विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 239, कुल 1001 में से
संदर्भ में पढ़ेंस्तथा खञ्जाः केकराक्षास्तथैव च ॥ ४५ ॥ विषमश्वेतपादाश्च उद्धान्तनयनास्तथा ॥ न ते वृषाः प्रयोक्तव्या न च धार्यास्तथा गृहे ॥ ४६ ॥ मोक्तव्यानां च धार्याणां भूयो वक्ष्यामि लक्षणम् ॥ ४७ ॥ स्वस्तिकाकारशृङ्गाश्च मेघघोषसदृशस्वनाः ॥ महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः ॥ ॥ ४८ ॥ महोरस्का महोच्छासा महाबलपराक्रमाः ॥ शिरः कर्णौ ललाटं च वालधिश्चारुणानि च ॥ ४९ ॥ नेत्राग्रं च खुरोष्ठानि शस्यन्ते चन्द्रमस्त्विषः ॥ चिह्नान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः ॥ ५० ॥ भूमिं कर्षति लांगूलात्प्रशस्तः स्थूलवालधिः ॥ पुरस्ताच्च तथा नीचो वृषभश्च प्रशस्यते ॥ ५१ ॥ शङ्खिचक्रपताकाभा येषां राजिर्विरोजते ॥ अनडुहस्ते ते धन्या ऋद्धिसिद्धिप्रदा वहाः ॥ ५२ ॥ प्रदक्षिणं निवर्त्तन्ते स्वयं ये विनिर्वर्तिताः ॥ समुन्नतनिरोध्रीवा धन्यास्ते कोशवर्द्धनाः ॥ ५३ ॥ रक्तशृङ्गानयनना- श्वेतवर्णा भवन्त्यपि ॥ शफैः प्रवालसदृशैर्नास्ति धन्यतरस्ततः ॥ ५४ ॥ एते धन्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः ॥ धारिताश्च तथा मुक्ता धनधान्यविवर्द्धनाः ॥ ५५ ॥ चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ॥ लाक्षारससवर्णश्च तं नीलमिवि निर्दिशेत् ॥ ५६ ॥ वृष एव स मोक्तव्यो न संशार्यो गृहे भवेत् ॥ यदर्थमेशा चरित गाथा लोके पुरातनी ॥ ५७ ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥५८॥ एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन् ॥ मुक्त्वा न शोचेन्मरणं महात्मा मोक्षं विधिं चाहमतो विधास्ये ॥ ५९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृषलक्षणवर्णनो नाम षट्पञ्चाशिरुत्तरशततमोऽध्यायः ॥ ॥ १४६ ॥ मार्कण्डेय उवाच ॥ आश्वयुक् कृष्णपक्षस्य पञ्चदश्यां नराधिप ॥ कात्तिकिक्यास्तथैवा मासि वृषोत्सर्गं तु कारयेत् ॥ १ ॥ ग्रहणे द्वे महा पुण्ये तथा चैवायनाद्वयम् ॥ विषुवाचितयं चैव सुताहो वान्यवस्य च ॥ २॥ मृताहो यस्य तस्यार्थे तस्मिन्नहनि शङ्करम् ॥ सुसमिद्धं गवां मध्ये परिस्तीर्य हुताशनम् ॥ ३ ॥ पयसा श्रपयेद्भिक्षां श्लक्ष्णं समाहितः ॥ पूषा गा अन्वेतु नश्च पूष्णे हुत्वा नराधिप ॥ ४ ॥ इह राडिति हुत्वा च जपेद्रुद्रान्समाहितः ॥ तथैव पौरुषं सूक्तं कूष्माण्डानि नराधिप ॥ ५ ॥ ततः कोष्णेन वृषभमद्भिस्नातंः सुशिल्यवान् ॥ शूलेन दक्षिणे पार्श्वे वामे चक्रेण निर्दहेत् ॥ ६ ॥ अङ्कितं स्नापयेत्पश्चात्स्नाने तस्य तथा पठेत् ॥ हिरण्यवर्णोति ऋचश्चतस्रो मनुजेश्वर ॥ ७ ॥ आपो हि ष्ठेति तिस्रश्च शन्नो देवीति चाप्यथ ॥ वत्सतर्यश्चतस्रश्च तं वृषं च नराधिप ॥ ८ ॥ अलङ्कुर्यात्ततः पश्चाद्गन्धमाल्यैश्च शक्तितः ॥ किङ्किणीभिश्च रम्याभिस्तथा
१ 'तौश्च वापुहुद्देहायम्' इति ख० ।