भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 99, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 99

आचाराध्यायः ४३ 'सवर्णेभ्यः सवर्णासु जायन्त' (९०) इत्यादिना वर्णप्राप्तौ कारणमुक्तम्, इदानीं कारणान्तरमाह—

जात्युत्कर्षो युगे ज्ञेयः १सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥ ९६ ॥

जातयो मूर्धावसिक्ताद्यास्तासामुत्कर्षो ब्राह्मणत्वादिजातिप्राप्तिर्जात्युत्कर्षो युगे जन्मनि सप्तमे पञ्चमे, 'अपि'शब्दात्षष्ठे वा बोद्धव्यः । व्यवस्थितश्चायं विकल्पः । व्यवस्था च—ब्राह्मणेन शूद्रायामुत्पादिता निषादी, सा ब्राह्मणेनोढा दुहितरं काञ्चिज्जनयति, सापि ब्राह्मणेनोढाऽन्यां जनयतीत्यनेन प्रकारेण षष्ठी सप्तमं २ब्राह्मणं जनयति । ब्राह्मणेन वैश्यायामुत्पादिता अम्बष्ठा । साप्यनेन प्रकारेण पञ्चमी षष्ठं ब्राह्मणं जनयति । मूर्धावसिक्ताप्यनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणमेव जनयति । एवमुग्रा क्षत्रियेणोढा माहिष्या च यथाक्रमं क्षत्रियं षष्ठं पञ्चमं जनयति । तथा करणी वैश्योढा पञ्चमं वैश्यमिति, एवमन्यत्राप्यूहनीयम् । किञ्च, कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां व्यत्यये विपर्यासे यथा ब्राह्मणो ३मुख्यया वृत्त्या अजीवन् क्षात्रेण कर्मणा जीवेदित्यनुकल्पः । तेनाप्यजीवन् वैश्यवृत्त्या तथाप्यजीवन् शूद्रवृत्त्या । क्षत्रियोऽपि स्वकर्मणा जीवनार्थेनाजीवन् वैश्यवृत्त्या शूद्रवृत्त्या वा । वैश्योऽपि स्ववृत्त्या अजीवन् शूद्रवृत्त्येति कर्मणां व्यत्ययः । तस्मिन्व्यत्यये सति यद्यापद्विमोक्षेऽपि तां वृत्तिं न परित्यजति तदा ४सप्तमे षष्ठे पञ्चमे वा जन्मनि साम्यं, यस्य हीनवर्णस्य कर्मणा जीवति तत्समानजातित्वं भवति । तद्यथा ब्राह्मणः शूद्रवृत्त्या जीवंस्तामपरित्यजन् यदि पुत्रमुत्पादयति सोऽपि तयैव वृत्त्या जीवन्पुत्रान्तरमित्येवं पुत्रपरम्परया सप्तमे जन्मनि शूद्रमेव जनयति । वैश्यवृत्त्या जीवन् षष्ठे वैश्यम् । क्षत्रियवृत्त्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियोऽपि शूद्रवृत्त्या जीवन् षष्ठे शूद्रम् । वैश्यवृत्त्या जीवन् पञ्चमे वैश्यम् । वैश्योऽपि शूद्रवृत्त्या जीवंस्तामपरित्यज्यपुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जनयतीति । पूर्ववच्चा- धरोत्तरम् । अस्यार्थः—वर्णसङ्करे अनुलोमजाः प्रतिलोमजाश्च दर्शिताः । सङ्कीर्णसङ्करजाताश्च रथकारनिदर्शनेन दर्शिताः । इदानीं ६वर्णसङ्कीर्णसङ्करजाताः प्रदर्श्यन्ते—अधरे च उत्तरे च अधरोत्तरम्, यथा मूर्धावसिक्तायां क्षत्रियवैश्य- शूद्रैरुत्पादितस्तथाऽम्बष्ठायां वैश्यशूद्राभ्यां निषाद्यां शूद्रेणोत्पादिता अधराः प्रति- लोमजास्तथा मूर्धावसिक्ताम्बष्ठानिषादीषु ब्राह्मणेनोत्पादिताः, माहिष्योग्रयोर्ब्राह्म-

१. पञ्चमे सप्तमेऽपि । २. सप्तमं । ३. ब्राह्मणवृत्त्या । ४. पञ्चमे षष्ठे सप्तमे । ५. पुनरप्येवं । ६. वर्णसङ्करजाता ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 99, कुल 782 में से · BharatKosha