भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 569, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 569

[Page Headings] प्रायश्चित्ताध्यायः ५१३

[Text] चलाना, घातक हथियार बनाना, व्यसन (मृगया आदि), स्वयं को बेचना, शूद्र की सेवा, नीच व्यक्ति से मित्रता, (विवाहिता सवर्णा स्त्री के रहते) हीन कोटि की स्त्री का उपभोग, किसी आश्रम में न रहना, दूसरे के अन्न से जीवन चलाना, निन्दित शास्त्रों (चार्वाकों आदि के ग्रन्थों) का अध्ययन, सोने आदि की खान पर अधिकार, और पत्नी का विक्रय-इन सब में प्रत्येक को उप- पातक समझना चाहिए ॥ २३४-२४२ ॥ एवं व्यवहारार्थं संज्ञाभेदसहितं प्रायश्चित्तनिमित्तपरिगणनं कृत्वा नैमित्ति- कानि प्रदर्शयितुमाह— शिरःकपाली ध्वजवान्भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमवाप्नुयात् ॥ २४३ ॥ शिरसः कपालमस्यास्तीति शिरःकपाली, तथा ध्वजवान् 'कृत्वा शवशिरो- ध्वजम्' (११।७२)— इति मनुस्मरणात् । अन्यच्छिरःकपालं दण्डाग्रसमारो- पितं ध्वजशब्दवाच्यं गृह्णीयात् । तच्च कपालं स्वव्यापादितब्राह्मणशिरःसंबन्धि ग्राह्यम् । 'ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरःकपालमादाय तीर्थान्यनुसंच- रेत्' इति शातातपस्मरणात् । तदलाभेऽन्यस्यैव ब्राह्मणस्यैव ग्राह्यम् । एतदुभयं पाणिनेव ग्राह्यम् । 'खट्वाङ्गकपालपाणिः' (२२।४) इति गौतमस्मरणात् । 'खट्वाङ्ग'शब्देन दण्डारोपितशिरःकपालात्मको ध्वजो गृह्यते; न पुनः खट्वैक- देशः, 'महोक्षः खट्वाङ्गं परशुः' इत्यादिव्यवहारेषु तस्यैव प्रसिद्धेः । एतच्च कपालधारणं चिह्नार्थं, न पुनर्भो जनार्थं भिक्षार्थं वा; 'मृन्मयकपालपाणिर्भिक्षायै ग्रामं प्रविशेत्' (२२।४) इति गौतमस्मरणात् । तथा वनवासिना च तेन भवितव्यम् । 'ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत्' (११।७२) इति मनुस्मरणात् । ग्रामसमीपादौ वा । (मनुः ११।७८)—'कृतवापनो वा निव- सेद् ग्रामान्ते गोव्रजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥' इति तेनैवोक्तत्वात् । 'कृतवापनो वा' इति विकल्पाभिधानाज्जटी वेति लक्ष्यते । अत एव संवर्तः—'ब्रह्महा द्वादशाब्दानि बालवासा जटी ध्वजी' इति तथा भिक्षाशनशीलश्च भवेत् । भिक्षा च लोहितकेन मृन्मयखण्डशरावेण ग्राह्या; 'लोहितकेन खण्डशरावेण ग्रामं भिक्षायै प्रविशेत्' (१२४।१४) इति आप- स्तम्बस्मरणात् । सप्तागाराण्येवोन्नमिष्टं लभ्येत वानवेत्येवमसंकल्पितानि भिक्षार्थं प्रविशेत्; 'सप्तागाराण्यसंकल्पितानि चरेद्भैक्षम्' (१०।७) इति वसिष्ठस्मरणात् । तच्चैककाल एव सा ग्राह्या; 'एककालाहारः' इति तेनैवोक्त-


[Footnotes] १. ब्रह्महा द्वादशसमा । २. सर्वभूतहिते । ३. चीरवासा जटी । ४. ण्येवान्न मृष्टं लभ्यते नान्नेत्येवमसंकल्पितानि । ५. तथा सायंकाल एव ।