विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वेणिका गायना मुख्या वंशावाद्याविदश्च ये ॥ ३ ॥ मार्दङ्गिका पाणविकाः शङ्खवादनकाश्च ये ॥ रक्तकण्ठाः सुमधुरा ये च मङ्गलपाठकाः ॥ ४ ॥ सूतमागधमुख्याश्च वन्दिनश्च नराधिप ॥ तुष्टुवुर्भर्तृवीरं सुखसुप्तं महामतिम् ॥ ५ ॥ सुप्रभातं समुत्तिष्ठ प्रभाता रजनी शुभा ॥ दिक्प्राची रघुशार्दूल वर्ततेऽरुणरञ्जिता ॥ ६ ॥ तूनमस्यां हि वेलायां मातलिस्त्रिदशाधिपम् ॥ विबोधयति राजेन्द्र सुखाय जगतां विभुम् ॥ ७ ॥ त्वयि सुप्ते जगत्सुप्तं विबुद्धे च सुखान्वितम् ॥ तस्मादुत्तिष्ठ लोकानां शिवाय रघुनन्दन ॥ ८ ॥ त्वं हि सर्वगुणाराभो यथा रामो महीपतिः ॥ गुणैः शशाङ्करश्म्यामैस्त्वया वै रञ्जितं जगत् ॥९॥ अत्याश्चर्यं महाबाहो यशसा सुसितेन ते ॥ सुवान्त्यरागितवृन्दानी क्रियन्ते मलिनानि यत् ॥१०॥ कृपाणधारपानीयं दृष्ट्वाऽरातिगणस्तव ॥ तृष्णयेव भवतयाशु रञ्जितानिलयो भयात ॥ ११ ॥ अक्षोभ्यश्चातिगम्भीरो भवानन्तरस्तथा ॥ अग्राह्यात्वात्समुद्रेण न समः प्रतिभाति नः ॥१२॥ सौम्यः कलावांश्चैश्वर्यान्नयनानन्दकारकः ॥ (दोषकरेण क्षयिणा नोपम्यं ते नराधिप) ॥१३॥ बाहुभोज्यातिविस्तीर्णा सर्वश्रयवती दृढा ॥ नोपम्यं याति ते सम्यक् क्षोणी विन्ध्येन कम्पिना ॥ १४ ॥ यत्तेऽस्तित तद्वश्वं त्वं ददासि रिपु सूदन ॥ अविद्यमाना भीर्हन्ता भवतारिणो गुणेः ॥१५॥ निमेषमपि यो दृष्टस्त्वयापाङ्गेर्निरीक्षणैः ॥ समृद्ध्या यं दृष्टो नित्यमेवैक्षणैः श्रियः ॥ ॥ १६ ॥ क्षुरपर्यन्तरधारेण चक्रेणारिगणस्त्य ते ॥ शिरस्त्यपह्नरत्याजौ देवदेवो जनार्दनः ॥ १७ ॥ कपालमाली सङ्गाङ्गी खशाङ्काङ्कृतभूषणः ॥ वामार्धदयिताकारः शङ्करः शं करोतु ते ॥१८॥ पद्मासनः पद्मजन्मा सर्वलोकपितामहः ॥ ऋद्धिं मेधां धृतिं लक्ष्मीं बलं च विदधातु ते ॥ १९ ॥ नमश्रेशोऽम्बुजो देवो दिग्बन्धकपूरकः ॥ ब्रह्माण्डमण्डपे दीपः सुप्रभातं करोतु ते ॥ २० ॥ केशयश्केशदेशवेश्प्रेतश्वर्गनिवासचाराः ॥ सर्वदेवगणैः सार्धं सुप्रभातं दिशन्तु ते ॥ २१ ॥ ऋषयः सरितः शैलाः सागराश्च दिशो दश ॥ कालस्यावयवाश्चैव सुप्रभातं दिशन्तु ते ॥ २२ ॥ इति शृण्वन्गिरं पुण्यामेषां मङ्गल्वादिनाम् ॥ महापण्याहघोषण तत्याज शयनं तदा ॥२३॥ आयम्यत्वं स शुश्राव लेखकैर्गणकैः सह ॥ वेगोत्सर्गं ततः कृत्वा ययौ स्नानगृहं शुभम् ॥ २४ ॥ स्नानाम्भं ततश्चक्रे दन्तधावनपूर्वकम् ॥ उत्सादितः कषायेण बलवद्भिर्नरैस्तदा ॥ २५ ॥ सुखं भद्रासनासीनः सूक्ष्मा म्बरधरः प्रभुः ॥ सस्नौ स विविधैस्तोयैर्नददीनदसागरजैः शुभैः ॥ २६ ॥ कुम्भैः सुवर्णमाहेयस्ताम्रै रौप्यमयैस्तथा ॥ शताधिकैर्महाराज सर्वाधि समन्वितैः ॥ २७ ॥ क्षीरप्रवाहसंयुक्तेर्माल्यकण्ठैः सुपूजितैः ॥ आवर्जितैर्महीपाल सुस्नातालंकृतैर्नरैः ॥ २८ ॥ चन्दनस्रावसम्पूर्णैर्जहमन्त्रानु
१ कोष्ठान्तर्गतः पाठः खुपुस्तके नास्ति ।
वि० ध० | प्र० खं० ॥१३१॥ | अ० २०९
मन्त्रितैः ॥ बभार वसनं चारु स्नानात्तोयौघसङ्कुलम् ॥ २९ ॥ शशाङ्कमण्डलं पूर्णं तन्मुखैरिव संवृतम् ॥ वाद्यपुण्याहघोषेण तथा गीतस्वनेन च ॥ ३० ॥ स्नात्वापस्पृश्य विधिवत्पूर्वां सन्ध्यां समाहितः ॥ ददर्श वदनं चारु दर्पणे चाय सर्पिषि ॥ ३१ ॥ स सुवर्णं महाराज दैवज्ञेनाभिमन्त्रितं ॥ दिनेशे तिषिनक्षत्रं ततः शुश्राव राघवः ॥ ३२ ॥ सांवत्सरमुखोदीर्णं कलिदुःखप्रनाशनम् ॥ चकाराम्यर्चनं चाथ देवदेवस्य चक्रिणः ॥ ३३ ॥ गन्धमाल्यनमस्कारधूपदीपात्रसम्पदा ॥ स्तवैर्बलिप्रदानैश्च गीतवाद्यस्वनेन च ॥ ३४ ॥ संपूज्य देवदेवेशं विवेशाग्निगृहं शुभम् ॥ तत्राग्निं समुपस्थाय हुतं पूर्वं पुरोधसा ॥ ३५ ॥ दुःखप्रनाशनं कर्म सिद्धिवृद्धिजयप्रदम् ॥ प्रागेव तस्य कृतवान्विद्वान्नृपपुरोहितः ॥ ३६ ॥ (ततस्त्वौपासने वह्नौ भरतः प्रीतमानसः ॥) श्रीसूक्तं पौरुषं सूक्तं जुहाव प्रयत्नस्तदा ॥ ३७ ॥ आज्येन मन्त्रपूतेन विधिना सुसमाहितः ॥ दत्वा पूर्णाहुतिं चाग्रौ कृतजयो महामतिः ॥ ३८ ॥ उदकेनावभृथं चक्रे देवानां पितृभिः सह ॥ ततः स निर्ययौ तस्माद्गतो वह्निवेश्मनः ॥ ३९ ॥ निष्क्रम्य पूजयामास ब्राह्मणांस्तुमना तदा ॥ गोभिरश्वैः सुवर्णेन दधिपुष्पफलान्वितैः॥४०॥ मोदकैश्च तथा रत्नैर्वस्त्रैश्च रघुनन्दनः ॥ पूजितानां द्विजेन्द्राणां भगतेन महात्मना ॥ ४१ ॥ पुण्याहघोषोबलवांञ्जगाम मधुरस्वरः ॥ स पूजयित्वा विप्रन्द्रान्प्रविश्य च तथा गृहम् ॥ ४२ ॥ नित्यकर्म च कृत्वाऽदं चन्दनेन सुगन्धिना ॥ मृगमदकुङ्कुमाद्यैर्नानो वस्त्रेपुन भूपितः॥ ४३ ॥ आभूष्य सर्वगात्राणां भूषणानि रघूद्वहः ॥ जुष्टं सुगन्धि माल्यं च भजंश्च विविधान्गन्धा ॥ ४४ ॥ मङ्गलारम्भनं कृत्वा निष्क्रकाम सभागृहम् ॥ कृतं शय्यासनं तत्र वररत्नविभूषितम् ॥ ४५ ॥ महारत्नोगणोपेतं मौक्तिकाच्छद्युतिमत् ॥ वितानञ्च तथा दत्तं तस्योपर्यपि महर्द्धिमत् ॥ ४६ ॥ आसीनमासने तस्मिन्भरतं सत्यसङ्गरम् ॥ प्रांशवो वद्धनिस्त्रिंशाः कवचोत्थप्रभापिताः ॥ ४७ ॥ ऽन्तान्वन्द्येण वीग गन्धुः पृष्ठमंस्थिताः ॥ तथैवोभयपार्श्वस्थाः पूर्णचन्द्रनिभाननाः ॥ ४८ ॥ वाग्सुख्याः सुवशान्तसुपाम्यांश्चक्रुं तदा ॥ बालव्यजनतन्वांगिन्यन्तालवृन्दकशाः पराः ॥ ४९ ॥ ताम्बूलभाण्डाघारिण्यो नलिनाजोलेक्षनाः ॥ कुण्डली वद्धनिस्त्रिंशो दण्डपाणिः सुवेशवान् ॥ ५० ॥ उवाच भगनं भर्ता भूमिंविन्व्यन्तजाञ्जुकः॥ दिदृक्षवस्ते संप्राप्ता ब्राह्मणाः संशयाच्छिदः ॥ ५१ ॥ श्रोणिमहतग ये च वलमुख्यास्तथैव च ॥ प्रवेश्यन्तानित्युक्तो डास्यानक्षता ततोऽब्रवीत् ॥ ५२ ॥ ब्राह्मणान्बलमुख्यांश्च प्रवेशयत सत्वरम् ॥ आशीर्भिरभिनन्द्यैतं सप्रविष्टा द्विजातमाः ॥ ५३ ॥ वूसीपु ॥ १३१॥
^१ 'विधाय च' इति ख० ।
^२ कोष्ठान्तर्गतः पाठः खपुस्तके नास्ति ।
दन्तपोतेषु विविक्षुषु यथासुखम् ॥ ततस्तु बलमुख्यानां नमतां भरतं तदा ॥ ५४ ॥ क्षत्ता जग्राह नामानि कण्ठारवस्वरान्वितः ॥ ततस्तेष्वप्रविष्टेषु द्वारेषु विवृतेषु च ॥ ५५ ॥ प्राविवेश जनः सर्वो न न्यवार्यत कश्चन ॥ एतस्मिन्नेव काले तु शुश्रुवे तुमुलो ध्वनिः ॥ ५६ ॥ भरतं द्रष्टुकामानां भूमिपानां महात्मनाम् ॥ ह्रादेन गजघण्टानां बृंहितेन तथैव च ॥ ५७ ॥ हेषितेन तुरङ्गाणां रथेनेमिखनेन च ॥ नामभिः कीर्त्यमानैश्च वन्दिभिः पृथिवीक्षिताम् ॥ ५८ ॥ शङ्खादिनादघोषेण पटहानां स्वनेन च ॥ ( आंजग्मुर्भरतं द्रष्टुं नरेन्द्राः प्रियदर्शनाः ॥ ५९ ॥ तोरणादवतीर्यैव वाहनेभ्यो महीक्षितः ) ॥ सर्वं स्वल्पपरीवारा विविशुस्ते सभां शुभाम् ॥ ६० ॥ शिरःकम्पेन भरतं नमस्कृत्य निवेदिताः ॥ प्रतीहारेण दक्षेन तेन चक्रुर्वरासनम् ॥ ६१ ॥ सिंहासनस्यानुगतं भरतस्त्वनुरूपयन् ॥ गिरा पप्रच्छ कुशलं पूजयामास चाप्यथ ॥ ६२ ॥ तुष्टुवुर्वन्दिनस्तत्र नानादेश्यान्नराधिपान् ॥ निवेद्यन्तः स्तूयन्ते भरताय महात्मने ॥ ६३ ॥ स्तुवतां भरतं तत्र वन्दिनां स महास्वनः ॥ प्रासादभोगसंरुद्धो विपुलः समपद्यत ॥ ६४ ॥ क्ष्मापालमौलिमाणिक्यमरीचिविकटोच्छ्वलम् ॥ बालतापशुचौभूते बभूव च सभागृहम् ॥ ६५ ॥ ततः स भरतः श्रीमान्विससर्ज नराधिपान् ॥ स्वहस्तदत्तताम्बूलान्प्रतीहारीनिवेदितान् ॥ ॥ ६६ ॥ ततः समुत्थाय ययौ द्वितीयगृहमुत्तमम् ॥ तत्र चक्रे तदा मन्त्रं मातुलेन युधाजिता ॥ ६७ ॥ पुरोधसा च गार्ग्येण स्वेन कालविदा तथा ॥ युधाजिदुवाच ॥ काले त्वमीप्सिस्ते प्राप्तो गन्धर्वाणां वधेच्छया ॥ ६८ ॥ तत्र यावन्न जानन्ति गन्धर्वास्ते त्वदागमम् ॥ अवस्कन्देन तानद्य तावच्छीघ्रो जहि प्रभो ॥ ६९ ॥ अवस्कन्देन निधनं सुखं तेषां भविष्यति ॥ कालविदुवाच ॥ सुप्ते प्रमत्ते विस्रस्ते तथा राजञ्छ्लान्ते न्विते ॥ ७० ॥ अवतीर्णं बले चैव सरितं वहतीं तथा ॥ रात्रौ जागरणश्रान्ते छद्मयुद्धं विधीयते ॥ ७१ ॥ रात्रौ विहारशीलास्ते गन्धर्वाः सततं प्रभो ॥ न तेऽवस्कन्दमर्हन्ति रात्रौ कैकेयिनन्दन ॥ ७२ ॥ विजयश्च दिवा युद्धे भरतस्य प्रदृश्यते ॥ गार्ग्य उवाच ॥ आदौ दूतेन वक्तव्यं गन्धर्वाणां प्रयोजनम् ॥ ७३ ॥ यथा देशमिमं त्यक्त्वा ब्रजध्वं तुहिनाचलम् ॥ गन्धर्वाणां निवासस्तु हिमवत्यचलोत्तमे ॥ ७४ ॥ पूर्वमेव कृतस्तेन येनेदं निर्मितं जगत् ॥ स्थानमेतन्मनुष्याणां त्यक्तुमर्हथ मा चिरम् ॥ ७५ ॥ ते च दूतवचः श्रुत्वा स्थानं दुर्निरुपिथ ॥ अशशाय मुपारूह्य चैतन्मम मतं भवेत् ॥ ७६ ॥ भरत उवाच ॥ राघवाः सत्यसन्धास्तु कूटयुद्धं न शिक्षिताः ॥ तस्मात्तेषां वधः कार्यः सुयुद्धेन मया
१ कोष्ठान्तर्गतः पाठः खुपुस्तके नास्ति ।
वि० ध० ॥१३२॥
प्र० खं० अ० २०१
नृप ॥ ७७ ॥ गार्ग्यवाक्यं तथा बुद्ध्या रोचतेऽतिशयेन मे ॥ प्रयातु तेषां दौत्येन गार्ग्य एव महायशाः ॥ ७८ ॥ युधाजिदुवाच ॥ गच्छ गार्ग्य महाभाग गन्धर्वाधिपतिं प्रति ॥ तं च श्रावय वाक्यानि त्वयोक्तानीह यानि मे ॥ ७९ ॥ अक्रियायां तथा तेषां श्राव्याऽख्यायि मा चिरम् ॥ अस्यैव नाम्ना धर्मज्ञ भरतस्य महात्मनः ॥ ८० ॥ मार्कण्डेय उवाच ॥ एवमस्त्वित्यथोक्तोऽसौ ययौ गार्ग्यो महायशाः ॥ स्यन् काञ्चनाङ्गेन गन्धर्वनगरं प्रति ॥ ८१ ॥ गते पुरोहिते गार्ग्ये भरतोऽपि महायशाः ॥ हस्तिपृष्ठे रथे चाश्वे शस्त्रे शास्त्रे तथा नृप ॥ ८२ ॥ व्यायामं च तथा चक्रे नियुद्धे च यदूत्तम ॥ उत्सादितस्तथा पद्भ्यां धावद्भिः कुशलैर्जनैः १॥८३॥ स्नातः संसृजतो विष्णोर्विचित्रात्त्वरतोन्नतः॥ नमस्कृत्य तथैवाग्निं हुतं मुहु पुरोधसा ॥ ८४ ॥ तथा भुक्तवतां श्रुत्वा पूजितानां द्विजन्मनाम् ॥ पुण्याहघोषं विततेन भूमिपाल विसृज्य तान् ॥ ८५ ॥ पाद्यार्च्यचन्दनाक्ताङ्गस्तत्तूणां सितचामरः ॥ सर्व्वलङ्कारगोपेतः सुगौ नृपेन धूपितः ॥ ८६ ॥ आसीनस्तस्त्वासने दिव्ये बुभुजे स्वजनैर्युतः ॥ मातुलस्य महार्हाणि शुचीनि गुणवन्ति च ॥ ८७ ॥ अपषित्निपूर्वाणि पुरुषैर्गतकामिभिः ॥ नगपङ्गिस्तृगाणान्तु दिक्षवेता तथैव च ॥ ८८ ॥ भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं तथैव च ॥ पात्रेषु रुक्मगोयेषु तथा मणिमयेषु च ॥ ८९ ॥ भुक्कान्नं गीतशब्देन चार्वैः कतिपयैः सह ॥ तथोपस्पृश्य धर्मात्मा दन्तधावनपूर्वकम् ॥ ९० ॥ चक्रन्द्व्य शयने भेजे वामपाश्र्वेन शत्रुहा ॥ इतिहासं म शुश्राव तत्रस्थः पुरुषोत्तमः ॥ ९१ ॥ ततः स शयनं त्यक्ता शाखाभ्यागम महायशाः ॥ चकार ग्युहशीर्लः मनां मार्गमनुव्रजन् ॥ ९२ ॥ एतस्मिन्नेव काले तु सह गार्ग्यो युधाजिता ॥ विवेश भरतं द्रष्टुं गृहेणपरिकृतः ॥ ९३ ॥ सुवासिनञ्च भरतं वाक्यमेतत्ततोऽब्रवीत् ॥ गार्ग्य उवाच ॥ ततो वाक्यानि सर्वाणि शैलूपः श्रावितो मया ॥ ९४ ॥ न तानि तस्य गेचन्ते मंत्राममन्त्र्य गेचनै ॥ भरतेन ममागम्य श्वाभृते द्विजपुङ्गव ॥ ९५ ॥ भरतं नाशयिष्यामि नीहारं चन्द्रमा यथा ॥ इत्युक्त्वा न तु मां गजा प्रपथामाम मत्वः ॥ ९६ ॥ आहान्दुनडुभिम्मन्त्र निष्क्रान्ते मयि चाहतः ॥ एतज्ञात्वा म युद्धाय प्रातः सजो भवेत्तव ॥ ९७ ॥ मार्कण्डेय उवाच ॥ इति गार्ग्यवचः श्रुत्वा भरतो गार्ग्यमब्रवीत्॥ गच्छ शीघ्रं गृहं ब्रह्मञ्छ्रान्तो रथवलध्वतः ॥९८॥अहमाज्ञापयिष्यामि सर्वं मायामिकं विधिम् ॥ एतावदुक्त्वा विजयं सनाध्यक्षमथाऽब्रवीत्॥९९॥ ममोत्थूवाहिभिः शीघ्रं शिविरेषु महीक्षिताम् ॥ योधानाज्ञापयत्वद्य संभूताय रणाय वै ॥ १०० ॥ युद्धव्यावतिकं सर्वं कर्त्तव्यं च तथा त्वया ॥
१ 'उत्सादिताः कषायेण बाधितः कुशलेर्जनैः' इति ख० । २ 'विद्धिः' इति ख० । ३ 'वेदिपारगैः' इति ख० ।
॥१३२॥
एवमाज्ञाप्य नागानां तुरगाणां तथैव च ॥ १०१ ॥ प्रत्यवेक्षां ततः कृत्वा सन्ध्यामन्वास्य पश्चिमाम् ॥ रेवागातः स शुश्राव नराणां गूढभाषितम् ॥ १०२ ॥ आरुरोह तदा प्रासादं हिमपाण्डुरम् ॥ कैलासशिखराकारं निर्वाते रजनीमुखे ॥ ॥ १०३ ॥ ततस्ते सैनिकः कश्चिच्छिबिरं भरतस्य तु ॥ तलं तैलेनाभ्यहनत्पवनार्थं यदृच्छया ॥ १०४ ॥ ततस्तु सैनिकैः सर्वैस्तत्तैलमैलास्रवनम् ॥ चक्रिरे पुरुपुण्यान्न तस्मिन्काले दिवं गतम् ॥ १०५ ॥ प्रभवौ च तदानीतौ वायुमेतनुजध्रुव ॥ एतस्मिन्नेव काले तु मद्रराजस्तदांशुमान् ॥ १०६ ॥ प्रासादवरमारूढो ज्ञातवान्भरतं तदा ॥ दीपालोकेन लक्ष्म्या च प्रासादस्य विवृद्धया ॥ १०७ ॥ स जगाम तदा राजा प्रहसन्सैनिकं जनम् ॥ भरतस्य प्रदास्यामि युक्त्यैव बलदर्शनम् ॥ १०८ ॥ तृणमुष्टिमुपादाय सर्वोऽपि कटके जनः ॥ पाणावादाय मुदितः क्ष्वेडाशब्दं करोतु वै ॥ १०९ ॥ पार्थिवेनैवमुक्ते तु कटके तस्य धीमतः ॥ सोल्काहस्तो जनः सर्वः क्षणेन समपद्यत ॥ ॥ ११० ॥ शिबिरं मद्रराजस्य द्वितीयमिव चाभवत् ॥ बभूव तारकाचित्रमुल्काहस्तैस्तदा नरैः ॥ १११ ॥ तद्वह्नोघमपर्यन्तं सोल्काहस्तैर्जनै र्वृतम् ॥ दृष्ट्वा जगाम धर्मात्मा परां प्रीतिं रघूद्वहः ॥ ११२ ॥ क्ष्वेडाः किलकिलाश्र्चैव श्रुत्वा हर्षमुपागतः ॥ तस्मिन्प्रशान्ते ज्वलने मन्दीभूते च निःस्वने ॥ ११३ ॥ अभ्यहन्यन्त भूपानां शिबिरेषु पृथक्पृथक् ॥ संज्ञातूर्याणि रम्याणि नानालिङ्गानि चाप्यथ ॥ ११४ ॥ सुवहूनि महाराज तेन कोलाहलं महत् ॥ बभूव प्रीतिजननं भरतस्य महात्मनः ॥ ११५ ॥ मन्त्रयित्वा ततः श्रीमान्क्षणमात्रं युधाजिता ॥ तेनैव सह भुक्त्वा च सुषुवाप शयनेत्तमे ॥ मधुरेण सुगीतेन वीणावेणुस्वरेण च ॥ ११६ ॥ हिमावदाते वरमाल्यचित्रे वितानकाद्यौर्विहिते मनोज्ञे ॥ सुषुवाप रात्रिं स महातुभावो भोगीन्द्रभोगे मधुजिद्यथैव ॥ ११७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे युद्धसज्जवर्णनो नाम नवोत्तरद्विश ततमोऽध्यायः ॥ २०९ ॥ ॥ मार्कण्डेय उवाच ॥ आह्नानदुन्दुभिं श्रुत्वा शैलपतनयामस्ततः ॥ आसंग्दः पार्थिवं सर्वं रोटूपं तं समागताः ॥ १ ॥ नमुचिः कामपालश्च गवणसुदर्शनौ ॥ वीरबाहुः सुबाहुश्च वायुवेगसुवर्चसौ ॥२॥ निकुम्भः कुम्भनामा च बलोको बलकस्तथा ॥ हरिकेशो महो जाश्व सूर्य्रश्मिः प्रभञ्जनः ॥ ३ ॥ वृन्दारको ज्योतिषिकौ दृढस्यूरपराजितः ॥ कुमुदः कुमुदापाडो वसुनाथः सुलोचनः ॥ ४ ॥ चन्द्रपीडो गदी मौली किन्नरोज्जगरो रुहः ॥ केसरी वरवाणश्च भानूरागवाहो रथिः ॥५॥ एकलव्यो विशालश्च कलविङ्गः कलाप्रियः ॥ भीमनादो महानादो वासक्तिः पनसौ गदः ॥ ६ ॥ चन्द्रवर्मा महावर्मा वसषेणोऽथजाककः ॥ एते चान्ये च गन्धर्वाः शैलूषस्य मताः प्रभोः ॥ ७ ॥ दिग्गजानां
वि० धं० ॥१३३॥
प्र. १ खं० अ० २१०
म्बरधरा दिव्यचन्दनभूषिताः ॥ आसनेषु महार्हेषु सभायां विविशुस्तदा ॥ ८ ॥ शैलूषस्य सुतैर्युक्ता सभा सा रत्नचित्रिता ॥ रराज तारका
चित्रा निशेव नृप शारदी ॥ ९ ॥ तेषां समुषविष्ठानां शैलूषस्ताानथाब्रवीत् ॥ गार्ग्यस्य वचनं सर्वमनुयानं तथा स्वकम् ॥ १० ॥ तेऽभिवाद्यं
तदा श्रुत्वा मातुषाण्युत्तेजेश्वर ॥ चक्रुर्नानाविधांश्चेष्टा मन्युना क्रोधचेतसः ॥ ११ ॥ गन्धर्वराजपुत्रास्ते क्रोधाद्भूअन्वषिणः ॥ रेजुर्युगान्तमेघाभा
अचिरान्भासमूह्दृशा ॥ १२ ॥ बभार नद्युत्तिर्वक्रं क्रोधरागानुरञ्जितम् ॥ दिक्सीमेत्येव दिशोदाहं महासंयामसूचकम् ॥ १३॥ कामपालललाटस्था
त्रिशिखा भुकुटी वभौ ॥ त्रिभिः प्रपातैर्गेङ्ग्वेव निपत्तन्ती हिमाचलम् ॥ १४ ॥ कृष्णे स भुकुट्पन्ते क्रोधरागानुरञ्जिते ॥ कुमुदापीडनेत्रे तु सन्ध्या
तात्रे बभूवतुः ॥ १५ ॥ क्रोधाक्रान्तेन वपुषा कुमुदः कुसुदप्रभः ॥ रक्तोत्पवनिभाकारः क्षणेन समपद्यत ॥ १६ ॥ चन्द्रापीडसुखं चारु
क्रोधधूआकुलारक्तम् ॥ बभार रूपं तन्वभ्रसंभृतस्य निशापतः ॥ १७ ॥ क्रोधनिश्वासधूमेन मनोवक्रमाथवानृतम् ॥ वभूव भानोः
सहशानुरागं यदुत्तमं ॥ १८ ॥ करिनिष्पेषसंजातधूमधूम्रमुखार्कः ॥ अन्वर्थनामतामाप तस्मिन्काले सुदर्शनः ॥ १९ ॥ विज्झिम्मत
गवेषणप्रवेगेन वीहिंगमोज्ज्वलात्मना ॥ ताराभिर्वर्षणेनेव मूर्चितो भूपतिक्षयः ॥ २० ॥ वीग्वाहुर्युगजावाततन्तिनिप्पेषणेषुना ॥ विजूम्भित
मथास्थाने क्रोधेनेव वपुष्मता ॥ २१ ॥ सुबाहुवाहुनिष्पेषो वभूवाशनिनिस्वनः ॥ निर्घात इव गम्भीरो गंजां निधनसूचकः ॥ २२ ॥
वायुवेगमहावेगश्चरणोल्लेखिता क्षितिः ॥ विद्वद्दे पृथिवीपाल विनाशभयशंलिनी ॥ २३ ॥ आयासजातसंस्वेदपुलकेङ्गामृशोपितम् ॥ सुवर्चा
धारयामास ललाटतटपट्टकम् ॥ २४ ॥ प्रस्विन्नागास्रसेक्रान्ताकंबनस्तनमभिपिङ्गुलः ॥ वभूव कुम्भातमन्तु क्रोधा विग्रहवानिव ॥ २५ ॥
सुविनेःसुतरोमाभिर्ज्वालार्कसदृशालिना ॥ नृसिंहवपुषाश्चक्रे ग्विणाणुकृतिर्निहः ॥ २६ ॥ प्रम्विन्नगात्रांम्क्रान्तन्मनसंवन्यमण्डलः ॥ विश्वरूपयंगं
मौलः प्रजहास जनार्दनम् ॥ २७ ॥ गन्धर्व्वराजपुत्रांस्ते मन्युना हतचेतसः ॥ तदा वभूवूर्नृपाल मर्व एव विशंपतः ॥ २८ ॥ इत्थं सुतानां
प्रसमत्त्य कोपं संस्मृत्य वाक्यानि पुरोहितस्य ॥ जगाम मन्युं सुतरां स राजा सन्दष्टदन्तच्छदभीमवक्त्रः ॥ २९ ॥ इति श्रीविष्णुधर्मात्तंर्ग
प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्व्वसभांभाषणोतो नाम दृशोत्तदिशततमोऽध्यायः ॥ २१० ॥ ॥ मार्कण्डेय उवाच ॥ दृष्ट्वा गन्धर्व
राजस्य कोधेनाकुलितं मनः ॥ तमुन्नुहृन्तेप गन्धर्वाः स्ववाहुवलदर्पिताः ॥ १ ॥ अपराजित उवाच ॥ सर्वमालभते राजनशोकः शूरवाहुषु ॥
तस्माच्छोयेण निधनं रक्षणं मम रोचते ॥ २ ॥ निकुम्भ उवाच ॥ योऽयं मन्युः समुद्भूतः काकुत्स्थान्प्रति मे प्रभो ॥ अविनाशि जगत्कृत्स्नं
॥१३३॥
विनाशं समुपैष्यति ॥ ३ ॥ ॥ किन्नर उवाच ॥ या लक्ष्मीर्गुलिताङ्गी वैरिशोणितकुङ्कुमैः अकान्तापि सरसां प्रीतिं न सा धत्ते मनस्विनामा ॥ ४ ॥ वसुनाम उवाच ॥ कृपाणधाराविध्वस्तरङ्गसङ्घसमुद्भवा ॥ न या श्रीः किं तया कार्यं राजन्सत्त्ववतां नृणाम् ॥ ५ ॥ ॥ अजगर उवाच ॥ अजितारिगणोपान्तसम्पदो भूषणक्रिया ॥ विषण्ढरीयसी तामिर्येषां न सम्पद्विभूषणा ॥ ६ ॥ ॥ रुह उवाच ॥ शोभन्ते कर्कशाः शूराः स्तना इव समुन्नताः ॥ शूराणां च स्तनानां च परावज्ञाकरी रतिः ॥ ७ ॥ ॥ केश उवाच ॥ तेजस्विनामभ्युदयं वन्दनीयं जगत्त्रये ॥ यथा भास्करमभ्युदन्तं जनः सर्वोऽभिनन्दति ॥ ८ ॥ ॥ परवाण उवाच ॥ सत्त्वाधिकस्य सिंहस्य लीलोन्मथितपाद्पाः ॥ न शक्ताः पुरतः स्थातुं शैलकूटाेपमा गजाः ॥ ९ ॥ ॥ अभाबह उवाच ॥ न जातु शमनं यत्थ तेजस्तेजसि तेजसाम् ॥ वृथा जातेन किं तेन मातृवार्द्धाक्य कारिणा ॥ १० ॥ एकण्ड्य उवाच ॥ नाग्नि संकोचितो यत्थ न भवन्त्यरयो भयात् ॥ विवर्णवदनच्छायाः का दया तस्य जीवने ॥ ११ ॥ विशाल उवाच ॥ लक्ष्मीसङ्गमलुब्धानां शूराणां च रणोद्धवा ॥ कीर्तिर्भवति सेवासु संयोगकरणा सखी ॥ १२ ॥ ॥ भीमनाद उवाच ॥ तेजसैव विपुक्तरूपरा सिक्ता रिपुस्त्रीनेत्रवारिणा ॥ न यत्थ सिञ्चिता कीर्तिः का स्पृहा तस्य जीवने ॥ १३ ॥ ॥ महाधर्म्म उवाच ॥ राजन्मस्तकविन्यस्तपदक्रमविलासिनौ ॥ समाक्रान्तसमस्तभुवनो रविः ॥ करोति पदविन्यासं सर्वषामेव मूर्धसु ॥ १४ ॥ ॥ महाधर्म उवाच ॥ मायानिहतमात्मज्ञमध्यक्षंविपदारिताम् ॥ क्षितिं भित्त्वाविशत्कन्या कीर्तितो कविदष्टकरालम्बा कीर्तिर्यातु दिवं तव ॥ १५ ॥ ॥ वासुकिरुवाच ॥ मायानिहतमात्मज्ञमध्यक्षंविपदारिताम् ॥ क्षितिं भित्त्वाविशत्कन्या कीर्तितो वसुधातल्म् ॥ १६॥ ॥ पनस उवाच ॥ हतारिलक्ष्मीसंयोगविकसद्धृदनस्य ते ॥ प्रयातु त्वरिता कीर्तिः कोधेनेव दिशो दश ॥ १७॥ गद उवाच॥ सतोयतोयदाकारेणौगैर्निदानप्रवर्षिभिः ॥ आक्रान्तदिङ्मुखे युद्धे विद्युत्त्वम्पं करोत्वसिः ॥ १८ ॥ महानाद उवाच ॥ मदर्दापसिंहनादेन विनासितगजाङ्कु लम् ॥ बलं निपातयारीणां शरैः सन्नतपर्वभिः ॥ १९ ॥ वसुरुवाच ॥ गजाश्वरथपादातचरणोत्क्षिप्तं रजः ॥ दृष्ट्वासि प्रशमं यातं परितस्त्वरि शोणितैः ॥ २० ॥ वृन्दारक उवाच ॥ गजकुम्भसमुद्रस्युत्काफलावलिकान्तिषु ॥ तिष्ठत्सु राजन्वङ्गेषु कः सहेत पराभवम् ॥ २१ ॥ ॥ ज्योतिषिक उवाच ॥ कापिशश्रूलताभङ्गकुटिलभ्रुकुटिषु ॥ विद्यमानेषु चापेषु कः सहेत पराभवम् ॥ २२ ॥ दृढस्युरुवाच ॥ रजस्तीक्ष्णाः सन्ति यत्थ विशिखाः पञ्च मानिनः ॥ किमचैतस्त्य कर्तव्यं पक्षपातिमिराहवे ॥ २३ ॥ चन्द्रपीड उवाच ॥ किमायुधैः सत्त्ववतां चारुदोर्दण्ड शालिनाम् ॥ सद्यः सञ्जातमन्यूनां युद्धव्याक्षेपकारकैः ॥ २४ ॥ गधुरुवाच ॥ खङ्गस्तिष्ठन्तु मे तुच्छा मुक्तझङ्कारहासिनः ॥ एकदोर्दण्डशेपोऽपि
वि० ध० प्र० सं० ॥१२४॥ अ० २१२
कः सहेत पराभवम् ॥ २५ ॥ कलिविङ्क उवाच ॥ मद्बाहुमन्दराक्षुब्धौवैरि सैन्यमहार्णवात ॥ मुद्धृत्य लक्ष्मीं समुत्पन्नां चिराय जगतोपते ॥ २६ ॥ ॥ गज उवाच ॥ किमायुधैः सत्त्ववतां पुंसां च किमायुधैः ॥ अगतिशक्त्याप्येकश्वान्येषामफलानि हि ॥ २७ ॥ बलूक उवाच ॥ दुर्बलोत्खात शक्तेर्ब्रह्मशनान्निहते हरौ ॥ मयाद्य सुराऽस्तु भवांब्रियुक्तेनेश्वरः ॥ २८ ॥ ................. ॥ प्रनष्टदूतपूजं बलिहोनं सुदुर्द्दशम् ॥ मया कृत मथावास्तु त्रैलोक्यमपि सुप्रभो ॥ २९ ॥ हरिक उवाच ॥ कीनाशमहिषेणाद्य हृत्य वृषभेन तु ॥ अयोध्यां वाहयिष्यामि शेषहेलाङ्कितेन च ॥ ३० ॥ महोदर उवाच ॥ निरस्तमथमात्तेण्डे मया लोके चराचरे ॥ यमस्य महिषं पश्य क्रमन्तं सूर्यवाजिषु ॥ ३१ ॥ सूर्य उवाच ॥ निःशेषदेवतासंघे मया लोकत्रये कृते ॥ दुर्गासिंहविनिर्भिन्ने पश्चाद्य मघवद्धजम् ॥ ३२ ॥ प्रभस उवाच ॥ निरस्ताम्बुपिपासेन समाकृष्य धनेश्वराः ॥ प्रणमन्तु तवाद्यैव देवसंघा हतत्विषः ॥ ३३ ॥ भद्रूक उवाच ॥ स्कन्दशङ्करशङ्खर्च्छान्द्रिमन्मया त्रिपुवने कृते ॥ शिखी संभक्षयत्वद्य शर्वाभरणपन्नगान् ॥ ३४ ॥ मार्कण्डेय उवाच ॥ क्रोधान्धकारकुलीकृतचारुवक्त्रानन्वन्वरोजनतयान्प्रसमीक्षमाणः ॥ जगाद राजानमदीनसत्त्वो नाडायनाख्यस्तु तदा पुरोधाः ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्ववर्जनं नामैकादशोत्तरद्विशततमोऽध्यायः ॥ २११ ॥ ॥ छ ॥ ॥ नाडायन उवाच ॥ ॥ एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशीकुरु ॥ पञ्च जित्वा विजित्वा षट् सप्त हित्वा सुखी भव ॥ १ ॥ एकया प्रज्ञया राजन्कार्य्याकार्येद्वयं नरः ॥ विनिश्चित्य तु यः कुर्य्यात्कार्यं तत्र स पण्डितः ॥ २ ॥ मध्यस्थं यदि वा मित्रं शत्रुं वा कार्यगौरवात् ॥ ज्ञात्वा देशं च कालं च ह्युपायैरभ्युपक्रमेत् ॥ ३ ॥ सामभेदप्रदानाश्च उपायाः परिकीर्तिताः ॥ उपायश्च चतुर्थोऽत्र दण्डस्त्वगतिशक्ता गतिः ॥ ४ ॥ पञ्चेन्द्रियजयो येन कृत आदौ जिगीषुणा ॥ त्रैलोक्यविजयं तस्य न दूरं प्रतिभाति मे ॥ ५ ॥ पञ्चेन्द्रियजयं कृत्वा गुणषट्कमुपाश्रयेत् ॥ बुद्ध्या वलावले सम्भ्यात्मनश्चापरस्य च ॥ ६ ॥ राजदोषाः परित्यक्ता येन सत नराधिप ॥ सिद्धिं तस्य समायान्ति यथाकालं गुणा ह्यु ॥ ७ ॥ मृगयाचाक्षसङ्ग्याश्च स्त्रियश्च पुरुषा गिरः ॥ अर्थसन्दूषणं चैव दण्डपारुष्यमेव च ॥ ८ ॥ राजदोषः परित्यक्ता राघवस्त्व न पार्थिव ॥ गुणाश्रयाद्विभागज्ञा विमहस्त्वं रोचते ॥ ९ ॥ भवेन वयं साश्रा बले महति तिष्ठता ॥ प्रथमं समुपाक्रान्तं तदेव तव रोचताम् ॥ १० ॥ भरतस्य वयं साश्रा यदि गच्छेम पर्वतम् ॥ हितं तत्तस्यानमहाभाग सुकुलस्य तवाऽनघ ॥ ११ ॥ त्वया कृत्वा ससुच्छ्रन्दं राज्ञां जननिवासिनाम् ॥ अकारणानामम्हेदं कृतं भूपतिभिः सह ॥ १२ ॥ जने निवा
॥१२४॥
सादस्माकं केवलं लघुता भवेत् ॥ मानुषैः संगमाश्रैव विग्रहश्च पुनःपुनः ॥ १३ ॥ न कृषिर्न च वाणिज्यं जनोऽस्माकं प्रयोजनम् ॥ ते वयं सजनां भूमिं त्यक्त्वा यामः शिलोच्चयम् ॥ १४ ॥ अपेक्ष्य देशकालौ च संधिं विग्रहमेव च ॥ फलं च बुद्ध्वा यः कुर्यात्स राजन्पण्डितो नरः ॥ १५ ॥ भूमिर्हिरण्यं मित्रं च त्रिविधं विग्रहास्पदम् ॥ स्वयंग्राहो यदस्माकं मेरुः कनकपर्वतः ॥ ॥ १६ ॥ हिरण्येन तदा कार्यं न नोऽस्ति रिपुसूदन ॥ कृषिर्नास्ति यतोऽस्माकं ततो भूमिर्नप्रयोजना ॥ १७ ॥ तस्माद्रत्नमन्विच्छ मित्रं साम्ना नराधिप ॥ मित्रं रघुकुले कृत्वा निवासस्तु हिमाचले ॥ १८ ॥ अदृश्यं देवसैन्यानां सुखं विरमवाप्नुहि ॥ न मानुषोऽयमित्येवं भर्ता मन्तुमर्हसि ॥ १९ ॥ दुष्टानां निग्रहार्थाय चतुर्मूर्तिर्जगार्द्दनः ॥ जातो रघुकुले राजन्पुत्रो दशरथस्य तु ॥२०॥ अंशेन वासुदेवस्य जातो रामो महा- यशाः ॥ संकर्षणस्य चांशेन लक्ष्मणः परवीरहा ॥ २१ ॥ प्रद्युम्नस्य तथांशेन भरतो धर्मवत्सलः ॥ अनिरुद्धस्य चांशेन शत्रुघ्नः सुमहाबलः ॥ ॥ २२ ॥ तत्र राघवासंहेन रामेणाक्लिष्टकर्मणा ॥ रावणोऽनिहतः संख्ये सर्वसत्वभयङ्करः ॥ २३ ॥ मेघनादो निरस्तश्च संग्रामे लक्ष्मणेन च ॥ शत्रुघ्नेन निरस्तश्च लवणो दुष्टराक्षसः ॥ २४ ॥ मन्ये विशिष्टभावत्वं भरतस्य महात्मनः ॥ येन माली हतः पूर्वं लङ्कावासी स राक्षसः ॥ २५ ॥ स एष भरतो विष्णुरस्ति ते तु रणेङ्गमः ॥२६॥ हिते स्थितो यः सततं सुराणां दैत्येन्द्रनाशाय निविष्टबुद्धिः ॥ तेनाप्रमेयेण जनार्दनेन समं व्रजस्वाशु महातुभाव ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे नाडायनवाक्ये शैलूषं प्रति नाडायनानुशासनवर्णनो नाम द्वादशो- त्तरद्विशततमोऽध्यायः ॥ २१२ ॥ ॥ शैलूष उवाच ॥ सुमाली विष्णुना पूर्वं कथं युद्धे निपातितः ॥ एतन्मे संशयं छिन्धि श्रूयते स महा- बलः ॥ १ ॥ नाडायन उवाच ॥ कथये राजशार्दूल पुरागस्त्येन धीमता ॥ रामाय कथिता वीर तां मे निगदतः शृणु ॥२॥ पुरा विनिहते वृत्रे दैत्या विगतनायकाः ॥ अण्डजं सागरं कृत्वा रात्रौ निघ्नन्ति वै प्रजाः ॥ ३ ॥ सुरैः सर्वैः समागम्य तथाऽहं न परेर्विधम् ॥ समुद्रोदकपानाय अगस्त्यश्चोदितस्तदा ॥ ४ ॥ देवकर्मप्रसिद्धस्तदगस्त्यमुनिर्नृप ॥ पीत्वा चकार राजेन्द्र निस्तोयं सलिलाशयम् ॥ ५ ॥ देवैश्च निहिता दैत्या निस्तोये सलिलाशये ॥ ततः कदाचिद्विन्ध्यस्तु जगादार्कनिशाकरौ ॥ ६ ॥ मेरुं त्यक्त्वा महाभागौ मम यात प्रदक्षिणम् ॥ ऊचतुस्तौ तदा विन्ध्यमावयोस्तु वशं गिरे ॥ ७ ॥ तेन पन्थाः कृतोऽस्माकं येनेदं निर्मितं जगत् ॥ एतच्छ्रुत्वा तु विन्ध्यस्तु तपस्तप्त्वा पितामहात् ॥ ८ ॥ इषु- पातमथोच्छ्रायं प्रत्यहं समवातवान् ॥ ततः कतिपयहानेन दिशमावृत्य दक्षिणाम् ॥ ९ ॥ आवृत्य तस्थौ पन्थानं दिवाकरनिशाभृतोः ॥ ततोऽन्ध-
॥ वै० ध० ॥ ॥ १३६ ॥
प्र० खं० अ० २३२
मभवत्सर्वं भूर्लोकः पार्थिवोत्तम ॥ १० ॥ प्रेरितो देववाक्येन ततोऽगस्त्यो महातपाः ॥ गत्वोवाच तदा विन्ध्यं तीर्थयात्रां करोम्यहम् ॥ ११ ॥
महतो ह्रस्वतां गच्छ येन यास्याम्यहं सुखी ॥ ज्ञात्वा ततः प्रभावं तु सोऽगस्त्यस्य महागिरिः ॥ १२ ॥ जगाम ह्रस्वतां हस्तवां ह्रस्वतां श्रीमानगस्त्योऽपि
तदा ययौ ॥ दक्षिणाशां परित्यज्य न यावदहमागतः ॥ १३ ॥ समुद्रदस्तदावत्वं ह्रस्व एव भवाऽचल ॥ एवमुक्त्वा स विन्ध्यन्तु सदा
सप्तत्यवान्भवम् ॥ १४ ॥ जगाम दक्षिणामाशां तमुवाच पितामहः ॥ देवकार्यं महद्भूतंस्त्वया कृतमिदं शुभम् ॥ १५ ॥ तस्मा-
त्स्थानं च ते दद्मि वैश्वानरपथाद्बहिः ॥ दिव्यदेहो भवस्त्वं विमानवरमास्थितः ॥ १६ ॥ दक्षिणां भूपय दिशमस्तीत्यसमन्वितः ॥ प्रसाद-
मममसां शैत्यं निर्विषत्वं तवोदये ॥ १७ ॥ भविष्यत्यमलप्रज्ञ मत्प्रसादात्तथैव तु ॥ शरत्संज्ञिदितो भूत्वा वसन्तस्तन्मयं व्रज ॥ १८ ॥
प्राकाम्यकुंक्षश्च तथा समग्रं वसुधां चर ॥ प्रधानमूर्तिर्यावत्त्वं सदारापत्यबान्धवः ॥ १९ ॥ नाक्रमिष्यति वै विन्ध्यं तावद्विन्ध्याचलः स्थितः ॥
प्राकाम्यसूत्तियुक्ते तु यत्र क्वचन संस्थिते ॥ २० ॥ त्वयि विन्ध्यो महाशैलो वृद्धिं न स गमिष्यति ॥ इल्वलश्चापि दुर्धर्षा दुर्मधा भ्रात्रा वै
मेषरूपिणा ॥ २१ ॥ यदा भोजयते विप्रानुन्मुक्तस्तु द्विजातिषु ॥ कुक्षिभेदन्तु वातापी कृत्वा निर्गच्छते पुनः ॥ २२ ॥ एवं विनिघ्नतस्तस्य
ब्राह्मणानन्त्यया कृतम् ॥ शरणं तेन तुष्टोऽस्मि विन्ध्यस्तंभनभेन च ॥ २३ ॥ शरत्समयमासाद्य यस्माद्विप्र नवोदये ॥ पूजां त्वमाप्स्यसे
लोके मत्प्रसादाद्विजोत्तम ॥ २४ ॥ ये च त्वां पूजयिष्यन्ति गन्धमाल्यफलार्क्षतैः ॥ दधिक्रांश्चान्नरलैश्च परमान्नेन भूरिणा ॥ २५ ॥ पूर्णकुम्भैः
सकृष्णाण्डैश्छत्रोपानह्यादिभिः ॥ धेन्वा वृषेण भद्रैश्च वासोभिः कनकैन च ॥ २६ ॥ संवत्सरं च त्यागेन फलस्यैकस्य चाप्यय ॥
पूजनैर्ब्राह्मणांश्चाणां त्वत्कर्मपरिकीर्तनैः ॥ २७ ॥ ते प्राप्स्यन्ति सदा पुत्रान्धनमारोग्यमेव च ॥ आयुर्ग्रन्थं तथा लोके शत्रुभिश्चापराजम् ॥ २८ ॥
सौभाग्यं विपुलांन्कामान्धर्मवृद्धिं तथैव च ॥ एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥ २९ ॥ आसादाद् तथा स्थानमगस्त्योऽपि महातपाः ॥
येन ऋतुशतैरिष्टं तपस्तप्तं तथा महत् ॥ ३० ॥ तेन स्वतपसा सृष्टा लोपामुद्रा प्रियंवदा ॥ विदर्भराजतनया धर्मपत्नी तथात्मनः ॥ ३१ ॥
दृढस्युस्तनयस्तस्य तपस्वी च महातपाः ॥ प्रसुर्मुसुर्मुखैश्च तन्मुहुश्च महातपाः ॥ ३२ ॥ स्वस्त्यात्रेयस्तथा विद्वंस्तस्य शिष्यो महात्मनः ॥
अभेद्यं कवचं दत्तं तथाऽक्षय्ये महेषुधी ॥ ३३ ॥ रामलक्ष्मणयोस्तेन धनुषी च महाबले ॥ घोरेणाप्यथ संयुक्ताः स च वैष्णवतेजसा ॥ ३४ ॥
कर्मणां कीर्तनं यस्य नरो वर्षशतैरपि ॥ कर्तुं शक्तो न सहते प्राकाम्ये चैव रावणै ॥ ३५ ॥ अयोध्यां राघवं द्रष्टुं जगाम त्वरितो मुनिः ॥ तमागत
॥ १३६ ॥
पाद्यार्घ्याचमनीयैः सर्वै राज्यनिवेदनैः ॥
मभिप्रेक्ष्य पूजयामास राघवः ॥ ३६ ॥ पाद्यार्घ्याचमनीयैः सर्वै राज्यनिवेदनैः ॥ संपूजितस्तदा तेन तत्र चक्रे कथाः शुभाः ॥ ३७ ॥ ततः कथान्ते कांचित्कथां पप्रच्छ तु राघवः ॥ विष्णुना मालिनिधनं तेनोक्तं तस्य तच्छृणु ॥ ३८ ॥ यदुक्तवान्राघवाय अगस्त्यश्चन्द्रार्कवह्निप्रतिमप्रभावः ॥ रक्षोगणेशस्य वधं सुघोरं मुनिर्महात्मा तदिदं निबोध ॥ ३९ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे नाडायनवाक्ये शैलूषं प्रति नाडायनोक्तागस्त्यमाहात्म्यवर्णनो नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥
अगस्त्य उवाच ॥ माली सुमाली राजेन्द्र माल्यवांश्च रणोत्कटः ॥ लङ्कादुर्गमथासाद्य चित्रसृष्टुः परस्परम् ॥ १ ॥ माली सुमाली दुर्वृत्तौ पीडयन्तौ च देवताः ॥ वार्यमाणावपि सदा तेन माल्यवता नृप ॥ २ ॥ तयोर्भीतः सुरैर्ब्रह्मा ज्ञापितः संप्रयोजनम् ॥ ब्रह्मणा सहितैर्गत्वा ज्ञापितस्त्रिपुरान्तकः ॥ ३ ॥ ब्रह्मेशसहिता देवा विष्णुं शरणमीयुषुः ॥ जग्मुर्लवणतोयस्थं विज्ञापयितुमच्युतम् ॥ ४ ॥ ददृशुश्च सुरैर्जुष्टं समुद्रं पतिमम्भसाम् ॥ ऊर्मिवर्गैः प्रनृत्यद्भिर्वल्गन्तमिव वायुना ॥ ५ ॥ हसन्तमिव फेनौघैः स्खलन्तं कन्दरासु च ॥ अपारमिव गर्जन्तं नानायादोगणावृतम् ॥ ६ ॥ वीचिहस्तैः प्रचलितैर्गाहमानमिवाऽम्बरम् ॥ फेनकीर्णाश्च शैलाश्च समुच्छ्रिताः ॥ ७ ॥ ऊर्मयश्चास्य दृश्यन्ते चलन्त इव पर्वताः ॥ तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः ॥ ८ ॥ मकराश्चापि दृश्यन्ते जले मग्ना इवाद्रयः ॥ शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः ॥ ९ ॥ दृश्यन्ते स्म यथा रात्रौ तारास्तन्वनभ्रसंवृताः ॥ क्वचित्सुप्तः क्वचिद्गर्जन्क्वचिद्घूर्णन्क्वचित्प्लवन् ॥ १० ॥ क्षीबोपमं तं ददृशुः समुद्रं त्रिदशाधिपाः ॥ क्वचिज्झाषावलिसितैर्दैत्यैः क्वचिद्दैत्यारिणा तथा ॥ ११ ॥ क्वचिच्च भुजंगैर्भीमैर्नागाभोगैश्च संयुतम् ॥ विष्णोर्विराड्वपुषा विश्वाभितजलाविलम् ॥ १२ ॥ अनासादितबाधं च वर्षाणां शतकोटिभिः ॥ तेन देवादिदेवेन विष्णुना प्रभविष्णुना ॥ १३ ॥ नित्यमन्तरसंस्थेन निर्मलीकृतविग्रहम् ॥ शक्रवज्रभयत्रायमाणशैलशताकुलम् ॥ १४ ॥ विद्रुमाभ्रप्रवालौघसहस्राकारविद्रुमम् ॥ पूर्णचन्द्रकलङ्कस्य क्षालनेनेव चोद्गतैः ॥ १५ ॥ खमाक्रमद्भिः कल्लोलैः पौर्णमासीषु यः सदा ॥ असंख्यातैस्तरङ्गौघैः संक्रान्तशशिमण्डलम् ॥ १६ ॥ हसन्तमिवान्तरिक्षस्य श्रियमेवेन्दुधारिणः ॥ दिग्भागाप्लवनकालेषु युक्तं चन्दनवारिणा ॥ सुप्यते च यथा यत्र सततं दानवारिणा ॥ १७ ॥ तमन्तरिक्षप्रतिमं विशाललोलोर्मिमालाव्याकुलितदिग्विभागम् ॥ समुद्रमासाद्य दिवौकसस्ते ततस्थुरुग्रं तपसोऽप्रधृष्याः ॥ १८ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये समुद्रवर्णनो नाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥ २१४ ॥
अगस्त्य उवाच ॥ तपसा तोषितो देवैर्देवदेवो जनार्दनः ॥ महोदवासं संत्यज्य सुराणां दर्शनं ददौ ॥ १ ॥ ते च
वि० ध० प्र० खं० अ० २१५
॥१३६॥ ॥१३६॥
तं विबुधाशिरं धरणीपातपांसुलैः ॥ जानुपाणिललाटान्तैः प्रणंसुर्मुदिता हरिम्॥२॥ तुष्टुवुश्च तथा वाग्भिर्भवोद्युः स्वप्रयोजनम् ॥ वधार्थं देवदेवस्य सुकेशतनयान्यिति ॥ ३ ॥ प्रतिजज्ञे तदा तेषां देवो मालिवधं हरिः ॥ यूयं सुमालिनिर्चने शक्ताः स्थ सुरसत्तमाः ॥ ४ ॥ माल्यवानप्यवध्योऽसौ सततं धर्मवत्सलः॥ एवमुक्ता ततस्तार्क्ष्यमारुह्यायान्मास केशवः॥५॥ तमारुरोह सर्वात्मा काञ्चनं विनतासुतम् ॥ शंखचक्रगदापद्मलाञ्छितो मधुसूदनः॥ ॥६॥ अतसीकुसुमश्यामः काञ्चने खगमे स्थितः ॥ श्रियंदृष्टे सतोयस्य तोयदस्य सविद्युतः ॥७॥ किरीटकोस्तुभधरं वरभूषणभूषितम् ॥ विहङ्ग- वरमारूढमभुजङ्गमुद्गविवासः ॥ ८ ॥ सुधावदातसपक्षैरितस्ततान्यथाविभिः ॥ हंसैन्मन्वयवाद्गला जटामण्डलुदृशः ॥ ९ ॥ चन्द्ररश्मिप्रती- काशैर्निबिडाङ्गकुकुभिः ॥ हरस्त्वेतियनेत्राणिचिंवदारितनभो ययौ ॥ १० ॥ महेन्द्रनेत्रसंकाशकलापाटोपरोधिना ॥ स्कन्दस्तमन्वयौ तस्मा- न्मयूरण षडाननः ॥ ११ ॥ विनायकंस्तुकर्तुमना राक्षसेन्द्राद्विनावयकः ॥ वायुमण्डलमारूढः प्रययावनुमाधवम् ॥ १२ ॥ वह्निज्वालावली- पुञ्जसमकेसरमालिना ॥ सिंहेनानुययौ देवी भद्रकाली जनार्दनम् ॥ १३ ॥ वरस्त्रीकुचसंकाशकुम्भेरावणपृष्ठगः ॥ किरीटी वज्रपाणिस्तमन्वयौ त्रिदशाधिपः ॥ १४ ॥ वह्निस्तमन्वयौ देवं शुक्लयानेन पार्थिव ॥ सेन्दोगोपगणाकीर्णशाद्वलश्यारुशोभिता ॥ १५ ॥ गिरिकूटसमाकारं शृङ्ग- भूषितमस्तकम् ॥ वैवस्वतोऽपि महिषमारुह्यानुययौ हरिम् ॥ १६ ॥ शङ्खकर्णो महाग्रीवो धर्मेचकश्यसंस्थितः ॥ पश्चादनुययौ देवं विरूपाक्षो महाबलः ॥ १७ ॥ महायानेन रम्येण मनोमारुतरंहसा ॥ वरुणोऽनुययौ पश्चात्तिष्ठन्गैवेद्यसंन्निभः ॥ १८ ॥ मनःशीघ्रगतिर्देवो वायु- मण्डलमध्यगः ॥ वायुश्चानुययौ पश्चाद्व्यापुर्णेशुभ्रोक्षुकः ॥ १९ ॥ धनदो नरयानेन सर्वरत्नो ज्वलत्विषा ॥ गोविन्दमनुवव्राज श्रिया परमया युतः ॥ २० ॥ सताश्वमेकचक्रं च रथमारुह्य भानुमान् ॥ तथैवानुययौ देवं प्रभाण्डलदुर्दृशः ॥ २१ ॥ चन्द्रश्चण्डमनावारो दृशामिस्तृगतो- त्तमैः ॥ मनोजवेन च तथा रथेनानुययौ हरिम् ॥ २२ ॥ तुषारधवलाभस्तुरगा भास्कराप्रतिमार्कितिः ॥ तमन्वयौ तदा राजन्प्रचण्डो रविनन्दनः ॥ ॥ २३ ॥ चतुर्भिः कुञ्जरैर्युक्तं रथमास्थाय सत्वरा ॥ तमन्वयौ धरांदेवी त्रिदशप्रजितात्सु ॥ २४ ॥ सङ्कल्परथमाह्लूय व्यवसायं पुरःसरः ॥ मनोरथेनानुययौ कामदेवोऽपि केशवम् ॥ २५ ॥ पुष्पेणोपरि यस्याज्ञां बिभर्ति सकलं जगत् ॥ अनलस्यं समारूढा तथा देवी सरस्वती ॥ ॥ २६ ॥ अन्वयौ पुण्डरीकाक्षं शरणागतवत्सलम् ॥ भौमज्ञजीवशुक्राश्च राहुः केतुः शनैश्चरः ॥ २७ ॥ वाजिपुक्ते रथेः शीघ्रमन्वयुः पुरुषो- त्तमम् ॥ देवाश्चैकोनपञ्चाशन्मरुताश्चामण्डलाः ॥ २८ ॥ अनुजग्मुः सुराः कृष्णां वायुमण्डलमध्यगाः ॥ अनुजग्मुस्तमादित्या रथैः काञ्चन
सुपर्णैः ॥ २९ ॥ वसवोऽद्रिसुताः साध्या विश्वेदेवास्तथाश्विनौ ॥ भृगवश्चाप्सरोयुक्तै रथेस्तं देवमन्युयुः ॥ ३० ॥ रुद्राश्चायुधयुद्देवं बलोद्रैः ककुद्मिभिः ॥ तथैवान्ये बलोद्रिक्ता देवा देवानुयायिनः ॥ ३१ ॥ गर्दभैः शिशुमारैश्च महोक्षैर्महिषैरगैः ॥ सिंहव्याघ्रतरक्षुध्वगसञ्जवानर मर्कटैः ॥ ३२ ॥ चमरैः सुमरैश्चैव गोघामार्जारशल्लकैः ॥ विविधैः पक्षिभिश्चैवा तेऽनुजग्मुर्जनार्दनम् ॥ ३३ ॥ सिद्धमार्गेण सिद्धाश्च प्रययुर्मुमुदन्तस्तथा ॥ स्तुवन्तः पुण्डरीकाक्षं देवसंघभयापहम् ॥ ३४ ॥ गीतवाद्यैः सुमधुरैः सेवमाना जनार्दनम् ॥ प्रहृष्टाः प्रययुस्तत्र गन्धर्वाप्सरसां गणाः ॥ ३५ ॥ तपः सत्यं क्षमा दानं व्रतानि विविधानि च ॥ यज्ञाङ्गानि च सर्वाणि कालावयवास्तथा ॥ ३६ ॥ संवत्सरास्तथा मासाः पक्षौ च करणैः सह ॥ युगायनमुहूर्त्तांश्च शास्त्राणि विविधानि च ॥ ३७ ॥ मूर्त्तिमन्ति तथास्त्राणि शस्त्राणि च जगत्पतेः ॥ समुद्रपर्वतद्वीपाशिखिनो विषहाणि च ॥ ३८ ॥ वर्षाणां च शरीराणि पितॄणां च तथा गणाः ॥ नक्षत्राणि दिशश्चैव विदिशश्च महीपते ॥ ३९ ॥ देवा वनस्पतिश्चैव याश्च लोकस्य मातरः ॥ देवदैत्यगणा ये च तथा पितृगणाश्च ये ॥ ४० ॥ गन्धर्वयक्षनागानां गणा ये च नरेश्वर ॥ घोरा व्याधिगणाश्चैव कालपाशैः सुदारुणैः ॥ ४१ ॥ मृत्युर्दण्डस्तथा क्रोधो जरा च मनुजेश्वर ॥ अन्वय्युः पुण्डरीकाक्षं रक्षोगणवधैषिणम् ॥ ४२ ॥ जयश्रीयशस्तस्य प्रयाति रघुनन्दन ॥ सरितश्च तथा यानैः सर्वलोकस्य मातरः ॥४३॥ मकरेण ययौ गङ्गा कालिन्दी कच्छपेन तु॥ सारसेनापि सरयूः शिशुमारेण गोमती ॥ ४४ ॥ गोदावरी च खङ्गेन मयूरेण सरस्वती ॥ ककुद्मिना शतद्रुश्च विपाशा तुरगेण च ॥ ४५ ॥ चन्द्रभागा च सिंहेन दन्तिनेरावती तथा ॥ सिन्धुर्व्याघ्रेण मत्स्येन वितस्ता च तथा ययौ ॥ ४६ ॥ देविका चैव हंसेन पुरुषेण च गण्डकी ॥ महिषेण पयोष्णी च कावेरी वृषभेण तु ॥ ४७ ॥ हिरण्वती सुपर्णेन चक्रेणेक्षुमती नदी ॥ भुजगेन च पाणाशा वराहेण च कौशिकी ॥ ४८ ॥ वेदस्मृतिर्म यूरेण सारङ्गेण च नर्मदा ॥ जीवजिवकमारूढा सीताप्राल्हादिनी तथा ययौ ॥ ४९ ॥ ह्लादिनी च सरोजेन सुभरेण च पावनी ॥ शशकेनापि लौहित्या नदी सिन्धुर्गजेन च ॥ ५० ॥ उष्ट्रेण तथा चक्षुः सीता चाजेन राघव ॥ गौतमी कुक्कुटेनापि चाषेण च दृषद्वती ॥ ५१ ॥ स्वेः स्वेर्यानेस्तथैवान्याः प्रययुर्निम्नगा हरीम् ॥ देवानुयात्राघोषेण वादित्राणां रवेण च ॥५२॥ स्तूयमानो द्विजायैश्च प्रययौ कमलेक्षणः ॥ तद्दलो द्यमपर्यन्तं देवान्वन्द्वंवसंकुलम् ॥ ५३ ॥ आतपत्रैः पताकाभिः स्वचिह्नैश्च विराजितम् ॥ किङ्किणीशतसंघोषं प्रययावन्तरिक्षगम् ॥ ५४ ॥
१ 'सिंहैस्त' इति ख० । २ 'नारूढा' इति ख० ।
वि० ध० ॥१३७॥ प्र० खं० अ० २१७
रभ्युत्करैर्वरुचिर्भूषणैर्विभूषणानां प्रदीयमानं कनकादिचित्रम् ॥ बलं ययौ तद्विबुधोत्तमानां नारायणेनाऽप्रतिमेन गुप्तम् ॥ ५६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे देवप्रयाणवर्णनो नाम पञ्चदशोत्तरद्विशततमोऽध्यायः॥२१५॥ अगस्त्य उवाच ॥ देवतानां समुद्योगं श्रुत्वा मालिसुमालिनी ॥ चक्रतुः पृतनां घोरां त्रिदशैर्युद्धकाङ्क्षिणौ ॥ १ ॥ तौ क्रुद्धौ भ्रातरौ श्रीमान्माल्यवान्वाक्यमब्रवीत् ॥ आश्रयस्त्रिदशेन्द्राणां सर्वात्मा मधुसूदनः ॥ २ ॥ तेन युद्धं न कर्तव्यं स तु पूज्यो जगत्पतिः ॥ अग्रे तु प्रणिपातेन तं यजामो जगत्पतिम् ॥ ३ ॥ प्रणिपातप्रसन्नो हि कामन्दास्यति केशवः ॥ विष्णुर्हि मलिनं चित्तंऽस्माकं नृप दुर्जयः ॥ ४॥ जीवेम सुचिरं कालं स्थिता देवस्य शासने ॥ प्रसीद राज्यञ्च युद्धं व्रज देवेन विष्णुना ॥५॥ यक्षाणां राक्षसानां च कुरु श्रेयस्तथात्मनः ॥ एतदुक्तं हितं भ्रात्रा सुरुचं न च तस्य तत् ॥ ६ ॥ महता च स सैन्येन प्रययौ येन केशवः ॥ तमन्वयौ महातेजा सुमाली राक्षसाधिपः ॥७॥ पितृतुल्यश्च साधूनां ज्येष्ठभ्राता गुरुर्मतः॥ आदौ वाच्यं हितं तस्य कार्य तदनु वर्त्तित्वा॥८॥ एतां बुद्धिं समास्थाय नियतो माल्यवानपि॥ते राक्षसा सह भ्रात्रा भीमनेत्राग्निमूर्द्धणाः॥९॥ कोटिशतेन मुख्यानां राक्षसानां विनिर्गताः॥ नानावर्णा वयवसना नानाप्रहरणायुधाः ॥ १० ॥ नानावादित्रघोषेण प्रयाता राक्षसाधिपाः ॥ नानाप्रकारैर्विविधैः प्राणिभिर्बलवत्तरैः ॥ ११ ॥ वाहनैः प्रययुर्घोरा राक्षसास्त्रिदशाधिपम् ॥ गच्छतस्तु बलोघस्य तदा तस्योत्तरां दिशम् ॥ वभूवाऽभिमुखं घोरं वनं त्रिदशपालितम् ॥ १२ ॥ हिमाचलस्योत्तरदिग्विभागे खस्थे बले ते पुरुषौ प्रवीरौ ॥ जयार्थमभ्युद्यतचापखण्डौ प्रचक्रतुर्युद्धमदीनसत्त्वौ ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडावनानुशासने राक्षससेनानिर्याणवर्णनो नाम षोडशोत्तरद्विशततमोऽध्यायः ॥ २१६ ॥ छ ॥ ॥ अगस्त्य उवाच ॥ ततः प्रावर्त्तत रणं तत्तयोर्बलवत्तयोः ॥ नानाप्रहरणैरुग्रैरुभयोर्जयमिच्छतोः ॥ १ ॥ तदा बलाभ्रसंरुद्धे गगने खड्गविद्युति ॥ तस्मिन्नेव क्षणे जातो भानुमानल्प विद्युतिः ॥२॥ चलत्खड्गलता विद्युत्संयुतोतितिमिरव्राता ॥ रक्तवृष्टिः पपातोर्व्यां बलमेघाद्विगाहता ॥३॥ ततः शोणितवर्षेण सिच्यमाने महीतले ॥ ग्राववृष्टिर्महत्यासीच्छादितं भूतंल यया ॥ ४ ॥ आसीदगम्या वसुधा शोणितौघपरिक्लुता ॥ रजस्वलेव युवतिस्तदा तत्र नराधिप ॥ ५ ॥ स्फुरमाणा विह्वयन्ते बाह्वश्चन्दनोक्षिताः ॥ खड्गप्रहारपतिताः पक्षशीर्षा इवोरगाः ॥ ६ ॥ मुखानि दन्तप्रभाणि तथा सुरुचिराणि च ॥ ( विर्ज्योडिमानिव पाकम्रङ्गफलानि वा ॥ ७ ॥ निपतिद्भिस्तथा छत्रैश्चामरैर्व्यजनैस्तथा ॥ विच्छिन्नवाहनाङ्गैश्च ॥ १३७॥
१ 'कर्त्तव्यं' इति ख० । १ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति ।
खमासीत्संकुलं तथा ॥ ८ ॥ किरीटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा ॥ पात्यमानैः खमभवद्रश्मिपुञ्जविराजितम् ॥ ९ ॥ सुप्रविभक्तानि रुधिरार्त्ते महीतले ॥ लुठन्ति नागहस्तानि भोगिभोगनिभानि च ॥ १० ॥ अदृष्टा पतितानीह शिरांसि वसुधातले ॥ हत्वा वंशान्वभञ्जाशुगन्वे- षन्त इवासवः ॥ ११ ॥ शरीरैर्भूतलं प्राप्ता दिवं प्राप्ता शरीरिणः ॥ अन्तरिक्षं विनिहिता लोकत्रयजिगीषवः ॥ १२ ॥ छिन्ना राक्षसयूथौघा गलद्रुधिरवि- न्दवः ॥ न्यपतन्नुत्तरादेव श्येनेनोपहताशयात् ॥ १३ ॥ श्येनानां भ्रमतां तत्र राक्षसामिषलिप्सया ॥ बभूव सदृशं रूपं शीर्षाणां भ्रमतां तथा ॥ ॥ १४ ॥ निकृत्ताङ्गनिपातेन पतिता बहवस्तदा ॥ सुषुपुर्गां समालिङ्ग्य क्रव्यादा रुधिराखिलाः ॥ १५ ॥ निपतन्तमतातङ्कमसुरान्मुक्तशुभ्रभि- र्गता ॥ मुक्ताफलैरिवैहासोर्व्वी शूरालिङ्गननिर्वृता ॥ १६ ॥ हतकुञ्जरदन्ताग्रविभग्नाङ्गस्तुरङ्गमाः ॥ आसेदुः सुचिरेणोर्वी नभस्येव गतासवः ॥ १७ ॥ संप्राप्तरुधिरां भूमिं रक्तास्यास्तु निशाचराः ॥ ययुः शरीरनिहताः समरे रुधिरप्रियाः ॥ १८ ॥ वर्तमाने तथा भीमे युद्धे भीरुभयंकरे ॥ लोक- पालशराघातनिर्भिन्ना रजनीचराः ॥ १९ ॥ दुद्रुवुर्भयसंविग्नास्तदा राम दिशो दश ॥ विप्रद्रुतं बलं दृष्ट्वा राक्षसानां दिवौकसैः ॥ २० ॥ सुमालिमाल्यवद्दूतो माली देवानथाब्रवीत् ॥ किञ्चोदैर्धिकबलैस्तैस्तैः शिलाशितैः ॥ २१ ॥ शाङ्गेण रणे मुक्ता शरवृष्टिर्दुरासदा ॥ संछादयामास दिशः प्रदिशश्च दिवौकसाम् ॥ २२ ॥ यथाशक्तिशरव्रातान्वारयन्तोऽपि देवताः ॥ राक्षसेन्द्रशरैर्भिन्नाः केशवं शरणं ययुः ॥ २३ ॥ स निवार्य तदा सर्वं देवसैन्यं पत्रिणा ॥ प्रत्युद्ययौ स योधान्वपुषा सपतत्रिणा ॥ २४ ॥ एतस्मिन्नेव काले तु रक्षसां पीनवक्षसाम् ॥ विनिर्वृत्तं बलं सर्वममरैः समरोत्सुकम् ॥ २५ ॥ तद्वलं सकलं चक्रे शरैः शार्ङ्गप्रचोदितैः ॥ छादयामास समरे गोभिः सूर्यं इवानिशम् ॥ २६ ॥ नानाप्रहरणोद्गर्जन्तो गर्जमानो जनार्दनम् ॥ संछाद्य तदा चक्रुः सर्वैः प्रहरणोत्करैः ॥ २७ ॥ संछाद्यमानस्तैर्घोरैः केशवो रजनीचरैः ॥ जहार शीर्षाणि तदा तेषां सन्नतपर्वभिः ॥ २८ ॥ रथीन्द्रे धनुर्भज्य माली राक्षसपुङ्गवः ॥ सुपर्णं ताडयामास गदया भीमवेगया ॥ २९ ॥ गदाप्रहाराभिहतस्तार्क्ष्यः परपुरञ्जय ॥ पराङ्मुखो रणाच्चक्रे वेदनात जनार्दनम् ॥ ३० ॥ पराङ्मुखे तदा तार्क्ष्ये परिवृत्ताननो हरिः ॥ शीर्षं जहार चक्रेण राक्षसेन्द्रस्य मालिनः ॥ ३१ ॥ सकुण्डलं चारुकीरीटजुष्टं निशाचरेशस्य शिरः पृथिव्याम् ॥ निपातितं वीक्ष्य मुदान्वितास्ता नार्यो बभूवुस्त्रिदशोत्समानाम् ॥ ३२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शलूषं प्रति नाड्यनानुशासने मालिरक्षसवधवर्णनो नाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥ २१७ ॥ ॥ अगस्त्य उवाच ॥ हते मालिनि
वि० ध० ॥१३८॥ प्र० खं० अ० २१८
देवेन सान्वितः पक्षिराडसौ ॥ जहार पक्षवातेन निवृतो रक्षसां बलम् ॥ १॥ ते तार्क्ष्यपक्षवातेन शुष्कपर्णचया यथा ॥ द्रुता गरुडशार्दूलस्त्रासा- द्राम दिशो दश ॥ २ ॥ अनिन्दमानास्ते शर्म वासुदेवभयार्दिताः ॥ पातालतलमासेदुः सर्व एव पृथक्पृथक् ॥ ३ ॥ त्रिदशान्त्सन्तर्पयित्वा च विष्णुर्विबुधेशपूजितः ॥ अन्तर्द्धानं ययौ तत्र सर्वैषामेव पश्यताम् ॥ ४ ॥ लङ्कापि शून्या राजेन्द्र दत्ता वैश्रवणाय सा ॥ स्वयं विश्वस्रजा रावणेन हता बलात् ॥ ५ ॥ विभीषणाय सा दत्ता त्वया हत्वा च रावणम् ॥ राम विष्णुः ससुतप्रस्त्वं वधार्थेह रक्षसाम् ॥ ६ ॥ त्वयैव युद्धे निहता ये तु मातुलसङ्कटाः ॥ पौलस्त्यराक्षसा ये तु ते हताः सम्प्रतं त्वया ॥ ७ ॥ हन्ता न विद्यते राम रक्षांसं केशवं विना ॥ दृष्टोऽस्मि भाषितश्चेति प्रययौ स यथागतम् ॥ ८ ॥ नाडायन उवाच ॥ एवमुक्ता ततोऽगस्त्यो यथागतामरिन्दम ॥ तस्मायुद्धं न मे राजन्यं वै तव रोचने ॥ ९ ॥ उत्साहशक्त्या सम्पन्नो मन्त्रशक्त्या च राघवः ॥ प्रभुशक्त्या तथा युक्तो देवशक्त्या तथैव च ॥ १० ॥ साधुसाद्ध्येपु कार्येषु कः कुर्याद्दिह्यं बुधः ॥ केवलं कोपमास्थाय विघ्ने नृपोपद्दम् ॥ ११ ॥ कामक्रोधौ जितौ येन तेनात्मा विजितस्तथा ॥ येनात्मा विजितस्तेन विजितेयं वसुन्धरा ॥ १२ ॥ राज्ञोऽविजितचित्तस्य पञ्चकजयः कुतः ॥ न चक्रस्य जयं कर्तुं शक्तोत्यविजितेन्द्रियः ॥ १३॥ नावज्ञा कस्यचित्कार्या बलो वा बहुमन्यते ॥ नित्यं लोके हि दृश्यन्ते शक्तित्रयः शक्तिमत्तराः ॥ १४ ॥ यथाशक्ति चिकीर्षन्ति चिकीर्षन्त यथाशक्ति च कुर्वते ॥ न कश्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ १५ ॥ द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषकौ ॥ यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ १६ ॥ द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः ॥ प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ १७ ॥ कः कुर्याद्दुर्बले क्रोधं स्वभावोद्वि निर्जिते ॥ बलवत्यपि कः क्रोधं कुर्यात्प्राणाहरं नरः ॥ १८ ॥ अपहारमृहत्तस्य कोपस्तेऽप्यञ्जिवोतोच्यते ॥ गस्मात्तस्माद्बुधैः कोपः कोपं कृत्वा विनिर्जितः ॥ १९ ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ॥ कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २० ॥ अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् ॥ उत्थानमात्मनश्चैव ततः कर्म समारभेत् ॥ २१ ॥ न राज्यं लब्धमित्येवं वर्तितव्यं च साम्प्रतम् ॥ श्रियं ह्यविनयो हन्ति जराहूपमिवोत्तमम् ॥ २२ ॥ त्यक्ता जनपदे वासं याहि राजन्द्हिमाचलम् ॥ अविभ्रष्टस्त्वं हत्वा गवणं लोकरावणम् ॥ लङ्कां त्यक्त्वा धनाध्यक्षं पश्य कैलासमाश्रितम् ॥ २३ ॥ स रावणो राघवसायकार्त्तस्त्यक्त्वा श्रियं भूमिपते विपन्नः ॥ धनाधिपोऽद्यापि विशाल- कीर्तिः करोति राज्यं क्षणदाचराणाम् ॥२४॥ इति श्रीविष्णु० प्रथ० मा० सं० राक्षसपातालप्रवेशवर्णनो नामाष्टादशोत्तरद्विशततमोऽध्यायः ॥२१८॥
॥ शैलूष उवाच ॥ ॥ कथं वैश्रवणे दत्ता पुरा लङ्का द्विजोत्तम ॥ कथं चापहृता तस्य रावणेन महात्मना ॥ १ ॥ चरितं रावणस्याहं श्रोतुमिच्छामि तत्त्वतः ॥ त्रैलोक्यं विजितं येन तपसा पौरुषेण च ॥ २ ॥ ॥ नाडायन उवाच ॥ ॥ ब्रह्मणो मानसः पुत्रः पुलस्त्यो विदितस्तथा ॥ तस्यासीद्विश्रवा नाम पुत्रस्त्रैलोक्यविश्रुतः ॥ ३ ॥ पौत्री बृहस्पतेः पत्नी भरद्वाजसुता शुभा ॥ बभूव तस्य राजेन्द्र नाम्ना वै देववर्णिनी ॥ ४ ॥ तस्यां स जनयामास पुत्रं वैश्रवणं प्रभुम् ॥ आराधितः सुतपसा प्रादात्तस्य पितामहः ॥ ५ ॥ यक्षेशत्वं धनेशत्वं लोकपालत्वमेव च ॥ पुष्पकं च तथा यानं कामगं कामरूपिणम् ॥ ६ ॥ पुत्रं लब्ध्वरं राजन्विश्रवा अभ्यभाषत ॥ त्रिकूटे पर्वतश्रेष्ठे निर्मिता विश्वकर्मणा ॥ ७ ॥ लङ्का नाम पुरी रम्या देवराजकृते पुरा ॥ हत्वा तां देवराजस्य सुकेशतनयैः पुरा ॥ ८ ॥ आयासिता महाराज तेषां ज्येष्ठं तु मालिनम् ॥ निपात्य वासुदेवेन ते तु विद्रावितास्ततः ॥ ९ ॥ पातालतलमाश्रित्य ते वसन्तीह निर्भयाः ॥ १० ॥ तां त्वं लङ्कां समासाद्य वस यक्षसमन्वितः ॥ धर्मेण पालयन्राज्यं सततं राक्षसेश्वर ॥ ११ ॥ धर्मे ते दीयतां बुद्धिः सर्वावस्थस्य सर्वदा ॥ धर्मार्थेश्च कामश्च धर्ममूलमिदं जगत् ॥ १२ ॥ श्रुत्वा पितुर्वाक्यमदीनसत्त्वो लङ्कां समासाद्य धनाधिनाथः ॥ धर्मेण लोकं स तु रक्षयानश्चकार राज्यं क्षणदाचराणाम् ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनानुशासने लङ्काकथायां वैश्रवणाख्यान- वर्णनो नामैकोनविंशत्युत्तरद्विशततमोऽध्यायः ॥ २१९ ॥ ॥ नाडायन उवाच ॥ ॥ एतस्मिन्नेव काले तु सुमाली वसुधातलम् ॥ चचारा- दाय तनयां कैकसीं नाम नामतः ॥ १ ॥ चरन्स वसुधां स्फीतां ददर्शाय नराधिपम् ॥ पुष्पकं यानमारूढं श्रिया परमया युतम् ॥ २ ॥ तं दृष्ट्वा कैकसीं वाक्यं चोवाच रजनीचरः ॥ पुत्र प्रदानकालेस्ते न कश्चित्त्वां वृणोति माम् ॥ ३ ॥ अप्रार्थितप्रदानं च धर्षणामयशङ्कया ॥ न करोमि विशालाक्षि तवार्थे वरवर्णिनि ॥ ४ ॥ कष्टं कन्यापितृत्वं हि नराणां मानकाङ्क्षिणाम् ॥ ध्रुवं कन्यापितृत्वं हि शक्रस्यापि प्रधर्षणम् ॥ ५ ॥ मातुः कुलं पितृकुलं यत्र कन्या प्रदीयते ॥ कुलत्रयं संशयितं कन्यां कृत्वा हि तिष्ठति ॥ ६ ॥ तेनाहं त्वां न दास्यामि सा त्वं गच्छ स्वयं शुभे ॥ भर्तारं वरयस्वाद्य मुनिं विश्रवसं विभुम् ॥ ७ ॥ यतः सोऽयं धनाध्यक्षः श्रिया परमया युतः ॥ तादृशं तनयं तस्माज्जनयिष्यसि भामिनि ॥ ८ ॥ जगाम कैकसी राजंस्ततो विश्रवसं मुनिम् ॥ रौद्रे मुहूर्त्ते संप्राप्ते संध्यायां नृपसत्तम ॥ ९ ॥ साभिगम्य ततः पादौ तस्य विश्रवसो मुनेः ॥ बभूव पुरतस्तन्वी व्रीडमानेव लज्जया ॥ १० ॥ उवाच तां मुनिः प्रह्लां कैकसीं चारुहासिनीम् ॥
२४
विज्ञातस्त्वदभिप्रायो मयाद्य वरवर्णिनि ॥ ११ ॥ पुत्रार्थं त्वमनुप्राप्ता मत्समीपमनिन्दिते ॥ रौद्रे काले यथा प्राप्ता तादृशं जनयिष्यसि ॥ १२ ॥ एवमुक्त्वत्यथोत्थाय सा तत्रोवास सुखं तदा ॥ ततः कालेन सा पुत्रं जनयामास भामिनी ॥ १३ ॥ दशास्यं विश्रुतिसुतमेकदंष्ट्रं महाबलम् ॥ नाम तस्य पिता चक्रे दशग्रीवेति बुद्धिमान् ॥ १४ ॥ ततो द्वितीयं तनयं महाकायं सुषाव सा ॥ कुम्भकर्णेति तस्यापि नाम चक्रे तदा पिता ॥ १५ ॥ तत्र शूर्पणखां कन्यां जनयामास सा तदा ॥ ततः कदाचित्सा पुत्रं कैकसी ज्येष्ठमब्रवीत् ॥ १६ ॥ दर्शयन्ती धनाध्यक्षं सर्व्वदेव नमन्तप ॥ पश्य स्वीयाग्रजस्यास्य श्रियं भ्रातृर्दशानन ॥ १७ ॥ स त्वं यत्नमथास्थाय भव वैश्रवणोपमः ॥ एवमुक्तेस्तु गोकर्णे प्रययौ भ्रातृभिः सह ॥ १८ ॥ शीर्णपर्णाशनस्तत्र चकार सुमहत्तपः ॥ पूर्ण वर्षसहस्त्रे तु शिरश्छित्त्वा दशाननः ॥ १९ ॥ जुहावाग्नौ महाभाग एकैकं तपसा कृशः ॥ ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशशायिकः ॥ २० ॥ आर्द्रावासाश्च शिशिरे कुम्भकर्णोऽप्यतप्यत ॥ विभीषणस्ततः काले पदे षष्ठे फलाशनः ॥ २१ ॥ परिचर्य्यां तदा तेषां चक्रे शूर्पणखा स्वसा ॥ दशवर्षसहस्रान्ते तदा काले दशाननः ॥ २२ ॥ दशमं मस्तकं वह्नौ जुहुपति यदा प्रभो ॥ ततस्तं देशमागम्य ब्रह्मा वचनमब्रवीत् ॥ २३ ॥ ब्रह्मोवाच ॥ वरं वरय भद्रन्ते परितुष्टोऽस्मि पुत्रक ॥ तपसा ते सुतप्तेन सर्व्वेन विपुलेन च ॥ २४ ॥ ॥ नाडायन उवाच ॥ देवांदीनि स भूतानि कीर्तयामास राक्षसः ॥ सर्वाण्यवेवाविशेषेण वर्जयित्वा तु मानुषम् ॥ २५ ॥ संकीर्त्य तेभ्योऽभयत्वं वरयामास भूमिप ॥ त्रैलोक्यविषयञ्चैव चञ्च तस्य ददौ प्रभुः ॥ २६ ॥ छन्दयित्वा वरेणाथ दशग्रीवं निशाचरम् ॥ न्यस्त्व्वा सरस्वतीं वक्रे कुम्भकर्णं स राक्षस म् ॥ २७ ॥ वरेणच्छन्दयामास तदागत्य विभीषणम् ॥ स वव्रे नित्यकालं तु मतिं धर्मे सनातनीम् ॥२८॥ तेन तस्य तदा तुष्टस्त्वमरत्वं ददौ प्रभुः ॥ वरेणच्छन्दयित्वा तान्ब्रह्मा स्वभवनं गतः ॥ २९॥ लब्ध्वावरं च दशग्रीवं ज्ञात्वा रक्षोगणस्तदा ॥ पातालात्तु विनिष्क्रम्य महाराज्येऽभ्यषेचयत् ॥३०॥ स तु राज्यं तदा लब्ध्वा प्रेषयामास राक्षसान् ॥ कुवेराय तदा दूतं प्रहस्तं नाम नामतः ॥ ३१॥ राक्षसानांमधिवासो लङ्केयं निर्मिता पुरा ॥ तां त्यजस्व धनाध्यक्ष साम्प्रव मम मा चिरम्॥ ३२ ॥ प्रहस्तवनचं श्रुत्वा धना ध्यक्षो महामतिः ॥ दशग्रीवं वरोन्मत्तं ज्ञात्वा तत्याज तां पुरीम् ॥३३॥ कैलासं पर्वतं गत्वा तदा चक्रे पुरीं शुभाम् ॥ अलकां नाम राजेन्द्र यत्रास्ते स सुखी सदा ॥३४॥ दशग्रीवो महाराज त्रैलोक्यविजयं तथा ॥ चक्रे लङ्कामथासाद्य वरदानात्तपस्यभूः ॥३५ ॥मन्दोदरीं नाम भार्य्या तदा लेभे मयात्मजाम् ॥ तस्यां स जनयामास मेघनादं तथा सुतम् ॥ ३६॥ त्रिलोकेविजयी श्रीमान्देवब्राह्मणकण्टकः ॥ निहतः स तु कालेन विष्णुना
नररूपिणा ॥ ३७ ॥ राघवेण महाराज रामेणाक्लिष्टकर्मणा ॥ लङ्कां त्यक्त्वा धनाध्यक्षः कैलासे पर्वतोत्तमे ॥ ३८ ॥ अद्यापि पालयन्नास्ते राज्यं निहतकण्टकम् ॥ तस्मात्त्वमपि राजेन्द्र त्यक्त्वा देशमिमं स्वयम् ॥ हिमवन्तमथासाद्य वस वैश्रवणोपमः ॥३९॥ तस्मान्न कार्यं भरतेन वैरं महाबलाह्या रघवः प्रतीताः ॥ प्रसीद जीवन्तु सपुत्रपौत्राः पुत्रास्तवेमे तुहिनाद्रिसंस्थाः ॥४०॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रावणवर प्राप्तिवर्णनो नाम त्रिंशत्युत्तरद्विशततमोऽध्यायः ॥२३०॥ शेलूष उवाच ॥ श्रोतुमिच्छाम्यहं तस्य दशग्रीवस्य रक्षसः ॥ त्रैलोक्यविजयं ब्रह्मंस्तत्र मे संशयो महान् ॥ १ ॥ नाडायन उवाच ॥ वरप्रदानात्सन्मत्तो दशग्रीवो निशाचरः ॥ देवगन्धर्वदैत्यानां नागेन्द्रोरगरक्षसाम्॥ २॥ आक्रम्याऽऽक्रम्य रत्नानि स जहार तदा बलात् ॥ पत्युश्च राजशार्दूल तदा दुहितरः शुभाः ॥ ३ ॥ नरेन्द्रान्धर्मसंस्थान्ब्राह्मणांश्च जिघांसति ॥ अयोध्यावासिनं वीरमनरण्यं च जघ्निवान् ॥ ४ ॥ संग्रामे निहतस्तेन दशग्रीवं स शप्तवान् ॥ उत्पत्स्यति कुले नीच पुरुषो मम वीर्यवान् ॥ ५ ॥ यस्तवोद्वासयिष्यति प्राणान्समरे समर्पयिष्ये ॥ युयुधे च तथा राजा मांधात्रा रणशालिना ॥ ६ ॥ तत्रैनं वारयामास नारदो मुनिसत्तमः ॥ मयूरस्य ततो यज्ञे भक्ष्यामास वै द्विजान् ॥ ७ ॥ इन्द्रो मयूररूपेण तस्माद्यज्ञादपाक्रमत् ॥ मयूरस्य वरं प्रादान्मेघे वर्षति सर्वदा ॥ ८ ॥ गमिष्यस्यतुलां प्रीतिं मम नेत्रगणाकृतिम् ॥ धारयिष्यसि लोकेऽस्मिन्कलापं सुमनोहरम् ॥ ९ ॥ कृकलासस्य रूपेण धनाध्यक्षोऽप्यपाक्रमत् ॥ वर्णं तस्य सुवर्णाभं सदृशं च तथा शिरः ॥ १० ॥ प्रादाद्धयमयेत्यात्मा राजराजेन दानव ॥ वरुणश्च तदा राजन्हंसरूपेण निर्गतः ॥ ११ ॥ हंसस्य च वरं प्रादात्तोये रतिमवाप्स्यसि ॥ वर्णञ्चन्द्रसदृशं श्यामो भविष्यसि तथैव च ॥ १२ ॥ यमो वायसरूपेण तस्माद्यज्ञादपाक्रमत् ॥ वायसस्य वरं प्रादान्मरणं विना वयात ॥ १३॥ युष्मद्धतेन चान्नेन घोरा मद्रूपये स्थिताः ॥ परां तृप्तिं गमिष्यन्ति तदा पुण्येन योज्यसे ॥ १४ ॥ वक्ष्यध्वं बलिदातॄणां दिग्देशगतचेतितैः ॥ शुभाशुभं मनुष्याणां तत्रातिथ्यं भविष्यति ॥ १५ ॥ वज्रतुण्डाश्च ये काका घोरा मद्रूपये स्थिताः ॥ बलिपिण्डोंश्च दातृणां भविष्यन्ति ततः शिवम् ॥ १६ ॥ मरुत्तयज्ञे विप्रासं जनयित्वा दिवौ कसाम् ॥ बभ्राम वसुधां राजा राक्षसानां प्रतापवान् ॥ १७ ॥ ददर्श स तदा कन्यां तपस्यन्तीं महत्तपः ॥ रूपेणाप्रतिमां लोके यौवने प्रथमे स्थिताम् ॥ १८ ॥ दशग्रीवः स पप्रच्छ तां कन्यां लोकसुन्दरीम् ॥ का त्वं किमर्थं सुश्रोणि चास्थिता यौवने तपः ॥ १९ ॥ श्रुत्वा तस्य तु
१ ‘मरुत्तस्य’ इति ख०।
वि० ध० ॥१४०॥
प्र० खं० अ० २२१
सा कन्या सत्यं वचनमब्रवीत् ॥ बृहस्पतिसुतो विद्वानिपता मम कुशध्वजः ॥२०॥ वेदाभ्यासप्रवृत्तस्य तस्याहं नृपान्वया ॥ सुतापरम समुत्पन्ना तत्पत्न्य। विदिता तथा ॥ २१ ॥ नाम्ना वेदवतीत्येवं ख्याता लोकेषु राक्षस ॥ विष्णोर्मयेयं दातव्या तत्त्वासीन्मे पितुर्मतिः ॥ २२ ॥ मयाचना निरस्तेन दैत्यनाथेन शम्भुना ॥ पिता मम हतो रात्रौ तमालिङ्ग्य विभावसुम् ॥ २३ ॥ प्रविष्टा जनयित्री मे यथाहं विधृता चिरम् ॥ स्वर्गस्थस्य पितुः कामं साहं सत्यमभीप्सती ॥ २४ ॥ आराधयामि तपसा पत्यर्थं मधुसूदनम् ॥ ततस्तामब्रवीद्रक्षो मा त्वं क्लेशे मतिं कृथाः ॥२५ ॥ भवस्व मे वरारोहे भार्या त्रैलोक्यसुन्दरी ॥ रूपस्य वयसश्चैव नानुरूपं तपस्तव ॥ २६ ॥ त्वां कृत्वापगतो मन्ये रूपं कृत्वा स विश्वकृत् ॥ न हि रूपोपमा त्वय्या तथास्ति सदृशी यतः ॥ २७ ॥ संपूर्णकान्तिमत्सौम्यं वदनं ते वरानने ॥ सकलङ्केन चन्द्रेण कथमोपम्यमर्हति ॥ ॥२८॥ भव भूषणजातानां भूषणं त्वं शुचिस्मिते ॥ वृणुष्व मां वरारोहे पतित्वे वरवर्णिनि ॥ २९ ॥ आक्रम्याक्रम्य लोकस्य प्रधाना या मया हताः ॥ स्त्रियः कुरुष्व सर्वासवां तासां स्वाम्यमनिन्दिते ॥३०॥ जटामालाजिनधरी त्वमेवं रतिवर्धिनी ॥ न जाने मण्डनं प्राप्य कथं भीरु भविष्यसि ॥ ३१ ॥ रूपेण वयसा लक्ष्म्या तथैव गुणसम्पदा ॥ विक्रमे मे वरारोहे न समो हि जनार्द्दनः ॥ ३२ ॥ जन्म तस्य न जानन्ति परेभ्यो ये परे जनाः ॥ तेन त्वमकुलीनेन किङ्करिष्यसि सुन्दरि ॥ ३३ ॥ अनिन्दं लोकमिच्छन्तो सुराणां हितकाम्यया ॥ हता येनानुवृत्तेन योषित्काव्या रणिः पुरा ॥ ३४ ॥ पुराणा ये जगत्स्यास्तिस्तेभ्यः पूर्वतराश्च ये ॥ तेभ्योऽप्यति पुराणं तं भर्त्तारं कथममिच्छसि ॥ ३५ ॥ ब्रह्मणो वरदानेन यस्त्ववध्यो दिवौकसाम् ॥ ते दैत्यनाथाः सबलाश्छद्मना तेन घातिताः ॥ ३६ ॥ तप्ततापनिदिष्टेन चेतसा रक्षसां श्रियम् ॥ यो बिभर्त्यपि तां तेन किं करिष्यति भामिनि ॥ ३७ ॥ वृद्धेभ्यो न श्रुतं तस्य त्वया रूपमनिन्दिते ॥ विदितं सर्वलोकानां विश्वरूपधरस्त्वसौ ॥ ३८ ॥ शेषाहिमोगपर्य्यङ्के तेन त्वं शयिता सह ॥ सविषेणोग्रनिश्र्वासैः परां शान्तिमुपैष्यसि ॥ ३९ ॥ कण्ठग्रहेण निहतो येन तौ मधुकैटभौ ॥ कथं कण्ठग्रहं तस्य समुपैष्यसि सुन्दरि ॥ ४० ॥ हिरण्यकशिपुश्चैवं नखैरुत्क्रान्तजीवितः ॥ कथं रत्यन्तरे तस्य नखवातं सहिष्यसि ॥ ४१ ॥ तस्माद्भावं समुत्सृज्य चारुगात्रि जनार्द्दनै ॥ भजस्व भजमानं मां चिरं प्रीतिमवाप्नुहि ॥ ४२ ॥ वेदवतुवाच ॥ गुणा एव सुरेशस्य दोषास्ते रजनीचर ॥ जगत्प्रकाशका भानोरूलूकस्येव रम्यः ॥ ४३ ॥ किं त्वया सह वादेन वर्णनीयः स मे प्रभुः ॥ यादृशास्तादृशो वापि पतित्वे रजनीचर ॥ ४४ ॥ इति वेदवतीवाक्यं श्रुत्वा कोपसमन्वितः ॥ कामेन राक्षसेन्द्रस्तां केशपाशे परामृशत् ॥ ४५ ॥ त्वया संधर्षिता पाप
॥१४०॥