विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
गतिर्भवेत् ॥ व्याधिग्रस्तस्य च तथा तपःश्रान्तस्य चैव हि ॥ २९ ॥ दीर्घाध्वनि गतस्यापि शनैर्मन्दपरिक्रमा ॥ मत्तस्य तु गतिः कार्या स्खलिता पार्श्वयोर्द्वयोः ॥ ३० ॥ उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा ॥ असम्बद्धप्रलापी स्यान्मलिनो रोमशस्तथा ॥ ३१ ॥ विक्कवानामपि गतिः कार्या भूषा कार्याणुरूपतः ॥ स्थूलदेहस्य कर्तव्या गतिर्दण्डाकरिणी ॥ ३२ ॥ विद्रूपकस्य कर्तव्या गतिर्हस्यप्रदा तथा ॥ स्वभावजातं विनयंम्य कुटिले वामके करे ॥ ३३॥ गतो स्मृतं चेदानां दृष्टिश्चाधिविचारिणी ॥ नानादेशसमुद्भूता पुरुषाणां स्वभावतः ॥ ३४ ॥ पाददानां पङ्गूनां च गतिः कार्या नराधिप ॥ शेषाणामर्थसंयोगेन स्थानकानि प्रयोजयेत् ॥ ३५ ॥ द्वेषोपपन्ना गतिरुत्तमानां मध्या गतिर्मध्य मसंज्ञितानाम् ॥ द्रुता गतिश्च प्रचुराग्यमानां लघ्वव्य सत्ववरेन योज्यम् ॥ ३६ ॥ रंगे विक्लवा तु नृपप्रधान गतागतेः पादगतिप्रचारः ॥ कार्या वशादेव गृहस्य नित्यं समीक्ष्य रङ्गे तु यथाऽनुरूपम् ॥ ३७ ॥ स्त्रीणां गतिः स्याल्ललितप्रचारा धीरा नराणां च तथोद्धता स्यात् ॥ गति प्रचारोऽप्यवरेन योज्यश्चेष्टाविदुक्ते तव राजसिंहा ॥ ३८ ॥ वयोज्ञेयः प्रथमस्तु वेशो वेषानुरूपश्च गतिप्रचारः ॥ गतिप्रचारागतं च नाट्यं नाट्यात् रूपोऽभिनयश्च कार्यः ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गतिप्रचारवर्णनो नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥
मार्कण्डेय उवाच ॥ हास्यशृङ्गारकरुणाद्रौद्रवीरभयानकाः ॥ बीभत्साद्भुतशान्ताख्या नव नाट्ये रसाः स्मृताः ॥ १ ॥ शान्तो रसः स्वतन्त्रोत्र पृथगेव व्यवस्थितः ॥ शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणोदयः ॥ २॥ वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ एतेषामङ्गरूपांश्च सात्विकोद्गमि नन्नृपः स्मृतः ॥ ३ ॥ शान्तस्वभाववर्णस्तु रसः प्रोक्तो नराधिप ॥ शृङ्गारस्तु भवेच्छ्यामो रक्तो रौद्रः प्रकीर्तितः ॥ ४ ॥ सितो हास्यश्च विज्ञेयः कृष्णश्चैव भयानकः ॥ गोरो वीरस्तु विज्ञेयः पीतश्चैवाद्भुतः स्मृतः ॥ ५ ॥ कपोतः करुणश्चैव नीलो बीभत्समेव च ॥ हास्यः प्रमथदैवस्त्व शृङ्गारो विष्णुदैवतः ॥ ६ ॥ रौद्रो रौद्राधिदेवश्च करणो यमदेवतः ॥ बीभत्सस्य महाकालः कालदेवो भयानकः ॥ ७ ॥ वीरो महेन्द्रदैवः स्यादद्भुतो ब्रह्मदेवतः ॥ शान्तस्य देवो विज्ञेयः परः पुरुष एव त ॥ ८ ॥ शान्तस्य तु समुत्पत्तिर्नृप वैराग्यतः स्मृता ॥ स चापि ज्ञेयो भवति लिङ्गग्रहणतस्तथा ॥ ९ ॥ सर्वभूतदयाज्ञानमोक्षमार्गप्रवर्तनैः ॥ नास्ति यत्र सुखं दुःखं न द्वेषो नापि मत्सरः ॥ १० ॥ समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ हास्यस्य तु समुत्पत्तिरसम्बद्धप्रलापतः ॥ ११ ॥ असम्बद्धतया वेशद्राद्रवतीति विनिश्चयः ॥ आत्मस्थश्च परस्थश्च द्विविधः स च कीर्तितः ॥ १२ ॥ आत्मस्थश्च स्वयं हासातपरस्थः परहासनात् ॥ उत्तमाधमसुख्यानां त्रिविधः
वि० ध० ॥३२८॥ तृ० खं० अ० २९ ॥३२९॥
गमने तथा ॥ ३ ॥ एतदेव तु सर्वत्र स्थिरं कार्यं गतिर्बुधैः ॥ अस्वस्थे कम्पिते चैव भये विकासिते तथा ॥ ४ ॥ आनङ्गे चैव हर्षे च कार्यं मृदु त्वरान्वितम् ॥ अनिभृतश्च चैव ज्ञेयं चाद्भुतदर्शने ॥ ५॥ अपि चाभ्यधिके कार्यं तथा चैवाभिसारिणे ॥ अपमानावसारेण त्रासादागतो तथा ॥ ६ ॥ एवंविधेषु कार्येषु गतिं शीघ्रां प्रयोजयेत् ॥ गतिः शृङ्गारिणी कार्या स्वस्थकामिसम्भवे ॥ ७ ॥ दूतीदर्शितमार्गेतु ह्यवेक्षणपरिक्रमे¹ ससोद्वेगसमायुक्तैर्लयतालवरोत्तुंगैः ॥ ८ ॥ पादयोरनुगौ वापि हस्तौ कार्यों प्रयोक्तृभिः ॥ अङ्कस्यैकाग्रिते गच्छन्न चात्यर्थं विक्षिपेतू ॥ ९ ॥ कृशणवासाः पदमंदैः शब्दाशङ्की मुहुर्मुहुः ॥ वेपमानशरीरश्च शङ्कितः प्रस्खलन्मुहुः ॥ १० ॥ अङ्गस्रग्भावनेपथ्यो रौद्रस्तु त्रिविधो मतः ॥ शोणिताङ्गनिदर्शनैः पद्यांनाङ्गरसस्तथा ॥ ११ ॥ बद्धायुधधरो रौद्रेनेपथ्येन प्रकीर्तितः ॥ कक्षो निर्मत्सनैकथ्यो निर्षणस्तु स्वभावतः ॥ १२ ॥ विविधव्यासपि राज्ञ्ज्य चतुरतालान्वरा गतिः ॥ अदृष्ट्वा तु मही यत्र श्मशानरणसंकुला ॥ १३॥ आसन्ना च विवृद्धा च तत्र बीभत्सिका गतिः ॥ गतिर्विधे च कर्त्तव्या पादविक्षेपसंयुता ॥ १४ ॥ विस्मये चैव हर्षे च विचित्रपदविक्रमा ॥ गतिः स्मेरपदा प्रोक्ता तथैव करुणाह्वये ॥ १५ ॥ न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम् ॥ विधूर्णिताशरीरश्च स्तब्धश्च शिथिला गतिः ॥ १६ ॥ गाढप्रहारिते कार्या गतिः पिण्डितविग्रहा ॥ ह्रुता भयानक्रे कार्या सत्वग्वा कार्यवशादथ ॥ १७ ॥ सत्वे तु विकृते दृष्टे गतिर्विस्फूरितेक्षणा ॥ तापसानां भवेन्मन्दा युगमात्रेक्षणा गतिः ॥ १८ ॥ हस्तसंस्पर्शलोनामन्ध्यापञ्चन्चकारे गतिर्भवेत् ॥ रथस्थस्यापि कर्तव्या गतिर्मण्डपदर्पण् ॥ १९॥ समपादं बुधस्थानं कृत्वा रथमति ब्रजेता॥ धनुर्गृहीत्वा हस्तेन तथा चैकेन कूबरम् ॥ २० ॥ सूतश्चास्य भवेदत्र प्रतोदग्रहणोद्धृतः ॥ विमानस्थस्य कर्तव्या गतिर्गगनदर्शिनी भवेत् ॥ २१ ॥ आरोहश्चावरोहश्च ऊर्ध्वोर्ध्वार्वेक्षणेगतिः ॥ मण्डलावर्तनैः कार्यमाकाशगमनं तथा ॥ २२ ॥ ऋजुवागतोव्रीतैः पादैरैक्ष्यमानस्तु वाह्रवेत् ॥ उच्चिद्रतारोहणं कार्यमपक्तानपदेश्य ॥ २३ ॥ तथावतरणं कार्यं शंकितैरिव संहितैः² ॥ उत्क्षिप्तपदसञ्चारा सलिले च गतिर्भवेत् ॥ २४ ॥ उत्तिष्ठस्तत्सस्त्थाग पादारोहोण भवेत् ॥ सूचोविद्धैरपक्रान्तैः पदैः पार्श्वगतैरथ ॥ २५ ॥ अङ्गुष्ठश्रमहाभांगं स्वलीनाग्रहणाद्र्यम् ॥ प्रग्रह ग्रहणादैव अन्येषां कारयेद्गतिम् ॥ २६ ॥ अश्वयाने गतिः कार्या वैराख्यस्याविकीन ह् ॥ प्लवगानां गतिः कार्या पदैः स्वस्तिकसंयुतैः ॥ ॥ २७ ॥ विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा ॥ कंचुकीयस्य कर्तव्या कम्पिता स्खलिता गतिः ॥२८॥ विदूषकस्यतिप्राणा कुहकस्यापि
¹ 'ह्यवेक्षणपरिक्रमे' इति ख० । ² 'संहतैः' इति क० ।
चेत ॥ ४३ ॥ शुकश्च शारिका चैव सूक्ष्मा ये चैव पक्षिणः ॥ शिरसाऽसन्नसंज्ञाभ्याः स्थूला ये च स्वभावतः ॥ ४४ ॥ पश्चाद्ब्रह्मादिदिव्येषु स्तेषामभिनयो भवेत् ॥ भूताः पिशाचा यक्षाश्च दानवा राक्षसास्तथा ॥ ४५ ॥ अङ्गहारैरभिनेयाः प्रत्यक्षा न भवन्ति ये ॥ प्रत्यक्षा श्चामिनेयाः स्युस्तयोर्योगः सविस्मयैः ॥ ४६ ॥ देवान्प्रणामकरणैः प्रत्यक्षे तु नराधिप ॥ परोक्षे विविधैश्चिह्नैरितरस्त्यानुकृष्णैः गुणैः ॥ ४७ ॥ संयोजितेन हस्तेन त्वरालेन शिरः स्पृशेत् ॥ नरोऽभिवादनं ह्येतत्केवलेनैव तथा स्त्रियाः ॥ ४८ ॥ महाजनं ससिखण्डं विदूषकंर्जनं तथा ॥ परि मण्डलसंज्ञेन हस्तेनाभिनयद्बुधः ॥ ४९ ॥ प्रवृत्तान्यूर्ध्वयोगेन वृक्षांश्चैव समुत्थितान् ॥ प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्तस्याभ्यां प्रदर्शयेत् ॥ ५० ॥ ( समूहं सुमहत्सेनं बहुविस्तीर्णमेव च ॥ पताकाभ्यां तु हस्ताभ्यां योतिस्त्वाभ्यां प्रदर्शयेत् ॥ ) शौर्यं च धैर्यरूपं च गर्वमोदार्यमुच्छ्रयम् ॥ ललाटस्थानसंस्थेन त्वरालेन प्रदर्शयेत् ॥ ५१ ॥ प्रज्ञो देशमदाद्विद्धो करो तु मृगशीर्षिकौ ॥ विस्तीर्णशृङ्गोदस्तोष्णो योऽन्यो यस्तस्याडुपानृतम् ॥ ॥ ५२ ॥ अधोमुखोतानतलं हस्तं किञ्चित्प्रसारितम् ॥ कृत्वा चाभिनयो ज्ञे व विलग्याहं गृहं गृहम् ॥ ५३ ॥ कामातर्तिज्ज्वरितांश्चैव शापो पहतचेतसः ॥ तेषामभिनयः कार्य उच्छ्वासैः कम्पनेस्तथा ॥ ५४ ॥ प्रत्यक्षश्चाभिनयः कार्यों दोलाय्याः परिदोलने ॥ आकाशरचनानीह वन्ध्याग्यास गतानि च ॥ ५५ ॥ अपवारितकं चैव जनान्तिकमथापि च ॥ परस्सम्भाषणं यत्स्यात्तदाकाशवचः स्मृतम् ॥ ५६ ॥ अन्यैरश्रवणीयन्तु जनान्तित कमिहोच्यते ॥ अपवारितकं कुर्या पुनरुक्तं प्रचक्षते ॥ ५७ ॥ हस्तमन्तर्हितं कृत्वा त्रिपताकं प्रयोगतः ॥ जनान्तिके प्रयोगोऽयमपवारितकं तथा ॥ ५८ ॥ स्वभाषयैते चाभिनेय वाचा गूढश्च भवेत् ॥ वृद्धानां योजयेत्पाठ्यं गूढरूपलताक्षरम् ॥ ५९ ॥ असमग्राक्षरं चैव बालानां तु कलस्वनम् ॥ दीर्घो च्छ्वासयुतं ज्ञानं व्याधितानां तु योजयेत् ॥ ६० ॥ उच्छ्वासेन तु दीर्घेण मृत्युत्काले तु नाट्यवेत् । गात्रानिस्पंदभावेन सुतस्याभिनयो भवेत् ॥ सात्त्विक काभिनयं वक्ष्ये रसभावेषु पार्थिव ॥ ६१ ॥ एतावदभिधानेये तु तुभ्यं शक्यं मया पार्थिवसुखेषु वक्तुम् ॥ नाट्यं हि विश्वस्यः यतोऽनुकारं कृत्स्नं ततो वक्तुमशक्यमीश ॥ ६२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्याभिनयो नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥ मार्क ण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि गीतानां लक्षणं तव ॥ स्वभावोनोऽङ्गजतौ कार्यं जाजुकटीरसम् ॥ १ ॥ युद्धचारी प्रचारेषु जाज्रुस्तनसमं न्यसेत् ॥ उद्वान्ते च क्षुधान्ते च तपःश्रान्ते रुजान्विते ॥ २ ॥ विह्वते चावहित्ये च तथोत्सुक्यसमन्विते ॥ शृङ्गारे चैव शोके च स्वच्छन्द
१ कोष्ठान्तर्गतः पाठः बहुपुस्तके नास्ति । २ 'पाठ्यम्'-इति क० । ५५
वि० द० ॥३२४॥ तृ० खं० अ० २८ ॥३२४॥
पीडायाः सर्वाभिग्रहणं भवेत् ॥ १९ ॥ श्रुत्यं श्रवणयोगेन दृश्यं दृष्टिविलोकितैः ॥ आत्मसंस्थं परस्थं वा मध्यस्थं वा विनिर्देशेत् ॥ २० ॥ विद्युदुल्काशनिरजो विस्फुलिङ्गाभिपतनम्था¹ ॥ प्रतोदोडुविनिमेषश्च तैमिर्य्याः प्रयोक्तृभिः ॥ २१ ॥ स्वस्तिको त्रिपताकौ कार्यं भ्रमरादिनिवारणे ॥ कृत्वा स्वस्तिकसंस्थानौ पद्मकोशावधोमुखौ ॥ २२ ॥ सिंहशेषाप्सरादीनां कर्त्तव्यं तु निरूपणम् ॥ स्वस्तिकौ त्रिपताकौ तु गृह्णतां पादव- न्दने ॥ २३ ॥ स्वकस्वस्तिकौ चापि प्रतोदग्रहणे भवेत् ॥ एकाब्दानां दशान्तानां संख्या त्वङ्गुलिभिर्भवेत् ॥ २४ ॥ दशाख्या च शताख्या च स्थानसंख्या ततः परम् ॥ पताकाभ्यां तु हस्ताभ्यां वाचा चाभिनयो भवेत् ॥ २५ ॥ छत्रध्वजपताकाश्च विज्ञेया दण्डधारणात् ॥ नाना- प्रहरणं चैव विज्ञेयमिह वारुणैः ॥ २६ ॥ एकचित्तो ह्यधोदृष्टिः शिरः किञ्चिन्नतं भवेत् ॥ सन्दंशहस्तश्च संदर्शयिष्यते ध्याने विताङ्किते² ॥ २७ ॥ उद्धाटितं शिरः कृत्वा हंसपक्षं प्रदक्षिणम् ॥ अपनयरूपेण कार्यमुद्भ्रान्तं च प्रयोक्तृभिः ॥ २८ ॥ अरालं च शिरः स्थाने समुद्वाहा³ च वामतः ॥ गते निवृत्ते व्यस्ते च श्रानं वाक्यं नियोजयेत् ॥ २९ ॥ जितेन्द्रियस्तथा युक्तं प्रसन्नवदनं तथा ॥ विविक्तकुसुमालोको शरदं तु निरूपयेत् ॥ ॥ ३० ॥ गात्रस्य कम्पनात्तज्ज्ञैस्तथा चान्याभिलाषितैः ॥ हेमन्तरूपमभिवेद्यः स्यात्तुतुषारमध्यमार्थैः⁴ ॥ ३१ ॥ शिरोदन्तौष्ठकम्पेन गात्रसङ्कोचनेन च ॥ कूजितैश्च ससीत्कारैः⁵ शीतस्याभिनयो भवेत् ॥ ३२ ॥ प्रसादजननैरङ्गैर्मधुरूपप्रयोगः ससम्भ्रमः ॥ वसन्तरूपमभिनेतव्यो नानापुष्पप्रदर्शनात॥ ॥ ३३ ॥ स्वेदप्रमार्जनाच्चापि भूमिपतितपोजविनैः ॥ उष्णस्य वायोः स्पर्शेश्च ग्रीष्मस्याभिनयो भवेत् ॥ ३४ ॥ गम्भीरनादश्रवणात्पश्यावृष्ट्यभि- नयो भवेत् ॥ वञ्चसाभिनयः कार्यो भृङ्गानां सुखदुःखयोः ॥ ३५ ॥ स्वभावाभिनये स्थानं पुंसिः कार्यं तु वैष्णवम् ॥ आवृत्तं चावलित्थं च स्त्रीभिः कार्यं स्वभावतः ॥ ३६ ॥ धैर्य्यलीलासमुद्रै पुरुषगुणां विनोदितम् ॥ द्यूतलीलाङ्गहारैस्तु स्त्रीणां कार्यं विचेष्टितम् ॥ ३७ ॥ आलि- ङ्गनं तु कर्त्तव्यं स्मितेरोमाञ्चसंयुतम् ॥ रोमाञ्चेन तु हर्षः स्यात्कोशवृद्धैस्तथाक्षुषा ॥ ३८ ॥ ईर्ष्या क्रोधस्तु कर्त्तव्यो माल्याभरणवर्जितम् ॥ शिरासः कम्पनं चैव मर्मसंस्पर्शयेव च ॥ ३९ ॥ अधोमुखः सनिःश्वासो दुःखं सन्दशयेन्नरः ॥ भूमिहस्तार्सिघातेन स्त्रीणां स्याद्दुःखितं तत ॥ ४० ॥ आनन्दितसमुद्भूतं रुदितं द्विविधं स्मृतम् ॥ हृष्टेन चाप्यहृष्टेन तं मुखेन निरूपयेत् ॥ ४१ ॥ सम्भ्रमावेगोदविग्नैः पुरुषाणां भयं भवेत् ॥ चातुरङ्ग्वेणपादैव उत्थैराक्रन्दित्रेन च ॥ ४२ ॥ नराङ्ग्लिङ्गनतश्चैवं भयं कार्यं भवेत्स्त्रियाः ॥ विगताङ्काङ्गुलिम्ययां तु चलिताभ्यां योज-
¹ 'स्रस्ताङ्गक्षितिसम्प्रथा' इति ख० ।
² 'मुन्याद्ययान्' इति घ० ।
³ 'द्वाभ्या तु' इति ख० ।
⁴ 'तु ज्ञेः' इति क० 'त्यङ्गेः' इति ख० ।
⁵ 'सीत्करै' इति क० ख० ।
तिस्रस्त्वाश्रमसा॥४३॥ सञ्जीव इति यत्प्रोक्तं तस्य वक्ष्यामि लक्षणम्॥ प्रवेशस्तु तिस्रणां वै सञ्जीव इति संज्ञितः॥४४॥ तेषां प्रस्तेन कर्तव्या प्रकृतिः पुरुषांतरात्॥ तौर्यबाद्यहस्तानां कर्तव्या हेतयः शुभाः ॥४५॥ एवं लोकोपचारेण स्वबुद्ध्या विभवेन च ॥ नाट्योपकरणानीह यथावत्परिकल्पयेत् ॥ ४६ ॥ हेतिममलो न तु गूढमध्ये कार्या मदश्यापि॥ वेशं सुरस्य ॥ आहार्याभिनयो नाम सप्तविंशोऽध्यायः ॥ २७ ॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि सामान्याभिनयं तव ॥ तस्मिन्कार्याः प्रयत्नेस्तु नाट्यान्तरशरीरिणः ॥ १ ॥ शब्दं स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ इन्द्रिया- णोन्द्रियार्थास्तु भावेनाभिनयेद् बुधः ॥ २ ॥ कृत्वा साचीकृतं दृष्टि शिरः किञ्चिन्नतं भवेत् ॥ तर्जनीकर्णदेशे तु शब्दन्तवभिनयेद्बुधः ॥ ३ ॥ किञ्चिदङ्कुचिते नेत्रे कृत्वोन्फुल्लां त्वनासिकाम् ॥ एकश्वासो भवेच्चापि गन्धमेवं विनिर्दिशेत् ॥४॥ इन्द्रियार्थास्तु पञ्चैते त्रिविधाः परिकीर्तिताः ॥ इष्टास्तथा ह्यनिष्टाश्च मध्यस्था नृपसत्तम ॥ ५ ॥ गात्रप्रह्लादनेनेह तथा पुलकितेन च ॥ नितानताक्षक्रियाभिश्च सर्वमिष्टं निरूपयेत् ॥ ६ ॥ परावृत्तेन शिरसा तथा चानेन चक्षुषाः ॥ नेत्रनासाविकूतेन ह्यनिष्टमिति निर्दिशेत् ॥ ७ ॥ मध्यस्थेनैव भावेन मध्यस्थ्यकरणं भवेत् ॥ आत्माऽऽभावी चोध्वः स्यादात्मस्थ इति संज्ञितः ॥ ८ ॥ पराध्वंवनिं चाथ पश्यतीति च कीर्तितम् ॥ उत्तानौ तु करो कृत्वा स्वस्तिको पार्श्वसंस्थितौ ॥ ९ ॥ उन्नहितेन शिरसा तथा चोर्ध्वनिरीक्षणम् ॥ प्रभातं गगनं रात्रिः प्रदोषं दिवसं तथा ॥ १० ॥ ऋतूनन्यांश्चाथ चैव विस्तीर्णांश्च जलाशयान् ॥ दिशोमहत्सूनशस्त्राद्यन्चत्स्वगते तुप ॥ ११ ॥ तस्य त्वभिनयः कार्यो नानादृष्टिसमन्वितः ॥ एभिरेव करैर्भूयः स्तनैश्च शिरसा तथा ॥ १२ ॥ अधोनिरीक्षितेनाथ भूमिष्ठान्सम्प्रयोजयेत् ॥ चन्द्रं ज्योत्स्नां सुखं वायुं स्पर्शनाभिनयेद्बुधः ॥ १३ ॥ वस्त्रावृतेनच्छन्नाद्सूर्य ज्जोषुमानलंसंस्तथा ॥ भूमितप्तमथोग्रष्णं च कुर्याच्छ्वासानिलापह्तः ॥ १४ ॥ ऊर्ध्वेकनेत्रदृष्ट्या तु मध्या- ह्नस्थं दिवाकरम् ॥ उदयास्तगतं चैव विस्मयार्थे प्रदर्शयेत् ॥ १५ ॥ चन्द्रं विस्मितया दृष्ट्या तथा तारांश्च दर्शयेत् ॥ सुख स्पृर्शानि सर्वाणि रोमांचं न तु दर्शयेत् ॥ १६ ॥ दुःखानि च तयोद्वेगं सुखस्य तु विकूणनैः ॥ सम्मीरोद्गत संयुक्तानीथांसोक्षवसंयुतान्॥ १७॥ यज्ञोपवितदेशस्थमबालं हस्तमादिशेत् ॥ हारावहारयोगेषु सग्दामस्य च दर्शने ॥ १८ ॥ भ्रमरेण प्रदेशिन्या दृष्टेः परिगमेन च ॥ ^१अळंघ्पद्याक
^१ 'घ्प्नालुर्वे' इति क० ।
वि० च० ॥ ३२३ ॥ बृ० सं० अ० २७ ॥ ३२३ ॥
षट्सु द्वीपेषु पुरुषाः कर्तव्याः कनकप्रभाः ॥ ॥ १९ ॥ जम्बूद्वीपस्य वर्षेषु ऋतस्त्वेकं भारतं नृप ॥ भारतेषु तथा कार्या नानादेशभवस्तथा ॥ ॥ २० ॥ पुलिन्दा दाक्षिणात्याश्च प्रायशो वर्णतोऽसिताः ॥ शकाश्च यवनाश्चैव पह्नवा बाह्लिकाश्च ये ॥ २१ ॥ प्रायेण गौराः कर्तव्याः उत्तरा पथसम्भवाः ॥ पाञ्चालाः शूरसेनाश्च तथा ये चान्ध्रमागधाः ॥ २२ ॥ अङ्गा बङ्गाः कलिङ्गाश्च प्रायशो वर्णतोऽसिताः ॥ चन्द्रवर्णा द्विजाः कार्या राजन्याः पद्मवर्णभाः ॥ २३ ॥ आपाण्डुरस्तथा वैश्याः श्यामा शूद्राश्च वर्णतः ॥ नानावर्णाः स्मृता भूता गन्धर्वाप्सरसस्तथा ॥ २४ ॥ गौराणां पद्मगर्भाभा ये चापि मुनिनो जनाः ॥ कुष्ठिनो ग्रहग्रस्ता व्याधितास्तप आश्रिताः ॥ २५ ॥ आयस्तकर्मणश्चैव असिताः कुलजाल गः ॥ वर्णः प्रत्यङ्गदष्टस्य कर्तव्यः सदृशस्तथा ॥ २६ ॥ देवगन्धर्वसिद्धानां कुमाराणां च पार्थिव ॥ श्मश्रु तेषां न कर्तव्यं ये च दीक्षां समाश्रिताः ॥ २७ ॥ दिव्या ये पुरुषाश्चैव तथा विद्याधराश्च ये ॥ शृङ्गारिणो नरेन्द्राश्च चित्रश्मश्रुधरास्तथा ॥ २८ ॥ शुद्धं तु लिङ्गिनां कार्यं तथामात्यपुरोधसाम् ॥ मध्यस्था ये च पुरुषा ये च दीक्षां समाश्रिताः ॥ २९ ॥ अनिर्णीतप्रतिज्ञानां दुःखितानां तपस्विनाम् ॥ मुनीनां चिर बद्धानां दीर्घं श्मश्रु प्रकीर्तितम् ॥ ३० ॥ चर्मधृतोर्ध्वनेत्राश्च भवेच्छूद्रो नराधिप ॥ वणिजां कञ्चुकीयानां ब्राह्मणानां तथैव च ॥ ३१ ॥ राज्ञां विचित्रो वेषः स्याद्वैश्यशूद्राणां च यादृक् ॥ यथालिङ्गं भवेद्वेशस्तथान्यान्येषु तु लोकतः ॥ ३२ ॥ त्रिविधा मुकुटा ज्ञेया देवपार्थिवसंश्रयाः ॥ देवानां पार्थिवानां च कर्तव्यास्तु किरीटकाः ॥ ३३ ॥ देवानां सप्तशिखराः पार्श्वसम्भूता तथा ॥ त्रिभिश्च शिखरैः कार्या महिषीषूपराजयोः ॥ ३४ ॥ सेनाध्यक्षस्य कर्तव्यस्त्वेकशिखरो नृप ॥ दैत्यदानवयक्षाणां पन्नगानां सस्रजाम् ॥ ३५ ॥ एकपट्टास्तु विस्तीर्णा कर्तव्या मुकुटाः शुभाः ॥ विद्याधराणां सिद्धानां वानराणां तथैव च ॥ ३६॥ ग्रन्थिमन्तस्तु कर्तव्या मुकुटस्तु प्रयोक्तृभिः ॥ देवदानवगन्धर्वाः कृष्णपक्षाः प्रकीर्तिताः ॥ ३७ ॥ दैत्यदानवपक्ष्याश्च पिशाचनागराक्षसाः ॥ हरिश्चन्द्रशुक्राः कार्यास्तथा पिङ्गेक्षणा नृप ॥ ३८ ॥ कञ्चुकीयाश्च कर्तव्यास्तथा मुक्तशिरोरुहाः ॥ अमात्यकञ्चुकीयानां तथा श्रेष्ठपुरोधसाम् ॥ ३९ ॥ वेष्टनापट्टबद्धानि प्रतिशीर्षाणि कारयेत् ॥ पिशाचो न्मत्तभूतानां तापसानां तथैव च ॥ ४० ॥ उन्मत्ततीर्णप्रतिज्ञानां लम्बकेशो भवेदिह ॥ बालनामपि कर्तव्यं शिरसि षण्डकीविभूषणम् ॥ ४१ ॥ जटायूथोद्यतं कार्यं मुनीनामपि पार्थिव ॥ चेतानामपि कर्तव्यं त्रिचिरः खण्डमेव च ॥ ४२ ॥ निबद्धकक्ष्य स्खलितैः स्यात्कञ्चुकपादमेव च ॥ रोषणपाणासुतोयोगेन शेषजा
१ 'विद्याधरो मनु' - इति क० । पिशाचोन्मर्त्तु-इति ख० । २ 'खण्डा'- इति ख० ।
प्रकीर्तिताः ॥ ९१ ॥ नानार्थरससंयुक्तं प्रयोगं कालसंश्रयम् ॥ विज्ञेयं नृत्तहस्तानां तेन नामिहितं मया ॥ ९२ ॥ आचिख्यासे जगन्तै च नियमस्थे जगद्विते ॥ मते प्रसङ्गे चिन्तायां नाभिनेयः करो भवेत् ॥ ९३ ॥ उद्वृत्तं सम्प्रवृत्तं च विचेष्टितमिति त्रिकम् ॥ क्रमेद् नृत्तहस्तानां विज्ञेयं च चतुर्विधम् ॥ ९४ ॥ कार्या ललितसञ्चारा नृत्तहस्तापरा बुधैः॥ लालित्यमेव विज्ञेयं नृत्तस्य प्रतिबोधनम् ॥ ९५ ॥ देशं कालं प्रयोगं च ह्यर्थयुक्तिमवेक्ष्य च ॥ हस्ता एते प्रयोक्तव्या नृणां च नर्तके ॥ ९६ ॥ हस्ता मयैते कथिता नृवीर सर्वं करायस्तमिदं हि नृत्तम् ॥ यन्नञ्च कार्यंस्तु करेषु तस्माच्चा- त्युल्लास्याभिनयोषयुक्तम् ॥ ९७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तहस्तव्यवस्थानिर्णयो नाम षड्विंशतितमो ऽध्यायः ॥ २६ ॥ मार्कण्डेय उवाच ॥ वाचिकश्च तथा ज्ञेयस्त्वाङ्गिकस्सात्त्विकस्तथा ॥ चतुष्प्रकारोऽभिनयः कीर्तितो नाट्यकोविदैः ॥ ॥ १ ॥ वाचिको वचसा प्रोक्तः शृणु हार्यं नराधिप ॥ चतुर्विधं तु विज्ञेयं पुस्तलङ्कार एव च ॥ २ ॥ तथाऽङ्गरचना चैव ज्ञेया सञ्जीवमेव च ॥ मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा ॥ ३ ॥ लोहैरङ्कुरितैर्वापि पुस्त इत्यभिधीयते ॥ देवदान- वयक्षाणां गजाश्वमृगपक्षिणाम् ॥ ४ ॥ कार्याणि प्रतिशीर्षाणि नाट्यज्ञैः पुस्तकर्मणा ॥ अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् ॥ ५ ॥ नानाविधः समायोगो ह्यङ्गोपाङ्गविनिर्गतः ॥ तञ्च कार्यो नृपो बुद्ध्या नियोगं जातिमेव च ॥ ६ ॥ आधिपत्यं तथा स्थानं देशं च नृपसत्तम ॥ अतोऽङ्गरचनां तुभ्यं वक्ष्यामि नृप वर्णनाम् ॥ ७ ॥ श्वेतो रक्तस्तथा पीतः कृष्णो हरितमेव च ॥ मूलवर्णाः समाख्याताः पञ्च पार्थिवसत्तमा ॥ ८ ॥ एकद्वित्रिसमयोगाद्भावकल्पनया तथा ॥ सदृश्यैर्वान्तरवर्णानां लोके कर्तुं न शक्यते ॥ ९ ॥ अत्यर्थंसमयोगाव्लोकेऽहं नृपपुङ्गव ॥ विभागं सम्प्रवक्ष्यामि वर्णानां श्यामगौरोर्योः ॥ १० ॥ द्विमभाग रुचिरैर्यस्मात्सर्वस्येह प्रकीर्तिता ॥ गौरो पृथग्विधा तत्र श्यामा द्वादशधा भवेत् ॥ ॥ ११ ॥ रुक्मगोरी दन्तगोरी स्फुटचन्दनगौरिणि ॥ शरदघनचन्द्रकन्दोदरी पृथग्विधा स्मृता ॥ १२ ॥ रक्तश्यामा भवेत्पूर्वं शुद्धश्यामा निरन्तरम्॥ ततो दूर्वाङ्कुरश्यामा पाण्डुश्यामा च पार्थिव ॥ १३ ॥ ततश्च हरितश्यामा पीतश्यामा ततो भवेत् ॥ ततः प्रियङ्गु कङ्कःश्यामा कपिश्यामा च पार्थिव ॥ ॥ १४॥ ततो नीलोत्पलश्यामा चापश्यामा ततः परम्॥ ततो रक्तोत्पलश्यामा घनश्यामा तथा परा॥ १५॥ द्युत्यायुक्तेषुवर्णेषु तासां व्यक्तिरुदाहृता ॥ रङ्गव्यतिकरैः शोभामधिकृत्य महीपते ॥ १६॥ वक्ष्यामि वर्णांन्देवानां मयापृष्ट विनिश्चयम् ॥ तत्र येषां न वक्ष्यामि ते कार्या गौरवर्णकाः ॥ १७॥ श्यामस्तु वासुकिः कार्यो नागा गौरस्तु द्वापरौ ॥ दैत्याश्च दानवाश्चैव राक्षसा गुह्यकासुगाः ॥ १८ ॥ पिशाचा जलसङ्काशा सम्मितानि तु वर्णतः ॥
ना० शा० ॥३२२॥ तृ० खं० अ० २६
मुखान्वितौ ॥ शैलेरधोमुखौ विद्धाववहत्थ इति स्मृतः॥६५॥दीर्घत्वञ्च सिते कार्यो गात्राणां च निदर्शने॥ ज्ञेयो वै वर्धमानस्तु हंसपक्षौ पराङ्मुखौ ॥ ६६ ॥ जालावातायनादीनां प्रयोगस्तेन चेष्यते ॥ संयुतानां कराणां तु लक्षणं कथितं मया ॥ ६९ ॥ एवं ज्ञेयाः कराः सर्वे नानारससमुद्भवाः ॥ अत ऊर्ध्वं प्रवक्ष्यामि नृत्तहस्तमथापरम् ॥ ७० ॥ वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ ॥ समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ॥७१॥ हंसपक्षौ स्मृतौ हस्तौ व्यावृत्तौ तालवृन्तकौ ॥ उदद्रुताविति विज्ञेयावथ वा तालवृन्तकौ ॥ ७२ ॥ चतुरस्रीकृतौ हस्तौ हंसपक्षौकृतौ तथा ॥ तिर्यङ्मुखावृर्ध्वतलौ ज्ञेयो ह्युद्वृत्तभाषितौ करौ ॥ अधोमुखतलाविद्धावाविद्धाविति कीर्तितौ ॥ ७६ ॥ सर्पशीर्षौ यदा हस्तौ भवतः स्वस्तिक भुजौ सकूर्पराग्रौ तु कुटिलावावितौ करौ ॥ अधोमुखतलाविद्धावाविद्धाविति कीर्तितौ ॥ ७६ ॥ सर्पशीर्षौ यदा हस्तौ भवतः स्वस्तिक स्थितौ ॥ तिर्यक्प्रसारितांस्यौ च ज्ञेयौ सूचीमुखाविति ॥ ७६ ॥ रेचितौ चापि विज्ञेयौ हंसपक्षाङ्गुतभ्रमौ ॥ प्रसारितोतानतलौ रचितावेव सं स्थितौ ॥ ७७ ॥ चतुरस्रो भवेद्दामः सव्यहस्तश्च रेचितः ॥ विज्ञेयो नाटयसत्त्वज्ञैरेवं रेचितसंज्ञितः ॥ ७८ ॥ अञ्चितौ कूर्पराभ्यां तु त्रि पताकौ यदा करौ ॥ किञ्चित्तिर्यग्गतावन्तावावृत्तौवविपर्ययः प्रकीर्तितः ॥ ७९ ॥ मणिवन्धननिंसिक्तौ शिथिलौ पल्लवौ स्मृतौ ॥ बाहू शीर्षविनिष्क्रान्तौ नितम्बौ परिकीर्तितौ ॥ ८० ॥ अंसदेश प्रभृतौ तु परिपाश्र्वस्थितौ तथा ॥ विज्ञेयो केशबंन्धाख्यौ करावार्यार्चसम्मतो ॥ ८१ ॥ तिर्यक्प्रसा रितावेव पार्श्वसंस्यौ तथैव च ॥ लताख्यौ तु करौ ज्ञेयौ नृत्ताभिनयने प्रति ॥ ८२ ॥ सम्प्रता लताहस्तः पार्श्वोपार्श्वविलोड़ितः ॥ द्वितोयः खटकाख्यश्च करिहस्तः प्रकीर्तितः ॥ ८३ ॥ कटिशीर्षानिविष्टाग्रौ त्रिपताकौ यदा करौ ॥ पक्षावचितको वामे तदा ज्ञेयो प्रयोगवित्भिः ॥ ८४ ॥ तावेव तु परावृत्तौ पक्षावातौ कराविति ॥ अधोमुखतलाविद्धौ ज्ञेयो गरुडपक्षको ॥ ८५ ॥ तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ तौ चोर्ध्वमण्डलो ज्ञेयौ गूरुदेशविवर्तनात ॥ ८६ ॥ तावेव पार्श्वविन्यस्तौ विज्ञेयो पार्श्वमण्डलो ॥ वेष्टितावेष्टितौ हस्तौ तयोर्मण्डलको स्मृतौ ॥ ८७ ॥ तावेव मणिबन्धन्तौ स्वस्तिकाङ्कतिसंज्ञितौ ॥ स्वस्तिकाविति विख्यातौ विख्यातौ च प्रकी र्तिको ॥ ८८ ॥ द्वावेव प्रभकोशाग्रौ पद्मकोशाविति स्मृतौ ॥ करावूद्धं जिताग्रौ तु विज्ञेयावलिपल्लवौ ॥ ८९ ॥ ऊर्ध्वप्रसारितौ विद्धौ विज्ञेयावृल्ल पाणिती ॥ पक्ष्वौ तु शिरोदेशे सम्प्राप्तौ ललितान्विति ॥ ९० ॥ कूर्परस्वस्तितकव्यस्तौ ललितावलितौ स्मृतौ ॥ संयुता विवृताश्चैव नृत्तहस्ताः ॥३२२॥
१ 'कुटिलाग्राविती' इति क०, 'उद्वृत्ताग्राग्रौ' इति ख० ।
वचसां विनियोगे च माध्ये चैव प्रयोजयेत्॥४१॥ अनेनैव तथा कार्यं वर्णानां तु निरूपणम् ॥ ऊर्ध्वस्थे च नवे धूते रक्ते स्यादर्धमण्डलम् ॥४२॥
मण्डलं न भवत्येतं नीले च मुदिते भवेत् ॥ स्वभावस्थेन हस्तेन च शेषा वर्णानिथैव च ॥ ४३ ॥ मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ॥
ऊर्ध्वमान्याः प्रकीर्णाश्च भ्रमरश्च तदा भवेत् ॥ ४४ ॥ पद्मादिग्रहणे कार्यं कर्णपूरे तथाप्ययम् ॥ तर्जनीमध्यमाङ्गुष्ठा त्रेताग्निस्या निरन्तरम् ॥
॥ ४५ ॥ भवेद्भ्रमरकस्य शेषा ह्वन्याः प्रसारिताः ॥ मृणालाद्यवभग्नेि सास्वादनेषु प्रयोजयेत् ॥ ४६ ॥ तिर्यक् पिण्डीकृता यस्मिन्नग्रता च
कनिष्ठिका ॥ अङ्गुष्ठः कुञ्चितस्तन्वे हंसपक्ष इति स्मृतः ॥ ४७ ॥ गण्डसंश्रयसंनेतेन भोजनः सपरिग्रहः ॥ स्पर्श चोद्वालपार्थे कार्यं संवाहने
तथा ॥ ४८ ॥ तर्जन्यङ्गुष्ठसंदंशस्तत्समस्तस्य यदा भवेत् ॥ निसृतेनलमण्डपेऽथ सन्दंश इति स्मृतः ॥ ४९ ॥ संदंशोविविधो ज्ञेयस्वश्रो मुखज
स्तथा ॥ तथा पार्श्वस्तथैव तस्य कर्माणि मे शृणु ॥ ५० ॥ संदंशेग्रहणे कार्यः शल्योद्धारे तथायजः ॥ आलेखसारने चैव तर्जनीपीडने तथा
॥ ५१ ॥ यज्ञोपवीती पार्श्वस्थः स्थिरःसंदंशने तथा ॥ समागताम्राङ्गालको मुक्तेः पद्माकोशकेः ॥ ५२ ॥ देवाचर्चिकरणे कार्यो बलो
पदर्शनरूपेण ॥ असंयुताः करा होते यथावत्कीर्तिता मया ॥ ५३ ॥ पताकाभ्यां तु हस्ताभ्यां संम्पुटोऽञ्जलिस्च्यते ॥ देवतानां गुरूणां
च पितॄणां चेष्यते पुनः ॥ ५४ ॥ अन्योन्यपार्श्वसंश्लिष्टौ कराभ्यां स्यात्कपोतकः ॥ शीते भये च कार्योऽयं विनि
योगास्य तथा ॥ ५५ ॥ अङ्गुल्यो यस्य हस्तस्य अङ्गुष्ठ्यन्तरनिःसृताः ॥ स कर्कट इति ज्ञेयः कर्तव्यस्तु विजृम्भिते ॥ ५६ ॥ मणिबन्धन
विन्यस्तस्वास्तलौ वर्धमानकः ॥ उत्तानौ नतपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥ ५७ ॥ विस्तीर्णे सर्वतोतेन ऋतवो गगनं चनम् ॥ समुद्ग
श्चास्मिन्ज्ञेयः स्याद्विमिश्रि मजुजेष्वर ॥ ५८ ॥ खटकः खटके न्यस्य खटका वर्धमानकः ॥ शूद्रारार्थे प्रयोक्तव्यः प्रणामकरणेषु च ॥ ५९ ॥
अग्रलौ तु विपर्य्यस्तावुत्तानौ वर्धमानकौ ॥ उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे परः ॥ ६० ॥ मुक्तलं तु यदा हस्तं कपित्थं परिवेष्टयेत् ॥
स विज्ञेयस्तदा हस्तो निषेधो नाम नामतः ॥ ६१॥ संहिते चैव निहिते तथा कार्यः प्रपोदिते ॥ पताको कम्पितौ हस्तौ दोलेति परिकीर्तिता ॥
॥ ६२ ॥ ध्यानादिदाने कर्तव्यो मष्ट्यादिकरणेषु च ॥ द्वितीयपार्श्वसंश्लिष्टः पूर्वः पुष्पपुटः स्मृतः ॥ ६३ ॥ पूर्वांण चाभिनेयानि करणान्वेव
पार्थिव ॥ पताकौ तु यदा हस्तौ भूतहस्तावधोमुखौ ॥ ६४ ॥ उपर्युपरि विन्यस्तौ तदा सम्मकरः करः ॥ सिंहव्याघ्रमृगाद्यानां कर्तव्योऽधिनियोगो
भवेत् ॥६५॥ अञ्चितौ कूर्परासा तु यदा स्यात्सर्पशीर्षके ॥ गजदन्तस्तथा नाम्ना कार्यः शैलोनिवहने ॥६६॥ शुक्तुण्डौ करौ कृत्वा वक्ष्यसि
वि० ध० ॥ ३२३ ॥
पद्मोत्क्षेपे रचितक उत्सङ्गेऽथ धारणे ॥ अन्योऽकनामिला वक्रा त्रिपताका तथा भवेत् ॥ १७ ॥ आवाहने प्रयुञ्जीत मुकुटाभिनयेऽप्युत ॥
अचलाङ्गीक्षुरभ्येषु लघूपोत्खननेऽपि ॥ १८ ॥ तयोर्नासिकया कार्यं तथैवाश्रुप्रमार्जनम् ॥ मङ्गलस्पर्शनं कार्यं शिरसश्च निवेशनम् ॥ १९ ॥
श्रोत्रसंस्पर्शने चैव कार्यं मुनिसुखेन तु ॥ मुञ्जनाममभिनयं भ्रमराणां तथैव च ॥ २० ॥ त्रिपताका यदा हस्ते भवेत्पृथावलोकिनी ॥
तर्जनी तु तदा ज्ञेयः कर्तरीमुखसंज्ञकः ॥ २१ ॥ मेखले जघने चैव कुर्यान्मानेन कुण्डलम् ॥ २३ ॥ अनामिका तु साङ्गुष्ठा अर्धचन्द्रे करे भवेत् ॥ कुञ्चितास्तथा ॥
बालचन्द्राभिनये बालस्यावस्रवस्तथा ॥ मेखलां जघने चैव कुर्यान्मानेन कुण्डलम् ॥ २४ ॥ गम्यमीषत्स्रशौण्डीर्यकेशसंवेदनादिषु ॥ स्वेदस्य चापनयने रोषे चैव करो भवेत् ॥
शेषा मित्रोर्ध्ववलिता मृगलेङ्गुल्यः करे ॥ २५ ॥ वक्रितानामिलाङ्गुष्ठैः ॥ नाहन्वन्सिश्येतानेन नित्यं यामिन्यदे बुधः ॥ २६ ॥ अङ्गुल्यो यस्य
॥ २६ ॥ मृगशः शुकतुण्डश्च वक्रितानामिकाङ्गुलिः ॥ तासामुपरीताङ्गुष्ठः स शुकैरिति संज्ञितः ॥ २७ ॥ एष प्रहारे व्यायामे निर्देशस्तनपीडने ॥
हस्तस्य तलमध्येऽधःप्रसारिताः ॥ तासामुपरिताङ्गुष्ठः स शुकैरिति संज्ञितः ॥ २८ ॥ ऊर्ध्वाङ्गुष्ठोऽभव स्यात्करः शिखरसंज्ञितः ॥ एष रश्मिग्रहे कार्यश्चापाङ्कुशधनुर्ग्रहे ॥२९॥
सन्धारणोऽसिग्रहमोश्च ग्रहणे कुन्तदण्डयोः ॥ २८ ॥ ऊर्ध्वाङ्गुष्ठोऽभव स्यात्करः शिखरसंज्ञितः ॥ एष रश्मिग्रहे कार्यश्चापाङ्कुशधनुर्ग्रहे ॥२९॥
क्षुहिमध्यगतेऽङ्गुष्ठः कपित्थ इति कीर्तितः ॥ अनेनाभिनयः कार्यो मध्ये चक्रे शरे तथा ॥ ३० ॥ उत्क्षिप्तवक्रा तु यदानामिला सक्कनीयसी ॥
अस्यैव तु कपित्थस्य ततः स्यात्सूतकमुखः ॥ ३१॥ क्षेत्रे छत्रग्रहे चैव कर्षणे व्यजने तथा ॥ सङ्गमाद्रवगे कार्योह्यसङ्कोचायसङ्ग्रहः ॥३२॥
प्रसृता तर्जनी चात्र यदा सूचीमुखस्तदा ॥ निष्पादने चामिनयेदक्षरक्रमदेशयोः ॥ ३३ ॥ अस्याङ्गुल्यस्तु विपुलाः सहाङ्गुष्ठेन कुञ्चिताः ॥
ऊर्ध्वाधंसनखस्पर्शेन स भवेत्पद्मकोशकः ॥ ३४ ॥ श्लिष्टोङ्गुष्ठो निमनमध्यः पताकोहरिरंशो भवेत् ॥ सलिलस्य प्रदाने तु कार्यो तेन च सूचनम् ॥
॥ ३६ ॥ अधोमुखोनां सर्वासामङ्गुलीनां यदा भवेत् ॥ कनिष्ठाङ्गुष्ठका चोर्ध्वा तदा स्यान्मृगशीर्षकः ॥ ३६ ॥ संविते चोदिते कार्यं शय्या
स्वोत्थानेने तथा ॥ गेलोभ्रिसंस्थिता मध्या तर्जन्यङ्गुष्ठयोर्यदा ॥ ३७ ॥ काङ्गुले नामिका वक्रा तथा चोर्ध्वा कनीयसी ॥ अनेन खलु कर्तव्यं
फलानां तु निरूपणम् ॥ ३८ ॥ आवर्तिते करतले मध्यमाङ्गुल्यः करस्य वै ॥ पार्श्वनागर्तविकीर्णाश्च कोहपद्म इति स्मृतः ॥ ३९ ॥ प्रतिषेध
कृते योज्यो नास्ति शून्येपु चाप्यथ ॥ तिस्रः प्रसारिताङ्गुल्यस्तथा चोर्ध्वा कनीयसी ॥ ४० ॥ तस्या मध्याश्रितोऽङ्गुष्ठः करः स चतुरः स्मृतः ॥
तृ० खं० अ० २६ ॥३२४॥
१ 'कहे पद्म' इति ख० ।
छिद्रे क्रोधे परे हास्ये समं शेषेषु कारयेत् ॥ विवर्तनं तथा कम्पो विसर्गोऽथ विगूहनम् ॥ ६९ ॥ संदंशश्च समुद्गश्च कूर्माख्यश्चरजानि च ॥ मुक्ता सूक्तकरणं विवर्तितमिति स्मृतम् ॥ ७० ॥ वेपनं चापि विज्ञेयमधरस्य तु कम्पने ॥ यो निष्क्रमोऽधरस्याथ स विसर्ग इति स्मृतः ॥ ७१ ॥ अन्तःप्रवेशनं चैव विनिगूहितमुच्यते ॥ दन्तोष्ठपीडनाच्चैव संदंशकमिति स्मृतम् ॥ ७२ ॥ पिण्डताम्युद्गतश्चैव समुद्गक इति स्मृतः ॥ विवाततस्तथाऽन्यो रोषकम्पितमित्युच्यते ॥ भयानके विसर्गश्च कर्षणेऽथ निगूहनम् ॥ ७३ ॥ ततोन्मादादिकारेषु संदष्टं वीररौद्रयोः ॥ समुद्गमन्तकम्पायां शेषं कार्यं स्वभावजम् ॥ ७४ ॥ उपाङ्गकर्ममीहितं तथैतं मया समासेन नरेन्द्रचन्द्र ॥ कार्यः प्रयत्नेऽत्र सदा बुधेन यस्मा- दुपाङ्गाश्रयमेव नृत्यम् ॥ ७५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे उपाङ्गकवर्णनो नाम पञ्चविंशतितमोऽध्यायः ॥ २५ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ पताकस्त्रिपताकश्च तथा वैकर्तरीमुखः ॥ अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथापरः ॥ १ ॥ मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः ॥ सूच्यास्यः पद्मकोशश्च मृगशीर्षो मृगस्य च ॥ २ ॥ लाङ्गूलः कालपद्मश्च चतुरो भ्रमरस्तथा ॥ हंसास्यो हंसपक्षश्च संदंशो मुकुलस्तथा ॥ ३ ॥ असंयुताः करा ह्येते द्वाविंशतिरुदाहृताः ॥ अथ संयुक्ता हस्तान् गदतस्तन्निबोध मे ॥ ४ ॥ अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ खटको वर्धमानश्च उत्सङ्गो निषधस्तथा ॥ ५ ॥ दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च ॥ ६ ॥ एते वै संयुता हस्ता मया प्रोक्तास्त्रयोदश ॥ नृत्तहस्तांस्तथैवोक्तान् भूयो नाद्रि निबोधत ॥ ७ ॥ चतुरस्रस्तथा वृत्तस्तथा ल्पुमुखौ स्मृतौ ॥ तथा चैव तु विज्ञेयौ ह्यरालखटकामुखौ ॥ ८ ॥ आविद्धवक्षस्संयार्व्वौ रेचितावङ्गिरोचितौ ॥ अव- हित्यः पक्षविततो नितम्बः केशबन्धनौ ॥ ९ ॥ लतारख्यौ करिहस्तौ च पक्षोद्योतावधैस्थितौ ॥ ज्ञेयो गरुडपक्षौ च दण्डपक्षौ तथैव च ॥ १० ॥ ऊर्ध्वमण्डलौ चैव पार्श्वमण्डलजावपि ॥ पार्श्वमण्डलौ चैव उरोमण्डलको तथा ॥ ११ ॥ इत्यस्वस्तिकवाक्यौ तथा वै पद्मकोशिकौ ॥ अलपक्ष्व- वसंज्ञौ च तथा चोल्बणसंज्ञितौ ॥ १२ ॥ ललितौ वलितौ चैव ज्ञेया नृत्त्यकराः सदा ॥ अतः परं प्रवक्ष्यामि करणाणां कर्मलक्षणम् ॥ १३ ॥ प्रसारिताग्रा संहता यस्याङ्गुल्यो भवन्ति हि ॥ अञ्चितश्च तथाऽङ्गुष्ठः स पताक इति स्मृतः ॥ १४ ॥ एष प्रहारग्रहणे रोधने स्यात्प्रतापने ॥ चलिताङ्गुलिरप्येष वायुवीधिनिरूपणे ॥ १५ ॥ ऊर्ध्वगश्च तथोत्साहे छत्रानिड्वृव्यथेषुसः ॥ पुक्षकप्रहितस्तले समः प्रचलिताङ्गुलिः ॥ १६ ॥
१ क पुस्तके ऽयमत्र 'अविहितः' स्ततत्र ख० पुस्तके 'अवाहित्थ' इति वर्तते ।
वि० ध० ॥३२०॥
मण्डलावर्तनं मध्य पुटयोर्भ्रमणं स्मृतम् ॥ ४२ ॥ वलनं गमनं तिर्यग्वलनाच्चलितं भवेत् ॥ आभ्यन्तरत आकर्षः प्रवेशात्सम्प्रकीर्तनम् ॥ ४३ ॥ तथा चापाङ्गसञ्चाराद्वर्धितं समुदाहृतम् ॥ पातनं त्रस्तभावश्च निष्क्रमाद्भाषिकञ्च तथा ॥ ४४ ॥ ऊर्द्धतानपरागाप्तिः प्राकृतं तु स्वभावतः ॥ हास्ये तु वलनं कार्यं मदे भ्रमणमेव च ॥ ४५ ॥ वीरे रसे स्याच्चलनं बीभत्से संप्रवेशनम् ॥ विवर्तितं तु शृङ्गारे पातनं करुणे रसे ॥ ४६ ॥ भयानके निष्क्रमणं वीरे चोद्धर्तनं तथा ॥ प्राकृतं शेषभावे तु यथाद्योगं प्रयोजयेत् ॥ ४७ ॥ ससंभ्रमं साचीकृतं नतं स्यादुद्वृत्तमतः परम् ॥ आलोकितं चोल्लोकितमवलोकितमेव च ॥ ४८ ॥ साम्प्रतारं च सौम्यं च दृष्टिकर्म समं भवेत् ॥ पक्ष्मान्तसंनतारं च साचीकृतमिहोच्यते ॥ ४९ ॥ रूपनिर्वर्तनंयुक्तमनुस्रुतमिति स्मृतम् ॥ सहसा दर्शनं यत्स्यात्तदालोकितमिष्यते ॥ ५० ॥ ऊर्द्धञ्चावलोकितं ज्ञेयं सर्वतो लोकितं तथा ॥ विलोकितं तु पार्श्वभ्यां पृष्ठतश्चावलोकितम् ॥ ५१ ॥ दृष्टीनामनुगं चैव भ्रुवोः कर्म प्रयोजयेत् ॥ गत्या नेत्रे प्रसर्पद्भिर्नानाभावरसाश्रयम् ॥ ५२ ॥ नेत्रस्यालोकनेनैव भ्रुवोस्तु चलनं भवेत् ॥ उत्क्षेपः पातनं चैव भ्रुकुटीचतुरं तथा ॥ ५३ ॥ निकुञ्चितं कुञ्चितं च तथा स्वाभाविकं भवेत् ॥ भ्रुवोरुद्गमनमुत्क्षेपः पातनं पतनं भवेत् ॥ ५४ ॥ द्वयोर्मूलोर्ध्वविगमाद्भ्रुकुटी परिकीर्तिता ॥ चतुरः किञ्चिदुच्छ्वासात्कथ्यतेऽथ भ्रुवा ॥ ५५ ॥ एकस्या उभयोर्वापि स्यादुन्नभ्रं निकुञ्चितम् ॥ एकस्या ललिताभोगाद्गात्रैचितं नाम कीर्तितम् ॥ ५६ ॥ यथास्थिते स्वभावस्थे भ्रुवाः कर्म निबोध मे ॥ समुत्क्षेपस्तु लीलायाः कारुण्यात्पातनं भवेत् ॥ ५७ ॥ क्रोधे च भ्रुकुटी ज्ञेया शृङ्गारचतुरं तथा ॥ क्षामं दूरां तु विज्ञेयं फुल्ले विकसितं भवेत् ॥ ५८ ॥ सम्पूर्णं पूर्णमित्युक्तं कम्पितं परिनर्तितम् ॥ बुद्धिमितैश्चुल्लितकं सरोमाञ्चं तथाविधम् ॥ ५९ ॥ प्राकृते तु स्वभावस्थं मन्दं प्रीति मनीषिभिः ॥ क्षामं दुःखे तु कर्तव्यं फुल्ले हर्षे प्रयोजयेत् ॥ ६० ॥ पूर्णे तुष्टे तु कर्तव्यं तथा रोषे च कम्पितम् ॥ हास्ये स्यात्कुञ्चितं स्पर्शे सरोमाञ्चं विधीयते ॥ ६१ ॥ प्राकृते तु स्वभावस्थं स्वप्रयोगेन योजयेत् ॥ नता मन्दा विकृष्टा च सोच्छ्वासा कुणितानता ॥ ६२ ॥ स्वाभाविके च कर्तव्या प्रयोगे नासिका बुधैः ॥ नतानता तु विज्ञेया मन्दा नतपुटा भवेत् ॥ ६३ ॥ विचेष्टा कुञ्चिता चोर्ध्वं सोच्छ्वासा वधुरेरिता ॥ संङ्घाननात्कुणिता स्यात्स्वभावस्या स्वनासिका ॥ ६४ ॥ नता तु रुचिते कार्या मन्दा शोके विधीयते ॥ तीव्रगन्धे विकृष्टा तु सोच्छ्वासा तु तथा प्रिये ॥ ६५ ॥ विकूणिता जुगुप्सायां शेषा स्वाभाविकी मता ॥ कूणनं खण्डनं छिन्नं शुकितं समता तथा ॥ ६६ ॥ जिह्वाग्रयोद्घट्टनं च दन्तकर्मणि कारयेत् ॥ कुट्टनं मत्तवच्छेदे खण्डनं तु विवेदनम् ॥ ६७ ॥ छिन्नं निकृन्तमेव स्याच्छुकितं विद्रमं च ॥ व्यथौ तु कुट्टनं कार्यमुत्साहे खण्डनं भवेत् ॥ ६८ ॥
तृ० सं० अ० २६ ॥३२०॥
त्रस्ता विस्फारिता च या ॥ किंचिद्विभ्रान्ततारा तु विषण्णा दृष्टिरुच्यते ॥ १७ ॥ अनवस्थिततारा च शङ्किता परिकीर्तिता ॥ दृशा ललित-
तारा च प्रताम्यन्त्या समा भवेत् ॥ १८ ॥ उत्फुल्ला तु विशोकाख्या तथा च निमिषेक्षणा ॥ अनवस्थितनेत्रा च विभ्रान्ता भ्रान्ततारका ॥ १९ ॥
कुञ्चिता कुञ्चिता दृष्टिः किंचिद्विकसितातराका ॥ स्थितान्तरापुटा शून्या संशून्या समदर्शना ॥ २० ॥ प्रस्पन्दमानपद्माग्रा मुकुला मुकला मता ॥
उद्गतोर्ध्वपुटाऽधस्ता तु वितर्के स्तनयत्तारका ॥ २१ ॥ उत्फुल्ला मदिरा नाम तथा वलिततारका ॥ फुल्लितान्ता सलावण्या सस्मिता ललिता मता
॥ २२ ॥ प्रलुप्तपद्मा सा साश्रा ग्लानस्त्या मुकुलीकृता ॥ कान्ता दृष्टिः कटाक्षे तु वासने तु भयानका ॥ २३ ॥ हास्या हास्ये च विज्ञेया
करुणा करुणे रसे ॥ स्तब्धो चाद्भुता कार्या रौद्री रौद्रे विधीयते ॥ २४ ॥ वीरा वीरे च कर्तव्या बीभत्सा च जुगुप्सिते ॥ शान्ता शान्ते तु
निर्दिष्टा स्निग्धया स्निग्धयाऽवलोकने ॥ २५ ॥ दृष्टा दृष्टे तु कर्तव्या जिह्मा कार्योन्मुखास्विति ॥ क्षुब्धा क्षुद्रे तु निर्दिष्टा भीता भीते तथा भवेत्॥
॥ २६ ॥ लज्जिता लज्जितार्या स्यादृतोत्साहेगतेषु च ॥ विस्मिता विस्मये दृष्टिः सौम्या सौम्यावलोकने ॥ २७ ॥ मलिना विरहे कार्या
सम्भोगे केकरा भवेत् ॥ श्रान्ता श्रान्तस्य कर्तव्या निर्वेदे त्वभितप्तका ॥ २८ ॥ विप्लुतास्या तु दैन्ये स्याद्विषादे तु विषण्णिका ॥ शंकिते
शंकिता चैव त्रस्ते त्रस्ता विधीयते ॥ २९ ॥ ज्ञाने विशोका च तथा स्पर्शे कार्या निमीलिता ॥ विभ्रान्ता विभ्रमे कार्या कुंचिता सूक्ष्मदर्शने
॥ ३० ॥ चिन्तान्वितस्य शून्या स्यान्मुक्ता घ्राणकर्मणि ॥ वितर्के तु वितर्कास्यान्मदे तु मदिरा भवेत् ॥ ३१ ॥ क्षीणां हेतुस्तु ललिता
ग्लाने ग्लाना विधीयते ॥ उत्सवेष्वथ निष्पक्ष्म प्रसारिताविर्वर्तिते ॥ ३२ ॥ आकुञ्चितं समं चैव स्फुरितं विहतं ततः ॥ ताडितं पुटयोः कर्म नवधा
परिकीर्तितम् ॥ ३३ ॥ समागमः पुटानां यः स निमेष इति स्मृतः ॥ विश्लेषणं चैव नुस्ताभ्यां स उन्मेषः प्रकीर्तितः ॥ ३४ ॥ प्रसारितौ पुटौ
यत्र भवेत्तद्धि विवर्तितम् ॥ आकुञ्चिताभ्यां ताभ्यां तु ज्ञेयमाकुञ्चितं बुधैः ॥ ३५ ॥ स्वभावपुटसंस्थानं समं तद्धि प्रकीर्तितम् ॥ पुटौ प्रस्फुरितौ
यत्र स्फुरितं तदिहोच्यते ॥ ३६ ॥ पुटावभिहितौ यत्र पिहितं नाम तद्भवेत् ॥ ससत्त्वमूलौ पुटौ यत्र तद्धि ताडितमुच्यते ॥ ३७ ॥
गन्धस्पर्शे तथाऽनिष्टे ज्ञेयमाकुञ्चितं बुधैः ॥ विस्मयार्थे तथा वीरे तच्च कार्यं प्रसारितम् ॥ ३८ ॥ शृङ्गारे तु समं कार्यमसिघातेऽथवाऽतडि-
तम् ॥ क्षीणां प्रणयरुषेषु स्फुरितं तदिहेष्यते ॥ ३९ ॥ शीते वातोष्णवर्षेषु पिहितं कार्यमेव तु ॥ क्रोधे विवर्तितं कार्यं निमेषोन्मेषयोः समम् ॥
॥ ४० ॥ वलनं भ्रमणं चैव चलनं संप्रणाशनम् ॥ विवर्तितं पाटनं तु विज्ञेयं विस्तृतं तथा ॥ ४१ ॥ उद्वृत्तः प्राकृतं चैव तारकाकर्म चोच्यते ॥
वि० ध० ॥२१९॥ तृ० खं० अ० २६
स्वभावाभिनयाश्रयः ॥ उत्सिक्ता तु भवेत्तूष्णीं पादेऽन्यतलसंचरे ॥ ५९ ॥ निर्ललितोरंचिते भ्रान्ते पदे नृत्सादितो भवेत् ॥ ललितश्चायम् व स्यात्पादो रेचितसंज्ञितः ॥ ६० ॥ एष प्रदानसंचारे ललितोद्धरितो भवेत् ॥ उत्थिताग्रतलः पादः कथितस्तु तथाञ्चितः ॥ ६१ ॥ नानामभ्रमणकालेषु कार्यः पादोऽग्रसंस्थितः ॥ ६२ ॥ पादः कुञ्चितमध्योऽयं भवेत्कुञ्चितसंज्ञितः ॥ ६३ ॥ अतिक्रान्ताभिगमने पादमन्त्रप्रयोजयेत् ॥ एकपादप्रचारो यः स चारित्येव संज्ञितः ॥ ६३ ॥ द्विपादक्रमणं यत्र करणं नाम तद्भवेत् ॥ करणानां समायोगः खण्ड इत्यभिधीयते ॥ ६४ ॥ द्वाभ्यां त्रिभिर्वा यदि वा चतुर्भिर्मण्डलं भवेत् ॥ भवेन्मण्डलमेव नाम्ना ॥ इत्युक्तमार्मिहितं ब्रवीमि निबोध राजंस्त्वथपादकर्म ॥ ६५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अङ्गवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥ ॥ छ ॥ ॥ छ् ॥ मार्कण्डेय उवाच ॥ शान्ता भयानका हास्या करुणा दृढता तथा ॥ रौद्रा वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥ १ ॥ स्निग्धा हृष्टा च जिह्मा च क्रुद्धा भीता च लज्जिता ॥ तृप्ताथ विस्मिता सौम्या स्थायिभावेषु दृष्टयः ॥ २ ॥ मलिना केकरा श्रान्ता चाभितप्ता विह्वला ॥ ॥ ३ ॥ विषण्णा शङ्किता चैव त्रस्ता शोका निमीलिता ॥ विभ्रान्ता कुञ्चिता शून्या मुकला च वितर्किता ॥ मदिरा ललिता धूता इत्येवं दृष्टिसंग्रहः ॥ ४ ॥ षड्विंशद्दृष्टयो ह्येता नामतोऽभिहिता मया ॥ संक्षेपसङ्कटाशा तु कान्ता ज्ञेया समक्षसी ॥ ५ ॥ उद्वृत्तपुष्पपक्ष्माभा चलास्रा भयानका ॥ ६ ॥ किञ्चिदकुञ्चितपुटा हास्यस्निग्धान्ततारका ॥ ६ ॥ पतितोर्ध्वपुटा सास्त्रा करुणा नष्टतारका ॥ किञ्चित्कुञ्चितपक्ष्मोग्रा चक्षुरावृत्ततारका ॥ ७ ॥ समा विकसिता चैव साद्भुता दृष्टिरिष्यते ॥ उद्धता कथिता रौद्रा भुकुटी कुटिला तथा ॥ ८ ॥ उत्फुल्लपक्ष्मणा वीरा तु कथिता समतारका ॥ बीभत्सा कथिता दृष्टिरपाङ्गाहिततारका ॥ ९ ॥ व्यक्तादन्निमिषा शान्ता ह्यधोमार्गविलो- किणी ॥ व्यक्तेकोशमध्यमा मधुरा स्निग्धया प्रहसिता मता ॥ १० ॥ उत्फुल्लपक्ष्मा प्रचला हृष्टा पर्यन्तलोकिणी ॥ जिह्मायोनततारा चः गूढा मग्ना निरीक्षिणी ॥ ११ ॥ भुकुटीकुटिला क्रुद्धा तथा निश्चलतारका ॥ आकुञ्चिता लज्जिता स्यात्तथा निश्चलतारका ॥ १२ ॥ सत्वसम्निद्रितोपेष्टा दृप्ता विकसिता भवेत् ॥ समा विकसितोपाङ्गा विस्मिता सा निगद्यते ॥ १३ ॥ समा सौम्या विनिर्दिष्टा तथा च समता- रका ॥ आकुञ्चितपुटा भीता दृश्या व्यावृततारका ॥ १४ ॥ पुटौ प्रसृतिंतौ यस्या मलिना सा निगद्यते ॥ आकुञ्चितपुटा या तु दृष्टिरकेकरा भवेत् ॥ १५ ॥ किञ्चिदुन्नामितपुटा शान्ता सा तु विधीयते ॥ अभितप्ता तथा मन्दा मन्दतारपुटा तु या ॥ १६ ॥ विप्लुताविह्वला प्रोक्ता
॥३१९॥
सुनिस्सृते पार्श्वे तद्दिनतं भवेत् ॥ ३२ ॥ प्रसारणादुभयतः पार्श्वयोः स्यात्प्रसारितम् ॥ परिवर्तनान्निवृत्तस्यापि विवर्तितमिहेष्यते ॥ ३३ ॥ अस्य चैवोपमानञ्चोद्देष्टव्यंसुतैः पुनः ॥ नतं त्यपसृते कार्यं चोन्नतं तृपसर्पिते ॥ ३४ ॥ प्रसारिते प्रहर्षार्थो त्रासे चापसृते पुनः ॥ विवर्तिते विवृत्तं च कारणं पार्श्वयोरुच्यते ॥ ३५ ॥ क्षामं नतं च पूर्णं च संप्रेक्षितमुदरं त्रिधा ॥ क्षामं तु हसिते कार्यं तथा चैव विजृम्भिते ॥ ३६ ॥ व्यायिते तपसि श्रान्ते क्षुधार्ते निन्ममेव च ॥ पूर्णं निःश्वसिते चैव द्वाऽरोग्ये ललिते तथा ॥ ३७ ॥ प्रकम्पिता च च्छिन्ना च निवृत्ता रेचिता तथा ॥ उद्वाहिता चैव कटिर्नृत्ते पञ्चविधा स्मृता ॥ ३८ ॥ तिर्यग्गता गता क्षिप्तं विज्ञेया प्रप्रकम्पिता ॥ मध्यस्थवलनाच्चैव च्छिन्ना संपरिकीर्तिता ॥ ३९ ॥ परावृत्तस्वस्तिकासौ निवृत्ता परिकीर्तिता ॥ सर्वतोभ्रमणाच्चैव रेचितेत्यभिधीयते ॥ ४० ॥ निश्चेष्टाद्रोदनाच्चैव तथोद्वाहिता मता ॥ नीच वामनकुब्जानां गतौ कार्या प्रकम्पिता ॥ ४१ ॥ व्यायामे त्वथ संभ्रांते व्यावृत्तिक्षेपितेषु च ॥ छिन्ना कार्या कटिस्तज्ज्ञैर्निर्वृत्ता यतितेषु च ॥ ४२ ॥ गेयिता रेचिते कार्या अन्या लीलागते क्रिया ॥ कम्पनं वलनं चैव स्तम्भनोद्वेष्टने तथा ॥४३॥ विवर्तनं च पञ्चैव ऊर्वोः कर्माणि निर्दिशेत् ॥ नमसन्नोन्नमने परन्तयमोद्घृष्टुद्घृष्टे युदा ॥ ४४ ॥ स्थिता पादतलेग्रेण कंपितं तत्प्रदिष्यते ॥ गच्छेद्द्ह्यन्तरं जानु शनैर्षादोलितं तु तत् ॥ ४५ ॥ स्तम्भनं चापि विज्ञेयमधृतक्रियांकुलम् ॥ वलिताविद्धभावे स्यादुद्वेष्टनंतथापि च ॥ ४६ ॥ पार्णिभ्याभ्यन्तरं गच्छेद्यूत्र तन्निवर्तितम् ॥ गतिक्लमभ्रसत्राणां कम्पितं संप्रयोजयेत् ॥ ४७ ॥ वलनं चैव कर्तव्यं स्त्रीणां स्वैरपरिक्रमे ॥ भीमोर्ध्वसाविषादेषु स्तम्भनं संप्रयोजयेत् ॥ ४८ ॥ व्यायामे ताण्डवे चैव कार्यमुद्वेष्टनं तथा ॥ विवर्तनं च कर्तव्यं संक्रामादिपरिक्रमे ॥ ४९ ॥ आवर्तितं नतं क्षिप्तं चोद्वाहितमथापि च ॥ परिवृत्तं तथा पञ्च जङ्घाकर्माणि निर्दिशेत् ॥ ५० ॥ आवर्तितं तु विज्ञेयमासादमदशिगज्जङ्घयोः ॥ जान्वोरङ्गुष्ठयोर्नैच नतं ज्ञेयं प्रयोक्तृभिः॥५१॥ विक्षेपाद्भव जङ्घाभ्याः क्षिप्तमित्यभिधीयते ॥ उद्वाहिते तु विज्ञेयंमृद्धद्धासनगतादिषु ॥ ५२ ॥ प्रतीपनयनं यत्र परिवृत्तं तदिष्यते ॥ उद्वर्त्तने प्रयोक्तव्यं विद्भिःकपरिक्रमे ॥ ५३ ॥ नतं चापि हि कर्तव्यं स्थानासनासन्गतादिषु ॥ क्षिप्तं व्यायामयोगेषु ताण्डवेषु प्रयोजयेत् ॥ ५४ ॥ तथा चोद्वाहितं कार्यमाविद्धगमनादिषु ॥ ताण्डवादौ प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः ॥ ५५ ॥ उद्घटितसमश्चैव ................ संचरः ॥ अञ्चितः कुञ्चितश्चैव पादः पञ्चविधः स्मृतः ॥ ५६ ॥ स्थिनत्वा पादतलेग्रेण पाणिंभूमौ निपातयते ॥ यस्य पादस्य करणत्स तद्घटित उच्यते ॥ ॥ ५७ ॥ कार्योऽङ्गुरस्करकरणे ( चैव ) प्रचारे ललिते तथा ॥ ( स्वभावसंस्थितो भूमौ समस्थानः समः स्मृतः ॥ ५८ ॥ एष कार्यः सदा पादः
५४
वि० ध० ॥३१८॥
तृ० खंड अ० २४ ॥३१८॥
हितम् ॥ ६॥ साधने विस्मये दर्पे लीलार्यां च तदिष्यते ॥ सकृदुद्वाहितं चोर्ध्वं तदुद्वाहितमुच्यते ॥६॥ उच्चाङ्गे दर्शने गवें तथैवोर्ध्वनिरीक्षणे ॥ आधूतं संहृतं स्याद्वक्त्रसंयोगात्तथा ॥७॥ सन्देहेऽलापसंज्ञासु तथाचा वाहनादिषु ॥ किञ्चित्पार्श्वगतंशीर्षं रितो विज्ञेयमध्यिभः ॥ ८ ॥ मूर्च्छिते व्यथिते चैव संक्षिप्ते दुःस्थिते मदे ॥ (उल्लिसद्बाहोरुत्सङ्गस्तथाचिताशिरोऽथवा ॥ ९॥ निकुञ्चितं च तद्वेवं विलासे च प्रयोजयेत् ॥ पराग्वृत्तमधोवक्त्रं कार्यं धुतेनविशिषा ॥ १० ॥ ) उत्क्षिप्तं चापि विज्ञेयमुल्लासवलितं स्थिरः ॥ आधु दिव्यप्रयोगे च कार्यं तच्च प्रयोजकम् ॥ क्तृभिः ॥ ११ ॥ अधोमुखमूर्ध्वस्थं चापि बुधैः प्रादुरधोगतम् ॥ लज्ञायां च प्रमाणे च दुःखे तच्च प्रयोजयेत् ॥ १२ ॥ सर्वतो लोलनाच्चैव परिलोलितमुच्यते ॥ व्याधिते मूर्च्छिते मते मवेत्तु परिलोलितम् ॥ १३ ॥ एतत्तु शिरसः कर्म कथितं ते नराधिप ॥ अञ्चितं रेचितं मुक्तं विवृतं चतुरं तथा ॥ १४ ॥ प्रसारितं तथा स्तब्धं ग्रीवाकर्माणि निर्दिशेत् ॥ अञ्चितं किञ्चिदेकांशं लोलनादाञ्चितं तु तत् ॥ १५ ॥ रेचितं भ्रमणान्मुक्तं विवृते चलितं च तत् ॥ मयूरं चतुरं प्रोक्तमन्तर्भ स्यात्प्रसारितम् ॥ १६ ॥ स्तब्धं स्तब्धं तथा प्रोक्तं शिरःकर्म्मानुगानि च ॥ अञ्चितं स्याद्वि- लासाङ्गौ रेचितं मण्डलेक्षणे ॥ १७ ॥ मुक्ते मूर्च्छादिदोषेषु विवृतं ललितादिषु ॥ सौम्यभावे तु चतुरं दृष्टौ कार्यं प्रसारितम् ॥ १८ ॥ स्तब्धं शैत्येऽथ वा व्याधावविकारि स्वभावतः ॥ विवृद्धं विनिगूढं च निर्भुग्नं सुष्ठुमेव च ॥ १९ ॥ विवृतं च तथोर्ध्वकर्मण्यस्य विनिर्दिशेत् ॥ व्यासङ्गे स्याद्विवृद्धान्तु निवृत्तं पिहिते भवेत् ॥२०॥ अवाहमुखसम्बाधसुभ्रु निर्भुग्न चोर्ध्वगं तु तत् ॥ सुष्ठं स्यादाननं किञ्चिन्निवृतं विवृतं भवेत्॥ ॥२१॥उत्कृष्टवाचसाम्भर्त्सणे च तयोः कर्माणि लक्षते ॥ विरुद्धकरणे कार्यं मेषविस्त्वमथाङ्गिनाम्॥२२॥ विनिघ्नतमधुस्यान्मीर्षाव्याधिक्रोपकेषु च ॥ विवृत्तं चापि विज्ञेयं गम्भीरालोकिनामिदु ॥ २३ ॥ सुष्ठं तु लज्जिते योज्यं यतीनां तु स्वभावतः ॥ निभृतं वापि कर्तव्यं हास्यशोकभयादिषु ॥ २४ ॥ ऋजुसम्भावसंस्याने कर्तव्यं यदुनन्दन ॥ आधुमध्यम निर्भुग्नं तथा चैव प्रकम्पितम् ॥ २५ ॥ उद्वाहितं समं चैव पञ्चरोषः प्रकीर्तितम् ॥ चायेते यच्च निर्भुग्नं तदा सुष्ठं प्रकीर्तितम् ॥ २६ ॥ शास्त्रदृष्टो विघाते च हृदोगे च तदिष्यते ॥ स्तब्धं च निष्प्रष्टं च निर्भुग्नं नाम तत्स्मृतम् ॥ २७ ॥ स्तम्भे सविस्मये माने विषादे च तथेष्यते ॥ उत्स्रस्तूर्ध्वविक्षेपः प्रकम्पितमहोच्यते ॥ २८ ॥ हसिते रोदिते कार्यं श्रमे व्याधिवये तथा ॥ उद्वाहितं यदूर्ध्वं तु तदुद्वाहितमुच्यते ॥ २९ ॥ ऊर्ध्वं निगमिते कार्यं जुम्भितेषु प्रयोगतः ॥ चतुरस्रं समं नाम विज्ञेयं सौष्ठवे तत् ॥ ३० ॥ समुन्नतं नतं चैव प्रभान्निरितिवर्ण्यते ॥ तयोस्तुसमुन्नते हि पार्श्वयोः कर्म पश्यथा ॥ ३१ ॥ कतिपायैर्वसुंभांसान्नैवेहस्तेः स्यात्तत्समुन्नतम ॥ कटी यत्र
स्थानां त्रत्स्थानां स्थानमेतत्प्रयोजयेत् ॥ द्वौ तालौवर्धतालं च पदयोरंतरं भवेत् ॥ ६ ॥ अञ्चिते यत्र जंघे तु पदौ पक्षस्थितौ तथा ॥ वैशाखं नाम तत्स्थानं स्कन्दश्चैवात्र देवता ॥ ७ ॥ स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ॥ व्यायामो निर्गमश्चैव प्रवेशो धनुषस्तथा ॥ ८ ॥ अतः परं मण्डलं स्याच्चतुरस्त्रांतरन्तथा च ॥ कटी जानुसमा यत्र पादौ पक्षस्थितौ यथा ॥ ९ ॥ धनुश्चक्रग्रहणं मण्डलेन प्रयोजयेत् ॥ वाहनं कुञ्जराणां तु नृत्ते चोड्डडनक्रिया ॥ १०॥ आदौ च दक्षिणं पादं पश्चात्तालं प्रसारयेत् ॥ आलीढं नाम तत्स्थानं रुद्रश्चात्रत्य दैवतम् ॥११॥ अनेन कार्यं स्थानेन सर्वैरौद्रगणक्रिया ॥ रौद्रपाश्चरस्तु संग्रामस्य निरूपणम् ॥ १२ ॥ सिंहयोर्भिन्नयं चैव संस्फोटै शत्रुणां च निरूपणे ॥ खड्गयुद्धे नियुद्धे च मण्डलश्रमणे तथा ॥ १३ ॥ उत्तरोत्तरसञ्जल्पे रोषामर्षसमुद्भवे ॥ मल्हानां चैव संस्फोटै शत्रूणां च निरूपणे ॥ १४ ॥ तथासिप्लवणं चैव शस्त्राणां च विमोक्षणम् ॥ अञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ॥ १५ ॥ आलीढं परिवर्तन्ते प्रत्यालीढमिति स्मृतम् ॥ प्रत्यालीढं तु विज्ञेयं स्थानं च नवदैवतम् ॥ १६ ॥ आलीढेनोदितं शस्त्रं प्रत्यालीढं न मोचयेत् ॥ अतः परं प्रवक्ष्यामि स्त्रीणां स्थानत्रयं तुप ॥ १७ ॥ आयतं चावहित्थं च ह्यक्रान्तमथवापि च ॥ एकंश्वाश्रुद्रुतौ यत्र पादौ विरचितः समः ॥ १८ ॥ तालमात्रान्तरन्यस्तः त्र्यश्रः पक्षगतोऽपरः ॥ प्रसन्नासन्ननञ्चुरः समं यत्र समुन्नितम् ॥ १९ ॥ कृतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् ॥ रङ्गावतरणे ह्येतत्तथा पुष्पाञ्जलौ भवेत् ॥ २० ॥ पादौ विरचितस्य ( अ ) स्तस्तद्व्यपेक्षतः समः ॥ पादस्ततालान्तरन्यस्तस्त्विहिकर्मीप्सुसम्भ्रतव ॥ २१ ॥ अवहित्थं समाख्यातं स्थानमेतद्द्विजोत्तम ॥ विलासलीलालावण्यशृङ्गारात्मनिरूपणे ॥ २२ ॥ स्थानमेतत्प्रयोक्तव्यं वरमार्गावलोकने ॥ समास्थितौ यत्र पादस्वन्यः पादस्त्कलोत्थितः ॥ २३ ॥ तालेननियतश्चैव स्थानको हि विधीयते ॥ सूचीविद्धमपिह्वेदं वा तद्श्वक्रान्तमिष्यते ॥ २४ ॥ शाखावलम्बनस्तबकौ खद्ये च विष्वृनेत्रासनसम्पृक्लापे ॥ स्वभावसंलापविधौ च कार्यं स्थानं त्विदं गाढवशंवशुस्य ॥ २५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० ब० सं० जयितादिस्थानककथनो नाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥ मार्कण्डेय उवाच ॥ शिरसः प्रथमं कर्म गदतो . मे निबोध तत् ॥ स्वभावदृष्टुनोन्मिषेरेषणाक्रिस्यकं संकृत ॥ १ ॥ संज्ञोपदेशपृच्छासु स्वभावावमणे भवेत् ॥ बहुशः कथितं यत्र तदा कंपितमिष्यते ॥ २ ॥ (रोपतर्जनतकेंषु प्रतिज्ञासु च दृश्यते ॥ शिरसो रेचनं यत्तु शनैस्तुतमुच्यते ॥ ३ ॥ विषादे विस्मये चैव प्रतिषेधे तदिष्यते ॥ विधूतं नामतः प्रोक्तं तथा पार्श्वविकम्पनैः ॥ ४ ॥ शीतग्रस्ते ज्वरातें च मते च ज्वरीते भवेत् ॥ मण्डला भ्रमणं चैव भवेत् परिग
देयं स्थानमेतत्तयोर्मतम् ॥ चिबुकाश्रितौ हस्तौ बाहूरोणीचितं शिरः ॥ ५ ॥ सर्वाभिनयने चैव विज्ञेयं श्रानननाशनम् ॥ बलिना निगृहीतस्य रिपुणा खण्डितस्य च ॥ ६ ॥ शोक्लान्तस्य च तथा स्थानमेतद्विनिर्दिशेत् ॥ अधो हस्तौ विमुक्तं च शरीरमलसं तथा ॥ ७ ॥ नेत्रालसं तथा चक्षुर्वक्त्रं स्वस्थालसं तु तत् ॥ श्रमग्लानौ मदे चैव मूर्च्छायां व्यथिते तथा ॥ ८ ॥ मोहे प्राणभये चैव स्थानमेतद्योजयेत् ॥ विष्टकुम्भिवाञ्चितौ पादौ कुरु विष्कुम्भितौ भुजौ ॥ ९ ॥ निमीलिते तथा चक्षुः स्थाने विष्कुम्भिते सति ॥ स्ववशोगतया दृष्ट्या योगे ध्याने विधीयते ॥ १० ॥ पित्र्ये समाधौ जप्थे च होमादिकरणेषु च ॥ १२ ॥ एतस्थानं विधातव्यं यथागमनकर्मणि ॥ एकं जानु भूतस्तलं चैव ज्ञेयं मुकुटवासनम् ॥ १३ ॥ ज्ञातव्यं भूमिपश्चैव ! सुरेणाजुकमासनम् ॥ एतद्भूतव्यलीकानां प्रियाणां सम्प्रसादने ॥ १४ ॥ मञ्जने कुटिलाग्रोपृ विधीयते ॥ १५ ॥ महीगताभ्यां जानुभ्यां स्थानं जानुगतं भवेत् ॥ १६ ॥ राज्ञां विज्ञापने कार्ये सुराणां चैव पूजने ॥ भूमौ यदूध्वं पतनं तद्विसुक्तमिति स्मृतम् ॥ १६ ॥ प्रहारतः प्रयोक्तव्यसादेशे क्रन्दने तथा ॥ भद्रासनं तु देवानां राज्ञां सिंहासनं भवेत् ॥ १७ ॥ कृप्यासनं तु दातव्यं सांवत्सधपुरोधसोः ॥ वेत्रासनमथामात्यानां मन्त्रिणां तु तथा भवेत् ॥ १८ ॥ मन्दासनं तु दातव्यं सेनानीयुवराजयोः ॥ मुनीनां च द्विजानां च तथा मूलफलाश्रिणाम् ॥ १९ ॥ वृषी देया महाराज ये चान्ये नियमे स्थिताः ॥ स्थानीययाः पुरुषा ये च मुख्याः पौराश्च ये तथा ॥ २० ॥ वणिजश्च तथा मुख्यास्तेषां भवति पीठिका ॥ वेश्यानां कुमाराणां तथा भृत्यजनस्य च ॥ २१ ॥ मसूरकं तु दातव्यं शेषे भूम्यासनं भवेत् ॥ सिंहासनं विना राजन्गृहे स्वच्छन्दमासनम् ॥ २२ ॥ नैकासनं स्याद्रूपा तु राजन्रथे गजे वापि शिलातले च ॥ नैकासने स्याद्रूपेण तु दोषोऽय वाणिदिने फलके च नित्यम् ॥ २३ ॥
॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आसनवर्णनो नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥
॥ मार्कण्डेय उवाच ॥ ॥ वैष्णवं सम्पादं च वैशाखं मण्डलं तथा ॥ १ ॥ प्रत्यालीढं मथ्रालीढं पद् पुंसां स्थानकानि तु ॥ १ ॥ स्वभावसंस्थितः पादश्चतुर्हस्तः पलागतोऽपरः ॥ किञ्चिदञ्चितजङ्घश्च वैष्णवं स्थानमुच्यते ॥ २ ॥ स्थानेनानेन कर्तव्यः संलापस्तु स्वभावतः ॥ सम्पादं तु विज्ञेयं समस्तालन्तरैः पदैः ॥ ३ ॥ स्वस्वभासोष्ठवोपेतं रुद्राक्षादिदैवतम् ॥ अनेन कार्यं स्थानेन विप्रमण्डल्करणम् ॥ ४ ॥ बलानां पक्षिणां चैव वरोत्कौतुकमेव च ॥ स्वस्थानं न्यन्द्नस्थानां विमानस्यायिनामपि ॥ ५ ॥ लिङ्गि
...ञ्चितं चोलुपदं च हरिणप्लुतमेव च ॥ ५३ ॥ प्रेङ्खोलितं नितम्बं च स्खलितं परिकस्तकम् ॥ ५२ ॥ असर्पिततलं चैव सिंहविक्रीडितं तथा ॥ ५४ ॥ क्रीडितं चैव गङ्गावतरणं तथा ॥ ५५ ॥ अयोपसंहृतं चैव करणानां प्रकीर्तितम् ॥ सुकुमारं तथा विद्धं नृत्तं द्विविधमुच्यते ॥ ५४ ॥ उद्धतं पुरुषप्रायं सौम्यं सुकुमारकम् ॥ देशैश्चिह्नैस्तथाकारा पिण्डी भवति पार्थिव ॥ ५६ ॥ भारती सात्वती चैव कौशिकीत्यारभटी तथा ॥ चतस्रो वृत्तयः प्रोक्ता वाग्विधाना तु भारती ॥ ५६ ॥ तस्या वीरसप्राया विज्ञेया सात्वती नृप ॥ तथा रौद्ररसप्राया च भवत्यारभटी सदा ॥ ५७ ॥ शृङ्गारबहुला तथा संवृति कौशिकी ॥ आवन्ती दाक्षिणात्या च तथा चैवात्र मागधी ॥ ५८ ॥ पञ्चाली मध्यमा चेति वृत्तिः सा तु चतु- र्विधा ॥ देशभाषाऽनुरूपं तथानाचारप्रवर्तनम् ॥ ५९ ॥ प्रवृत्तिरिति विख्याता वृत्तीनामाश्रयास्तु ताः ॥ नाट्यलोकप्रवृत्त्या च द्विधर्मश्च द्विविधा मता ॥ ६० ॥ सिद्धिञ्च द्विविधा नाट्ये दैविकी मानुषी तथा ॥ व्यायामान्न्यादृशी तत्र दैवी देवप्रसादजा ॥ ६१ ॥ रसेन भावेन समन्वितं च तालाङ्गं काव्यरूपसमुद्भवम् ॥ गीतानुरूपं वृत्तवृत्तिं चन्दं सुखप्रदं धर्मविवर्धनं च ॥ ६२ ॥ ॥ इति श्रीविष्णुध- र्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्याभिनयो नाम विशोध्यायः ॥ २० ॥ ॥ छ ॥ ॥ छ ॥ मार्कण्डेय उवाच ॥ सप्तत्रिंशत्कथं चैव प्रचारानिलविद्यतिते ॥ उदाहृतं ततं षोढा शय्यास्थानानि निर्दिशेत् ॥ १ ॥ उत्तानितं सुखं चैव सावत्सुककरं तथा ॥ समं वासकसंस्थस्य स्थानकं तु विधीयते ॥ २ ॥ स वैराङ्गिकिशिरोजैः शय्याविदे च जातुनी ॥ स्थानमाकुञ्चितं नाम गीतालनां प्रयोजयेत् ॥ ३ ॥ एकं भुजं समाधाय संप्रसारितजानुकम् ॥ स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥ ४ ॥ अधोमुखे स्थितं चैव विवलितमिति स्मृतम् ॥ शक्तेि सूते विषदं मत्तोन्मत्तेषु तद्भवेत् ॥ ५ ॥ अंशोपरि शिरः कृत्वा कुञ्चितोर्धमुखमिव च ॥ उदाहृतं तु विज्ञेयं लीलयाः शंसने प्रभो ॥ ६ ॥ तस्या यदुक्तममृतं तु जंध स्तस्तो करो तं नतमुद्रिशन्ति ॥ आलस्यखेदश्रममोहितेषु कार्येस्तु तस्याभिनयप्रयोगः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे शय्यासनस्थानवर्णनो नामैकत्रिंशतितमोऽध्यायः ॥ २१ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ स्वस्थ्यमन्द- लसक्रान्तं प्रस्थालसमथायि च ॥ विष्कुम्भितं तत्कटुकं मुक्तजानु तथा समम् ॥ १ ॥ जानुगतं विमुक्तं च स्थानकान्युपवेशने ॥ विष्कम्भितास्थितौ पादौ वक्षः किञ्चित्समुन्नतम ॥ २ ॥ हस्तौ कट्यूकविन्यस्तौ स्वस्थौ स्वस्थोपवेशने ॥ एकः प्रसारितः पादस्त्वन्य- श्चैवासनमाश्रितः ॥ ३ ॥ पार्श्व नतं तथा कार्यं स्थानं मण्डलकं तु तत् ॥ चिन्तायां तु तथौत्सुक्ये निर्वेदे विमदे तथा ॥ ४ ॥ विषदेषु सदा
वि० ध० ॥३७॥
नृ० सं० अ० २० ॥३१॥
पार्थिव ॥ भ्रमरस्यात्कन्दिते स्यातां मर्दवं च ततः परम् ॥ २६ ॥ समा संनतिमित्याहुरेवंकारेणकीर्तिते यथा ॥ अङ्गैस्तं शकटान्वं च तथाहंयासिनी स्मृतम् ॥ २७ ॥ विष्टुकुञ्जं च विज्ञेयं तथा चापगतं पुनः ॥ अथाङ्गहारान्वक्ष्यामि नामतस्तान्निबोध मे ॥ २८ ॥ स्थिरहस्तोऽङ्गीहारस्तु तथैवा क्षिप्तकः स्मृतः ॥ उद्घाटितस्तृतीयः स्यात्तथा चान्योऽपवाहितः ॥ २९ ॥ मत्ताक्रीडोऽथ विष्कम्भः तथा स्वस्तिकरेचितः ॥ वृश्चिकापसृतश्चैव तलमन्दा न सर्पितः ॥ ३० ॥ मत्तल्लीस्खलितश्चैव भ्रमरः पार्श्वस्वस्तिकः ॥ मदोद्विलसितश्चैव विष्टितो गतिमण्डलः ॥ ३१ ॥ वैशारखरेचितश्चैव पार्श्वदण्डसमन्वितः ॥ ३२ ॥ आक्षिप्तो रेचितश्चैव संम्योऽथ कतितस्तथा ॥ सूचीविद्धोऽपविद्धश्च विलापोव विद्युद्भ्रान्तः परावृत्तः पार्श्वक्रान्तो संप्रोक्ता ह्यङ्गहारा यूदस्रम् ॥ एतेषां संप्रवक्ष्यामि कारणानि यथाक्रमम् ॥ हस्तपाद प्रचारश्च यथा योजनः प्रयोक्तृभिः ॥ ३६ ॥ सर्वेषामङ्गहाराणां निष्पत्तिः कारणं भवेत् ॥ तान्यहं संप्रवक्ष्यामि नामभिः कर्मभिस्तथा ॥ ३६ ॥ हस्तपादसमायुक्तो नृत्तस्य करणं भवेत् ॥ द्वे नृत्तकरणे चैव भवेतां नृप मातृका ॥ ३७ ॥ त्रिभिः कलापकश्चैव चतुर्भिः खण्डकः स्मृतः ॥ पञ्चैव करणानि स्युः संघात इति स्मृतः ॥ ३८ ॥ षड्भिस्तु संस्तितिविद्धि अष्टभिर्निर्मलस्तथा ॥ करणैर्हि संयुक्ता अङ्गहारा इति स्मृताः ॥ ३९ ॥ एतेषां चैव वक्ष्यामि नामान्यहमसत्तमः परम् ॥ तल्पुष्पाणिबद्धे द्वे लीनस्वस्तिकरेचितम् ॥ ४० ॥ मण्डले स्वस्तिकं चैव ऊरु वृत्ते निकुञ्चकम् ॥ सूचीविद्धं कटिच्छिन्नंमर्धरेचितमेव च ॥ ४१ ॥ वक्षः स्वस्तिकसूतपत्रे स्वस्तिकं पृष्ठगं पुनः ॥ दिक्स्वस्तिकमलताख्यञ्च घंस्नोकीटीसमम॥४२॥आक्षिप्तरेचितं क्षिप्तमंचस्वलितकसंज्ञितम् ॥ भुजङ्गासितं चैव ऊर्ध्वजानु निकुञ्चितम्॥४३॥मत्तल्लीस्रग्वंसतस्तथाऽप्येकनिशि कूपकञ्च ॥ पराविद्धं तद्विद्धान्तं वलितं घूर्णितं तथा ॥४४॥ ललितं दण्डपक्षं च भुजङ्गत्रस्तरचितम्॥ नूपुरं रेचितं चैव भ्रमरं चतुरं तथा॥४५॥ भुजङ्गाभिसमन्वयस्याच्छिन्नं वृश्चिकरेचितम् ॥ लतावृश्चिकमन्यत्स्याच्छिन्नं वृश्चिकरोचितम् ॥४६॥ वृश्चिकं व्यंसितं चैव सूचीविद्धकमेव च ॥ ललाटतिलकं चैव कुण्डलं चक्रसण्डलम् ॥४७॥ तरोमण्डलमाक्षिप्तं लतातालसितमार्गसम् ॥ विक्षिप्तं भ्रमितं चैव विलासं वानरष्टमम्॥४८॥परिवृत्तं निवृत्तं च पार्श्वक्रान्तं निकुञ्चितम् ॥ अतिक्रान्तममक्रान्तं दोलापादविवर्जितम् ॥४९॥ नागप्रक्रीडितं चैव विहृतं गरुडप्लुतम् ॥ गण्डसूची परिवृत्तं पार्श्वजानुकमेव च ॥ ५० ॥ गृहावलोकितं लीनं विष्णुकान्तमजप्लुतम् ॥ आक्रान्तं मण्डितं चैव मयूरललितं नसम् ॥ ५१ ॥ स