भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वेशीम् ॥ १७ ॥ मन्वन्तरमिमं सर्वं रन्ता च त्वं तया सह ॥ मन्वन्तरे गते राजन्नुर्वश्या सहितो भवान् ॥ १८ ॥ प्रवेक्ष्यति निशानार्थं सोमं शीतांशुमुज्ज्वलम् ॥ आचारं सर्वलोकस्य पितृणां स्थानमुत्तमम् ॥ १९ ॥ मार्कण्डेय उवाच ॥ अग्निस्थालीं नृपे दत्वा गन्धर्वास्त्रीन्दिवं ययुः ॥ अथाऽऽजगाम तं देशं बालमादाय चोर्वशी ॥ २० ॥ ऊर्ध्वमुवाच ॥ तस्मिन्समागमे सौम्य जातोऽयं तनयः प्रभो ॥ तमादाय प्रतिष्ठां व्रज पार्थिव मा चिरम् ॥ २१ ॥ कृतं नामास्य गन्धर्वैराधायुरिति भूमिप ॥ मार्कण्डेय उवाच ॥ एवं दत्त्वा नृपे बालं सा प्रयाता त्रिविष्टपम् ॥ २२ ॥ एकाकी चिन्तयामास बुधपुत्रोऽप्यनन्तरम् ॥ किन्तु बालमुपादाय गमिष्यामि पुरं स्वकम् ॥ २३ ॥ अथादाय गमिष्यामि स्थलीमेतां विभावसोः ॥ श्वापदेभ्यो भयं घोरं बालस्येह भविष्यति ॥ २४ ॥ मया विहीनस्य भयं नास्ति किंचिद्विभावसोः ॥ एवं स निश्चयं कृत्वा बालमादाय सत्वरः ॥ २५ ॥ जगाम स्वपुरं हृष्टः ससैन्याश्वमृगानुगः ॥ स्थालीं ददर्श हीनां तु दृष्ट्वा मोहमुपागतः ॥ २६ ॥ त्रिदिवादित्य गन्धर्वा मूढं पार्थिवसत्तमम् ॥ उत्थापयित्वा वचनमूचुस्तिष्ठत्विह दक्षिणः ॥ २७ ॥ राजन्नग्निश्च शमीमार्गेण प्रविष्टः स हुताशनः ॥ अश्वत्थादरणीं कृत्वा जनयस्व हुताशनम् ॥ २८ ॥ क्रियाः कृत्वा तु तं वीर यजस्व विधिवत्तदा ॥ तमिष्ट्वा प्राप्स्यसे वीर गन्धर्वत्वमसंशयम् ॥ २९ ॥ त्रेताग्निं ते नरेन्द्रह होष्यन्ति सततं द्विजाः ॥ सप्तवर्षाणि तेऽन्ते यास्यत्यस्मात्सलोकताम् ॥ ३० ॥ त्रयोऽग्नयश्चौपसदास्तव राजन्प्रकीर्तिताः ॥ अग्निराहवनीयस्तु वासुदेवो नराधिप ॥ ३१ ॥ दक्षिणाग्निरस्तथा ज्ञेयो नित्यं संकर्षणो बुधैः ॥ तथा च गार्हपत्योऽग्निः प्रद्युम्नः परिपठ्यते ॥ ३२ ॥ तथैवापसदो राजन्ननिरुद्धः प्रकीर्तितः ॥ तस्मादेव वरो विष्णुरमृतात्मा नराधिप ॥ ३३ ॥ फलमिष्टन्त्वनारतो गन्धर्वत्वं प्रयच्छति ॥ कामं विनाग्निहोत्रेण हुतो राजञ्जनार्दनः ॥ ३४ ॥ प्रयच्छति परं स्थानममृतं शाश्वतं ध्रुवम् ॥ अग्निहोत्रादृते राजन्गन्धर्वत्वं न विद्यते ॥ ३५ ॥ सुहुतेनाग्निहोत्रेण प्राप्यते संशयं विना ॥ एवमुक्ता ययुः सर्वे गन्धर्वास्त्रिदिवं ततः ॥ ३६ ॥ राजाप्यरणिमादाय शमीगर्भामवेक्ष्य च ॥ ततः प्रसूति राजेन्द्र शमीगर्भाद्धुताशनम् ॥ जनयन्ति द्विजश्रेष्ठास्तत्र सन्निहितस्त्वसौ ॥ ३७ ॥ एकोऽग्निरभवत्पूर्वं वैवस्वतस्यास्य तथान्तरस्मिन् ॥ त्रिधाकृतस्तेन महानुभावसंयं त्रिविधैः ऋतुशतान्विज्ञैः ॥ ३८ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रेतायुगुत्पत्तिर्नाम पञ्चदशोत्तरशततमोऽध्यायः ॥ ११५ ॥

मार्कण्डेय उवाच ॥ ततः स स्वपुरं प्राप्य चातुर्योपासनतत्परः ॥ ईजे बहुविधैर्यज्ञैः प्रजा धर्मेण पालयन् ॥ १ ॥ अश्वमेधशतैरित्वा वाजपेयैः सहस्रशः ॥ अग्निष्टोमैश्चातिरात्रैर्वादशाहैः पुनः पुनः ॥ २ ॥ सप्तद्वीपसमुद्रायां पृथिव्यामभवद्राट् बभौ ॥ अमात्यैर्नृपवृतः सर्वैः म

वि० ध० ॥ ८८ ॥

प्र० खं० अ० ३७

विजये महीतलम् ॥ ३ ॥ दुर्भिक्षं मरणं व्याधिर्नाभवत्कस्यचित्क्वचित् ॥ सर्वो धर्मपरो लोकः सर्व एव सुखी जनः ॥ ४ ॥ सर्वे चैव समृद्धाssस्तस्मिञ्जनपदेश्वरे ॥ नासीत्पुत्रवधार्हाणां वधस्तस्मिन्मृषा तदा ॥ ५ ॥ सर्वभूतानि राजानं भावेनोपगतान्यतन्। तम् ॥ सर्वस्य च जनन्यासीत्स राजा पितुस्तन्निभः ॥६॥ दृष्ट्वा तं भूपतिं स्वप्ने प्रसीदन्ति जनास्तदा ॥ यदा निर्यात्यसौ राजा चतुरङ्गबलान्वितः ॥७॥ गृहचर्यारता नार्यस्तदा पश्यन्ति तं सदा ॥ पुष्पैश्चन्दनचूर्णैश्च तथैव विकिरन्ति तम् ॥ ८ ॥ उर्वशी कृतपुण्या सा देवी नारायणात्मजा ॥ यथा क्रीडितमस्याङ्के वदन्त्येवं च योषितः ॥ ९ ॥ अयमायात्यसौ राजा यदा शृण्वन्ति योषितः ॥ गृहकार्याण्यपि त्यक्त्वा तदा यान्ति गवाक्षकम् ॥ १० ॥ अक्ष्णाणि शास्त्राणीव बहुचन्द्राणि योषिताम् ॥ मुखै रजन्ति वेश्मनि निर्याते पृथिवीश्वरे ॥ ११ ॥ या न पश्यति तं यान्तं सा तं ज्ञात्वा तिरोहितम् ॥ मुषितं चैव चाऽऽत्मानं वेत्ति निन्दति सा भृशम् ॥ १२ ॥ या च पश्यति तं यान्तं कन्दर्पसदृशं नृपम् ॥ तद्गतेन हृदा सापि शून्या तिष्ठति वेश्मनि ॥ १३ ॥ यदा यजति यज्ञैश्च तदा शून्या वसुन्धरा ॥ सर्वा भवति राजानं तदा गच्छति वै जनः प्रती ॥ १४ ॥ यश्च याति जनस्तस्य यज्ञे राज्ञो महात्मनः ॥ किमिच्छकैस्तदा राजा सर्वैः संपूज्यते तदा ॥ १५ ॥ सभासंस्थस्य वै राज्ञः प्रती हारो दिने दिने ॥ उद्घोषयति कार्यार्थी तस्य राज्ये कथंचन ॥ १६ ॥ इत्येवं शासतो राज्यं गतः कालो महीपतेः ॥ न कश्चिद्विद्धिजानाह दर्शयध्वं ममोर्वशीम् ॥ १७ ॥ द्रक्ष्यसे तां स्वयं राजन वयं दर्शयामहे ॥ ततस्तेषां धने लोभं चक्रे कामनिपीडितः ॥ १८ ॥ ह्रियमाणे धने विप्रैः शतैः पञ्चत्वमागतः ॥ जीवितश्चापरैर्विप्रैस्तोरणैर्धर्मपातिः ॥ १९ ॥ आत्मानं गर्हयित्वाऽसौ लब्धसंज्ञो महीपतिः ॥ आयुं गन्धर्वडमियि चैव प्रतिष्ठानपुरे स्वके ॥ २० ॥ संनिवेश्यात्ततो राजा ययौ नारायणाश्रमम् ॥ तस्याश्रमे तपश्चक्रे राजा संवत्सरत्रयम् ॥ २१ ॥ ततो नारायणः प्राह तं नृपं तपसि स्थितम् ॥ अद्य प्राप्स्यसि तां राजन्युक्ते परित्यजे ॥ २२ ॥ सशरीरोऽथ गन्तासि त्रिविष्टपं गजसत्तम ॥ २४ ॥ विमाना वदति विमानं प्रत्यदृश्यत ॥ २३ ॥ उर्वश्याधिष्ठितं रम्यं गन्धर्वैश्च सहस्रशः ॥ यस्मिन्युक्तं तुरङ्गाणां सहस्रं चन्द्रवर्चसाम् ॥ २४ ॥ विमाना दवरुह्याथ गन्धर्वाप्सरसां गणाः ॥ उर्वशी च ववन्दैनमृषिं ज्वलनतेजसम् ॥ २५ ॥ अनुज्ञातोऽथ ऋषिणा तदा गजा पुरूरवाः ॥ कृत्वाऽभि होग्रमात्मन्यं विमानं तं समास्थितः ॥ २६ ॥ ऋषिं प्रदक्षिणीकृत्य त्रिविष्टपं स नृपो गतः ॥ मश्रगेगे नृपः स्वर्गे तदा प्राप्य सुदुर्लभम् ॥ २७ ॥ शक्रेणाभ्यर्चितः काले विजहार यथासुखम ॥ देवानान्तु सवेषु उर्वश्या महितस्तदा ॥ २८ ॥ नासौ विमुच्यते माब्नात्कदाचिदपि पार्थिवः ॥ ॥ ८८ ॥

अमावस्याममावस्यां नियतं चन्द्रभास्करौ ॥ २९ ॥ दृष्टं यातौ महीपालमेकराशिगतौ सदा ॥ उर्वश्या सहितं पौत्रं यदा पश्यति चन्द्रमाः ॥ ३०॥ तदा सुधारसं देवः स्नेहात्स्रवति मानद ॥ सुधामृत्सन्नं तं च पिबन्ति पितरः सदा ॥ ३१ ॥ श्राद्धकालस्तदायुक्तो नृणां नृपवरोत्तम ॥ तदा श्राद्धं हि यद्दत्तं सुधारसविमिश्रितम् ॥ ३२ ॥ तद्दर्शन्ति महीपाल पितरोऽमृतसविभ्रमम् ॥ अमावस्याममावस्यां तदा श्राद्धं प्रयत्नतः ॥ ॥ ३३ ॥ कुरुष्व भूमिपश्रेष्ठ सर्वकामानवाप्स्यसि ॥ येऽपि श्राद्धं करिष्यन्ति तदा चान्ये नराधिप ॥ ३४ ॥ तेषामप्यायुर्यशः सौख्यं दास्यन्ति प्रपितामहाः ॥ देवकार्यादपि श्रेष्ठं पितृकार्यं प्रचक्षते ॥ ३५ ॥ पितरो नाम राजेन्द्र देवानामापि देवताः ॥ राज्यकामः स्वर्गकामः पुष्टिकामस्तथैव च ॥ ३६ ॥ पितॄन्सन्तर्पयेच्छ्राद्धे चन्द्रसूर्यसमागमे ॥ वसन्ति सततं राजन्पितरश्चन्द्रमण्डले ॥ ३७ ॥ तेषां मासमहोरान्नं विभागं तत्र मे शृणु ॥ कृष्णपक्षाष्टमी मध्ये तेषामुद्ययते रविः ॥ ३८ ॥ शुक्लाष्टम्यां तथैवास्तं तेषां याति दिवाकरः ॥ अमा वस्या तदा तेषां मध्याह्नं जायते नृप ॥ तस्माच्छ्राद्धानि देयानि तस्मिन्काले प्रयत्नतः ॥ ३९ ॥ एतावदुक्तं नृपवर्य तस्य धर्मत्मजस्याऽप्रतिमस्य वृत्तम् ॥ धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पापहरं सुखं च ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरवसः स्वर्ग प्राप्तिर्नाम सप्तत्रिंशादुत्तरशततमोऽध्यायः ॥ १३७ ॥ ॥ वज्र उवाच ॥ वर्तन्ते पितरः स्वर्गे केषांचित्नरके तथा ॥ नरकस्थाः फलं दातुं कथं शक्ता वदस्व मे ॥ १ ॥ मार्कण्डेय उवाच ॥ पितृणां तु गणाः सप्त नामतस्तान्निबोध मे ॥ त्रयोऽमूर्त्तिमंतस्तेषां चत्वारश्चामूर्त्तयः ॥ २ ॥ सभासुरा बहि षदोऽग्निव्वात्तास्तथैव च ॥ त्रयो मूर्त्तिमंतस्तेषां चत्वारश्चाप्यमूर्त्तयः ॥ ३ ॥ क्रव्यादश्चोपहूताश्च आज्यपाश्च सुकालिनः ॥ मूर्तिमन्तः पितृगणाश्च त्वारश्च प्रकीर्तिताः ॥ ४ ॥ सुभास्वरा ब्रह्मणः पुत्राः सोमपाप्याययन्ति ये ॥ ब्रह्मलोकचरा राजंस्त्रैलोक्यं मूर्त्तिविवर्जिताः ॥ ५॥ तथा बर्हिषदो नाम राज पुत्रा मरीचिनः ॥ आप्याययन्ति ते दैवाँल्लोके सोमपदे स्थिताः ॥ ६ ॥ विप्रजलोके तिष्ठन्ति अग्निष्वात्ता नराधिप ॥ पुलस्त्यस्य ऋषेः पुत्रा भावयन्ति जगन्ति ते ॥ ७ ॥ दानवान्यक्षगन्धर्व्वान्पन्नगान्गोरगान्क्षसान् ॥ दैत्यान्भूतपिशाचांश्च विद्याधरणगांस्तथा ॥ ८ ॥ नागान्सुपर्णान्पुण्यांश्च पर्वतान्सत्सरिस्तथा ॥ क्रव्यादौँश्चोपहूतांश्च अन्यपाँश्च सुकालिनः ॥ ९ ॥ ब्राह्मणाक्षत्रियान्वैश्यान्भावयन्त्यन्यजांस्तथा ॥ कवेरङ्गिरसश्चैव कर्द मस्य प्रजापतेः ॥ १० ॥ वसिष्ठस्य तथा पुत्राः क्रमेणैते प्रकीर्तिताः ॥ ज्योतिर्भासः स्मृता लोके ये च लोका मरीचिनः ॥ ११॥ तेजस्विनो मान साश्च क्रमेणैते प्रकीर्तिताः ॥ एते श्राद्धस्य भोक्तारो विधेर्देवैः सदा सह ॥ १२ ॥ एते श्राद्धं सदा भुक्त्वा पितॄन्संतर्पयन्त्यतः ॥ यत्र क्वचन धर्मज्ञ

॥ वि०ध० ॥ ॥ ८९ ॥

प्र० खं० अ० १३९

वर्तमाना हि योगतः ॥ १३ ॥ एते च पृष्ट्या विनियोजयन्ति श्राद्धस्य दातारमदीनसत्त्वाः ॥ तृप्तास्तथैते विनियोजयन्ति दातुः पितॄन्सर्वगता- न्सहैव ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पितृस्वर्गनरकनिवासहेतुनिर्णयो नामाधिकैकोत्तरशततमोऽध्यायः ॥ १३८ ॥

॥ वज्र उवाच ॥ वैवस्वतेऽन्तरे प्राप्ते प्रथमे भुवनन्दन ॥ श्राद्धं प्रदर्शितं केन तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ मार्कण्डेय उवाच ॥ हिरण्याक्षावधे पूर्वं यदा त्यक्ता धराधराः ॥ धरां सपक्षा खगमाः सं गता मनुजेश्वर ॥ २ ॥ धराधरापरित्यक्ता तदा चलितबन्धना ॥ धरा स्थानाच्च्युता वेगात्प्रावि- वेश रसातलम् ॥ ३ ॥ हिरण्याक्षं तदा हत्वा त्वराहो जनार्दनः ॥ प्रोथेन च कराभ्यां च विधाय वसुधां बलात् ॥ ४ ॥ संपूज्यमानस्त्रिदशैः प्रावि- वेश रसातलम् ॥ ५ ॥ रसातलगते त्वाहूय शेषकूर्त्ता स्वके स्थितः ॥ ६ ॥ दंष्ट्राग्रेण समुद्धृत्य महीं दंष्ट्रे तदा भुजे ॥ वामबाहुनिविष्टां तां कृत्वा त्रिद- शपुङ्गवः ॥ ६ ॥ उज्जहार महातेजा लोकानां हितकाम्यया ॥ रत्नज्वालाबलीपुञ्जविभाव्यमुखाम्बुजः ॥ ७ ॥ शेषस्तुष्टाव देवेशं तस्मिन्काले जगद्गुरुम् ॥ पुरंनिवेश्य वसुधा देवं तद्बाहुसंस्थिता ॥ ८ ॥ तदा तुष्टाव भूपाल रमणीयतमाकृतिः ॥ उद्धृत्य वसुधां स्थाने स्थापयित्वा तथा स्वके ॥ ९ ॥ जगाम भूमौ धर्मज्ञ वराहे नाम पर्वतम् ॥ कल्पारम्भे वराहस्य पसूतेः सरितां ताम् ॥ १० ॥ तां समासाद्य धर्मात्मा देवः सर्वगतः प्रभुः ॥ दंष्ट्राग्रलग्नं मृत्पिण्डं गृहीत्वा दक्षिणे करे ॥ ११ ॥ प्राग्वेदांश्च तिलान्कृत्वा दर्भान्निर्मथ्य एव च ॥ जलप्रस्रवणाभ्याशे तस्मिन्मान्गिरिवरे तदा ॥ १२ ॥ दक्षिणाग्रांस्तु विन्यस्य दर्भांस्तानमनुसुदनः ॥ मृत्पिण्डान्सतिलोंस्तेषु दत्त्वावांश्चिगिराधिप ॥ १३ ॥ दत्त्वा च गन्धधुप्पाद्यैः पूजयामास धार्मिकः ॥ पूजयित्वा च मर्यादां कृतवान्स नराधिप ॥ १४ ॥ अद्यप्रभृति लोकेषु प्रतानुद्दिश्य वै पितॄन् ॥ ये तु श्राद्धं करिष्यन्ति तेषां पुष्टिर्भविष्यति ॥ १५ ॥ श्राद्धकाले तथा तेन पिण्डनिर्वपणं तथा ॥ पितॄणां ये करिष्यन्ति तेषां पुष्टिर्भविष्यति ॥ १६ ॥ पिता पितामहश्चैव तथैव प्रपितामहः ॥ पूज्या ते भविष्यन्ति स्वयं पिण्डेषु नित्यदा ॥ १७ ॥ तेषां त्रयः प्रजिताश्च भविष्यन्ति तथाप्यहम् ॥ १८ ॥ त्रयो लोकास्त्रयो देवास्तथैव च युगत्रयम् ॥ १८ ॥ पूजिताश्च त्रयो देवा ब्रह्मोविष्णुमहेश्वराः ॥ पूजितैस्तैर्भविष्यामि चतुरात्मा तथाप्यहम् ॥ १९ ॥ पितुः पितामहः पिण्डो वासुदेवः प्रकीर्तितः ॥ पितामहश्च निर्दिष्टस्तथा संकर्षणः प्रभुः ॥ २० ॥ पितृपिण्डेषु विज्ञेयः प्रद्युम्नश्चाप्यहं जातः ॥ आत्माऽनिरुद्धो विज्ञेयः पिण्डनिर्वपणं बुधैः ॥ २१ ॥ श्राद्धं कर्तुं कथं शक्यं विना वैष्णवतेजसा ॥ एवं संपूजितस्तेन चतुरात्मा त्वहं स्थितः ॥ २२ ॥ भविष्यामि प्रदास्यामि तस्य कामान्यथेप्सितान् ॥ चत्वारः पूजिता वेदाश्चत्वारश्च तथाश्रयः ॥ २३ ॥ चत्वारश्च युगास्तेन

चतस्रश्च दिशस्तथा ॥ चत्वारश्च तथा वर्णाश्चत्वारश्च तथाश्रमाः ॥ २४ ॥ चत्वारो लोकपालाश्च भविष्यन्तीह पूजिताः ॥ एवं कृत्वा स मर्यादां तत्रैवान्तरधीयत ॥ ततः प्रभृति लोकेऽस्मिञ्छ्राद्धं सिद्धिः प्रकीर्तितम् ॥ २५ ॥ स्वर्गं च मोक्षं च यशः सुखानि राज्यं च पुत्रानथ भूमिपाल ॥ त्रिविष्टपं मुक्त्वा विविधांश्च कामान्देवेश्वरः श्राद्धकृतो विधत्ते ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्राद्धोत्पत्तिर्नाम कोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १३९ ॥ वज्र उवाच ॥ भगवञ्छ्रोतुमिच्छामि कथ्यमानमहं त्वया ॥ विधिं श्राद्धस्य धर्मज्ञ तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ मार्कण्डेय उवाच ॥ वक्ष्यमाणगुणान्विप्रानपूर्वरूपसमन्वयेत् ॥ कर्ता समेतेस्तैर्भाव्यं संयतैश्च निमन्त्रितैः ॥ २ ॥ श्राद्धार्हः प्रयततः स्नातः स्वाचान्तः सुसमाहितः ॥ शुक्लावासाः समभ्यर्च्य नृवराहं जनार्दनम् ॥ ३ ॥ आमश्राद्धेषु कृत्वा प्रथमपञ्चकम् ॥ ( मध्यमं पञ्चकं कृत्वा पशुश्राद्धेष्वसंशयम् ॥ ४ ॥ अमावास्यासु सर्वासु हुत्वा चौत्तमपञ्चकम् ॥ ) हुत्वा च पञ्चकानेतानष्टकात्रितयं क्रमात् ॥ ५ ॥ अन्वष्टकासु च तथा भोजयेत्प्रयतो द्विजान् ॥ द्वौ दिव्ये प्राक् त्रयः पित्रेः चैकैकमुभयत्र वा ॥ ६ ॥ उदङ्मुखाँश्च पितॄणां सातान्विग्नाङ्गुणं क्रमात् ॥ तिलदर्भोपकीर्णेषु चासनेषूपवेशयेत् ॥ ७ ॥ पितॄनावाहयाम्यिति स्वप्सुक्त्वा समाहितः ॥ आवाहयस्वेति ततो द्विजेरुक्तोऽथ तन्मनाः ॥ ८ ॥ अपयान्त्वसुरा दार्भ्यां यातुधानान्विसर्जनम् ॥ तिलैः कुर्यात्प्रयत्नेन तथवा गौरसर्षपैः ॥ ९ ॥ एते पितर इत्येव सर्वस्ताननम आवह ॥ आग्नेयन्तु तथोदीयं एतद्वः पितरस्तथा ॥ १० ॥ कुशौस्तिलवामिश्रेण तथा गन्धयुतेन च ॥ यास्तिष्ठन्ति धारयन्ति अमृतावणिगिति ऋचा ॥ ११ ॥ यन्मे मातेति च तथा पाद्यमर्घ्यञ्च कारयेत् ॥ निवेश्य विप्रेषु तथा पाद्यार्घ्यं प्रयततः क्रमात् ॥ १२ ॥ गन्धैर्वस्त्रैश्च पुष्पैश्च धूपैश्चाप्यथ भूषणैः ॥ अर्चयेद्ब्राह्मणांस्तुष्ट्या श्रद्धानः समाहितः ॥ १३ ॥ आदौ समर्चयेद्विद्वान्दैवेद्वान्निवेशितान् ॥ निवेशितांश्च पित्रर्थे ततः पश्चात्समर्चयेत् ॥ १४ ॥ वैश्वदेवनिविष्टानां चरसं हस्तधावनम् ॥ विसर्जनं च निर्दिष्टं तेषु रक्षा यतः स्थिता ॥ १५ ॥ सर्वमन्यत्प्रदातव्यमादौ तेषां नराधिप ॥ संपूज्य गन्धपुष्पैश्च ब्राह्मणान्प्रयत्नतस्तदा ॥ १६ ॥ आदित्या वसवो रुद्रा द्विजान्वीक्ष्य ततो जपेत् ॥ अग्नौ च करवाणीति तैरुक्तं च कुरुष्विति ॥ १७ ॥ परिस्तीर्य ततो वह्निमभिमुद्धृत्य सर्वतः ॥ आहिताग्निरस्तु जुहुयाद्दक्षिणाग्नौ समाहितः ॥ १८ ॥ अनाहिताग्निश्चौपसदे अस्यभावे तथाप्सु वा ॥ सोमायादौ पितृमते कव्यवाहनाय


१ कोष्टकान्तर्गतः पाठः क.पुस्तके नास्ति ।

वि० ध०
॥ १०॥
प्र० खं० अ० १४०

चायचे ॥ १९ ॥ यमाय चैवाङ्गिरसे हुत्वा प्रयतमानसः ॥ ये मामकाश्च पितर एतैः पितृगणस्तथा ॥ २० ॥ अयं यज्ञाङ्गभूतो वै रूपा चौ
गीतिथ्यथ ॥ प्रयतस्तन्मनाः कृत्वा गजैश्वैवाभिमन्यणम् ॥ २१ ॥ आग्ना सुषेकेति ततो घृतं वाच्यथा पयः ॥ निक्षिप्य रौप्यपात्रेषु जुष्टा
र्केषु भावतः ॥ २२ ॥ यथोपपन्नैश्चाथवा तूष्णीमन्नं निवेदयेत् ॥ नमो विश्वेभ्य इति च मतिलोनेदकेन च ॥ २३ ॥ प्राङ्मुखेषु च यद्दत्तं
तदन्नमुपमन्त्रयेत् ॥ उदङ्मुखेषु यद्दत्तं नामगोत्रप्रकीर्तनैः ॥ २४ ॥ मन्त्रैश्चप्रयतः प्राज्ञः स्वशान्तैः सुसमाहितः ॥ यन्मे प्रकामाद्भोक्तव्यैश्चा
क्रव्यात्तैश्च च ॥ २५ ॥ इतिहासपुराणानि धर्मशास्त्राणि चाप्यथ ॥ सत्तत्वं परमं मन्त्रं श्रावयेदग्रतो द्विजान् ॥ २६ ॥ दक्षिणाग्रांस्ततो दर्भा
न्कृत्वानावैषपाणुलतैः ॥ मन्त्रितान्वह्निमन्त्रेण विकिरेत्सुसमाहितः ॥ २७ ॥ पिण्डनिर्वपणं कुर्यात्तेषु दर्भेष्वसंशयम् ॥ मध्वाज्यतिलमिश्रेण चात्रे
नात्र्येण यादव ॥ २८ ॥ पितृपिण्डे भवेन्मन्त्रः पृथिवी दर्विदर्शिता ॥ पैतामहे भवेन्मन्त्रस्त्वन्तरिक्षेति पार्थिव ॥ २९ ॥ प्रपितामहके मन्त्र
द्यौर्र्दौरिति कीर्तियेत् ॥ ये तत्र पितरः प्रेता मन्त्रेणानेन धर्मवित् ॥ ३० ॥ सूत्रं निवेदयेद्भक्त्या क्षौमाग्रं च निवेदयेत् ॥ ऊर्जं वहन्तीति ततः
सात्रं दद्याद्यथोक्तकम् ॥ ३१ ॥ अपसव्येन पिण्डेषु श्रद्धया परया युतः ॥ गन्धैः पुष्पैस्तथा धूपैर्दीपैर्भक्ष्यैश्च भोजनैः ॥ ३२ ॥ पानैः समर्चये
त्पिण्डान्सादरः प्रयततः सदा ॥ यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥ ३३ ॥ अनिवेद्य न भोक्तव्यं तस्मिञ्श्राद्धे ततः सदा ॥ भुक्तव
त्स्वथ विप्रेषु विधिं मे गदतः शृणु ॥ ३४ ॥ अन्नं सत्पृणमभ्युक्ष्य मामिशिक्षेति यत्नतः ॥ उदङ्मुखानां विप्राणां पुरतः सोदकं ततः ॥ ३५ ॥
अन्नन्तु विकिरेद्भक्त्या पितृभागस्तु सः स्मृतः ॥ प्रष्टव्या ब्राह्मणा भक्त्या मूनिविष्टेन जातुना ॥ ३६ ॥ तृप्ता भवन्तः संपन्नो भवतां कश्चिदन्न
तु ॥ ततः स्मोति च तैरूक्तः संप्रतिष्ठामिति चाप्यथ ॥ ३७ ॥ दद्यादाचमनं भक्त्या श्रद्धानः समाहितः ॥ यन्मे गर्भश्च शक्रश्च इति कृत्वा प्रदक्षि
णाम् ॥३८॥ प्रत्येकं तर्पयेद्विद्वांन्दक्षिणाभिः स्वशक्तितः ॥ भवन्तोऽभिगमन्विति वाच्य विप्रास्त्वनन्तरम् ॥ ३९ ॥ तैस्तूक्तोऽभिरताः स्मेति
द्विजानां पुरतः स्थितः ॥ दैवाश्च पितृश्चेति जपेन्मन्त्रमतीन्द्रियः ॥ ४० ॥ पितॄणां नामगोत्राण जलं दद्यमनन्तरम् ॥ ब्राह्मणानां
द्विजैर्वाच्यं चालयं मनुजेश्वर ॥ ४१ ॥ ततस्तु प्रार्थना कार्या मन्त्रेणानेन भूमिप ॥ दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च ॥ ४२ ॥ ॥१०॥
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ वाजेवजेति तृप्याप्य कृत्वा चैषां प्रदक्षिणम् ॥ ४३ ॥ जातुभ्यामवनिं गत्वा प्रणिपत्य
विसर्जयेत् ॥ अपसव्येन कर्तव्यं पितृकार्यं नराधिप ॥ ४४ ॥ ब्राह्मणेनैव वक्तव्या यदि पृष्टा हविर्गुणाः ॥ यावद्धूष्मा भवन्त्यन्न

यावदश्नन्ति वाग्यताः ॥ ४६॥ तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥ उच्छिष्टमार्जनं यावन्न कृतं नृपसत्तम ॥ ४६॥ तावदश्नन्ति पितरः स्वधा- रसविमिश्रितम् ॥ हस्तदत्तानि लेह्यानि लवणं व्यञ्जनानि च॥ ४७॥ दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्ते च किल्विषम् ॥ सौवर्णे राजताभ्यान्तु खड्गेण पा- त्रेण चाप्यथ ॥ ४८ ॥ दत्तमक्षयतां याति खड्गोनेनोदुम्बरेण वा ॥ मांसं नाश्नाति यः पङ्क्त्यां यथावद्विनियोजितम् ॥ ४९॥ स प्रेत्य नरकं याति नात्र कार्या विचारणा ॥ ५० ॥ श्राद्धे दाता च भोक्ता च मैथुनं यदि गच्छतः ॥ तन्मासं पितरस्तस्य भुञ्जते रेतसा युतम् ॥ एवं श्राद्धं तथा कार्यं शूंद्रेणापि नराधिप ॥ ५१ ॥ मन्त्रवर्ज्यं हि शूद्रस्य सर्वमेतद्विधीयते ॥ वज्र उवाच ॥ यस्य जीवतिपिता श्राद्धं कस्यासौ कर्तुमर्हति ॥ ५२ ॥ त्वमेव संशयच्छेत्ता संशयं छिन्धि मे द्विज ॥ मार्कण्डेय उवाच ॥ येषां श्राद्धं पिता कुर्यात्तेषामेव स कारयेत् ॥ मन्त्रहीनं प्रकर्त्तव्यं तेन श्राद्धं यथा विधि ॥ ५३॥ मातामहानां श्राद्धं तु मन्त्रहीनं च कारयेत् ॥ श्राद्धं च सुहृदां कुर्यात्स्त्रीणां चाक्षयवाचकम् ॥ ५४ ॥ वज्र उवाच ॥ पिता पिता- महश्चैव जीवतां यस्य देहिनः ॥ तेन श्राद्धं कथं कार्यं तन्ममाचक्ष्व पृच्छतः ॥ ५५॥ मार्कण्डेय उवाच॥ येषां पितामहः कुर्यात्तेषां श्राद्धं नराधिप ॥ तेन कार्यं महाप्राज्ञ यथावदनुपूर्वशः ॥ ५६ ॥ वज्र उवाच ॥ पिता पितामहश्चैव तथैव प्रपितामहः ॥ यस्य जीवन्ति कर्तव्यं तेन श्राद्धं कथं द्विज ॥ ५७ ॥ मार्कण्डेय उवाच ॥ तेन श्राद्धं न कर्तव्यं विधिलोपो नु यादृव ॥ पूजनीयाश्च पितरः पितामहपितुः स्वयम् ॥ ५८ ॥ वज्र उवाच ॥ जीवतिपितामहो यस्य पितुश्चैव पितामहः ॥ पिता प्रेतस्तथा यस्य तस्य श्राद्धविधिं वद ॥ ५९ ॥ मार्कण्डेय उवाच ॥ पिण्डनिर्वपणं कृत्वा स पितुर्मनुजेश्वर ॥ पितुः पितामहादूर्ध्वं द्वाभ्यां पिण्डं निवेदयेत् ॥ ६० ॥ वज्र उवाच ॥ पिता पितामहो प्रेतौ यस्य स्यातां द्विजोत्तम ॥ पितुः पितामहो जीवत्तस्य श्राद्धविधिं वद ॥ ६१॥ मार्कण्डेय उवाच ॥ पित्रे सपिण्डं कृत्वा तु पिण्डनिर्वपणं ततः ॥ पिण्डनिर्वपणं कुर्यात्पितामहपिता- महो॥ इत्यावज्र उवाच॥ प्रेतः पिता भवेद्यस्य पितुश्चैव पितामहः॥ तेन कार्यं कथं श्राद्धं तन्ममाचक्ष्व पृच्छतः॥ ६३॥ मार्कण्डेय उवाच॥ स तु दत्त्वा पितुः पिण्डं ततः ऊर्ध्वं पितामहात् ॥ द्वाभ्यां दद्यात्सदा पिण्डं त्वेवमाहुर्मनीषिणः ॥ ६४ ॥ वज्र उवाच ॥ प्रेतः पितामहो यस्य पिता जीवे- द्विजोत्तम ॥ पितुः पितामहो जीवस्तस्य श्राद्धविधिं वद ॥ ६५ ॥ मार्कण्डेय उवाच ॥ दत्त्वा पितामहे पिण्डं स तूर्ध्वं प्रपितामहात् ॥ पिण्डनिर्व- पणं कुर्याद्भ्यामित्यमतेन्द्तः॥ ६६॥ वज्र उवाच॥ सप्ताधिपमहं मन्त्रं श्रोतुमिच्छामि भार्गव ॥ श्राद्धकालेषु नियतं रक्षोघ्नं यन्मय कीर्तितम्॥ ६७॥


१ 'श्राद्धन्तु' इति क० ।
१६

वि० ध० ॥ ४११ ॥

प्र० खं० अ० १४१

मार्कण्डेय उवाच ॥ पापापहं पावनमध्यमेधसमं तथा ॥ मन्त्रं वक्ष्याम्यहं तस्माच्छ्रुतं ब्रह्मनिर्मितम् ॥ ६८ ॥ देवताभ्यः पितृभ्यश्च महायो गिभ्य एव च ॥ नमः स्वधायै स्वाहायै नित्यमेव भवत्विह ॥ ६९ ॥ आद्येऽवसाने श्राद्धस्य त्रिवारं तु जपेत्सदा ॥ अश्वमेधफलं ह्येतद्द्विजैः सत्कृतै पूजितम् ॥ ७० ॥ पिण्डनिर्वपणे चापि जपेदेतत्समाहितः ॥ पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ ७१ ॥ पितॄंश्च त्रिषुलोकेषु मन्त्रोऽयं तार यत्युत ॥ पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः ॥ ७२ ॥ राज्यकामो जपेदेतत्समा मन्त्रमतन्द्रितः ॥ वीर्यसर्वार्थशौर्यादिश्र्यायुर्बुद्धिविवर्धनम् ॥ ॥ ७३ ॥ प्रीयन्ते पितरोनेन जपेन नियमेन च ॥ सप्ताचिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ ७४ ॥ अमूर्तानां समूर्तानां पितॄणां दीप्ततेजसाम् ॥ नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् ॥ ७५ ॥ इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ॥ सप्तर्षीणां पितॄणां च तान्नमस्यान्यि कामदान् ॥ ७६ ॥ मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ॥ तानमस्कृत्य सर्वान्वै पितॄनप्सूध्वनेषु च ॥ ७७ ॥ नक्षत्राणां ग्रहाणां च वाय्वग्न्योःपितरस्तथा ॥ द्यावापृथिव्योश्च तथा नमस्ये तान्कृताञ्जलिः ॥ ७८ ॥॥ देवर्षीणां च नेतारः सर्वलोकनमस्कृतान् ॥ धातारः सर्वभूतानां नमस्ये तान्पिताम हान् ॥ ७९ ॥ प्रजापतेर्गवां वह्नेः सोमाय च यमाय च ॥ योगेश्वरेभ्यश्च तथा नमस्ये तान्कृताञ्जलिः ॥ ८० ॥ पितृगणेष्व्यः सप्तभ्यो नमो लोकेषु सप्तसु ॥ स्वयम्भुवे नमस्कृत्य ब्रह्मणे लोकचक्षुषे ॥ ८१॥ एतत्तूक्तं सप्ताचिर्ब्राह्मणपूजितम् ॥ पवित्रं परमं ह्येतच्छ्रीमदक्षोविनाशनम् ॥ ८२ ॥ एतेन विधिना युक्तः शृण्वैवं लभते नरः ॥ अन्नमायुः सुताँश्चैव वदन्ति पितरो भुवि ॥ ८३ ॥ भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ॥ सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः ॥ सप्तद्वीपसमुद्रायां पृथिव्याममकेराड् भवेत्॥८४॥ वज्र उवाच ॥ ब्रह्मन्मन्त्रं समाचक्ष्व सर्वशत्रुनिवर्हणम्॥ पिण्डनिर्वपणे येन मन्त्रणोप्याः कुशोत्तमाः ॥ ८५ ॥ मार्कण्डेय उवाच ॥ निहन्मि सर्वं यदमेध्यवद्रवद्वताश्च सर्वेसुरदानवा मया ॥ ये राक्षसा यक्षपिशाचगुह्यका हता मया यातुधानाश्च सर्वे ॥ ८६ ॥ एतेन मन्त्रेण सुसंयतात्मा तिलान्विकीर्य्येषु तथा विदिक्षु ॥ यस्मिन्देशे पठ्यते मन्त्र एष तं वै देशं राक्षसा वर्जयन्ति ॥ ८७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्राद्धोद्विर्गुणो नाम चत्वा र्रिंशदुत्तरशततमोऽध्यायः ॥ १४० ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ कस्मिन्देशे न कर्तव्यं श्राद्धं भृगुकुलोद्वह ॥ किंञ्च देयमदेयं च तन्मे ब्रूहि द्विजोत्तम ॥ १ ॥ ॥ मार्कण्डेय उवाच ॥ त्रिशङ्कु वर्जयद्देशं सर्वं द्वादशयोजनम् ॥ उत्तरेण पतङ्गस्य दक्षिणेन च कैकटम् ॥ ॥ २ ॥ देशवैशङ्कवो नाम विवर्ज्यः श्राद्धकर्मणि ॥ कारस्करः कलिङ्गश्च सिन्धोरुत्तरमेव च ॥ ३ ॥ चातुर्वर्ण्यं

॥ ४११ ॥

विहीनाश्च ये च देशा नराधिप ॥ अन्येष्वपि च देशेषु तद्देशजनदर्शनम् ॥ ४ ॥ वर्जयेच्छ्राद्धकाले तु पतितानां विशेषतः ॥ रजस्वलाश्र्व षण्ढाश्च श्वानसूकरकुक्कुटाः ॥ ५ ॥ यथा श्राद्धं न पश्यन्ति तथा कार्यं विजानता ॥ रक्षार्थं चाप्यथेतेषां गुप्तिः कार्या नरेश्वर ॥६॥ तिलांविकीर्य्य कार्यं यातुधानविनाशनम् ॥ पिण्डांश्च गोऽजाविप्रेभ्यो दद्यादग्नावथ क्षिपेत् ॥ ७ ॥ मध्यमं पुत्रकामा वा पत्नी पिण्डं च भक्षयेत् ॥ तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थे विचक्षणः ॥ ८ ॥ दक्षिणाभिमुखो भूत्वा पित्रो रिक्ता प्रकीर्त्तिता ॥ पिण्डनिर्वपणं कार्यं कुशा लाभे विचक्षणैः ॥ ९ ॥ कुशेशु राजन्सर्वेषु पवित्रे ते परे मते ॥ सूत्रं प्रदेयं वासोऽर्थं क्षौमकार्पाससम्भवम् ॥ १० ॥ दशां विवर्जयेत्प्राज्ञो यद्यप्याहतवस्त्रजा ॥ क्षौमकार्पासं त्यक्त्वा सूत्रमन्यन्न दापयेत् ॥ ११ ॥ घृतेन दीपो दातव्यस्त्वथावाप्यौषधैरसैः ॥ वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥ १२ ॥ चन्दनागुरुकर्पूरकुङ्कुमैश्च प्रदापयेत् ॥ अश्मधेमसमा होते पितॄणामनुलेपनाः ॥ १३ ॥ न दातव्यं मलुयेन्द्रं यदन्यच्चानुले पनम् ॥ धूपो गुग्गुलुजो देयस्तथा चन्दनसारजम् ॥ १४ ॥ अगुरुं च सकर्पूरं तुरुष्कं च प्रदापयेत् ॥ अतोऽन्यदपि यत्किंचिद्धूपार्थं तद्विवर्ज येत् ॥ १५ ॥ सघृतं गुग्गुलं धूपं धूपार्थं यः प्रयच्छति ॥ अश्वमेधफलं तस्य धूपदातस्तथैव च ॥ १६ ॥ जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका ॥ जलोज्वानि सर्वाणि कुसुमानि विवर्जयेत् ॥ १७ ॥ यानि कण्टकिजातानि न देयानि नराधिप ॥ यानि कण्टकितायाणि शुक्लानि सुरभीणि च ॥ १८ ॥ तानि राजेन्द्र देयानि लताजानि विशेषतः ॥ रक्तानि जलजातानि तथा देयानि यादव ॥ १९ ॥ विपुलां श्रियमाप्नोति पितृन्पुष्पैः समर्चयन् ॥ अनर्ह्याणि विवर्ज्यानि श्राद्धे नियमतन्द्रितैः ॥ २० ॥ भक्ष्येष्वापि न देयानि यानि तानि निबोध मे ॥ भूस्तृणं सुमुकं शिग्रुं पालक्यं तण्डुलीयकम् ॥ २१ ॥ कूष्माण्डालाबुवृन्ताकनिप्पलीमरिकानि च ॥ श्राद्धेषु नांगरं देयं लवणं सैन्धवं तथा ॥ २२ ॥ सैन्धवव्यतिरेकेण लवणानि न दापयेत् ॥ नक्तं गृहीतमुदकं तथा पल्वल्सम्भवम् ॥ २३ ॥ श्राद्धकाले विवर्ज्यं च माहिषं क्षीरमेव च ॥ राजमाषमसूराश्च चणकाः कोद्रवषकाः ॥ २४ ॥ वर्ज्याश्चामिषवो नित्यं शतपुष्पं गवेधुकम् ॥ कर्माणि कुसुमभं च पटोलं बृहतीफलम् ॥ २५ ॥ करीसुरभी चोभौ प्रतिगन्धि च यद्भवेत् ॥ जम्बीरफलं वर्ज्यं कोविदारं च पार्थिव ॥ २६ ॥ वस्तुसंदर्शनं शस्तं श्राद्धे नित्यमरिन्दम ॥ कुतपस्य च सान्निध्यं तथा कृष्णाजिनस्य च ॥ २७ ॥ कृष्णाजिनस्य दानं च रजतस्य विशेषतः ॥ कृष्णाजिनं सकुतपं कृष्णानि च तिलानि च ॥ २८ ॥ श्राद्धकर्मणि शस्तानि विद्पन्तित्तस्तुतस्तथा ॥ सोमः सदैव मासान्ते रविणा सह संगतः ॥ २९ ॥

वि० ध० ॥ ९२ ॥

प्र० खं० अ० १४१

आपश्चैवौषधीश्चैव तदा विशति पार्थिव ॥ अपायां तु पयः पीत्वा युक्ता चैवौषधीः शुभाः ॥ ३० ॥ पयः क्षरन्ति यदिच्छं गावोऽमृत- रसोपमम् ॥ तत्पवित्रं परं राजन्कापिलं चेद्विशेषतः ॥ ३१ ॥ हव्ये कव्ये च तद्राजन्सोमतुल्यं प्रकीर्तितम् ॥ तिलैर्ब्रीहिर्य- वैर्माषैरद्भिर्मूलफलेन च ॥ ३२ ॥ प्रियङ्गुभिस्तथा दारैः शृङ्गाटकफलैः शुभैः ॥ गोधूमैश्चैक्षुभिश्चैः सचीनैचणकैरतथा ॥ ३३ ॥ श्यामाकैर्हस्तिश्यामाकैर्मधूकैर्हव्यदाडिमैः ॥ पनसैरनलिकैश्च खर्जूरप्रफलैस्तथा ॥ ३४ ॥ आम्रातैश्चाम्रनागैरौर्बलैर्दीर्घैश्च मूलकैः ॥ विदार्याऽनि- र्भटैश्च विशेषैश्च वराटकैः ॥ ३५ ॥ पिचुन्दैश्च तथा कंदैर्बदरैः करकन्दुभिः ॥ पालेवतै राष्ट्रकैश्च अक्षोदैः पनसैस्तथा ॥ ३६ ॥ काकोलैः क्षीरकाकोलैस्तथा पिण्डालुकैः शुभैः ॥ सुवर्चलामधूकैश्च वास्तुकेन च पार्थिव ॥३७॥ सिताखण्डगुडेर्मुख्यैः फणितेन च सर्पिभिः ॥ लामित्रैश्च सदानाभिश्चैवोत्सर्वारुचिभिर्दैः ॥ ३८ ॥ सर्षपाराजशाकाभ्यामिङ्गुदे राजजम्बुभिः ॥ प्रियालामलकैर्मुख्यैः फल्यभिश्च तिलोल्लकैः ॥ ३९ ॥ वेत्रा- ङ्कुरैस्तालद्रुमैश्चुक्रैर्काक्षीरकायवैः ॥ चौरैः समोचैर्लकुचैरथैवाथै बीजपूरकैः ॥ ४० ॥ छात्रातिच्छत्रकांगौराकैः कल्कण्डुकशर्कराकैः ॥ सुजातैकैः पद्मफलैर्धन्यैर्भोज्यैः सुसंस्कृतैः ॥ ४१ ॥ रागषाढवचोष्यैश्च त्रिजातकसमन्वितैः ॥ दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृणाम् ॥ ४२ ॥ द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु ॥ औभ्रेणाथ चतुरः शाकुनेन च पञ्च वै ॥ ४३ ॥ षण्मासांश्छागिकेनापि सप्त पारिषतेन च ॥ तथाऽष्टौ छागमांसेन पयसा पायसेन च ॥ ४४ ॥ वाराहेण नवैवाहू रौरवेण तथा दश ॥ मासानेकादशश्वाहुरुशनेन नराधिप ॥ ४५ ॥ संवत्सरं तु गव्येन पयसा पायसेन च ॥ पयोविकारैश्च तथा हव्यैश्च मनुजेश्वर ॥ ४६ ॥ पानकैश्च तथा हद्यैर्विसुगन्धैः सुशीतलैः ॥ वार्ध्रीण सस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ४७ ॥ वज्र उवाच ॥ वार्ध्रीणसमहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः ॥ यस्य मांसन कथिता तृप्तिर्द्वादश- वार्षिकी ॥ ४८ ॥ मार्कण्डेय उवाच ॥ त्रिपिबन्त्विन्द्रियक्षीर्णं यूथस्याग्रसरं तथा ॥ रक्तं वर्णेन राजेन्द्र छागं वार्ध्रीणसं विदुः ॥४९॥कालशाकं महाशल्कं खड्गमांसं तथैव च ॥ आनन्त्याय भवेद्दत्तं सर्वं च मधुसंयुतम् ॥ ५० ॥ खड्ग विषाणैः परिवर्जिता ये तेषां हि मांसेन भवन्त्यन- न्तम् ॥ श्राद्धं महाराज ततः प्रदेयं खड्गस्य मांसिन हिताय तेषाम् ॥ ५१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० श्राद्धहविर्वर्णनो नाम कचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ ॥ श्राद्धकालं समाचक्ष्व सर्वधर्मभृतां वर ॥ कस्मिन्काले कृते श्राद्धे प्रीयन्ते पितरो नृणाम् ॥ १ ॥ मार्कण्डेय उवाच ॥ श्राद्धकालस्त्वमावास्यां नित्यं पार्थिवसत्तम ॥ पौर्णमासी तथा माघी श्रावणी च ॥ ९२ ॥

नरोत्तम ॥२॥ प्रोष्ठपद्यामतीतायां तथा कृष्णत्रयोदशी ॥ आग्रहायण्यतीतायां कृष्णास्तिस्रोऽष्टकास्तथा ॥३॥ शाकैश्च प्रथमं कार्यं मांसैश्च तदनु न्तरा ॥ तृतीया च तथाऽपूपैर्नित्यमेव विजानता ॥ ४ ॥ अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च ॥ अष्टकाविधिना हुत्वा क्रमेणैतास्तु पञ्चकाः ॥ ५॥ मात्रे राजन्पितामह्यै श्राद्धं कार्यं यथाविधि ॥ तथैव प्रपितामह्यै विश्वेदेवपुरस्सरम् ॥६॥ पिण्डनिर्वपणं कार्यं तासां च पितृवन्नृप॥ भुक्तेष्वथ च विप्रेषु तत्र कर्म निबोध मे ॥ ७ ॥ प्रादेशमात्रा राजेन्द्र चतुरंगुलमायताः ॥ तावदेव समुत्सेधाः षट्कुर्युस्तत्र कारयेत् ॥ ८ ॥ प्रत्येककर्षुमूले तु परिस्तीर्य हुताशनम् ॥ अग्निसोमयमौनां च यागं कृत्वा यथा पुरा ॥ ९ ॥ कर्षुत्रितयमूले तु पुरुषाणां तु कारयेत् ॥ पिण्ड निर्वपणं प्राग्वदेकैकस्मिन्यथाविधि ॥ १० ॥ कर्षुमिश्रितयं तच्च क्षीराद्भिः प्रपूर्येत ॥ कर्षुत्रितयमूले तु स्त्रीणां निर्वपणं भवेत् ॥ ११ ॥ दध्ना मांसेन पयसा कर्षूणां चैव पूरणम् ॥ १२ ॥ अन्नेनोदकमिश्रेण कार्यं मनुजपुङ्गव ॥ १२ ॥ भवन्तीभ्यो भवेदेतद्वश्यं परिकीर्तितम् ॥ एतानि श्राद्धकालानि नित्यान्याह प्रजापतिः ॥ १३ ॥ श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ॥ वृद्धौ श्राद्धं नरः कुर्वन्प्रियं वृद्धिमवाप्नुते ॥ १४ ॥ वृद्धौ समर्चयेद्विद्वांस्त्रित्यं नान्दीमुखांन्पितॄन् ॥ वृद्धिश्राद्धेषु कर्तव्यास्तिलस्थाने यवास्तथा ॥ १५ ॥ कर्कन्दुदधिसंमिश्रांस्तथा पिण्डांश्च निर्वपेत् ॥ अच्छिद्रनामभिः कर्तव्यं श्राद्धं वै पुत्रजन्मनि ॥ १६ ॥ आधोचोपरमे कार्यमथवाऽपि नराधिप ॥ विवाहदिवसे श्राद्धं तथा कार्यं विचक्षणैः ॥ १७ ॥ वृद्धिश्राद्धं विधानेन चन्द्रे जन्मर्क्षमन्त्रिते ॥ श्राद्धं प्रयत्नात्कर्तव्यं भूतिकामेन पार्थिव ॥ १८ ॥ उत्तरादयनाच्छ्राद्धं श्रेष्ठं स्याद्दक्षिणायने ॥ चातु र्मास्ये च तत्रापि प्रसुप्ते केशवे हितम् ॥ १९ ॥ प्रोष्ठपद्यपरं पक्षं तथापि च विशेषवत ॥ पञ्चम्यूर्ध्वं च तत्रापि दशम्यूर्ध्वं ततोऽप्यति॥२०॥ मघासंयुता च तत्रापि शस्ता राजंस्त्रयोदशी ॥ तत्राक्षयं भवेच्छ्राद्धं मधुना पायसेन च ॥ २१ ॥ सर्वस्वेनापि कर्तव्यं श्राद्धमत्र नराधिप ॥ परामभोजौ त्वपचः श्राद्धमत्र तु कारयेत् ॥ २२ ॥ यस्तु श्राद्धं सदा कुर्यात्सोऽश्वमेधफलो भवेत् ॥ निद्रां त्यजति सर्वोत्मा यस्मिन्काले जनार्दनः ॥ २३॥ तत्र श्राद्धमनन्तं नात्र कार्या विचारणा ॥ श्राद्धं संक्रमणे भानोः कर्तव्यं पृथिवीपते ॥ २४ ॥ विषुवद्वितयं तत्र अयने द्वे विशेषतः ॥ व्यती पाते तथा श्राद्धं ज्ञेयं बहुफलं नृप ॥ २५ ॥ अक्षय्यं च तथा श्राद्धं विज्ञेयं राहुदर्शने ॥ व्रीहिपाके च कर्तव्यं यवपाके तथैव च ॥ २६ ॥ अप न ताननुमहाराज विना श्राद्धं कथंचन ॥ आश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च ॥ २७ ॥ पूर्वाह्ने शुक्लपक्षस्य श्राद्धं कुर्याद्विचक्षणः ॥ अप राह्ने तथा कार्यं कृष्णपक्षे नराधिप ॥ २८ ॥ संध्ययोर्वर्जयेच्छ्राद्धं तत्र रात्रौ नरेश्वर ॥ रात्रावपि च कर्तव्यं यदा स्याद्राहुदर्शनम् ॥ २९ ॥

वि० ध० प्र० खं० अ० १४३

अक्षय्यं तत्सखाहृष्टं यद्दत्तं राहुदर्शने ॥ अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव ॥ ३० ॥ आरोग्यमथ सौभाग्यं समरे विजयं तथा ॥ सर्वान्कामांस्तथा विद्यां धनं जीवितमेव च ॥ ३१ ॥ आदित्यादिदिनेष्वेवं श्राद्धं कुर्वन्सदा नरः ॥ क्रमेणैतदवाप्नोति नात्र कार्या विचारणा ॥ ॥ ३२ ॥ स्वर्गं ह्यपत्यानि तथा ब्रह्मवर्चसमेव च ॥ रौद्रेण कर्मणा सिद्धिं भुवं पुष्टिं तथा श्रियम् ॥ ३३ ॥ सर्वान्कामांश्च सौभाग्यं धनं ज्ञाति प्रधानताम् ॥ रूपयुक्ताँश्च तनयान्वाणिज्याद्धनसंपदम् ॥ ३४ ॥ कनकं सुहृदो राज्यं सफलां च तथा कृषिम् ॥ समुद्राद्यानालाभं च सर्वान्का माँस्तथैव च ॥ ३५ ॥ श्रेष्ठ्यं कामांस्तथा सर्वान्बलमारोग्यमेव च ॥ रूप्यं द्रव्यं गृहं गाश्च तुरगाँश्चैव जीवितम् ॥ ३६ ॥ कृत्तिकादिभरण्यन्तं क्रमात् भगणे नरः ॥ एकैकस्मिन्क्रमात्कुर्वन्फलं प्राप्नोत्यसंशयम् ॥ ३७ ॥ स्त्रियः सुरूपाः स्वगृह्ये कन्यानां च तथा वरान् ॥ सर्वान्कामान्य शश्चैव द्यूतजयं कृषिम् ॥ ३८ ॥ वाणिज्यं पशवश्चैव वाजिनश्च तथा सुतान् ॥ सुवर्णरौप्यसौभाग्यं प्राप्नोति श्राद्धदः क्रमात् ॥ ३९ ॥ प्रतिपत्प्रभृति ह्येतद्यावच्चैवात्रषोडशी ॥ चतुर्दशी तु कर्तव्या ये नराः शस्त्रघातिताः ॥ ४० ॥ श्राद्धं सदा पञ्चदशीषु कार्यं कामान्समश्नुतेऽभीष्टं मनुष्यः ॥ तस्मात्प्रयत्नेन नरेन्द्र कार्यं श्राद्धं सदा पञ्चदशीषु तज्ज्ञैः ॥ ४१ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे श्राद्धकल्पवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४२ ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ ॥ कस्मै श्राद्धं न दातव्यं केन भुक्तं महाफलम् ॥ भवतोह द्विजश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ मार्कण्डेय उवाच ॥ ॥ अनुद्वाहतनयो गजन्त्यश्च पौनर्भवः सुतः ॥ शूद्रापतिर्दुराचारो वाणिज्येनायुधजीविकः ॥ २ ॥ तथा वार्धुषिको यश्च शूद्रस्य च पुरोहितः ॥ पर्वकारस्तथा मूर्खो यस्य चोपपतिर्गृहे ॥ ३ ॥ कृत्वा नक्षत्रनिर्देशं यश्च जीवति पार्थिव ॥ चिकित्सितेन च तथा यस्य वृत्तिर्नरेश्वर ॥ ४॥ वेदविक्रयको यश्च वेदनिन्दक एव च ॥ तर्कशास्त्रेण दृब्धश्च नास्तिको धर्मवर्जितः ॥ ५ ॥ पिता विवदमानश्च यश्चैवोपनयेद्बहून् ॥ अयाज्ययाजी स्तेनश्च दम्भी कितव एव च ॥ ६ ॥ श्वित्री च यस्तथा काणो बधिरोऽन्धः कुणिस्तथा ॥ पशूनां पतिनैश्चैव ग्रामप्रेष्यो निराकृतिः ॥ ७ ॥ अवकीर्णी कुण्डगोली कुनखी श्यावदन्तकः ॥ कन्यादूष्यभिशस्तश्च मित्रध्रुक् पिशुनस्तथा ॥ ८ ॥ परिवित्तिः परीवेत्ता तस्य कन्याप्रदश्च यः ॥ याजकश्च तथा तस्य सोमविक्रयकृत्तथा ॥ ९ ॥ कूटसाक्षी च वाग्दुष्टः पदाङ्गो विकर्मकः ॥ तथा देवापविद्धाभिः विरुद्धजनकस्तथा ॥ १० ॥ यश्च हीनातिरिक्तोजो

॥ ९३॥


१ 'श्राद्धैर्दत्तं' इति ख० । २ 'तथैव चापविद्याभिविरुद्धप्रजननस्तथा' इति ख० ।

दुष्कर्मा दम्भकस्तथा ॥ यश्च युक्तस्तथा राजन्पातकैश्चोपपातकैः ॥ ११ ॥ द्विषन्मित्रे उभे चैव प्रयत्नेन विवर्जयेत् ॥ अतः परं प्रवक्ष्यामि ब्राह्मणांम्पङ्क्तिपावनान् ॥ १२ ॥ ब्रह्मदेयानुसन्तानः तपस्वी विजितेन्द्रियः ॥ पारगो यजुषां यश्च सामवेदस्य पारगः ॥ १३ ॥ ऋग्वेदपारगो यश्च सुवर्णरङ्गसम्पारगः ॥ अथर्वशिरसोऽध्येता त्रिसुपर्णस्य पारगः ॥ १४ ॥ त्रिणाचिकेतः पञ्चाग्निधर्मशास्त्रविशारदः ॥ पुराणपारगो यश्च इतिहासविशारदः ॥ १५ ॥ अधीते सोत्तरं यश्च विष्णुधर्ममिदं शुभम् ॥ विजानाति यथावच्च यश्च व्याकरणं नृप ॥ १६ ॥ ज्योतिषश्च तथा वक्ता आयुर्वेदस्य च द्विजः ॥ ताभ्यां वृत्तिं न चेत्कुर्याद्वृत्तिस्ताभ्यां विगर्हिता ॥ १७ ॥ आहिताग्निश्च यो विद्वांत्सोमपश्च द्विजोत्तमः ॥ गुरुशुश्रूषणपरस्तीर्थपूतश्च यादव ॥ गायत्रीजपपिनरतो योगी ध्यानपरायणः ॥ १८ ॥ यस्याव्यनन्ते जगतामधीशे भक्तिः परा यादव वृन्ददेवे ॥ तस्मात्परं नाप्यमस्ति किञ्चित्पात्रं त्रिलोके पुरुषप्रवीर ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पात्रापात्रपरीक्षाविवि- र्चनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४३ ॥ वज्र उवाच ॥ कस्मिन्त्सुबहुफलं श्राद्धं देशे ब्राह्मणपुङ्गव ॥ एतन्त्सर्वं समाचक्ष्व भवान्त्वल्ह- इवाऽपरः ॥ १ ॥ मार्कण्डेय उवाच ॥ गयाशीर्षवटे श्राद्धमक्षय्यं परिकीर्तितम् ॥ यद्दर्पणमैया चरति गाया लोके पुरातनी ॥ २ ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ३ ॥ पुष्करेष्वक्षयं श्राद्धं प्रयागे नैमिषे तथा ॥ वाराणस्यां प्रभासे च कुरुक्षेत्रे समन्ततः ॥ ४ ॥ सन्निहत्यां विशेषेण राहुग्रस्ते निशाकरे ॥ (राहुग्रस्ते दिनकरे सन्नीत्यां पार्थिवोत्तम) ॥ ५ ॥ श्राद्धं कृत्वा समाप्नोति राजन्सुचरितं नरः ॥ अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम्॥६॥ स्नात एव तदामोति कृत्वा श्राद्धं स मानवः॥सर्व्वेषु देवलोकेषु कामचारी विराजते॥७॥पञ्चवर्णेन यानेन किङ्किणीजालमालिना ॥ देवरामागणादृष्टेन वीणासुरजनादिना ॥ ८॥ दिव्यश्वेताम्बुयुक्तेन कामगेन यथासुखम् ॥ आभूतसंप्लवं यावत्क्रीडत्यप्सरसां गणैः ॥ ९ ॥ कृतकृत्यश्च भवति पितॄणामनृणस्तथा ॥ श्राद्धं तथा पितॄणां च नोपयुज्येत वै पुनः ॥ १० ॥ यत्र क्वचन गङ्गायां श्राद्धस्यानन्त्यमुच्यते ॥ यमस्य भगिनी देवी यमुना पापनाशिनी ॥ ११ ॥ यत्र क्वचन तस्यां हि श्राद्धस्यानन्त्यमुच्यते ॥ पितॄणां दुहिता राजन्नर्मदा सरितां वरा ॥ १२ ॥ तस्यास्तीरे तथानन्तं श्राद्धं सर्वत्र पार्थिव ॥ अक्षयं च तथा श्राद्धमपारान्तिकपर्वते ॥ १३ ॥ वराहपर्वते राजञ्छ्राद्धस्यानन्त्यमुच्यते ॥ हिमवान्पर्वतश्रेष्ठः शङ्करश्वशुरो गिरिः ॥ १४ ॥ आकरः सर्व्वरत्नानां सर्व्वसत्त्वमपाश्रयः ॥ ताम्रनाला


१ 'पारगोऽथ्युर्वशाखायाम्' इति ख० । २ कोष्ठान्तर्गतः पाठः बहुपुस्तके नास्ति ।

वि० ध० ॥ १४ ॥ प्र० खं० अ० १४५ ॥ ४४ ॥

मधीवासः श्राद्धं तत्राऽक्षयं भवेत् ॥१६॥ एवमादिषु तीर्थेषु पर्वतेषु सरित्सु च ॥ सरोवरेषु सुरम्येषु ऋषीणामाश्रमेषु च ॥१६॥ निर्झरेषु तथारण्ये नदीनां प्रभवेषु च ॥ सङ्गमेषु च सुरम्येषु पुलिनेषु विशेषतः ॥१७॥ उद्यानेषु विचित्रेषु सेकतेषु समेषु च ॥ शाद्वलेषु च रम्येषु गिरीणां कन्दरासु च ॥ १८ ॥ गह्वरेषु नितम्बेषु च्छायायां कुञ्जरस्य च ॥ महीगतान्तरन्यस्तगजच्छायासु पार्थिव ॥ १९ ॥ यः कुर्यादपगेहे तु स कृच्छ्रार्हं प्रयत्नतः ॥ अक्ष्यमन्नपानं तु पितॄणां चोपतिष्ठतौ २०॥ गोमयेनोपलिप्तेषु श्राद्धं कार्यं गृहेषु च। मनोनेज्ञेषु विचित्रेषु रुचिरोपवनेषु चा। २१॥ देवा यतनेगोष्ठेषु श्राद्धं बहुफलं भवेत् ॥२२॥ तीर्थानि यानिह नरेन्द्रचन्द्र लोके पुराणैः परिकीर्तितानि ॥ तीरेषु तेषां विधिवत्प्रदाय श्राद्धं न शोचन्म रणं जितात्मा ॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे मार्कण्डेयवज्रसंवादे श्राद्धदेशानुकीर्तनो नाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४४ ॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि पितृभिर्याः प्रकीर्तिताः ॥ गाथाः पार्थिवशार्दूल कामयद्भिः पुरे स्वके ॥ १ ॥ अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलाञ्जलिम् ॥ नदीषु बहुतोयासु शीतलासु विशेषतः ॥ २ ॥ अपि स्यात्स कुलेऽस्माकं हिमगर्भं जलाञ्जलिम् ॥ तिलमाक्षिक संयुक्तं यो नो दद्यात्समाहितः ॥ ३ ॥ अपि स्यात्स्वकुलेऽस्माकं यो नो दद्याच्च भक्तितः ॥ पायसं मधुसंमिश्रं वर्षासु च मघासु च ॥४॥ दाल्य उवाच ॥ पन्त्यो नृणां मुनिश्रेष्ठ योषितां च तथा नराः ॥ तच्छ्रोतुमिच्छा विप्रर्षे विधवा स्त्री न जायते ॥ ५ ॥ उपोषितेन येनाव्य पत्न्या न रहितो नरः ॥ पुलस्त्य उवाच ॥ अशून्यशयनं नाम द्वितीयां शृणु भो द्विज ॥६॥ यामुपोष्य न वैधव्यं प्रयाति स्त्री द्विजोत्तम ॥ पत्नीवियुक्तश्च नरो न कदाचित्प्रजायते ॥ ७ ॥ शेते जलनिधौ कृष्णः श्रिया सार्धं यदा द्विज ॥ अशून्यशयना नाम तदा श्राद्धे हि सा तिथिः ॥ ८ ॥ कृष्णापक्षद्वितीयायां श्रावणे मुनिसत्तम ॥ इममुच्चारयेन्मन्त्रं प्रणम्य जगतः पतिम् ॥ ९ ॥ श्रीवत्सधारिणं श्रीशं भक्त्याभ्यर्च्य श्रिया सह ॥ श्रीवत्सधारिञ्छ्रीकान्त श्रीधाम श्रीपतेऽच्युत ॥ १० ॥ गार्हस्थ्यं मा प्रणशं मे यातु धर्मार्थकामदम् ॥ अग्नयो मा प्रणश्यन्तु मा प्रणश्यन्तु देवताः ॥ ११ ॥ पितरो मा प्रणश्यन्तु मतो दाम्पत्यभेदतः ॥ लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान् ॥ १२ ॥ तथा कलत्रसं बन्धो देव मे नैव भिद्यतु ॥ लक्ष्म्या शङ्खगदापद्मकरया सह ॥ १३ ॥ शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥ एवं प्रमाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः ॥१४॥ फलानि दद्याच्छय्यायामभीष्टानि जगत्पतेः ॥ नक्तं प्रणम्यपायतनं हविष्यंञ्चीत वाग्यतः ॥ १५ ॥ ब्राह्मणाय द्विती येऽह्नि शय्यां दद्यात्सदक्षिणाम्॥ एवं करोति यः सम्यङ्नरो मासचतुष्टयम्॥१६॥तस्य जन्मत्रये दाल्य गृहमङ्गो न जायते॥ अशून्यशयनश्यामा

धर्मकर्मार्थसाधकः ॥ १७॥ भवत्यव्याकृतैर्भावैः पुरुषो नात्र संशयः ॥ नारी च दाल्भ्य धर्मज्ञ व्रतमेतद्यथाविधि ॥ १८॥ या करोति न सा शोच्या बन्धुवर्गस्य जायते ॥ वैधव्यं दुर्भगत्वं वा भर्तुर्वैद्धयं च सत्तम ॥ १९॥ नाप्नोति जन्मत्रितयमेतच्चोर्त्वा पतिव्रता ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अशून्यशयनद्वितीयावर्णनो नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४५ ॥ दाल्भ्य उवाच ॥ उपवासान्वितं सम्यक्लोकद्वयफलप्रदम् ॥ कथितं भवता सर्वं यत्पृष्टोऽसि मया द्विज ॥ १ ॥ अन्यदिच्छाम्यहं श्रोतुं तद्भवान्प्रब्रवीतु मे ॥ संसारेऽहं मुक्तिञ्च संसारान्मुनिसत्तम ॥ २ ॥ पुलस्त्य उवाच ॥ अविद्याप्रभवं कर्म हेतुभूतं द्विजोत्तम ॥ संसारस्यास्य तन्मुक्तिः संक्षेपाच्छ्रूयतां मम ॥ ३॥ स्वजातिविहितं कर्म रागद्वेषविवर्जितम् ॥ कुर्वतः क्षीयते पूर्वमन्यच्चैन्नोपचीयते ॥ ४ ॥ अपूर्वसंभवाभावात्क्षयं याते तु कर्मणि ॥ १ दाल्भ्य संसारविच्छेदः कारणाभावसंभवः ॥ ५ ॥ भवत्यसंशयं चान्यच्छ्रूयतामत्र कारणम् ॥ संसारविद्युतेर्दाल्भ्य समासाद्वदतो मम ॥ ६ ॥ गृहीता कर्मणा येन पुंसा जातिर्द्विजोत्तम ॥ तत्प्रायश्चित्तभूतं वै शृणु कर्मक्षयावहम् ॥ ७ ॥ ब्राह्मणक्षत्रियविशां शूद्राणाञ्चापि यत् सत्तम ॥ स्वजातिविहितं कर्म रागद्वेषविवर्जितम् ॥ ८ ॥ जातिप्रदस्याल्पत्वं तदेवाद्यास्य कर्मणः ॥ ज्ञानकारणभावं च तदेव प्रतिपद्यते ॥ ९ ॥ पुमाँश्चाधिगतज्ञानो भेदं नाप्नोति सत्तम ॥ ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययात्मना ॥ १० ॥ एतत्ते कथितं दाल्भ्य संसारस्य समासतः ॥ कारणं भवमुक्तिश्च जायते योगिनो यथा ॥ ११ ॥ मार्कण्डेय उवाच ॥ इति दाल्भ्यः पुलस्त्येन यथावत्प्रतिबोधितः ॥ आराधयामास हरिं लेभे कामांश्च वाञ्छितान् १२ ॥ तथा त्वमपि राजेन्द्र केशवाराधनं कुरु ॥ आराध्य तं जगन्नाथं न कश्चिद्व्यसीदति ॥ १३ ॥ एतन्मयोक्तं सकलं तव भूमिप पृच्छतः ॥ अनाराध्याच्युतं देवं कः कामानाप्नुयान्नरः ॥ १४ ॥ वज्र उवाच ॥ भगवानवतीर्णोऽभून्मर्त्यलोकेमिहाच्युतः ॥ भागवततारणार्थाय सुव्रो भीष्महितैषिणैः ॥१५॥ मातृष्वत्रे च गोविन्दो मम पूर्वपितामहः ॥ चकार प्रीतिमतुलां पाण्डुपुत्रैः सह द्विज ॥१६॥ साच्यं कृतवाँश्चैव तेषां सर्वेश्वरो हरिः ॥ निस्तीर्णो येन भीष्मोधौ कुरुसैन्यमहोदधिः ॥१७॥ उपकारी महाभागः स तेषां सर्ववस्तुषु ॥ केशवः पाण्डुपुत्राणां सुतानां जनको यथा ॥ १८ ॥ धन्यास्ते कृतपुण्याश्च ते मे पाण्डुसुता मताः ॥ विविशुर्ये परिष्वङ्गैरङ्गोविन्दस्यजङ्गमम् ॥ १९ ॥ गज्यहेतोरिहार्जुन कस्मात्पाण्डुनन्दनाः ॥ सप्तलोकैकनाथेन ये भवन्त्येकशायिनः ॥ २० ॥ आत्मानमनुगच्छामि भगवन्तकलम्वम् ॥ जातं निधूतपापैऽस्मिन्


१ 'क्षयं यात्यादिकर्मणि' इति ख० ।

वि० ध० ॥ ३५ ॥ प्र० मं० अ० १४६

कुले विष्णुपरिग्रहे ॥ २१ ॥ एवं देववरस्तेषां प्रसादात्सुमुखो हरिः ॥ पृच्छतां कश्चिदद्याद्य किंचिदिष्टं महात्मनाम् ॥ २२ ॥ गुह्याज्जनार्दनं यांस्तु धर्मपुत्रो युधिष्ठिरः ॥ पप्रच्छ धर्मान्निखिलांस्तान्ममाख्यातुमर्हसि ॥ २३ ॥ धर्मार्थकाममोक्षेषु यदृष्टं मधुसूदनः ॥ तेषामेवाग्रदृग्भावान्नोक्तो मिच्छामि तत्त्वतः ॥ २४ ॥ मार्कण्डेय उवाच ॥ बहूनि धर्मगुह्यानि धर्मपुत्राय केशवः ॥ पुरा प्रोवाच राजेन्द्र प्रसादात्सुमुखो हरिः ॥ २५ ॥ शरतल्पगताद्भीष्माच्छ्रुत्वा युधिष्ठिरः ॥ पृष्टवान्यज्जगन्नाथं तन्मे निगदतः शृणु ॥ २६ ॥ पञ्चमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः ॥ युधिष्ठिर उवाच ॥ ॥ भगवन्वैष्णवा धर्माः किंफलाः किंपरायणाः ॥ २७ ॥ किं कृत्यमधिकृत्यैते भवन्तोत्पादिकाः पुरा ॥ यदि ते पाण्डवेशेहो विधृते मधुसूदन ॥ २८ ॥ श्रोतव्यास्ते मया धर्मास्तन्ममाख्यातुमर्हसि ॥ पवित्रांश्च ये धर्माः सर्वपापप्र- णाशनाः ॥ २९ ॥ तव वक्त्रच्युता देव सर्वधर्मेष्वनुत्तमाः ॥ यच्छ्रुत्वा ब्रह्मघ्नो गोघ्नः पितृघ्नो गुरुतल्पगः ॥ ३० ॥ सुरापो वा कृतघ्नश्च मुच्यते सर्वकिल्विषैः ॥ एतन्मे कथितं सर्वं समाचक्ष्व सुरोत्तम ॥ ३१ ॥ वशिष्ठाद्यैर्महाभागैर्मुनिभिर्भावितात्मभिः ॥ ततोऽहं तव देवेश पादमूल- मुपागतः ॥ ३२ ॥ धर्मान्कथय तान्देव यदहं भवतः प्रियः ॥ श्रुत्वा मे मानवान्धर्मान्वासिष्ठांश्च महाफलान् ॥ ३३ ॥ पाराशरकृतांश्चैव तथाऽत्रेयस्य धीमतः ॥ श्रुत्वा शङ्खस्य गार्ग्यस्य लिखितस्य यमस्य च ॥ ३४ ॥ जाबालेश्च महाबाहोस्तृणैर्द्वैपायनस्य च ॥ उशनामहवृद्धैश्च जातिवंशांश्च पावनाः ॥ ३५ ॥ गुणस्य गुणबाधैश्च काश्यपस्यालयेतथ च ॥ बहुव्यनकृतांश्चैव शाकुनेयांस्तथैव च ॥ ३६ ॥ अगस्त्यप्रोक्ता मौद्गल्याः शाण्डिल्याः सौरभास्तथा ॥ मुगोदङ्गिरसश्चैव कश्यपोद्दालकोदिताः ॥ ३७ ॥ सुमन्ता जैमिनीयाश्च पैलम्य च महात्मनः ॥ दश मपायतनीताश्च पिप्पलादकृताश्च ये ॥ ३८ ॥ ऐन्द्राश्च वारुणाश्चैव कौवेरा वात्स्यपायिनकाः¹ ॥ आपस्तम्बकृता धर्मान्नक्त्या गोपालकन्म्य- च ॥ ३९ ॥ मुद्गलबिन्दुःकृताश्चैव सौरा हरितकास्तथा ॥ श्रीभगवानुवाच ॥ शृणु राजन्यहाबाहो धर्मानसन्कुरुनन्दन ॥४०॥ धर्मवृद्धिकरं वर्ष्म वृषभस्य तु लक्षणम् ॥ ऋषभः स समुद्राख्यः सततं कुलवर्धनः ॥ ४१ ॥ मण्डिकापुष्पाचित्रश्च धन्यो भवति पुङ्गवः ॥ कामैर्लोमण्डलैश्चापि स्निग्धा भवति भोगदः ॥ ४२ ॥ अतसीपुष्पवर्णैश्च तथा धन्युत्तरः स्मृतः ॥ एते धन्यान्तथाधन्यान्कीर्तयिष्यामि ते नृप ॥ ४३ ॥ हृस्वातालाब्राडे दशना रूक्षशृङ्गाशफाश्च ये ॥ अव्यक्तवर्णा हरवाश्च व्याघ्रसम्मतिभाश्च ये ॥ ४४ ॥ ध्वाङ्क्षामप्रवर्णाश्च तथा सूपकणिर्भमाः ॥ कुब्जाः काणा


¹ 'वात्स्यपौलकाः' इति ख० ।

॥ २५ ॥

स्तथा खञ्जाः केकराक्षास्तथैव च ॥ ४५ ॥ विषमश्वेतपादाश्च उद्धान्तनयनास्तथा ॥ न ते वृषाः प्रयोक्तव्या न च धार्यास्तथा गृहे ॥ ४६ ॥ मोक्तव्यानां च धार्याणां भूयो वक्ष्यामि लक्षणम् ॥ ४७ ॥ स्वस्तिकाकारशृङ्गाश्च मेघघोषसदृशस्वनाः ॥ महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः ॥ ॥ ४८ ॥ महोरस्का महोच्छासा महाबलपराक्रमाः ॥ शिरः कर्णौ ललाटं च वालधिश्चारुणानि च ॥ ४९ ॥ नेत्राग्रं च खुरोष्ठानि शस्यन्ते चन्द्रमस्त्विषः ॥ चिह्नान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः ॥ ५० ॥ भूमिं कर्षति लांगूलात्प्रशस्तः स्थूलवालधिः ॥ पुरस्ताच्च तथा नीचो वृषभश्च प्रशस्यते ॥ ५१ ॥ शङ्खिचक्रपताकाभा येषां राजिर्विरोजते ॥ अनडुहस्ते ते धन्या ऋद्धिसिद्धिप्रदा वहाः ॥ ५२ ॥ प्रदक्षिणं निवर्त्तन्ते स्वयं ये विनिर्वर्तिताः ॥ समुन्नतनिरोध्रीवा धन्यास्ते कोशवर्द्धनाः ॥ ५३ ॥ रक्तशृङ्गानयनना- श्वेतवर्णा भवन्त्यपि ॥ शफैः प्रवालसदृशैर्नास्ति धन्यतरस्ततः ॥ ५४ ॥ एते धन्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः ॥ धारिताश्च तथा मुक्ता धनधान्यविवर्द्धनाः ॥ ५५ ॥ चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ॥ लाक्षारससवर्णश्च तं नीलमिवि निर्दिशेत् ॥ ५६ ॥ वृष एव स मोक्तव्यो न संशार्यो गृहे भवेत् ॥ यदर्थमेशा चरित गाथा लोके पुरातनी ॥ ५७ ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥५८॥ एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन् ॥ मुक्त्वा न शोचेन्मरणं महात्मा मोक्षं विधिं चाहमतो विधास्ये ॥ ५९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृषलक्षणवर्णनो नाम षट्पञ्चाशिरुत्तरशततमोऽध्यायः ॥ ॥ १४६ ॥ मार्कण्डेय उवाच ॥ आश्वयुक् कृष्णपक्षस्य पञ्चदश्यां नराधिप ॥ कात्तिकिक्यास्तथैवा मासि वृषोत्सर्गं तु कारयेत् ॥ १ ॥ ग्रहणे द्वे महा पुण्ये तथा चैवायनाद्वयम् ॥ विषुवाचितयं चैव सुताहो वान्यवस्य च ॥ २॥ मृताहो यस्य तस्यार्थे तस्मिन्नहनि शङ्करम् ॥ सुसमिद्धं गवां मध्ये परिस्तीर्य हुताशनम् ॥ ३ ॥ पयसा श्रपयेद्भिक्षां श्लक्ष्णं समाहितः ॥ पूषा गा अन्वेतु नश्च पूष्णे हुत्वा नराधिप ॥ ४ ॥ इह राडिति हुत्वा च जपेद्रुद्रान्समाहितः ॥ तथैव पौरुषं सूक्तं कूष्माण्डानि नराधिप ॥ ५ ॥ ततः कोष्णेन वृषभमद्भिस्नातंः सुशिल्यवान् ॥ शूलेन दक्षिणे पार्श्वे वामे चक्रेण निर्दहेत् ॥ ६ ॥ अङ्कितं स्नापयेत्पश्चात्स्नाने तस्य तथा पठेत् ॥ हिरण्यवर्णोति ऋचश्चतस्रो मनुजेश्वर ॥ ७ ॥ आपो हि ष्ठेति तिस्रश्च शन्नो देवीति चाप्यथ ॥ वत्सतर्यश्चतस्रश्च तं वृषं च नराधिप ॥ ८ ॥ अलङ्कुर्यात्ततः पश्चाद्गन्धमाल्यैश्च शक्तितः ॥ किङ्किणीभिश्च रम्याभिस्तथा


१ 'तौश्च वापुहुद्देहायम्' इति ख० ।

वि० ध० ॥ ९६॥ प्र० खं० अ० १४८

चीनौशनैः शुभः ॥ ९ ॥ ततः कर्त्ता जपेन्मन्त्रमिमं प्रयतमानसः ॥ वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ॥ वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः ॥१० ॥ एवं युवानं वृषभं ददामि गवां पतिं यूथपतिं सवर्षम् ॥ अनेन सार्धं चरत प्रकामं यथा तथा प्राप्नुत वत्सतर्यः ॥ ॥ ११ ॥ एवं युवानं गोपतिं वो ददामि अनेन क्रीडन्तीश्वरतैः प्रियेण ॥ सहास्माभिः प्रजया मा तरिभ्मिो वथाम द्विपतं सोमराजन् ॥ १२॥ मन्त्रं पिता वत्स इति प्रतीतं जपेत् कर्णे वृषभस्य सव्ये ॥ प्रचालयेतं वृषभं ततस्तु पूर्वा दिशं वत्सतरेश्च सर्वाः ॥१३॥ वामोयुगं भर्हातुरथ प्रदेयं सुवर्णयुक्तं मधुघृतं च कांस्यम् ॥ शिल्पान्वधानस्य तथैव मूल्यं देयं यथा तुष्टिसुपैति राजन् ॥ १४ ॥ विप्रान्नथान्नं दधिमर्पिपा युतं संभोज नीयाः पयसा च मिश्रम् ॥ उत्सृष्टमात्रे वृषभे व्रजन्ति तृप्तिं परां तस्य पितामहा ये ॥ १५ ॥ यस्मिंस्तडागे म जलं तृषार्त्तः पातुं ममा गच्छति तत्पितॄणाम् ॥ दिव्याम्बुपूर्ण कलशं महीपते लोकं परं तृप्तिमन्तः प्रयान्ति ॥ १६ ॥ सरिद्वरां काञ्चिदथोपयाति तृष्णान्वितस्तस्य पितामहानाम ॥ तर्ति विधत्ते सरितां वरिष्ठा सुदीर्घकालं विमलाम्बुवाहैः ॥ १७॥ दर्पेण पूर्णः सविषाणघातेर्यदा यदा धारयते तरङ्गान् ॥ पितॄन्तदा तस्य तदन्न कूटं ध्रुवं स यतीति न संशयोऽत्र ॥ १८ ॥ रोग्णां च तुल्यानि शतानि राजन्भोक्ता तथा तस्य दिवं प्रयाति ॥ मवन्तमगणां परिपूर्णकामः संसेव्यमानस्त्रिदशाङ्गनाभिः ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृपोत्सर्गवर्णनो नाम मतसप्तवारिंशदुत्तमशतमो ऽध्यायः ॥ १४७॥

॥ वज्र उवाच ॥ चरितं बुधपुत्रस्य मार्कण्डेय मया श्रुतम् ॥ अतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः ॥ १॥ वन्ध्याः प्रसूयमान्याः फलं दाने तथा श्रुतम् ॥ कृष्णाजिनप्रदानं च वृषोत्सर्गमथैव च ॥ २ ॥ श्रुत्वा रूपं नगेन्द्रस्य बुधपुत्रस्य भार्गव ॥ कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः ॥ ३ ॥ केन कर्मविपाकेन स तु राजा पुरूरवाः ॥ अवाप तादृशं रूपं मोभोयामपि चोत्तमम् ॥ ४ ॥ दुर्वासिषुसुवन् श्रोधामन्यतर्वाश्च मनोरमान् ॥ उर्वशी संगता त्यक्त्वा सर्वभावेन तं नृपम् ॥ ५ ॥

मार्कण्डेय उवाच ॥ शृणु कर्मविपाकंन येन राजा पुरूरवाः ॥ पुरूरवा इति ख्यातो मद्भवन्सिन्महीपतिः ॥ ६ ॥ चाक्षुपस्यान्यन्वे जातश्चाक्षुषमन्वन्तरं मनोः ॥ मवन्वृषणगुणैर्युक्तः कवले . हूप वर्जितः ॥ ७ ॥

वज्र उवाच ॥ पुरूरवा मद्भूयतिः कर्मणा केन भार्गव ॥ वभूव कर्मणा केन कुरूपश्च तथा द्विज ॥ ८ ॥

मार्कण्डेय उवाच ॥ द्विजयामे द्विजश्रेष्ठो नाथेवाडऽसीत्पुरूरवाः ॥ नद्याः कूले महाराज पूर्वजन्मनि पार्थिवः ॥ ९॥ म तु मद्रपतिर्नासा योऽभूद्राजा पुरूरवाः ॥ अस्मिञ्जन्मव्यसो विप्रो द्वादशीषु सदानघ ॥ १० ॥ उपोष्य पूजयामास राज्यकामा जनार्दनम् ॥ चकार लापनानं च ॥ ९६॥

स्नानमभ्यङ्गपूर्वकम् ॥ ११ ॥ उपवासफलं प्राप्य राज्यं मद्रेश्वरूपकम् ॥ उपोषितस्तदाम्यङ्गान्द्रूपहीनोऽभ्यजायत ॥ १२ ॥ उपोषितो नरस्तस्मात्स्नानमभ्यङ्गपूर्वकम् ॥ वर्जयेत्तत्प्रयत्नेन रूपघ्नं तत्परं नृणाम् ॥ १३ ॥ एतत्ते कथितं तस्य यद्वृत्तं पूर्वजन्मनि ॥ मद्रेश्वरत्वे चरितं शृणु तस्य महीपतेः ॥ १४ ॥ तस्य राजगुरोः सर्वैः समुपेतोऽथ पार्थिव ॥ जनानुरागो नैवासीद्रूपहीनस्य यादव ॥ १५ ॥ रूपकामः स मद्रेशस्त पसे कृतनिश्चयः ॥ राज्यं मन्त्रिगते कृत्वा जगाम हिमपर्वतम् ॥ १६ ॥ व्यवसायाद्वितीयस्तु पद्भ्यामेव महायशाः ॥ ऊर्द्धं संतीर्य स नदं विष्वान्ते स्वकीं नदीम् ॥ इरावतीमिति ख्यातां ददर्शोदतिमनोहराम् ॥ १७ ॥ तुहिनगिरिभवां महौघवेगां तुहिनसगर्भसमानशीततोयाम् ॥ तुहिनसदृशवर्णफेनयुक्तां तुहिनपक्षाः सरितं ददर्श राजा ॥ १८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मद्रेश्वरस्य तपोवन गमनं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४८ ॥ मार्कण्डेय उवाच ॥ स ददर्श नदीं पुण्यां रम्यां हैमवतीं शुभाम् ॥ गन्धर्वगणसंकीर्णां नित्यं शक्रेण सेविताम् ॥ १ ॥ सुरभ्रमदसिंदूरैर्यस्यां राजिर्विराजते ॥ मध्येन शक्रचापाभा तस्यां मज्जति सर्वदा ॥ २ ॥ तपस्विकशरणायातां मुख्यब्राह्मणसेविताम् ॥ ददर्श शीतपानीयां महाराजः पुरूरवाः ॥ ३ ॥ प्लुतहंसावलीच्छां काशाचामरवीजिताम् ॥ साभिषेकामिव स तां पश्यन्प्रीतिं परां ययौ ॥ ४ ॥ पुण्यां सुशीतलां हृद्यां मनसः प्रीतिवर्धिनीम् ॥ क्षयवृद्धिगतां सौम्यां सोममूर्तिमिवापराम् ॥ ५ ॥ सुशीतशीघ्र पानीयां द्विजपुञ्जनिषेविताम् ॥ सुतां हिमवतः श्रेष्ठां चञ्चद्वीचिविराजिताम् ॥ ६ ॥ अमृतस्वादुसलिलां तापसैरुपशोभिताम् ॥ स्वर्गारोहणनिः श्रेणीं सर्वकल्मषनाशिनीम् ॥ ७ ॥ अदभ्रां समुद्रमहिषीं महिषीगणगाहिताम् ॥ हितां सर्वस्य लोकस्य कस्य नौत्सुक्यकारिणीम् ॥ ८ ॥ गोकुलाकुलतीरां तां रम्यां शैवालजटिलाम् ॥ हंससारससंघृष्टैर्जलजैः सेवितां शुभैः ॥ ९ ॥ आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलाम् ॥ नीलनीरजनेत्रां तामुरुद्रुमकमलालकाम् ॥ १० ॥ हिमाभफेनवसनां चक्रवाकस्तनीं शुभाम् ॥ बलाकापङ्क्तिदशनां चलन्मत्स्यावलिभ्रुवम् ॥ ११ ॥ स्वजलोद्धतमातङ्गरम्यकुम्भपयोधराम् ॥ हंसनूपुरसंघुष्टां मृणालवलयावलीम् ॥ १२ ॥ यस्यां रूपमदोन्मत्तमत्तगन्धर्वावृतः सदा ॥ मध्या ह्नसमये राजन्क्रीडत्यप्सरसां गणः ॥ १३ ॥ तामप्सरोविनिर्मुक्तैर्नानावर्णैः कुसुमोज्ज्वलाम् ॥ स्वतीरसमुद्भूतैर्नानावर्णात्सुग न्धिभिः ॥ १४ ॥ तरङ्गशतसंक्रान्तसूर्यमण्डलदुर्द्दशाम् ॥ सुरमज्जनितान्वातप्रद्रव्यविषभूषिताम् ॥ १५ ॥ शक्रभ्रमणडसल्लिलैदैवृक्षीकुच चन्दनैः ॥ संयुतं सलिलं यस्याः षट्पदैरुपसेव्यते ॥ १६ ॥ यस्यास्तीरभवा वृक्षाः सुगन्धिकुसुमान्विताः ॥ तथा प्रकृष्टभ्रमरा

१७

वि० ध० ॥ १७ ॥ प्र० खं० अ० १५०

भ्रमरैस्ते निराकुलाः ॥ १७ ॥ यस्यास्तीरे रतिं यान्ति सदा कामवशात्तुगाः ॥ तपोधनाश्च ऋषयस्तथा देवाः सवासवाः ॥ १८ ॥ लभन्ते यत्सुताङ्गास्तु देवेभ्यः प्रतिमाननाः ॥ स्त्रियश्च नाके बहुलाः पञ्चेन्द्रियशतात्मनाः ॥ १९ ॥ या बिभर्ति सदा तोयं देवसंघैरपीडितम् ॥ पुलिन्दमृगवृन्दैश्च व्याघ्रसंघैरुपाडितम् ॥ २० ॥ सततमस्नपनीयां सतारगणनामलाम् ॥ स तां पश्यन्नृपो राजा सतामीप्सितकामदाम् ॥ २१॥ यस्यास्तीररुहैः कारैः फुल्लैश्चंद्रांशुसन्निभैः ॥ राजद्भिर्विवृताकाशं रम्यैस्तत्क्षीरसन्निभैः ॥ २२॥ या च सदा दिवि सेव्येति¹ देवेर्यो च सदा भुवि सेव्येति² विप्रैः ॥ या च सदा सकलाघविनाशं भक्तजनस्य करोत्यतिचित्रा ॥ २३॥ या च गता सरितां हि कदम्बैर्यो च युता सततं हि महीनैः ॥ या च युता शततोयकदम्बैर्यो च गता सततं हिमहीनः ॥ २४ ॥ युक्तापि केलिस्रैगौणैः कल्पिवृन्दायता सन्भागयुक्तसलिलापि सुवर्णयुक्ता ॥ सुवर्णयुक्ता पद्मविशुद्धिविदृशीला शीतांशुतुल्यपयसा ददृशे नृपेण ॥ २५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इरावतीवर्णनो नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥ मार्कण्डेय उवाच ॥ आलोक्यचन्द्रीं पुण्यां तस्मन्मिरिहृतकुम् ॥ स गच्छंश्च ददर्श हिमवन्तं महागिरिम् ॥ १ ॥ वसुच्छिद्रविर्दुभिर्वृतं भूर्जैः सुपान्डुरैः॥ पश्चिमामथ संचोरयिन सिद्धगीतं शुभाभू ॥ २॥ नदीप्रपातसंजातमहाशब्दैः समन्ततः ॥ असंश्लूतान्यशब्दान्तं शीततोयं मनोरमम् ॥ ३ ॥ देवदारुवनैर्नीलैः कृताद्योवसनं शुभम् ॥ मेघतोयंतयं तं शैलं ददर्श स नराधिपः ॥ ४ ॥ श्येनमेघकृतोष्णीषं चन्द्रार्केन्दुकरं क्वचित् ॥ हिमावृनितसर्व्वाङ्गं क्वचिद्धातुविचित्रितम् ॥ ५ ॥ चन्दनेनावलिप्ताङ्गमिवतपञ्चाङ्गुलेि यथा ॥ शीतदं निदाघेऽपि शिलोपविपमंसंकटम् ॥ ६ ॥ सालकैश्चकेसरैर्मूतां मुदितं चरन्तः क्वचित् ॥ क्वचिद्स्पृष्टसूर्याशुं क्वचिच्च तमसा वृतम् ॥ ७ ॥ दरीमुखैः क्वचिद्भीमैः पिवन्तमचिलं बहु ॥ क्वचिद्विद्याधरगणैः क्रीडद्भिरूपशोभितम् ॥ ८ ॥ उपगीतं तथा मुख्यैः किन्नरगणं गणैः क्वचिद् ॥ आपानामूमौ च गणैर्गन्धर्वापसरसां क्वचित् ॥ ९ ॥ गीतादिभिः समाकीर्णं गन्धर्व्वाणां मनोहरम् ॥ निरूपदवनैर्देशैर्नीलशाद्वलमण्डितैः ॥ १० ॥ क्वचिच्च कुसुमर्युक्तैश्चात्यन्तरुचिरैः शुभम् ॥ तपस्विशरणं शैले कामिनामपि दुर्लभम् ॥ ११ ॥ मृगयूथानुचरितं दन्तिनिर्भरमहाद्रुमम् ॥ यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम् ॥ १२ ॥ श्रुत्वापश्यति विश्रान्तं गजानानाकुलं कुलम् ॥ तपश्च तापसैर्येत्य कुलदेशेऽवलंकृतम् ॥ १३ ॥ रवैर्युतः समुत्पुत्रैर्वालोक्यं चाप्यलंकृतम् ॥ अर्शनशरणं नित्यमर्हताजनसेवितम् ॥ १४ ॥ अर्हतः पश्यति गिरिमर्हन्तं प्लवसम्पदम् ॥ अल्पेन


१, २ अत्र 'सेव्यते' इति वक्तव्ये 'सेव्यति' इति पाठश्छन्दोऽनुरोधादार्षः ।