विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 477, कुल 1001 में से
संदर्भ में पढ़ेंरक्तपित्तेऽधिको गोधूमयवसुहादिवल्लषु ॥ काकमाची च वेत्राग्रं वास्तुकं च सुवर्चला ॥ ४२ ॥ वातशोणितनाशाय तोयं शस्तं सिता मधु ॥ नासारोगे च सहितं घृतदूर्वाप्रसाधितम् ॥ ४३ ॥ भृङ्गराजरसे सिद्धं तैलं धात्रीरसोऽपि वा ॥ न स्यात्सर्वामयोन्निर्धूं मूर्द्धजश्वश्वेवथ ॥ ४४ ॥ शीततोयान्वपत्तं तिलानां रात्र भक्षणम् ॥ द्विजदार्थ्यकरं प्रोक्तं तथा पथिकरं शुभम् ॥ ४५ ॥ गण्डूषास्तिलतैलेन द्विजदार्थ्यकरः परः ॥ विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशनम् ॥ ४६ ॥ धात्रीफलान्वयाच्चं च शिरोलेपनमुत्तमम्॥शिरोरोगविनाशाय स्निग्धशीतं च भोजनम्॥४७॥ तैलं वा वस्ति मूत्रं वा कर्णपूरणमुत्तमम् ॥ कर्णशूलविनाशाय शुद्धं तैलं निषेचयेत् ॥ ४८ ॥ गिरिशृङ्गनन्दनं माल्यं मालतीकलिकास्तथा ॥ संयोज्य या कृता वर्तिः शतचक्रहरी तु सा ॥४९॥ व्योषं त्रिफलया युक्तं शुक्तं च रसाञ्जनम् ॥ सर्वशिरोरोगशमनं तथा चेद्र साञ्जनम् ॥ ५० ॥ आज्यमृष्टं शिलापिष्टं रोधं काञ्जिकसैन्धवैः ॥ आश्च्योतनाद्विनाशाशाय सर्वरोगामयेषु च ॥ ५१ ॥ गिरिशृङ्गनन्देनलेपो बर्हिल्लेपस्य शस्यते ॥ नेत्रामयविधातार्थं त्रिफलां शीलयेत्सदा ॥ ५२॥ रात्रौ तु मधुसर्पिभ्यां दीर्घमायुर्जिजीविषुः ॥ शतावरं रसे सिद्धो वृष्यो क्षीरघृतौ स्मृतौ॥५३॥ कलविङ्कानि माषाश्च वृषो क्षीरं घृतं तथा ॥ आयुष्ण्या त्रिफला चैव पूर्वमन्त्रमुकान्विता ॥ ५४ ॥ मधुकायोरजोपेता वलीपलितनाशिनी ॥ वचासिद्धं घृतं रात्र तथा भूतविनाशनम् ॥ ५५ ॥ कण्ठे बुद्धिप्रदं चैव तथा सर्वाथसाधकम् ॥ वल्गकल्ककषायेण सिद्धमभ्यञ्जनं हितम् ॥ ५६॥ रास्ना सहचरैर्वापि तैलं वातविकारिणाम् ॥ अनभिष्यन्दि यच्चान्यत्तच्छ्रोणे प्रशस्यते ॥ ५७ ॥ पक्वस्य च तथा भेद् निम्बशीलं च रोपणे ॥ तथा तस्योपचारश्च बलिकर्मीर्थिशेषतः ॥ ५८ ॥ सूतिका च तथा रक्षा व्रणिनां तु सदा हिता ॥ जङ्गमे विषदेशे तु द्वात्तव्यं स्थावरं विषम् ॥ ॥५९॥ स्थावरे सर्पदष्टस्य हितं मांसस्य भक्षणम् ॥ भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ॥ ६० ॥ वन्ध्याकार्कोटजं मूलं छागम्बूत्राभिभा वितम् ॥ नस्यं काञ्जिकसंपिष्टं विषवेगविनाशनम् ॥६१॥ बन्धनाद्दहण च्छेदाद्दहास्त्रावाः प्रकीर्तिताः ॥ पूर्वदृष्टस्य पाने च हृद्यावरण घृतम् ॥ ॥६२॥ तालतिम्ब्वदलं केशा जीर्णेचेतं गवा घृतम् ॥ धूषो वृश्चिकविदष्टस्य शिखिपत्रं वृतेन वा ॥६३॥ अर्कक्षीरेण संपिष्टं लेपबीजं पलाशजम् ॥ वृश्चिकार्तस्य कृष्णा वा शिरीषफलसंयुता ॥ ६४ ॥ तिलकास्फोट्योदंनं गिरिकर्ण्यस्तित्वस्त्य च ॥ शर्करामधुसर्पींपि पानमाशुविषापहम् ॥ ॥६५॥ अर्कक्षीरं तिलस्तैलं पललं च गुरु समम् ॥ पानाज्जयति दुर्वारंविषं शीघ्रमेव च ॥६६॥ पीत्वा मूलं त्रिष्टुतुल्यं तण्डुलीयस्य सर्पिषा॥ सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ॥ ६७ ॥ चन्दनं पद्मकं कुष्ठं नताम्बूशीरपाटलाः ॥ निर्गुण्डीशशिरेखल्पूर्नाताविषह्रदोगदः ॥ ६८ ॥