भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 212, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 212

वि० ध० ॥ ८२ ॥

प्र० खं० अ० १३०

युङ्नन्दन ॥ २ ॥ विष्णोरंशौ महावीर्यौ तपस्यभिरतौ सदा ॥ तयोस्तदाश्रमं रम्यं मृगैर्निचितपद्रुमम् ॥ ३ ॥ वदर्याश्रममित्युक्तं मृदुस्पर्शहिमं शुभम् ॥ उष्णतोयवहा गङ्गा शीतोतोयवहा परा ॥ ४ ॥ सुवर्णसिकता रम्या काञ्चनोत्पलमालिनी ॥ तत्र सा बदरी रम्या नित्यपुष्पफलोपगा ॥ ५ ॥ तत्र तौ मुनिशार्दूलौ घोरं तप उपाश्रितौ ॥ भवाय सर्वलोकस्य सर्वलोकेश्वरावुभौ ॥ ६ ॥ तयोस्तप- स्यतोरेवं मौनेयाप्सरसो दश ॥ तयोस्तु तपसो विघ्नं संभूय कृतनिश्चयाः ॥ ७ ॥ तं प्रदेशमनुप्राप्ता नानाभरणभूषणाः ॥ पितामहान् सौम्योऽस्ति कश्चिद्राजन्नृषिश्च ॥ ८ ॥ तासां दर्शनमासाद्य नरः कामवशो भवेत् ॥ कुसुमानि विचिन्वत्यो ललन्त्यश्च यथासुखम् ॥ ९ ॥ दृष्ट्वा नारायणोनाथ सर्वा बालमृगेक्षणाः ॥ तासामन्तर्गतं भावं ज्ञात्वा वेदविदां वरः ॥ १० ॥ जितक्रोधो महातेजा जितकामोऽधर्म्मवित् ॥ आदाय सहकारस्य रसं मदनदीपनम् ॥ ११ ॥ ऊर्वाविचूर्ण्य चार्व्वङ्गीं निर्ममेऽप्सरसं शुभाम् ॥ ऊर्व्वाः कृता सा चित्रेण चित्राकरणशालिनी ॥१२॥ तस्मिन्नेव क्षणे नारी बभूवायतलोचना ॥ न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥ १३॥ तादृग्विधा त्रिलोकेऽस्मिन्द्यादृशी सा वराङ्गना ॥ तां दृष्ट्वा व्रीडितास्सर्वा मौनेयाप्सरसो दश ॥ १४॥ जगमुर्यथागतं राजंस्तच्चुश्राव पुरन्दरः॥ दृष्ट्वा कौतूहलतां च बदर्याश्रममागतः ॥ १५ ॥ पादयोन्पतदृङ्क्षी साध्योधर्मनित्यशः ॥ ददर्श च शुभाङ्गोनीं तां श्रियं देवीमिवापराम ॥ १६ ॥ तमुवाच हसन्साक्ष्यत्तदा नारायणः प्रभुः ॥ ममोरुजाता धर्मज्ञ उर्वशीयं भवेदिति ॥ १७ ॥ नयस्व त्रिदिवं चैनां भवतस्त्वग्रगा शुभा ॥ एवमुक्तो मुदं प्राप्य अभिवाद्य च तावृषी ॥ १८ ॥ अनयत्तां ततः स्वर्गं देवीं बालमृगेक्षणाम् ॥ शिष्यत्वे प्रददौ तांनो गन्धर्व्वस्य न तुम्बुरोः ॥ १९॥ ततः कदाचिच्छक्रस्य ननर्त्त पुरतस्तु सा ॥ उपदेशमतिक्रम्य तुम्बरोश्चाग्रहासिनी ॥२०॥ तां शशाप स गन्धर्व्वो मानुष्ये वत्स्यसे भुवि ॥ देवी कमिमं त्यक्ता मानुषेण सहानेवं ॥ २१ ॥ कश्चित्कालमुपात्येवं मानुषं तं शुचिस्मिते ॥ अगम्य त्रिदिवं तावत्तस्माद्भवस्यसवे ततः ॥ २२ ॥ तेनैव सार्धं त्रिदिवे रंस्यसे त्वं शुभा नना ॥ वैवस्वतास्यास्य मनोरैषीवन्तरसुच्यते ॥ २३ ॥ एवं हि शप्ता नृपवर्य तेन पपात राजन्युरुणा नृलोके ॥ उवास राज्ञा सहिता तु तस्मात्सर्व्व समाप्ताश्च तथैव तेन ॥ २४ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयव- ज्रसंवादे उर्वशीसम्भवो नामैकोनत्रिंशदधिकशततमोऽध्यायः ॥ १२९ ॥ ॥ छ ॥ ॥ छ ॥ ॥ छ ॥ ॥ छ ॥ [वज्र उवाच ॥] नाकं त्यक्त्वाोर्वशी ब्रह्मन्नृधनं कथं गता ॥ क च सा तं नरेन्द्रं दृष्टवत्यपराजितम् ॥ १ ॥ मार्कण्डेय उवाच मनो

॥ ८२ ॥