विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वि० ध०
॥४६॥
तृ० खं०
अ० ३४१
दानेन प्रियामाप्नोत्यनुत्तमाम् ॥ १४२ ॥ शैवालानप्रदानेन¹ वर्णं शुभमवाप्नुयात् ॥ १४३ ॥ कालीयकप्रदानेन परां निर्वृतिमाप्नुयात् ॥ दोपूरकप्रदानेन
सर्वानग्नीन्व्यपोहति ॥ १४४ ॥ तथा वर्णकदानेन सर्वमेव शुभं वदेत् ॥ तगरस्नानदानेन सौभाग्यमधिगच्छति ॥ १४५ ॥ प्रियत्वमाप्नुया-
ल्लोके प्रियङ्गुस्नानदो नरः ॥ सदा भवति सिद्धार्थः सिद्धार्थकस्नानदस्तथा ॥ १४६ ॥ सर्वौषधिप्रदानेन वाजिमेधफलं लभेत् ॥ स्नानार्थं देवदेवस्य
यस्तु गन्धान्प्रयच्छति ॥ १४७ ॥ भवन्ति वशगास्तस्य नार्यः सर्वत्र सर्वदा ॥ दत्त्वा जातीफलं मुख्यं सफलं विन्दते श्रियम् ॥ १४८ ॥
शमीपत्रप्रदानेन सौभाग्यमधिगच्छति ॥ त्वक्प्रदानात्तथा लोके भवतीह बलान्वितः ॥ १४९ ॥ दत्त्वा मृगमदस्नानं सर्वान्कामानवाप्नुयात् ॥
रत्नोदकप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥ १५० ॥ बीजपूरकमदानेन क्रियासाफल्यमाप्नुयात् ॥ पुष्पतोयप्रदानेन श्रीमान्भवति मानवः ॥
॥ १५१ ॥ फलोतोयप्रदानेन सफलां विन्दते क्रियाम् ॥ पुन्नामवारिभिर्युक्तं कलशं पूजितं नरः ॥ १५२ ॥ सोपवासो हरेद्दत्त्वा पुत्रमाप्नोत्य-
संशयम् ॥ क्षीरप्रह्लवसँयुक्तान्कलशान्सुविभूषितान् ॥ १५३ ॥ दत्त्वैव देवदेवाय वाजपेयमवाप्नुयात् ॥ जयकारं नरो यस्तु करोति द्विजपुङ्ग-
वः ॥ १५४ ॥ वन्दिनां स भवेद्वन्द्य सदा स्तुत्यो नरोत्तमः ॥ तीर्थोदकानि पुण्यानि स्वयमानीथ मानवः ॥ १५५ ॥ देवस्य स्नपनं दत्त्वा
सर्वपापैः प्रमुच्यते ॥ अर्चितान्कलशान्कृत्वा परिक्राम्य तथैव च ॥ १५६ ॥ यस्नपयेत्सलिले तत्र तस्य पुष्टिः सदा भवेत् ॥ तीर्थतोयं
तथा दत्त्वा देवस्याचमनं पुनः ॥ १५७ ॥ स्वर्गलोकमवाप्नोति सर्वपापविवर्जितः ॥ उत्सादनमथाभ्यङ्गं स्नानं कृत्वा स्वयं हरेः ॥ १५८ ॥
गाणपत्यमवाप्नोति तथा लोके सुखी भवेत् ॥ निष्पुंसनाथं देवस्य यस्तु वस्त्रं प्रयच्छति ॥ १५९ ॥ चन्द्रलोकमवाप्नोति सुखं प्राप्नोति
चोत्तमम् ॥ चन्दनेनानुलेप्यैनं चन्द्रलोकमवाप्नुयात् ॥ १६० ॥ शारीरमानसैर्दुःखैस्तथा चैव विमुच्यते ॥ कुंकुमेनानुलेप्यैनं
सूर्यलोके महीयते ॥ १६१ ॥ सौभाग्ययुक्तं लोके तथा प्राप्नोति मानवः ॥ कूर्पणेनानुलेप्यैनं वारुणं लोकमाप्नुयात् ॥
॥ १६२ ॥ शारीरैर्मानसैर्दुःखैस्तथैव च विमुच्यते ॥ भवन्ति वशगास्तस्य तथैव सततं स्त्रियः ॥ १६३ ॥ दत्त्वा मृगमदं मुख्यं यशसा
भुवि राजते ॥ दत्त्वा जातीफलक्षोदं क्रियासाफल्यमश्नुते ॥ १६४ ॥ रक्षोघ्नागुरुसारेण त्वनुलेप्य जनार्दनम् ॥ सौभाग्ययुक्तं लोके
बलं प्राप्नोति चोत्तमम् ॥ १६५ ॥ तथा बकुलनिर्य्यासैर्विद्याधरफलं लभेत् ॥ वकुलागुरुमिश्रेण चन्दनेन सुगन्धिना ॥ १६६ ॥ समालभ्य
॥४६॥
---
¹ 'कमलान्' इति ख० ।
जगन्नाथं पौण्डरीकफलं लभेत् ॥ एकीकृत्य तु सर्वाणि समालभ्य जनार्दनम् ॥ १६७ ॥ अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्यसंशयम् ॥ कामगः सर्वलोकेषु विचरत्यमरोपमः ॥ १६८ ॥ षोडशुलिप्येत देवेशं कीर्तितैर्वरुलेपनैः ॥ पार्थिवानि च यानि स्युः परमाणूनि तत्र वै ॥ १६९ ॥ तावत्यब्दानि लोकेषु कामचारी भवेत्तसौ ॥ न दातव्यं द्विजश्रेष्ठाः अतोऽन्यदुपलेपनम् ॥ १७० ॥ अनुलेपनमुख्यं च चन्दनं परिकीर्तितम् ॥ अनुलिप्य जगन्नाथं तालवृन्तेन वीजयेत् ॥ १७१ ॥ वायुलोकमवाप्नोति पुरुषस्तेन कर्मणा ॥ केशांसो गन्धव्यञ्जनं दत्त्वा सुभ मदो नरः ॥ १७२ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ यच्छेते यस्तु गन्धानि गन्धयुक्तिकृतानि तु ॥ १७३ ॥ गन्धर्वत्वं स्मृतं तस्य सौभाग्यं च त्पयोत्तमम् ॥ चामरैर्वीजयेद्यस्तु देवदेवं जनार्दनम् ॥ १७४ ॥ तिलप्रस्थप्रदानस्य फलं प्राप्नोत्यसंशयम् ॥ एकवस्त्रप्रदानेन सर्वान्कामानवाप्नुयात्॥ १७५॥ कार्पासिकं वस्त्रयुग्मं यः प्रदद्याज्जनार्दने ॥ यावन्ति तस्य तन्तूिन हस्तमात्रामितानि तु ॥ १७६ ॥ तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ महार्घता तथा तस्य साधुवेशोद्भवो यथा ॥ १७७॥ सूक्ष्मता च तथा विप्रास्तथा प्रोक्तं फलं महत् ॥ स्वर्गोग्रहस्य वक्ष्यामि वस्त्रदस्य फलायतः ॥ १७८ ॥ शुक्लवस्त्रप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ॥ महारजतदत्तेन सौभाग्यं महदश्नुते ॥ १७९ ॥ नीलरक्तं विना रक्तं शेषं रक्तैर्द्विजोत्तमाः ॥ दत्त्वा भवति धर्मात्मा सर्वव्याधिविवर्जितः ॥ १८० ॥ नीलरक्तं तथा जीर्णं वस्त्रमन्यधृतं तथा ॥ देवदेवाय यो दद्यात्सर्वपापैर्विमुच्यते ॥ १८१॥ दुकूलप्रदानेन वह्निष्टोमफलं लभेत् ॥ कौशेयानि च वस्त्राणि सुसृष्टानि लघूनि च ॥ १८२ ॥ यः प्रयच्छति देवाय सोऽश्वमेधफलं लभेत् ॥ सलोमानि च वस्त्राणि यः प्रयच्छति धर्मवित् ॥ १८३ ॥ कृतानि वारवाणानि सोऽश्वमेधफलं लभेत् ॥ राङ्क वा मुगलोमाश्च कदल्यश्च तथा शुभाः ॥ १८४ ॥ यो दद्याद्देवदेवाय सौक्ष्म्यमफलं लभेत् ॥ नानाभक्तिविचित्राणि चीनजानि नवानि च ॥ ॥ १८५ ॥ दत्त्वा वासांसि शुभ्राणि राजसूयफलं लभेत् ॥ दत्त्वा निर्विशङ्कं सद्यः शत्रुभिर्नाभिभूयते ॥ १८६ ॥ दत्त्वा तद्वद्वंशुयुग्ममभि मेधफलं लभेत् ॥ यज्ञोपवीतदानेन ब्रह्मदानफलं लभेत् ॥ १८७ ॥ कर्णपूरप्रदानेन श्रुतिं विन्दति सर्वतः ॥ दत्त्वा चापराम् मुख्यं न भूतै रभिभूयते ॥ १८८ ॥ कूर्चप्रसाधनं दत्त्वा सुखमत्यन्तमश्नुते ॥ कङ्कतस्य प्रदानेन विरोगस्त्वभिभायते ॥ १८९ ॥ रूपवांश्च सुवेशश्च सुभगस्स र्वभागपि ॥ वस्त्रप्रदानाद्भवति सर्वकामसमन्वितः ॥ १९० ॥ विभूषणप्रदानेन राजा भवति भूतले ॥ रम्याणि रत्नचित्राणि सौवर्णानि द्विजोत्तमाः ॥ १९१ ॥ दत्त्वाभरणजातानि राजसूयमवाप्नुयात् ॥ प्रतिरूपकरत्नानि न देयानि कदाचन ॥ १९२ ॥
वि० ध० ॥४६०॥ बृ० सं० अ० ३४ ॥४६०॥
पादाङ्गुलीयदानेन गृह्याधिपतिर्भवेत् ॥ पादाभरणदानेन स्थानं सर्वत्र विन्दति ॥ १९३ ॥ श्रोणीसूत्रप्रदानेन महीं सागरमे खलाम् ॥ प्रशास्ति निहतामित्रो नात्र कार्या विचारणा ॥ १९४ ॥ हस्ताङ्गुलीयदानेन परं सौभाग्यमाप्नुयात् ॥ तथैवाङ्गद दानेन राजा भवति भूतले ॥ १९५ ॥ केयूरदानाद्भवति शत्रुपक्षक्षयङ्करः ॥ ग्रैवेयकानि दत्त्वा च सर्वशास्त्राधिपोद्भवेत् ॥ १९६ ॥ नार्यः सुभगशीलाश्च भवन्ति द्विजपुङ्गवाः ॥ श्रियमाप्नोति परमां राजसूयं च विन्दति ॥ १९७ ॥ कर्णाभरणदानेन भवच्छ्रुतिधरो नरः ॥ अश्वमेधमवाप्नोति सौभाग्यं चैव विन्दति ॥ १९८ ॥ मूर्द्धाभरणदानेन राजसूयफलं लभेत् ॥ मुकुटस्य प्रदानेन सूर्य्येणो भूतले भवेत् ॥१९९॥ चतुःसमुद्रवलयां प्रशास्ति च वसुन्धराम् ॥ अनुक्तान्यपि विप्रेन्द्रा वासांस्याभरणानि च ॥ २०० ॥ दत्त्वैव देवदेवाय विहितोद्यमफलं लभेत् ॥ दानं सुमनसां श्रेष्ठं तथैव परिकीर्तितम् ॥ २०१ ॥ अलक्ष्म्याः शमनं मुख्यं परं लक्ष्मीविवर्द्धनम् ॥ धन्यं यशस्यमायुष्यं मङ्गल्यं बुद्धिवर्द्धनम् ॥ २०२ ॥ स्वर्गे च तथा प्रीतिं वह्निष्टोमफलप्रदम् ॥ पुष्पाणामेपि यो दद्यादपि दूर्वाङ्कुराणि च ॥ २०३ ॥ सोपि पुण्यमवाप्नोति हेम दानस्य वै द्विजाः ॥ पुष्पाणामेऽपि देयानि पत्राण्यपि जनार्द्दने ॥२०४॥ पत्राणामे जलं दद्यात्तेन पुण्यसुपाश्नुते ॥ पत्रं पुष्पं फलं तोयं भक्त्या देयं जनार्दने ॥ २०५ ॥ तेन लोकानवाप्नोति भक्तिरेवात्र कारणम् ॥ भृङ्गराजस्य बिल्वस्य चक्रपुष्पस्य च द्विजाः ॥ २०६ ॥ तथैव बीज पूराणि पत्राणि तु निवेदयेत् ॥ एतेषामपि चैकस्य प्रदानान् महाफलम् ॥२०७॥ पत्राणि तु सुगन्धीनि पल्लवानि मृदूनि च ॥ तेन पुण्यमवा प्नोति पुष्पदानसमुद्भवम् ॥ २०८ ॥ उग्रगन्धीन्यगन्धीनि कुसुमानि न दापयेत् ॥ अन्यायतनलजातानि कण्टकीनि तथैव च ॥ २०९ ॥ उक्तानि यानि धर्मज्ञैश्चैत्यवृक्षोद्भवानि च ॥ तथा श्मशानजातानि यानि चाकालजानि च ॥२१०॥ दानं विवर्जयेत्तात्सुपुष्पाणामसुगन्धि नाम् ॥ सुगन्धीनि मनोज्ञानि कुसुमानि द्विजोत्तमाः ॥ २११ ॥ कृत्रिमेनोपपद्यानि गन्धितानि सुगन्धिना ॥ धूपेन एव वासेन चंदनाद्यैश्च लेपनैः ॥ २१२ ॥ कण्टकीन्यापि देयानि शुकानि सुरभीणि च ॥ तथा रक्तानि देयानि जलजानि विशेषतः ॥ २१३ ॥ कुङ्कुमस्य च पुष्पाणि बन्धुजीवस्य चाप्यथ ॥ चम्पकस्य च देयानि तथा भूचम्पकस्य च ॥ २१४ ॥ पीतयूथिकजान्येव माधवमाल्यजान्यपि ॥ मञ्जर्यः सहकारस्य तथा देया जनार्द्दने ॥ २१५ ॥ मल्लिकाकुन्दमुत्तमातिमुक्तमेव च ॥ सर्व्वाश्च यूथिकाजात्यो मल्लिकाजात्य एव च ॥ २१६ ॥ याश्च कुब्जकजा ताश्च कदम्बकुसुमानि च ॥ केतकीपाटलं पुष्पं बाणपुष्पं तथैव च ॥ २१७ ॥ एवमादीनि देयानि गन्धवन्ति शुभानि चा॥ करवीरस्य पुष्पाणि
तथा धत्तूरकस्य च ॥ २१८ ॥ कृष्णकुब्जकं नार्कं नैव देयं जनार्दने ॥ सर्वासां पुष्पजातीनां जातिः श्रेष्ठा तथा स्मृता ॥ २१९ ॥ जातीनामपि सर्वासां शुक्लाजातिः प्रशस्यते ॥ केचिद्धर्षणगुणा देयाः केचिद्गन्धगुणास्तथा ॥ २२० ॥ अनुक्तान्यपि नामानि तथा देयानि कानिचित् ॥ देशे देशे यथा काले यानि पुष्पाण्यनेकंशः ॥ २२१ ॥ गन्धवर्णोपपन्नानि तथा देयानि नित्यशः ॥ सुगन्धिपुष्पैः कुर्यात्पूजां मधुरैर्नागरैः ॥ २२२ ॥ तस्य प्रसीदमाद्यति देवश्चक्रगदाधरः ॥ अन्याश्चोत्पिण्डमंजर्यो दयितास्तस्य नित्यशः ॥ २२३ ॥ पुरन्धिपुष्पं यो दद्यादेकमभ्यर्च्य पण्डितः ॥ तिलप्रस्थप्रदानस्य फलं प्राप्नोत्यसंशयम् ॥ २२४ ॥ पुरन्ध्रिमञ्जरीपुष्पसहस्रेणार्चयेद्धरिम् ॥ अभिष्टामथवाप्नोति कुलमुद्धरते तथा ॥ २२५ ॥ कर्पूरपटवासेन पुरन्ध्रमथ वासिताम् ॥ महाराजतरंगेन तथा सूत्रे निवेशिताम् ॥ २२६ ॥ माल्यपुष्पसहस्रेण यः प्रयच्छति भक्तितः ॥ अश्वमेधफलं तस्य नात्र कार्या विचारणा ॥ १२७ ॥ शतेन वाजपेयस्य फलमाप्नोत्यसंशयम् ॥ लक्षपूजां तथा कृत्वा सर्वान्कामानवाप्नुयात् ॥ २२८ ॥ नन्दनादिषु मुख्येषु देवोद्यानेषु चाप्यथ ॥ क्रीडते देवरामाभिर्देवदुन्दुभिनिस्स्वनैः ॥ २२९ ॥ दत्त्वा नीलोत्पलयुतं कुङ्कुमस्य च ॥ तुल्यं फलमवाप्नोति बंधुजीवस्य च द्विजाः ॥ २३० ॥ सुवर्णचम्पकदानस्य फलं प्राप्नोति मानवः ॥ दत्त्वा नीलोत्पलं विष्णोर्नात्र कार्या विचारणा ॥ २३१ ॥ नीलोत्पलशतं दत्त्वा वह्निष्टोमफलं लभेत् ॥ नीलोत्पलसहस्रेण पुण्डरीकमवाप्नुयात् ॥ २३२ ॥ लक्षपूजां तथा कृत्वा राजसूयफलं लभेत् ॥ रूप्यमाषप्रदानेन फलं कुंकुमदो लभेत् ॥ २३३ ॥ कुमुदानां शतं दत्त्वा चंद्रलोके महीयते ॥ सहस्रं च तथा दत्त्वा यथेष्टां गतिमाप्नुयात् ॥ २३४ ॥ अश्वमेधमवाप्नोति लक्षपूजाविधायकः ॥ स्वयं चैनं तथा लक्ष्मीर्भजते नात्र संशयः ॥ २३५ ॥ रक्तपद्मप्रदानेन रूप्यमाषप्रदो भवेत् ॥ लतां दत्त्वा च धर्मात्मा वह्निष्टोमफलं लभेत् ॥ २३६ ॥ सहस्रं च तथा दत्त्वा सूर्यलोके महीयते ॥ विष्णुलोकमवाप्नोति लक्षपूजाविधायकः ॥ २३७ ॥ स्वयमेनं तथा लक्ष्मीर्भजते नात्र संशयः ॥ रक्तपद्मप्रदो विष्णोस्तस्य स्याद्विगुणं फलम् ॥ २३८ ॥ नीलोत्पलसमं दानं चम्पकस्य प्रकीर्तितम् ॥ मल्लिकापुष्पजातीनां यूथिकायास्तथैव च ॥ २३९ ॥ तथा कुप्यकजातीनां फलस्यार्धं प्रकीर्तितम् ॥ जातीपुष्पप्रदानेन गन्धर्वैः सह मोदते ॥ २४० ॥ जातीपुष्पार्कं दत्त्वा वह्निष्टोमफलं लभेत् ॥ जातीपुष्पसहस्रेण यथेष्टाङ्गतिमाप्नुयात् ॥ २४१ ॥ श्वेतद्वीपमवाप्नोति लक्षपूजाविधायकः ॥ जातीपुष्पयुतां मालां कर्पूरपटवासिताम् ॥ २४२ ॥ निवेद्य देवदेवाय यत्फलं प्राप्नुयान्नरः ॥ श्वेतैः पुष्पैः समभ्यर्च्य सर्वान्कामानवाप्नुयात् ॥ २४३ ॥ आश्चर्यान्मानुषाल्लोके पीतदेवं समर्चयन् ॥ शत्रूणामभिभावेषु तथा कृष्ण समर्चयेत् ॥ २४४ ॥ सुवर्णपुष्पैरभ्यर्च्य
वि० ध० ॥४६३॥ तृ० खं० अ० २४१
र्च्य राजसूयफलं लभेत ॥ रत्नैर्देवमथामर्च्य राजा भवति भूतले ॥ २४५ ॥ कृत्वा पुष्पगृहं विष्णोः पुष्पैर्वाथ वितानकम् ॥ फलेन योगमा
प्नोति राजसूयाश्वमेधयोः ॥ २४६ ॥ किङ्किणीजालसंयुक्तं देवरूमाणमण्डलम् ॥ वीणासुरजगीताढ्यं विमानमधिगेहति ॥ २४७ ॥ पुष्पप्रदानं
मङ्गल्यमलक्ष्मीविप्रणाशनम् ॥ लक्ष्मीवृद्धिकरं ज्ञेयं सोमनस्यविवर्द्धनम् ॥ २४८ ॥ सौभाग्यजननं चैव तेजोलक्ष्मीविवृद्धिदम् ॥ न रत्नैर्न
सुवर्णेन न च वित्तेन भूरिणा ॥ २४९ ॥ तथा प्रसादमायाति यथा पुष्पैर्जनार्द्दनः ॥ वासन्तीमल्लिकापुष्पं तथा च वापिकं च वा ॥ २५० ॥
कुब्जकं यूथिका चैव तथा चैवातिमुक्तकम् ॥ केतकं चम्पकं चैव माधवप्रणकमेव च ॥ २५१ ॥ कुरैण्डमञ्जरीपुष्पं वृतपुष्पं तथैव च ॥
बन्धुजीवकपुष्पं च कुसुमं कुङ्कुमस्य च ॥ २५२ ॥ जातीपुष्पाणि सर्वाणि कुन्दपुष्पं तथैव च ॥ पाटलीं च तथा वृत्तांतोलिमन्दीवरं तथा
॥ २५३ ॥ कुमुदं श्वेतार्कं च श्वेतक्तौ तथा शुभौ ॥ एवमादीनि पुष्पाणि दातव्यानि सदा हरेः ॥ २५४ ॥ स्वयमाहृत्य यो दद्यादारण्यकुसु
मानि च ॥ स राज्यं स्फीतमाप्नोति लोके निहतकण्टकम् ॥ २५५॥ पत्रं रम्यं फलं रम्यं पल्लवं वा द्विजोत्तमाः ॥ भक्त्या निवेद्य देवाय फलस्या
न्तन्त्यमश्नुते ॥ २५६ ॥ कर्पूरबोधितैर्नानाव धिद्ववासांसि यो नरः ॥ ददाति देवदेवाय सौक्ष्मधेयफलं लभेत् ॥ २५७ ॥ धृष्टवासांसि मुख्यानि
दत्त्वा स्वर्गेमपास्यते ॥ यशश्चामोति विपुले नाकपृष्ठे महीयते ॥ २५८ ॥ तथा सौभाग्यमाप्नोति धृष्टवासप्रदो नरः ॥ धूपेनाभ्यर्च्य देशं स्वर्ग
लोके महीयते॥२५९॥धूपनानुसतं धूपं गुग्गुलं क्षौद्रसर्पिषमता॥ दत्त्वा गुग्गुलुलं धूपं नाकपृष्ठे महीयते ॥२६०॥ मधुनर्पिःसमायुक्तं द्वादशाहान्तफलै
लभेत ॥ दत्त्वा चन्दनसारेण सौभाग्यं परमाप्नुयात् ॥२६१॥ तथैवागुरुसारेण परां सिद्धिमवाप्नुयात् ॥ धूपानाञ्चुतंतं तद्वत्सर्वकामफलप्रदम् ॥
॥२६२॥ धूपं तूरुष्ककं दत्त्वा वह्निष्टोमफलं लभेत् ॥ दत्त्वा च कृत्रिमं मुख्यं सर्वान्कामानावाप्नुयात् ॥२६३॥ गन्धधूलीकृतं दत्त्वा यज्ञं गोसवमा
प्नुयात् ॥ दत्त्वा कर्पूरनिर्यासं वाजिमेधफलं लभेत् ॥ २६४ ॥ वसन्ते गुग्गुलं दत्त्वा वह्निष्टोममवाप्नुयात् ॥ ग्रीष्मे चन्दनसारेण द्वादशाहा
त्फलं लभेत् ॥२६५॥ तुरूष्कदानेन तथा प्रावृष्यमृतां व्रजेत् ॥ कर्पूरदानाच्छरदि राजसूयमवाप्नुयात् ॥ २६६ ॥ हेमन्ते सुगन्धेण वाजिमेधफलं
लभेत ॥ शिशिरेऽगुरुसारेण सर्वमेधमवाप्नुयात् ॥ २६७ ॥ विना सुगम्दाद्धूपं जीवजातं विवर्जयेत् ॥ धूपदः स्वर्गमाप्नोति धूपदः पुष्टिमश्नुते
॥२६८॥ धूपलेखोपथैवोर्ध्वं नित्यमेव प्रसर्पति ॥ तथैवोर्ध्वंगतिं नित्यं धूपदाता भवेन्नरः ॥२६९॥ धूपराजिर्यधोर्ध्वं स्यादेकादीनां द्विजोत्तमाः ॥
सन्निधानं तथा विद्याद्देवदेवस्य चक्रिणः ॥२७०॥ दीपं चक्षुःप्रदं दद्यात्तथैवोर्ध्वंगतिमप्रम् ॥ ऊर्ध्वं यथा धूपशिखा दाता चोर्ध्वगतिस्तथा ॥२७१॥
॥४६३॥
ख्यातो भवति लोकेषु स्वर्गलोकं च गच्छति ॥ यावदक्षिनिमेषाणि दीपो देवालये ज्वलेत् ॥ २७२ ॥ तावद्वर्षसहस्राणि धर्मात्मा लोकमश्नुते ॥ महाविर्तिप्रदानेन कुले देशे तथैव च ॥ २७३ ॥ श्रेष्ठ्यमाप्नोति सर्वत्र यथा सूर्य विराजते ॥ मधुपर्कप्रदानेन परं पदमिहाश्नुते ॥२७४॥ घृतं दधि तथा क्षौद्रं मधुपर्कं विजानता ॥ ततस्त्वर्हणदानेन सर्वपापैः प्रमुच्यते ॥ २७५ ॥ तथैवाचमनीयस्य दानाद्ब्राह्मणसत्तमाः ॥ अनन्ततृप्तिमा प्नोति स्वर्गलोकं च गच्छति ॥ २७६ ॥ दत्त्वा चासंविभागाय तथैवान्नममर्तिदन्तः ॥ त्रैलोक्यतर्पिते पुण्ये तत्क्षणात्समवाप्नुयात् ॥ २७७ ॥ अक्षय्यमन्नदानं च पितृस्तस्योपतिष्ठते ॥ ओदनं व्यञ्जनोपेतं दत्त्वा स्वर्गमवाप्नुयात् ॥ २७८ ॥ परमान्नप्रदानेन तृप्तिं विन्दति शाश्वतीम् ॥ विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम् ॥ २७९ ॥ घृतौदनप्रदानेन दीर्घमायुरवाप्नुयात् ॥ दध्योदनप्रदानेन श्रियमग्र्योत्तमोत्तमाम् ॥ २८०॥ क्षीरौदनप्रदानेन दीर्घं जीवितमाप्नुयात् ॥ इक्षूणां चैव दानेन परं सौभाग्यमाप्नुयात् ॥ २८१॥ रसानां चैव भागी स्यात्स्वर्गलोकं च गच्छति ॥ सर्वान्कामानवाप्नोति क्षौद्रं यस्तु प्रयच्छति ॥ २८२ ॥ तदेव दधिनोपेतं राज्यमुग्रमवाप्नुयात् ॥ फाणितस्य प्रदानेन बह्वादायं फलं लभेत् ॥ २८३ ॥ तथा गुडप्रदानेन दशगोदो भवेन्नरः ॥ मुख्यं दण्डं तथा दत्त्वा मैत्रीं सर्वण विन्दति ॥ २८४ ॥ क्षौडू वल्लभतामेति दत्त्वा च गुडिकां तथा ॥ सितायाश्च प्रदानेन सर्वान्कामानवाप्नुयात् ॥ २८५ ॥ निवेद्येक्षुरसं भक्त्या परं सौभाग्यमाप्नुयात् ॥ वह्निष्टोममवाप्नोति यावक स्य निवेदकः ॥ २८६ ॥ अतिरात्रमवाप्नोति तथा धूपनिवेदकः ॥ वैदलानां च भक्ष्याणां दातान्ताकाममवाप्नुयात् ॥ २८७ ॥ दीर्घजीवितमा प्नोति घृतपूरनिवेदकः ॥ मोदकानां प्रदानेन कामानाप्नोत्यभीप्सितान् ॥ २८८॥ नानाविधानां भक्ष्याणां दानात्स्वर्गमवाप्नुयात् ॥ गणगंड प्रदानेन पौण्डरीकमवाप्नुयात् ॥ २८९ ॥ भोजनप्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ॥ तथा लेह्यप्रदानेन सौभाग्यमधिगच्छति ॥ २९० ॥ बलवर्णमवाप्नोति चोश्याणां विनिवेदकः ॥ पेयानां च प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ॥२९१॥ पानकानि सुगन्धीनि शीतनानि विशेषतः ॥ निवेद्य देवदेवाय वाजिमेधमवाप्नुयात् ॥ २९२ ॥ त्वगेला नागकुसुमकर्पूरसितसंयुतैः ॥ सिताक्षौद्रगुडोपेतैर्गन्धवर्णसमन्वितैः ॥ २९३ ॥ राज सूयमवाप्नोति पानकैर्विनिवेदितैः ॥ निवेद्य नालिकेराम्बु वह्निष्टोमफलं लभेत् ॥ २९४ ॥ धान्यानां क्षोद्रयुक्तानां लाजानां च निवेदकः ॥ मुख्यानां चैव सक्तूनां वह्निष्टोममवाप्नुयात् ॥ २९५ ॥ वानप्रस्थाश्रितं पुण्यं लभेच्छक्तिकनिवेदकः ॥ दत्त्वा हरितकं चैव तदेव फलमाप्नुयात् ॥ २९६ ॥ सुकुले प्राप्नुयाज्जन्म कन्दमूलनिवेदकः ॥ नीलोत्पलविदार्याणां तरूटस्य तथा द्विजाः ॥ २९७ ॥ कंददानादवाप्नोति वानप्रस्थ
वि० ध० दृ० खं० अ० ३४१ ॥४६२॥
फलं लभेत् ॥ प्रभुश्च चारुकं दत्त्वा पुण्डरीकफलं लभेत् ॥ २९८ ॥ कर्कन्धूबदरौ दत्त्वा तथा पालेवतं धवम् ॥ पारूषकं तथा प्रोक्तं पनसं नारिकेलकम् ॥ २९९ ॥ भव्यं मोचं तथा चोंचं खर्जूरमथ दाडिमम् ॥ आम्राक्रादिषु चाक्षोटमाम्लानालिवियालुजम् ॥ ३०० ॥ जाम्बू बिल्वमथा- चैव जात्यश्रीनागरूकस्तथा ॥ नारङ्गबीजपूरौ च राजफल्यफलान्यपि ॥ ३०१ ॥ तथा फलानि मुख्यानि देवदेवाय भक्तितः ॥ एवमादीनि चान्यानि यः फलानि प्रयच्छति ॥३०२॥ क्रियासाफल्यमाप्नोति स्वर्गलोकं तथैव च ॥ उदुम्बरं कपित्थं च तथा दुन्तरुहं च यत् ॥ ३०३ ॥ एवमादीनि देवाय न देयानि कदाचन ॥ प्राप्नोति बलमारोग्यं मुद्वीकाविनिवेदकः ॥३०४॥ रसान्सुकल्याणवाप्नोति सौभाग्यमपि चोत्तमम् ॥ आश्वत्थञ्च देवेशमश्वमेधफलं लभेता ॥ ३०५ ॥ प्रजातिफले दत्त्वा जातीपत्रं तथैव च ॥ लब्धक्ष्म्य कङ्कोलमेलां कटुफलं तथा ॥ ३०६ ॥ ताम्बूलीनां किसलयं स्वर्गलोकमवाप्नुयात् ॥ सौभाग्यसुभगं लोके तथा रूपमनुत्तमम् ॥ ३०७॥ मुखवासप्रदानेन स्त्रीणां वल्लभतां व्रजेत् ॥ मात्राणां च प्रदानेन नरकं नैव गच्छति ॥ ३०८ ॥ मात्राभिः पूरयेद्भोक्त्यांस्तथा भक्ष्यानसंशयः ॥ भक्तिश्रद्धान्वितैर्युक्तो देवदेवं प्रयच्छति ॥ ३०९ ॥ तद्वाक्यमवाप्नोति स्वर्गलोकं च गच्छति ॥ न देवतोपघातायाति प्रभूतेर्चनसञ्चयैः ॥ ३१० ॥ यथा तोषमवाप्नोति भक्त्या भक्तजनाप्रियः ॥ भक्त्या कामानवाप्नोति भक्त्या स्वर्गं च गच्छति ॥ ३११ ॥ भक्त्या तत्पदमाप्नोति यत्र गत्वा न शोचति ॥ सामान्यभक्त्या यद्दत्तं तद्धि पद्मभ्यां प्रयच्छति ॥ ३१२ ॥ एकान्तभावापगतैर्गणेन्द्रैना द्विजवरोत्तमाः ॥ श्वेतेन वस्त्रयुग्मेन तथा शुक्लफलैः शुभैः ॥ ॥ ३१३ ॥ सुरुक्चकर्पूरधूंपेन पयसा पायसेन च ॥ पद्मसूत्रस्य वर्त्या च घृतधूपेन चाप्यथ ॥ ३१४ ॥ पूजयन्सर्वशुद्धा स्मात्सवेकाममदा हिताः ॥ कृतैवां मुच्यते रोगी रोगाच्छीघ्रमसंशयम् ॥३१५॥ दुःस्वप्नतो मुच्यते दुःखाद्बद्धो मुच्येत बन्धनात् ॥ राजभ्रस्तश्च लभ्येत तथा राज्यमथापरः ॥ ॥३१६॥ क्षेमेण गच्छेदध्वानं तथाऽनर्थविवर्जितः ॥ तैलेन स्नापितं देवं कुङ्कुमेनानुलेपयेत् ॥ ३१७ ॥ रक्तैर्वस्त्रैः समभ्यर्च्य पिष्टलेपं तथा नरः ॥ बन्धुजीवकपुष्पैश्च धूपेनागुरुजेन च ॥ ३१८ ॥ तैलदीपेन वर्त्या च महाराजतरक्तया ॥ द्राक्षापानकयुक्तेन वटकैः कृसरेण च ॥ ३१९ ॥ पूज येत्सर्वतश्चा स्याच्चक्षुरक्षयवृद्धये ॥ सौभाग्यजननौ लोके धनधान्यविवर्द्धनौ ॥ ३२० ॥ स्वर्गदा फलदा चैव नरणामविनाङ्गिनी ॥ एवं दानफलं प्रोक्तं राजसानं मया द्विजाः॥३२१॥ अकामः सात्त्विके लोके यत्किंचिद्विनिवेदयेत् ॥ तेनैव स्थानमाप्नोति यत्र गत्वा न शोचति ॥३२२॥ धर्म वाचनिका मूढाः फलकामा नराधमाः ॥ वेर्चयन्ति जगन्नाथं ते कामान्प्राप्नुवन्त्यथ ॥ ३२३ ॥ अन्तवत् फलं तेषां तद्भवत्यल्पमेधसाम् ॥ अका
॥४६२॥
श्वापि देवैः सर्वैः समागतैः ॥ ९ ॥ एवं स देवं हि भक्तियुक्तो रसातलस्थो वसुधाधिपेश्चः ॥ भयात्सुघोरात्प्रविमुच्य युक्तो राज्येन गत्वा नमस्तस्मैव ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वसुपाख्यानं नामाष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४८॥ ॥ ॥ वज्र उवाच ॥ ॥ विश्वरूपं समाचक्ष्व देवदेवस्य चक्रिणः ॥ कस्य तद्दर्शितं तेन भृगुवंशविवर्धन ॥ १ ॥ मार्कण्डेय उवाच ॥ ॥ एकान्तभावनामद्भिर्हृद्यानि बहुशः पुरा ॥ विश्वरूपाणि देवस्य यान्यसंख्यानि भाषितम् ॥ २ ॥ वासुदेवप्रसादेन न भवेद्वीक्ष्यदर्शनः ॥ विश्व रूपधरं द्रष्टुं तावच्छक्तिर्न विद्यते ॥ ३॥ तत्र यद्दर्शितं चैव नारदस्य पुरातनम् ॥ तत्तेऽहं संप्रवक्ष्यामि विश्वदेवेन विष्णुना ॥ ४ ॥ नारदः सुमद्भूतं नरनारायणाश्रमम् ॥ बदर्याश्रममित्युक्तं जगामातिमनोहरम् ॥ ५ ॥ चतुरात्मा हरिर्यत्र धर्मपुत्रत्वमागतः॥ हरिः कृष्णो नरश्चैव तथा नारायणः प्रभुः ॥ ६ ॥ हरिः कृष्णः स्थितौ वृत्ते तदा लोकान्तरे किल ॥ नरनारायणौ देवौ तपस्युग्रे तथा रतौ ॥ ७ ॥ अष्टचक्रे स्थितौ याने भ्रातृयुक्ते मनोहरे ॥ एकपादौ निरालम्बौ तथैवोर्ध्वभुजावुभौ ॥ ८ ॥ ददर्श नारदस्तत्र तावुभौ दीप्ततेजसौ ॥ अभिवाद्य गतौ देवौ तयोस्तु पुरतः स्थितः ॥ ९ ॥ पाद्यार्घ्याचमनीयाद्यैः पूजितः संस्तदा द्विजः ॥ ननारायणाभ्यान्तु तत्रोवास तदाश्रमे ॥ १० ॥ आश्रमस्थः स विप्रेन्द्रः कदाचिद्देवसत्तमौ ॥ ददर्श विप्रं कुर्वाणौ देवकर्म तथानयो ॥ ११॥ ततः कृताह्निको प्राह नारदस्तौ जगद्गुरू ॥ भवन्तौ जगतां नाथौ भवन्तौ परमेश्वरौ ॥ १२॥ आराधनायं कस्येह तपस्यभिरतावुभौ ॥ भवद्भ्यामर्च्यते कश्च देवं पित्र्ये च कल्पिते ॥ १३॥ (प्रकृति र्या परास्माकं यतः सर्वस्य संभवः ॥ मर्यादामीक्षनार्थाय नवं तमपराजितम् ॥ १४ ॥ पूजयामः सदा ब्रह्मन्दैवे पित्र्ये च कल्पिते ॥ ) विप्रान्देव गुरून्द्वाश्च पितृंश्चैव जगत्त्रये ॥ १५॥ येऽन्यन्त्यर्चयन्त्येवं तं देवं परमेश्वरम् ॥ गौऽयमप्यर्चयेद्देवं तेन स्यात्पूजितो हरिः ॥ १६॥ विधिहीनं महा भाग स हि सर्वगतो यतः ॥ देवस्यान्यस्य यश्चाचं कर्तुकामोऽथचेद्धरिम् ॥ १७ ॥ तेन तस्य कृतार्चा स्याद्दिजश्रेष्ठ विधानतः ॥ दैवे यस्या त्सुराः सर्वं त्रैलोक्यमपि यद्गतम् ॥१८॥ कृता त्रैलोक्यपूजा स्याद्विष्णुपूजाविधायिना ॥ नास्ति लोकेषु तद्ब्रह्म यन्न नास्ति जनार्दनः ॥१९॥ न तदप्यस्ति लोकेषु यन्न विष्णौ प्रतिष्ठितम् ॥ यस्मिन्सर्वं यतः सर्वं सर्वत्रैष यः॥२०॥पश्य सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥ क्षीरोद मध्ये द्वीपोऽस्ति बहुयोजनविस्तृतः ॥२१॥ तत्र ते पुरुषाः श्वेताः शशाङ्कसमतेजसः ॥ उपेताश्च तथा सर्वं चक्रवत्पुलक्षणैः ॥ २२॥अपञ्चरात्रवि धानज्ञाः पूजयन्ति सदा हरिम् ॥ मायादेहमुपास्थाय देवोऽपि मधुसूदनः ॥२३॥ तात्पूजां प्रतिगृह्णाति शिरसा सततं हरिः ॥ तैस्सार्धं रमते नित्यं
तुष्टाव ततस्तस्य तदा हरिः ॥ ६ ॥ प्रसन्नः पुत्रतामेत्य देवो वामनरूपधृक् ॥ त्रिभिर्क्रान्तैस्त्रिभुवनं सर्वमाक्रम्य विश्वधृक् ॥ ७ ॥ प्रादाच्छक्राय राजेन्द्र बद्ध्वा दैत्येश्वरं बलिम् ॥ कश्यपेन स्तुतस्त्वेवं तस्य पुत्रत्वमागतः ॥ ८ ॥ वज्र उवाच ॥ स्तवेन येन तुष्टाव कश्यपो मधुसूदनम् ॥ तं स्तवं त्वं समाचक्ष्व सर्वपापहरं शिवम् ॥ ९ ॥ मार्कण्डेय उवाच ॥ शृणु राजंस्तवं पुण्यं कश्यपेन प्रकीर्तितम् ॥ क्षीरोदशयनाद्यद्धा देवदेवं समुत्थि- तम् ॥ १० ॥ कश्यप उवाच ॥ ॐ नमोऽस्तु ते देवदेव एकशृङ्ग वृषाचित सिन्धुवृक्ष वृषाकपे सुरप अनिन्दित भद्र कपिल विष्वक्सेन ध्रुव धर्म धर्मध्वज वैकुण्ठ वृषावर्त अनादिमध्यनिधन जनाप्रिय वृष्णिज अमृतेशय सनातन त्रिधाम तर्पित डुन्दुभे महालोक महोलोक लोकनाभे पद्मनाभ विरिञ्च बहुरूप अक्षणादक्षय हयमुख खण्डपरशो चक्र पुण्डरीकेश हंस महादक्षिण हृषीकेश सूक्ष्म महासुनिस्तोम विरज स्तम सर्वलोकप्रतिष्ठ शिपिविष्ट अतपा अग्रज धर्मज धर्मनाम गभस्तिनाम चन्द्ररथ अपामपन् समुद्वास अज एकपाद सहस्ररश्मित महार्शीष सहस्रदृक् सहस्रपाद अयोमुख महापुरुष सहस्रबाहो सहस्रमूर्ते सहस्राक्ष सहस्रप्रभव सहस्रशास्त्वामाहुर्वेदाविदो वेदविदम् ॥ सर्वेषामेव विश्वस्तमाहुः पुष्पहास परमार्चस्तमेव वौषट् वषट्कार स्वाहा मखेषु भागप्रशिनं शतशारं सहस्रारं च भुवो भुववां त्वमेव ब्रह्ममय ब्राह्मणेय ब्रह्मा दिशस्त्वमेव द्यौरसि पृथिव्यसि मातरिश्वासि होता पोता मन्ता नेता होम्यहेतुस्त्वमेवाग्र्य विश्वधाम्ना त्वमेव दिग्भिः सम्भाण्ड इज्योऽसि समाधासि संविचित्स्त्वमेव गतिर्मतिमत्तामसि योगोऽसि मोक्षोऽसि परर्मसि सुगसि धातासि यज्ञोऽसि सोमोऽसि धूमोऽसि दीक्षासि दक्षिणासि विश्वमसि स्थविर तृगपाह्र हिरण्यगर्भ नारायण अनंत वृणसभे आदित्यवर्ण आदित्यतेजाः महापुरुष पुरुषोत्तम आदिदेव पद्मनाभ पञ्चास पञ्चाश पञ्चाल हिरण्याद्यकेश शुक्ल विश्वामन्विन्वदेव विश्वतोमुख विश्वाय विश्वसम्भव विश्वमुखमेव शुक्विम अतियुः प्रभाकर शम्भुः भवःस्वयम्भू भूतादिः महाभूत विश्वग् विश्वं त्वमेव विश्वचोत्तालि पवित्रमसि हविः विश्वचात ऊर्ध्वकर्म अमृतत्वाग्र भुवःपात घृताक्त अग्रे द्रुहिण अनन्तकर्मन्वरं प्राग्यं विश्वपार्श्व पार्श्व त्वमेव विश्व वराथिनब्रह्माहीति ॥ स्तोत्रेण यः काश्यपनिर्मितेन स्तोत्रं सदा देववरस्य कर्ता ॥ काल्यं शुचिस्तद्गतमानसेन गन्ता स लोकान्पुरुषोत्तमस्य ॥ ११ ॥ इति श्रीविष्णु- धर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे कश्यपस्तोत्रवर्णनो नाम चतुरश्चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ ३४४ ॥ छ ॥ ॥ ४६४ ॥ ॥ वज्र उवाच ॥ ॥ प्रसादं परमं तस्य केशवस्य महात्मनः ॥ ब्रूहि भक्तजने मह्यं देवदेवस्य चक्रिणः ॥ १ ॥ न हि तृप्याम्यहं तस्य शृण्वानः
श्रवणामृतम् ॥ हस्तत्राणप्रदो लोके य एकः पततां नृणाम् ॥ २ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ देवाश्च ऋषयश्चैव विवदन्तः पुरातनाः ॥ बीजै र्यष्टव्यमित्येतद्विप्रर्षेपरमोधितैः ॥ ३ ॥ अजसंज्ञानि बीजानि छागं घ्नन्तुमथार्हसि ॥ पक्षोऽयमासीद्धर्मिष्ठ ऋषीणां भावितात्मनाम् ॥ ४ ॥ देवानां तु पशुः पक्षस्ततो मार्गांगतोमभवत् ॥ राजोपरिचरो नाम वसुर्वसुमतां वरः ॥ ५ ॥ देवाश्च ऋषयश्चैव पृच्छन्तस्तदा वसुम् ॥ यथोपनीतैर्यष्टव्य मित्युक्तं वसुना पुरा ॥ ६ ॥ गतेनानुतवाक्येन राजा हिंसाप्रवर्तिना ॥ नित्यमाकाशगो भूत्वा भूमीविवरगोभवत् ॥ ७ ॥ भूमौविवरगस्याथ देवपक्षार्थवादिनाः ॥ निधनार्थं मतिं चक्रुर्देवभक्तस्य दानवाः ॥ ८ ॥ तेषां चिकीर्षितं श्रुत्वा देवाः शीघ्रपराक्रमाः ॥ न्यवेदयँस्तथा चक्रं देवाचार्यं बृहस्पतौ ॥ ९ ॥ बृहस्पतिस्ततो गत्वा भूमीविवरगं नृपम् ॥ रक्षामध्यापयामास वैष्णवीमपराजिताम् ॥ १० ॥ भूतभव्यभविष्याणां कर्मणामनु कीर्तनैः ॥ निर्मिता ब्रह्मणा विद्या सर्वबाधाक्षयङ्करी ॥ अध्याप्य तं च राजानमिदमाह बृहस्पतिः ॥ ११ ॥ बृहस्पतिरुवाच ॥ इहस्थो मोक्ष्यसे राजन्वंशोध्दारं हुतां द्विजैः ॥ देवतानां प्रसादेन तथा चाप्यायितः सदा ॥ १२ ॥ विद्यया चानया राजन्वश्यत्वस्तं भविष्यसि ॥ भूमीविवरसं स्थोऽपि दैत्यदानवराक्षसान् ॥ एवमुक्त्वा स राजानं तत्रैवान्तरधीयत ॥ १३ ॥ वज्र उवाच ॥ रक्षां तु तां मे कथय द्विजेन्द्र कृता तु या देव पुरोहितेन ॥ राज्ञो वसोर्भूमिबिलस्थितस्य रक्षा हि साध्द्या परमा मता मे ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे भूमिबिलस्थितराज्ञो रक्षार्थवर्णनो नाम पञ्चचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ ३४५ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ ॐनमो भगवते वासुदेवाय नमोऽनन्ताय सहस्रशीर्षाय क्षीरोदार्णवशायिने शेषभोगपर्यङ्काय गरुडवाहनाय अजाय अजिताय पीतवाससे वासुदेव सङ्क र्षण प्रद्युम्न अनिरुद्ध हयशिरा वराह नरसिंह वामन त्रिविक्रम राम राम राम नमोऽस्तु ते नमोऽस्तु ते नमोऽस्तु ते ॥ असुररक्षोदैत्यदानवयक्ष राक्षसभूतप्रेतपिशाचकुम्भाण्डसिद्धयोगिनीडाकिनीस्कन्दपुरोग्रान्यान्यग्रहांश्चान्यान्हन हन पच पच मध मध विध्वंसय विध्वंसय विद्रा वय विद्रावय शंखेन चक्रेण वज्रेण गदया मुसलेन हलेन भस्मीकुरु सहस्रबाहो सहस्रप्रहरणापुध जय जय विजय विजय अपराजित अप्रतिहतेनेत्र ज्वल ज्वल प्रज्वल विश्वरूप बहुरूप मधुसूदन महावराह महापुरुष वैकुण्ठ नारायण पद्मनाम गोविन्द दामोदर हृषीकेश केशव सर्वास् त्रोत्सादन सर्वशत्रुंकर सर्वदुःखप्रभेदन सर्वयन्त्रप्रमञ्जन सर्वनागमर्दन सर्वदेवमहेश्वर सर्वबन्धविमोक्षण सर्वारिष्टमर्दन सर्वज्वरप्रणाशन सर्वग्रहनिवारण सर्वपापप्रशमन जनार्दन नमोऽस्तु ते स्वाहा ॥ य इमामपराजितां परमवैष्णवीं सिद्धां महाविद्यां जपति
| वि० ध० | तृ० खं० अ० ३४८ |
|---|
तमः सर्व्वमिदं चराचरं गभस्तिभिर्भानु रिवावभासे ॥ समाक्षिपन्भानुसुतप्रभां मुहुस्त्वमन्तर्कः सर्व्वमिदं ध्रुवाध्रुवं ॥ ३१ ॥ दिवाकरः परिक्रमति
यथा दहन्प्रजास्तथा दहासि हुताशनप्रभ ॥ भयङ्करः प्रलय इवाग्निकल्पितो विनाशयत्युग्रगविर्पतान्ह्रंकृत ॥ ३२ ॥ खगेश्वरं शरणमुपागतो
स्म्यहं महौजसं वितिमिरमग्रगोचरम् ॥ महाबलं गरुडमुपेत्य खेचरं महौजसं वरदमजेयमक्रमम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख०
मार्कण्डेयवज्रसंवादे गरुडस्तोत्रं नाम षट्चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ ३४६ ॥ मार्कण्डेय उवाच ॥ स्तुतस्तु गरुडो राज्ञा पृष्ठमारोप्य
पार्थिवम् ॥ दर्शयामास देवस्य विष्णोरमिततेजसः ॥ १ ॥ स दृष्ट्वा देवदेवेशं प्रणतार्त्तिविनाशनम् ॥ तुष्टाव भक्त्या राजेन्द्र देवशमपरा
जितम् ॥ २ ॥ ॥ वसुख्वाच ॥ ॥ नमस्ते पुण्डरीकाक्ष शरणागतवत्सल ॥ दैत्यदानवदर्पघ्न प्रणतार्त्तिविनाशन ॥ ३ ॥ कामका
मद कामध विश्वयोने जगत्पते ॥ महामूर्त्तिनिशातेशस्य तमसः प्रविनाशन ॥ ४ ॥ न ते विदुः सुरगणाः प्रभवं न महर्षयः ॥
आदिस्त्वं सर्व्वधर्म्माणामृषीणां च जगद्गुरो ॥ ५ ॥ सूक्ष्मस्त्वं सर्व्वभूतेभ्यो महद्द्भ्यश्च महत्तरः ॥ दूरगस्त्वं महाभाग सर्व्वेषामपि चागतः ॥ ६ ॥
सर्व्वभूतान्तरस्थोऽपि कर्म्मभिर्न च लिप्यसे ॥ अशरीरः शरीरस्थः सर्व्वभूतेष्ववस्थितः ॥ ७ ॥ पुरुषस्त्वं त्वमव्यक्तस्त्वामाहुर्बुद्धेव च ॥ महा
भूतानि भगवन्त्वं तथैवेन्द्रियाणि च ॥ ८ ॥ योगिभिर्मृग्यसे योगज्ञानज्ञेयपुरातन ॥ ये त्वां भजन्ति ते यान्ति भगवन्परमां गतिम् ॥ ९ ॥
जयमनघमजेयं विश्वगं देवदेवं त्रिदशरिपुविनाशे नित्यमुद्युक्तशक्तिम् ॥ द्विजसुरवरवन्द्यं नाशनं कल्मषाणां शरणमुपगतोऽहं वासुदेवं शरण्यम्
॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वासुदेवस्तोत्रं नाम सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ ३४७ ॥
॥ मार्कण्डेय उवाच ॥ वसुना वसुवेशेन वाग्मिना विष्णुरीडितः ॥ उवाच प्राञ्जलिं प्रह्रं पार्थिवं पुरतः स्थितम्॥१॥ वासुदेव उवाच ॥नानृतं नृप
वक्तव्यं प्राणैः कण्ठगतैरपि ॥ धर्मप्रश्नो न वक्तव्यस्त्वैकेन विशेषतः ॥ २ ॥ बहुज्ञेनापि धर्मज्ञ धर्मकामेन कर्हिचित् ॥ दुर्विज्ञेयास्तथा धर्माः
सूक्ष्मा राजनदुरन्वयाः ॥ ३ ॥ तस्माचैकेन वक्तव्याः कदाचिदपि जानता ॥ उक्तावृतं महन्नाशं त्वया कृच्छ्रं नराधिप ॥ ४ ॥ गतिर्भ्रंशस्तथै
वाता देवपक्षार्थवादिना ॥मम भक्तोऽसि सततं तेन ते निष्कृतिः कृता॥५॥ कालेनल्पेन कल्पेन या न शक्या सुरासुरैः ॥ गच्छ पालय राज्यं
त्वं तथैवाविचलो भव ॥ ६ ॥ नावमानं त्वया कार्यं ब्राह्मणानां कथञ्चन ॥ ब्राह्मणो हि महद्भूतं विश्वैयं दैवतं परम् ॥ ७ ॥ मार्कण्डेय उवाच ॥
एवमुक्त्वा वसुं विष्णुस्तत्रैवान्तर्द्दर्शनं गतः ॥ तार्क्ष्यण सहितो राजन्विस्मितश्चाभवद्वसुः॥८॥राज्यं चावाप भूयोऽपि खेचरत्वं तथैव चा।ततः सभाजित
मानां मनुष्याणां सात्त्विकानां द्विजोत्तमाः ॥ ३२४ ॥ सर्वदुःखविमोक्षाय भवन्तीयमपि ध्रुवम् ॥ अनन्तो भगवान्विष्णुस्तस्य कामविवर्जितैः ॥ ॥ ३२५॥ यद्देव दीयते किंचित्तेदेवाक्षयमुच्यते ॥ पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् ॥ ३२६ ॥ मूर्ध्ना प्रपद्यते दत्तमकामेन द्विजोत्तमाः ॥ नैवेद्यनाथ पुष्पौघा विविधैर्धनसंचयैः ॥ ३२७ ॥ नास्ति प्रयोजनं तस्य सर्वस्यास्यामितात्मनः ॥ भक्त्या प्रतीच्छते दत्तं भक्तानुकम्पकारणात् ॥ ॥ ३२८ ॥ तस्मात्सर्वास्ववस्थासु भक्तिरेवात्र कारणम् ॥ एकान्तभावोपगताः सर्वकामविवर्जिताः ॥३२९॥ वैष्णवं पदमासाद्य न निवर्त्तत कहिं- चित् ॥ न भयं नारकं तेषां न च व्याधिकृतं भयम्॥३३०॥ वृत्तिशत्रुजं वापि ये प्रपन्ना जनार्दनम्॥ ३३१॥निवेद्य भक्त्या मधुसूदनाय दुग्धन्दधूं वाप्यथ तत्प्रसूनम् ॥ दुर्वाङ्कुरं वा सलिलं द्विजेन्द्राः प्राप्नोति लोकानन्मनसा यथेष्टान् ॥ ३३२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय- वज्रसंवादे मुनीन्द्रां प्रति हंसगीतासु दानधर्मनिरूपणो नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥ ३४१ ॥ ऋषय ऊचुः ॥ नमस्ते देवदेवेश वासु- देव जनार्दन ॥ भक्तानुकंप वरद पुण्डरीकाक्ष सुव्रत ॥ १ ॥ ब्रह्मण्य पुरुषाचिन्त्य सृष्टिसंहारकारक ॥ त्रैलोक्यनाथ गोविन्द शरणागतवत्सल ॥ ॥ २ ॥ सर्वेश सर्वगीर्वाण सर्वव्यापिन्नमोस्तु ते ॥ नमोस्तु ते जगन्नाथ जगतामीश्वरेश्वर ॥ ३ ॥ सुरारिहंस्तर देवेश पितामहहरस्तुत ॥ विष्णो जिष्णो हरे कृष्ण विभो सूर्येंदुलोचन ॥ ४ ॥ सहस्रसूर्यप्रतिम जगत्पालनतत्पर ॥ वराहनरसिंहाय वामनानंतविक्रम ॥ ५ ॥ त्रिविक्रम क्रमाक्रांतब्रह्माण्डतटमण्डल ॥ चक्रधाराहताशेषदेवशत्रुगणेश्वर ॥ ६ ॥ स्मृतिमात्रसमस्ताघविप्रनाशनकारक ॥ शास्त्रापदेशदस्माकं हरि- स्थिततमोन्तक ॥ ७ ॥ वैकुण्ठ कुण्ठितारोषदानवालकवलानघ ॥ जठरान्तरसंलीनसमस्तभुवनत्रय ॥८॥ शशाङ्कलेखासंकाशदंष्ट्रोद्धृतवसुंधर ॥ महावराह विध्वस्तहिरण्याक्षमहासुर ॥ ९ ॥ दैत्येन्द्रवक्षोरुधिररक्तीकृतनखाङ्कुर ॥ ज्वालामालापरिक्षिप्तनरसिंहवपुर्धर ॥ १० ॥ लक्ष्मीकटाक्षाविक्षे- पशबलीकृतविग्रह ॥ कौस्तुभोद्भासितोरस्क तथा चामीकरांबर ॥ ११ ॥ भोगिभोगानलासीन तार्क्ष्यप्रवरकेतन ॥ शशाङ्कशतसङ्काश सततकृन्धर- वेद्या॥१२॥ मधुकैटभविध्वंसमेदोवधितभूतल ॥ नाभीसरोजसंभूतचतुर्मुख नमोस्तु ते ॥ १३॥ सर्वतः पाणिपादान्त सर्वतोक्षिशिरोमुख ॥ सर्वोङ्ग्- यगुणोपेत सर्वत्र पुरुषोत्तम ॥१४॥ योगिनां त्वं परं चक्षुर्योगिनां त्वं गतिः परा ॥ योगिनस्त्वं च संप्राप्य निवर्त्तन्ते न कर्हिचित् ॥ १५॥ नमस्त पुरतो देव पृष्ठतश्च नमोस्तु ते ॥ तिर्यङ्नमोस्तु ते देव सर्वत्र च नमोस्तु ते ॥ १६॥ मार्कण्डेय उवाच ॥ एवं स्तुतः स भगवानृषिभिस्तैस्तदानघः॥ दिव्यं चक्षुर्ददौ तेषामृषीणां भावितात्मनाम् ॥ १७॥ तेपश्यन्सकलं देहं तस्य त्रिभुवनं ततः ॥ हंसरूपधरस्याथ विष्णोरमिततेजसः ॥ १८ ॥
७८
वि० ध० । तृ० खं० ॥४६८॥ । अ० ३५१
नस, अग्निप्रोग, अभयपरिसंख्यान, युगादि, युगमध्य, युगनिधन, अखण्डले, प्राचीनगर्भ, कौशिक, पुरुहूत, पुरूहूत, विश्वहूत, विश्वहूत, विश्वरूप, अनन्तगते, अनन्तभोग, अनन्त, अनादिमध्य, अव्यक्तनिधन, व्रतवास, समुद्राधिवास, समवास, यशोवास, लक्ष्म्यावास, कीर्त्यावास, कन्यावास, श्रीवास, श्रीनिवास, सर्ववास, वासुदेव, सर्वच्छन्दोग, हरिश्य, हयमेध, यज्ञभागहर, वरप्रद, यम, नियम, महानियम, कृच्छ्रातिकृच्छ्र, महाकृच्छ्र, सर्वकृच्छ्र, नियमधर, निवृत्तधर्म, प्रवचनगते, प्रवृत्तवेदक्रिय, अज, सर्वगत, सर्वदर्शिन, अग्राह्य, अचर, महाविभूते, महात्म्यशरीर, पवित्र, महापवित्र, हिरण्मय, बृहत्, अप्रतर्क्य, अविज्ञेय, ब्रह्मन्निधे, प्रजासर्गकर, अजानिनचकर, महामायाधर, चित्रशिखण्ड, वरप्रद, पुरोडाशभागहर, गताध्वग, छिन्नतृष्ण, सर्वतो निर्वृत, ब्रह्मरूप, ब्रह्मचर, ब्राह्मणप्रिय, विश्वमूर्ते, महामूर्ते, बान्धव, भक्तवत्सले, ब्रह्मण्यदेव, भक्तोऽहं त्वां दिदृक्षुस्तेकान्तदर्शनायैत्यं नमः ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्वेतद्वीपे श्रीनारदस्तोत्रवर्णनो नाम पञ्चाशदधिकत्रिशततमोऽध्यायः ॥ ३५० ॥
मार्कण्डेय उवाच ॥ स ददर्श तदा विष्णुं विश्वरूपधरं हरिम् ॥ युक्तं वर्णैः शुक्लरक्तैः पीतरक्तसितासितैः ॥ १ ॥ क्वचिन्मेचकसंयुतैः क्वचिन्मेचकरञ्जितैः ॥ क्वचिच्छशांकसंकाशं क्वचिद्विद्रुमसंनिभम् ॥ २ ॥ क्वचिन्नरकतप्रख्यं पद्मरागनिनं क्वचित् ॥ क्वचित्कनकसंकाशं क्वचिन्नोत्पलप्रभम् ॥ ३ ॥ क्वचित्पाटालपुष्पाभं क्वचिद्भस्मासनिभम् ॥ कुंकुमाक्षोदसंकाशं हारिद्राक्षोदसंनिभम् ॥ ४ ॥ क्वचिद्वैडूर्यपत्रप्रख्यमिन्द्रनीलनिभं क्वचित् ॥ अनिर्देश्यानि वर्णानि तथा बिभ्रत्क्वचित्क्वचित् ॥ ५ ॥ नानाविधानां सत्त्वानां वदनानि बहूनि च ॥ ब्रह्मशंकराशक्राणां यमस्य वरुणस्य च ॥ ६ ॥ धनदस्य हुताशस्य वायोर्निरृतितस्तथा ॥ ब्रह्माणाञ्च ऋक्षाणां रुद्राणां वसुभिः सह ॥ ७ ॥ आदित्यानां समर्थानां भृगूणां च तथा द्विज ॥ तथैवाङ्गिरसां राजन्साध्यानामश्विभिः सह ॥ ८ ॥ दैत्यानामथ नागानां गन्धर्वाप्सरसाम् ॥ पितृपन्नगयक्षाणां तथा च पिशिताशिनाम् ॥ ९ ॥ मनुष्यहयनागानां गजाश्वमृगपक्षिणाम् ॥ द्वीपिणां शार्दूलासिंहानां सर्वेषां प्राणिनामथ ॥ १० ॥ कानिचित्तस्य सौम्यानि कानिचिद्विषणानि च ॥ ददर्श तस्य वक्राणि शतशोऽथ सहस्रशः ॥ ११ ॥ वक्रेषु तस्य रौद्रेषु प्राणिंसंधान्यनेकशः ॥ ददर्श सर्वतश्चामीन्ग्रस्यमानांश्च विष्णुना ॥ १२ ॥ सौम्यम्यस्तस्य वक्रेभ्यो निर्गच्छंस्त्यस्तथा प्रजाः ॥ बाहूश्च विविधांस्तस्य स ददर्शार्थ नारदः ॥ १३ ॥ हस्तैश्च विविधाकारानानायुधसमन्वितान् ॥ युक्तान्नानाविधैर्भाण्डैरगुवैश्च सहस्रशः ॥ १४ ॥ शङ्खकुन्देंदुवद्वदातैमसतुकृष्णाञ्जनानिगिभिः ॥ केचिच्च कलशं घण्टां शङ्खषोप्पलादिभिः ॥ १५ ॥ ॥४६८॥
केचित्खड्गदाचक्रचर्मशूलपरश्वधैः ॥ केचित्पाशमहादण्डकृपाणशरा कार्मुकैः ॥ १६ ॥ केचिच्छुशुण्डीलगुडशक्तिवज्राश्मपट्टिशैः ॥ वीज-
पूर्णाक्षमालाश्च पूर्णपात्रेस्तथा परैः ॥ १७ ॥ एवं नानाविधैर्भाण्डैः करांस्तस्य समन्वितान् ॥ असंख्येयान्महातेजा ददर्श मुनिसत्तमः ॥ १८ ॥
वृत्तशास्त्राविनिर्दिष्टो वृत्तकर्माण चाप्यथ ॥ शिरांसि दृष्ट्वो हस्तांस्तस्य देवस्य दृष्टवान् ॥ १९ ॥ त्रैलोक्यं च तथा काये सकलं मुनिसत्तमः ॥
देवदानवगन्धर्वयक्षोरगराक्षसम् ॥ २० ॥ द्वीपाम्भोधिनिलोकेक्ष पातालैश्चैव संयुतम् ॥ जगत्समग्रं देवस्य दृष्ट्वन्दृष्टवान्मुनिः ॥ २१ ॥
स दृष्ट्वा परमं रूपं भीतो दृष्ट्व विस्मितः ॥ पपात पादयोस्तस्य शिरसा साश्रुलोचनः ॥ २२ ॥ स्तोत्रेण चैव तुष्टाव पूर्वोक्तेन जनार्दनम् ॥
तमुवाच ततो देवः प्रसन्नतृप्तिसत्तमम् ॥ २३ ॥ ॥ श्रीभगवानुवाच ॥ ॥ उत्तिष्ठ भवेधर्मज्ञ वरं वृणु यथेप्सितम् ॥ ॥ श्रीनारद उवाच ॥
॥ नित्यमेकान्तिके देव भक्तिर्भवतु सा त्वयि ॥ नान्यं वरं कामयामि नराणामिदमुत्तमम् ॥ २४ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ तमुवाच ततो
देवः प्रणतातिहरो हरिः ॥ एतन्निसर्गसिद्धं ते येन त्वं दृष्टवान्मम ॥ २५ ॥ विश्वरूपमिदं ब्रह्मन्ब्रह्मज्ञेयं तथा त्वया ॥ तपस्तप्तं यतो विप्र ममापि
च ततस्तव ॥ २६ ॥ रूपमेतत्तमास्थाय रूपं स्वं द्विज दर्शितम् ॥ इच्छारूपणाहं कुर्यां शतशोऽथ सहस्रशः ॥ २७ ॥ त्रैलोक्ये यानि
रूपाणि देवादीनां द्विजोत्तम ॥ ममैव तानि जानीहि मत्तोऽन्यन्नास्ति किञ्चन ॥ २८ ॥ अहं भूतं च भव्यं च वर्तमानमहं तथा ॥ स्थावरं
जङ्गमं चैव सर्वमेवास्मि नारद ॥ २९ ॥ सञ्चाऽसञ्चाहमेवात्र तत्त्वमेतद्ब्रवीमि ते ॥ अशब्दमस्पर्श मस्पर्शगन्ध रूपविवर्जितम् ॥ ३० ॥ सर्वगं मां
विजानीहि परमार्थेन नारद ॥ यः करिष्यति मे स्तोत्रं स्तोत्रेण त्वत्कृतेन तु ॥ ३१ ॥ तस्य कामान्प्रिवास्यामि ये दिव्या ये च मानुषाः ॥
श्वेतद्वीपे गतिस्तस्य मृतस्य च भविष्यति ॥ ३२ ॥ श्वेतद्वीपमवाप्यापि नरः स्वस्थो भविष्यति ॥ वराहस्यास्य कल्पस्य यावत्कालोऽवशि-
ष्यते ॥ ३३ ॥ वाराहे तु गते कल्पे ततो मात्स्यो भविष्यति ॥ देवकार्याणि कार्याणि सुबहूनि यतस्त्वया ॥ ३४ ॥ प्रादुर्भावगतश्चाहमनुशास्य-
स्तथा त्वया ॥ प्रादुर्भावाणि मे ब्रह्मञ्छ्रौष्यसितानि सहस्रशः ॥ ३५ ॥ भविष्यन्ति तथान्यानि तत्र मे शृणु कानि चित् ॥ अहमेकार्णवे लोके
शेषपर्यङ्कशायिनः ॥ ३६ ॥ लक्ष्मीरूद्रसहायस्तिष्ठामि यदा सुतः पितामहः ॥ अहं मत्स्यस्तथा कूर्मो हंसोहमाप नारद ॥ ३७ ॥ क्रौड्रेण मया
विप्र वञ्चिता दैत्यदानवाः ॥ मयाश्वशिरसा वेदा दानवेभ्यस्तथा हृताः ॥ ३८ ॥ वाराहेण मया भूत्वा वसुंधयं समुद्धृता ॥ वाराहेण मया दैत्याः
पातालतलगा हताः ॥ ३९ ॥ त्वराहेण निहतो हिरण्याक्षो बलोत्कटः ॥ दानवाश्च हता युद्धे नरनारायणात्मना ॥ ४० ॥ लोकांतरे तथा मार्गे
हरिः कृष्णस्तथाप्यहम् ॥ नारसिंहेन रूपेण हिरण्यकशिपुर्हतः ॥ ४१ ॥ वामनेन मया भूत्वा बलिस्त्रिभुवनं हृतम् ॥ त्रिभिः क्रमैः पुरा ब्रह्मन्द्
७९
वानां हितकाम्यया ॥ ४२ ॥ वाडवोऽहं समुद्रस्थः पिबामि सलिलं सदा ॥ पृथ्वी वसुमती ब्रह्मन्पुथुना च मया कृता ॥ ४३ ॥ कपिलेन मया दुग्धा दग्धव्याः सगरात्मजाः ॥ दत्तात्रेयेण वसुधा देवा द्विजगणाः पुनः ॥ ४४ ॥ जामदग्न्येन रामेण लघ्वी वसुमती कृता ॥ त्रिःसप्त कृत्वः कर्तव्या क्षत्रभारप्रपीडिता ॥ ४५ ॥ दत्त्वा चतुर्धा पुत्रांश्च मया दशरथस्य च ॥ रामेण रावणवधः कर्तव्यो जनतासुखम् ॥ ४६ ॥ कार्यं गन्धर्वनिधनं तथैव भरतात्मना ॥ मेघनादवधः कार्यों लक्ष्मणेन तथा मया ॥४७॥ शत्रुघ्नेन च कर्त्तव्यो लवणस्य वधस्तथा॥ मया वाल्मी किना कार्यं काव्यं रामायणं तथा ॥४८॥ व्यासेन वेदा वक्तव्या आख्यानं भारतं महत् ॥ मया ब्राह्मणशार्दूल तथा द्वैपायनात्मना॥४९॥पाण्डोः पुत्रत्वमासाद्य पञ्चधा च तथा मया ॥ द्विधा च वसुदेवस्य लघ्वी कार्या वसुन्धरा ॥५०॥ नरलोके निहन्तव्या दैत्या मातृपरूपिणः ॥ बलभद्रेण च मया हन्तव्या यौष्ठिकादयः ॥ ५१ ॥ मया कृष्णेन हन्तव्याः कंसपूर्वा महाबलाः ॥ प्रद्युम्नेन निहन्तव्यः शम्बरश्च महाबलः ॥ ५२ ॥ हन्तव्याश्चानिरुद्धेन दैत्याः शतसहस्रशः ॥ सर्वेन युगधानेन मया भूत्वा तथैव च ॥५३॥ मया बुद्धेन वक्तव्या धर्माः कलियुगे पुनः ॥ हन्तव्या म्लेच्छराजानस्तथा विष्णुयशसात्मना ॥५४॥ ममांशेन विजानन्ति पृथिव्यां चक्रवर्त्तिनः ॥ ऋषयश्च तथा ज्ञेया ममैवांशसमुद्भवाः ॥५५॥ यद्यद्धि भूतिमत्सत्त्वं श्रीमदूर्जितमेव च ॥ तत्तदेवावगच्छेस्त्वं मम तेजोंशसम्भवम् ॥ ५६ ॥ अथ वा बहुनैतेन किं ज्ञानेन तवानघ ॥ विष्टभ्याहमिदं कृत्स्नमेकांशेनस्थितो जगत् ॥ ५७॥ तद्गच्छ मानसीं सिद्धिः सदा तेऽस्तु द्विजोत्तम ॥ कल्पावसानमासाद्य मच्छरीरं प्रवेक्ष्यसि ॥ ५८ ॥ एता वदुक्त्वा वचनं तत्रैवान्तरधीयत ॥ भगवान्द्वारकेशेके पूजां तद्देशवासिनाम् ॥५९॥ तैश्च संपूजितो विप्रस्तानप्रणम्य यतव्रतः ॥ आजगाम ततः शीघ्रं नरनारायणाश्रमम् ॥ ६० ॥ पाद्यार्घ्याद्युपतस्तत्र स तयोर्मुनिपूज्योः ॥ ताभ्यां संपूजितो विप्रस्तत्रोवास तदाश्रम ॥ ६१ ॥ ततः कदाचित्तं विप्रमृचुस्तौ तपोधनौ ॥ आवाभ्यां त्वं तथा दृष्टः श्वेतद्वीपात्तडेऽच्युतः ॥ ६२ ॥ समीपं देवदेवस्य तदहस्त्वेथथासुखम् ॥ लोकैस्मिन्मुनि शार्दूल नास्ति धन्यतरस्त्वया ॥ ६३ ॥ दृष्टवानसि यद्ब्रह्मन्विश्वेश्वरं हरिम् ॥ त्रैलोक्यसारं विश्वेशं प्रणतार्तिविनाशनम् ॥ ६४ ॥ यतस्त्वं तुग्रहस्तेन कृतो देवेन विष्णुना ॥ ततो गुह्यं निबोधेमं तत्पूजाविधिसुत्तमम् ॥ ६५ ॥ सर्वकर्मकरं दिव्यं सकलार्थप्रदं शिवम् ॥ नाभक्त्याय च तद्देयं तया ब्राह्मणसत्तम ॥६६॥ एकान्तभावोपगतं जनार्दनं नरस्तु सम्पूज्य तथा विधानतः ॥ प्रयाति तद्धाममनुत्तमं शिवं न यत्र गत्वा विनि व र्त्तते पुनः ॥ ६७॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे विश्वरूपाख्यानं नामैकपञ्चाशदुत्तरेदिशततमोऽध्यायः॥३५१॥नरनारा यणावूचतुः ॥ आदावेव सरःसरित्प्रस्रवणसमीपगृहोपवनपर्वतमस्तकानामन्यतमे हृद्ये देशे सुसमे मनोहरं हस्तमात्रं मण्डलकमुपकल्पयेत् ॥
तत्र मध्येडष्टपत्रं पद्मालिखेत् ततस्तूदाहृतचतुरस्रतया चतुर्द्वारेलेखया विभजेत् । ततः पद्मकर्णिकामध्ये श्वेतं शतपत्रं पद्मं ध्यायेत् । तत्कर्णिकोप- र्युर्कमण्डलम् तदुपरि चन्द्रमण्डलम् तदुपरि अग्निमण्डलम् तन्मध्ये परमं पुरुषम् अशरीरम् अगन्धम् अरसम् अरूपम् अस्पर्शम् अशब्दम् सर्व्वगं प्लुतान्तम् ॐकारं विन्यसेत् । कमलपूर्व्वदले अकारं वासुदेवं न्यसेत् श्वेतवर्णं ध्यायेत् दक्षिणे आकारं संकर्षणं विन्यसेत् पद्मनाभं तं च ध्यायेत् पश्चिमे दले ओङ्कारं प्रद्युम्नं विन्यसेत् पीतवर्णं च ध्यायेत् ॥ उत्तरे दले अकारमनिरुद्धं विन्यसेत् कृष्णवर्णञ्च ध्यायेत् ॥ ऐशाने दले तदिति ब्रह्माणं विन्यसेत् पद्मनाभं ध्यायेत् ॥ सूर्य्यकोटिसमं ध्यायेत् ॥ वायव्यदले वराहं विन्यसेत् । भित्राञ्जनसमं ध्यायेत् ॥ पूर्व्वद्वारे ॐकं टैं एता न्यक्षराणि वैनतेयं विन्यसेत्। हेमवर्णं च ध्यायेत्।॥ दक्षिणे द्वारे तेजोरथन्तरचक्रं सुदर्शनं विन्यसेत् । वज्रनाभं सहस्रारं सूर्य्यकोटिसमप्रभं ध्यायेत् ॥ पश्चिद्वारे शार्ङ्गं विन्यसेत् । इन्द्रचापनिभं ध्यायेत् ॥ स्वं ढैं हैं यैं उत्तरे द्वारे अनिरुद्धं न्यस्येत् । सर्व्ववर्णं ध्यायेत् । वं खं क्षैं क्षैं विदिक्षु पाञ्चजन्यं शंखं न्यसेत् । शशाङ्कवर्णं ध्यायेत् ॥ घं दें हैं भैं श्रियं पद्मं दक्षिणतो न्यसेत् । शुक्लां ध्यायेत् ॥ गैं दें वैं पश्चिमान्तरतः पुष्टिं न्यसेत् । श्वेतां ध्याये त् । हैं सें पुरतो वनमालां न्यसेत् । हैं सें बहुवर्णां ध्यायेत् ॥ ॐ चित्तैशान्त्यां नन्दकं न्यसेत् । आकाशवर्णं ध्यायेत् ॥ ॐमित्याग्नेय्यां वर्णं न्यसेत् । बहुवर्णं ध्यायेत् ॥ ॐ झें लें श्रीवत्सं न्यसेत् । शुक्लां ध्यायेत्॥ॐ छैं दें वायव्ये कौस्तुभं न्यसेत् आदित्यं दीप्तं ध्यायेत्॥ ततो मंडले बाह्यार्थ्या यथास्वदिशमोङ्कारोङ्कारी दिक्पती शक्राग्नी यमनैर्ऋतवरुणपवनकुबेरैशान्यां न्यसेत् । यथोक्तरूपं ध्यायेत् ॥ ॐ नमो भगवते वासुदेवायेत्यन्तेन द्वादशाक्षरेण कर्णिकामध्ये पुरुषमाद्यञ्चापाद्य। आचमनोपनालेपनपुष्पधूपवस्त्रधूपनैवेद्यफलमूल्याणि निवेदयेत् ॥ ॐनमो नारायणायत्यथ वाष्टाक्षरेण मन्त्रण । “ॐ जितन्तं पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ नमस्तेस्तु हृषीकेश महापुरुष पूर्व्वज ॥” इत्य नेन मंत्रेण पुरुषसूक्तेन वा । अथान्यान्दलानिग्विद्वान्द्वान्थ्याभिहितैर्मन्त्रैः पृथक्पृथगर्चयेद् ॥ अनेन विधिना यस्तु विष्णुमभ्यर्चयेन्नरः । सर्व्वान्कामांश्चयदर्थीन्तत्क्रतुफलो हि जायते ॥ १ ॥ कृत्वा व्याधिं व्याधितं भक्षयति न करोति न तदाप्नोति इदं त्वन्य त् । धन्यं यशस्यं पुण्यं च पवित्रं पापनाशनम् ॥ आरोग्यं धनधान्यवर्द्धनं शत्रुघ्नं वशीकरणं यः पुरुषोक्तेन विधिना सतत द्देवमभ्यर्चयति सम्पत्ति जनयति अथ वा तस्य न रोचते तदा श्वेतद्वीपमवाप्य अर्कमण्डलं भित्त्वा निष्प्रणद्धि प्रथमसंकर्षणेणा न्प्राप्नोति सुदेवत्वमवाप्य निष्कलत्वमाप्नोति ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ष० मा० व० सं० नारायणपूजनप्रकारवर्णनो नाम द्विप ञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५२ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ एतद्धि नारदः श्रुत्वा नरनारायणेरितम् ॥ अनेनैव विद्या
नेन सततं मधुसूदनम् ॥ १ ॥ पूजयामास धर्मात्मा तद्गतेनान्तरात्मना ॥ ततः पुंसवने भगवान् नारदस्य महात्मनः ॥ २ ॥ प्रत्यक्षतः पुनश्चैतं नारदं वाक्यमब्रवीत् ॥ गच्छ नारद भद्रं ते लोकांश्चर यथेप्सितान् ॥ ३॥ दर्शनं ते वरं दास्यामि कालेकाले यथेप्सिते ॥ अनुग्रहमिदं प्राप्य देशेष्वात्य- रुषोत्तमात् ॥ ४॥ चचार नारदो लोकान्त्रिंत्यं संत्यज्यनह्वरिम् ॥ विश्वरूपमिदं दृष्टं नारदेन महात्मना ॥ ५ ॥ प्रह्लादेन पुनस्तेन नरकेसरिरूपिणः ॥ तथा चामृतकार्दद्दे तेनैव च महात्मना ॥ ६ ॥ ब्रह्मणा च पुरा दृष्टं त्रैलोक्याक्रमणे पुनः ॥ पश्चिमे सागरे दृष्टं दशग्रीवेण रक्षसा ॥ ७ ॥ कृष्णावतारे दूत्येन गतस्य मधुविद्विषः ॥ धृतराष्ट्रसभामध्ये ऋषिभिश्च परीक्षितः ॥ ८ ॥ महाभारतसंग्रामे दृष्टवानर्जुनस्तथा ॥ बन्धुनाशभयोद्विग्नो यत्र तेन प्रबोधितः ॥ ९॥ निवृत्ते भारते युद्धे गच्छन्तो द्वारकां पुनः ॥ मार्गागतेन तद्दृष्टमुत्तंकेन महात्मना ॥ १० ॥ त्रैलोक्यानाथो गोविन्दः सततं भक्तवत्सलः ॥ तस्य कर्माणि यो नित्यं पुरुषः परिकीर्तयेत् ॥ ११ ॥ शृणुयाद्वा महीपाल शुचिस्तद्गतमानसः ॥ सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ १२ ॥ एवं स राजन्द्धिजवर्यमुख्यः संभाप्तवान्देववरात्प्रसादम् ॥ भक्तिप्रकर्षेणचप्रसादात्तस्माद्विकामाम्नुरुषा लभेते ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे नारदप्रसादो नाम त्रिपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५३ ॥
॥ वज्र उवाच ॥ ॥ माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ॥ तन्तिं विमृते तस्मान्माहात्म्यमपरं वद ॥ १ ॥ तस्यैव देवदेवस्य विष्णोरमिततेजसः ॥ रक्षांयुक्तं पवित्रं च लोकैश्चाप्यश्रुतम्भवम् ॥ २ ॥ मार्कण्डेय उवाच ॥ ॥ एकान्तभावोपगतः कश्चिदासी द्विजोत्तमः ॥ ३ ॥ सात्वतो गौतमश्रेष्ठो विष्वक्सेन इति श्रुतः ॥ पञ्चकालविधानज्ञः पाञ्चरात्रविधानवित् ॥ ४ ॥ सततं पूजयामास देवदेवं जनार्दनम् ॥ कृष्णायतनपूजांच स बभ्राम वसुन्धराम् ॥ ५ ॥ आसासाद कदाचित्तु पर्वतं गह्वरं महत् ॥ यत्र माहेश्वरः सर्वो जनो यद्रुजो बहु ॥ ६ ॥ स तत्र निर्झरे स्नात्वा पूजयामास केशवम् ॥ वेद्यां प्रकल्पितायां तु भोगैः सन्निहितैः प्रसूनैः ॥ ७ ॥ तस्मात्तु गह्वरात्कश्चिद्विनिष्क्रम्य यदृच्छया ॥ निबद्धखड्गैर्बह्वभिः पुरुषैश्चापपाणिभिः ॥ ८ ॥ सहितस्ते ददर्शार्थं पूजयन्तं जनार्दनम् ॥ तस्य गत्वा समीपे तु आप्तस्वामिकुमारकः ॥ ९ ॥ तमुवाच त्वमम्यर्थ्य देवकर्म कुरुष्व मे ॥ शिरोरुग्गदितास्तातं स्नातुं शक्नोमि नाद्य वै ॥ १०॥ देवकर्मयशश्चिन्तिं तात पूजय शङ्करम् ॥ देवनायतनं गत्वा यत्र तात प्रतिष्ठितम् ॥ ११ ॥ लिङ्गमस्ति सुरेशस्य महादेवस्य निर्मितम् ॥ एतदुक्तं प्रत्युवाच वयमर्कांचिनः श्रुताः ॥ १२ ॥ चतुरात्मा हरिः पूज्यः प्रादुर्भावगतोऽथ वा ॥ पूजयाम्यथ नैवान्यं तस्मात्तं गच्छ मा चिरम् ॥ १३ ॥ एवमुक्तः कुमारस्तु खङ्गमाकृष्य सत्त्वरम् ॥ तमुवाच वदा विप्रं त्वां वधिष्ये न संशयः ॥ १४ ॥ यदि लिङ्गार्चनं गत्वा न
करोषि हि दुर्मते ॥ शङ्करादधिको देवो न ह्येकोऽस्ति नराधम ॥ १५॥ खङ्गेन पातयिष्यामि भवच्छीर्षमसंशयम् ॥ एवमुक्तः स तेनाथ प्राणरक्षापरायणः ॥ १६ ॥ बहिर्गच्छामि तत्रेति तेन सार्धं तदा ययौ ॥ दृष्ट्वा च लिङ्गं देवस्य चिन्तयामास धर्मवित् ॥ १७ ॥ विष्णुः सर्वगतो देवः सर्वोत्मा मधुसूदनः ॥ तस्य रौद्रेण भावेन महादेवः प्रतिष्ठितः ॥ १८ ॥ तस्य वै रौद्रभावेन नरसिंहस्तथा प्रभुः ॥ लिङ्गस्मिन्पूजयिष्यामि नरसिंहवपुर्धरम् ॥ देवदेवं महात्मानं तेन नित्यं सुरार्चनात् ॥ १९ ॥ प्रत्यपायो न भविता प्राणात्राणमभीप्सितः ॥ ततः स देवदेवेशं नरसिंहवपुर्धरम् ॥ २० ॥ मनसा तु तदा ध्यात्वा पूजयामास लिङ्गम ॥ नमोस्तु ते नृसिंहाय वदन्नेव कृताञ्जलिः ॥ २१ ॥ नमोस्तु नरसिंहाय श्रुत्वा तस्मात्सुभाषितम् ॥ आमेशानन्ददः क्रुद्धः खड्गमाकृष्य सत्वरम् ॥ २२ ॥ प्रहारमुद्यतो दातुं तस्य विप्रस्य धीमतः ॥ लिङ्गं भित्त्वा ततो देवो नरसिंहवपुर्धरः ॥ २३ ॥ समुत्थाय ततः क्रोधाद् ग्रामस्वामिकुमारकम् ॥ ददाह भगवाञ्छीघ्रं नेत्रवह्निना ॥ २४ ॥ तस्य सात्वतमुख्यस्य दिव्यं चक्षुर्ददौ ततः ॥ दृदृशं येन वेशेन नरसिंहवपुर्धरम् ॥ २५ ॥ दृष्ट्वा स्तोत्रेण तुष्टाव तदा तस्य जनार्दनः ॥ स्तोत्रस्य तु वरं प्रादान्तन्मे निगदतः शृणु ॥ २६ ॥ रक्षोघ्नं पापनाशनं भूतवेतालनाशनम् ॥ यो जपेत्तत्सदैवास्तु मङ्गल्यं श्रीविवर्धनम् ॥ २७ ॥ नारसिंहेषु लोकेषु मोदते सहितो मया ॥ यावत्कल्पायुषं तु ततो मामन्वेष्युपैष्यसि ॥ २८ ॥ एतावदुक्त्वा सहसा तु तेन तत्रैव देवप्रवरो महात्मा ॥ अपश्यतां यादववंशमुख्य जगाम शीघ्रं नरसिंहसूनुः ॥ २९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लिङ्गोस्फोटननसिंहदर्शनवर्णनो नाम चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ ३५४ ॥ ॥ छ ॥
वज्र उवाच ॥ सात्वतेन स्तुतो येन स्तोत्रेण मधुसूदनः ॥ तन्मे स्तोत्रं समाचक्ष्व सर्वकल्मषनाशनम् ॥ १ ॥
मार्कण्डेय उवाच ॥ शृणु स्तोत्रमिदं वज्र लिङ्गास्फोटामिति श्रुतम् ॥ सर्वपापप्रशमनं माङ्गल्यं श्रीविवर्धनम् ॥ २ ॥ ॐ नमो भगवते वासुदेवाय नमो नरसिंहायादिदेवाय सर्वलोकपरमाय नारायणाय नित्यसन्निहितसंत्राशक्तिकबलीयतेजोविभवाय महारजतपर्वतप्रकाशवपुषे वृहत्केसरसटाय शिवप्रदेणाशम्भु व्रतताभ्ररुचितविस्फूर्जितप्रभोमहमेवर्णाय प्रप्रञ्जनबवाषापनयनाननिमितोत्पन्नभ्रुकुटिटिलललाटाय शतह्रदावर्तततादिक्षिप्यमाणेक्षणयुगलाय ज्वलदनललोलपिङ्गुवृत्तदंष्ट्राशाय स्फुटविचितट्यमनेसहपुरविभीषणप्राणवंशाय स्फुरत्पूणोर्भिमयकपोलदेशपाश्वींय बालचन्द्राकारोष्ठपुट विनिर्गतभ्राजमानातिदीक्षातिसतमहेमदंष्ट्रसर्वव्याप्तमागमक्षमाशनसहलावपातंडुदवातर्जितातिभीमनिनादाय मुहुर्मुहुर्व्यात्तभीमाभैभवदनदेश्यमानशुद्धिशिखरदशनपंक्तितागराविभास्वरसन्ध्यात्तुरीजनतभरुयलोप्रकाशवपुषे ताळुलेललिहिलातभ्रात्स्वरसमायुक्तचित्तमंवांसकूं
वि० ध० ॥४७९॥
तृ० खं० अ० ३६५
टस्कन्धमध्यदेशसुप्रतिष्ठितपीनवृत्तचारुकम्बुग्रीवाय श्रीवत्सांकितालङ्कृतमहावक्षस्थलाय विविधरुचिरपरमसुगन्धिपुष्पकृतपुष्पग्रथितप्रलम्बमा- लाधराय मरुतादित्यमचलालोलविजयोन्नासमुद्गतबाहुप्रकोष्ठकरतलकरजोन्नताग्रोन्नतहस्ताय हिरण्यकशिपुरुधिरपानसुतीक्ष्णवज्रायुधाय परम- पीतकौशेयवस्त्रबद्धकृद्व्यापिकाराय वज्रसंहतोग्रतप्तसुवर्णसुश्लिष्टसंनिकटस्फूरुजानुमहाप्ररुपनरसिंहविदेवाय स्थिरसमुपक्रमेतिकचितप्रसृतस्तन्वा काग्रुदगुलफसिन्ध्महाबाहुकेवमहाजवाय चरणविक्रमप्रभावक्रम्यमानामृतधिवीतलाय श्रीवृक्षशंखचक्रगदासिनंदकध्वजौंकुशरथपतत्रपक्षारिशक मत्स्यकूर्मवीचीपद्मचन्द्रांकवृषभाश्वगजस्थरपरमगुरूपपरमस्मेरव्योमकेूटध्यायन् तमुद्मेन्दुवसुसुरुदितस्याध्यायिमकद्रूपंसंतनुस्तन्वान्तिचिन्तयन्तिचिन्तितिसु खप्रसन्नचरणाय भगवन्नमस्ते त्वमागच्छागच्छ भगवन्नात्मबलवीर्यतेजोगुणाणामविक्रमांसांयोण्याध्यात्म्यापिवन्निशौचधर्ममाहात्म्यान्विताविभोवितोति ष्ठ परमदेव सर्वगात्राण्यभिवृन्वन्त्सर्वपापान्पपामुञ्जय विप्रनाशाग्विद्यानां विप्रनाशाय विद्यानां परमपुरुष परममाङ्गल्य भक्तवत्सल भक्तानुग्र हायामभयप्रदाय तद्धलास्त्यमनामयनुत्तमं निःश्रेयसं तद्भगवान्वन्दतां निरस्य पाप्मानं निरस्य कल्मषं शश्वच्छान्तिसम्पन्नय श्रेय उपनय स्वस्तिसुपनय आशिषसुपनय ब्रह्म प्रपद्ये त्वां विष्णो भगवन्पुण्डरीकाक्ष ज्ञानैश्वर्यशक्तिबलेतेजोगुणात्मक परमपुरुष परमम्प्रकृष्य परानाम ह्यशिरः आदिवराह नरसिंह वामन त्रिविक्रम राम राम वासुदेव सङ्कर्षण प्रद्युम्नानिरुद्ध पुरुष सत्याच्युत वासुदेव आदिमध्यानिधनकंचौचित चे ष्टात्ममायाहोरगरात्र्यतिर्माऽब्रहुक्लृग्ग्वासः सुपर्ण तालमकरध्वजपरमाविद्याकमेकलाभ स्वस्त्यस्यम मृत्वं स्वस्ति प्रजाभ्यः ॥ त्वमेव मंत्रं त्वं रक्षा त्व मौषधमनुत्तमम् ॥ त्रिविधादपि दुःस्वान्मां प्रत्रोदय जगत्पते ॥ १ ॥ ब्रह्मन्नपश्ये त्वां विष्णो शरणागतवत्सल ॥ तदा शुद्धो महामतिर्भवद्दुःख विनिर्गतः ॥ २ ॥ इत्युक्तः स च राजेन्द्र ऋषिणा दिव्यचक्षुषा ॥ नमस्कृत्य ऋषेः पादौ सगणः सह राजभिः ॥ प्रदक्षिणमुपाकृत्य प्रविवेशा पुरं स्वकम् ॥ ३ ॥ ऋषयस्तेऽप्यनुज्ञाता मार्कण्डेयेन धीमता ॥ नमस्कृत्य हरिं देवं स्वाश्रमं जग्मिरे तदा ॥ ४ ॥ राजापि वज्रो धर्मात्मा मार्कण्डेयेन भाषितम् ॥ पुराणं चिन्तयन्नित्यं नारायणपरायणः ॥ राज्यं च प्राशशन्नित्यं प्रजा धर्मेण पालयन् ॥ ५ ॥ इति श्रीविष्णुमहापुराणे द्वितीयभागे श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्रीनरसिंहस्तोत्रवर्णनं नाम पञ्चपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३६५ ॥
॥ इति श्रीविष्णुधर्मोत्तरं समाप्तम् ॥ ॥ समाप्तं चेदं विष्णुमहापुराणम् ॥
इदं पुस्तकं खेमराज-श्रीकृष्णदासश्रेष्ठिना मुंबय्यां (खेतवाडी ७ वीं गली खम्बाटा लेन) स्वकीये "श्रीवेङ्कटेश्वर" (स्टीम्) मुद्राद्यन्त्रालये मुद्रयित्वा प्रकाशितम् ॥ संवत् १९६९, शके १८३४। पुस्तक मिलनेका ठिकाना--खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" स्टीम प्रेस-बम्बई.
॥४७९॥
The provided image is completely blank and contains no text to transcribe.