सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 974, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 974
वि० ध०
॥४६॥

तृ० खं०
अ० ३४१

दानेन प्रियामाप्नोत्यनुत्तमाम् ॥ १४२ ॥ शैवालानप्रदानेन¹ वर्णं शुभमवाप्नुयात् ॥ १४३ ॥ कालीयकप्रदानेन परां निर्वृतिमाप्नुयात् ॥ दोपूरकप्रदानेन
सर्वानग्नीन्व्यपोहति ॥ १४४ ॥ तथा वर्णकदानेन सर्वमेव शुभं वदेत् ॥ तगरस्नानदानेन सौभाग्यमधिगच्छति ॥ १४५ ॥ प्रियत्वमाप्नुया-
ल्लोके प्रियङ्गुस्नानदो नरः ॥ सदा भवति सिद्धार्थः सिद्धार्थकस्नानदस्तथा ॥ १४६ ॥ सर्वौषधिप्रदानेन वाजिमेधफलं लभेत् ॥ स्नानार्थं देवदेवस्य
यस्तु गन्धान्प्रयच्छति ॥ १४७ ॥ भवन्ति वशगास्तस्य नार्यः सर्वत्र सर्वदा ॥ दत्त्वा जातीफलं मुख्यं सफलं विन्दते श्रियम् ॥ १४८ ॥
शमीपत्रप्रदानेन सौभाग्यमधिगच्छति ॥ त्वक्प्रदानात्तथा लोके भवतीह बलान्वितः ॥ १४९ ॥ दत्त्वा मृगमदस्नानं सर्वान्कामानवाप्नुयात् ॥
रत्नोदकप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥ १५० ॥ बीजपूरकमदानेन क्रियासाफल्यमाप्नुयात् ॥ पुष्पतोयप्रदानेन श्रीमान्भवति मानवः ॥
॥ १५१ ॥ फलोतोयप्रदानेन सफलां विन्दते क्रियाम् ॥ पुन्नामवारिभिर्युक्तं कलशं पूजितं नरः ॥ १५२ ॥ सोपवासो हरेद्दत्त्वा पुत्रमाप्नोत्य-
संशयम् ॥ क्षीरप्रह्लवसँयुक्तान्कलशान्सुविभूषितान् ॥ १५३ ॥ दत्त्वैव देवदेवाय वाजपेयमवाप्नुयात् ॥ जयकारं नरो यस्तु करोति द्विजपुङ्ग-
वः ॥ १५४ ॥ वन्दिनां स भवेद्वन्द्य सदा स्तुत्यो नरोत्तमः ॥ तीर्थोदकानि पुण्यानि स्वयमानीथ मानवः ॥ १५५ ॥ देवस्य स्नपनं दत्त्वा
सर्वपापैः प्रमुच्यते ॥ अर्चितान्कलशान्कृत्वा परिक्राम्य तथैव च ॥ १५६ ॥ यस्नपयेत्सलिले तत्र तस्य पुष्टिः सदा भवेत् ॥ तीर्थतोयं
तथा दत्त्वा देवस्याचमनं पुनः ॥ १५७ ॥ स्वर्गलोकमवाप्नोति सर्वपापविवर्जितः ॥ उत्सादनमथाभ्यङ्गं स्नानं कृत्वा स्वयं हरेः ॥ १५८ ॥
गाणपत्यमवाप्नोति तथा लोके सुखी भवेत् ॥ निष्पुंसनाथं देवस्य यस्तु वस्त्रं प्रयच्छति ॥ १५९ ॥ चन्द्रलोकमवाप्नोति सुखं प्राप्नोति
चोत्तमम् ॥ चन्दनेनानुलेप्यैनं चन्द्रलोकमवाप्नुयात् ॥ १६० ॥ शारीरमानसैर्दुःखैस्तथा चैव विमुच्यते ॥ कुंकुमेनानुलेप्यैनं
सूर्यलोके महीयते ॥ १६१ ॥ सौभाग्ययुक्तं लोके तथा प्राप्नोति मानवः ॥ कूर्पणेनानुलेप्यैनं वारुणं लोकमाप्नुयात् ॥
॥ १६२ ॥ शारीरैर्मानसैर्दुःखैस्तथैव च विमुच्यते ॥ भवन्ति वशगास्तस्य तथैव सततं स्त्रियः ॥ १६३ ॥ दत्त्वा मृगमदं मुख्यं यशसा
भुवि राजते ॥ दत्त्वा जातीफलक्षोदं क्रियासाफल्यमश्नुते ॥ १६४ ॥ रक्षोघ्नागुरुसारेण त्वनुलेप्य जनार्दनम् ॥ सौभाग्ययुक्तं लोके
बलं प्राप्नोति चोत्तमम् ॥ १६५ ॥ तथा बकुलनिर्य्यासैर्विद्याधरफलं लभेत् ॥ वकुलागुरुमिश्रेण चन्दनेन सुगन्धिना ॥ १६६ ॥ समालभ्य
॥४६॥

---
¹ 'कमलान्' इति ख० ।