विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 768, कुल 1001 में से
संदर्भ में पढ़ेंगतिर्भवेत् ॥ व्याधिग्रस्तस्य च तथा तपःश्रान्तस्य चैव हि ॥ २९ ॥ दीर्घाध्वनि गतस्यापि शनैर्मन्दपरिक्रमा ॥ मत्तस्य तु गतिः कार्या स्खलिता पार्श्वयोर्द्वयोः ॥ ३० ॥ उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा ॥ असम्बद्धप्रलापी स्यान्मलिनो रोमशस्तथा ॥ ३१ ॥ विक्कवानामपि गतिः कार्या भूषा कार्याणुरूपतः ॥ स्थूलदेहस्य कर्तव्या गतिर्दण्डाकरिणी ॥ ३२ ॥ विद्रूपकस्य कर्तव्या गतिर्हस्यप्रदा तथा ॥ स्वभावजातं विनयंम्य कुटिले वामके करे ॥ ३३॥ गतो स्मृतं चेदानां दृष्टिश्चाधिविचारिणी ॥ नानादेशसमुद्भूता पुरुषाणां स्वभावतः ॥ ३४ ॥ पाददानां पङ्गूनां च गतिः कार्या नराधिप ॥ शेषाणामर्थसंयोगेन स्थानकानि प्रयोजयेत् ॥ ३५ ॥ द्वेषोपपन्ना गतिरुत्तमानां मध्या गतिर्मध्य मसंज्ञितानाम् ॥ द्रुता गतिश्च प्रचुराग्यमानां लघ्वव्य सत्ववरेन योज्यम् ॥ ३६ ॥ रंगे विक्लवा तु नृपप्रधान गतागतेः पादगतिप्रचारः ॥ कार्या वशादेव गृहस्य नित्यं समीक्ष्य रङ्गे तु यथाऽनुरूपम् ॥ ३७ ॥ स्त्रीणां गतिः स्याल्ललितप्रचारा धीरा नराणां च तथोद्धता स्यात् ॥ गति प्रचारोऽप्यवरेन योज्यश्चेष्टाविदुक्ते तव राजसिंहा ॥ ३८ ॥ वयोज्ञेयः प्रथमस्तु वेशो वेषानुरूपश्च गतिप्रचारः ॥ गतिप्रचारागतं च नाट्यं नाट्यात् रूपोऽभिनयश्च कार्यः ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गतिप्रचारवर्णनो नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥
मार्कण्डेय उवाच ॥ हास्यशृङ्गारकरुणाद्रौद्रवीरभयानकाः ॥ बीभत्साद्भुतशान्ताख्या नव नाट्ये रसाः स्मृताः ॥ १ ॥ शान्तो रसः स्वतन्त्रोत्र पृथगेव व्यवस्थितः ॥ शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणोदयः ॥ २॥ वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ एतेषामङ्गरूपांश्च सात्विकोद्गमि नन्नृपः स्मृतः ॥ ३ ॥ शान्तस्वभाववर्णस्तु रसः प्रोक्तो नराधिप ॥ शृङ्गारस्तु भवेच्छ्यामो रक्तो रौद्रः प्रकीर्तितः ॥ ४ ॥ सितो हास्यश्च विज्ञेयः कृष्णश्चैव भयानकः ॥ गोरो वीरस्तु विज्ञेयः पीतश्चैवाद्भुतः स्मृतः ॥ ५ ॥ कपोतः करुणश्चैव नीलो बीभत्समेव च ॥ हास्यः प्रमथदैवस्त्व शृङ्गारो विष्णुदैवतः ॥ ६ ॥ रौद्रो रौद्राधिदेवश्च करणो यमदेवतः ॥ बीभत्सस्य महाकालः कालदेवो भयानकः ॥ ७ ॥ वीरो महेन्द्रदैवः स्यादद्भुतो ब्रह्मदेवतः ॥ शान्तस्य देवो विज्ञेयः परः पुरुष एव त ॥ ८ ॥ शान्तस्य तु समुत्पत्तिर्नृप वैराग्यतः स्मृता ॥ स चापि ज्ञेयो भवति लिङ्गग्रहणतस्तथा ॥ ९ ॥ सर्वभूतदयाज्ञानमोक्षमार्गप्रवर्तनैः ॥ नास्ति यत्र सुखं दुःखं न द्वेषो नापि मत्सरः ॥ १० ॥ समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ हास्यस्य तु समुत्पत्तिरसम्बद्धप्रलापतः ॥ ११ ॥ असम्बद्धतया वेशद्राद्रवतीति विनिश्चयः ॥ आत्मस्थश्च परस्थश्च द्विविधः स च कीर्तितः ॥ १२ ॥ आत्मस्थश्च स्वयं हासातपरस्थः परहासनात् ॥ उत्तमाधमसुख्यानां त्रिविधः