॥ वाक्य प्रतिकूलाम्तास्तन् दुष्टेन चेतसा ॥ तच्छ्रुत्वा च हरिर्देवः क्रुद्धो नामेदमब्रवीत ॥ ११ ॥ किमिदं गर्जसे दैत्य शारदाभ्रबुदद्वथा ॥ प्रजापतिकृतं सेतुं कथं लङ्घितुमिच्छसि ॥ १२ ॥ एवं कथितोदेवेन्द्देत्योः पार्थिवोत्तम ॥ प्रावर्तत रणो घोरो गदापातविभीषणः ॥ १३ ॥ दानवैर्देवदेवोऽपि कालनेमिपुरःसरैः ॥ संछाद्यते महाबाणैर्यथाऽभ्रैव नभस्तलम् ॥ १४ ॥ संछाद्यमानो दैत्यै
॥ ७९
न्द्रेन्द्रदेवौ न विव्यथे ॥ योधयामास स रणे गदया दानवान्बहून् ॥ १५ ॥ तस्य दैत्यप्रसक्तस्य कालनेमिर्महासुरः ॥ पातयामास वेगेन गदां गरुड़मूर्धनि ॥ १६ ॥ गदाघातेन रौद्रेण तेन तार्क्ष्यस्य मानद ॥ नासा भग्ना व्यथा जाता रक्तच्छर्दिश्च दारुणा ॥ १७ ॥ व्यथितं गरुडं दृष्ट्वा देवेन हरिमंधता ॥ क्षिप्तं दैत्यविनाशाय तदा चक्रं सुदारुणम् ॥ १८ ॥ यत्तत्सुदर्शनं नाम सूर्यतेजःसमुद्भवम् ॥ वज्रनाभं सहस्रारं शरपर्यन्तमण्डलम् ॥ १९ ॥ च्युतं चक्रिकरात्कर्म कालनेमिं महासुरम् ॥ शीघ्रं विशिरसं चक्रे विबाहुं च तथा नृप ॥ २० ॥ विबाहुशिरसं कृत्वा देवदत्तसुपौथिवान् ॥ विबाहुशिरसं कार्यं शरच्छोणितनिर्झरम् ॥ २१ ॥ न पपातस्य मेदिन्यां यदा तार्क्ष्यन्ततो रथात् ॥ उरसा पातयामास देवानां पश्यतां तदा ॥ २२ ॥ पतता दैत्यकायेन सशैलवनकानना ॥ कंपिता वसुधा सर्वा पतिताश्च शिलोच्चयाः ॥ २३ ॥ दानवेन्द्रं हतं दृष्ट्वा मयतापुरोगमाः ॥ तुष्टुवुर्देवदेवेशं वरचर्कासिपाणिनम् ॥ २४ ॥ तुष्टाव च तदा देवो ब्रह्मा शुभचतुर्मुखः ॥ स्तुतश्च ब्रह्मणा देवो लोकपालान्नथा पुरा ॥२५॥ स्थानेषु योजयामास यज्ञं देवसुखे तथा ॥ जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा विभुः ॥२६॥ तत्रात्मानं यज्ञमूर्ति मिज्यमानं द्विजोत्तमैः ॥ दृष्ट्वा स्वयं तु जग्राह यज्ञभागं महात्मनाम ॥ २७ ॥ तत्र पूजासुपादाय जगाम स हिरण्वतीम् ॥ अवेररजुगतस्तत्र सुष्वाप किल योगवित् ॥२८॥ एवं स दैत्यप्रवरो नरेन्द्र कृष्णेन चक्रेण पुरा निरस्तः ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥२९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कालनेमिवधो नाम पञ्चविंशत्यधिकशततमोऽध्यायः ॥ १२५ ॥ वज्र उवाच ॥ यदुक्तं दैत्यनाथेन दैत्यानां कालनेमिना ॥ पातालदैत्यशमनं वपुर्देवस्य चक्रिणः ॥ १ ॥ तदहं श्रोतुमिच्छामि तत्र मे संशयो महान् ॥ चरितं तस्य देवस्य भावान्विति यथातथम् ॥ २॥ मार्कण्डेय उवाच ॥ विष्णुना तु बलौ बद्धे पातालतलमाश्रिताः ॥ जघ्नुर्दैत्यगणा लोकान्ब्राह्मणांश्च विशेषतः ॥३॥ भूतले हन्यमाने तु यज्ञे नाशमुपागते॥क्षुत्क्षामैस्त्रिदशैर्ब्रह्मा दैत्येहतैः प्रनोदितः॥४॥ब्रह्मापि चोदयामास देवदेवं जनार्दनम्॥ब्रह्मणा चोदितो देवः पाताल गमनेच्छयाः ॥५॥ चकार रूपं वाराहं भिन्नाञ्जनचयप्रभम् ॥ शशाङ्कलेखोद्दंष्ट्राग्रं वज्रप्रायखुरं तथा ॥६॥ वज्रसंहननं भीमं त्रैलोक्यक्षोभकार कम् ॥ पीनवृत्तायतस्कन्धं महापीनशिरोधरम् ॥ ७ ॥ विवृतास्यं महाकायं भीमाक्षं भीमनिखनम् ॥ आवर्त्तरोमसंघातं तेन विग्रहसंजितम् ॥ ॥ ८ ॥ स समुद्वेग पातालें प्रविश्य मधुसूदनः ॥ दैत्यानां दर्शने तस्थौ महाबलपराक्रमः ॥ ९ ॥ पाताले सूकरं दृष्ट्वा प्रथदातितभूतलम् ॥ सुसुप्तगम्भीररवं शुंशुकारकृताननम् ॥ १० ॥ पङ्कलिप्तसर्वाङ्गं निर्यदुर्नदानवास्तदा ॥ सततं मुगशारीला जघ्नुस्तञ्च वरायुधैः ॥ ११ ॥
वि० ध०
॥ ८० ॥
प्र० खं०
अ० १२७
स हन्यमानो दैत्यार्घैः पृषतैरिव पर्वतः ॥ स्कन्धकण्डूच्छलेनाजौ दैत्याधिपनिबर्हनम् ॥ १२ ॥ पातयामास वेगेन महाद्रिशिखरोपमम् ॥
वेश्मनश्च निपातेन देवदेवस्य मायया ॥ १३ ॥ हन्यन्ते दानवा घोराः शतशोऽथ सहस्रशः ॥ ते क्षयाद्दैत्यमुख्यानां दैत्यसुल्यक्षयङ्कराः॥१४॥
यथाश्वमेधात् जग्मुः क्षये रौद्र उपस्थिते ॥ क्षीयमाणाः क्षयेदृष्ट्वा शतजोक्षितमूर्धजान् ॥ १५ ॥ क्ष्मातलस्थाम्रंस्तेजोग्रैः क्षणेन क्षणदाचरान् ॥
प्रधाना दैत्यमुख्या ये ओजसेन बलेन ते ॥१६॥ जग्मुर्वरायुधैर्धव शतशोऽथ सहस्रशः ॥ स हन्यमानो दैत्येन्द्रैः प्रायेन दितिजात्मजान् ॥१७॥
विदारयामास रणे दंष्ट्राग्रेण तथापरान् ॥ एवं वराहेण रणे हतान्दृष्ट्वा दितेः सुतान् ॥ १८ ॥ हरिं विज्ञातावान्देवं प्रह्लादो दैत्यसत्तमः ॥
स प्रणम्य हरिं देवं तुष्टाव धरणीधरा ॥ १९ ॥ तं जगाद महातेजा देवदेवो जनार्दनः ॥ अनुग्राह्योऽसि मे दैत्य भक्तोऽसि सततं यतः ॥ २० ॥
तवाज्ञाल्लङ्घका घोरा प्रायेण निहता मया ॥ तवाज्ञाकारिणो दैत्या न मे वध्या दितेः सुताः ॥ २१ ॥ शासनं पालय मह्यं पाताले त्वं
सुखी भव ॥ मार्गे स्थापय दैत्यांस्त्वं त्वदाज्ञापरिबंहितान् ॥२२॥ आश्वस्तसंप्लवं दैत्य जीवं त्वं न विमोक्ष्यसे ॥ धर्मिष्ठानां च दैत्यानां सदा ॰ राजा
भविष्यसि ॥ २३ ॥ मद्भक्त्या परया वत्स पुत्रस्तव विरोचनः ॥ मार्गच्युतोऽपि न हतः कल्पाग्रश्च तथा कृतः ॥ २४ ॥ बलिर्वैरोचनश्चैव
मया बद्धः कृते तव ॥ करिष्यति स शक्रत्वं प्राप्ते सावर्णिफेन्तरे ॥ २५ ॥ बाणं च तनयं तस्य मम विप्रियकारकम् ॥ त्वत्कृते न हनिष्यामि
तस्य च्छेत्स्यामि दोर्मानम् ॥ २६ ॥ छिन्नाबाहुर्मया युद्धे हरस्यालुचरो बली ॥ महाकाल इति ख्यातो कल्पस्थायी भविषयति ॥ २७ ॥
एकमेकं तु दैत्येन्द्र सन्ताने सततं तव ॥ नांहं वधिष्ये धर्मज्ञ त्वत्कृते व्येतु ते भयम् ॥ २८ ॥ भवान्भक्तस्तथा मह्यं भक्तेष्वपि तथा मम ॥
नास्त्यदेयं महाभाग तत्पातालं गच्छ निर्वृतः ॥ २९ ॥ हतशेषानुपादाय दैत्यान्सत्यपथमाश्रितान् ॥ एतावदुक्त्वा प्रह्लादं तत्रैवान्तरधीयत ॥३० ॥
एतद्वराहचरितं तव राजसिंह प्रोक्तं मया सकलकल्मषनाशकारि ॥ उद्भुतदैत्यशमनस्य ऋषिस्तुतस्य कण्डूविनोदनहतासुरपुङ्गवस्य ॥ ३१ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पाताले वराहप्रादुर्भावो नाम षड्विंशत्यधिकशततमोऽध्यायः ॥ १२६ ॥ वज्र उवाच ॥
दितिविनष्टपुत्रा च पुत्रकार द्विजोत्तम ॥ तन्ममाचक्ष्व संशप्तस्तत्र मे संशयो महान् ॥ १ ॥ मार्कण्डेय उवाच ॥ दितिर्विनष्टपुत्रा च तपसा
महता नृप ॥ आराधयामास तदा भर्तारं कश्यपं मुनिम् ॥२॥ आराधितः सुतपसा च्छन्दयामास भामिनीम् ॥ वरेण च वचः काले पुत्रव्यसनक
र्पिताम् ॥ ३ ॥ कश्यप उवाच ॥ वरं वरय सुश्रोणि वरदोऽहमुपस्थितः ॥ एवमुक्ता वरं वव्रे देवी पुत्रविनाकृता ॥ ४ ॥
॥ ८० ॥
दितिरुवाच ॥ शक्रहन्तारमिच्छामि पुत्रं ब्रह्मन्द्यशस्विनम् ॥ यदि तुष्टोऽसि मे ब्रह्मंस्तं प्रयच्छ सुतं मम ॥ ५ ॥ मार्कण्डेय उवाच ॥ एवमुक्तस्तदा भर्तानातिप्रीतोऽब्रवीदिदम् ॥ एवं ते भविता भद्रे शुचि त्वं चेद्भविष्यसि ॥ ६ ॥ पूर्णं वर्षसहस्रं च नान्यथा तद्भविष्यति ॥ एव- मुक्ता तया सार्धमुवास रजनीं द्विजः ॥ ७ ॥ ततो जगाम धर्मात्मा तपसे दृढनिश्चयः ॥ आत्तस्थौ नियमं देवी सगर्भा च दितिस्तदा ॥ नियमस्थां तु तां दृष्ट्वा शक्रो वचनमब्रवीत् ॥ ८ ॥ शक्र उवाच ॥ अहं देवि करिष्यामि तव शुश्रूषणं सदा ॥ स्थिताया नियमे घोरे तद्वातुमर्हसि ॥ ९ ॥ मार्कण्डेय उवाच ॥ बाढमस्त्वित्यथोक्तस्तु तया देवः पुरन्दरः ॥ तत्रोवास च्छलान्वेषी शुश्रूषामरतं सदा ॥ १० ॥ तदाब्दशेषे काले च दिवा सुप्ताऽदितिर्नृप ॥ मध्याह्नसमये राजन्पादौः कृतमूर्द्धजा ॥ ११ ॥ तस्याः संप्राप्य तच्छिद्रं वज्री परपुरञ्जयः ॥ विवेश गर्भमार्गेण विवृतेनं नरे- श्वर ॥ १२ ॥ संप्रविश्यैव तं गर्भं वज्रेण शतपर्वणा ॥ कृतवान्सप्तधा वज्री भागंभागं ततः पुनः ॥ १३ ॥ एकैकं सप्तधा चक्रे गर्भोऽपि प्रारुद- त्तदा ॥ मा रुदस्वेति तं वज्री प्राह कार्ये स्वके स्थितः ॥ १४ ॥ एतस्मिन्नेव काले च दैत्येन्द्रजननी तदा ॥ विबुद्धा वारयामास शक्रं दशशते- क्षणम् ॥ १५ ॥ वज्रगर्भोऽञ्जलिः शक्रो मातृवचनयन्त्रितः ॥ निष्क्रामन्नोदरात्तस्याः सह बालैर्महात्मभिः ॥ १६ ॥ तं जगाद दितिः शक्रं प्राञ्जलिं पुरतः स्थितम् ॥ न ते शक्रापराधोऽस्ति मम गर्भनिकृन्तने ॥ १७ ॥ सर्वोपायैर्निहन्तव्यः शत्रुर्नेयविदा सदा ॥ ममापराधाद्गर्भोऽयं त्वयाद्य बहुधा कृतः ॥ १८ ॥ भवन्तु मरुतो नाम सर्वे देवाः पृथक्पृथक् ॥ मा रुदध्वमिति प्रोक्ता यतः शक्र त्वया सुताः ॥ १९ ॥ ततश्च मरुतो नाम भवि- ष्यन्ति जगत्त्रये ॥ त्वत्सहाया भविष्यन्ति त्वदाज्ञावशवर्तिनः ॥ २० ॥ न चैतेभ्यो भयं किञ्चित्कदाचिन्ते भविष्यति ॥ एषां नामविभागांस्त्व- स्थानानि च तथा कुरु ॥ २१ ॥ एकज्योतिश्च द्विज्योतिस्त्रिज्योतिरेव च ॥ एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः ॥ २२ ॥ प्रथमे पवन- स्कन्धे गणोऽयं सुरथः स्मृतः ॥ इन्द्रश्च गण्यो दृश्यश्च इतः प्रतिशिरास्तथा ॥ २३ ॥ मितश्च संमितश्चैव अमितश्च महाबलः ॥ द्वितीय पवन- स्कन्धे गणो नाम प्रघोषकः ॥ २४ ॥ ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥ अतिमित्रो नामित्रश्च पुरुमित्रोऽपराजितः ॥ २५ ॥ तृतीये पवनस्कन्धे गणः सन्तापनः स्मृतः ॥ ऋतश्च ऋतवान्धाता विधाता धरणो ध्रुवः ॥ २६ ॥ विचारणः चतुर्थेस्तु गृहमेधो गणः स्मृतः ॥ ईदृक्षश्च सदृक्षश्च एतादृग्भूततारनः ॥ २७ ॥ कीतनः प्रसदृक्षश्च सरम्भश्च महायशाः ॥ गृहे च रोषणा नाम वायुस्कन्धे च पञ्चमे ॥ २८ ॥ धर्ता दुर्गैष्व निर्भामो ह्यभियुक्तिः कृपा सहः ॥ षष्ठे तु पवनस्कन्धे सास्ती नाम गणः स्मृतः ॥ २९ ॥ द्युतिर्बपुर्नष्टशद्यो वासः कामो जयो विराट् ॥ मैत्रेवणो
गणो नाम वायुस्कन्धे च सप्तमे ॥ ३० ॥ एषां नामविभागन्तु दत्त्वा स्थानानि चाच्युतः ॥ जगाम स्वगृहं प्रीत्या दितिश्च स्वगृहं ययौ ॥ ३१ ॥ एतत्तेवार्त्तं मरुतां त्वीर जन्मोत्तमं पापभयापहारि ॥ यस्मिञ्छुतेनैव जनस्य लोके भयन्तु दृष्ट्या न भविष्यतीह ॥ ३२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० मरुदुत्पत्तिर्नाम सप्तविंशत्यधिकशततमोऽध्यायः ॥ १२७ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ जनयामास राजेन्द्र दनुर्दानवपुङ्गवान् ॥ विभाचित्तिंमुखान्वीरान्दैत्यपक्षमुपाश्रितान् ॥ १ ॥ कालं च जनयामास कालकेयान्सुदारुणान् ॥ दैत्यपक्षाश्रितान्क्रूरान्वृद्धान्दैवतगणे ॥ २ ॥ दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ॥ विरूद्धस्तु सदा देवैर्दैत्यपक्षमुपाश्रितः ॥ ३ ॥ सिंहिका जनयामास सैंहिकेयान्महासुरान् ॥ राहुसालमुखांन्वीरान्बृहन्मितिमतेजसः ॥ ४ ॥ गन्धर्वाप्सरसो दिव्या मुनयस्तान्निबोध मे ॥ चित्रसेनोर्ग्रसेनो च उर्णायुर्नघस्तथा ॥ ५ ॥ धृतराष्ट्रश्च गोपश्च सूर्यवर्चास्तथैव च ॥ युगपस्तृणपः पार्षिणर्धधिश्चरस्तथा ॥ ६ ॥ कलिः शालिशिराश्चैव पर्जन्यो नारदस्तथा ॥ तेषां चैव यवीयस्यो दिव्याश्चाप्सरसः शुभाः ॥ ७ ॥ अनूचानानवद्या च प्रियमुख्या गणेचरी ॥ मिश्रकेशी तथा चापि पर्णाशा पुञ्जिकस्थला ॥ ८ ॥ मरीचिः शुचिका चैव विद्युत्पर्णी तिलोत्तमा ॥ आदिका लक्ष्मणा क्षेमा देवी रम्बा मनोरमा ॥ ९ ॥ आसिता च सुबाहुश्च सुव्रता सुवपुस्तथा ॥ पुण्डरीका सुगन्धा च सुदारा सुरसा तथा ॥ १० ॥ हेमा शरदंती चैव प्रसूता कमला च या ॥ सुमुखी हंसमार्गा च सौरीयाप्सरसः स्मृताः ॥ ११ ॥ कद्रूश्च जनयामास नागांस्तीव्रपराक्रमान् ॥ येषां शेषः प्रधानस्तु विष्णोर्नागवपुर्धरः ॥ १२ ॥ येनेयं धार्यते भूमिः सशैलवनकानना ॥ आद्योही वासुदेवस्य पूर्वं मूर्तिर्मनोरिता ॥ १३ ॥ अनन्त इति विख्याता महाकल्पविनाशिनी ॥ महाकल्पे महासत्त्वे स्वयं भवति या सदा ॥ १४ ॥ तस्यांशेन समुत्पन्नः शेषो हि धरणीधरः ॥ तस्यानुजोऽस्ति नागेन्द्रो न्यायोन्त्येन वदाम्यहम् ॥ १५ ॥ वासुकिस्तक्षकश्चैव ऐलापुत्रो धनञ्जयः ॥ ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥ १६ ॥ शङ्खपद्मौ महाधन्वी धृतराष्ट्रबलाहकौ ॥ नीलाश्वः पुष्पदन्तश्च सुमखो दुर्मुखस्तथा ॥ १७ ॥ नहुषः करोग्मा च कुरुश्च कुलिकस्तथा ॥ क्रोधाश्च जनयामास दश कन्या नराधिप ॥ १८ ॥ पुलहाय च ता दत्ताः कश्यपेन महात्मना ॥ मृगा च मृगमन्दा च हरिर्भद्रा मनोहरा ॥ १९ ॥ भूता च कपिशा दंष्ट्रा सरसा सुरसा तथा ॥ इरा चैव तृणं सर्वं जनयामास भामिनी ॥ २० ॥ पञ्चप्रकारं धर्मज्ञ तं मे निगदतः शृणु ॥ वृक्षगुल्मलता वल्यस्त्वक्सारस्तृणजातयः ॥ २१ ॥ अन्तःसंज्ञा भवन्त्येता घोरेण तमसा वृताः ॥ एतेषामभिमानिन्यो देवता यदुनन्दन ॥ २२ ॥
जनयामास धर्मज्ञ इरा दाक्षायणी शुभा ॥ प्राधा प्रसूताप्सरसस्तासां नामानि मे शृणु ॥ २३ ॥ अनवद्या अनुका च सुवक्त्रा करुण-
-प्रिया ॥ मधूना सुभगा चैव सहजन्या च मेनका ॥ २४ ॥ घृतस्थूला घृताची च विसूची पूर्वचित्त्यपि ॥ प्रम्लोचीत्यप्सराश्चैव
निम्लोचन्ती तथैव च ॥ २५ ॥ अनेनैव प्रसंगेन तथान्यासां महीपते ॥ जन्म तेऽप्सरसां वक्ष्ये तन्मे निगदतः शृणु ॥ २६ ॥
सुन्दोपसुन्दनाशाय निर्मिता विश्वकर्मणा ॥ तिलंतिलं समादाय सर्वैरत्नँस्तिलोत्तमा ॥ २७ ॥ यस्याः प्रदक्षिणाजातश्चतुर्वक्त्रः पिनाकभृत् ॥ सहस्र-
-नयनः श्रीमान्वज्री शक्रश्च पाकहा ॥ २८ ॥ शेषैर्देवगणैर्दृष्टा भ्रमद्भिः प्रदक्षिणैः ॥ कृते कर्मणि सा प्राप्ता सूर्यलोकं वराङ्गना ॥ २९ ॥ एकस्यां
रूपसौन्दर्यं द्रष्टुमिच्छन्पितामहः ॥ अहल्यां नाम कृतवांस्त्रैलोक्यैकसुन्दरीम् ॥ ३० ॥ गौतमाय च तां प्रादाद्धृष्ट्वा शुभचतुर्मुखः ॥
यस्याः कृते गौतमस्तं शक्रो निर्वृषणः कृतः ॥ ३१ ॥ नारायणोरुसंभूता तथा चैवोर्वशी शुभा ॥ संयत्तमानसा वव्रे भर्तारं बुधजं नृपम् ॥ ३२ ॥
पुरूरवसनामानं रूपेणाप्रतिमं भुवि ॥ तेनैव सार्धमद्यापि दिवं प्राप्ता च तिष्ठति ॥ ३३ ॥ आहूत्या इति विख्याता तथैवाप्सरसः शुभा ॥ ब्रह्मणा
मनसा सृष्टा देवरामा मनोरमाः ॥ ३४ ॥ मनोः सुताः शौचवत्यो विद्युज्जालरुचः स्मृताः ॥ मौरवस्य सुता मृत्योर्भूमिजाता भुवः स्मृताः ॥ ३५ ॥
अमृतात्स्याञ्च सम्भूतास्तथैवामृतमन्थने ॥ वह्निजाता मुदा नाम सोमाद्वैकरुचास्तथा ॥ ३६ ॥ आयुर्वृत्यस्तथा प्रोक्ताः सूर्यरश्मिसमुद्भवाः ॥
यज्ञोत्पन्नास्तथा नाम ऋक्सामसाम्प्रयस्तथैवच ॥ ३७ ॥ वायुत्पन्ना मुदा नाम देवरामाः प्रकीर्तिताः ॥ इत्येते बहुसाहस्रा विज्ञेयाप्सरसां
गणाः ॥ ३८ ॥ देवतानामृषीणां च पत्न्यस्ता मातरश्च वै ॥ सुगन्धाश्चाप्यनिन्द्यङ्गा सर्वा ह्यप्सरसः शुभाः ॥ ३९ ॥ तासामाप्यायते स्पर्शादानन्दं
चाश्नुते महत् ॥ विनता जनयामास गरुडं तार्क्ष्यमप्यथ ॥ ४० ॥ अङ्गारकं तथा सूर्यं निर्ऋतिं च खगं तथा ॥ अजैकपादमाहिर्बुध्न्यं यमं चैव
ध्वजांस्तथा ॥ ४१ ॥ श्वानं नृवक्रं स्वर्भानुं कपालमथ किङ्किणीम् ॥ एकादशैते कथितास्तव रुद्रा महाबलाः ॥ ४२ ॥ येषां च जनयामास द्वौ
पुत्रौ यक्षराक्षसौ ॥ ययोः सन्तानसंभूता राजन्वै यक्षराक्षसाः ॥ ४३ ॥ इमं च वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणदैवसन्निधौ ॥
अपत्यलाभं स लभेत पुष्कलं श्रियं तथा प्रेत्य च शोभनां गतिम् ॥ ४४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कश्यप-
-सर्गो नामाष्टाविंशत्यधिकशततमोऽध्यायः ॥ १२८ ॥ ॥ वज्र उवाच ॥ उर्वशी च कथं जाता बुधजं पार्थिवं कथम् ॥
पतिं कृतवती देवी मानुषं तन्ममाचक्ष्व ॥ १ ॥ मार्कण्डेय उवाच ॥ साध्यौ धर्मसुतौ प्रोक्तौ नरनारायणावृषी ॥ यौ तौ पूर्वं महीपालौ तानुभौ
वि० ध० ॥ ८२ ॥
प्र० खं० अ० १३०
युङ्नन्दन ॥ २ ॥ विष्णोरंशौ महावीर्यौ तपस्यभिरतौ सदा ॥ तयोस्तदाश्रमं रम्यं मृगैर्निचितपद्रुमम् ॥ ३ ॥ वदर्याश्रममित्युक्तं मृदुस्पर्शहिमं शुभम् ॥ उष्णतोयवहा गङ्गा शीतोतोयवहा परा ॥ ४ ॥ सुवर्णसिकता रम्या काञ्चनोत्पलमालिनी ॥ तत्र सा बदरी रम्या नित्यपुष्पफलोपगा ॥ ५ ॥ तत्र तौ मुनिशार्दूलौ घोरं तप उपाश्रितौ ॥ भवाय सर्वलोकस्य सर्वलोकेश्वरावुभौ ॥ ६ ॥ तयोस्तप- स्यतोरेवं मौनेयाप्सरसो दश ॥ तयोस्तु तपसो विघ्नं संभूय कृतनिश्चयाः ॥ ७ ॥ तं प्रदेशमनुप्राप्ता नानाभरणभूषणाः ॥ पितामहान् सौम्योऽस्ति कश्चिद्राजन्नृषिश्च ॥ ८ ॥ तासां दर्शनमासाद्य नरः कामवशो भवेत् ॥ कुसुमानि विचिन्वत्यो ललन्त्यश्च यथासुखम् ॥ ९ ॥ दृष्ट्वा नारायणोनाथ सर्वा बालमृगेक्षणाः ॥ तासामन्तर्गतं भावं ज्ञात्वा वेदविदां वरः ॥ १० ॥ जितक्रोधो महातेजा जितकामोऽधर्म्मवित् ॥ आदाय सहकारस्य रसं मदनदीपनम् ॥ ११ ॥ ऊर्वाविचूर्ण्य चार्व्वङ्गीं निर्ममेऽप्सरसं शुभाम् ॥ ऊर्व्वाः कृता सा चित्रेण चित्राकरणशालिनी ॥१२॥ तस्मिन्नेव क्षणे नारी बभूवायतलोचना ॥ न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥ १३॥ तादृग्विधा त्रिलोकेऽस्मिन्द्यादृशी सा वराङ्गना ॥ तां दृष्ट्वा व्रीडितास्सर्वा मौनेयाप्सरसो दश ॥ १४॥ जगमुर्यथागतं राजंस्तच्चुश्राव पुरन्दरः॥ दृष्ट्वा कौतूहलतां च बदर्याश्रममागतः ॥ १५ ॥ पादयोन्पतदृङ्क्षी साध्योधर्मनित्यशः ॥ ददर्श च शुभाङ्गोनीं तां श्रियं देवीमिवापराम ॥ १६ ॥ तमुवाच हसन्साक्ष्यत्तदा नारायणः प्रभुः ॥ ममोरुजाता धर्मज्ञ उर्वशीयं भवेदिति ॥ १७ ॥ नयस्व त्रिदिवं चैनां भवतस्त्वग्रगा शुभा ॥ एवमुक्तो मुदं प्राप्य अभिवाद्य च तावृषी ॥ १८ ॥ अनयत्तां ततः स्वर्गं देवीं बालमृगेक्षणाम् ॥ शिष्यत्वे प्रददौ तांनो गन्धर्व्वस्य न तुम्बुरोः ॥ १९॥ ततः कदाचिच्छक्रस्य ननर्त्त पुरतस्तु सा ॥ उपदेशमतिक्रम्य तुम्बरोश्चाग्रहासिनी ॥२०॥ तां शशाप स गन्धर्व्वो मानुष्ये वत्स्यसे भुवि ॥ देवी कमिमं त्यक्ता मानुषेण सहानेवं ॥ २१ ॥ कश्चित्कालमुपात्येवं मानुषं तं शुचिस्मिते ॥ अगम्य त्रिदिवं तावत्तस्माद्भवस्यसवे ततः ॥ २२ ॥ तेनैव सार्धं त्रिदिवे रंस्यसे त्वं शुभा नना ॥ वैवस्वतास्यास्य मनोरैषीवन्तरसुच्यते ॥ २३ ॥ एवं हि शप्ता नृपवर्य तेन पपात राजन्युरुणा नृलोके ॥ उवास राज्ञा सहिता तु तस्मात्सर्व्व समाप्ताश्च तथैव तेन ॥ २४ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयव- ज्रसंवादे उर्वशीसम्भवो नामैकोनत्रिंशदधिकशततमोऽध्यायः ॥ १२९ ॥ ॥ छ ॥ ॥ छ ॥ ॥ छ ॥ ॥ छ ॥ [वज्र उवाच ॥] नाकं त्यक्त्वाोर्वशी ब्रह्मन्नृधनं कथं गता ॥ क च सा तं नरेन्द्रं दृष्टवत्यपराजितम् ॥ १ ॥ मार्कण्डेय उवाच मनो
॥ ८२ ॥
वैवस्वतस्यास्य द्वापरे प्रथमे पुरा ॥ वृत्ते देवासुरे युद्धे वृते चामृतमन्थने ॥ २॥ संग्रामे कृतकर्म्माणं तस्मिन्नेव नराधिपम् ॥ शक्त्याद्यासंन गतं रूपेणाप्रतिमं तदा ॥ ३ ॥ सम्पूज्यमानं त्रिदशैर्दर्शयाचितलोचना ॥ बुबुधे नरेन्द्रन्द्रं तदा नारायणान्मजा ॥ ४ ॥ दृष्ट्वा बभूव चास्वस्था कामबाणगणार्द्दिता ॥ ततः प्रभृति मेरुकुञ्जेषु भामिनी ॥ ५ ॥ आकारं गूहमाना सा कालं नयति कामिनी ॥ चिन्तयन्ती नरेन्द्रन्द्रं कन्दर्पप्रतिमं सदा ॥ ६ ॥ न सा मुङ्क्ते न स्वपिति श्रान्ता स्वपिति वा यदा ॥ तदा पश्यति तं स्वप्ने नीलनीरजललोचना ॥ ७ ॥ मनोरथैश्च कुरुते याँश्च तं प्रति भूमिपम् ॥ ८ ॥ तानि सा पश्यति स्वप्ने कथयित्त्वममोहिता ॥ कदाचित्क्रीडते राज्ञा कदाचिदनुनीयते ॥ ९ ॥ सुप्ता कदाचिद्राजेन्द्र वदन्ती प्रतिबुद्ध्यते ॥ कण्ठे गृहीता सा राज्ञा तथा चासौ महीपतिः ॥ १० ॥ एवं दृष्ट्वा तु सा स्वप्ने निद्रामोहेनुमागता ॥ तथैव बाहुपाशेन रचितेन विबुद्ध्यते ॥ ११ ॥ स्वप्नसंस्थं यदा दृष्ट्वा मोहमायाति सा चिरम् ॥ कृत्वा चित्रगतं पट्टे कदाचिच्च निरीक्षते ॥ १२ ॥ एवं नरेन्द्रे गतसर्वभावां विज्ञाय तां चारुतराज्यदृष्टिम् ॥ आपाण्डुसकामकपोलभित्तिं दृष्ट्वा रम्भा त्वरितं जगाद ॥ १३ ॥ यत्तेन चार्व्वङ्गि निगूहमाना भावं मया त्वं विदितासि सुभ्रुः ॥ तस्मिन्नरेन्द्रं हृदयं तवेदं योऽसौ महात्मा समरेष्वजेयः ॥ १४ ॥ पुरूरवा नाम जगत्त्रयेऽस्मि- न्ख्यातिं गतः सर्व्वारिहंर्तुवीरः ॥ रूपेण कामं व्यतिरिच्य भाति शौर्येण शक्रादतिरिच्यते सः ॥ १५ ॥ दाने समस्तस्य च नास्ति कश्चित्तत्स- त्प्यन्योप्यन्यगुणे नवीरः ॥ देवासुरेऽस्मिन्समरे हतानि तेनासुराणां नियुतानि पश्च ॥ १६ ॥ केशी विशाले मदनस्तथैयोध्या महाबलस्तेन तथापि शस्तः ॥ चन्द्रस्य पौत्रश्च बुधस्य पुत्रो मातापि तस्यार्कसुतस्य धात्री ॥ १७ ॥ मानं समुत्सृज्य विशालनेत्रं तं गच्छ बाले नृपतिं प्रतीतम् ॥ त्वत्सङ्गमे तस्य च नास्ति यत्नः सुदुर्लभत्वं खलु देवतानाम् ॥ १८ ॥ मनोरथानां त्वमगम्यभूमिर्यस्याभिलाक्षि सुरसु- राणाम् ॥ मृणालशय्या सुतनु त्वयेयं संक्लेशिता चन्दनपङ्कयुक्ता ॥ १९ ॥ तस्याङ्कमारुह्य भवस्व कान्ते विमुक्ततापा तपनीयवर्णे ॥ यास्याम एहीहि नरेश्वरस्य तस्याशु भो वेश्म वरप्रयोगे ॥ २० ॥ पुरं प्रतिष्ठानमिति प्रतीतं मातामहाद्बाह्वत्समुमवाप राजा ॥ इत्येवमुक्ता तपनीयवर्णा तथ्यं विदित्वा त्रपिता बभूव ॥ २१ ॥ उवाच रम्भां सखि तथ्यमुक्तं त्वया मतं तद्रुचितं भृशं मे ॥ यास्याव अद्यैव नरेश्वरस्य तस्यान्तिकं बालगुणामनेत्रे ॥ २२ ॥ यद्यद्य तं नीलसरोजनेत्रं सम्पूर्णचन्द्रप्रभमुखं नरेन्द्रम् ॥ पश्यामि नाहं पृथुदीर्घबाहुं ततो गमिष्याम्यवशावसानम् ॥ २३ ॥ पश्चैव कामस्य जनः पृथक्तान्यदाह रम्भे तदलं नृपेव ॥ समानिशं बाणभरैस्तु विद्ध्यश्च शाप्यते त्वन्निमित्तमेष
वि०ध० ॥ ८३ ॥
प्र० खं० अ० ३१
मातृभः ॥ २४ ॥ कामाग्निमध्ये परिवर्तमानं न याति भस्मत्वमिदं शरीरम् ॥ तस्यैव राज्ञो वदनेन्दुना तत्संरुच्यते मे हृदयस्थितेन ॥ २५॥ नय स्व मां तस्य विशालनेत्रे समीपमेवैव नरेश्वरस्य ॥ इत्येवमुक्ता करुणं हि रम्भा पाणावुपादाय विशालनेत्राम्॥२६॥ बुद्ध्या समुत्प्लुत्य ततोऽन्त- र्हिते जगाम राज्ञो भवनं प्रहृष्टा ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उर्वशीरम्भासंवादो नाम त्रिंशदुत्तरशततमो- ऽध्यायः॥१३०॥ मार्कण्डेय उवाच ॥ उर्वशी रम्भया सार्द्धं जगाम त्वरितं तदा ॥ कामार्त्ता सिद्धमार्गेण सा ददर्शार्थ नारदम् ॥१ ॥ व्रजन्तं सिद्ध- मार्गेण देवलोकादुपागतम् ॥ सम्पूज्य नारदं सुभ्रूः प्रत्युवाच सत्वरा ॥ २ ॥ तामाह नारदो रम्भे केयं ते प्रस्थिता सखी ॥ रम्भा शापमया त्तस्याः सर्वमेव न्यवेदयत् ॥ ३ ॥ तामाह नारदो भूयः शृणुष्व वचनं मम ॥ उर्वशी गतभावैयं मानुषं तं नरेश्वरम् ॥ ४ ॥ शापेन तुबवेरोर्मोहा दुचितं तत्र वत्स्यति ॥ ५॥ यथा शुभं तथा कार्यं त्वया मे वचनं शुभे ॥५॥ समयेनोर्वशी तस्य वस्तव्यसितेलोचना ॥ समयस्यान्यथा कार्यो यो राजंस्तं निबोध मे ॥ ६ ॥ मेषद्वयं तु पुत्रत्वे पुरा कृतवती शुभा ॥ तंत्रितयं शयनाभ्याशे स्थापनीयं सुलोचने ॥ ७ ॥ आहारं घृतमात्रं च कर्तव्यमनया तथा ॥ न द्रष्टव्यस्तथा नग्नो राजा रम्भे पुरूरवाः ॥८॥ न कर्तव्यमकामायास्तथा तेन च मैथुनम् ॥ एकस्मिन्नप्यथो भग्ने समये चारुलोचना ॥९॥ यदि वत्स्यति राजानं शिलाभूता भविष्यति ॥ उर्वशी रम्भया सार्धमेवमस्त्विति नारदम् ॥ १० ॥ उक्त्वा संपूज्य च मुनिं प्रतम्ये पुनरेव च ॥ नारदो व्यगमच्छिघ्रं पुरं वैश्रवणस्य च ॥ ११ ॥ ददर्श च प्रतिष्ठानं चौर्वशी रम्भया सह ॥ प्राकारगोपुरेणार्थेन काञ्चनेन विराजितम् ॥१२॥ चतुर्भिर्गोपुरैःशुभ्रै राजतैश्च विराजितम् ॥ शोभनं च तथा रम्यं विद्युन्मय च तोरणैः ॥ १३ ॥ सुविभक्तमहापण्यं महागजपथं शुभम् ॥ परिखा भिर्विचित्राभिः पद्मिनीभिरलंकृतम् ॥ १४ ॥ वसुभिश्चिद्धिभिः प्रासादैः पाण्डरैश्चोपशोभितम् ॥ शृङ्गाटवनभूयिष्ठं दिव्यं प्रसृपसुतम् ॥ १५॥ वणि ग्भिरुपसंकीर्णं नानापण्यविभूषितम् ॥ ऐरावतकुलोपन्नैःशलपर्वतसंन्निभैः ॥१६॥ कुंजरैर्बहुसाहस्त्रैःसंयुक्तं सुमनोहरैः ॥ तुगैर्वाजितैश्च पवनस्य समेर्जवै ॥ १७ ॥ पानमत्तैनरैर्युक्तमुद्यानेषु ततस्ततः ॥ शङ्खभेरिमृदङ्गानां पटहानां च निःस्वनैः ॥१८॥ विविधानां च वाद्यानां वादितां सर्वथैवम् गम् ॥ ब्रह्मघोषं महाघोषं वीणावेणुनिनादितम् ॥१९॥ हृष्टपुष्टजनाकीर्णं सर्वबाधाविवर्जितम् ॥ पद्मकिंजल्कवर्णाभिर्युतं स्त्रीभिः महम्मदैः॥२०॥ श्यामाभिश्च महाराज काण्डगौरिभिरेव च ॥ ॥ नानावेषधरैर्युक्तं नानादेशोद्भवैस्तथा ॥२१॥ नर्तकैर्नर्तकीपैश्च शिल्पेश्च ह्यनेकशः ॥ पूज्य तस्य मध्ये सा ददर्श नृपतेर्गृहम् ॥ २२ ॥ मध्ये हिमाचलस्येव कैलासं पर्वतौत्तमम् ॥ श्रीमद्भिः संयुतं रम्यैर्गृहमैः सहस्त्रशः॥२३॥सुधावदातैर्विपुलैश्चन्द्र
॥ ८३ ॥
श्मिसमप्रभैः ॥ कचिद्रलौः कचिद्रोकैः कचिद्द्रपाल राजतैः ॥२४॥ मणिद्रुमसोपानैर्मुक्ताजालविभूषितैः ॥ कचिच्च पुष्पदामाढ्यैर्ध्वजयन्तीयुतैः कचित् ॥ २५ ॥ तस्याविदूरे विपुलं वनं चैत्ररथोद्गमम् ॥ राज्ञः क्रीडावनं रम्यं ददर्श विपुलेक्षणा ॥ २६ ॥ द्रुमैर्बहुविधैर्युक्तं पुष्पधूपफलोपगैः ॥ पद्मिनीभिविचित्राभिः क्रीडाशैलैर्मनोहरैः ॥ २७ ॥ प्रासादैश्च तथा रम्यै रम्यैर्मणिगुणैस्तथा ॥ ततु रम्भावनं दृष्ट्वा सखी वचनमब्रवीत् ॥ २८ ॥ राज्ञः क्रीडावने रम्ये गहनेऽस्मिन्सुलोचने ॥ मायाच्छन्ना निवत्स्यावो यावदस्तमयं रवेः ॥ २९ ॥ ततो गत्वा नरेन्द्रं तं चोद्या तव चिकीर्षितम्॥ अहं त्वां तु नयिष्यामि सविधे तस्य भूपतेः ॥ एवमुक्ता सखीवाक्यं नोदगामास चोर्वशी ॥ ३०॥ इति क्रीडावनं ते च ततोऽवतीर्णे तद्देवरामे सुमनो भिरामे ॥ क्रीडावने तत्र तथोर्वशी सा सूर्यात्मजात्कालं मनसा समेच्छत् ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे क्रीडावनावतरणो नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥ मार्कण्डेय उवाच ॥ सूर्यास्तमयमभिच्छन्ती ज्ञात्वा रम्भा तथोर्वशीम् ॥ विनोद्यार्थं हि तस्याश्च दर्शयामास तद्वनम् ॥ १॥ चारुनेत्रे पश्येमं सुभगे चम्पकद्रुमम् ॥ त्वद्गात्रवर्णसदृशैः समन्तात्कुसुमैश्चितम् ॥२॥ इमं च दाडिमं पश्य पुष्पितं वामलोचने ॥ योऽयं बिभर्त्ति कुसुमैस्त्वदीयामधरश्रियम् ॥ ३॥ पश्य कामशराकारं सहकारं मनोरमम् ॥ यत्र चात्मसुखपुत्रा रुद्रास्तस्य महात्मनः ॥ ४ ॥ श्रियं कपोलयोस्तुभ्यमाददानंमनोरमैः ॥ पुष्पैरुपेतां चार्वङ्गि मधूकं पश्य शोभने ॥ ५॥ तत्पयोधरसंकाशौ रस्यैरुपचितं फलैः ॥ पश्य ताल्द्रुमं सौम्ये मनसः प्रीतिवर्धनम् ॥६॥ स्तम्भस्त्वदूरुसंकाशैः कदलीं पश्य शोभने ॥ सुवर्णां चारुसर्वाङ्गी निर्मिता विश्वकर्मणा ॥ ७ ॥ पश्यावमुक्तकलतां कुसुमाढ्यां मनोहराम् ॥ त्वत्केशपाशसंकाशैर्भ्रमरैरुपशोभिताम् ॥ ८ ॥ पश्येमं कुन्दविटपं त्वद्दन्तसदृशैः शुभैः ॥ समन्ता च्छोभितं पुष्पैर्विशालाक्षि मनोहरैः ॥ ९ ॥ पश्य चोत्पलिनीमेतामुत्पलेरुपशोभिताम् ॥ त्वन्नेत्रसदृशैः फुल्लैर्मनोहृदयनन्दनैः ॥ १० ॥ नलिनीं सुभगे पश्य कमलैः पुष्पितैर्युताम् ॥त्वन्निःश्वासगन्धाढ्यैः सौवर्णैश्चैवकेसरैः ॥ ११॥ राजहंसानिमान्पश्य, नलिनीतीरगोचरान् ॥ गमनं सुमनोहारि त्वदीयमित्र शिक्षितान् ॥ १२ ॥ त्वत्करायविधावन्सोम्ये धारयीद्वक्ष पल्लवान् ॥ क्रीडाशैलेममिमं पश्य युक्तं बहुविधैर्द्रुमैः ॥ १३ ॥ क्रीडाशैले चूतगतः कोकिलः कामवर्धनः ॥ कूजयत्यं मनोहरैरिवस्तनेन सहशान्तो ॥ १४॥ क्रीडाशैले नदीं पश्य निःसृतां शीतलोदकाम् ॥ तुल्यं ते मनसा सौम्ये वहन्तीं निर्मलं जलम्॥ १५॥ अहोश्चर्युतं सौम्यं दर्शनीयं वनं बहु ॥ किं तु पश्य विशालाक्षि सूर्योऽस्तमुपगच्छति ॥ १६॥ त्वां तु कामवशां ज्ञात्वा रूपयेव दिवाकरः ॥ संवृतांगुधरो देवस्त्वत्त्वमायाति भामिनि ॥ १७॥ कठोराण्युपि पत्राणि पद्वानानीव सुन्दरि ॥ अस्ततापात्तुरक्तानि राजन्ते शालिवनं
वि० ध० ॥ ८४ ॥
प्र० खं० अ० १३१
भृशम् ॥ १८ ॥ गिरीणां शिखरात्क्रान्तोरोषेव दिवाकरः ॥ जगामास्तं विशालाक्षि कृतकर्मा दिनक्षये ॥ १९ ॥ सन्ध्याकालेन रक्तेन प्रतीचीं
पश्य शोभने ॥ आलिङ्गमानां सहसा कामिनीमिव कामिनीम् ॥ २० ॥ साम्प्रतं नियमोपेता द्विजा द्विजवरोद्भवे ॥ सन्ध्याकालमुपासन्ते सतां
मार्गेणानुव्रताः ॥ २१ ॥ अनुयाता रविं सन्ध्या गतमस्तमपि प्रभुम् ॥ साध्वीव वनिता कान्ते कुलजाता मनस्विनी ॥ २२ ॥ बाल्येनातं
सुनासीरु तमसा पश्य भूतलेम् ॥ भृङ्गोद्गतमालानां तुल्येन वरवर्णिनि ॥ २३ ॥ व्यातं हि तमसा सर्वं न विरजाति किञ्चन ॥ मलिनेनेव
तापाङ्गि जगत्तत्सर्वं समीकृतम् ॥ २४ ॥ अस्यां हि सखि वेलायां मदनेन वशीकृताः ॥ नीलाम्बरधराः कान्ता यान्ति कान्तालताद्धुताः ॥२५॥
पश्योदितं च सुभगे सुभगं चन्द्रमण्डलम् ॥ पानमत्तयुवतीनां वदनेन ममालिषम् ॥ २६ ॥ किञ्चिद्रक्तञ्च गगनं श्वेततं तु गतं मयि ॥
पश्य चन्द्रमसं सुभ्रु नयनानन्दकारकम् ॥ २७ ॥ जगतोऽस्य तमो गत्वा शशाङ्कः सत्त्वसन्निभः ॥ विराजत्यमलः मोन्ये गगने सितसुप्रभो ॥२८॥
कामबाणहताप्तास्ते सदृशं गण्डयोः श्रिया ॥ विभर्त्त्यमृतचन्द्रन्द्रो ज्योत्स्नाजालं समुत्सृजन् ॥ २९ ॥ चन्द्रजातकुमेने दिशेयं वरवर्णिनि ॥
ज्योत्स्नाच्छलेन क्ष्मा देवी राजतीव विराजेते ॥ ३० ॥ चन्द्रन्मुद्युदिते पश्य फुल्लां कुमुदिनीं शुभे ॥ त्वद्विषद्वहसत्संकाशैः कुसुमैरुद्यताभिनीताम् ॥
॥ ३१ ॥ विरही चक्रवाकोऽयं रक्तामुत्पलिनीं शुभे ॥ सितामिव सुदुःखात्तॉ विशायायतलोचने ॥ ३२ ॥ चन्द्रकान्तगृहश्चास्माच्चन्द्ररश्मि-
समप्रभाः ॥ चन्द्ररश्मिपरासृष्टाः पतन्त्युदकविन्दवः ॥ ३३ ॥ आलिङ्गिता चन्द्रमसा जहौ रात्रितमःपटम् ॥ कामिनेव विशालाक्षि कामिनी
वसनं शुभा ॥ ३४ ॥ चन्द्रोदये चन्द्रसमानवक्त्रे नरेन्द्रचन्द्रे प्रमदावदंऽस्मिन् ॥ पश्य त्वमाशंस च जीवनाशां त्वदाननेतुन्न नयनी
प्रविद्धम् ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे उपवने चन्द्रोदयवर्णनो नाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३२ ॥
मार्कण्डेय उवाच ॥ इत्युक्ता रमया वाक्यं दृष्ट्वा राजानमागतम् ॥ दृष्ट्वा समाध्वसा देवी बभूवाथ तथोर्वशी ॥ १ ॥ अन्याश्चैवानवद्द गङ्गि
तस्याः शुभास्तने ॥ नेमाश्विकतसत्त्वं च सप्रम्वेदं समालभौ ॥ २ ॥ तानुवाच ततो रम्भा शृणुर्वशि वचो मम ॥ नेहासमोऽस्य नृपतेः
कार्यमल्पं भविष्यति ॥ ३ ॥ राजा सबलसहायोऽयं प्रविष्टो निशि काननम् ॥ प्रच्छन्ने शृणुवन्तावदस्य वाक्यानि नृपतेः ॥ ४ ॥
एवमस्त्वित्युवाचाथ रम्भां नागयणात्मजा ॥ मायाच्छन्नशरीरे ते ततश्चाययतंनृपम् ॥ ५ ॥ गजानं चारुसर्वाङ्गं प्रमृच्छ तु तदा मया ॥ गङ्गा
बहुमतो नित्यं गुणवांश्चातिधार्मिकः ॥ ६ ॥ मुवोवाच ॥ यतः प्रभृति राजेन्द्र त्रिविष्टादवतिम्हापातः ॥ ततः प्रभृति चालस्थ्यो मया दृष्टोऽसि
॥ ८४ ॥
मानद ॥७॥ तदस्वास्थ्यं कामकृतं ज्ञातवानस्मि ते नृप ॥ तन्ममाचक्ष्व ते गुह्यं न चेन्नरवरेात्तम ॥ ८ ॥ पुरूरवा उवाच ॥ तव गुह्यं न मे किञ्चि- त्कदाचिदपि विद्यते ॥ अस्वास्थ्यकारणं सौम्य तव वक्ष्याम्यात्मनः ॥ ९ ॥ नारायणसुता कान्ता रूपेणाप्रतिमा शुभा ॥ उर्वशीनामतः ख्याता मया दृष्टा वराप्सराः॥१०॥ यतः प्रभृति चार्व्वङ्गी ततः प्रभृति मे सखे ॥ कामेनालेाक्यते चित्तं न च शाम्यति मे तथा ॥ ११ ॥ न चोपायं प्रपश्यामि तस्या लाभे द्विजोत्तम ॥ देवतानामपि शुभा दुर्लभा सा वराङ्गना ॥ १२ ॥ एवं दुःखपरीतस्य सखे कालेा गतो मम ॥ उपभुक्ता मया स्वप्ने साथ चार्व्वसितेक्षणा ॥ १३ ॥ चन्द्रकान्तगृहे ह्यस्मिन्काममार्गणताडिता ॥ चन्द्रोदये चारुमुखी त्रैलोक्यैकसुन्दरी ॥ १४ ॥ विनोदनार्थं हि सखे मनसोऽति मनोहरम् ॥ चन्द्रोदये ततः प्राप्तं चन्द्रकान्तशिलागृहम् ॥ १५ ॥ तदेहि त्वरितं सौम्य प्रविश्य रुचिरं गृहम् ॥ विनोदयामि हृदयं मन्मथेन वशीकृतम् ॥ १६ ॥ सखेावाच ॥ यथा दृष्टं त्वया स्वप्ने तथाय भविता ध्रुवम् ॥ सापि कामपरीताङ्गी त्वामु- पैष्यति भामिनी ॥ १७ ॥ मार्कण्डेय उवाच ॥ एवमुक्ता विवेशाथ चन्द्रकान्तशिलागृहम् ॥ आसाञ्चक्रे तदा तस्मिन्मदनेन वशीकृतः ॥ १८ ॥ उर्व्वशी रम्भया सार्धं तच्छ्रुत्वा हर्षमागता ॥ आत्मानं दर्शयामास रम्भापि नृपतेस्तदा ॥ १९ ॥ जयेत्युक्त्वा महीनाथं रम्भा कामवशात्तदा ॥ बभूव पुरतस्तस्य शोभयन्तीव तद्गृहम् ॥ २० ॥ तामुवाच ततो राजा स्वागतं ते वरानने ॥ अलङ्कुरुष्व चार्व्वङ्गि रत्नमासनमिदं शुभम् ॥ २१ ॥ रत्नासनोपविष्टायां तदागमनविस्मितः ॥ तदा राजीववक्त्रांस्तामुवाच वराननाम् ॥२२॥ शक्रस्य नगरं रम्यं राजते नित्यशस्त्वया ॥ पौर्णमास्या यथा रात्रिः शशाङ्केनेव भामिनि ॥ २३ ॥ त्वं सभामण्डनं तस्य सचिच्छ्त्या त्वं च तुम्बुरोः ॥ त्वयाभिभूतास्सकलाः स्त्रियः सुप्ताः सुशो- भने ॥ २४ ॥ त्वयाभिभूताः सकलाः स्त्रियः स्वर्गे सुशोभने ॥ तव नेत्रसहस्रेण पश्यन्नपि तु पाकहा ॥ २५ ॥ सर्वत्र चारुसर्वाङ्गि न तृप्यति शुभानाने ॥ तन्ममाचक्ष्व सुभगे इहागमनकारणम् ॥ २६ ॥ रम्भोवाच ॥ शृणुष्वावहितो राजन्ममागमनकारणम् ॥ श्रुत्वा तच्च नरेन्द्रन्दु कुरुष्व वचनं मम ॥ २७ ॥ नारायणसुता देवी तत्र त्रैलोक्यसुन्दरी ॥ उर्वशी नाम चार्व्वङ्गी भूमिपाल सखी मम ॥ २८ ॥ सा त्वां दृष्ट्वा महेन्द्रस्य सदने काममोहिता ॥ न शर्म लभते बाला हाहिति वदती मुहुः ॥ २९ ॥ सा त्वद्धर्मेनंगेन मार्गणैर्भृशपीडिता ॥ लावण्य- शेषा संवृत्ता दिनैः कतिपयैः शुभा ॥ ३० ॥ क्षामक्षामकपोला सा त्वत्सन्समर्पितमानसा ॥ मदनेनाभितप्तांगी मानमुत्सृज्य भामिनी ॥ ३१ ॥ प्रस्थिता सा मया सार्द्धं तव दर्शनलालसा ॥ अन्तरा नारदेनोक्ता यत्र त्वं प्रस्थिता शुभे ॥ ३२ ॥ तत्र त्वया तु वक्तव्यं समयेन वरानने ॥
प्र० खं०
अ० १२४
मेषद्वयं तु पुत्रत्वे यत्त्वया परिकल्पितम् ॥ ३३ ॥ तत्तु ते शयनाभ्याशे स्थापयेत्तत्सततं यदि ॥ स राजा चारुसर्वाङ्गि नग्नो नैक्षेत भामिनि ॥ ३४ ॥
मैथुनं चाप्यकामा या नासौ ते कर्तुमर्हति ॥ घृताहारा तथा तत्र वस त्वं सुभगे सदा ॥ ३५ ॥ एकस्मिन्नप्यतिक्रान्ते समये यदि पार्थिवम् ॥ न
त्यक्ष्यसि तदा सौम्ये शिलाभूता भविष्यसि ॥ ३६ ॥ एतानि समयान्युक्त्वा नारदेन सखी ममा ॥ तानि त्वं प्रतिपद्यस्व भजस्व च शुभाननाम् ॥ ३७ ॥
पुरूरवा उवाच ॥ रम्भे तवाद्य वाक्येन अमृतेनेव भामिनि ॥ मृत्योर्वशमनुप्राप्तो जीवतोऽस्मि शुभानने ॥ ३८ ॥ ममापि तत्कृते रम्भे मदनः
शस्त्रवृष्टिभिः ॥ दुनोति हृदयं सुभ्रु दुर्वारो मदनोऽर्दितः ॥ ३९ ॥ सा त्वं जीवय मां शीघ्रं दर्शयस्व वराङ्गनाम् ॥ स्थास्यामि समये तस्मिन्नन्यस्मिन्मा
वत्स्यसे शुभे ॥ ४० ॥ कृतं ते समयं विद्धि नारदेन यदीरितम् ॥ अनाक्रन्दे निमग्नस्य मम काममहोदधौ ॥ ४१ ॥ प्लवो भव विशालाक्षि प्राणदा भव
सुन्दरि ॥ मार्कण्डेय उवाच ॥ एवमुक्ता नरेन्द्रेण रम्भा चान्तर्दधे तदा ॥ ४२ ॥ उर्वशीसहिता चाथ दर्शयामास सा नृपम् ॥ जयेत्युक्त्वा नरेन्द्रं तु
तदा नारायणात्मजा ॥ ४३ ॥ व्रीडिता पुरतस्तस्थौ तस्य राज्ञो महात्मनः ॥ तां दृष्ट्वा प्रीतिमापाप स नरेन्द्रो महाद्युतिः ॥ ४४ ॥ पुलकाङ्कित
सर्वाङ्गो वर्णितुं सा न शक्यते ॥ पाणावादाय नृपस्तामुत्सङ्गे चोपवेशयत् ॥ ४५ ॥ रत्नासनं तथा भेजे रम्भापि सुमनोहरम् ॥ ततश्चोवाच
वचनं राजा मुदितमानसः ॥ ४६ ॥ पुरूरवा उवाच ॥ कामदेवः प्रसन्नोऽद्य ममोपरि वरानने ॥ अद्य वेद्म्यर्थिचकं सुभ्रुः शक्रादात्मानमात्मना ॥ ४७ ॥
त्रैलोक्यराज्यलाभेऽपि कुतः सा मे शुभे रतिः ॥ आज्ञाकारित्वमासाद्य या तवाद्य सुलोचने ॥ ४८ ॥ मार्कण्डेय उवाच ॥ एवं वदति भूपाले ययौ
रम्भावरानना ॥ क्षणेन मेषसहिता पुनः प्राप्ता नृपान्तिकम् ॥ ४९ ॥ मेषौ दत्त्वा नरेन्द्रस्य राजानं वाक्यमब्रवीत् ॥ रम्भोवाच ॥ यास्यामि
लङ्कां राजेन्द्र तत्र प्राणेश्वरो मम ॥ ५० ॥ मत्प्रतीक्षः स्थितः श्रीमान्धनदस्यात्मसंभवः ॥ नलकूबरनामासौ त्रैलोक्यविदितः प्रभो ॥ ५१ ॥ यथा
चेयं सखी मह्यं नोत्कण्ठां कुरुते शुभा ॥ सर्वालयनस्य स्वर्गस्य तथा कार्यं त्वयानघ ॥ ५२ ॥ पुरूरवा उवाच ॥ यतिष्येऽहं तथा कर्तुं निर्वृता
भव मानदे ॥ रत्नान्येतान्युपादाय निर्गच्छस्व यथासुखम् ॥ ५३ ॥ मार्कण्डेय उवाच ॥ एवमुक्ता ततो रम्भा नृपतेः प्रीतिकाङ्क्षणात् ॥ रत्नान्यु-
पादाय ययौ खेन लङ्कां महापुरीम् ॥ ५४ ॥ लब्ध्वोर्वशीं नरेन्द्रोऽपि रेमे स सहितस्तया ॥ यथा शच्या सुरगिरौ बलवान्पाकशासनः ॥ ५५ ॥
संत्यक्तभारः स तु मन्त्रिसमुख्यै रेमे तथा यादवसिंहमुख्य ॥ लक्ष्म्या समेतो भगवाननन्तो यथा स देवो भुवनस्य गोप्ता ॥ ५६ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उर्वशीपुरूरवःसमागमो नाम चतुर्विंशत्यधिकशततमोऽध्यायः ॥ १२४ ॥ मार्कण्डेय उवाच ॥
॥ ८५ ॥
प्रासादेषु विचित्रेषु तथा मणिगृहेषु च ॥ पुष्पवेश्मसु रम्येषु तथा वस्त्रगृहेषु च ॥ १ ॥ रत्नवेश्मसु मुख्येषु तथा चित्रगृहेषु च ॥ पर्वतानां च दुर्गेषु नदीनां पुलिनेषु च ॥ २ ॥ पद्मिनीषु च फुल्लासु तथा चोत्पलिनीषु च ॥ शय्यासु च परार्ध्यासु पुष्पशय्यासु चाप्यथ ॥ ३ ॥ रमयामास तां देवीं तथा विरचितेषु च ॥ गृहेषु बहुरत्नेषु धूपोद्गारिषु पार्थिव ॥४॥ रेमे स तु तया सार्धं मानसेषु पुनःपुनः ॥ रमयन्तीं वरारोहां न तृप्यति स नित्यशः ॥ ५ ॥ निशासु च सचन्द्रासु चन्द्रकान्ततरं मुखम् ॥ पपौ तस्या यथाकामं नरेन्द्रः स नराधिपः॥६॥ निशासु नचचन्द्रासु तन्मुखेवै द्योतितम्प्रभे ॥ देशे तां रमयामास राजा राजीवलोचनः ॥७॥वर्धयन्ती नरेन्द्रस्य सा तु कामं दिने दिने ॥ अदृष्टपूर्व्व शुभा भवत्यायतलोचना ॥८॥ राज्ञो दृष्ट सा दयिता तस्याश्च द्विगुणो नृपः ॥ तयाऽसौ प्रीयते राजा तेन सापि वराङ्गना ॥ ९ ॥ वरचन्दनदिग्धाङ्गी नानाभरणभूषितो ॥ रेमाते दम्पती हृष्टौ नानारत्नावभूषितौ ॥ १० ॥ अलङ्करोति तां राजा स्वयमेव कदाचन ॥ तयाऽलङ्कियमाणश्च प्रीतिमाप्नोत्यनुत्तमाम् ॥ ११ ॥ वरेषु तौ विचित्रेषु रेमाते मुदितौ भृशम् ॥ केशान्संशोभयन्तौ तौ कुसुमैस्तु परस्परम् ॥ १२ ॥ उर्वश्यभ्युदितं पुष्पं तथा च ग्रथितं पुनः ॥ धारयामास शिरसा प्रेम्णा पार्थिवसत्तमः ॥ १३॥ पत्रच्छेदेन यौश्चक्रे तिलकान्स नराधिपः ॥ ताँश्च सा धारयामास ललाटे चारुहासिनी ॥ १४॥ एवं संक्रीडतो राज्ञस्तया सह सुमध्यया ॥ वभूवुस्तनयाः पञ्च नामतस्तान्निबोध मे ॥ १५ ॥ आयुर्ज्येष्ठस्ततो धीमांस्तस्यान्यस्त्वननामयः ॥ अयुंरायुस्तथा चोऽपृच्छताञ्जुश्चैव पञ्चमः ॥ १६ ॥ एवं तस्याः प्रसूता वै याति काले मनोहरे ॥ १७ ॥ गन्धर्व्वमुख्यास्तु तदा समेता तया विहीना भृशमुत्सुकास्ते ॥ तदागमार्थाय सुरेन्द्रलोके मन्त्रं तदा चक्रुरदीनसत्त्वाः ॥ १८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे उर्वशीसम्भोगवर्णनो नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३४ ॥ मार्कण्डेय उवाच ॥ उर्वश्यागमने यत्नं चक्रुस्ते मन्त्रमुत्तमम् ॥ गन्धर्व्वस्तूरसेनोऽस्यास्तदा मन्त्रमभाषत ॥ १ ॥ उग्रसेन उवाच ॥ समयैर्व्यस्थिता तस्मिन्नुर्वशी चारुरूपणा ॥ व्युत्क्रान्तसमयं सा तु राजानं त्यक्ष्यते च तम् ॥ २ ॥ तमहं वेद्मि समयं तत्र यास्यामि चानघ ॥ युष्मत्कार्यं करिष्यामि सहाहायो न संशयः ॥ ३ ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा ययौ तत्र यत्रासौ नृपतिः स्थितः ॥ रात्रौ जहार मेषं च मायया स नराधिप ॥ ४ ॥ मेषे ज्ञात्वा हतं देवी राजानमिदमब्रवीत् ॥ मेषो हतो महीपाल केनाप्यद्या सुतो मम ॥ ५ ॥ द्वितीयश्च हतो राजँस्तमानय सुतं मम ॥ एवमुक्तास्तया राजा नग्न एवाथ संभ्रमात् ॥ ६ ॥
^१ 'अयुरायुस्तथार्थोऽभूत्' इति ख० ।
वि० ध० ॥ ८६ ॥
प्र० खं० अ० ३९
उत्थानमन्वेषणं चक्रे मेषयोः पुरूषर्षभ ॥ अथापश्यत सा नग्नं राजानमसितेक्षणा ॥ ७ ॥ संस्मृत्य नाश्वत्थस्तिरेभूता बभूव सा ॥ गन्धर्वाणां ययौ सापि समीपं दुःखिता तदा ॥ ८ ॥ स्वर्गं प्राप्य विशालाक्षी नित्यं नृपपरायणा ॥ काममुन्नशरीरापि कालं नयति सुन्दरी ॥ ९ ॥ ऋषिशापभयाद्भीता मदनेन वशीकृता ॥ नित्यमास वरारोहा निःश्वासपरमा सती ॥ १० ॥ अप्राप्य मेषयुगलं विनिवृत्तो नराधिपः ॥ नापश्यच्छयने देवीं सस्मार समयं तदा ॥ ११ ॥ विदित्वा त्यक्तमात्मानं स्मृत्वा समयमात्मनः ॥ कामबाणाहितो राजा तथापि विजने वने ॥ १२ ॥ तां मार्गति वरारोहामुन्मत्त इव सर्वतः ॥ एकाकी विजने राजा प्रियया रहितस्तदा ॥ १३ ॥ विललाप महासत्त्वः कुसुत्त्व इव कश्चन ॥ पुरूरवा उवाच ॥ क्व गतासि विशालाक्षि विहाय विजनेत्र माम् ॥ १४ ॥ कथं प्रवेक्ष्यामि पुरं प्रतिष्ठानं विना त्वया ॥ प्राणास्त्यक्त्वा गमिष्यन्ति शरीरं मम सुन्दरी ॥ १५ ॥ अनुगन्तुं शरीरेण न शक्नोमि वरानने ॥ त्वं हि मे चपलापाङ्गि प्राणेभ्योऽपि गरीयसी ॥ १६ ॥ त्वया त्यक्तो ध्रुवं प्राणोन्स्य- क्ष्यामि वरवर्णिनि ॥ क्वासि क्वाहं गमिष्यामि किं करोमि ब्रजामि काम् ॥ १७ ॥ शरणं कामतप्तस्य मे संदर्शयतिप्रियाम् ॥ कं स्विच्छामि विजने कस्य सा विदिता भवेत् ॥ १८ ॥ क्षेमो वा मम कस्य स्यात्मे मे संदर्शयतिप्रियाम् ॥ प्रियाविरहितस्यैष निशाशेषो गतो मम ॥ १९ ॥ अन्तर्द्धानं गतातारा यथा देवी ममोर्वशी ॥ देवोऽरुणकरस्पर्शच्छोभां त्यजति चन्द्रमाः ॥ २० ॥ निशाक्षये शामवपुर्यथाहं तद्विनाकृतः ॥ एषा ह्यावर्त्तते पूर्वा सन्ध्या स्नात्वा द्विजातयः ॥ २१ ॥ नूनं नियमसंयुक्तास्तिष्ठन्ति विजिते- न्द्रियाः ॥ अयं ह्युदयमायाति सविता रक्तमण्डलः ॥ २२ ॥ सर्वसत्त्वसमो देवः सर्वेषां पापनाशनः ॥ उदितश्चाप्ययं सूर्यो विभाति विमले- म्बरे ॥ २३ ॥ एकं फुल्लं महापद्मं सरसीवामले यथा ॥ उदितं भास्करं ज्ञात्वा नलिनी पद्मलोचना ॥ २४ ॥ उन्मील्यालोकते सर्वं विना तेन निमीलिता ॥ तीक्ष्णारुः संप्रवृत्तोऽयं दिवसः कामवर्धनः ॥ २५ ॥ नैदाघो मां विशेषेण सन्तापयति तां विना ॥ कं पृच्छामि वरारोहां संतप्तकनकप्रभाम् ॥ २६ ॥ दृष्ट्वा मयेति सा देवी को मां वक्ष्यति कानने ॥ करीन्दूस्त्वमवम्येति तत्कुचाभौ समुद्वहन् ॥ २७ ॥ कुम्भौ कठोरौ सुमुखं पृच्छाम्येतं मतङ्गजम् ॥ त्वद्दन्तयुगलम्लव्यं यद्रुरुयुगलं ह्यभूत् ॥ २८ ॥ गतां तां यदि जानीषे कथयस्व ममोर्वशीम् ॥ एष हस्ती गतन्नासात्सिंहस्यास्य महात्मनः ॥ २९॥ अहञ्चैवोत्तरं मह्यं सिंह पृच्छाम्यहं वने ॥ मध्वस्त्वमृपमस्तस्याः क्व सा सम्प्रति केसरिन् ॥ ३० ॥ उर्वशी दयिता मह्यं यदि जानासि कथ्यताम् ॥ अदत्त्वैवोत्तरं सिंहः कथमद्य गतो मम ॥ ३१ ॥ दृष्ट्वा कथय हे बिम्ब देवीं बिम्बफलाधराम् ॥
॥ ८६ ॥
अनेनापि न चाख्याता पृष्टेन सुदती मम ॥ ३२ ॥ मयूर यदि जानीषे बालां बालमृगेक्षणाम् ॥ उर्वशीं कथयस्वाद्य क्व प्रिया मम वर्तते ॥ ३३ ॥ अन्तःशरीरं कामाग्निर्निर्दहति भास्करः ॥ तापात्तौ निःश्वसन्त्येते सिंहा गिरिगुहागताः ॥ ३४ ॥ निरस्तजिह्वाः संस्तप्ता विवृतास्या मुहुर्मुहुः ॥ यूथानि महिषाणां च शेरते नन्दिनीजले ॥ ३५ ॥ सूर्योद्धृतजलस्वेन्वे पङ्कशेषा सु शेरते ॥ गगनं चातकश्चायं तृष्णार्तो लोकते मुहुः ॥ ३६ ॥ स भृशं तोयपानार्थी उर्वशीयथ तथा त्वहम् ॥ यान्त्येते पद्मिनी खण्डाञ्कुञ्जरास्तापकर्पिताः ॥ ३७ ॥ सुहस्तमुत्क्षिप्तैश्च जलैः सिञ्चन्त्यात्मानमात्मना ॥ महाद्रुमाणां स्कन्धेषु विषण्णाश्चापरे गजाः ॥ ३८ ॥ तापं नयन्ति मध्याह्ने मुञ्चन्तः शीकरं मुहुः ॥ शाखापर्णान्तराण्यन्ते विहगास्तापतापिताः ॥ ३९ ॥ विशन्ति चैव त्राणार्थं मध्याह्नसमये भृशम् ॥ द्रुमशाखावगता ह्येते विहगानां च बालकाः ॥ ४० ॥ रक्तान्तचक्राः सुभृशं विशन्तीह मुहुर्मुहुः ॥ त्यक्ताहारक्रियाश्चैते मृगयूथा महावने ॥ ४१ ॥ द्रुमच्छायासु तिष्ठन्ति रोमन्थं कुर्व्वते मुहुः ॥ अवेक्ष्यमाणो दयितां भ्रातोऽस्मि विजये भृशम् ॥ ४२ ॥ छायायां विश्रमिक्ष्यामि शिरीषस्यास्य साम्प्रतम् ॥ तद्व्यात्तसुकुमाराणि पुष्पवाण्यस्य वनस्पतेः ॥ ४३ ॥ शिरीषवृक्षो रच्योऽयं मनोदृष्ट्यानन्दनः॥ किन्नु मां पीडयत्येष शिरीषस्तद्दिनाकृतम् ॥ ४४ ॥ सूर्य्यश्चास्तमुपायाति क्व गमिष्यामि शर्बरीम् ॥ अस्तं यातः सहस्रांशुर्निशा प्राप्ता सुदारुणा ॥४५॥ रात्रिमेनां विवत्स्यामि न्यग्रोधेऽस्मिन्महाद्रुमे ॥ उर्वश्या ऋद्धिरचिते वरवेश्मनि पार्थिवः ॥ ४६ ॥ स क्रीडति तया सार्धं सर्वकामैः सुपूजितः ॥ नूनं मां स जनो वेत्ति प्रतिष्ठानपुरे तु मे ॥ ४७ ॥ एतामवस्थ्यां कश्चिन्न न विजानाति साम्प्रतम् ॥ पौरो जन पदः कश्चिज्जनो मे दयितः सदा ॥ ४८ ॥ निद्रे भजस्व मांन्नेवं ध्रुवं स्वम्रे वराननाम् ॥ तां तु प्राप्स्याम्यहं सौम्यां मनसः प्रीति वर्धिनीम् ॥ ४९ ॥ कथमभ्युत्थितस्कन्धः पीडां जनयते मम ॥ तद्विक्रोविजितः पूर्वं विक्रोरत्यधुना मयि ॥ ५० ॥ तुद चन्द्र यथाकामं मम देहं विनाकृतम् ॥ त्वया तु नाथं संप्राप्य सापत्न्यं मम दर्शय ॥ ५१ ॥ हा हतोऽस्मि विनष्टोऽस्मि उर्वश्या रहितो वने ॥ चन्द्र पौत्रे कुरु दयां दर्शयस्व मम प्रियाम् ॥ ५२ ॥ शशाङ्क देव शीतांशो नृणां दृष्टिमनोहर ॥ आक्रन्दामि तवाद्याहं दर्शयस्व प्रियां मम ॥ ५३ ॥ अतत्त दर्शनस्यैव सा गता सुन्दरी मम ॥ अन्तर्धानं विशालाक्षी तां दर्शय ममोर्वशीम् ॥५४ ॥ कदाऽधररसं तस्याः पास्याम्यमृतसन्निभम् ॥ कदा दृक्ष्यास्म तां भूयः कमलोदरसन्निभाम् ॥५५॥ मृणालबाहुयुगलां पद्मवक्त्रां कदा प्रियाम् ॥ नीलोत्पलपलाशाक्षीमालिङ्ग्य तापं त्यक्ष्याम्यनङ्गजाम्॥५६॥
| प्र० खं० |
|---|
| अ० १३६ |
| १० ध० |
|---|
| ॥ ८७ ॥ |
अनङ्गशरत्रस्तस्य बाले भव गतिर्मम ॥ दर्शस्व दर्शनं सुभ्रूः का ममान्या गतिर्भवेत् ॥ ५७ ॥ काममोहेनगृहीतस्य त्वमेवाभूरुगार्तिभम् ॥ भूयस्त्वमेव
सुभगे गतिर्भव ममानघे ॥ ५८ ॥ एषा विरहिता रात्रिर्मम वर्षशतोपमा ॥ अन्वेष्टुं क्व गमिष्यामि निर्घृणां तां ममोपरि ॥ ५९ ॥ यस्याः कोप
न जानामि स्वप्नेऽपि वरवर्णिनि ॥ दैवेनोपहतास्त्याध्वा त्यक्ता सा सुभगा गता ॥ ६० ॥ मार्कण्डेय उवाच ॥ एवं स विलपञ्राजा त्यक्ताहारः
परिश्रमन् ॥ आससाद कुरुक्षेत्रं द्वादशाहेन पार्थिव ॥ ६१ ॥ पुष्करिण्यास्तटपृष्ठे पुष्करै रूपशोभिते ॥ निपसाद तदा श्रान्तः क्षुत्पिपासासमन्वितः ॥
विललाप स तत्रापि मदनेन वशीकृतः ॥ ६२ ॥ कदा नु तच्चन्द्रमसोऽनुकान्ति मुखं स्मितं चारुविलोचनायाः ॥ उद्दाम्य पश्याभ्यथचं
तृषातौं वारीव पान्थः पथि कृच्छ्रलभ्यम् ॥ ६३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरवःप्रलापवर्णनो नाम पञ्चात्रिंशदु
त्तरशततमोऽध्यायः ॥ १३५ ॥ मार्कण्डेय उवाच ॥ उर्वश्यापि वरारोहा मदनेनाभिपीडिता ॥ जगाद नारदस्त्याथ स्वामवस्थां नृपं विना ॥ १ ॥
तत्ततां नारदः प्राह सुभगे गच्छ पार्थिवम् ॥ तस्याप्यवस्था महती त्वद्विहीनस्य सुन्दरी ॥ २ ॥ एकां रात्रिं नरेन्द्रण सहायं वरवर्णिनि ॥
स्वर्गलोगात्पुपागच्छ श्रेयः प्राप्स्यसि वै ततः ॥ ३ ॥ नारदेनैवमुक्ता सा सर्वाभिर्बहुभिर्वृता ॥ पुष्करिण्यास्तटपृष्ठे यत्रौ स्नातुं वरानना ॥ ४ ॥
एतस्मिन्नेव काले तु निद्रयोपहतो नृपः ॥ अप्सरोभिश्चसंभ्रातस्तत्र सुप्वाप पार्थिव ॥ ५ ॥ अद्य यास्यामि राजानमिति दृष्ट्वा तदोर्वशी ॥ क्रीडन्त्य
जले तस्मिन्सखीगणवृता तदा ॥ ६ ॥ त्यक्तनिद्रो नरेन्द्रोऽपि विललाप चिरं पुनः ॥ शुश्राव विलपन्तं सा सखीभिः सहिता नृपम् ॥ ७ ॥
दर्शयामास चात्मानं पार्थिवस्य शुभा ततः ॥ उवाच च वरारोहा नारदोक्तमशेषतः ॥ ८ ॥ तत्रैवेवावस तां रात्रिं सह तेन वरानना ॥ गत्रिंक्षये
विसृष्टं सा राजानं वाक्यमब्रवीत् ॥ ९ ॥ उर्वशीयुवाच ॥ आराधयस्व गन्धर्वांन्मोहं त्यक्त्वा नरेश्वर ॥ तेषां प्रार्थय मां सौम्य ततः प्राप्स्यसि मा
चिरम् ॥ १० ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा ययौ स्वर्गं राजा तत्रैव पार्थिव ॥ स विपुले चक्रे तद्गतेनैव चेतसा ॥ ११ ॥ अथ संवत्सरे पूर्णे
सूर्योदयनं प्रति ॥ नारदं पुरतः कृत्वा गन्धर्वा दर्शने ददुः ॥ १२ ॥ गन्धर्वा ऊचुः ॥ वरं वरय राजेन्द्र यदिच्छसि महाभुज ॥ वयं हि तव
दास्यामः सर्व एवामरप्रभाः ॥ १३ ॥ पुरूरवा उवाच ॥ भवन्तश्चेत्प्रसन्ना मे यदि मे रोचते वरम् ॥ उर्वशी सह चार्वाङ्गीं भर्वाद्धर्मम् दीयतामम ॥ १४ ॥
गन्धर्वा ऊचुः ॥ स्थालीं पूर्णीममां राजन्गृहाणामितविक्रमै ॥ अस्मादग्निं त्रिधा कृत्वा यजस्व विगतज्वरः ॥ १५ ॥ वेदोक्तेन विधानेन गन्धर्वत्व
मवाप्स्यसि ॥ त्रेताभिपूर्वस्य विधेरस्मिन्मन्वन्तरे भवान् ॥ १६ ॥ भविता दर्शता लोकंगुरुश्च जगतोपतिः ॥ गन्धर्वत्वमवाप्याथ राजन्प्राप्स्यस्यथो