भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

स्तथा खञ्जाः केकराक्षास्तथैव च ॥ ४५ ॥ विषमश्वेतपादाश्च उद्धान्तनयनास्तथा ॥ न ते वृषाः प्रयोक्तव्या न च धार्यास्तथा गृहे ॥ ४६ ॥ मोक्तव्यानां च धार्याणां भूयो वक्ष्यामि लक्षणम् ॥ ४७ ॥ स्वस्तिकाकारशृङ्गाश्च मेघघोषसदृशस्वनाः ॥ महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः ॥ ॥ ४८ ॥ महोरस्का महोच्छासा महाबलपराक्रमाः ॥ शिरः कर्णौ ललाटं च वालधिश्चारुणानि च ॥ ४९ ॥ नेत्राग्रं च खुरोष्ठानि शस्यन्ते चन्द्रमस्त्विषः ॥ चिह्नान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः ॥ ५० ॥ भूमिं कर्षति लांगूलात्प्रशस्तः स्थूलवालधिः ॥ पुरस्ताच्च तथा नीचो वृषभश्च प्रशस्यते ॥ ५१ ॥ शङ्खिचक्रपताकाभा येषां राजिर्विरोजते ॥ अनडुहस्ते ते धन्या ऋद्धिसिद्धिप्रदा वहाः ॥ ५२ ॥ प्रदक्षिणं निवर्त्तन्ते स्वयं ये विनिर्वर्तिताः ॥ समुन्नतनिरोध्रीवा धन्यास्ते कोशवर्द्धनाः ॥ ५३ ॥ रक्तशृङ्गानयनना- श्वेतवर्णा भवन्त्यपि ॥ शफैः प्रवालसदृशैर्नास्ति धन्यतरस्ततः ॥ ५४ ॥ एते धन्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः ॥ धारिताश्च तथा मुक्ता धनधान्यविवर्द्धनाः ॥ ५५ ॥ चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ॥ लाक्षारससवर्णश्च तं नीलमिवि निर्दिशेत् ॥ ५६ ॥ वृष एव स मोक्तव्यो न संशार्यो गृहे भवेत् ॥ यदर्थमेशा चरित गाथा लोके पुरातनी ॥ ५७ ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥५८॥ एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन् ॥ मुक्त्वा न शोचेन्मरणं महात्मा मोक्षं विधिं चाहमतो विधास्ये ॥ ५९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृषलक्षणवर्णनो नाम षट्पञ्चाशिरुत्तरशततमोऽध्यायः ॥ ॥ १४६ ॥ मार्कण्डेय उवाच ॥ आश्वयुक् कृष्णपक्षस्य पञ्चदश्यां नराधिप ॥ कात्तिकिक्यास्तथैवा मासि वृषोत्सर्गं तु कारयेत् ॥ १ ॥ ग्रहणे द्वे महा पुण्ये तथा चैवायनाद्वयम् ॥ विषुवाचितयं चैव सुताहो वान्यवस्य च ॥ २॥ मृताहो यस्य तस्यार्थे तस्मिन्नहनि शङ्करम् ॥ सुसमिद्धं गवां मध्ये परिस्तीर्य हुताशनम् ॥ ३ ॥ पयसा श्रपयेद्भिक्षां श्लक्ष्णं समाहितः ॥ पूषा गा अन्वेतु नश्च पूष्णे हुत्वा नराधिप ॥ ४ ॥ इह राडिति हुत्वा च जपेद्रुद्रान्समाहितः ॥ तथैव पौरुषं सूक्तं कूष्माण्डानि नराधिप ॥ ५ ॥ ततः कोष्णेन वृषभमद्भिस्नातंः सुशिल्यवान् ॥ शूलेन दक्षिणे पार्श्वे वामे चक्रेण निर्दहेत् ॥ ६ ॥ अङ्कितं स्नापयेत्पश्चात्स्नाने तस्य तथा पठेत् ॥ हिरण्यवर्णोति ऋचश्चतस्रो मनुजेश्वर ॥ ७ ॥ आपो हि ष्ठेति तिस्रश्च शन्नो देवीति चाप्यथ ॥ वत्सतर्यश्चतस्रश्च तं वृषं च नराधिप ॥ ८ ॥ अलङ्कुर्यात्ततः पश्चाद्गन्धमाल्यैश्च शक्तितः ॥ किङ्किणीभिश्च रम्याभिस्तथा


१ 'तौश्च वापुहुद्देहायम्' इति ख० ।

वि० ध० ॥ ९६॥ प्र० खं० अ० १४८

चीनौशनैः शुभः ॥ ९ ॥ ततः कर्त्ता जपेन्मन्त्रमिमं प्रयतमानसः ॥ वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ॥ वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः ॥१० ॥ एवं युवानं वृषभं ददामि गवां पतिं यूथपतिं सवर्षम् ॥ अनेन सार्धं चरत प्रकामं यथा तथा प्राप्नुत वत्सतर्यः ॥ ॥ ११ ॥ एवं युवानं गोपतिं वो ददामि अनेन क्रीडन्तीश्वरतैः प्रियेण ॥ सहास्माभिः प्रजया मा तरिभ्मिो वथाम द्विपतं सोमराजन् ॥ १२॥ मन्त्रं पिता वत्स इति प्रतीतं जपेत् कर्णे वृषभस्य सव्ये ॥ प्रचालयेतं वृषभं ततस्तु पूर्वा दिशं वत्सतरेश्च सर्वाः ॥१३॥ वामोयुगं भर्हातुरथ प्रदेयं सुवर्णयुक्तं मधुघृतं च कांस्यम् ॥ शिल्पान्वधानस्य तथैव मूल्यं देयं यथा तुष्टिसुपैति राजन् ॥ १४ ॥ विप्रान्नथान्नं दधिमर्पिपा युतं संभोज नीयाः पयसा च मिश्रम् ॥ उत्सृष्टमात्रे वृषभे व्रजन्ति तृप्तिं परां तस्य पितामहा ये ॥ १५ ॥ यस्मिंस्तडागे म जलं तृषार्त्तः पातुं ममा गच्छति तत्पितॄणाम् ॥ दिव्याम्बुपूर्ण कलशं महीपते लोकं परं तृप्तिमन्तः प्रयान्ति ॥ १६ ॥ सरिद्वरां काञ्चिदथोपयाति तृष्णान्वितस्तस्य पितामहानाम ॥ तर्ति विधत्ते सरितां वरिष्ठा सुदीर्घकालं विमलाम्बुवाहैः ॥ १७॥ दर्पेण पूर्णः सविषाणघातेर्यदा यदा धारयते तरङ्गान् ॥ पितॄन्तदा तस्य तदन्न कूटं ध्रुवं स यतीति न संशयोऽत्र ॥ १८ ॥ रोग्णां च तुल्यानि शतानि राजन्भोक्ता तथा तस्य दिवं प्रयाति ॥ मवन्तमगणां परिपूर्णकामः संसेव्यमानस्त्रिदशाङ्गनाभिः ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृपोत्सर्गवर्णनो नाम मतसप्तवारिंशदुत्तमशतमो ऽध्यायः ॥ १४७॥

॥ वज्र उवाच ॥ चरितं बुधपुत्रस्य मार्कण्डेय मया श्रुतम् ॥ अतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः ॥ १॥ वन्ध्याः प्रसूयमान्याः फलं दाने तथा श्रुतम् ॥ कृष्णाजिनप्रदानं च वृषोत्सर्गमथैव च ॥ २ ॥ श्रुत्वा रूपं नगेन्द्रस्य बुधपुत्रस्य भार्गव ॥ कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः ॥ ३ ॥ केन कर्मविपाकेन स तु राजा पुरूरवाः ॥ अवाप तादृशं रूपं मोभोयामपि चोत्तमम् ॥ ४ ॥ दुर्वासिषुसुवन् श्रोधामन्यतर्वाश्च मनोरमान् ॥ उर्वशी संगता त्यक्त्वा सर्वभावेन तं नृपम् ॥ ५ ॥

मार्कण्डेय उवाच ॥ शृणु कर्मविपाकंन येन राजा पुरूरवाः ॥ पुरूरवा इति ख्यातो मद्भवन्सिन्महीपतिः ॥ ६ ॥ चाक्षुपस्यान्यन्वे जातश्चाक्षुषमन्वन्तरं मनोः ॥ मवन्वृषणगुणैर्युक्तः कवले . हूप वर्जितः ॥ ७ ॥

वज्र उवाच ॥ पुरूरवा मद्भूयतिः कर्मणा केन भार्गव ॥ वभूव कर्मणा केन कुरूपश्च तथा द्विज ॥ ८ ॥

मार्कण्डेय उवाच ॥ द्विजयामे द्विजश्रेष्ठो नाथेवाडऽसीत्पुरूरवाः ॥ नद्याः कूले महाराज पूर्वजन्मनि पार्थिवः ॥ ९॥ म तु मद्रपतिर्नासा योऽभूद्राजा पुरूरवाः ॥ अस्मिञ्जन्मव्यसो विप्रो द्वादशीषु सदानघ ॥ १० ॥ उपोष्य पूजयामास राज्यकामा जनार्दनम् ॥ चकार लापनानं च ॥ ९६॥

स्नानमभ्यङ्गपूर्वकम् ॥ ११ ॥ उपवासफलं प्राप्य राज्यं मद्रेश्वरूपकम् ॥ उपोषितस्तदाम्यङ्गान्द्रूपहीनोऽभ्यजायत ॥ १२ ॥ उपोषितो नरस्तस्मात्स्नानमभ्यङ्गपूर्वकम् ॥ वर्जयेत्तत्प्रयत्नेन रूपघ्नं तत्परं नृणाम् ॥ १३ ॥ एतत्ते कथितं तस्य यद्वृत्तं पूर्वजन्मनि ॥ मद्रेश्वरत्वे चरितं शृणु तस्य महीपतेः ॥ १४ ॥ तस्य राजगुरोः सर्वैः समुपेतोऽथ पार्थिव ॥ जनानुरागो नैवासीद्रूपहीनस्य यादव ॥ १५ ॥ रूपकामः स मद्रेशस्त पसे कृतनिश्चयः ॥ राज्यं मन्त्रिगते कृत्वा जगाम हिमपर्वतम् ॥ १६ ॥ व्यवसायाद्वितीयस्तु पद्भ्यामेव महायशाः ॥ ऊर्द्धं संतीर्य स नदं विष्वान्ते स्वकीं नदीम् ॥ इरावतीमिति ख्यातां ददर्शोदतिमनोहराम् ॥ १७ ॥ तुहिनगिरिभवां महौघवेगां तुहिनसगर्भसमानशीततोयाम् ॥ तुहिनसदृशवर्णफेनयुक्तां तुहिनपक्षाः सरितं ददर्श राजा ॥ १८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मद्रेश्वरस्य तपोवन गमनं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४८ ॥ मार्कण्डेय उवाच ॥ स ददर्श नदीं पुण्यां रम्यां हैमवतीं शुभाम् ॥ गन्धर्वगणसंकीर्णां नित्यं शक्रेण सेविताम् ॥ १ ॥ सुरभ्रमदसिंदूरैर्यस्यां राजिर्विराजते ॥ मध्येन शक्रचापाभा तस्यां मज्जति सर्वदा ॥ २ ॥ तपस्विकशरणायातां मुख्यब्राह्मणसेविताम् ॥ ददर्श शीतपानीयां महाराजः पुरूरवाः ॥ ३ ॥ प्लुतहंसावलीच्छां काशाचामरवीजिताम् ॥ साभिषेकामिव स तां पश्यन्प्रीतिं परां ययौ ॥ ४ ॥ पुण्यां सुशीतलां हृद्यां मनसः प्रीतिवर्धिनीम् ॥ क्षयवृद्धिगतां सौम्यां सोममूर्तिमिवापराम् ॥ ५ ॥ सुशीतशीघ्र पानीयां द्विजपुञ्जनिषेविताम् ॥ सुतां हिमवतः श्रेष्ठां चञ्चद्वीचिविराजिताम् ॥ ६ ॥ अमृतस्वादुसलिलां तापसैरुपशोभिताम् ॥ स्वर्गारोहणनिः श्रेणीं सर्वकल्मषनाशिनीम् ॥ ७ ॥ अदभ्रां समुद्रमहिषीं महिषीगणगाहिताम् ॥ हितां सर्वस्य लोकस्य कस्य नौत्सुक्यकारिणीम् ॥ ८ ॥ गोकुलाकुलतीरां तां रम्यां शैवालजटिलाम् ॥ हंससारससंघृष्टैर्जलजैः सेवितां शुभैः ॥ ९ ॥ आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलाम् ॥ नीलनीरजनेत्रां तामुरुद्रुमकमलालकाम् ॥ १० ॥ हिमाभफेनवसनां चक्रवाकस्तनीं शुभाम् ॥ बलाकापङ्क्तिदशनां चलन्मत्स्यावलिभ्रुवम् ॥ ११ ॥ स्वजलोद्धतमातङ्गरम्यकुम्भपयोधराम् ॥ हंसनूपुरसंघुष्टां मृणालवलयावलीम् ॥ १२ ॥ यस्यां रूपमदोन्मत्तमत्तगन्धर्वावृतः सदा ॥ मध्या ह्नसमये राजन्क्रीडत्यप्सरसां गणः ॥ १३ ॥ तामप्सरोविनिर्मुक्तैर्नानावर्णैः कुसुमोज्ज्वलाम् ॥ स्वतीरसमुद्भूतैर्नानावर्णात्सुग न्धिभिः ॥ १४ ॥ तरङ्गशतसंक्रान्तसूर्यमण्डलदुर्द्दशाम् ॥ सुरमज्जनितान्वातप्रद्रव्यविषभूषिताम् ॥ १५ ॥ शक्रभ्रमणडसल्लिलैदैवृक्षीकुच चन्दनैः ॥ संयुतं सलिलं यस्याः षट्पदैरुपसेव्यते ॥ १६ ॥ यस्यास्तीरभवा वृक्षाः सुगन्धिकुसुमान्विताः ॥ तथा प्रकृष्टभ्रमरा

१७

वि० ध० ॥ १७ ॥ प्र० खं० अ० १५०

भ्रमरैस्ते निराकुलाः ॥ १७ ॥ यस्यास्तीरे रतिं यान्ति सदा कामवशात्तुगाः ॥ तपोधनाश्च ऋषयस्तथा देवाः सवासवाः ॥ १८ ॥ लभन्ते यत्सुताङ्गास्तु देवेभ्यः प्रतिमाननाः ॥ स्त्रियश्च नाके बहुलाः पञ्चेन्द्रियशतात्मनाः ॥ १९ ॥ या बिभर्ति सदा तोयं देवसंघैरपीडितम् ॥ पुलिन्दमृगवृन्दैश्च व्याघ्रसंघैरुपाडितम् ॥ २० ॥ सततमस्नपनीयां सतारगणनामलाम् ॥ स तां पश्यन्नृपो राजा सतामीप्सितकामदाम् ॥ २१॥ यस्यास्तीररुहैः कारैः फुल्लैश्चंद्रांशुसन्निभैः ॥ राजद्भिर्विवृताकाशं रम्यैस्तत्क्षीरसन्निभैः ॥ २२॥ या च सदा दिवि सेव्येति¹ देवेर्यो च सदा भुवि सेव्येति² विप्रैः ॥ या च सदा सकलाघविनाशं भक्तजनस्य करोत्यतिचित्रा ॥ २३॥ या च गता सरितां हि कदम्बैर्यो च युता सततं हि महीनैः ॥ या च युता शततोयकदम्बैर्यो च गता सततं हिमहीनः ॥ २४ ॥ युक्तापि केलिस्रैगौणैः कल्पिवृन्दायता सन्भागयुक्तसलिलापि सुवर्णयुक्ता ॥ सुवर्णयुक्ता पद्मविशुद्धिविदृशीला शीतांशुतुल्यपयसा ददृशे नृपेण ॥ २५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इरावतीवर्णनो नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥ मार्कण्डेय उवाच ॥ आलोक्यचन्द्रीं पुण्यां तस्मन्मिरिहृतकुम् ॥ स गच्छंश्च ददर्श हिमवन्तं महागिरिम् ॥ १ ॥ वसुच्छिद्रविर्दुभिर्वृतं भूर्जैः सुपान्डुरैः॥ पश्चिमामथ संचोरयिन सिद्धगीतं शुभाभू ॥ २॥ नदीप्रपातसंजातमहाशब्दैः समन्ततः ॥ असंश्लूतान्यशब्दान्तं शीततोयं मनोरमम् ॥ ३ ॥ देवदारुवनैर्नीलैः कृताद्योवसनं शुभम् ॥ मेघतोयंतयं तं शैलं ददर्श स नराधिपः ॥ ४ ॥ श्येनमेघकृतोष्णीषं चन्द्रार्केन्दुकरं क्वचित् ॥ हिमावृनितसर्व्वाङ्गं क्वचिद्धातुविचित्रितम् ॥ ५ ॥ चन्दनेनावलिप्ताङ्गमिवतपञ्चाङ्गुलेि यथा ॥ शीतदं निदाघेऽपि शिलोपविपमंसंकटम् ॥ ६ ॥ सालकैश्चकेसरैर्मूतां मुदितं चरन्तः क्वचित् ॥ क्वचिद्स्पृष्टसूर्याशुं क्वचिच्च तमसा वृतम् ॥ ७ ॥ दरीमुखैः क्वचिद्भीमैः पिवन्तमचिलं बहु ॥ क्वचिद्विद्याधरगणैः क्रीडद्भिरूपशोभितम् ॥ ८ ॥ उपगीतं तथा मुख्यैः किन्नरगणं गणैः क्वचिद् ॥ आपानामूमौ च गणैर्गन्धर्वापसरसां क्वचित् ॥ ९ ॥ गीतादिभिः समाकीर्णं गन्धर्व्वाणां मनोहरम् ॥ निरूपदवनैर्देशैर्नीलशाद्वलमण्डितैः ॥ १० ॥ क्वचिच्च कुसुमर्युक्तैश्चात्यन्तरुचिरैः शुभम् ॥ तपस्विशरणं शैले कामिनामपि दुर्लभम् ॥ ११ ॥ मृगयूथानुचरितं दन्तिनिर्भरमहाद्रुमम् ॥ यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम् ॥ १२ ॥ श्रुत्वापश्यति विश्रान्तं गजानानाकुलं कुलम् ॥ तपश्च तापसैर्येत्य कुलदेशेऽवलंकृतम् ॥ १३ ॥ रवैर्युतः समुत्पुत्रैर्वालोक्यं चाप्यलंकृतम् ॥ अर्शनशरणं नित्यमर्हताजनसेवितम् ॥ १४ ॥ अर्हतः पश्यति गिरिमर्हन्तं प्लवसम्पदम् ॥ अल्पेन


१, २ अत्र 'सेव्यते' इति वक्तव्ये 'सेव्यति' इति पाठश्छन्दोऽनुरोधादार्षः ।

तपसा यत्र सिद्धिः प्राप्येत तापसैः ॥ १५ ॥ यश्च दर्शनमात्रेण सर्वकल्मषनाशनः ॥ महापातसंपातप्रभीतखगबन्धुभिः ॥ १६ ॥ वायुनीत सदावाहिः कृतदेशं कचित्कचित् ॥ अल्पस्वल्पजलैः शृङ्गैः कचिच्चातिसमुच्छ्रितैः ॥ १७ ॥ नित्यार्कतापविषमं दुर्गम्यैर्मनसाप्युतम् ॥ देवदारु महावृक्षपुञ्जशाखानिरन्तरैः ॥ १८ ॥ समन्तसुवनाकारैः प्रदेशैरुपशोभितम् ॥ हिमच्छन्नमहाशृंगं प्रपातनितनिर्झरम् ॥ शङ्खलक्ष्माभिविषमं हिमसंरुद्धकन्दरम् ॥ १९ ॥ दृष्ट्वैवं तां चाहानितन्भूमिं महाप्रभावः स महीन्द्रनाथः ॥ बभ्राम तत्रैव मुदा समेतः स्थानं ततः किञ्चिदया- ससाद ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिमवद्वर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५० ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ तस्यैव पर्वतैन्द्रस्य प्रदेशं सुमनोहरम् ॥ अगम्यं मानुषैरन्यैर्देवयोग्यादुपागतः ॥ १ ॥ इरावती सरिच्छ्रेष्ठा यस्माद्देशा- द्विनिर्गता ॥ मेघश्यामं च तं देशं द्रुमखण्डैरनेकधाः ॥ २ ॥ सालैस्तालैस्तमालैश्च कर्णिकारैः सशाल्मलैः ॥ न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपादुरुमैः ॥ ३ ॥ श्लेष्मातकैरामलकैर्हरीतकीविभीतवैः ॥ रभ्यैश्चन्दनवृक्षैश्च कपित्थै रक्तचन्दनैः ॥४॥ वटैर्माहिषकैश्चाटैरश्वकर्णैस्तथार्जुनैः ॥ हस्तिकर्णैः सपनसैः कोविदारैः सुपुष्पितैः ॥५॥ देवदारुमहावृक्षैस्तथा कालियकद्रुमैः ॥ पद्मकेश्र्वन्दनैर्नीलवैः कुटजैर्हरिचन्दनैः ॥ ६॥ प्राचीनामल- रुकैश्च स्थूणिकैः सप्तपण्डिकैः ॥ खर्जूरैरौशिरैश्च प्रियालव्रातकेतकैः ॥७॥ तेरुमानवैतवैर्भव्यैः काश्मीरैः फालिमिरुतथा ॥ जातिफलैः पूगफलैः कदफ्फलैर्लवलीफलैः ॥ ८ ॥ मन्दारैः कोविदारैश्च किंशुकैः कुसुमांगुभिः ॥ पलाशैः शमिसंछासंवैतसव म्लवेतसैः ॥ ९॥ रक्तातिरज्जनाज्ञिर्जिरिगुंदैः सप्रियंगुभिः ॥ रक्ताशोकैस्तथाऽशोकैरुत्तंसैः सचिरान्त्रिकैः ॥१०॥ मुचुकुन्दैस्तथा कुन्दैराटूरूपपद्मरूपकैः॥किंकरोतैः किरातैश्च केतकैश्च सकेतकैः ॥११॥ शोभाञ्जनैश्च सनैश्च मूकुलकनिकोत्चकैः ॥ सुपूगैश्चारुवसनैर्दुमैः श्रेष्ठस्तथासनैः ॥ १२ ॥ मन्मथस्य शराकारैस्सहकारैर्मनोहरैः ॥ पीतयूथिकया राजडूथिकया तथा ॥ १३॥ जात्या चम्पकजात्या च तुम्बूरैश्चाप्युदुम्बरैः ॥ माषैश्चौधैस्सलकुचैस्तिलवक्वलंकुशैर्भलैः ॥ १४ ॥ तथा सुपद्मपाव- रणैर्वरणैः कामिवल्लभैः॥पुष्पालुकैश्च वकुलैः पारिभद्रकमर्द्रकैः॥१५॥ धाराकदैवैः कुटजैः कदंबैर्गिरिकूटजैः॥ आक्रान्तसर्वकुंकुमैः कुंकुमैः कमनीयकैः ॥ ॥१६॥ कर्कन्धुबदरैर्नीपैः दीपेरिव महोत्सवजैः ॥ रक्तैः पालेवितैः श्वेतैर्दाडिमैश्चान्यकद्रुमैः ॥१७॥ प्रतानैः पिप्पलीनां च नागवल्ल्याश्च भागशः ॥ मरिचस्य तथा गुल्मैर्नवमल्लिकया तथा ॥ १८ ॥ मृद्वीकामण्डलैश्चोव्यैरित्युक्तकमण्डलैः ॥ त्रपुसैर्व्वारुकानां च प्रतानैः सफलेः शुभैः ॥ १९ ॥ कूष्माण्डानां प्रतानैश्च अलाबूंनां तथा क्वचित् ॥ चिर्भटस्य प्रतानैश्च पटोलैः कारवेल्लकैः ॥ २० ॥ कर्कटीकैः प्रतानैश्च वार्त्ताकैर्वृंहतीफलैः ॥

वि० ध० ॥ १८४ ॥ प्र० सं० अ० १५१ ॥ १८४ ॥

कहारमूलकुमुदैः शाकैश्च विविधैस्तथा ॥२१॥ सुवर्चलाभिः सर्वाभिः सर्षपाभिस्तथैव च ॥ काकोलीक्षीरकाकोलीछत्रया चातिच्छत्रया ॥२२॥ काकमाचीमहावृद्धिशर्कराद्दलकन्दलैः ॥ तथा क्षीरिकाशार्केन कालशाकेन चाप्यथ ॥ २३ ॥ शिम्बिधान्यैस्तथा धान्यैः सर्वैरनिवशेषतः ॥ ओषधीभिर्विचित्राभिर्दीयमानाभिरेव च ॥ २४ ॥ कन्दैर्विदार्या च तथा तद्द्टैः स्वादुसंयुतैः ॥ मुनिपुष्णारटीशेपाराजक्ष्यकवास्तुकैः ॥ २५ ॥ आयुष्याभिर्यशस्याभिर्वण्याभिश्च नराधिप ॥ जरायुकुल्यमथ्याभिः शुद्धयन्नाभिरेव च ॥ २६ ॥ सौभाग्यजननीभिश्च वृष्याभिश्चाप्यनेकशः ॥ वेत्रवेणुलताभिश्च कीचकैर्वेणुभिः ॥ २७॥ काशैः शशाङ्कसंकाशैः शरगुल्मैस्तथा क्वचित् ॥ कुशगुल्मैस्तथा रम्यैर्गुल्मैश्चामुनोद्भवैः ॥ २८ ॥ कार्पासया त्वचा च दुकूलेन शुभेन च ॥ तथा च कदलीखण्डैर्मनोहारिभिरुत्तमैः ॥ २९ ॥ तथामरकतप्रख्यैः प्रदेशैः शाद्वलान्वितैः ॥ इरापुष्पसमायुक्तैः कुङ्कुमस्य च भागशः ॥ ३० ॥ तगरातिविषामांसीग्रन्थिपर्णीसुरागदैः ॥ सुवर्णपुष्पैश्च तथा भूमिपुष्पैस्तथा परैः ॥ ३१ ॥ जम्बीरिकागुस्तूपैश्च सरसैः सुसुकैस्तथा ॥ भृङ्गेरवरजमोदामिः कुठेरकप्रियालुकैः ॥ ३२ ॥ जलजैश्च तथा पद्मैर्नानावर्णैः सुगन्धिभिः ॥ उद्गादित्यसंकाशैः पूर्णचन्द्रनिभैस्तथा ॥ ३३ ॥ तपनप्रियसंज्ञैश्च अतसीपुष्पसन्निभैः ॥ कुरूपत्रनिभैश्चान्यैः स्थलपद्मैश्च भागशः ॥ ३४ ॥ पद्मवर्णैः समाकीर्णं बहुवर्णैस्तथैव च ॥ दृष्टादृष्ट्यादिहिसुहृदैः कुसुमेश्चन्दसन्निभैः ॥ ३५ ॥ तथा बहिशिखाकारै राजद्रोणोपलैः शुभैः ॥ नीलोत्पलैः सकह्वारैरर्जुनैस्तक्कोरैरकैः ॥ ३६ ॥ भूर्जटकैस्तृणोपलैश्च कावाटै रक्तसोत्पलैः ॥ जलजैः स्थलजैर्गुल्मैः फलैः पुष्पैस्तथैषतः ॥ ३७ ॥ विविधैश्च नीवारैर्मुनिभोज्यैर्नराधिप ॥ न तद्धान्यं न तच्छक्यं न तच्छाकं न तत्फलम् ॥ ३८ ॥ न तन्मूलं न तत्कन्दं न तत्पुष्पं नगाधिप ॥ नागलोकेोद्भवं यच्च नाकलोकोद्भवं च यत् ॥ ३९ ॥ अनूपवनयोनोत्थं च तत्र यन्नास्ति यादव ॥ सदा पुष्पफलं सर्वमजलप्लुतयोगतः ॥ ४० ॥ महेश्वरः स ददर्श तपसोऽथाय यो गतः ॥ ददर्श च तथा तत्र नानाहंसपतत्त्रिणः ॥ ४१ ॥ मधुराञ्छतपत्रांश्च कलवाचश्चकोकिलान् ॥ तथा कादम्बकादंसांश्चक्रकुटाञ्जलकुक्कुटान् ॥४२॥ क्रूङ्गान्वैङ्कक्षांश्चश्यामांसितांश्चाम्रकपिञ्जलान् ॥ धातंग्रपून्वान्मद्गूनकलेविङ्गांञ्छुकांस्तथान् ॥ कान् ॥ ४३ ॥ चटकांश्र्चक्रवाकांश्च आटकांश्चिद्विहमान्स्तयान ॥ पुत्रप्रियांश्चोद्दिहपुत्रान्नन्दीन्गर्विष्वर्तकान् ॥ ४४ ॥ पागवतानकामलोञ्च शारकोञ्जीवजीवकान् ॥ लावतैश्चकतैर्वात्तिर्ग्रांस्तथैवमपभञ्जुद्रकान् ॥४५॥ ताम्रचूडान्वर्णचूडान्कोयष्टीन्वर्र्गुटकान् ॥ त्रपिपुत्रांन्सहंगतान्कुकूटान्व्याघ्रकुक्कुटान् ॥ ४६ ॥ उद्बर्हाेटपुन्नगोदैर्बडाम्तथा कुङ्कमरूडकान् ॥ भृङ्गाजाञ्छ्यागपादांन्सूलिङ्गान्पिण्डमालवान् ॥४७॥ मञ्जुलेयकदात्यूहगाप...

पुत्रात्स्रवञ्जुलान् ॥ भारद्वाजांस्तथा चापान्सुवर्णजननीयकान् ॥४८॥ एतांश्चान्यांश्च हि बहून्पक्षिसंघान्मनोहरान् ॥ श्वापदांन्विविधाकारान्म्मृ- गांश्चैव महामृगान् ॥ ४९ ॥ व्याघ्रान्सकेसरिणः सिंहान्विचित्रः शरभान्वृकान् ॥ ऋक्षांस्तरक्षून्बभ्रून्कन्दोलान्गोलाङ्गूलान्सवानरान् ॥ ५० ॥ शशाँल्लोकाञ्छशप्लवान्माजरांग्न्याख्यः शुनः ॥ मूपिकांस्त्राकुलांश्चापिंत्संहान्प्रोद्गुसेगोमकान् ॥ ५१ ॥ तथा मत्तांश्च मातङ्गान्न्महिषान्गवयान्नृ- पान् ॥ चरमान्सुमरांश्चैव तथा गोराग्रखप्तानपि ॥५२॥ उरत्रांश्च तथा मेषान्सारङ्गांनथ कर्कशान् ॥ रुह्रून्मृपूदान्पुष्पान्कर्कटान्कर्कटान्मुगान् ॥ नीलांश्चैव महानीलान्कालद्रुगमातृकांन् ॥५३॥ श्वदंष्ट्रान्रमरभारन्कोकुकानकपशम्बरान् ॥५४॥ करालान्कृतमालांश्च कालपुच्छींस्तथारुणान् ॥ उष्णून्गाजावग्राहांश्च तुरगान्खरगर्दभान् ॥ ५५ ॥ एतान्पश्यन्स मद्रेशो विरुद्धैश्च परस्परम् ॥ अविरुद्धान्वने तस्मिन्विर्वृत्तिं च परां ययौ ॥ ५६ ॥ तदाश्रमपदे सुख्यो बभूवुरिह पुरा नृप ॥ तत्रप्रासादात्सदा युक्ते स्थावरैर्जङ्गम्रैस्तथा ॥ ५७ ॥ हिंसन्ति न तथाऽन्योन्यं हिंसकास्तु परस्परम् ॥ क्रव्यादाम् प्राणिनस्तत्र सर्वे क्षीरफलाशनाः ॥ ५८॥ निर्मितास्तत्र रथ्यंर्त्तमणिणा सुमहात्मना ॥ शिलानां निमदेशेषु तन्न गावः स्वयं नृप ॥ ५९ ॥ पयः क्षरन्ति तद्दिव्यममृतस्वादुसन्निभम् ॥ कचिद्राजमहिष्यश्च कचिदजा च भागशः ॥ ६० ॥ शिलाः क्षीरेण संपूर्णा दृष्ट्वा चान्यत्र यादव ॥ स पश्यन्परमां प्रीतिमवाप वसुधाधिपः ॥६१॥ सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः ॥ मृणालकानि दिव्यानि शीतलानि च भागशः ॥ ६२ ॥ कन्दराणि च शैलस्य सुखसेव्यानि यादव ॥ हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम् ॥ ६३ ॥ उपत्यकासु शैलस्य शिखरेषु तु विद्यते ॥ तत्रापि राजञ्छिद्वरं पर्वेतेन्दूस्य पाण्डुरम् ॥ ६४ ॥ हिमपातं सदा तत्र वनाः कुर्व्वन्ति संहताः ॥ तन्नास्ति चापरं शृङ्गं यत्र तोयं घना घनाः॥ ६५ ॥ नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं खरम् ॥ तदाश्रमं मनोहारि यत्र कामचरा धराः ॥ ६६ ॥ सुरस्रूप्योपभो ग्यत्वाच्छारिवनः सफलाः सदा ॥ सदोपणीतम्रमरं सुरस्त्रीसेवितामरम् ॥ ६७ ॥ सर्वपापक्षयंकरं शैलस्येव महाकम् ॥ वानरैः क्रीडमानैश्च देशे देशे नराधिप ॥ ६८ ॥ हंसपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः ॥ तदाश्रममसमन्तात्त्व हिमसंरक्षकन्दरम् ॥ ६९ ॥ शैलवाटैः परिवृतमगम्यं मनुजैः सदा ॥ पूर्व्वाराधितदेवशो महाराजः पुरूरवाः ॥ ७० ॥ तदाश्रममनुप्राप्तो देवदेवप्रसादातः ॥ तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमरजतैरलंस्कृतम् ॥ कृतं च तत्स्वयमथ चात्रिणा शुभं शुभप्रदं तं ददृशेस मद्रराट् ॥७१॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे महर्ष्याश्रमवर्णनन्नामैकपञ्चाशदधिकशततमोऽध्यायः॥१५१॥मार्कण्डेय उवाच ॥ तत्र यौ तौ महाशृङ्गो महावैष्णवमहिमो ॥ तृतीयं तु तयोर्मध्ये

वि० ध० ॥ ११९ ॥

प्र० खं० अ० १६२ ॥ १२१ ॥

शुद्धमत्यन्तशोच्चूतम ॥ १ ॥ नित्यातपं ततश्शिलं सदा भगतिवर्जितम् ॥ तस्याधस्ताल्लहक्षणे देशे भागे च पश्चिमे ॥ २ ॥ जातीलतापरिक्षिप्तं विवरं चारुदर्शनम् ॥ दृष्ट्व कौतुकमाविष्टस्तं विवेश महीपतिः॥३॥ततमसा चातिनिबिडं नलवमात्रं महीपतिः।नलवमात्रमतिक्रम्य स्वप्रभाभरणोज्ज्वलम्॥ ॥ ४ ॥ समुच्छ्रितमथात्यन्तं गम्भीरं परिवर्त्तुलम् ॥ न तत्र सूर्यस्तपति न विराजति चन्द्रमाः ॥ ५ ॥ तथापि दिवसाकारं प्रकाशं तदहर्निशम् ॥ क्रोशार्धिकपरीमाणं सरसा च विराजितम् ॥६॥ समन्तातस्तस्य शैलल्या तु वेदिका॥ सौवर्णे राजतैर्वृक्षैर्वैद्रुमैरपि शोभिता ॥ ७ ॥ नाला माणिक्यकुसुमैः स्वप्रभाभरणोज्ज्वलैः ॥ तस्मिन्सरसि पद्मानि पद्मरागच्छदानि च ॥ ८ ॥ वज्रेकसजालानि सुगन्धीनि तथाप्यति ॥ पद्मेरंगैरितै नीलैर्वैदूर्यैश्च महीपते ॥ ९ ॥ कर्णिकाश्च तथाशेषा जातरूपस्य पार्थिव ॥ तस्मिन्सरसि या भूमिसैसा कर्दमसङ्कुला ॥ १० ॥ नानारत्नेरुपचिता जलजानां समाश्रया ॥ कपर्दकानां शुक्तीनां शङ्खानां च महीपते ॥ ११ ॥ मकराणां च मत्स्यानां पेण्डानां कच्छपैः सह ॥ तत्र मस्तकखण्डानि वज्राणि च सहस्रशः ॥१२॥ पद्मरागेन्द्रनीलानि महानीलानि पार्थिव ॥ पुष्परागाणि रम्याणि तथा कर्केतकानि च ॥१३॥ तुङ्कञ्च व खण्डानि तथा शेषस्य भागशः ॥ राजावर्त्तस्य मुख्यस्य रुधिराख्यस्य चाप्यथ ॥ १४ ॥ सूर्येन्दुक्रान्तयोश्चैव पिलोभेह्लाकतस्य च ॥ ज्योतिरसस्य रम्यस्य शङ्कस्य च भागशः ॥ १५ ॥ मसारगल्वशङ्खानां स्फटिकस्य तथैव च ॥ गोमेदपिष्टकानां च धूली मरकतस्य च ॥ १६॥ वैदूर्यसौगन्धि कयोस्तथा राजमणेर्नृप ॥ वज्रस्य चैव मुख्यस्य तथा ब्रह्ममणेरपि ॥ १७॥ मुक्ताफलानां मुख्यानां ताराविग्रहधारिणाम् ॥ सुवर्णोप्यं चैव ततोऽयं स्नानाचीतिविनाशनम् ॥१८॥ वैदूर्यस्य शिलामध्ये समन्तस्य शोभना ॥ प्रमाणेन तथा सा च ह्वं च राजन्युतः शते ॥१९॥ चतुरस्रा तथा रम्या तपसा निर्मितात्रिणा ॥ बिल्वद्भारसमे देशे केतुतन्त्र हिरण्मयः ॥२०॥ प्रदेशः स तु राजेन्द्र द्वीप तस्मिन्मनोहरे ॥ तथा पुष्करिणी रम्या तन्मध्य जच्छिलतले ॥२१॥ सुशीतामलपानीया जलजेश्च विगजिता ॥ आकाशविमला राजंश्चतुरस्त्रा मनोहरा ॥ २२ ॥ तस्यास्तूदकः स्वादु लघु शीतं सुगन्धि च ॥ न क्षिणोति तथा कार्यं कुक्षिमापूरयन्त्यपि ॥२३॥ तार्तं विधते परमां शरीरं च महत्सुखम् ॥ मध्यं च तस्याः युक्तं प्रासादं तपसा त्रिणा ॥ २४ ॥ रुक्मसेतुप्रवेशं तत्सर्व्वरत्नमयं शुभम् ॥ शशाङ्करश्मिसङ्काशं प्रासादं गजतं हितम् ॥२५॥ रम्यं वैदूर्यसोपानं विद्रुमामलतारकम् ॥ इन्द्रनीलमहाचक्र आतङ्करूपविभूषितम् ॥२६॥ पद्मरागमहास्तंभं तथा मरकतवेदिकम् ॥ वज्रशुजालसङ्कुन्तिं रम्यं दृष्टिमनाहरम् ॥२७॥ प्रासादं तत्र


१ 'सारकम्' इति क० ।

भगवान्देवदेवो जनार्दनः ॥ भोगिभोगावलीसुतः सर्वालङ्कारभूषितः ॥ २८ ॥ जानुमाकुञ्चितन्त्वेकं देवदेवस्य चक्रिणः ॥ फणीन्द्रसन्निधौधात्रि द्वितीयञ्च तथा नृप ॥ २९ ॥ लक्ष्म्युत्सङ्गतोबिभ्रत्तु शेषभोगप्रसारितः ॥ फणीन्द्रभोगविव्यस्तबाहुकूर्परशोभितः ॥ ३० ॥ स्वाङ्गुलीपृष्ठविन्यस्त देवशीर्षधरं विभुम् ॥ एकं तु देवदेवस्य द्वितीयं संप्रसारितम् ॥ ३१ ॥ समाकुञ्चितजानुस्थमणिबन्धसुशोभितम् ॥ किञ्चिदङ्कुशितं चैव नाभिमद्देशे करस्थितम् ॥ ३२ ॥ तृतीयं च भुजं तस्य चतुर्थं तु तथा शृणु ॥ आत्तसन्तानकुसुमं घ्राणदेशानुसापिणम् ॥ ३३ ॥ लक्ष्म्या संवाह्यमानांघ्रिः फुल्लपद्म निभैः करैः ॥ सन्तानमालामुकुटं हारकेयूरभूषितम् ॥ ३४ ॥ धूपितं च तथा देवमङ्गेरङ्गुलिचीरकैः ॥ फणीन्द्रफणविव्यक्तचारुरत्नशिखोज्ज्व लम् ॥ ३५ ॥ अङ्गास्तवस्तुरितं प्रतिष्ठितमथात्रिणा ॥ सिद्धान्तपूज्यं सततं समन्तात्कुसुमार्चितम् ॥ ३६ ॥ दिव्यगन्धावलिताङ्गं दिव्यधूपेन धूपि तम् ॥ गोरसैः सफलेर्दूर्वैः सिद्धैरुपहृतैः सदा ॥ ३७ ॥ संशोभितं पुरःपार्श्वे देवमुत्तमशोभिकम् ॥ तथा पश्चान्सुखं दृष्ट्वा ववन्दे स नराधिपः ॥ ३८ ॥ जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधि ॥ नाम्नां सहस्रेण तथा तुष्टाव मधुसूदनम् ॥ ३९ ॥ प्रदक्षिणमथो चक्रे स तृप्त्याय पुनःपुनः ॥ रम्यमायतनं दृष्ट्वा तत्रोवासाश्रमे नृपः ॥ ४० ॥ विशालां हि गुहां काञ्चिदाश्रित्य सुमनोहराम् ॥ तपश्चकार तत्रैव पूजयन्तो जनार्दनम् ॥ ४१ ॥ नानाविधैः सदा पुष्पैः फलैर्मूलैः सुगोभसैः ॥ नित्यं त्रिषवणस्नायी वह्निपूजापरायणः ॥ ४२ ॥ देवापीपीडितैः कुर्वन्सततं प्राणधारणम् ॥ सर्वा हारपरित्यागं स कृत्वा मनुजेश्वरः ॥ ४३ ॥ अनाश्रितगुहाशायी कालं नयति पार्थिवः ॥ त्यक्ताहारक्रियस्यास्य केवलाम्भोऽशनस्तथा ॥ ग्लानि स्तस्य समायति न शरीरे तदद्भुतम् ॥ ४४ ॥ एवं स राजा तपसि प्रसक्तः सम्पूजयन्देववरं सदैव ॥ तत्राश्रमे कालमुवास कञ्चित्स्वगोपिमे दुःख मविन्दमानः ॥ ४५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आश्रमवर्णनो नाम द्विपञ्चाशदधिकशततमोऽध्यायः ॥ १५२ ॥

मार्कण्डेय उवाच ॥ गत्वाश्रमपदं राजा त्यक्ताहारपरिच्छदः ॥ क्रीडाविहारंगन्धर्वैः पश्यत्यप्सरसस्सह ॥ १ ॥ कृत्वा पुष्पोच्चयं भूरि *प्रग्रथित्वा तथा सजः ॥ अत्र निवेद्य देवाय गन्धर्वेभ्यस्तथा ददौ ॥ २ ॥ पुष्पोचयप्रसक्तानां क्रीडन्तीनां यथा सुखम् ॥ चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति ॥ ३ ॥ काश्चित्पुष्पोचये सक्ता लताजालेन वेष्टिताः ॥ सर्वोजननेन सत्त्यक्ताः कान्तेन परमोक्षिताः ॥ ४ ॥ मकरन्दसमाक्रान्तनयनाः काश्चिदङ्गनाः ॥ कान्तनिःश्वासवातेन नीरजस्कीकृतेक्षणाः ॥ ५ ॥


१ 'समन्तत' इति क०-।

वि० ध० ॥ १०० ॥ प्र० खं० अ० १५३ ॥ १०० ॥

काचिदुचित्य पुष्पाणि ददौ कान्तस्य भामिनी ॥ कान्तसङ्गार्थितैस्तैश्च रराज कृतशेखरा ॥ ६ ॥ स्वयमुच्चित्य सङ्ग्रन्थ्य रमणकृतशेखरा ॥ कृतकृत्यमिवाऽऽत्मानं मेने मन्मथवर्धिनी ॥ ७ ॥ अन्यस्मिन्संगहने कुञ्जे विशेषकुसुमा लता ॥ काचिदेवं रहो नीता रमणेन रिरंसुना ॥ ८ ॥ कान्तसन्नामितलताकुसुमानि विचिन्वती ॥ सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम् ॥ ९ ॥ क्वचित्पश्येति भूपालो नलिनीषु पृथक्पृथक् ॥ क्रीड्यमानास्तु गन्धर्व्वैर्व्वरामा मनोरमाः ॥ १० ॥ काचिच्चाताड्यत्कान्तंसमुदकेन शुचिस्मिता ॥ ताड्यमाना तथैवान्या कान्तेन रतिसाध्वसौ ॥ ११ ॥ कान्ता तु ताडयामास जातवेदा वराङ्गना ॥ अदृश्यत वराहोऽ बाह्वृत्युत्पथोऽथवा ॥ १२ ॥ कान्ताम्बुताडनभ्रष्टकेशापाशनिबन्धना ॥ श्वासोत्कुलमुखी भाति मधुपैरिव पद्मिनी ॥ १३ ॥ स्ववक्त्रसदृशैः पुष्पैः संछन्नलिनीवने ॥ छन्ना काचिच्चिरात्ताता कान्तेनान्विष्य यत्नतः ॥ १४ ॥ ज्ञाता शीतापदेशेन काचिच्छ्रोताङ्गना भृशम् ॥ स्मापालिङ्गनं चक्रे मनोभिन्डोलपितं विभुम् ॥ १५ ॥ जलाद्रं वसनं सूक्ष्ममङ्गलीने शुचिस्मिता ॥ धारयन्ती जनं चक्रे काचित्तत्र समन्मथम् ॥ १६॥ गन्धमाल्यगुणैः काचित्कान्तेनातृष्ण्य चास्मसि ॥ दृष्ट्वोत्सङ्गमर्पयति रमणं प्राहसच्चिवम् ॥ १७॥ काचिन्न्यस्तसखीहस्ताजुह्वानुशनावक्षता ॥ संभ्रमात्कान्तरामणमग्रा मापि न्यमज्जत ॥ १८ ॥ काचित्पृष्टीकृतादित्या केशस्तिस्तोयकारिणी ॥ शिलतोललता भर्त्रा दृष्टा कामातर्चचक्षुषा ॥१९॥ हतमाल्यं सुललितं संक्रान्तकुचकुङ्कुमम् ॥ गतान्तक्कान्तकान्तमसमभवत्तत्सरोदकम् ॥२०॥ मुखादंतरेणान्येदेववरामागणेन च ॥ पूज्यमानं स ददृशे देवदेवं जनार्दनम् ॥ २१ ॥ क्वचिच्च ददृशे गजा लतागृहगताः स्त्रियः ॥ मण्डयन्त्यः स्वगात्राणि कान्तसम्बन्धमानसाः ॥२२॥ काचिदादर्शसुव्यक्तम दूर्तीसुव्यक्तदृत्स ॥ शृण्वती कान्तवचनम तिकान्तमुखा बभौ ॥२३ ॥ काचित्सत्वरिता दूत्या भूषणानां विपर्ययम् ॥ कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना ॥ २४ ॥ वायुवस्त्रांतसंगभि कुसुमोत्करमण्डिते ॥ क्वचित्पश्यन्त्यो ददृशे प्रदेशं नर्त्तनाहाडे ॥२५॥ पाययामास रमणं स्वयं काचिद्वराङ्गना ॥ काचिन्न्यपां वगंगहा कान्तापाणि-समापितम् ॥२६॥ काचित्स्वनेत्रासंकान्तं नीलोत्पलयुतं बभुः ॥ पीत्वा पश्चाच्च रमणं विगते ते महोत्पले ॥ २७॥ त्वेवं पीतं तूनमित्युक्त्वा रमणन मा ॥ सत्यं विदित्वा मुग्धत्वाद्बभूव व्रीडिता चिरम् ॥२८॥ काचिन्कान्नापितं सुभ्रूः कान्तपीतावशेषितम् ॥ मद्येशेषगमं पानं पपा मन्मथबंधना ॥२९॥ आपानगोष्ठीषु तदा तासां स नृपुङ्गवः ॥ शुश्राव विविधं गीतं तन्त्रीस्वलविविमिश्रितम् ॥ ३० ॥ प्रदोपममयं ताम्र दृष्ट्वंदं जनार्दनम् ॥ गजन्म्


१ 'प्रतिमा यथा' इति क० । २ 'विहारोय' इति ख० । ३ 'युक्ता' इति ख० । ४ 'वालधौ ताश्च' इति ख० । ५ 'कांश्चि' इति क० ।

दोषनृत्यन्ति नानावाद्यपुरःसराः ॥ ३२॥ याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात् ॥ आयान्ति संयुताः कान्तैः स्वक्रीडारचितोत्सुकान ॥३३॥ नानागन्धार्चितलताश्चानानागन्धसुगन्धिनः ॥ नानाविचित्रशयनान्कुसुमोत्करमण्डितान् ॥ ३३ ॥ एवमप्सरसां पश्यन्क्रीडितानि स पर्वते ॥ तप स्तेपे महाराजः केशवार्पितमानसः ॥ ३४ ॥ तमुचुर्नृपतिं गत्वा गन्धर्वाप्सरणां गणाः ॥ राजन्स्वर्गोपमं देशं प्रातस्त्वमरिर्मर्दन ॥ ३५॥ वयं हि ते प्रदास्यामो मनसः काङ्क्षितान्वरान् ॥ तानादाय गृहं गच्छ तिष्ठेह यदि वा पुनः ॥ ३६ ॥ पुरूरवा उवाच ॥ अमोघदर्शनाः सर्वे भवन्तस्त्व मितौजसः ॥ वरं वितरताद्यैव प्रसादं मधुसूदनात् ॥ ३७ ॥ मार्कण्डेय उवाच ॥ एवमस्त्वित्यथोक्तैस्तैः स तु राजा पुरूरवाः ॥ तत्रोवास सुखौ मासं पूजयन्नो जनार्दनम् ॥ ३८ ॥ प्रिय एव सदैवोसीद्गन्धर्वाप्सरसां नृप ॥ तुतोष स जनो राजंस्तस्यालोल्येन कर्मणा ॥ ३९ ॥ मघवत्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रविचित्रम् ॥ तोयाशनस्तत्र उवास मासं यावत्सितान्तं नृप फाल्गुनस्य ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मार्कण्डेयवज्रसंवादे जलक्रीडावर्णनं नाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥ १६३॥ मार्कण्डेय उवाच ॥ फाल्गुनामलपक्षान्ते राजा स्वप्ने पुरूरवाः ॥ तस्यैव देवदेवस्य शुश्राव गदितं शुभम् ॥१॥ रात्र्यामस्यां व्यतीतायां मन्त्रिणा त्वं समेष्यसि ॥ तेन राजन्समागम्य कृतकृत्यो भवि ष्यसि ॥ २॥ स्वप्नमेवं स राजर्षिर्दृष्ट्वा विपुलविक्रमः ॥ प्रत्यूषकाले विधिवत्तत्स्नातः प्राग्वदवन्दितः ॥ ३ ॥ कृतकृत्यो यथाकामं पूजयित्वा जनार्दनम् ॥ स्वप्नं तद्देवदेवस्य न्यवेदयत धार्मिकः ॥ ४ ॥ ततः शुश्राव वचनं देवताचांसमीरितम् ॥ एवमेतन्महीपाल नात्र कार्या विचारणा ॥ ॥ ५ ॥ एवं प्रसादं सम्प्राप्य देवदेवोजनार्दनात् ॥ कृतकृत्यमिवात्मानं मेने स नरपुङ्गवः ॥ ६ ॥ कृतेद्वाचोवनो राजा तदा द्रुतुहताशनाः ॥ जगाद सुहृदां तेषां प्रसादं मधुसूदनात् ॥ ७॥ तच्छ्रुत्वा तदा सर्वे राजानमपराजितम् ॥ विद्धात्तु प्रसन्नस्ते देवदेवो जनार्दनः ॥ ८ ॥ अप्रसन्ने जगन्नाथे देशोऽस्मिन्नृप कस्यचित् ॥ न गतिर्विद्यते राजंस्त्वं च देशमिहागतः ॥ ९ ॥ सुखं प्राप्नुहि भद्रन्ते ब्रूय एव हितेप्सितान् ॥ स सादइत्वितो ते कामा न्देवः सर्वगतः प्रभुः ॥ १० ॥ एयुक्त्वा गरेन्द्रं तं गन्धर्वाप्सरसां गणाः ॥ जग्मुः क्रीडाविहाराय यथापूर्वमरिन्दम् ॥ ११ ॥ अथाजगाम तं देशं ब्रह्मणो मानसः सुतः ॥ १२॥ त्रिजगद्वशसां स्थानमत्रिः सुगणान्वितः ॥ १२॥ तमागतं मुनिवरं दृष्ट्वा राजा पुरूरवाः ॥ पाद्यार्घ्याचमनीयाद्यैरासनेन भ्यपूजयत् ॥ १३ ॥ सम्पूज्य च महाभागमिदं वचनमब्रवीत् ॥ अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ १४॥ यत्ते देवगणैर्वन्द्यौ वन्दितौ


१ 'समादाय तु' इति ख० 'ससादत्त' इति क० ।

वि० ध० ॥ १०७॥ प्र० खं० अ० १५५

चरणौ मया ॥ श्रेयः प्रसूतिवृक्षस्य पुरोदस्तव दर्शनम् ॥ १५ ॥ सर्वपापान्तकरणं सर्वकल्याणकारणम् ॥ किं वा न लभ्यमस्तीह तेषां द्विजवरो- त्तम ॥ १६ ॥ अमोघदर्शने दृष्टे मय्यप्रतिमतेजसि ॥ एवमुक्तस्तदा राज्ञा सुप्रसन्नो जगाद तम् ॥ १७ ॥ शृणु राजन्वचो मह्यं यत्ते वक्ष्यामि सुव्रत ॥ देवदेवसमादेशादिदं ते दर्शनं मया ॥ १८ ॥ सुप्रसन्नो हि भगवान्देवस्ते मधुसूदनः ॥ द्वादशीषु सदा राजन्सोपवासेन नित्यशः ॥१९॥ पूजितो भगवान्विष्णुस्त्वयातीते तु जन्मनि ॥ २१ ॥ राजसेन तु भावेन त्वया देवः समर्चितः ॥ २० ॥ अयं काममाश्रित्य राजविहतकण्टकम् ॥ सात्त्विकेन तु भावेन पूजयित्वा जनार्दनम् ॥ २१ ॥ राज्यं मदद्य संप्राप्तं निष्कण्टकमरिन्दम ॥ द्वादश्यामुपवासैस्त्वं देवदेवं चक्रिणा ॥ २२ ॥ प्रदर्शितमिदं स्थानं मदीयं स्वर्गसन्निभम् ॥ इह राजंस्तपस्तप्त्वा देवदेवं जनार्दनम् ॥२३॥ आगत्य दृष्टवानस्मि पुरा वर्षगणान्वहून् ॥ प्राप्या पूजां हृषीकेशात्तात्कृते विवरे शुभे ॥२४॥ नित्यं मन्निहिता राजंस्त्वस्यार्चा विनिर्मिता ॥ नियोगोद्देवदेवस्य पूज्यते सिद्धसत्तमैः ॥ २५ ॥ नेयं दृष्टा मनुष्येन्द्र मनुष्येन च राक्षसैः ॥ पिशिताशैरितश्चैवान्यैर्हेतुपूर्वा कथञ्चन ॥ २६ ॥ अस्मिन्स्थानेऽपि देशे त्वयालोल्येन कर्मणा ॥ आराधितो जगन्नाथो देवश्चक्रागदाधरः ॥ २७ ॥ आसन्नफलमूलेऽपि बहुगौरवसंयुते ॥ क्षोद्युक्तिशक्तिप्राये नमक्तिकफलेयुते ॥ २८ ॥ केवलन्माभिना ततं यत्तवया परमं तपः ॥ तेन तेऽहं वरं दद्मि यदभीष्टं तवानघ ॥ २९ ॥ अचिरेणैव कालेन त्वया राजन्कृतं तपः ॥ रूपार्थं रूपलाभाय प्राप्तं मे गदतः शृणु ॥ ३० ॥ तद्धतं ये करिष्यन्ति मनुजेश्वर मानवाः ॥ स्त्रियो वापि नरश्चैव प्राप्स्यन्ते रूपमुत्तमम् ॥ ३१ ॥ सौभाग्यमतुलं लोके लावण्यमपि चोत्तमम् ॥ धर्मिष्ठतां तथारोग्यं कुले जन्म तथोत्तमे ॥ ३२ ॥ जन्मान्तरमथासाद्य स्वर्गलोकं तथाविधम् ॥ स्वर्गलोकात्तथाभ्रेष्टा मानुष्ये गुणसंयुताः ॥ ३३ ॥ ब्राह्मणा धनसम्पन्ना भविष्यन्त्यथवा नृपाः ॥ जन्मान्तरमथासाद्य भवेद्येव फलप्रदाः ॥ ३४ ॥ नृपवन्तो महाराज दृष्टा सुत्र च तेऽनघाः ॥ यस्मात्त्वया तपस्तप्तं केशवश्चाप्य पूजितः ॥३५॥ मया समागतश्चापि गंधर्वेश्च महेश्वरः ॥ इहैव कृत्वा धर्मज्ञ रूपमत्र महाफलम् ॥ दिव्यरूपधरो भूत्वा स्वर्गारूं गन्तुमर्हसि ॥ ३६ ॥ एतावदुक्तः स तु मञ्जुनाथो महात्माना तेन नरेन्द्रसिंह ॥ पप्रच्छ तं धर्मसुतन्त्वविद्रुतः नम्रस्य तस्याशुशयं विधानम् ॥ ३७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुरूरूवाऽदितिदर्शनं नाम चतुःपञ्चाशद्विशततमोऽ- ध्यायः ॥ १५४॥ पुरूरवा उवाच ॥ श्रोतुमिच्छामि भगवन्त्रूपसत्रं महाफलम् ॥ यत्समातं भविष्यामि दिव्यरूपधरेण सुते ॥ १ ॥ ॥१०७॥


१ 'पुष्टं' इति ख० ।

अग्निरुवाच ॥ तत्सत्रं कर्तुकामेन चान्वेष्टव्यो ब्राह्मणो गुरुः ॥ ज्योतिषं यो विजानाति इतिहासांश्च कृत्स्नशः ॥ २ ॥ तत्प्रदिष्टेन विधिना पादक्षात्प्रभृति क्रमात् ॥ उपोषितव्यं नक्षत्रं प्रत्येकं तन्निबोध मे ॥ ३ ॥ फाल्गुन्यां समतीतायां कृष्णपक्षाष्टमी तु या ॥ समुत्पन्नां तां तु सम्प्राप्य व्रतं गृह्णीत मानवः ॥ ४ ॥ उपोषितव्यं नक्षत्रं नक्षत्रस्य च दैवतम् ॥ वरुणं च तथा चन्द्रं पूजयेद्विधिना नरः ॥ ५ ॥ पूजयेद्देवदेवेशं भगवन्तं जनार्द्दनम् ॥ उपोष्य शङ्कं देवस्य प्रयत्नेन च पूजयेत् ॥ ६ ॥ ततोऽभिप्लवनं कृत्वा पूजयित्वा तथा गुरुम् ॥ उपवासस्तु कर्त्तव्यो द्वितीयेऽहनि पार्थिव ॥ ७ ॥ उपोष्य ऋक्षे विगते स्नात्वा सम्पूज्य केशवम् ॥ कृत्वाऽन्हिकमहं भक्त्या पूजयित्वा द्विजोत्तमात् ॥ ८ ॥ हविष्यमन्त्रं भोक्तव्यं शृणु चाङ्गक्रमं मम ॥ पादयोः कथितं मूलं प्राजापत्यं तु जङ्घयोः ॥ ९ ॥ आश्विनं जानुयुगलं चोरुयुग्मं च पार्थिव ॥ सहिते द्वे तथाषाढे गुह्यं च सहिते स्मृते ॥ १० ॥ पूर्वोत्तरे च फाल्गुन्यौ कृत्तिकासु कटिर्भवेत् ॥ पार्श्वयोः कुक्षियुक्तान्येषु नक्षत्रनिश्चितं मतम् ॥ ११ ॥ उदरे प्रौष्ठपदे राजन्नेत्रती च तथा भवेत् ॥ उरोऽनुराधासु तथा पृष्ठं निष्ठायासु कीर्तितम् ॥ १२ ॥ भुजौ ज्ञेयौ विशाखासु हस्तौ प्रोक्तौ तथा करौ ॥ अङ्गुल्यश्च तथा प्रोक्ता राजसिंह पुनर्वसौ ॥ १३ ॥ आश्लेषायां तथा प्रोक्ता ज्येष्ठायां नृप कन्धरा ॥ श्रवणौ श्रवणौ ज्ञेय मुखं पुष्ये प्रकीर्तितम् ॥ १४ ॥ दन्ताः स्वातौ शतभिषा हनू प्रोक्तौ तथा नृप ॥ मघायां नासिका प्रोक्ता मृगशीर्षे च लोचने ॥ १५ ॥ चित्रा ललाटे विज्ञेया भरण्यश्च तथा शिरः ॥ शिरोरुहास्तथाऽऽर्द्रासु व्रतस्यान्ते नराधिप ॥ १६ ॥ मधुशुक्लावसाने तु सत्रं परिसमाप्यते ॥ यद्यन्तरायं न भवत्किंचिच्छौचनिमित्तजम् ॥ १७ ॥ अन्तरायं महाराज यदि शौचनिमित्तजम् ॥ उपोष्यमेवोपावसेत्सर्वसत्रसमम्परं पुनः ॥ १८ ॥ क्रमप्राप्तं हि नक्षत्रं चाशुद्ध्यामपवर्जितम् ॥ उच्छूद्यन्न्महीपाल प्रत्यवायं समश्नुते ॥ १९ ॥ अङ्गक्रमेण संक्कोलैलर्वङ्गकुसुमैस्तथा ॥ २१ ॥ व्रतान्ते प्रयततः स्नात्वा पूजयेन्मधुसूदनम् ॥ २० ॥ चन्दनागुरुकर्पूरमृगदर्पै

वि० ध० ॥१०२॥

प्र०खं० अ० १५५ ॥३॥

रूपैव ॥ सर्वबीजानि राजेन्द्र भूषणानि च शक्तितः ॥ २६ ॥ महार्हाणि च वस्त्राणि भक्त्या प्रयतमानसः ॥ तद्विष्णोः परममिति होमः कार्यो ह्यनन्तरम् ॥ २७ ॥ द्वादशाक्षरकं मन्त्रं क्षीरवृक्षेषु विधीयते ॥ घृतं माक्षिकसंयुक्तं जुहुयात्तिलतण्डुलम् ॥ २८ ॥ ततस्तु दक्षिणा देया गुरवे नृपसत्तम ॥ नागाश्च मदमत्ता वै ग्रामाश्च विविधास्तथा ॥ २९ ॥ तुरगाश्च तथा मुख्या रत्नानि विविधानि च ॥ ब्राह्मणश्च पिता ज्ञेयो रूपसत्प्रप्रदर्शकः ॥ ३० ॥ रूपसौभाग्यलावण्यजन्मभोगप्रदायकः ॥ राज्यस्य वा द्विजत्वस्य बहुवित्तस्य दायकः ॥ ॥ ३१ ॥ न तस्य निष्कृतिः शक्या गन्तुं दानेन भूरिणा ॥ गुरुप्रसाद एवात्र दक्षिणानां तु कारणम् ॥ ३२ ॥ तस्मात्तस्मादकाङ्क्षीद्रूपमत्र प्रदर्शकात ॥ अवश्यं तस्य दातव्यं घृतपूर्णं तु भाजनम् ॥ ३३ ॥ चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ॥ ततः पुनः भोजनीयाः स्वशक्त्या द्विजपुङ्गवाः ॥३४॥ लवणक्षीरस्र्वाज्यक्षुद्रभक्ष्यसितोदकम् ॥ भोजनं पानकोपेतं पक्षाद्द्या च दक्षिणा ॥ ३५ ॥ वस्त्रयुग्मं प्रदातव्यं ब्राह्मणाम् नवं शुभम् ॥ ब्राह्मणार्य च दातव्यं महाराजतरङ्गिनम् ॥ ३६ ॥ सप्तबीजानि देयानि लवणं रूप्यमेव च ॥ गृहाद्यदष्टमंहन्याच्छ्रो- पानत्कमथैव च ॥ ३७ ॥ वित्तशाठ्यं न कर्तव्यं सत्तदाने महीपते ॥ अवश्यदेयं सद्गेहेस्मिन्घृतपूर्णं च भाजनम् ॥ ३८ ॥ चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ॥ व्रतेनानेन चीर्णेन देहत्यागे दिवं गतः ॥३९॥ तत्रोष्य सुचिरं कालं मानुष्ये यदि जायते ॥ राजा भवति धर्मात्मा ब्राह्मणा वा धनान्वितः ॥ ४० ॥ कुले महति सम्भूतो रूपेणाप्रतिमौ भुवि ॥ आरोग्यं महदाप्नोति सौभाग्यमपि चोत्तमम् ॥ ४१ ॥ लावण्यं बुद्धिर्मेध्यं च मति धर्मे च शाश्वतीम् ॥ सम्पूर्णचन्द्रप्रतिमः सर्वसत्त्ववशाङ्गजः ॥ ४२ ॥ नरो भवति राजेन्द्र नारी चाप्सरसोपमा ॥ सुभगा दर्शनीया च लावण्यगुणसंयुता ॥ ४३ ॥ बहुधान्या बहुधना बहुपुत्रपौत्रसंयुता ॥ भर्तुश्चात्यन्तदयिता लोके स्यात्तथा नृपः ॥ नित्यारोग्यवती कान्ता सर्वदोषविवर्जिता ॥४४॥ चन्द्रानना नीलसरोरुहानेत्रा त्रैलोक्यकान्ता पतिवल्लभा च ॥४५॥ भवत्यवश्यं सुभगा सुशीला लावण्ययुक्ता यशसा श्रिया च ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रूपसत्रवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ १५५ ॥ ॥ पुरूरवा उवाच ॥ भगवन्सर्वधर्मज्ञ पितामह महाद्युते ॥ गुरुत्वं मे व्रते तस्मिन्वक्तुमर्हसि मानद ॥ १ ॥ कृतवन्तं च मां तत्र लाभार्थं द्विज- पुङ्गव ॥ एवं शक्त्योस्यरूपेणस्मिन्कर्तुं ब्रह्मन्महद्धनुम् ॥ २ ॥ अत्रिरुवाच ॥ तत्र प्रमादं भगवान्सन्वात्मा मुनुमूर्द्धनः ॥ कुरुष्वेदं करिष्यामि


१ बहुवित्तस्य' इति ख० । २ 'स प्रमादो' इति ख० । ३ बुद्धिमत्कालीकी स्थितिः इति ख० । ४ मेधा धारणावती धीः । ५ 'दक्षताय' इति ख० ।

गुरुत्वमपराजितः ॥ ३ ॥ व्रतावसाने च तथा साम्रग्यं द्विजपुङ्गवैः ॥ कामास्तत्सन्निहिताश्चान्यैर्देशैदस्मिन्नृप सर्वदा ॥ ४ ॥ मार्कण्डेय उवाच ॥ एवमुक्तः स धर्मात्मा सप्तमे च दिने तदा ॥ ज्येष्ठगुंयां सतप्तमीयोगे ग्राहयामास तं व्रतम् ॥ ५ ॥ पादशौचं प्रभृत्येषवृक्षक्षेत्रज्ञे नराधिपः ॥ कारयामास देवस्य कथिताङ्गादिपूजनम् ॥ ६ ॥ स्नानं नक्षत्रनिर्दिष्टं नक्षत्रस्य च पूजनम् ॥ नक्षत्रदैवतस्यापि सोमस्य वरुणस्य च ॥ ७ ॥ पूजनं च तथा विष्णोर्देवदेवस्य चक्रिणः ॥ होमं तथैव सर्वषां यथावन्मनुजेश्वर ॥ ८ ॥ माघशुक्लमुभां प्राप्य द्वादशीं च तथा तिथिम ॥ अत्रिब्रतावसाने तमागते ब्राह्मणैः सह ॥ ९ ॥ व्रतावसाने संपूज्य केशवाङ्गांश्चिसोमजान् ॥ राज्यं निवेदयामास सोऽद्रेः सकलमव हि ॥ १० ॥ प्रतिगृह्य च तद्राज्यं तस्माद्दे मन्त्रिविन्नृप ॥ भूयः प्रादात्स तस्यैव वचनंचदमब्रवीत ॥ ११ ॥ न मे राज्येन कर्तव्यं किञ्चिदवास्ति पार्थिव ॥ न धनेन न कामेन याजिता ध्रुववाञ्छियाः ॥ १२ ॥ समत्वं राजशार्दूल स्वस्ति गच्छ गृहान्प्रति ॥ एवमुक्ता ययावत्रिरन्तर्धानमथेश्वरः ॥ १३ ॥ सर्वैर्द्विजगणैः सार्धं तदा गत्वा सं पार्थिवः ॥ देवपुष्करिणीतीये स्नातमात्रो वभूव ह ॥ १४ ॥ ततस्ताम्बूनदकारो नीलकुञ्चितमूर्धजः ॥ पृथुवक्षा महाबाहुस्तप्तकुङ्किमसंकाटिः ॥ १५ ॥ गन्धर्वराजप्रतिमः सर्वसत्त्ववशङ्करः ॥ रूपं तु तादृशं तस्य दृष्ट्वा गन्धर्वसत्तमाः ॥ १६ ॥ तथैवाप्सरसो मुख्या दिष्ट्या दिष्ट्येति तेऽब्रुवन् ॥ सभाज्य पार्थिवं तेन पूजिताः प्रययुः सुखम् ॥ १७ ॥ नीत्वा संवत्सरं तत्र पूर्णं संवत्सरे नृपः ॥ देवतांश्चाप्यथामन्त्र्य पूजयित्वा यथाविधि ॥ १८ ॥ तथा पुष्करिणीं पुण्यां गुहां पद्मरस्तथा ॥ आश्रमं शैलमुख्यं च तथैव च वनस्पतिम् ॥ १९ ॥ गन्धर्वाप्सरसश्चैव प्रययौ स्वपुरं ततः ॥ उग्रसङ्गमसम्प्राप्तौ दृष्टो वर्षायिकैस्ततः ॥ २० ॥ स्तुतो देवप्रसादाच्च भक्त्या तैश्चाभिनन्दितः ॥ सत्त्वैश्च तथा कैश्चिदमात्यानां निवेदितः ॥ २१ ॥ अमात्याश्चागतं श्रुत्वा लब्धकामं नराधिपम् ॥ निर्ययुर्नगरात्तस्माच्चतुरङ्गबलान्विताः ॥ २२॥ राज्ञः प्रतिग्रहाथं ते गणमुख्यापुरःसराः ॥ तैः समेत्य स राजर्षिर्यथान्वमनुजेश्वर ॥२३॥ कल्पितेन गजेन्द्रेण पताकाध्वजशोभिना ॥ प्रविवेश पुरं हृष्टः शाकलं नाम नामतः ॥ २४ ॥ राज्ञः प्रवेशे तत्पौरैः सितचन्दनवारिणा ॥ बहुवर्णस्तथा पुष्पैर्यथास्थाने विरूषितम् ॥ २५॥ चन्दनागुरुसाराणां धूपैः सुरभीकृतम् ॥ महोच्छ्रितपताकाढ्यं माल्यदामपरिष्कृतम्॥ २६ ॥ माल्यमोदकहस्तैश्च पौरजानपदैर्युतम् ॥ अतीव जनसंबाधमतीव सुमनोहरम् ॥ २७ ॥ प्रासादवरसंस्थाश्च गवाक्षगतास्तथा ॥ वेदिकास्थाश्च


१ 'दध्वाश्च' इति क० । 'द्याच्च' इति ख० । २ 'देवतांश्चाप्यथामन्त्र्य' इति ख० । ३ 'अप्यशङ्गलसमाप्राप्तौ' इति क० ।
१८

वि० ध० ॥१०३॥ प्र० खं० अ० १५७

पश्यन्ति स्त्रियस्तं मन्मथार्दिताः ॥ २८ ॥ स मुष्णन्योषितां चित्तं दृशश्च मनुजाधिपः ॥ लाजैरर्चन्दनचूर्णैश्च कीर्यमाणः समन्ततः ॥ २९ ॥ पुष्पैश्च स्त्रीकरोत्सृष्टैः पूर्यमाणो नराधिपः ॥ अभिगम्य च तत्रासौ देवतायतनांस्ततः ॥ ३० ॥ प्रविवेश गृहं श्रीमच्छारदाभ्रचयोपमम् ॥ तत्राभिगमनं कृत्वा देवतानां यथाविधि ॥ ३१ ॥ संपूज्य ब्राह्मणान्भक्त्या विविधैर्धनसञ्चयैः ॥ सभास्थं सान्त्वयामास पौरजानपदं जनम् ॥ ३२ ॥ आश्वास्य प्रेषयामास गृहान्योधजनं तथा ॥ जनानुरागसंयुक्तस्ततः प्रभृति पार्थिवः ॥ ३३ ॥ राजशास्त्रोपदेशेन पालयामास मेदिनीम् ॥ रेमे च सह रामाभिर्गन्धर्वप्रतिमौ युवा ॥ ३४ ॥ स तु कालेन महता राजा पञ्चत्वमागतः ॥ उवास सुचिरं काले पूज्यमानः सुरोत्तमैः ॥ ३५ ॥ मन्वन्तरे व्यतीते तु चाक्षुषस्य महात्मनः ॥ वैवस्वतेऽथ सम्प्राप्ते बुधपुत्रत्वमागतः ॥ ३६ ॥ तत्र तस्य तु यद्रूपं सौभाग्यादेव विश्रुतम् ॥ सशरीरस्य च तथा स्वर्लोके गमनं नृप ॥ ३७ ॥ स्वर्गेतोऽपि स राजर्षिः क्षीणे वैवस्वतेऽन्तरे ॥ प्रविश्यातिपुरं विष्णोश्चन्द्रमण्डलमध्यगम् ॥ ३८ ॥ एतत्सर्वमवाप्तं कर्मणा येन पार्थिवः ॥ अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ॥ ३९ ॥ ^१पूजयन्ति हरिं देवं सात्त्विकास्तु निराशिषः ॥ राजसाः कामकामाश्च क्रूरकामाश्च तामसाः ॥ ४० ॥ हरिं सम्पूज्य मनसा राजसेन पुरूरवाः ॥ सततैदंप्रसङ्गेनायं पृथिव्यामेकराड् बभौ ॥ ४१ ॥ स्वर्गं सुदुर्लभं प्राप्य स्थानं प्राप्स्यति शाश्वतम् ॥ नास्ति विष्णुसमो नाथो नास्ति विष्णुसमा गतिः ॥ ४२ ॥ नास्ति विष्णुसमं त्राणं नरस्यार्तस्य भेषजम् ॥ सत्कृतं पूजनं येन कृतं देवस्य चक्रिणः ॥ ४३ ॥ आरात्रिकं कृतं तेन सम्प्राप्तं परमं पदम् ॥ येन संकीर्तितं राजन्रहिरित्यक्षरद्वयम् ॥ ४४ ॥ बद्धः परिकरेनानेन मोक्षाय गमनं प्रति ॥ एतत्त्वे बुधपुत्रस्य त्रिषु जन्मसु पार्थिव ॥ चरितं सकलं प्रोक्तं येन सम्पूजितो हरिः ॥ ४५ ॥ धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं वृद्धिविवर्धनं च ॥ श्रोतव्यमेतन्नियतेन च सद्भिश्छायानसूनोर्जुनसंस्मृद्धिकामैः ॥ ४६ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे पुरूरवसस्वरूपगमनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥ १५६ ॥

॥ वज्र उवाच ॥ द्वादशीषु कथं विष्णुः सोपवासेन पूजितः ॥ स्याद्गङ्गे मे तन्मे त्वं ब्रूहि तत्त्वतः ॥ १ ॥ पश्य गङ्गमस्य माहात्म्यं यत्र धर्मसमावृभौ ॥ श्रुणु तस्य च धर्मस्य फलभागार्थिको नृपः ॥ २ ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ॥ गङ्गा मंगक्षिताः सर्वे भक्त्या धर्मं निषेवितुम् ॥ ३ ॥ मानुषेण शरीरेण राजा देववपुर्धरः ॥ क्षत्रियोऽपि सदा पूज्यो ब्राह्मणानां महात्मनाम् ॥ ४ ॥ विना गज्यं हि या लक्ष्मीः

॥१०३॥


^१ "राजा" इति क० । ^२ 'सतां' इति ख० ।

परतन्त्रा हि सा मता ॥ तस्माद्राज्यं प्रशंसन्ति तत्राज्ञा न विहन्यते ॥ ५ ॥ तुल्यधातुशरीराणां तुल्यावयवजीविनाम् ॥ नरेन्द्रणां नरैर्बह्वैर्नृ- ववद्दुर्भिवि मन्यते ॥ ६ ॥ राज्यदां द्वादशीं तस्मात्कर्त्तुमर्हसि मे भवान् ॥ यामुपोष्य महद्राज्यं प्राप्तुपालस्तु वै द्विजः ॥ ७ ॥ मार्कण्डेय उवाच ॥ शृणुष्वावहितो राजन्द्रादशों शुभां ॥ यामुपोष्य नरो लोके राज्यमाप्नोत्यकण्टकम् ॥ ८ ॥ मार्गशीर्षस्य मासस्य शुक्लपक्षे नराधिप ॥ दशम्यां प्रयतंः कृत्वा स्नानमभ्यङ्गपूर्वकम् ॥ ९ ॥ उपवासस्य संकल्पं शोभतस्तु तु कारयेत् ॥ देवागारे कुशास्तीर्णेामिकत्वोचोत्तर च्छदाम् ॥१०॥ अध्यासीत महीं तत्र तां रात्रिं प्रयतो नयेत् ॥ द्वितीयेऽह्नि ततः कुर्याद्विद्विः स्नानमतन्द्रितः ॥ ११ ॥ पूजनं देवदेवस्य सर्वं शुक्लेन कारयेत् ॥ कर्पूरं चन्दनं देयं मल्लिका श्वेतयूथिका ॥ १२॥ जात्या च शुक्ला राजेन्द्र धूपे कर्पूरमेव च ॥ घृतेन दीपा दातव्या शुक्लबर्त्तिसमन्विताः ॥ ॥ १३ ॥ घृतोदनं दधि क्षीरं परमान्नं तथैव च ॥ इक्षुर्मिक्षुविकारांश्च देवदेवं निवेदयेत् ॥ १४ ॥ कालोद्भवं मूलफलं वर्णं तत्र न चिन्तयेत् ॥ यथालाभेन तद्देयं शुक्लं चेत्स्याद्विशेषतः ॥ १५ ॥ हवनं च ततः कार्यं परमान्नेन पार्थिव ॥ तद्विष्णोः परं इत्येव होममन्त्रो विधीयते ॥ १६ ॥ द्वादशाक्षरकं मन्त्रं श्रीशूद्रस्य विधीयते ॥ ततोऽग्निहवनं कृत्वा शक्त्या सम्पूज्य च द्विजान् ॥ १७ ॥ सितेनेन कर्तव्या भूमिशोभा सुरालये ॥ रात्रौ जागरणं कार्यं गीतं नृत्यं च पार्थिव ॥ १८ ॥ कर्मणा चैव देवस्य कर्तव्यं श्रवणं तथा ॥ द्वादश्यां विधिनानेन भूयः पूज्यो जनार्दनः ॥ ॥ १९ ॥ राजलिङ्गं प्रदातव्यमेकं विधाय दक्षिणा ॥ ततस्तु पश्चाद्भोक्तव्यं हविष्यं पार्थिवोत्तम ॥ २० ॥ एकादशी यथा मध्ये स्नानयोरन्तरे नृप ॥ कष्टं मौनं तु कर्तव्यं जप्यं कार्यं तु मानसम् ॥ २१ ॥ द्वादशीष्वेव सर्वासु सर्वस्वंवाविशेषतः ॥ विधिमन्तत्त्वयं निर्दिष्टः कृष्णास्वेवं च कारयेत् ॥ २२ ॥ विशेषं ते प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ रक्तवर्णेन कर्तव्या देवपूजा यथाविधि ॥ २३ ॥ रक्तं च देयं नैवेद्यं पुष्पगन्धानुलेपनम् ॥ तिलतैलेन दीपाश्च महारजनरञ्जिताः ॥ २४ ॥ दीपैषु वर्तयो देया होमः कार्यस्तथा तिलैः ॥ भूमिशोभा च कर्तव्या रक्तैश्चैवालवर्णकैः ॥ २५ ॥ अनेन विधिना कृत्वा राजन्संवत्सरं ततः ॥ कार्तिक्यां समतीतायां कृष्णा या द्वादशी भवेत् ॥ २६ ॥ व्रतावसाने तस्यां तु महावर्त्तिं तु दापयेत् ॥ वाससा च समग्रेण तुलया च घृतस्य वै ॥ २७ ॥ ब्राह्मणाय प्रदातव्या धेनुः कांस्योपदोहना ॥ हेमशृङ्गी रौप्यखुरा मुक्तालांगूलभूषिता ॥ २८ ॥ वस्त्रोत्तरीया दातव्या शक्त्या द्रविणसंयुता ॥ संवत्सरेण राजा स्यान्नरः


१ ‘बहु’ इति ख० । २ ‘वर्णं’ इति क० । ३ ‘परमं पदम्’ इति क० । ४ ‘रात्रि’ इति ख० । ५ ‘खुरे रौप्यैः’ इति ख० ।

वि० ध०प्र० खं०
अ० १५९

पर्वतगह्वरे ॥ २९ ॥ त्रिभिः संवत्सरैः पूर्णैर्जायते सफलं ततः ॥ तथा द्वादशभिः पूर्णै राजा भवति पार्थिवः ॥ ३० ॥ राज्यप्रदा तेऽभिहिता मयैषा शुद्धादशी पापहरा वरेण्या ॥ उपोष्य यां भूमितले नरेन्द्रो भवेज्जयेश्च रणदरिसंघैः ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे राज्यप्रदद्वादशीविधिनार्म सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ १५७ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ मार्गशीर्षस्य मासस्य शुक्लपक्षाजनाधिप ॥ आरभ्याभ्यर्चयेद्देवं द्वादशीषु सदैव तु ॥ १ ॥ पक्षयोरुभयोर्नित्यं सोपवासो जितेन्द्रियः ॥ फलैः¹ पुष्पैर्यथाकामं नैवेद्यैर्होमकर्मणा ॥ २ ॥ पूजने ब्राह्मणानां च शक्त्या दानं च पार्थिव ॥ अभीष्टनामनामर्च्यन पूर्णत्संवत्सरान्नरः ॥ ३ ॥ तदेवाप्नोति राजेन्द्र यत्र गत्वा न शोचति ॥ अकामाः सात्त्विका देवं पूजयन्ति जनार्दनम् ॥ ४ ॥ तस्मादकामेन नरेन्द्रचन्द्र संपूजनीयो भुवनस्य गोप्ता ॥ त्यक्त्वा वणिज्यं नरदेव लोके देवेश्वरो विष्णुरुपासनीयः ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कामद्वादशीवर्णनं नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥ १५८ ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ ॥ अकामास्ते प्रवर्तन्ते देवदेवार्चने नराः ॥ २ ॥ मार्कण्डेय उवाच ॥ उपोष्य किं फलं लोके शुक्लपक्षे विधीयते ॥ १ ॥ अनेकजन्मसाहस्रैर्यत् पापं क्षयं गतम् ॥ अकामास्ते प्रवर्तन्ते देवदेवार्चने नराः ॥ २ ॥ मार्कण्डेय उवाच ॥ द्वादश्यां मार्गशीर्षस्य शुक्लपक्षे उपोषितः ॥ नाम्ना केशवमभ्यर्च्य वह्निष्टोमफलं लभेत् ॥ ३ ॥ नारायणं तथाभ्यर्च्य पौषे मासे जगत्पतिम् ॥ अत्यग्निष्टोममाप्नोति नात्र कार्या विचारणा ॥ ४ ॥ माघे माधवमभ्यर्च्य द्वादशाहफलं लभेत् ॥ गोविन्दं फाल्गुने मासि पूजयित्वा महीधर ॥ ५ ॥ अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ चैत्रे विष्णुमथाभ्यर्च्य वाजपेयफलं लभेत् ॥ ६ ॥ द्वादश्यां मासि वैशाखे सम्पूज्य मधुसूदनम् ॥ गोसवस्य तु यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ ७ ॥ ज्येष्ठे मासे तथाभ्यर्च्य देवदेवं त्रिविक्रमम् ॥ पुण्डरीकस्य यज्ञस्य फलं विन्दति मानवः ॥ ८ ॥ आषाढे वामनं देवं पूजयित्वा जगत्पतिम् ॥ क्षिप्रमेव समाप्नोति यज्ञं बहुसुवर्णकम् ॥ ९ ॥ श्रीधरं श्रावणे मासि पूजयित्वा महेश्वरम् ॥ वैष्णवस्य तु यज्ञस्य फलं विन्दत्यसंशयम् ॥ १० ॥ मासे भाद्रपदे देवं हृषीकेशं समर्चयन् ॥ अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ ११ ॥ आश्विने मासि सम्प्राप्ते पद्मनाभं समर्चयन् ॥ गोसहस्रमवाप्नोति नात्र कार्या विचारणा ॥ १२ ॥ दामोदरमथाभ्यर्च्य कार्तिके मासि यादव ॥ सर्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ १३ ॥ मासांस्तत सदा नाम्ना शुक्लपक्षे ह्युपोषितः ॥ द्वादशीषु सदा कुर्या


¹ 'सफलैः' इति क० 'सकलैः' इति ख० ।

॥१०४॥॥१०४॥

जप्यहोमान्समाहितः ॥ १४ ॥ संवत्सरान्ते दातव्यं घृतपूर्णं च भाजनम् ॥ कांस्यस्य वैनतेयं च रुक्मपत्रनिवेशितम् ॥ १५ ॥ क्रमो- पवासस्त्वेते प्रोक्ता यज्ञफला नृप ॥ पूर्णं संवत्सरं कृत्वा व्रतमेतन्नराधिप ॥ १६ ॥ स्वर्गलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥ देवरामागणाकीर्णे वीणाशुकनिनादिना ॥ १७ ॥ हंससारसयुक्तेन विमानेनार्कवर्चसा ॥ किङ्किणीशतघोषण विहरत्यमरप्रभः ॥ १८ ॥ यावज्जीवं नरः कुर्याद्व्रतमेतत्स माहितः ॥ श्वेतद्वीपमवाप्नोति यत्र चन्द्रप्रभा नराः ॥ १९ ॥ चतुर्भुजा महासत्वा नित्यतृप्ताः सुगन्धिनः ॥ अनिबन्धा निराहाराः सर्वज्ञाः सर्वदर्शिनः ॥ २० ॥ तत्रोष्य कालं सुचिरं नरेन्द्र भित्त्वार्कबिम्बं सहसा प्रयाति ॥ स्थानं पुरो देववरस्य विष्णोर्नित्यस्य तस्यानघ सर्वगम्य ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शुक्लपक्षद्वादशीविधिर्नामैकोनषष्ट्यधिक- शततमोऽध्यायः ॥ १५९ ॥ वज्र उवाच ॥ केवलं कृष्णपक्षस्य द्वादशीषु जनार्दनम् ॥ कदाप्रभृति धर्मज्ञ विधिना केन चार्चयेत् ॥ १ ॥ मार्कण्डेय उवाच ॥ मार्ग्यां तु समतीतायां द्वादशी या भवेन्नृप ॥ ततः प्रभृति कर्तव्यं व्रतमेतद्यशोप्सितः ॥ २ ॥ द्वादशीषु च कृष्णासु नाम कृष्णस्य कीर्तयेत् ॥ तेनेव नाम्ना कर्तव्यौ जपहोमौ तथैव च ॥ ३ ॥ तिलैर्निवेदनं कार्यं होमः कार्यस्तथा तिलैः ॥ पौष्यां तु समतीतायां कृष्णा या द्वादशी भवेत् ॥ ४ ॥ तस्यां व्रतावसाने तु तिलान्दद्याद्विजातिषु ॥ सुवर्णं च महीपाल रक्तवस्त्रं तथैव च ॥ ५ ॥ संवत्सरमिदं कृत्वा व्रतं मनुजपुङ्गव ॥ तिर्यग्योनिं न चाप्नोति स्वर्गलोकं च गच्छति ॥ ६ ॥ यावज्जीवं व्रतमिदं यः करोति समाहितः ॥ न स दुःखं समाप्नोति नरकं न नराधिप ॥ ७ ॥ यत्र वैतरणी दुर्गा क्षुरधाराश्च पर्वताः ॥ पापानां यातना यत्र तत्रासौ न गमिष्यति ॥ ८ ॥ यस्यां गणाः भीमबला महाघ्रा दंष्ट्राकराला विकटोग्रवेषाः ॥ विद्रावणाः पापकृतां नराणां न येन तस्या नृप यान्ति मार्गम् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रतिकृष्णपक्षद्वादशीविधिर्नाम षष्ठ्यधिकशततमोऽध्यायः ॥ १६० ॥ वज्र उवाच ॥ उपवासा- समर्थानां शुक्लपक्षे द्विजोत्तम ॥ एका या द्वादशी पुण्या तां वदस्व ममानघ ॥ १ ॥ मार्कण्डेय उवाच ॥ मासि भाद्रपदे¹ शुक्ला द्वादशी श्रवणान्विता ॥ महती द्वादशी ज्ञेया उपवासे महाफला ॥ २ ॥ सङ्गमे सरितोः पुण्ये द्वादशीं तामुपोषितः ॥ अयत्नादेकमवाप्नोति द्वादशद्वादशीफलम् ॥ ३ ॥ बुधश्रवणसंयुक्ता सैव चेद्द्वादशी भवेत् ॥ अत्यन्तमहती यस्यां सर्वं कृतमथाक्षयम् ॥ ४ ॥ द्वादशी श्रवणोपेता यदा भवति पार्थिव ॥


¹ 'भाद्रवेन' इति ख० ।

॥१०५॥

प्र० खं०
अ० १६२

सङ्गे तु तदा ज्ञात्वा सतीर्थस्नानजं फलम् ॥६॥ सोपवासः समाप्नोति नात्र कार्या विचारणा ॥ वारिधानौं तदा दत्त्वा जलपूर्णां द्विजातये ॥६॥
छत्त्रं वस्त्रयुतं राजञ्छ्रोपानहसंयुताम् ॥ स्वर्गलोकमवाप्नोति कुलमुद्धरति स्वकम् ॥ ७ ॥ स्वर्गं समासाद्य चिरं च भोगान्सुक्ता महेंद्रोपम
देववत्तुल्यान् ॥ मानुष्यमासाद्य भवेन्नरारोगो धनानन्विंतो धर्मपरो मनस्वी ॥८॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रावणीद्वाद
शीप्रशंसावर्णनं नामैकषष्ट्यधिकशततमोऽध्यायः ॥ १६१ ॥ मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ महत्यरण्ये यहूत्तं
भूमिपाल पुरातनम् ॥१॥ देशा दाशेरका नाम तेषां भागे तु पश्चिमे ॥ अस्ति राजन्मरुद्देशः सर्वसत्त्वभयङ्करः ॥२॥ सुतप्तसिकता भूमियंत्र दुष्ट
महोरगा ॥ स्वल्पच्छायासमाकीर्णा मृतप्राणिसमाकुला॥३॥ शमीखदिरफुल्लासकरीरैः पेलुभिः सह ॥ तत्र भीमा द्रुमागणाः कण्टकैरवृताः समाः॥४॥
चण्डाश्मणिगणाकीर्णा तत्र भूमिरतथा कचित् ॥ अत्यन्ततापविपमा निस्तृणा परुषोपला ॥ ५ ॥ नाश्वस्तत्र नहारो ज्वलिताग्निसमे भृशम् ॥
तथापि तत्र जीवन्ति जनाः कर्मनिवन्धनात ॥ ६ ॥ नोदकं नोदकधरा राजनंस्तत्र वलाहकाः ॥ कदाचिदपि दृश्यन्ते देशे निरपसभ्रिमे ॥ ७ ॥
तत्र पक्षान्तरेगोस्तृषितैः शिशुभिः सह ॥ उत्क्रान्तजीविता राजन्दृश्यन्तेऽथ विहङ्गमाः ॥ ८ ॥ उत्प्लुत्योत्प्लुत्य सहसा मृगाः सैकतमाल
यात ॥ सैकतेष्वेव नश्यन्ति जले सैकतसेतुवत् ॥९॥ तस्मिंस्तथाविधे देशे कश्चिद्वैश्यो दशाणिकू ॥ वनमातपविक्षुब्धः प्रविष्टस्तु परिभ्रमन ॥ १०॥
स तत्र ददृशे प्रेतान्क्षुत्तृष्णाव्याकुलेन्द्रियान् ॥ उत्कृन्वान्नलिनिभ्रांतिम्रांसान्निभोमदर्शनान् ॥ ११ ॥ स्नायुवद्धस्थिशकयान्धावमानानितस्ततः ॥
कश्चित्समांसं तंत्प्रेतं प्रेतस्कन्धगतं तदा ॥ १२ ॥ ददर्श बहुभिः प्रेतैः समन्तात्परिवारितम् ॥ तस्तस्कन्धादपरं स्कंधं नीयमानं क्रमात्क्रमात् ॥१३॥
प्रेतोऽपि दृष्ट्वा तां वोरामटवीं नरमागतम् ॥ प्रेतस्कन्धान्महीं गत्वा तस्यांतिकमुपागमत ॥ १४ ॥ सोऽभिवाद्य वणिक्श्रेष्ठमिदं वचनमब्रवीत ॥
अस्मिन्घोरे महारण्ये प्रवेशो भवतः कथम् ॥ १५ ॥ तमुवाच वणिर्द्धामान्मासाथाभ्रष्टस्य मे वने ॥ प्रवेशो दैवयोगेन पूर्वकर्मकृतेन तु ॥ १६॥
तृष्णा मे बाधतेऽत्यर्थं क्षुत्क्षामश्च भृशं तथा ॥ प्राणाः कण्ठमनुप्राप्ता वदनं श्रूयते च मे ॥ १७ ॥ अत्रोपायं न पश्यामि म्रियेऽहं यत फंल
वित् ॥ इत्येवमुक्तः प्रेतस्तु वणिजं वाक्यमब्रवीत् ॥ १८ ॥ प्रभागमिममाश्रित्य प्रतीक्षस्व क्षणं मम ॥ कृतनित्यो मया यावद्गिष्मदद्भिर्मयि यथा
सुखम् ॥ १९ ॥ एवमुक्तस्तदा चेके स वणिक्तुष्णयान्वितः ॥ मध्याह्नसमये प्राते प्रतस्तं देशमागमत् ॥ २० ॥ प्रभांगवृक्षाच्छीतोदं वारि
धार्ता मनोरमाम् ॥ दध्यानसूत्रेकेन वर्धमानेन संयुताम् ॥ २१ ॥ अवतार्थ ततस्त्वत्रं प्रददाति च यत्तदा ॥ ततोऽमृतात्रेण वणिक्परां

॥१०५॥