याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
[Page Headings] प्रायश्चित्ताध्यायः ५१३
[Text] चलाना, घातक हथियार बनाना, व्यसन (मृगया आदि), स्वयं को बेचना, शूद्र की सेवा, नीच व्यक्ति से मित्रता, (विवाहिता सवर्णा स्त्री के रहते) हीन कोटि की स्त्री का उपभोग, किसी आश्रम में न रहना, दूसरे के अन्न से जीवन चलाना, निन्दित शास्त्रों (चार्वाकों आदि के ग्रन्थों) का अध्ययन, सोने आदि की खान पर अधिकार, और पत्नी का विक्रय-इन सब में प्रत्येक को उप- पातक समझना चाहिए ॥ २३४-२४२ ॥ एवं व्यवहारार्थं संज्ञाभेदसहितं प्रायश्चित्तनिमित्तपरिगणनं कृत्वा नैमित्ति- कानि प्रदर्शयितुमाह— शिरःकपाली ध्वजवान्भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमवाप्नुयात् ॥ २४३ ॥ शिरसः कपालमस्यास्तीति शिरःकपाली, तथा ध्वजवान् 'कृत्वा शवशिरो- ध्वजम्' (११।७२)— इति मनुस्मरणात् । अन्यच्छिरःकपालं दण्डाग्रसमारो- पितं ध्वजशब्दवाच्यं गृह्णीयात् । तच्च कपालं स्वव्यापादितब्राह्मणशिरःसंबन्धि ग्राह्यम् । 'ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरःकपालमादाय तीर्थान्यनुसंच- रेत्' इति शातातपस्मरणात् । तदलाभेऽन्यस्यैव ब्राह्मणस्यैव ग्राह्यम् । एतदुभयं पाणिनेव ग्राह्यम् । 'खट्वाङ्गकपालपाणिः' (२२।४) इति गौतमस्मरणात् । 'खट्वाङ्ग'शब्देन दण्डारोपितशिरःकपालात्मको ध्वजो गृह्यते; न पुनः खट्वैक- देशः, 'महोक्षः खट्वाङ्गं परशुः' इत्यादिव्यवहारेषु तस्यैव प्रसिद्धेः । एतच्च कपालधारणं चिह्नार्थं, न पुनर्भो जनार्थं भिक्षार्थं वा; 'मृन्मयकपालपाणिर्भिक्षायै ग्रामं प्रविशेत्' (२२।४) इति गौतमस्मरणात् । तथा वनवासिना च तेन भवितव्यम् । 'ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत्' (११।७२) इति मनुस्मरणात् । ग्रामसमीपादौ वा । (मनुः ११।७८)—'कृतवापनो वा निव- सेद् ग्रामान्ते गोव्रजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥' इति तेनैवोक्तत्वात् । 'कृतवापनो वा' इति विकल्पाभिधानाज्जटी वेति लक्ष्यते । अत एव संवर्तः—'ब्रह्महा द्वादशाब्दानि बालवासा जटी ध्वजी' इति तथा भिक्षाशनशीलश्च भवेत् । भिक्षा च लोहितकेन मृन्मयखण्डशरावेण ग्राह्या; 'लोहितकेन खण्डशरावेण ग्रामं भिक्षायै प्रविशेत्' (१२४।१४) इति आप- स्तम्बस्मरणात् । सप्तागाराण्येवोन्नमिष्टं लभ्येत वानवेत्येवमसंकल्पितानि भिक्षार्थं प्रविशेत्; 'सप्तागाराण्यसंकल्पितानि चरेद्भैक्षम्' (१०।७) इति वसिष्ठस्मरणात् । तच्चैककाल एव सा ग्राह्या; 'एककालाहारः' इति तेनैवोक्त-
[Footnotes] १. ब्रह्महा द्वादशसमा । २. सर्वभूतहिते । ३. चीरवासा जटी । ४. ण्येवान्न मृष्टं लभ्यते नान्नेत्येवमसंकल्पितानि । ५. तथा सायंकाल एव ।
५१४ याज्ञवल्क्यस्मृतिः
त्वात् । एतच्च भैक्षं ब्राह्मणादिवर्णेष्वेव कार्यम् ; ‘चातुर्वर्ण्यं चरेद्भैक्षं खट्वाङ्गी संयतात्मवान्’ इति संवर्तस्मरणात् । तथा ‘ब्रह्महाऽस्मि’ इति स्वकर्म ख्यापयन् द्वारि स्थितो भिक्षां याचेत; ‘वेश्मनो द्वारि तिष्ठामि भिक्षार्थी ब्रह्मघातकः’ इति पराशरस्मरणात् । अयं च भैक्षाशित्वनियमो वन्यैर्जीवनाशक्तौ द्रष्टव्यः; ‘भिक्षायै प्रविशेद् ग्रामं वन्यैर्यदि न जीवति’ इति संवर्तस्मरणात् । तथा ब्रह्मचर्यादियुक्तेन च तेन भवितव्यम् । खट्वाङ्गकपालपाणिर्द्वादशवत्सरान्ब्रह्म- चारो भिक्षायै ग्रामं प्रविशेत्कर्माचक्षाणः । यथोपक्रामेत्स संदर्शनादार्यस्य (‘उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि । एतद्वीरासनं नाम सर्वपाप- प्रणाशनम् ॥’ )—‘स्थानासनाभ्यां विहरेत्सवनेषूदकोपस्पर्शी शुद्धयेत्’ (२।१६) इति गौतमस्मरणात् । ‘ब्रह्मचारिग्रहणं ‘वर्जयेन्मधुमांसगन्ध- माल्यदिवास्वप्नाञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधलोभमोहमहर्षनृत्यगीतपरिवादन- भयानि’ इति ब्रह्मचारिप्रकरणोक्ताविरुद्धधर्मप्राप्त्यर्थम् । अत एव शङ्खः— ‘स्थानवीरासनी मौनी मौञ्जी दण्डकमण्डलुः । भिक्षाचर्याग्निकार्यं च कूष्माण्डीभिः सदा जपः ॥’ इति, तस्य भवेदिति शेषः । अत्र सवनेषूदक- स्पर्शीति स्नानविधानात्तदङ्गभूतमन्त्रादिप्राप्तिरप्यवगम्यते । तथा ‘शुचिना कर्म कर्तव्य’मित्यस्य सर्वकर्मसाधारणत्वाद् व्रतचर्याङ्गभूतशौचसंपत्त्यर्थं स्नानवत्संध्यो- पासनमपि कार्यम् । तस्यापि शौचापादनद्वारेण सर्वकर्मशेषत्वात् । तथा च दक्षः—‘संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यत्किंचित्कुरुते कर्म न तस्य फलभाग्भवेत् ॥’ इति । न च ‘द्विजातिकर्मभ्यो हानिः पतनम्’ इति वचनात् संध्योपासनायाश्च द्विजातिकर्मत्वादप्राप्तिरिति शङ्कनीयम् । यस्मात्पतितस्यैव व्रतचयपदेशात्तदङ्गतयैव संध्योपासनादिप्राप्तिः । अतो ‘द्विजातीनामध्ययनमिज्या दानं ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः’ इत्यादीनामेव द्विजातिकर्मणां व्रतचर्यानानङ्गभूतानां हानिर्न सर्वेषाम् ; तावन्मात्रबाधेन हानिवचनस्य चरिता- र्थत्वात् । इयं च मनुयाज्ञवल्क्यगौतमादिप्रतिपादिता द्वादशवार्षिकव्रतचर्यैकैव न पुनर्भिन्ना । परस्परसापेक्षत्वादविरोधाच्च । तथा हि—भिक्षाशी कर्म वेदय- न्नित्युक्ते किं भिक्षापात्रं केषां वा गृहेषु कतिषु वेत्याकाङ्क्षा जायेतैव । तत्र ‘लोहितकेन खण्डशरावेण’ (१।२४।१४) इत्यापस्तम्बादिबचनैः परिपूरणम- विरुद्धम् । अतः सर्वैरेककल्पोपदेशात्कैश्चिदुक्तं मनुगौतमाद्युक्ततिकर्तव्यतायाः परस्परसापेक्षत्वेऽपि विकल्प इति तदनिरूप्यैवोक्तमिति मन्तव्यम् । एवं द्वादश- वर्षाणि व्रतचर्यामाचर्य ब्रह्महा शुद्धिमाप्नुयात् । इयं चाकामकतब्रह्मवधविषया (११।८९)—‘इयं विशुद्धिरुदिता प्रमाप्याकामतौ द्विजम् । कामतो ब्राह्मणवधे
१. संयतः पुमान् । २. भिक्षां चरेत् । ३. खट्वाङ्गपाणिः । ४. स्थानाशनाभ्याम् । ५. साधारणस्मरणात् ।
प्रायश्चित्ताध्यायः ५१५ निष्कृतिर्न विधीयते ॥' इति मनुस्मरणात् । अत्रेदं चिन्तनीयम् — किं द्वित्रे- ब्राह्मणवधे प्रायश्चित्तस्य तन्त्रत्वमुतावृत्तिरिति । तत्र केचिन्मन्यते ब्रह्महा द्वादशाब्दानित्यत्र ब्रह्मशब्दस्यैकस्मिन्द्वयोर्बहुषु साधारणत्वादेकस्मिन्ब्राह्मणवधे यत्प्रायश्चित्तं तदेव द्वितीये तृतीयेऽपि । तत्रैकब्राह्मणवधनिमित्तकप्रायश्चित्तानुष्ठाने सतीदं कृतमिदं नेति न शक्यते वक्तुम् । देशकालकर्तृ णां प्रयोगानुबन्धभूता- नामभेदेनागृह्यमाणविशेषत्वात्तन्त्रानुष्ठानेनैव पापक्षयलक्षणकार्यनिष्पत्तियुक्ता । यथा तन्त्रानुष्ठितैः प्रयाजादिभिराग्नेयादिषु तन्त्रेणैवानेकोपकारलक्षणकार्याणां निष्पत्तिः । नचैवं वाच्यम् 'द्वित्रिब्राह्मणवधे पापस्य गुरुत्वादेनसि गुरुणि गुरूणि लघूनि लघूनि' (१९।१९) इति, गौतमवचनादावृत्तमेव प्रायश्चित्तानुष्ठानं युक्तम् , विलक्षणकार्ययोस्तन्त्रेण निष्पत्त्यनुपपत्तेरिति । यतो नेदं वचनमावृत्तिविधायकं किंतूपदिष्टानां गुरुलघुकल्पानां व्यवस्थाप्रतिपादनपरम् । नच द्वितीयब्राह्मणवधे पापस्य गुरुत्वं, प्रमाणाभावात् । यच्च मनुदेवलाभ्यामुक्तम् — 'विधेः प्राथमिकाद- स्माद् द्वितीये द्विगुणं भवेत् । तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥' इति, - तदपि 'प्रतिनिमित्तं नैमित्तिकं शास्त्रमावर्तते' इति न्यायेन, द्वित्रिब्राह्मणव- धगोचरनैमित्तिकशास्त्रावृत्त्यनुवादेन चतुर्थे तदभावविधिपरम् , न पुनर्द्वितीया- ब्रह्मवधे प्रायश्चित्तानुष्ठानद्वैगुण्यविधिपरमपि; वाक्यभेदप्रसंगात् । तस्माद् द्वित्रिब्रा- ह्मणवधेऽपि सकृदेव द्वादशवार्षिकाद्यनुष्ठानं युक्तम् , यथा अग्नये क्षामवते पुरो- डाशमष्टाकपालं निर्वपे'दित्यादिगृहदाहादिनिमित्तेषु चोदितानां क्षामवत्यादीनां युगपदनेकेष्वपि गृहदाहादिनिमित्तेषु सकृदेवानुष्ठानम् । अत्रोच्यते — नहि वचन- विरोधे न्यायः प्रभवति । वचनं च विधेः प्राथमिकादित्यादिकं द्वित्रिब्राह्मणवधे प्रायश्चित्तानुष्ठानावृत्तिविधिपरम् । एवं सति न्यायलभ्यतन्त्रानुष्ठानबाधेनावृत्ति- विधाविदं वचनं प्रवृत्तिविशेषकरं स्यात् । इतरथा शास्त्रतः प्राप्तस्यानुवादकत्वेना- नर्थकं स्यात् । नच वाक्यभेदः । चतुर्थादिब्रह्मवधपर्युदासेनेतरत्रावृत्तं प्रायश्चित्त- विधानेनैकार्थत्वात् । किंच, 'चतुर्थे नास्ति निष्कृति'रिति लिङ्गदर्शनाद्धन्यमान- ब्राह्मणसंख्योत्कर्षे दोषगौरवं गम्यते । तथा देवलादिवचनाच्च 'यस्यादनभि- संधाय पापं कर्म सकृत्कृतम् । तस्येयं निष्कृतिर्दृष्टा धर्मविद्भिर्मनीषिभिः ॥' इति । नच विलक्षणयोर्गुरुलघुदोषयोः क्षयस्तन्त्रेण निष्पद्यते । अत एवंविधेषु दोषगुरुत्वेन कार्यवैलक्षण्यादपि प्रतिनिमित्तं नैमित्तिकस्यावृत्तिर्युक्ता । क्षामव- त्यादिषु पुनः कार्यस्यावैलक्षण्याद्युक्तस्तन्त्रभाव इत्यलं प्रपञ्चेन । यच्चेदं 'चतुर्थे नास्ति निष्कृति'रिति, तदपि महापातकविषयम् ; पापस्यातिगुरुत्वेन प्रायश्चित्ता- भावप्रतिपादनपरत्वात् । अतः शूद्राङ्गसेवनादौ बहुशोऽप्यभ्यस्ते तदनुगुणप्राय- १. किं तत्र द्वित्रिब्राह्मणवधे । २. द्वित्रिब्राहाग । ३. द्विगुणं चरेत् । ४. नैमित्तिकमावर्तते । ५. परममिति । परमेव । ६. वृत्तिप्रायश्चित्त। ३३ या०
५१६ याज्ञवल्क्यस्मृतिः
श्चित्तावृतिः कल्पनीया, न पुनः प्रायश्चित्ताभावः । अत एवोक्तं मनुना (११। १४० )—'पूर्णे चानस्थनस्थ्नां तु शूद्रहत्याव्रतं चरेत्' इति । इदं च द्वादश- वार्षिकं व्रतं साक्षाद्धन्तुरेव; ब्रह्महेति तस्यैवाभिधानात् । अनुग्राहकप्रयोजकादेस्तु तत्तद्दोषानुसारेण प्रायश्चित्ततारतम्यं कल्पनीयम् । तत्रानुग्राहको यत्प्रायश्चित्तभाजं पुरुषमनुगृह्णाति स तत्प्रायश्चित्तं पादोनं कुर्यात् । अतस्तस्य द्वादशवार्षिके पादोनं नववार्षिकं प्रयोजकस्त्वर्धोनं षड्वार्षिकं कुर्यात् । अनुमन्ता पुनः सार्धपादं सार्ध- चतुर्वार्षिकं निमित्ती त्वेकपादं त्रिवार्षिकम् । अत एव सुमन्तुः—'तिरस्कृतो यदा विप्रो हत्वाऽऽत्मानं मृतो यदि । निर्गुणः साहसात्क्रोधाद् गृहक्षेत्रादिकारणात् ॥ त्रैवार्षिकं व्रतं कुर्यात्प्रतिलोमां सरस्वतीम् । गच्छेद्वाऽपि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥ अत्यर्थं निर्गुणो विप्रो ह्यत्यर्थं निर्गुणोपरि । क्रोधाद्वै म्रियते यस्तु निर्निमित्तं तु भर्त्सितः । वत्सरत्रितयं कुर्यान्नरः कृच्छ्रं विशुद्धये ॥' इति । यदा पुनर्निमित्त्यत्यन्तगुणवान् आत्मघाती चात्यन्तनिर्गुणस्तदैकवर्षमेव ब्रह्महत्याव्रतं कुर्यात् ; केशश्मश्रुनखादीनां कृत्वा तु वपनं वने । ब्रह्मचर्यं चरन्विप्रो वर्षेणैकेन शुद्ध्यति ॥' इति तेनैवोक्तत्वात् ॥ अनयैव दिशाऽनुग्राहकप्रयोजकादीनां येऽनु- ग्राहकप्रयोजकादयस्तेषामपि प्रायश्चित्तं कल्प्यम् । अस्यां च कल्पनायां प्रयोजयि- ताऽनुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु २भागिनो यो भूय आरभते तस्मि- न्फलविशेषः' (२।२९।१) इत्यापस्तम्बीयं वचनं मूलम् । तथा प्रोत्साहकादीना- मपि दण्डप्रायश्चित्ते कल्प्ये । यथाह पैठीनसिः-'हन्ता मन्तोपदेष्टा च तथा संप्रति- पादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥ आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् । उपेक्षकः शक्तिमांश्चैवोपवक्ताऽनुमोदकः ॥ अकार्यकारि- णस्त्वेषां प्रायश्चित्तं प्रकल्पयेत् । यथाशक्त्यनुरूपं च दण्डं चैषां प्रकल्पयेत् ॥' इति । तथा बालवृद्धादीनां साक्षात्कर्तृत्वेऽप्यर्थमेव 'अशीतिर्यस्य वर्षाणि बालो वाऽप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥' इत्यङ्गिरःस्मरणात्। तथाँ सुमन्तुः—'अर्वाक्तु द्वादशाद्वर्षादशीतेरूर्ध्वमेव वा । अर्धमेव भवेत्पुंसां तुरीयं तत्र योषिताम् ॥' इति ॥ तथाऽनुपनीतस्यापि बालकस्य पादमात्रमेव प्रायश्चित्तम्; 'स्त्रीणामर्धं प्रदातव्यं वृद्धानां रोगिणां तथा । पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः ॥' इति विष्णुस्मरणात् । अतश्च यच्छङ्खेन—'ऊनैकादशव- र्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेद् भ्राता पिता वाऽन्यः सुहृ- ज्जनः ॥' इति प्रतिपाद्योक्तम् ,—'अतो बालतरस्यास्य नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥' इति,–तदपिसंपूर्ण प्रायश्चित्ता- भावप्रतिपादनपरं, न पुनः सर्वात्मना तदभावप्रतिपादनपरम् । आश्रमविशेष- निरपेक्षेण श्रूयमाणेषु 'ब्राह्मणो न हन्तव्यः"तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां
१. वर्षेकेन विशुद्ध्यति । २. भागिनो भूय । ३. तथावार्वाक्कु ।
[Page Header] प्रायश्चित्ताध्यायः ५१७
पिबेत्' इत्येवमादिष्वनपेक्षितवयोविशेषस्यैवाधिकारात् । अतश्च तदीयमपि प्राय- श्चित्तं पित्रादिभिरेवाचरणीयम्; 'पुत्रानुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं विदध्यात्' इति तस्यैव पुत्रादिहिताचरणेऽधिकृतत्वात् । यत्र पुनः कस्मिंश्चिद् ब्रह्मवधे प्रयो- जंकभावमापन्नस्यान्यस्मिन्साक्षात्कर्तृत्वे गुरुलघुप्रायश्चित्तसंपातस्तत्र द्वादशवार्षि- कादिगुरुप्रायश्चित्तान्तःपातिनः प्रयोजक संबन्धिलघुप्रायश्चित्तप्रसङ्गात्कार्यसिद्धिः । नचैवं सत्यविशेषालघुकल्पेन महतोऽपि सिद्धिः स्यादित्याशङ्कनीयम् । अत्र ह्यन्तःपातितयाऽनुष्ठाने विशेषानवगमात्प्रसङ्गात्कार्यसिद्धिरैवगम्यते । नच लघ्व- न्तःपाती महाकल्प इति कुतः प्रसङ्गशङ्का ? नच चैत्रवधजनितकल्मषक्षयार्थ- मनुष्ठितेन कथं विष्णुमित्रवधोत्पाद्यपापनिवृत्तिरिति वाच्यम्; चैत्राद्युद्देशस्या- तन्त्रत्वात् । अतो यथा काम्यनियोगनिष्पत्त्यर्थं स्वर्गार्थं वाऽनुष्ठितैराग्नेयादिभि- र्नित्य नियोग निष्पत्तिस्तद्वल्लघुप्रायश्चित्तस्यापि कार्यसिद्धिः । यत्पुनर्मध्यमाङ्गिरोव- चनम् - 'गवां सहस्रं विधिवत्पात्रेभ्यः प्रतिपादयेत् । ब्रह्महा विप्रमुच्येत सर्वपा- पेभ्य एव च ॥' इति,-तत्सवनस्थगुणवद्ब्राह्मणविषयम् । एतच्च 'द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत्' इत्येतद्वाक्यविहितद्विगुणद्वादशवार्षिकव्रतचर्याशक्तस्य वेदितव्यम्; प्रायश्चित्तस्यातिगुरुत्वात् । न त्वनावृत्तद्वादशवार्षिकविषयम् । तत्र हि द्वादश दिनान्येकैकप्राजापत्यमिति गणनायां प्राजापत्यानां षष्ठ्यधिकशतत्रयं भवति । यद्यपि प्राजापत्यस्यान्ते त्र्यहमुपवासोऽधिकस्तथाऽप्यत्र वनवासजटाधारण- वन्याहारत्वादि रूपतपो विशेषयुक्तत्वादुपवासाभावेऽप्येकैकस्य द्वादशाहस्य प्राजा- पत्यतुल्यत्वम् । ततश्च 'प्राजापत्यक्रियाशक्तौ धेनुं दद्याद्विचक्षणः । गवामभावे दातव्यं तन्मूल्यं वा न संशयः ॥' इत्यनेन न्यायेन प्रतिप्राजापत्यमेकैकस्यां धेन्वां दीयमानायां धेनूनामपि षष्ठ्यधिकं शतत्रयं भवति, न पुनः सहस्रम् । अतो यथोक्त एव विषयो युक्तः । यदपि शङ्खवचनम् - 'पूर्ववदमतिपूर्वं चतुर्षु वर्णेषु विप्रं प्रमाप्य द्वादशवत्सरान्षट् त्रीन्सार्धं संवत्सरं च व्रतान्यादिशेत्तेषामन्ते गोसहस्रं तदर्धं तस्यार्धं तदर्धं च दद्यात्सर्वेषां वर्णानामानुपूर्व्येणे'ति द्वादशवार्षि- कगोसहस्रयोः समुच्चयविधिर्परं, तदाचार्यादिहननविषयं द्रष्टव्यम्; तस्यातिगुरु- त्वात् । तथा च दक्षः- 'सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । आचार्ये शतसाहस्रं श्रोत्रिये दत्तमक्षयम् ॥' इति प्रतिपाद्योक्तवान् - 'समं द्विगुणसाहस्रमानन्त्यं च यथाक्रमम् । दाने फलविशेषः स्याद्धिंसायां तद्देव हि ॥' इति । तथाऽऽपस्तम्बे- न (१।२४।२४) द्वादशवार्षिकमुक्त्वाऽक्रमस्मिन्नेव विषये - 'गुरुं हत्वा श्रोत्रियं वा एतदेव व्रतोत्तमादुच्छ्वासाच्चरेत्' इति, तत्र यावज्जीवमावर्तमान व्रते यदा
[Footnotes] १. पुत्रहिताचरणे । २. प्रयोजकाभाववापन्न । ३. सिद्धिरुच्यते । ४. मनुष्ठेयेन । ५. रूपतया विशेष. ६. समुच्चयपरम् । ७. चोक्तत्वात् ।
५१८ याज्ञवल्क्यस्मृतिः त्रैगुण्यं चातुर्गुण्यं वा संभाव्यते तदा तत्राऽसमर्थस्य बहुधनस्यायं दानतपसोः समुच्चयो द्रष्टव्यः । द्वादशवार्षिकव्यतिरिक्तानां तु सुमन्तुपराशराद्युक्तानां प्राय- श्चित्तानामुत्तरत्र व्यवस्थां वक्ष्यामः । ननु द्वादशवार्षिकादिकल्पानां व्यवस्था कुतोऽवसिता ? न तावद् द्वादशवार्षिकादिविधायकवाक्यैरिति युक्तम्; तत्राप्रीतेः । नच वाच्यं प्रमाणावगतगुरुलघुकल्पनां बाधो मा प्रसङ्गीदिति व्यवस्था कल्प्यत इति । विकल्पसमुच्चयाङ्गाङ्गिभावानामन्यतमाश्रयणेनापि बाधस्य सुपरिहरत्वा- त् । अत्रोच्यते-न तावद् द्वादशवार्षिकसेतुदर्शनादीनां विषमकल्पानां विकल्पो- ऽवकल्प्यते; विकल्पाश्रयणे गुरुकल्पानामनुष्ठानासंभवेनानर्थक्यप्रसङ्गात् । नच षोडशिग्रहणाग्रहणवद्विषमयोरपि विकल्पोपपत्तिरिति वाच्यम् । यतस्तत्रापि सति संभवे ग्रहणमेवेति युक्तं कल्पयितुम् । यद्वा षोडशिग्रहणानुगृहीतेनाति- रात्रेण क्षिप्रं स्वर्गादिसिद्धिरतिशयितस्य वा स्वर्गस्येति कल्पनीयम् । इतरथा ग्रहणविधेश्नानर्थक्यप्रसङ्गात् । नापि समुच्चयः । उपदेशातिदेशप्राप्ति- मन्तरेण समुच्चयो न संभवति; उपदेशावगतनैरपेक्ष्यस्य बाधप्रसङ्गात् । नचा- ङ्गाङ्गिभावः, श्रुत्यादिविनियोजकानामभावात् । श्रुतिलिङ्गवाक्यप्रकरणस्थान- समाख्यानि विनियोजकानि । अतः परस्परोपमर्दपरीहारार्थं विषयव्यवस्थाक- ल्पनैवोचिता । सा च जातिशक्तिगुणाद्यपेक्षया कल्पनीया; 'जातिशक्तिगुणापेक्षं सकृद् बुद्धिकृतं तथा । अनुबन्धादिविज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥' इति देवल- स्मरणात् ॥ २४३ ॥ भाषा-ब्राह्मण की हत्या करने वाला महापातकी (उसी हत ब्राह्मण ! के) सिर की खोपड़ी हाथ में लेकर और दूसरी खोपड़ी बास के डंडे के ऊपर बाँधकर, अपने किये हुए कर्म को सबसे बताते हुए अल्प भोजन करते हुए बारह वर्ष व्यतीत करने पर शुद्ध होता है ॥ २४३ ॥ पूर्वोक्तस्य ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्तिकसमाप्त्यवधिमाह— ब्राह्मणस्य परित्राणाद्गवां द्वादशकस्य च । तथाऽश्वमेधावभृथस्नानाद्वा शुद्धिमाप्नुयात् ॥ २४४ ॥ यश्चौरव्याघ्रादिभिर्व्यापाद्यमानस्य ब्राह्मणस्यैकस्याप्यात्मप्राणानन्तरे कृत्वा प्राणत्राणं करोति गवां द्वादशकस्याप्तावसंपूर्णेऽपि द्वादशवार्षिके शुद्ध्येत् । यद्यपि प्राणत्राणे प्रवृत्तस्तदकृत्वैव म्रियते तथाऽपि शुद्धयत्येव । अत एव मनुना (११।७९)—'ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजन् । मुच्यते ब्रह्मह- त्याया गोप्ता गोर्ब्राह्मणस्य च ॥' इति । ब्राह्मणरक्षणं तदर्थं मरणं च पृथगुपा- सम् । तथा परकीयाश्वमेधावभृथाख्यकर्माङ्गभूतस्नानसमये स्वयमपि स्नात्वा ब्रह्महत्यायाः शुद्धिं प्राप्नुयात् । स्नानं च स्वकल्मषं विख्याप्य कुर्यात् । तथा १. समाप्त्यावधि । २. कस्य वासंपूर्णोऽपि । ३. स्नाने च ।
प्रायश्चित्ताध्यायः ५१६ च मनुः ( ११।८२ )—'शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽव- भृथे स्नात्वा हयमेधे विमुच्यते ॥' इति । भूमिदेवा ब्राह्मणा ऋत्विजस्तेषां राज्ञा नरदेवेन यजमानेन राज्ञा समवाये स्वीयमेनः शिष्ट्वा विख्याप्याश्वमेधाव- भृथे स्नात्वा२ शुद्धयति यदि तैरनुज्ञातो भवति; 'अश्वमेधाभृथं गत्वा तत्रानु- ज्ञातः स्नातः सद्यः पूतो भवति' इति शङ्खस्मरणात् । अश्वमेधावभृथग्रहणम- ग्निष्टोममध्यानां पञ्चदशरात्रादिक्रत्वन्तराणामग्निष्टुत्समासिकानां च सर्वमेधादी- नामुपलक्षणम् । 'अश्वमेधावभृथे वाऽन्ययज्ञेऽप्यग्निष्टुदन्तश्चेत्' ( २२।९, १० ) इति गौतमस्मरणात् । अयं च प्रक्रान्तद्वादशवार्षिकस्य कथंचिद्ब्राह्मणप्राणत्रा- णादिकं कुर्वतो व्रतसमाप्त्यवधिरुच्यते । यथा सारस्वते सत्रे प्लाक्षं प्रस्रवणं प्राप्योत्थानमृषभैकशतानां वा गवां सहस्रसद्भावे सर्वस्वं३दानं गृहपतिमरणे चेति । न पुनः स्वतन्त्रं प्रायश्चित्तान्तरम् । तथाच शङ्खः—'द्वादशे वर्षे शुद्धिं प्राप्नोत्यन्तरा वा ब्राह्मणं मोचयित्वा४, गवां द्वादशानां परित्राणात्सद्य एवाश्व- मेधावभृथस्नानाद्वा पूतो भवति' इति । अत एव मनुना ( ११।७८ —'कृत- वापनो वा निवसेत्' इति द्वादशवार्षिकस्य गुणविधिं प्रक्रम्य ( ११।७९)— 'ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजन् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्रा- ह्मणस्य च ॥' इत्यादिना मध्ये ब्राह्मणत्राणादिकमभिधाय ( ११।८१ )—'एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥' इति द्वादशवार्षिकमेवोपसंहृतम् । ननु ब्रह्महत्यायाः शुद्धिमाप्नुयादिति ब्राह्म- णत्राणादीनां द्वादशवार्षिकेण सहैकफलत्वावगमात्स्वातन्त्र्यमेव युक्तं न पुनर- ङ्गत्त्वम् , किंच प्रधानविरोधित्वादपि नाङ्गत्वम् । प्रधानानुग्राहकं ह्यङ्गं भवति । नच प्रारब्धद्वादशवार्षिकस्येदं विधानम् । येन तत्कार्ये विधानं गम्यते । यथा 'सत्रायावगूर्य विश्वजिता यजेत' इति सत्रप्रयोगप्रवृत्तस्य तत्परिसमापनाक्षमस्य विश्वजिद्विधानमतोऽपि स्वातन्त्र्यमेव युक्तम् । यथाऽग्निप्रवेशलक्ष्यभावादीनाम् । नच तेषामपि द्वादशवार्षिकोपक्रमोपसंहारमध्यपठितत्वेन तदङ्गत्वमिति शङ्कनी- यम् । यतः सत्यपि मध्यपाठे निर्ज्ञातप्रयोजनत्वेन प्रयोजनाकाङ्क्षाविरहान्न पर- स्परमङ्गाङ्गित्वं युक्तम् । यथा सामिधेनीप्रकरणमध्यवर्तिनां निर्वित्पदानामनिन-५ समिन्धनप्रकाशत्वेन सामिधेनीभिः सहैककार्याणां न सामिधेन्यङ्गत्वम् । न चैकान्ततोऽग्निप्रवेशादीनां द्वादशवार्षिकमध्ये पाठः वसिष्ठगौतमादिभिरेषां द्वाद- शवार्षिकप्रक्रमात्प्रागेव पठितत्वात् । इदमेव स्वातन्त्र्यं प्रकटयितुं मनुना ( ११।- ७३ )—'लक्ष्यं शस्त्रभृतां वा स्यात्' 'प्रास्येदात्मानमग्नौ वा' इति प्रतिवाक्यं १. विशुद्धयति । २. स्नात्वा शुद्धयेत् । ३. सर्वस्वजान्यां, सर्वस्व- याज्याभ्याम् । ४. भोजयित्वा । ५. वर्तिनामग्निविदामग्निन ।
Here is the line-by-line transcription of the text from the provided image:
५२० याज्ञवल्क्यस्मृतिः 'वा' शब्दः पठितः । तथा प्रतिप्रायश्चित्तमेवोपसंहृतम्-‘अतोऽन्यतममास्थाय विधिं विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मशुद्धये ॥’ (मनुः ११।८६) इति । अतोऽग्निप्रवेशादीनां स्वातन्त्र्यमेव युक्तम् । अतश्च ब्राह्मण- त्राणादेरप्येकफलत्वान्नाङ्गत्त्वमिति । उच्यते,—परिहृतमेतत् 'अन्तरा ब्राह्मणं मोचयित्वे'त्यादिना शङ्खवचनेनाङ्गत्व्वावगमात् । अङ्गस्यैव सतः प्रधानद्वारेण फलसंबन्धः । न च प्रधानविरोधः यतो ब्राह्मणत्राणावधिकस्यैव व्रतानुष्ठानस्य फलसाधनत्वं विधीयत इति न विरोधः ॥ २४४ ॥ भाषा—(व्याघ्र आदि द्वारा मारे जाते हुए) किसी ब्राह्मण का प्राण बचाने, अथवा बारह गायों की प्राणरक्षा करने पर तथा अश्वमेधयज्ञ में अवभृथ स्नान करने पर (बारह वर्ष के पहले भी) ब्रह्महत्या के दोष से शुद्ध हो जाता है ॥ २४४ ॥ दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा । दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ २४५ ॥ किंच, दीर्घेण बहुकालव्यापिना तीव्रेण दुःसहेनामयेन कुष्ठादिव्याधिना ग्रस्तं पीडितं ब्राह्मणं गां वा तथाविधां पथि दृष्ट्वा निरातङ्कं नीरुजं कृत्वा ब्रह्महा शुचिर्भवति । ननु 'ब्राह्मणस्य परित्राणाद्' (प्रा० २४४) इत्यत्र यदुक्तं ब्राह्मण- रक्षणं तदेव किमर्थं पुनरुच्यते, - 'ब्राह्मणं गामथापि वा' इति ? सत्यमेवम् ; किंत्वारमप्राणपरित्यागेनाधस्तनवाक्ये ब्राह्मणरक्षणमुक्तमधुना पुनरौषधदानादि- नेति विशेषः । अमुनैवाभिप्रायेणोक्तं मनुना (११।८०) - 'विप्रस्य तन्निमित्ते वा प्राणलाभे विमुच्यते' इति ॥ २४५ ॥ भाषा - बहुत दिनों से किसी दुःसह रोग से पीड़ित ब्राह्मण को अथवा गौ को मार्ग में देखने पर उसको नीरोग करने पर भी ब्रह्महत्या का पातकी शुद्ध हो जाता है ॥ २४५ ॥ आनीय विप्रसर्वस्वं हृतं घातित एव वा । तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुद्ध्यति ॥ २४६ ॥ किंच, विप्रस्यापहृतसर्वस्वतयावसीदतः संबन्धि द्रव्यं भूहिरण्यादिकं चौरै- र्हतं साकल्येनानीय रक्षणं यः करोति स विशुद्ध्यति । आनयने प्रवृत्तः स्वयं चौरैर्घातितो वा, यदि वा तन्निमित्त ब्राह्मणसर्वस्वानयनार्थं तन्न युध्य- मानः शस्त्रैः क्षतो मृतकल्पो जीवन्नपि विशुद्ध्यति । 'शस्त्रैः' इति बहुवचनं क्षतबहुत्वप्राप्त्यर्थम् । अत एव मनुना (११।८०) -'त्र्यवरं प्रतिरोद्धा वा सर्व- स्वमवजित्य वा' इति 'त्र्यवर'ग्रहणं कृतम् । एतस्य श्लोकद्वयोक्तकल्पपञ्चकस्य २. वा । ३. त्रिवारम् ।
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी पाठ प्रस्तुत है:
प्रायश्चित्ताध्यायः ५२१ ब्राह्मणरक्षणरूपत्वेनान्तरा वा 'ब्राह्मणं मोचयित्वा' इत्यनेन शङ्खवचनेन क्रोडी- कृतत्वाद् द्वादशवार्षिकसमाप्यवधित्वेनेतरग्रहणे विनियोगान्न स्वातन्त्र्यम् ॥ २४६॥ भाषा—किसी ब्राह्मण का छीना गया सभी धन अपहरणकर्ता से ( युद्ध करके ) चोट खाकर भी छुड़ाकर ला देते हैं और उसके निमित्त शस्त्रों से घायल होकर भी जीवित रहता है तो ब्रह्महत्या के पातक से शुद्ध हो जाता है ॥ २४६ ॥ प्रायश्चित्तान्तरमाह— लोमभ्यः १स्वाहेत्येवं हि लोमप्रभृति वै तनुम् । मँज्जान्तां जुहुयाद्वाऽपि मन्त्रैरेभिर्यथाक्रमम् ॥ २४७ ॥ 'लोमभ्यः स्वाहा' इत्येवमादिभिर्मन्त्रैलोमप्रभृतिमज्जान्तां तनुं जुहुयात् । 'इति'शब्दः करणत्वनिर्देशार्थः । 'एवं'शब्दः प्रकारसूचनार्थः । 'हि'शब्दः स्मृत्य- न्तरप्रसिद्धत्वगादीनां प्रभृतिशब्देनाक्षिप्यमाणानां द्योतनार्थः । ततश्च लोमा- दीनि होमद्रव्याणि चतुर्थ्या निर्दिश्यन्ते स्वाहाकारं पठित्वा तैर्मन्त्रैर्जुहुयात् । ते च हूयमानद्रव्याणां लोमत्वग्लोहितमांसमेदःस्नाव्वस्थिमज्जानामष्टसंख्यत्वा- दष्टौ मन्त्रा भवन्ति । तथा च वसिष्ठः—'ब्रह्महाऽ३ग्निमुपसमाधाय जुहुयाल्लो- मानि मृत्योर्जुहोमि लोमभिर्मृत्युं वाशय' इति प्रथमम् । १ । 'त्वचं मृत्यो- र्जुहोमि त्वचा मृत्युं वाशय' इति द्वितीयाम् । २ । 'लोहितं मृत्योर्जुहोमि लोहि- तेन मृत्युं वाशय' इति तृतीयाम् । ३ । 'मांसानि मृत्योर्जुहोमि मांसैर्मृत्युं वाशय' इति चतुर्थीम् । ४ । 'मेदो मृत्योर्जुहोमि मेदसा मृत्युं वाशय' इति पञ्चमीम् । ५ । 'स्नायूनि मृत्योर्जुहोमि स्नायुभिर्मृत्युं वाशय' इति षष्ठीम् । ६ । 'अस्थीनि मृत्योर्जुहोमि अस्थिभिर्मृत्युं वाशय' इति सप्तमीम् । ७ । 'मज्जां मृत्योर्जुहोमि मज्जाभिर्मृत्युं वाशय' इत्यष्टमीम् । ८ ॥' इति । अत्र च लोमप्र- भृति तनुं जुहुयादिति लोमादीनां होमद्रव्यत्वावगमाल्लोमभ्यः स्वाहेति सत्यपि चतुर्थ्यन्निर्देशे लोमादीनां न देवतात्वं कल्प्यते; द्रव्यप्रकाशननैव मन्त्राणां होम- साधनत्वोपपत्तेः । किंतु 'लोमभिर्मृत्युं वाशय' इत्यादिवासिष्ठमन्त्रपर्यालोचनया मृत्योरेव हविःसंबन्धावगमाद्देवतात्वं कल्प्यते । अतश्च लोमादीनि सामर्थ्यात्स्व- धितिनाऽवदाय मृत्यूद्देशेनाष्टौ होमान्कृत्वाऽन्ते तनुं प्रक्षिपेत् । अतो यत्कैश्चिदुक्त- मनादिष्टद्रव्यत्वा४दाज्यहविष्का होमा इति, -तदनिरूप्यैवोक्तमित्युपेक्षणीयम् । जुहुयादित्यनेनाग्नौ सिद्धे भ्रूणहाग्निमुपसमाधायेति पुनरग्निग्रहणं लौकिकाग्नि- प्राप्त्यर्थम् । युक्तं चैतत्; पतिताग्नीनां प्रतिपत्तिविधानात्—'आहिताग्निस्तु १. स्वाहेति हि । २. मज्जान्तम् । ३. भ्रूणहाग्निम् ४. हविष्कामो होम इति ।
यो विप्रो महापातकभाग्भवेत् । प्रायश्चित्तैर्न शुद्ध्येत तदग्नीनां तु का गतिः ॥ वैतानं प्रक्षिपेत्तोये शालाऽग्निं शमयेद् बुधः ॥' इत्युशनःस्मरणात् । तथा—'महा- पातकसंयुक्तो दैवात्स्यादग्निमान्यदि । पुत्रादिः पालयेदग्नीन्युक्तश्चादोषसंक्षयात् ॥ प्रायश्चित्तं न कुर्याद्यः कुर्वन्वा म्रियते यदि । गृह्यं निर्वापयेच्छ्रौतमप्स्रवत्स्येत्सपरि- च्छदम् ॥' इति कात्यायनस्मरणात् । तनुप्रक्षेपश्चोत्थायोत्थाय त्रिश्धोमुखेन कर्त- व्यः । तथाह मनुः ( ११।७३ )—'प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्- शिराः' इति । गौतमेनाप्यत्र विशेषो दर्शितः ( २२।१,२ )—'प्रायश्चित्तमग्नौ सक्तिरंग्रह्यन्नस्थिरवच्छातस्य' इति । अवच्छातस्य अनशनकर्शितकलेवरस्येत्यर्थः । तथा च काठकश्रुतिः—'अनशनेन कर्शितोऽग्निमारोहेत्' इति । इदं च मरणा- न्तिकं प्रायश्चित्तं कामकारविषयम् । तथाह मध्यमाङ्गिराः—'प्राणान्तिकं च यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । तत्कामकारविषयं विज्ञेयं नात्र संशयः ॥' इति । तथा—'यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य शुद्धिर्निर्दिष्टा भृग्वग्निपतनादृते ॥' इति । एतच्च प्रायश्चित्तं स्वतन्त्रमेव न ब्राह्मणत्राणादिवद् द्वादशवार्षिकान्तर्भूतमित्युक्तं प्राक् ॥ २४७ ॥ भाषा—अथवा 'लोमभ्यः स्वाहा' आदि मन्त्र से क्रमशः लोम से लेकर मज्जा तक (लोम, त्वचा, रक्त, मांस, मेदस्, स्नायु, अस्थि, मज्जा) अपने शरीर का होम करे (तो ब्रह्महत्या के पाप से मुक्त हो जाता है) ॥ २४७ ॥ संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् । मृतकल्पः प्रहारार्तो जीवन्नपि विशुद्ध्यति ॥ २४८ ॥ किंच, अथवा संग्रामे युद्धभूमावुभयबलप्रेरितशरसंपातस्थाने लक्ष्यभूतो मृतः शुद्धिमवाप्नुयात् । गाढमर्मप्रहारजनिततीव्रवेदनो मृतकल्पो मूच्छितो जीवन्नपि विशुद्ध्यति । लक्ष्यभावश्च प्रायश्चित्ती अयमित्येवं विदुषां धनु- र्विद्याविदां संग्रामे स्वेच्छया कर्तव्यो न तु राज्ञा बलात्कारयितव्यः । तथाह मनुः ( ११।१७ )—'लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छ्यात्मनः' इति । इदं च मरणान्तिकत्वात्साक्षात्कर्तुः क्षत्रियस्य कामकारविषयम् । 'अपि'शब्दादश्वमे- धादिनाऽपि विशुद्ध्यति । तथाह मनुः (११।७४)—'यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन च । आभजिद्विश्वजिद्भ्यां वा त्रिवृताऽग्निष्टुताऽपि वा ॥'इति । अश्वमेधा- नुष्ठानं सार्वभौमक्षत्रियस्यैव ।—'यजेत वाऽश्वमेधेन क्षत्रियस्तु महीपतिः' इति पराशरस्मरणात्, 'नासार्वभौमो यजेत' इत्यसार्वभौमस्य प्रतिषेधदर्शनाच्च । इदं चाश्वमेधानुष्ठानं सार्वभौमस्य कामकारकृते मरणान्तिकस्थाने द्रष्टव्यम् ; 'महा- पातकर्तारश्चत्वारो मतिपूर्वकम् । अग्निं प्रविश्य शुद्ध्यन्ति स्थित्वा वा महति १. गृह्यं वा निर्वपेच्छ्रौतम् ।
प्रायश्चित्ताध्यायः ५२३ क्रतौ ॥' इति यमेन मरणकालाग्निप्रवेशतुल्यतया महाक्रतोरश्वमेधस्य निर्दिष्ट- त्वात् । स्वर्जितादयश्च त्रैवर्णिकस्याहिताग्नेरिष्टप्रथमयज्ञस्य द्वादशवार्षिकेण सह विकल्पन्ते । नच स्वर्जिताद्यर्थमाधानं प्रथमयज्ञानुष्ठानं वा कार्यम्; पतितस्य द्विजातिकर्मस्वनधिकारात् । नच संध्योपासनवद्विरोध इति युक्तम्; आधा- नादेरुत्तरक्रतुशेषत्वाभावात् । ते च दक्षिणान्यूनाधिक्याश्रयेण द्वादशवार्षिका- द्यर्हेषु साप्ताद्धन्त्रादिषु व्यवस्थापनीयाः ॥ २४८ ॥ भाषा-अथवा युद्ध भूमि में (दोनों पक्षों से बाण चलते रहने पर बीच में खड़ा होकर) बाणों का लक्ष्य होकर मर जाने पर शुद्ध होता है; कठिन प्रहार की वेदना से घायल होकर जीवित रहने पर भी वह ब्रह्महत्या के पाप से मुक्त हो जाता है ॥ २४८ ॥ अरण्ये नियतो जप्त्वा त्रिवै वेदस्य संहिताम् । शुद्ध्येत वा मिताशित्वात्प्रतिस्रोतः सरस्वतीम् ॥ २४९ ॥ किंच, अरण्ये निर्जनप्रदेशे नियतो नियताहारः- 'जपेद्वा नियताहारः' (११।७७) इति मनुस्मरणात् । त्रिवारं मन्त्रब्राह्मणात्मकं वेदं जपित्वा शुद्धयति । 'संहिता'ग्रहणं पदक्रमव्युदासार्थम् । यद्वा मिताशनो भूत्वा प्लाक्षात् प्रस्रवणादारभ्य पश्चिमोदधेः प्रतिस्रोतः स्रोतः स्रोतः प्रति सरस्वतीं इत्वा गत्वा विशुद्ध्यति । अशनं च हविष्येण कार्यम्- 'हविष्यभुग्वाऽनुचरेत्प्रतिस्रोतः सर- स्वतीम्' (११।७७) इति मनुस्मरणात् । अयं च वेदजपो विदुषो हन्तुर्निर्ध- नस्यात्यन्तगुणवतो निर्गुणव्यापादने प्रमादकृते द्रष्टव्यः । सरस्वतीगमनं तु तादृश एव विषये विद्याविरहिणो द्रष्टव्यम् । निमित्तञ्च- 'तिरस्कृतो यदा विप्रो निर्गुणो म्रियते यदि' इति सुमन्तुवचनस्य दर्शितत्वात् । यत्पुनर्मनुवचनम् (११।७५)- 'जपित्वाऽन्यतमं वेदं योजनानां शतं व्रजेत्' इति तदपि 'अरण्ये नियतो जप्त्वा' इत्येतस्यैव विषयेऽशक्तस्य द्रष्टव्यम् ॥ २४९ ॥ भाषा-निर्जन स्थान में परिमित भोजन करता हुआ तीन बार सम्पूर्ण वेदों की संहिता का जप करने पर अथवा अल्पाहार करते हुए सरस्वती नदी के किनारे-किनारे पश्चिम समुद्र तक जाने पर शुद्ध होता है ॥ २४९ ॥ पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिमवाप्नुयात् । आदातुश्च विशुद्धयर्थमिष्टिर्वैश्वानरी स्मृता ॥ २५० ॥ किंच, 'न विद्यया केवलया' (आ० २००) इत्याद्युक्तलक्षणे पात्रे गोभू- हिरण्यादिकं जीवनपर्याप्तं समर्थं धनं दत्त्वा शुद्धिमवाप्नुयात् । तद्धनं यः प्रति- १. द्वादशवार्षिकषड्वार्षिकत्रैवार्षिकादिषु साप्ताद्धन्त्रादिषु । २. शुध्य- त्यथ मिताशी वा ।
गृह्णाति तस्य वैश्वानरदैवत्येष्टिः शुद्धयर्थं कर्तव्या । - एतच्चाहिताग्निविषयम् । अनाहिताग्नेस्तु तद्देवत्यश्चरुर्भवति; य एवाहिताग्नेर्धर्मः स एवौपासनिकस्येति गृह्यकारवचनात् । 'वा' शब्दात् सर्वस्वं सपरिच्छदं वा गृहं दद्यात् । यथाह मनुः (११।७६ ) - 'सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥' इति । इदं च पात्रे धनदानं निर्गुणस्य धनवतो हन्तु- र्निर्गुणव्यापादने द्रष्टव्यम् । तत्रैव विषये अविद्यमानान्वयस्य सर्वस्वदानं सान्व- यस्य तु सोपस्करगृहदानमिति व्यवस्था । यदपि पराशरेणोक्तम्- 'चातुर्विद्योप- पन्नस्तु विधिवद् ब्रह्मघातके । समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥ सेतुबन्ध- पथे भिक्षां चातुर्वर्ण्यात्समाहरेत् । वर्जयित्वा विकर्मस्थान्कृतोपानद्विवर्जितः ॥ अहं दुष्कृतकर्मा वै महापातककारकः । गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च । तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥ एतेषु ख्यापयेदेनः पुण्यं गत्वा तु सागरम् । ब्रह्महाऽपि प्रमुच्येत स्नात्वा तस्मिन्महो- दधौ ॥ ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम् । दत्त्वा वस्त्रं पवित्राणि पूतात्मा प्रविशेद् गृहम् ॥ गवां वाऽपि शतं दद्याच्चातुर्विद्याय दक्षिणाम् । एवं शुद्धिमाप्नोति चातुर्विद्यानुमोदितः ॥' इति । - तदपि 'पात्रे धनं वा पर्याप्तम्' इत्यनेन समानविषयम् । यच्च सुमन्तुवचनम् - 'ब्रह्महा संवत्सरं कृच्छ्रं चरेदधः- शायी त्रिश्रवणी कर्मावेदको भैक्षाहारो दिव्यनदीपुलिनसंगमाश्रमगोष्ठपर्वतप्रस्रवण- तपोवनविहारी स्यात् स्थानवीरासनी संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमि- सर्पींषि ब्राह्मणेभ्यो ददन्पूतो भवति' इति तदपि हन्तुर्मूर्खस्य धनवतो जातिमात्र- व्यापादने द्रष्टव्यम् । यत्पुनर्वसिष्ठवचनम् - 'द्वादशरात्रमभक्षो द्वादशरात्र- मुपवसेत्' इति तन्मनसाऽध्यवसितब्रह्महत्यस्य स्वत एवोपरतजिघांसस्य वेदित- व्यम् । यत्पुनः - 'षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् । चान्द्रायणं च कुर्वीत पराकद्वयमेव च ॥' इति षट्त्रिंशन्मतवचनं तदप्रत्ययानेयपुंस्त्वस्य सप्रत्यय- वधे द्रष्टव्यम् । अत्रैव विषये अप्रत्ययवधे बृहस्पतिराह- 'अरुगायाः सरस्वत्याः संगमे लोकविश्रुते । शुद्धयेत्त्रिशवणस्नायी त्रिरात्रोपोषितो द्विजः ॥' इति । एवमन्यान्यपि स्मृतिवचनान्यन्विष्य विषमाणां व्यवस्था विज्ञेया । समानां तु विकल्पः । एतानि च द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव । क्षत्रिया- देस्तु द्विगुणादिकम् । यथाहाङ्गिराः- 'पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वृत्तं व्रतं स्मृतम् ॥' इति । एवं च ब्राह्म- णानां येन हन्तृहन्मयानगतगुणविशेषेण यः प्रायश्चित्तविशेषो व्यवस्थितः स एव तद्गुणविशिष्टे क्षत्रियादौ हन्तरि द्विगुणत्रिगुणो वेदितव्यः । अनयैव दिशा क्षत्रियवैश्यादावपि हीनेनोत्कृष्टवधे दोषगौरवात्प्रायश्चित्तस्यापि द्वैगुण्यादि कल्प-
१. ब्रह्महा विप्रमुच्येत । २. वीरासनेन संवत्सरे ।
[Header] प्रायश्चित्ताध्यायः ५२५
नीयम् । दोषगौरवं च दण्डगौरवादवगम्यते । यथोक्तम् — ‘प्रतिलोमापवादेषु द्विगुणस्त्रिगुणो दमः । वर्णानामानुलोम्येन तस्मादर्धार्धहानितः ॥’ इति । यत्तु चतुर्विंशतिमतवचनम् — ‘प्रायश्चित्तं यदाम्नातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियः कुर्यादर्धं वैश्यः समाचरेत् ॥ शूद्रः समाचरेत्पादमशेषेष्वपि पाप्मसु ॥’ इति,—तत्प्रतिलोमानुष्ठितचतुर्विधसाहसव्यतिरिक्तविषयम् । तथा मूर्धावसिक्ता- दीनामप्यनुलोमोत्पन्नानां दण्डवत्प्रायश्चित्तमूहनीयम् । दर्शितं दण्डतारतम्यम् — ‘दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः’ इति । ततश्च मूर्धावसिक्तस्य ब्राह्मणवधे ब्राह्मणादतिरिक्तं क्षत्रियान्न्यूनमध्यर्धं द्वादशवार्षिकं भवति । अनयैव दिशा प्रतिलोमोत्पन्नानामपि प्रायश्चित्तगौरवमूहनीयम् । तथा आश्रमिणामपि अङ्गिरसा विशेषो दर्शितः — ‘गृहस्थोक्तानि पापानि कुर्वन्त्याश्रमिणो यदि । शौचवच्छोधनं कुर्युर्ब्रह्महानिदर्शनात् ॥’ इति शौचवदिति — ‘एतच्छौचं गृहस्थानां द्विगुणं ब्रह्म- चारिणाम् । त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥’ ( मनुः—५।१३७ ) इति वचनाद्यथा ब्रह्मचार्यादीनां शौचं द्वैगुण्यादिक्रमेण वर्धते, तथा शोधनं प्रायश्चित्तमपि भवतीत्यर्थः । ब्रह्मचारिणस्तु प्रायश्चित्तद्वैगुण्यं षोडशवर्षादूर्ध्वमेव । अर्वाक्तु पुनः ‘बालो वाप्यूनषोडशः; प्रायश्चित्तार्धमर्हन्ति’ इति षोडशवर्षादर्वा- चीनस्यार्धप्रायश्चित्ताभिधानात् । नच द्वादशवार्षिके चतुर्गुणे क्रियमाणे मध्ये विपत्तिशङ्कया समाप्त्यनुपपत्तेः प्रवृत्तिरेव नोपपद्यत इति शङ्कनीयम् । यतः प्रक्रान्तप्रायश्चित्तस्य मध्ये विपत्तावपि पापक्षयो भवत्येव । यथाह हारीतः — ‘प्रायश्चित्ते व्यवसिते कर्ता यदि विपद्यते । पूतस्तदहरेवासाविह लोके परत्र च ॥’ इति । व्यासोऽप्याह — ‘धर्मार्थं यतमानस्तु न चेच्छक्नोति मानवः । प्राप्तो भवति तत्पुण्यमत्र वै नास्ति संशयः ॥’ इति ॥ २५० ॥ भाषा — अथवा पात्र ( योग्य ) व्यक्ति को गौ, भूमि और सोना आदि पर्याप्त धन देने पर ब्रह्महत्या का पापी शुद्ध होता है और दान लेने वाले की शुद्धि के लिये वैश्वानरी इष्टि करने का विधान है ॥ २५० ॥ अधुना निमित्तान्तरेषु ब्रह्महत्याप्रायश्चित्तस्यातिदेशमाह — यागस्थक्षत्रविट्घाती चरेद् ब्रह्महणि व्रतम् । गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥ २५१ ॥ दीक्षणीयाद्युदवसानीयापर्यन्ते सोमयागप्रयोगे वर्तमानौ क्षत्रियवैश्यौ यो व्यापादयति असौ ब्रह्महणि पुरुषे यद्ब्रह्महत्याव्रतमुपदिष्टं द्वादशवार्षिकादि तच्चरेत् । यद्यपि ‘याग’शब्दः सामान्यवचनस्तथाऽप्यत्र सोमयागमभिधत्ते । ‘सवनगतौ च राजन्यवैश्यौ’ इति वसिष्ठेन सवनत्रयसंपादकस्य सोमयागस्यैव निर्दिष्टत्वात् । अत्र च गुरुघुभूतानां द्वादशवार्षिकादिब्रह्महत्याव्रतानां जातिश-
[Footnote] १, हन्ता ।
५२६ याज्ञवल्क्यस्मृतिः त्रिगुणाद्यपेक्षया प्रागुक्तवद् व्यवस्था वेदितव्या । एवं गर्भबधादिष्वपि। मरणान्तिकं तु नातिदिश्यते; व्रतग्रहणात् । अतः कामतो यागस्थक्षत्रियादिवधे व्रतस्यैव द्वैगुण्यम् । एतच्च व्रतं संपूर्णमेव कर्तव्यम्,-'पूर्वयोर्वर्णयोर्वेदाध्यायिनं हत्वा' (धर्म. १।२४,६,५) इति प्रक्रम्यापस्तम्बेन द्वादशवार्षिकाभिधानात् । गर्भं च विज्ञासु संभूतं हत्वा यथावर्णं यद्वर्णपुरुषवधे यत्प्रायश्चित्तमुक्तं तद्वर्णगर्भबधे तच्चरेत् । एतच्चानुपजातस्त्रीपुंनपुंसकव्यञ्जनगर्भविषयम्; 'हत्वा गर्भमविज्ञातम्' (११।८७) इति मानवे विशेषदर्शनात् । अत्र च यद्यपि ब्राह्मणगर्भस्य ब्राह्मणत्वा- देव तद्वधनिमित्तव्रतप्राप्तिस्तथाऽपि स्त्रीत्वस्यापि संभवात्- 'स्त्रीशूद्रविट्क्षत्र- वध-'(प्रा० २३६) इत्युपपातकत्वेन तत्प्रायश्चित्तप्राप्तिरपि स्यात्, अतः स्त्रीपुंन- पुंसकत्वेनाविज्ञातेऽपि ब्राह्मणगर्भत्वमात्रप्रयुक्तं 'ब्रह्महत्याव्रतं कुर्यात्' इत्यर्थवद- तिदेशवचनम् । उपजाते स्त्रीपुंसादिविशेषव्यञ्जने यथायथमेव प्रायश्चित्तम् । यश्चात्रेय्या निषूदको व्यापादकः सोऽपि तथा व्रतं चरेत् । हन्यमानात्रेयीवर्णानु- रूपं व्रतं चरेदित्यर्थः । 'आत्रेयी'शब्देनर्तुमत्युच्यते 'रजस्वलामृतुस्नातामात्रेयीमा- हुर्यत्र ह्येतदपत्यं भवति' इति वसिष्ठस्मरणात् । अत्रिगोत्रा च । - 'अत्रिगोत्रां वा नारीम्' (५०।९) इति विष्णुस्मरणात् । एतदुक्तं भवति-ब्राह्मणगर्भबधे ब्राह्मण्यात्रेयीवधे च ब्रह्महत्याव्रतम् । क्षत्रियगर्भबधे क्षत्रियात्रेयीवधे च क्षत्रहत्या- व्रतम्, एवमन्यत्रापीति । 'च'शब्दात्साक्ष्ये अनृतवचनादिष्वपि । तथाह मनुः (११।८८) - 'उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥' इति । यत्र व्यवहारे असत्यवचनेन प्राणिनां वधप्रा- प्तिस्तद्विषयमेतत्; प्रायश्चित्तस्यातिगुरुत्वात् । प्रतिरोधः क्रोधावेशः । निक्षेपश्च ब्राह्मणसंबन्धी । स्त्री चाहिताग्निभार्या पतिव्रतात्वादिगुणयुक्तोच्यते सवनस्था च । यथाहाङ्गिराः- 'आहिताग्नेर्द्विजाग्र्यस्य हत्वा पत्नीमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्यादात्रेयीघ्नस्तथैव च ॥' इति । 'सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥' इति पराशरस्मरणात् । एवं च सवनस्थाग्निहोत्रिण्यात्रेयीवधे ब्रह्महत्याप्रायश्चि- त्तातिदेशात्तद्व्यतिरिक्तस्त्रीवधस्य 'स्त्रीशूद्रविट्क्षत्रवध-'(प्रा० २३६) इत्युपपातक- मध्यपाठादुपपातकत्वमेव ॥ ननु 'ब्राह्मणो न हन्तव्य' इत्यत्र निषेधेऽनुपादेयगत- त्वेन लिङ्गवचनयोरविवक्षितत्वाद् ब्राह्मणजातेश्च स्त्रीपुंसयोरविशेषात्तदतिक्रमनिमि- त्तप्रायश्चित्तविधेः- 'ब्रह्महा द्वादशाब्दानि' (प्रा० २४३) इत्यस्योभयत्र प्राप्तत्वा- त्किमर्थं 'तथात्रेयीनिषूदक' इत्यतिदेशवचनम् ? उच्यते, - सत्यपि ब्राह्मणत्वेऽ- नात्रेय्या वधस्य च महापातकप्रायश्चित्तनिराकरणार्थं ततस्तस्यापि पातकमध्यपा- ठादुपपातकप्रायश्चित्तमेव । आतिदेशिकेषु च प्रायश्चित्तस्यैवातिदेशो न पातित्य- स्य । अतः पतितत्यागादिकार्यमत्र^२ न भवति ॥ २५१ ॥ १. रविपर्ययात् । २. कार्यमात्रम् ।
भाषा-यज्ञ में (दीक्षणीया और उदयनीया पर्यन्त सोमयाग में वर्त्तमान) क्षत्रिय और वैश्य की हत्या करने वाला ब्रह्महत्या वाला व्रत करे; गर्भपात कराने वाले और रजस्वला स्त्री की हत्या करने वाला वर्ण के अनुसार (जिस वर्ण का गर्भ या स्त्री हो) हत्या का प्रायश्चित्त करे ॥२५१॥ चरेद् व्रतमहत्वाऽपि घातार्थं चेत्समागतः। द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् ॥ २५२ ॥ किंच, यथावर्णमित्यनुवर्त्तते; ब्राह्मणादिहनने कृतनिश्चयस्तद्व्यापादनार्थं सम्यगागत्य शस्त्रादिप्रहारे कृते कथंचित्प्रतिबन्धवशादसौ न मृतस्तदा अहत्वाऽपि यथावर्णं ब्रह्महत्यादि व्रतं चरेत् । तथा च गौतमः (२२।११)-'स्पृष्ट्वेदं ब्राह्मणवधे अहत्वाऽपि' इति । ननु हनने तदभावे चैकप्रायश्चित्तता न युक्ता-सत्यम्; अत एवौपदेशिकेभ्यो न्यूनत्वादातिदेशिकानां पादोनान्येव ब्रह्महत्यादिव्रतानि द्वाद- शवार्षिकादीनि भवन्ति । एवच्च प्रपञ्चितं प्राक् । किंच, यस्तु सवनसंपादकं सोम- यागमनुतिष्ठन्तं ब्राह्मणं व्यापादयति तस्मिन्द्रादशवार्षिकादिव्रतं द्विगुणं समा- दिशेत् । तेषां च व्रतानां गुरुलघुभूतानां जातिशक्तिगुणाद्यपेक्षया सत्यपि सव- नस्थत्वस्याविशेषे पूर्ववदेव व्यवस्थाऽवगन्तव्या । ब्रह्महत्यासमानां तु गुर्व- ङ्गिचेपादीनामातिदेशिकेभ्योऽपि न्यूनत्वादध्र्धोनं द्वादशवार्षिकादिप्रायश्चित्तमि- त्युक्तम् ॥ २५२ ॥ भाषा-वध करने के लिए आकर (किसी कारणवश) वध न होने पर भी (वर्ण के अनुसार ब्रह्महत्या आदि का) व्रत करे । सोमयाग के अनुष्ठान में लगे हुए ब्राह्मण को मारने पर दूना (दोहरा चौबीस वर्ष का) व्रत करे ॥ २५२ ॥ इति ब्रह्महत्याप्रायश्चित्तप्रकरणम् । अथ क्रमप्राप्तं सुरापानप्रायश्चित्तं प्रक्रमते- सुराम्बुघृतगोमूत्रपयसामग्निसंनिभम् । सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ॥ २५३ ॥ सुरादीनां मध्येऽन्यतममग्निसंनिभं क्वाथापादिताग्निसंस्पर्शदाहशक्तिकं कृत्वा पीत्वा सुरापो मरणाच्छुद्धिं प्राप्नोति । गोमूत्रसाहचर्यादुन्ये एव घृतपयसी ग्राह्ये । घृतपयःसाहचर्याच्च स्त्रणमेव गोमूत्रम् । एतच्चार्द्रवाससा कार्यम् । 'सुराप आर्द्रवासाश्च अग्निवर्णां सुरां पिवेत्' इति पैठीनसिस्मरणात् । तथा-'लौहेन पात्रेण सुरापोऽग्निवर्णां सुरामायसेन पात्रेण ताम्रेण वा पिवेत्' ३. माप्नुयात् ।
५२८ याज्ञवल्क्यस्मृतिः इति प्रचेतःस्मरणात् । एतच्च सकृत्पानमात्रे; 'सुरापानं सकृत्कृत्वाऽप्यग्निवर्णां सुरां पिबेत्' इत्यङ्गिरःस्मरणात् । यत्तु वसिष्ठवचनम्—'अभ्यासे तु सुरा- याश्च अग्निवर्णां पिबेद् द्विजः' इति, —तत्सुरान्यरिक्तमद्यपानविषयम् । एतच्च कामकारविषयम् ; 'सुरापाने कामकृते ज्वलन्तीं तां विनििक्षिपेत् । मुखे तया विनिर्दग्धो मृतः शुद्धिमवाप्नुयात् ॥' इति बृहस्पतिस्मरणात् । यत्तु 'सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत्' (११।९०) इति मनुना मोहग्रहणं कृतं, तच्छास्त्रार्थापरिज्ञानाभिप्रायेण । अत्रेदं चिन्तनीयम्—किं 'सुरा' शब्दो मद्यमात्रे रूढ उत तिसृष्वेव गौडीमाध्वीपैष्टीष्वाहोस्वित्पैष्ट्यामेवेति । तत्र केचिन्मद्यमात्रे रूढ इति वर्णयन्ति; 'अभ्यासे तु सुरायाः' (२०।२२) इति वासिष्ठे पैष्ट्यादित्रयव्यतिरिक्तेऽपि मद्यमात्रे सुराशब्दप्रयोगदर्शनात् । न चासौ गौणः प्रयोग इति शङ्कनीयम् । मदजननशक्तिमत्त्वोपाधिकतया सर्वत्र मुख्यत्वोपपत्तौ गौणत्वकल्पनाया अन्याय्यत्वादिति,—तदयुक्तम् ; 'पानसं द्राक्षं माधूकं खार्जूरं तालमैक्षवम् । मधूत्थं सैरमारिष्टं मैरेयं नालिकेरजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशं तु सुरामद्यं सर्वेषामधमं स्मृतम् ॥' इति पुलस्त्येन मद्यविशेषत्वेन सुराया निर्दिष्टत्वात् । अतश्च मद्यमात्रे सुराशब्द- प्रयोगो गौणः । अन्ये पुनः पैष्ट्यादिषु तिसृषु 'सुरा'शब्दस्य रूढिं मन्यन्ते । तथा हि—यद्यप्यनेकत़्र सुराशब्दप्रयोगो दृश्यते तथाऽपि कुत्रानादित्वमिति संदेहे—'गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा' (११।९४) इति मनुवचनाद्गुडमधुपिष्टविकारेष्वनादित्वनिर्धारणात्तत्रैव मुख्यत्वं युक्तम् । नचा- नेकत्र शक्तिल्पना दोषः; मदशक्तेरुपाधित्वाश्रयणेन तस्य सुपरिहरत्वात् । नच तालादिरसेष्वप्युपाधेर्विद्यमानत्वादतिप्रसङ्गः; पङ्कजादिशब्दवद्योगरूढत्वा- श्रयणात् । अतश्च—'यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः' (मनुः ११।९४) इति तिसृणां सुराणां समानदोषत्वप्रतिपादनपरं न पुनरनयोगौ- डीमाध्व्योः पैष्टीसुरासमत्वप्रतिपादनपरम् । 'द्विजोत्तम'ग्रहणं द्विजात्युपलक्ष- णम्,—एतदप्ययुक्तम् ; 'द्वादशं तु सुरामद्यं सर्वेषामधमं स्मृतम्' इति पुल- स्त्यवचने गौडीमाध्वीभ्यामपि सुरामद्यँस्यातिरेकदर्शनात् । तथा—'सुरा वै मलमन्नानां पाप्मा च मलमुच्यते' (मनुः ११।९३) इति । अन्नविकारस्यैव सुरात्वनिर्देशादन्नशब्दस्य च 'अन्नेन व्यञ्जनम्' इत्यादिषु व्रीह्यादिविकार एव प्रयोगदर्शनाद् गुडमधुनोश्च रसरूपत्वात्तथा सौत्रामणिग्रहेषु चान्नविकारे एव 'सुरा'शब्दस्य श्रुतत्वात् पैष्ट्येव सुरा मुख्योच्यते । इतरयोस्तु सुराशब्दो गौणः; यत्तूक्तम्—'गौडी माध्वी' इति मनुवचनात्तिसृष्वप्यौपत्तिकत्वनिर्धारणादिति,— तदप्ययुक्तम् ; यतो नेदं शब्दानुशासनवच्छब्दार्थसम्बन्धानादित्वप्रतिपादनपरं, १. पाधिकत्वेन । २. नैकशक्ति । ३. मद्यस्य व्यतिरेक ।
किंन्तु कार्यप्रतिपादनपरम् । अतो गुरुप्रायश्चित्तनिमित्ततया गौडीमाध्व्योर्गौणः 'सुरा'शब्दयोगः । 'एवं च नानेकक्तिकल्पनादोषो नाप्युपाध्याश्रयणं कृतम् । न चात्र 'द्विजोत्तम'ग्रहणस्योपलक्षणत्वम् । अतश्च—'सुरा वै मलमन्नानां पाप्मा च मलमूच्यते । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥' ( मनुः ११।९३ ) इति पैष्ट्या एव वर्णत्रयसंबन्धित्वेन निषेधः । गौड्यादीनां तु मद्यानां ब्राह्मणसंबन्धित्वेनैव निषेधः, न क्षत्रियवैश्ययोः; 'यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानाम्शनता हविः ॥' ( ११। ९५ ) इति मानवे ब्राह्मणेनेति विशेषोपादानात् । बृहद्विष्णुनाऽपि ब्राह्मणस्यैव मद्यप्रतिषेधो दर्शितः—'माधूक मैक्षवं सैरं तालं खार्जूरपानसम् । मधूत्थं चैव माध्वीकं मैरेयं नालिकेरजम् ॥ अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ॥' इति ॥ बृहद्याज्ञवल्क्येनापि क्षत्रियवैश्ययोर्दोषाभावो दर्शितः—'कामादपि हि राजन्यो वैश्यो वाऽपि कथंचन । मद्यमेव सुरां पीत्वा न दोषं प्रतिपद्यते ॥' इति । व्यासेनापि तयोर्माध्वीपानमनुज्ञातम्—'उभौ मध्वासवक्षीबावुभौ चन्दनचर्चितौ । एकपर्यङ्करधिनौ दृष्टौ मे केशवार्जुर्नौ ॥' इति । एवं ब्राह्मण- संबन्धित्वेन मद्यमात्रनिषेधे सत्यपि—'गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥' ( मनुः ११। ९४ ) इति गौडीमाध्व्योः पृथङ्निषेधवचनं दोषगुरुत्वेन सुरासमत्वप्रतिपाद- नपरम् । अयं च सुरानिषेधोऽनुपनीतस्यानूढायाश्च कन्याया भवत्येव; 'तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत्' ( मनुः ११।९३ )—इति जातिमा- त्रावच्छेदेन निषेधात् । अतश्च 'सुरां पीत्वा द्विजो मोहात्' ( ११।९० ) इति प्रायश्चित्तविधिवाक्ये मनुना यद्द्विजग्रहणं कृतं तद्वर्णत्रयोपलक्षणार्थम् ; निमि- त्तभूतनिषेधसापेक्षत्वान्नैमित्तिकविधेर्निषेधे च वर्णमात्रस्यावच्छेदकत्वात् । यथा 'यस्य हविर्निरूप्तं पुरस्ताच्चन्द्रमा अभ्युदेति' इति निमित्तवाक्ये हविर्मात्राभ्यु- दयस्य निमित्तंतावावगतौ तत्सापेक्षनैमित्तिकवाक्ये श्रूयमाणमपि 'त्रेधा तन्दुला- न्विभजेत्' इति तन्दुलग्रहणं तन्दुलादिरूपहविर्मात्रोपलक्षणम् । इयांस्तु विशेषः— 'पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः' इति वचनात्कामकारेऽपि, न मर- णान्तिकं किंतु पादमेव द्विगुणीकृत्य षड्वार्षिकं देयम् ; 'विहितं यदकामानां कामात्तद्द्विगुणं चरेत्' इत्यङ्गिरःस्मरणात् । एवं वृद्धातुरादिष्वपि योज्यम् । तथा 'तद्ब्राह्मणेन नात्तव्यं देवानाम्शनता हविः' ( मनुः ११।९५ )—इति मद्यस्यापि जातिमात्रावच्छेदेन निषिद्धत्वादनुपनीतेनापि न पेयम् । ननु कथ- मनुपनीतस्य दोषः ? 'प्रागुपनयनात्कामचारकामवादकामभक्षाः' ( २।१ ) इति- १. निन्दितत्वावगतौ ।
५३० याज्ञवल्क्यस्मृतिः गौतमवचनात्, तथा—'मद्यमूत्रपुरीषाणां भक्षणे नास्ति कश्चन । दोषस्त्वाऽऽपञ्च- माद्वर्षादूर्ध्वं पित्रोः सुहृद्गुरोः ॥' इति कुमारवचनाच्च दोषाभावावगतेः । उच्यते,—सुरामद्ययोर्निषेधवाक्ये जातिमात्रावच्छेदकत्वश्रवणादप्रतिहतैव नि- षेधप्रवृत्तिः । अत एव स्मृत्यन्तरे निषेधवचनम्—'सुरापाननिषेधस्तु जात्याश्रय इति स्थितिः' इति । अतः 'पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः' इति । 'सर्वपापेषु सुरापानादिष्वपि' इति वचनात्पाद एव सुरापाने प्रायश्चित्तम् । तथा जातूकर्ण्येन मद्यपानेऽपि प्रायश्चित्तमुक्तम्—'अनुपेतस्तु यो बालो मद्यं मोहा- त्पिबेद्यदि । तस्य कृच्छ्रत्रयं कुर्यान्माता भ्राता तथा पिता ॥' इति । अतो गौतमवचनं सुरादिव्यतिरिक्तशुक्तपर्युषितादिविषयम् । कुमारवचनं तु स्वल्प- दोषख्यापनपरम् । अत एव प्रागुपनयनात्कृतदोषस्योपनयनमेव प्रायश्चित्तमित्युक्तं मनुना ( २।२७ )—'गार्भैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥' इति । अयमत्रार्थः-त्रैवर्णिकानामुत्पत्तिप्रभृति पैष्टी- प्रतिषेधः । ब्राह्मणस्य मद्यमात्रनिषेधोऽप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य न सुराप्रतिषेधो नापि मद्यप्रतिषेधः ॥ २५३ ॥ भाषा—सुरा पीने वाला महापातकी सुरा, जल, घृत, गोमूत्र और दूध में किसी एक को खूब खौलाकर पीए और उससे उसकी मृत्यु हो जाय तब वह शुद्ध होता है ॥ २५३ ॥ प्रायश्चित्तान्तरमाह— बालवासा जटी वाऽपि ब्रह्महत्याव्रतं चरेत् । पिण्याकं वा कणांश्चाऽपि भक्षयेत्त्रिसमा निशि ॥ २५४ ॥ गोश्वागादिलोमनिर्मितवस्त्राप्रावृतो बालवासाः, 'बालवासो'ग्रहणं चीरवल्क- लयोरुपलक्षणार्थम् ; 'सुरापगुरुतल्पगौ चीरवल्कलवाससौ ब्रह्महत्याव्रतं चरेया- ताम्' इति प्रचेतःस्मरणात् । 'जटी'ग्रहणं मुण्डित्वनिराकरणार्थम् । 'ब्रह्म- हत्याव्रतं चरेत्' इत्यनेनैव सिद्धे यद्बालवसनादिग्रहणं तदन्यत्र संभंवि स्वयं मारितशिरःकपालादिनिवृत्यर्थम् । इदमकामतो जलबुद्धया यः सुरां पिबति तद्विषयम् ; 'इयं विशुद्धिरुदिता प्रमाप्याऽकामतो द्विजम्' ( मनुः ११।८९ )— इत्यकामोपाधित्वेन विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । अत्र च सुरा- पानस्य महापातकत्वादसत्यप्यातिदेशिकत्वे संपूर्णमेव द्वादशवार्षिकं कुर्यान्न पादो- नम् । अत एव वृद्धहारीतः—'द्वादशभिर्वर्षैर्महापातकिनः पूयन्ते' इति । १. चरेद् ब्रह्महणि व्रतम् । २. भक्षयेत्तु समां निशि । ३. संभवे श्रूय- माणस्वसंबन्धि स्वयम् ।
अथवा पिण्याकं¹ पिण्डितं त्रिसमा वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कणा- स्तन्दुलेल²वास्तान्वा पूर्ववद्भक्षयेत् ।- एतच्च सकृदेव कार्यम् ; 'कणान्वा भक्ष- येदब्दं पिण्याकं वा सकृन्निशि' ( ११।९२ ) इति मनुस्मरणात् । अस्य च पिण्या- कादिभक्षणस्य भोजनकार्ये विहितत्वादशनान्तरपरित्यागः । एतच्चोदकबुद्ध्या सुरा- पाने छर्द्दनोत्तरकाले वेदितव्यम् ; 'एतदेव व्रतं कुर्यान्मद्यपश्छर्द्दने कृते । पञ्चगव्यं च तस्योक्तं प्रत्यहं कायशोधनम् ॥' इति व्यासवचनात् । नच सुरासंसृष्टेषूद- पलब्धमानतद्गन्धरसोदकपानविषयमिदमिति सुन्दरम् । संसर्गेऽपि सुरात्वस्या- नपायात् । यथाऽऽज्यत्वस्य पृषदाज्ये । अत एव 'आज्यपा इति निगमाः कार्याः न पृषदाज्यपाः' इत्येवमुक्तं न्यायविद्भिः । यत्पुनरापस्तम्बवचनम् ( १।२५ )- 'स्तेयं कृत्वा सुरां पीत्वा गुरुदारान्गत्वा ब्रह्महत्यां च कृत्वा चतुर्थं कालं मित- भोजनोऽभ्युपेयात्सवनानुपशं स्थानासनाभ्यां विहरंस्त्रिभिर्वर्षैः पापं व्यपनुदति' इति । यच्चाङ्गिरोवचनम्- 'महापातकसंयुक्ता वर्षैः शुद्ध्यन्ति ते त्रिभिः' इति, तदुभयमपि 'पिण्याकं वा कणान्वा' इत्यनेनै कविषयम् । यदपि यमेन प्रायश्चित्तद्वय- मुक्तम् - 'बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पूतः । समत्वं ब्राह्मणैर्गच्छेदिष्ट्येषा वैदिकी श्रुतिः ॥ भूमिप्रदानं यः कुर्यात्सुरां पीत्वा द्विजोत्तमः । पुनर्न च पिबेत्तां तु संस्कृतः स विशुद्ध्यति ॥' इति, -तदुभयमपि पूर्वेण सहैकविषयम् । यद्वा अतिरिक्तदक्षिणाकतृत्वाश्रयणाद् द्वादशवार्षिकेन सह विकल्पते । अत्रापि बालवृद्धादीनां सार्धैकवर्षीयमनुपनीतानां तु नवमासिकमित्येवं कल्पना कार्या । यत्तु मनुवचनम् ( ११।९२ )- 'कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्त्यर्थं बालवासा जटी ध्वजी ॥' इति, -तत्तालुमात्रसंयोगे सुराया अबुद्धिपूर्वे द्रष्टव्यम् । ननु च द्रवद्रव्यस्याभ्यवहरणं पानमित्युच्यते । अभ्यव- हरणं च कण्ठादधोनयनं न तालुवादिसंयोगमात्रं, अतः कथं तत्र पाननिमित्तं प्रायश्चित्तम् ? उच्यते- येन तालुवादिसंयोगेन विना पानक्रिया न निर्वर्तते सोऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्यपि मुख्यपानाभावान्न महा- पातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूतान्यभिचारिताल्वादिसंयोगस्यापि प्रति- षिद्धत्वेन दोषस्य विद्यमानत्वादङ्गावस्थेव प्रायश्चित्तम् ।- 'चरेद् व्रतमहत्त्वाऽपि घातार्थं चेत्समागतः' इति । यथा हननप्रतिषेधेन तदङ्गभूताध्यवसायादेरपि प्रति- षिद्धत्वात्प्रायश्चित्तविधानम् । यत्तु बौधायनीयम् - 'त्रैमासिकममत्या सुरापाने कृच्छ्राब्दपादं चरित्वा पुनरुपंनयनम्' इति; यच्च याम्यम् - 'सुरां पीत्वा द्विजं हत्वा रुक्मं हृत्वा द्विजन्मनः । संयोगं पतितैर्गत्वा द्विजश्चान्द्रायणं चरेत् ॥' इति; यदपि बार्हस्पत्यम् - 'गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् । १. पिण्याकपिण्डान् । २. तंदुलानवस्तान्वा । ३४ या०
तत्कृच्छ्रं पराकं च चान्द्रायणमनुक्रमात् ॥' इति,–तत्तितयमप्यनन्यौषधसाध्य- व्याध्युपशमार्थे पाने वेदितव्यम्; प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसमेवान्नं भक्षयति तदा पुनरुपनयनम् । यथाह मनुः ( ११।१५० )— 'अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥' इति । यदा च शुष्कसुराभाण्डस्थोदकं पिबति तदा शातातपोक्तं कुर्यात्—'सुराभाण्डोदकपाने छर्दनं घृतप्राशनमहोरात्रोपवासश्च' इति । यत्तु बौधायनीयम् (२।१।२१)—'सुरापानस्य यो भाण्डेऽष्वापः पर्युषिताः पिबेत् । शङ्ख- पुष्पीविपक्वं तु क्षीरं सर्पिः पिबेत्त्र्यहम् ॥' इति,–तत्पर्युषितत्वादधिकम् । अकाम- तोऽभ्यासे पुनर्मुनुनोक्तम् ( ११।१४७ )—'अपः सुराभाजनस्था मद्यभाण्ड- स्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः ॥' इति; यत्तु विष्णूक्तम् ( ५२।२३ )–'अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्' इति,–तन्मतिपूर्वकपाने । ज्ञानतोऽभ्यासे तु बृहद्यम आह—'सुराभाण्डे स्थितं तोयं यदि कश्चित्पिबेद्द्विजः । स द्वादशाहं क्षीरेण पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति । सुरापस्य मुखगन्धघ्राणे तु मानवम् ( ११।१४९ )—'ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुद्ध्यति ॥' इति,– तत्सोमयाजिन एवामतिपूर्वे; मतिपूर्वे तु द्विगुणम् । अपीतसोमस्य तु कल्प्यम्; साक्षात्सुरागन्धघ्राणस्य तु 'जातिभ्रंशकरेषु यत्' इति जातिभ्रंशकरत्वात्—'जाति- भ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥' ( ११।१२४ ) इति मनूक्तं द्रष्टव्यम् ॥ २५४ ॥
भाषा—अथवा बकरा आदि के बाल से बना हुआ वस्त्र धारण कर एवं जटा रख के ब्रह्महत्या के लिए विहित व्रते करे । अथवा तीन वर्ष तक केवल रात्रि को पिण्याक (पिण्डी) या कण को भोजन करे ॥ २५४ ॥
एवं मुख्यसुरापाने प्रायश्चित्तमुक्तवा मद्यपाने प्रायश्चित्तमाह— अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ २५५ ॥
यः पुनरज्ञानादुदकबुद्धया सुरां मद्यं ब्राह्मणः पिबति, ये च ब्राह्मणादयो रेतो विण्मूत्राणि प्राश्नन्ति, ते त्रयोऽपि द्विजातयो वर्णास्तत्तत्कृच्छ्रपूर्वकं पुनरुप- नयनं प्रायश्चित्तमर्हन्ति । अत्र मद्यपाने योऽयं पुनः संस्कारः स ब्राह्मणस्यैव; क्षत्रियविशोस्तदम्यनुज्ञानस्य दर्शितत्वात् । 'सुरा'शब्दश्चात्र मद्यपरः; प्रायश्चित्त- स्यातिलघुत्वात्, अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच्च । अत
१ अज्ञानाद्दारुणीं पीत्वा ।