भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 309, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 309

वेणिका गायना मुख्या वंशावाद्याविदश्च ये ॥ ३ ॥ मार्दङ्गिका पाणविकाः शङ्खवादनकाश्च ये ॥ रक्तकण्ठाः सुमधुरा ये च मङ्गलपाठकाः ॥ ४ ॥ सूतमागधमुख्याश्च वन्दिनश्च नराधिप ॥ तुष्टुवुर्भर्तृवीरं सुखसुप्तं महामतिम् ॥ ५ ॥ सुप्रभातं समुत्तिष्ठ प्रभाता रजनी शुभा ॥ दिक्प्राची रघुशार्दूल वर्ततेऽरुणरञ्जिता ॥ ६ ॥ तूनमस्यां हि वेलायां मातलिस्त्रिदशाधिपम् ॥ विबोधयति राजेन्द्र सुखाय जगतां विभुम् ॥ ७ ॥ त्वयि सुप्ते जगत्सुप्तं विबुद्धे च सुखान्वितम् ॥ तस्मादुत्तिष्ठ लोकानां शिवाय रघुनन्दन ॥ ८ ॥ त्वं हि सर्वगुणाराभो यथा रामो महीपतिः ॥ गुणैः शशाङ्करश्म्यामैस्त्वया वै रञ्जितं जगत् ॥९॥ अत्याश्चर्यं महाबाहो यशसा सुसितेन ते ॥ सुवान्त्यरागितवृन्दानी क्रियन्ते मलिनानि यत् ॥१०॥ कृपाणधारपानीयं दृष्ट्वाऽरातिगणस्तव ॥ तृष्णयेव भवतयाशु रञ्जितानिलयो भयात ॥ ११ ॥ अक्षोभ्यश्चातिगम्भीरो भवानन्तरस्तथा ॥ अग्राह्यात्वात्समुद्रेण न समः प्रतिभाति नः ॥१२॥ सौम्यः कलावांश्चैश्वर्यान्नयनानन्दकारकः ॥ (दोषकरेण क्षयिणा नोपम्यं ते नराधिप) ॥१३॥ बाहुभोज्यातिविस्तीर्णा सर्वश्रयवती दृढा ॥ नोपम्यं याति ते सम्यक् क्षोणी विन्ध्येन कम्पिना ॥ १४ ॥ यत्तेऽस्तित तद्वश्वं त्वं ददासि रिपु सूदन ॥ अविद्यमाना भीर्हन्ता भवतारिणो गुणेः ॥१५॥ निमेषमपि यो दृष्टस्त्वयापाङ्गेर्निरीक्षणैः ॥ समृद्ध्या यं दृष्टो नित्यमेवैक्षणैः श्रियः ॥ ॥ १६ ॥ क्षुरपर्यन्तरधारेण चक्रेणारिगणस्त्य ते ॥ शिरस्त्यपह्नरत्याजौ देवदेवो जनार्दनः ॥ १७ ॥ कपालमाली सङ्गाङ्गी खशाङ्काङ्कृतभूषणः ॥ वामार्धदयिताकारः शङ्करः शं करोतु ते ॥१८॥ पद्मासनः पद्मजन्मा सर्वलोकपितामहः ॥ ऋद्धिं मेधां धृतिं लक्ष्मीं बलं च विदधातु ते ॥ १९ ॥ नमश्रेशोऽम्बुजो देवो दिग्बन्धकपूरकः ॥ ब्रह्माण्डमण्डपे दीपः सुप्रभातं करोतु ते ॥ २० ॥ केशयश्केशदेशवेश्प्रेतश्वर्गनिवासचाराः ॥ सर्वदेवगणैः सार्धं सुप्रभातं दिशन्तु ते ॥ २१ ॥ ऋषयः सरितः शैलाः सागराश्च दिशो दश ॥ कालस्यावयवाश्चैव सुप्रभातं दिशन्तु ते ॥ २२ ॥ इति शृण्वन्गिरं पुण्यामेषां मङ्गल्वादिनाम् ॥ महापण्याहघोषण तत्याज शयनं तदा ॥२३॥ आयम्यत्वं स शुश्राव लेखकैर्गणकैः सह ॥ वेगोत्सर्गं ततः कृत्वा ययौ स्नानगृहं शुभम् ॥ २४ ॥ स्नानाम्भं ततश्चक्रे दन्तधावनपूर्वकम् ॥ उत्सादितः कषायेण बलवद्भिर्नरैस्तदा ॥ २५ ॥ सुखं भद्रासनासीनः सूक्ष्मा म्बरधरः प्रभुः ॥ सस्नौ स विविधैस्तोयैर्नददीनदसागरजैः शुभैः ॥ २६ ॥ कुम्भैः सुवर्णमाहेयस्ताम्रै रौप्यमयैस्तथा ॥ शताधिकैर्महाराज सर्वाधि समन्वितैः ॥ २७ ॥ क्षीरप्रवाहसंयुक्तेर्माल्यकण्ठैः सुपूजितैः ॥ आवर्जितैर्महीपाल सुस्नातालंकृतैर्नरैः ॥ २८ ॥ चन्दनस्रावसम्पूर्णैर्जहमन्त्रानु


१ कोष्ठान्तर्गतः पाठः खुपुस्तके नास्ति ।