भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

आचाराध्यायः ४३ 'सवर्णेभ्यः सवर्णासु जायन्त' (९०) इत्यादिना वर्णप्राप्तौ कारणमुक्तम्, इदानीं कारणान्तरमाह—

जात्युत्कर्षो युगे ज्ञेयः १सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥ ९६ ॥

जातयो मूर्धावसिक्ताद्यास्तासामुत्कर्षो ब्राह्मणत्वादिजातिप्राप्तिर्जात्युत्कर्षो युगे जन्मनि सप्तमे पञ्चमे, 'अपि'शब्दात्षष्ठे वा बोद्धव्यः । व्यवस्थितश्चायं विकल्पः । व्यवस्था च—ब्राह्मणेन शूद्रायामुत्पादिता निषादी, सा ब्राह्मणेनोढा दुहितरं काञ्चिज्जनयति, सापि ब्राह्मणेनोढाऽन्यां जनयतीत्यनेन प्रकारेण षष्ठी सप्तमं २ब्राह्मणं जनयति । ब्राह्मणेन वैश्यायामुत्पादिता अम्बष्ठा । साप्यनेन प्रकारेण पञ्चमी षष्ठं ब्राह्मणं जनयति । मूर्धावसिक्ताप्यनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणमेव जनयति । एवमुग्रा क्षत्रियेणोढा माहिष्या च यथाक्रमं क्षत्रियं षष्ठं पञ्चमं जनयति । तथा करणी वैश्योढा पञ्चमं वैश्यमिति, एवमन्यत्राप्यूहनीयम् । किञ्च, कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां व्यत्यये विपर्यासे यथा ब्राह्मणो ३मुख्यया वृत्त्या अजीवन् क्षात्रेण कर्मणा जीवेदित्यनुकल्पः । तेनाप्यजीवन् वैश्यवृत्त्या तथाप्यजीवन् शूद्रवृत्त्या । क्षत्रियोऽपि स्वकर्मणा जीवनार्थेनाजीवन् वैश्यवृत्त्या शूद्रवृत्त्या वा । वैश्योऽपि स्ववृत्त्या अजीवन् शूद्रवृत्त्येति कर्मणां व्यत्ययः । तस्मिन्व्यत्यये सति यद्यापद्विमोक्षेऽपि तां वृत्तिं न परित्यजति तदा ४सप्तमे षष्ठे पञ्चमे वा जन्मनि साम्यं, यस्य हीनवर्णस्य कर्मणा जीवति तत्समानजातित्वं भवति । तद्यथा ब्राह्मणः शूद्रवृत्त्या जीवंस्तामपरित्यजन् यदि पुत्रमुत्पादयति सोऽपि तयैव वृत्त्या जीवन्पुत्रान्तरमित्येवं पुत्रपरम्परया सप्तमे जन्मनि शूद्रमेव जनयति । वैश्यवृत्त्या जीवन् षष्ठे वैश्यम् । क्षत्रियवृत्त्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियोऽपि शूद्रवृत्त्या जीवन् षष्ठे शूद्रम् । वैश्यवृत्त्या जीवन् पञ्चमे वैश्यम् । वैश्योऽपि शूद्रवृत्त्या जीवंस्तामपरित्यज्यपुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जनयतीति । पूर्ववच्चा- धरोत्तरम् । अस्यार्थः—वर्णसङ्करे अनुलोमजाः प्रतिलोमजाश्च दर्शिताः । सङ्कीर्णसङ्करजाताश्च रथकारनिदर्शनेन दर्शिताः । इदानीं ६वर्णसङ्कीर्णसङ्करजाताः प्रदर्श्यन्ते—अधरे च उत्तरे च अधरोत्तरम्, यथा मूर्धावसिक्तायां क्षत्रियवैश्य- शूद्रैरुत्पादितस्तथाऽम्बष्ठायां वैश्यशूद्राभ्यां निषाद्यां शूद्रेणोत्पादिता अधराः प्रति- लोमजास्तथा मूर्धावसिक्ताम्बष्ठानिषादीषु ब्राह्मणेनोत्पादिताः, माहिष्योग्रयोर्ब्राह्म-

१. पञ्चमे सप्तमेऽपि । २. सप्तमं । ३. ब्राह्मणवृत्त्या । ४. पञ्चमे षष्ठे सप्तमे । ५. पुनरप्येवं । ६. वर्णसङ्करजाता ।

५४ याज्ञवल्क्यस्मृतिः येन क्षत्रियेण चोत्पादिताः, करण्यां ब्राह्मणेन क्षत्रियेण वैश्येन चोत्पादिताः उत्तरे अनुलोमजाः । एवमन्यत्राप्यूहनीयम् । एतदधरोत्तरं पूर्ववदसत्स्रदिति बोद्धव्यम् ॥ ९६ ॥ भाषा—मूर्द्धावसिक्त आदि जातियों का सातवें या पाँचवें जन्म में (अर्थात् किसी जाति की कन्या अपनी से बड़ी जाति के पुरुष के साथ ब्याही जाय, उससे उत्पन्न कन्या भी उससे बड़ी जाति में ब्याही जाय, इस प्रकार सातवीं पीढ़ी में) जाति का उत्कर्ष होता है । आपत्काल में दूसरी निम्न जाति का कर्म स्वीकार करने पर, आपत्काल समाप्त होने पर भी जो उस वृत्ति को नहीं छोड़ता उसकी जाति पाँचवीं या सातवीं पीढ़ी में वही हो जाती है (जिसका वह कर्म करता वही होता है) इन वर्ण संकरों में निम्न प्रतिलोमज होते हैं और उत्तम अनुलोमज ॥ ९६ ॥ इति वर्णजातिविवेकप्रकरणम् । गृहस्थधर्मप्रकरणम् श्रौतस्मार्तानि कर्माणि अग्निसोध्यानि दर्शयिष्यन् कस्मिन्नग्नौ किं कर्तव्य- मित्याह— कर्म स्मार्तं विवाहाग्नौ कुर्वीतप्रत्यहं गृही । दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ ९७ ॥ स्मृत्युक्तं वैश्वदेवादिंकं कर्म, लौकिकं च यत्प्रतिदिनं पाकलक्षणं तदपि, गृहस्थो विवाहाग्नौ विवाहसंस्कृते कुर्वीत । दायकाले विभागकाल आहृते वा 'वैश्यकुलादग्निमानीय' इत्यादिनाक्तसंस्कारसंस्कृते । 'अपि'शब्दात्प्रेते वा गृहपता- वाहृते संस्कृते एव । ततश्च कालत्रयातिक्रमे प्रायश्चित्तीयते । श्रुत्युक्तमग्निहोत्रादिकं कर्म वैतानिकाग्निषु आहवनीयादिषु कुर्वीत ॥ ९७ ॥ भाषा—गृहस्थ प्रतिदिन (बलिवैश्वदेव आदि) स्मार्त कर्म विवाहाग्नि में या विभाजन के समय आहित अग्नि में करे तथा (अग्निहोत्र आदि) श्रौत कर्म आहवनीय आदि अग्नि में करे ॥ ९७ ॥ गृहस्थधर्मानाह— शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः । प्रातःसंध्यामुपासीत दन्तधावनपूर्वकम् ॥ ९८ ॥२ १. अहृत आहितः । २. तिक्रमेण प्राय ।

आचाराध्यायः ४५ शरीरचिन्तामावश्यकादिकां १ 'दिवासन्ध्यास्तु कर्णस्थब्रह्मसूत्र उदङ्मुखः' इत्याद्युक्तविधिना निर्वर्त्य 'गन्धलेपक्षयकरम्' (आचार. २।१७) इत्यादिनाक्तेिन विधिना कृतशौचविधिद्विजः दन्तधावनपूर्वकं प्रातःसन्ध्यामुपासीत । दन्तधावन- विधिश्च—'कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसम्मितम् । कनिष्ठिकाग्रवत्स्थूलं पर्वाधं- कृतकूर्चकम् । दन्तधावनमुद्दिष्टं जिह्वोल्लेखनिका तथा ॥' (आचार. १६) इति । अत्र 'वृक्षोत्थम्' इत्यनेन तृणलोष्टाङ्कुश्यादिनिषेधः । पलाशश्वत्थादिनिषेधश्च स्मृत्यन्तरोक्तो द्रष्टव्यः । दन्तधावनमन्त्रश्च—'आयुर्बलं यशो वर्चः प्रजाः पशु- वसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि २ वनस्पते ॥' इति । ब्रह्मचारि- प्रकरणोक्तस्यापि सन्ध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम्, 'दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेत्' इति तन्निषेधात् ॥ ९८ ॥ भाषा—द्विज मलमूत्रोत्सर्ग से निवृत्त होकर, शौच करके एवं दातौन करने के बाद प्रातःसन्ध्या की उपासना करे ॥ ९८ ॥ हुत्वाग्नीन्सूर्यदैवत्याञ्जपेन्मन्त्रान्समाहितः । वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥ ९९ ॥ प्रातःसन्ध्यावन्दनानन्तरं अग्नीनाहवनीयादीन् यथोक्तेन विधिना हुत्वा औपासनाग्निं वा । तदनन्तरं सूर्यदैवत्यान् 'उदुत्यं जातवेदसम्' (ऋ. १।४।७।८) इत्यादीन्मन्त्रान्जपेत् । समाहितोऽविक्षिप्तचित्तः । तदनन्तरं वेदार्थान्निरुक्तव्या- करणादिश्रवणेनाधिगच्छेज्जानीयात् । चकारादधीतं चाभ्यसेत् । विविधानि च शास्त्राणि मीमांसाप्रभृतीनि धर्मार्थारोग्यप्रतिपादकान्यधिगच्छेत् ॥ ९९ ॥ भाषा—इसके अनन्तर (आहवनीय आदि अग्नियों में) अग्निहोत्र कर्म करके ध्यान लगाकर सूर्य देवता के ( 'उदुत्यं जातवेदसम्' आदि) मन्त्र का जप करे । इसके बाद वेद के अर्थ को तथा विविध शास्त्रों का ज्ञान प्राप्त करे ॥ ९९ ॥ उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये । स्नात्वा देवान्पितूंश्चैव तर्पयेदर्चयेत्तथा ॥ १०० ॥ तदनन्तरमीश्वरमभिषेकादिगुणयुक्तमन्यं वा श्रीमन्तमकुत्सितं योगक्षेमार्थ- सिद्धये । अलब्धलाभो योगः, लब्धपरिपालनं क्षेमः, ४ तदर्थमुपेयादुपासीत । 'उपेयात्' इत्यनेन सेवां प्रतिषेधति । 'वेतन'ग्रहणेनाज्ञाकरणं सेवा, तस्याः १. आवश्यकां दिवा । २. नो देहि । ३. करणादींश्च श्रवणेनाधि । ४. क्षेमस्तदर्थं ।

४६ याज्ञवल्क्यस्मृतिः श्ववृत्तिश्वेन निषेधात्, (सेवा १ श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत्' इति मनु- स्मरणात्) । ततो मध्याह्ने शास्त्रोक्तविधिना नद्यादिषु स्नात्वा देवान् स्वगृह्योक्तान् पितॄंश्च, चकारादृषींश्च, देवादितीर्थेन तर्पयेत् । तदनन्तरं गन्धपुष्पाक्षतैः हरिहरहिरण्यगर्भप्रभृतीनामन्यतमं यथावासनमृग्यजुःसाममन्त्रैस्तत्प्रकाशकैः स्वनामभिर्वा चतुर्थ्यन्तैर्नमस्कारयुक्तैराराधयेद्यथोक्तविधिना ॥ १०० ॥ भाषा—योग (अप्राप्त वस्तु की प्राप्ति) एवं क्षेम (उपलब्ध वस्तु की रक्षा) के लिये राजा या स्वामी के पास जावे । (मध्याह्न को) स्नान करके देवताओं एवं पितरों का तर्पण करे और उनकी पूजा करे ॥ १०० ॥ वेदाथर्वपुराणानि सेतिहासानि शक्तितः । जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १०१ ॥ तदनन्तरं वेदार्थवेतिहासपुराणानि समस्तानि व्यस्तानि वा आध्यात्मिकीं च विद्यां जपयज्ञसिद्धयर्थं यथोक्तेन विधिना यथाशक्ति जपेत् ॥ १०१ ॥ भाषा—जपयज्ञ की सिद्धि के लिए वेद, अथर्व मन्त्रों, पुराणों एवं इतिहासों का यथाशक्ति जप करे ॥ १०१ ॥ बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥ १०२ ॥ बलिकर्म भूतयज्ञः, स्वधा पितृयज्ञः, होमो देवयज्ञः, स्वाध्यायो ब्रह्मयज्ञः, अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः, नित्यत्वात् । यत्पुनरेषां फलश्रवणं तदेषां पावनत्वख्यापनार्थं, न काम्यत्वप्रति- पादनाथ ॥ १०२ ॥ भाषा—बलिवैश्वदेव आदि भूत यज्ञ, स्वधा (तर्पण एवं श्राद्ध) पितृयज्ञ होम देवयज्ञ, धर्मग्रंथों का अध्ययन ब्रह्मयज्ञ और अतिथियों का सत्कार मनुष्ययज्ञ होता है ये ही महायज्ञ हैं ॥ १०२ ॥ देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् । अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षिपेत् ॥ १०३ ॥ स्वगृह्योक्तविधिना वैश्वदेव३ होमं कृत्वा तदवशिष्टेनान्नेन भूतेभ्यो बलिं हरेत् । 'अन्न' ग्रहणमपक्वव्युदासार्थम् । तदनन्तरं यथाशक्ति भूमावन्नं श्वचाण्डाल- वायसेभ्यो निक्षिपेत् । च शब्दात्कृमिपापरोगिपतितभ्यः । यथाह मनुः (३।९२) -'शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृमीणां १. सेवेत्याद्यधिकं । २. यथंपुराणेतिहासादीनि कृत्वा । ३. वैश्वदेवं कृत्वा ।

आचाराध्यायः ४७ च शनकैर्निक्षिपेद्भुवि ॥' इति । एतच्च सायं प्रातः कर्तव्यम् । 'अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्' ( १।२।१ ) इत्याश्वलायनस्मरणात् । इह केचिद्वैश्व- देवाख्यस्य कर्मणः पुरुषार्थत्वमन्नसंस्कारकर्मत्वं चेच्छन्ति—'अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्' इत्यन्नसंस्कारकर्मकता प्रतीयते । 'अथातः पञ्च यज्ञाः' ( गृ. सू. ३।१।१ ) इत्युपराक्रम्य 'तानेतान्यज्ञानहरहः कुर्वीत' ( ३।१।४ ) इति नित्यत्वाभिधानात्पुरुषार्थत्वं चावगम्यते' इति, —तदयुक्तम्, पुरुषार्थत्वे ऽन्नसंस्कारकर्मत्वानुपपत्तेः । तथा हि—द्रव्यसंस्कारकर्मत्वपक्षे ऽन्नार्थता वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात्पुरुषार्थत्वमेव युक्तम् ।—'महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः' इति । तथा— 'वैश्वदेवे तु निवृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्मा अन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥' इति ( ३।१०८ ) मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकमावर्तनीयम् । तस्मात् 'अथ सायं प्रातः' इत्यादिनोत्पत्तिप्रयोगौ दर्शितौ, 'तानेतान्यज्ञानहरहः कुर्वीत' ( गृ. सू. अ. ३ खं. १ ) इत्यधिकारविधिरिति सर्वमानवद्यम् ॥ १०३ ॥ भाषा—देवताओं के लिए (वैश्वदेव) होम करने के उपरान्त अवशिष्ट अन्न से भूतों के लिये बलि दे । कुत्ता, चाण्डाल और कौओं के लिये (यथाशक्ति) पृथ्वी पर अन्न फेंकना चाहिए ॥ १०३ ॥ अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् । स्वाध्यायं सततं कुर्यान्न पचेदन्नमात्मने ॥ १०४ ॥ प्रत्यहमन्नं पितृभ्यो मनुष्येभ्यश्च यथाशक्ति देयम् । अन्नाभावे कन्दमूलफलादि, तस्याप्यभावे जलं देयम्, 'अपि' शब्दात् । स्वाध्यायं सततं कुर्याद्विस्मरणार्थम् । न पचेदन्नमात्मने इति 'अन्न' ग्रहणं सकलादनीयद्रव्यप्रदर्शनार्थम् । कथं तर्हि ? देवताद्युद्देशेनैव ॥ १०४ ॥ भाषा—प्रतिदिन पितरों और मनुष्यों को भी अन्न दे (अन्न के अभाव में) जल दे । सतत स्वाध्याय करे । केवल अपने लिए ही भोजन न बनावे ॥ १०४ ॥ बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः । संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ॥ १०५ ॥ परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीनतिथि- भृत्यांश्च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् । ३प्राणाग्निहोत्रविधि- १. एतेन काम्यत्वमपि प्रतिपादितं भवति । २. चान्वहं कुर्यात् । ३. प्राणेत्याद्यधिकं ।

४८ याज्ञवल्क्यस्मृतिः नाश्नीयादक्षमनापदि । मतं विपक्वं विहितं अन्नं प्रीतिपूर्वकम्' ॥ १०५ ॥ भाषा—बालक, (पिता के घर में रहने वाली) विवाहिता स्त्री, वृद्ध, गर्भवती, रोगी, कन्या, अतिथि और सेवकों के भोजन कराने के बाद शेष भोजन पति-पत्नी ग्रहण करें ॥ १०५ ॥ आपोशनेनोपरिष्टादधस्तादश्नता तथा । अनग्नममृतं चैव कार्यमन्नं द्विजन्मना ॥ १०६ ॥ भुञ्जानेन द्विजन्मना उपरिष्टादधस्ताच्चापोशनाख्येन कर्मणाऽन्नमनग्नममृतं च कार्यम् । 'द्विजन्म' ग्रहणमुपनयनप्रभृतिसर्वाश्रमसाधारणार्थम् ॥ १०६ ॥ भाषा—भोजन करते समय द्विज को ऊपर और नीचे आपोशन (मन्त्र पढ़कर आचमन) करके अन्न को अनग्न और अमृत करना चाहिए ॥ १०६ ॥ आतिथित्वेन वर्णानां देयं शक्त्यानुपूवैशः । अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १०७ ॥ वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनामातिथित्वेन युगपत्प्राप्तानां ब्राह्मणाद्यानु- पूर्व्येण यथाशक्ति देयम् । सायंकालेऽपि यद्यतिथिरागच्छति तदाऽसावप्रणोद्योऽ- प्रत्याख्येय एव। यद्यप्यदनीयं किमपि नास्ति, तथापि वाग्भूतृणोदकैरपि सत्कारं कुर्यात् । यथाह मनुः (४।१०१)—'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति १०७ ॥ भाषा—यदि ब्राह्मणादि कई वर्णों के अतिथि हों तो वर्ण क्रम से यथा शक्ति भोजन देना चाहिए। यदि सायंकाल भी अतिथि आ जाय तो उसे निराश नहीं करना चाहिए अपितु मधुर वचन, भूमि, तृण और जल से उसका सत्कार करना चाहिए ॥ १०७ ॥ सत्कृत्य भिक्षवे भिक्षा दातव्या संव्रताय च । भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥ १०८ ॥ भिक्षवे सामान्ये भिक्षा दातव्या । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य 'भिक्षादानमप्सुपूर्वम् (गौतम.) इत्यनेन विधिना भिक्षा दातव्या । भिक्षा च ग्राससंमिता। ग्रासश्च मयूरऽण्डपरिमाणः, 'ग्रासमात्रा भवेद्भिक्षा पुष्कलं तच्चतुर्गुणम् । हंतस्तु तैश्चतुर्भिः स्यादग्रं तन्त्रिगुणं भवेत् ॥' इति शातातप- स्मरणात् । भोजनकाले चागतान्सखिसंबन्धिबान्धवान् भोजयेत् । सखायो १. यथाहेत्यादि मनुवचनं, नैवास्ति । २. सुव्रताय ।

आचाराध्यायः ४६ मित्राणि, सम्बन्धिनो येभ्यः कन्या गृहीता दत्ता वा, मातृपितृसम्बन्धिनो १ बान्धवाः ॥ १०८ ॥ भाषा - भिखारी को और ब्रह्मचारी को सत्कारपूर्वक भिक्षा देनी चाहिए । ( भोजन के ) समय पर आये हुए मित्र, संबन्धी और बान्धव को भोजन करावे ॥ १०८ ॥ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् । सत्क्रियाऽन्वासनं स्वादु भोजनं सूनृतं वचः ॥ १०९ ॥ महान्तमुक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् ‘भवदर्थ- मयमस्माभिः परिकल्पितः’ इति। तत्प्रीत्यर्थं, नतु दानाय व्यापादनाय वा, यया सर्वमेतद्भवदीयमिति, प्रतिश्रोत्रियमूचासम्भवात्, अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु’ (आ. १५३) इति निषेधाच्च । तस्मात्सत्क्रियोद्येव कर्तव्यम् । सत्क्रिया स्वागतवचनासनपाद्यार्घ्याचमनादिदानम् । तस्मिन्नुपविष्टे पश्चादुप- वेशनमन्वासनम्, स्वादु भोजनं मिष्टमन्नम्, सूनृत वचः ‘धन्या वयमद्य भवदागमनात्’ इत्येवमादि । अश्रोत्रिये पुनः ‘अश्रोत्रियस्योदकासने’ ( ५।४१ ) इति गौतमोक्तं वेदितव्यम् ॥ १०९ ॥ भाषा-श्रोत्रिय ( वेदपाठी ) अतिथि के लिए बड़ा बैल या बड़ा बकरा उसके सम्मुख प्रस्तुत करे । ( उसके उपरान्त ) उसका ( पाद्यार्घ्य, आचमन आसन आदि से ) स्वागत करे; ( उसके बैठने पर ) निकट बैठे, मधुर भोजन करावे और प्रिय वचन बोले ॥ १०९ ॥ प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः । प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥ ११० ॥ स्नातको विद्यास्नातकः, व्रतस्नातकः, विद्याव्रतस्नातकः इति । समाप्य वेदमसमाप्य व्रतं यः समावर्तते स विद्यास्नातकः, समाप्य व्रतमसमाप्य वेदं यः समावर्तते स व्रतस्नातकः, उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः। आचार्य उक्तलक्षणः, पार्थिवो वक्ष्यमाणलक्षणः, प्रियो मित्रम्, विवाह्यो जामाता । चक्राराच्छ्वशुरपितृव्यमातुलानां ग्रहणम् । ‘ऋत्विजो वृत्वा मधुपर्कमाहरे- त्स्नातकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलादीनां च’ इत्याश्वलायन ( गृ. सू. अ. १. खं. ४ ) स्मरणात् । एते स्नातकादयः प्रतिसंवत्सरं गृहमागता अर्घ्याः मधुपर्केण . पूज्या वन्दितव्याः । ‘अर्घ’ शब्दो मधुपर्कं लक्षयति । ऋत्विजश्चोक्तलक्षणाः संवत्सरादर्वागपि प्रतियज्ञं मधुपर्केण संपूज्याः ॥ ११० ॥ १. संबद्धा बान्धवाः । २. याद्येव कर्तव्यं । ४ या०

५० याज्ञवल्क्यस्मृतिः भाषा-स्नातक, आचार्य, राजा, प्रिय मित्र और दामाद का प्रतिवर्ष (अपने घर बुलाकर) अर्घ्य (मधुपर्क) द्वारा सत्कार करे तथा ऋत्विज को प्रत्येक यज्ञ के समय मधुपर्क से पूजा करे ॥ ११० ॥ अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः । मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ १११ ॥ अध्वनि वर्तमानोऽतिथिर्वेदितव्यः । श्रोत्रियवेदपारगावध्वनि वर्तमानौ ब्रह्मलोकमभीप्सतो गृहस्थस्य मान्यावतिथी वेदितव्यौ । यदप्यध्ययनमात्रेण श्रोत्रियस्तथापि श्रुताध्ययनसम्पन्नोऽत्र श्रोत्रियोऽभिधीयते । एकशाखाध्यापनक्षमो १ वेदपारगः ॥ १११ ॥ भाषा-पथिक को अतिथि समझना चाहिए । श्रोत्रिय (अर्थात् वेदपाठी) और वेद का पंडित (यदि पथिक हों तो) ब्रह्मलोक प्राप्ति की कामना रखने वाले गृहस्थ के लिये ये दोनों मान्य अतिथि होते हैं ॥ १११ ॥ परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते । वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ ११२ ॥ परपाके रुचिर्यस्यासौ स परपाकरुचिः, नैव परपाकरुचिः स्यात् । अनिन्द्येना- मन्त्रणं विना; ‘अनिन्द्येनामन्त्रितो नापक्रामेत्’ (कात्यायन) इति स्मरणात् । वाक्पाणिपादचापल्यं-वाक्च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं, वर्जयेत् । वाक्चापल्यमसभ्यानृतादिभाषणम्, पाणिचापल्यं वेत्रगात्रास्फोटनादि, पादचापल्यं लङ्घनोत्प्लवनादि । चकारान्नेत्रादिचापल्यं च वर्जयेत्, ‘न शिश्नोदरपाणिपादचक्षुर्वाक्चापलानि कुर्यात्’ (९।५०) इति गौतमस्मरणात् तथा अतिभोजनं च वर्जयेत्; अनारोग्यादिहेतुत्वात् ॥ ११२ ॥ भाषा-श्रेष्ठ व्यक्ति के निमन्त्रण के बिना दूसरे के भोजन की इच्छा न करे । (भोजन के समय) वाणी, हाथ और पैर की चपलता न करे और आवश्यकता से अधिक भोजन न करे ॥ ११२ ॥ अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत् । अहःशेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ ११३ ॥ पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं यावदनु- व्रजेत् । ततो भोजनान्तरमहःशेषं शिष्टैरितिहासपुराणादिवेदिभिः, इष्टैः काव्यकथाप्रपञ्चचतुरैः बन्धुभिश्चानुकूलालापकुशलैः सहासीत ॥ ११३ ॥ १. अध्ययनक्षमो । २. कल्याण ।

भाषा—श्रोत्रिय ( वेदपाठी एवं वेद के पण्डित ) अतिथि को ( भोजन द्वारा ) तृप्त करके ( गांव की ) सीमा तक पहुँचावे । ( भोजन के बाद ) दिन का शेष समय सभ्य जनों एवं इष्ट ( काव्यकथा में चतुर ) बन्धुओं के साथ बैठकर बितावे ॥ ११३ ॥ उपास्य पश्चिमां संध्यां हुत्वाऽग्नींस्तानूपास्य च । भृत्यैः परिवृतो भुक्त्वा नातितृप्तस्तथाथ संविशेत् ॥ ११४ ॥ ततः पूर्वोक्तेन विधिना पश्चिमां सन्ध्यामुपास्य, आहवनीयादीनग्नीनग्निं वा हुत्वा तानुपास्योपस्थाय भृत्यैः पूर्वोक्तैः स्ववासिन्यादिभिः परिवृतो नातितृप्त्या भुक्त्वा, चकारात् आय-व्ययादिगृहचिन्तां निर्वर्त्यानन्तरं संविशेत्स्वप्यात् ॥ ११४ ॥ भाषा—( तब पूर्वोक्त विधि से ) सायंकालीन सन्ध्योपासना करके ( आहवनीय आदि ) अग्नियों में हवन करके उन अग्नियों की उपासना करे; तब भृत्यों के साथ भोजन करे किन्तु तृप्ति से अधिक भोजन न करे और तदुपरान्त शयन करे ॥ ११४ ॥ ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् । धर्मार्थकामान्स्वे काले यथाशक्ति न हापयेत् ॥ ११५ ॥ ततो ब्राह्मे मुहूर्ते उत्थाय पश्चिमेऽर्धप्रहरे प्रबुद्ध्यात्मनो हितं कृतं करिष्यमाणं च, वेदार्थसंशयांश्च चिन्तयेत् तदानीं चित्तस्याव्याकुलत्वेन तत्त्वप्रतिभान- योग्यत्वात् । ततो धर्मार्थकामान्स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासम्भवं सेवेतेत्यर्थः, पुरुषार्थत्वात् । यथाह गौतमः ( ९।४६-४७)—'न पूर्वाह्नमध्याह्नापराह्नानफलान्कुर्यात् धर्मार्थकामेभ्यः', 'तेषु धर्मोत्तरः स्यात् इति । अत्र यद्यप्येतेषां सामान्येन सेवनमुक्तं, तथापि कामार्थयोर्धर्माविरोधेनानुष्ठानं तयोर्धर्ममूलत्वात् । एवं प्रतिदिनमनुष्ठेयम् ॥ ११५ ॥ भाषा—ब्राह्म मुहूर्त में उठकर अपने ( किए गए एवं किये जाने वाले ) हित का विचार करे । धर्म, अर्थ और काम को उनके उचित समय पर यथाशक्ति परित्याग न करे ( अपितु उनका सेवन करे ) ॥ ११५ ॥ विद्याकर्मवयोबन्धुवित्तैर्मान्या यथाक्रमम् । एतैः प्रभूतैः शूद्रोऽपि वार्धके मानमर्हति ॥ ११६ ॥ विद्या पूर्वोक्ता, कर्म श्रौतं स्मार्तं च, वयः आत्मनोऽतिरिक्तं सहस्रा वा ऊर्ध्वं, ४बन्धुः स्वजनसम्पत्तिः, वित्तं ग्रामरत्नादिकम्, एतैर्युक्ताः क्रमेण मान्याः १. नातितृप्त्याथ । २. अग्निमग्नीन्वा । ३. प्रतिभानसन । ४. बन्धुर्बहुस्वजन । ५. पञ्चाशरीरः ।

पूजनीयाः । एतैर्विद्याकर्मबन्धुवित्तैः प्रभूतैः प्रवृद्धैः समस्तैर्व्यस्तैर्वा युक्तः शूद्रोऽपि वार्धके अशीतेरूर्ध्वं मानमर्हति, ‘शूद्रोऽप्यशीतिको वरः’ (६।७) इति गौतमस्मरणात् ॥ ११६ ॥ भाषा—विद्या, कर्म, आयु, बन्धुओं और धन से युक्त मनुष्य क्रमानुसार माननीय होते हैं । इन सबसे (या किसी एक से) बड़ा होने पर वृद्धावस्था में शूद्र भी आदरणीय होता है ॥ ११६ ॥ वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् । पन्था देयो नृपस्तेषां मान्यः १स्नातश्च भूपतेः ॥ ११७ ॥ वृद्धः पक्वकेशः प्रसिद्धः, भारी भाराक्रान्तः, नृपो २भूपतिः न क्षत्रियमात्रम्, स्नातो विद्याव्रतोभयस्नातकः, स्त्री प्रसिद्धा, रोगी व्याधितः, वरो विवाहोद्यतः, चक्री शाकटिकः । चकारान्मत्तोन्मत्तादीनां ग्रहणम्, ‘बालवृद्धमत्तोन्मत्तोपहत- देहभाराक्रान्तस्त्रीस्नातकप्रव्रजितेभ्यः’ इति शङ्खस्मरणात् । एभ्यः पन्था देयः। एतेष्वैभिमुख्यायातेषु स्वयं पथोऽपक्रामेत् । वृद्धादीनां राज्ञा सह पथि समवाये राजा मान्य इति तस्मै पन्था देयः । भूपतेरपि स्नातको मान्यः, ‘स्नातक’ग्रहणं स्नातकमात्रप्राप्त्यर्थं, न ब्राह्मणाभिप्रायेण; तस्य सदैव गुरुत्वात् । तथाह शङ्खः- ‘अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्येके । तच्चानिष्ठं गुरुर्ज्येष्ठश्च ब्राह्मणो राजा- नमतिशेते तस्मै पन्था’ इति । वृद्धादीनां परस्परं पथि समवाये वृद्धेतराद्यपेक्षया विद्यादिभिर्वा विशेषो द्रष्टव्यः ॥ ११७ ॥ भाषा—वृद्ध, बोझा ढोने वाले, राजा, स्नातक (ब्रह्मचारी), स्त्री, रोगी, वर और चक्री (सुराकार) के लिये मार्ग छोड़ देना चाहिए । इन सब में राजा सर्वाधिक मान्य होता है और स्नातक राजा के लिये भी पूज्य होता है ॥ ११७ ॥ इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥ ११८ ॥ वैश्यस्य क्षत्रियस्य च; चकाराद् ब्राह्मणस्य द्विजानुलोमानां च, यागाध्ययन- दानानि साधारणानि कर्माणि, ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । तथेति । स्मृत्यन्तरोक्तवृत्त्युपसंग्रहः । तथाह गौतमः (१०।५-६)— ‘कृषिवाणिज्ये वा स्वयं कृते’ ‘कुसीदं च’ इति । अध्यापनं तु क्षत्रियवैश्ययोर्ब्राह्मण- प्रेरितयोर्भवति, न स्वेच्छया; ‘आपत्काले ब्राह्मणस्याब्राह्मणाद्विद्योपयोगः,


१. स्नातकस्तु । २. नृपो राजा न । ३. ष्वाभिमुख्यागतेषु ४. याजनप्रतिग्रहाः ।

आचाराध्यायः ५३ अनुगमनं शुश्रूषा, समासे ब्राह्मणो गुरुः' (७।१, २।३) इति गौतमस्मरणात् । एतान्यनापदि ब्राह्मणस्य षट् कर्माणि । तत्र त्रीणीज्यादीनि धर्मार्थानि, त्रीणि प्रतिग्रहादीनि वृत्त्यर्थानि, 'षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥' इति (१०।१६) मनुस्मरणात् । अत इज्यादीन्यवश्यं कर्तव्यानि न प्रतिग्रहादीनि, 'द्विजातीनामध्ययनमिज्या दानं, 'ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः', 'पूर्वेषु नियमः' (१०।१-३) इति गौतमस्मरणात् ॥ ११८ ॥ भाषा—यज्ञ करना, (वेदादि का) अध्ययन और दान—ये कर्म क्षत्रिय और वैश्य को करने होते हैं । ब्राह्मण के लिये दान लेना, यज्ञ कराना और अध्यापन ये कर्म (क्षत्रिय और वैश्य से) अधिक होते हैं ॥ ११८ ॥ प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ ११९ ॥ क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । वैश्यस्य कुसीद- कृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः, लाभार्थं क्रयविक्रयौ वाणिज्यम् । शेषं प्रसिद्धम्; 'शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्- पशुकृषी विशः। आजीवनाथं धर्मस्तु दानमध्ययनं यजिः ॥' इति (१०।७९) मनुस्मरणात् ॥ ११९ ॥ भाषा—प्रजा का पालन करना क्षत्रिय का प्रधान कर्म है । वैश्य के लिये ब्याज लेना, कृषि, वाणिज्य और पशु-पालन (वृत्त्यर्थक) कर्म बताए गये हैं ॥ ११९ ॥ शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद् द्विजातिहितंमाचरन् ॥ १२० ॥ शूद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । तत्र ब्राह्मणशुश्रूषा परमो धर्मः, 'विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते' (१०।१२३) इति मनुस्मरणात् । यदा पुनर्द्विजशुश्रूषया जीवितुं न शक्नोति तदा वणिग्वृत्त्या जीवेत् । नानाविधैर्वा शिल्पैर्द्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिर्द्विजाति- शुश्रूषायामयोग्यो न भवति तादृशानि कर्माणि कुर्वन्नित्यर्थः । तानि च देव- लोकोक्तानि—शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणकर्षणपशुपालनभारो- द्वहनपण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि' ॥ १२० ॥ १. हितमाचरेत् ।

५४ याज्ञवल्क्यस्मृतिः भाषा—शूद्र के लिये द्विजातियों की सेवा प्रधान कर्म है; उससे जीविका न चलने पर वणिक्वृत्ति का आश्रय ले अथवा द्विजातियों के अनुकूल आचरण करते हुए अनेक प्रकार के शिल्पों द्वारा जीवन निर्वाह करे ॥ १२० ॥ भार्यारतिः शुचिर्भृत्यभर्ता श्राद्धक्रियारतः¹ । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥ १२१ ॥ किञ्च, भार्यायामेव न साधारणस्त्रीषु परस्त्रीषु वा रतिरभिगमनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत्, भृत्यादेर्भर्ता, श्राद्धक्रियारतः, श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकतन्त्रान्यविरुद्धानि, तेषु रतः । ‘नम’ इत्यनेन मन्त्रेण पूर्वोक्तान्पञ्चमहायज्ञानहरहर्न हापयेदनुतिष्ठेत् । नमस्कार- मन्त्रं च केचित्—‘देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥’ इति वर्णयन्ति । ‘नमः’ इत्यन्ये । तत्र वैश्वदेवं लौकिकेऽग्नौ कर्तव्यं, न वैवाहिकेऽग्नावित्याचार्याः ॥ १२१ ॥ भाषा—अपनी पत्नी में ही रत रहे, (द्विजों के समान ही) पवित्र रहे, भृत्यों का पालन पोषण करे, श्राद्ध कर्म करे तथा नमस्कार के मन्त्र के साथ पञ्च महायज्ञों को न छोड़े ॥ १२१ ॥ इदानीं साधारणधर्मानाह— अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १२२ ॥ हिंसा प्राणिपीडा, तस्या अकरणमहिंसा । सत्यमप्राणिपीडाकरं यथार्थवचनम्, अस्तेयमदत्तानुपादानम्, शौचं बाह्याभ्यन्तरं च, बुद्धिकर्मेन्द्रियाणां नियतविषयवृत्तिस्तेनिन्द्रियनिग्रहः । यथाशक्ति प्राणिनामन्नोदकादिदानेनार्तिपरिहारो दानम् । अन्तःकरणसंयमो दमः । आपन्नरक्षणं दया । अपकारेऽपि चित्तस्याविकारः क्षान्तिः । इत्येते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालान्तं² धर्मसाधनम् ॥ १२२ ॥ भाषा—अहिंसा, सत्य, चोरी न करना, पवित्रता, इन्द्रियों का संयम, दान देना, (अन्तःकरण का) संयम, (दुःखियों पर) दया और धैर्य धारण करना— ये सभी व्यक्तियों के लिये धर्म के साधन हैं ॥ १२२ ॥ वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् । आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥ १२३ ॥ १. क्रियापरः । २. जाचाण्डालान्तं ।

आचाराध्यायः ५५ वयो बाल्ययौवनादि, बुद्धिनैसर्गिकी लौकिकवैदिकव्यवहारेषु, १ अर्थो वित्तं गृहक्षेत्रादि, वाक् २ कथनम्, वेषो वस्त्रमाल्यादिविन्यासः, श्रुतं पुरुषार्थशास्त्रश्रवणम्, अभिजनः कुलम्, कर्म वृत्त्यर्थं प्रतिग्रहादि, एतेषां वयःप्रभृतीनां सदृशीमुचितां वृत्तिमाचरणं आचरेत्स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्ध्यादिष्वपि योज्यम् । अजिह्रामनक्राम्, अशठाममत्सराम् ॥ १२३ ॥ भाषा—आयु, बुद्धि, धन, वाणी, वेष, शास्त्रज्ञान एवं कर्म के उपयुक्त ऐसी जीवन-वृत्ति स्वीकार करनी चाहिए, जो टेढ़ी और मत्सर-युक्त न होवे ॥ १२३ ॥ एवं स्मार्तानि कर्माण्यनुक्रम्येदानीं श्रौतानि कर्माण्यनुक्रामति— त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥ १२४ ॥ त्रिवर्षजीवनपर्याप्तं त्रैवार्षिकं अधिकं वा अन्नं यस्य स एव सोमपानं कुर्यान्नातोऽल्पधनः, (मनु. ११।८)—'अतः स्वल्पपीयसि द्रव्ये यः सोमं पिबति एतच्च काम्याभिप्रायेण नित्यस्य चावश्यककर्त्तव्यत्वाच्च नियमः । यस्य वर्षजीवनपर्याप्तमन्नं भवति स प्राक्सौमिकीः सोमात्प्राक् प्राक्सोमं, प्राक्सोमंभवः प्राक्सौमिक्यः । कास्ताः ? अग्निहोत्रदर्शपूर्णमासाग्रयणपशुचातुर्मास्यानि काम्यानि कर्माणि तद्विकारांश्च । ताः क्रियाः कुर्यात् ॥ १२४ ॥ भाषा—तीन वर्ष तक खाने से अधिक अन्न रखने वाला द्विज सोमपान करे । जिसके यहाँ केवल एक वर्ष के लिये अन्न हो वह (अग्निहोत्र, दर्शपूर्णमास, आग्रयण, पशु चातुर्मास्य आदि) सोम यज्ञ से पहले की जाने वाली क्रियाएँ करे ॥ १२४ ॥ एवं काम्यानि श्रौतानि कर्माण्यभिधायेदानीं नित्यान्याह— प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ १२५ ॥ संवत्सरे संवत्सरे सोमयागः कार्यः । पशुः प्रत्ययनं अयने अयने दक्षिणोत्तर- संज्ञिते निरूढः पशुयागः कार्यः । तथा प्रतिसंवत्सरं वा; 'पशुना संवत्सरे संवत्सरे यजेत, षट्सु षट्सु वा मासेष्वित्येके' इति बौधायनस्मरणात् । आग्रयणेष्टिश्च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि ॥ १२५ ॥ १. व्यवहारेषु ज्ञानं । २. बचनम् । ३. सोमयागं । ४. पूर्णमासपशु । पूर्णमासचातुर्मास्यानि । ५. र्मास्यानि कर्माणि ।

५६ याज्ञवल्क्यस्मृतिः भाषा—प्रतिवर्ष सोमयज्ञ करे, अयन-अयन ( दक्षिणायन और उत्तरायण ) में निरूढपशुयाग करे । ( नये अन्न की उत्पत्ति पर ) आग्रयणेष्टि करे और चातुर्मास्ययज्ञ प्रतिवर्ष करना चाहिए ॥ १२५ ॥ एषामसंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः। हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १२६ ॥ एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथञ्चिदसम्भवे तत्काले वैश्वानरीमिष्टिं कुर्यात् । किञ्च योऽयं हीनकल्प उक्तः, सति द्रव्येऽसौ न कर्तव्यः । यच्च फलप्रदं काम्यं तद्धीनकल्पं न कुर्वीत न कर्तव्यमिति ॥ १२६ ॥ भाषा—यदि ये ( सोमयाग आदि ) संभव न हो सकें तो द्विज को वैश्वानरी इष्टि करनी चाहिए । धन रहने पर यह हीनकल्प नहीं करना चाहिए तथा काम्य हीनकल्प तो करना ही नहीं चाहिए ॥ १२६ ॥ चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् । यज्ञार्थं लब्धमददद् भासः काकोऽपि वा भवेत् ॥ १२७ ॥ यज्ञार्थं शूद्रधनयाचनेन स जन्मान्तरे चाण्डालो जायते । यः पुनर्यज्ञार्थं याचितं न^१ सर्वं प्रयच्छति न त्यजति, स भासः काकोऽपि वा वर्षशतं भवेत् । यथाह मनुः ( ११।२५ )—'यज्ञार्थमर्थं भिक्षित्वा यः सर्वं न प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥' इति । भासः शकुन्तः । काकः प्रसिद्धः ॥ १२७ ॥ भाषा—यज्ञ के लिए शूद्र से धन माँगने पर ( द्विज ) दूसरे जन्म में चण्डाल होकर जन्म लेता है । यज्ञ के लिये प्राप्त सम्पूर्ण धन को न दे देने वाला भास ( पक्षी ) या कौआ होता है ॥ १२७ ॥ कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा । कुशूलं कोष्ठकं, कुम्भी उष्ट्रिका, कुशूलं च कुम्भी च कुशूलकुम्भ्यौ, ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्याप्तं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भीधान्यस्तु स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्यः । त्र्यहः पर्याप्तं धान्यम- स्यास्तीति त्र्याहिकः । श्वोभवं धान्यादिकं श्वस्तनम्, न विद्यते श्वस्तनं यस्य सोऽश्वस्तनः ॥ कुशूलधान्यादिसञ्चयोपायमाह— जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥ १२८ ॥ १. न परित्यजति ।

आचाराध्यायः ५७ १शाल्यादिनिपतितपरित्यक्तवल्लरीग्रहणं शिलं, एकैकस्य परित्यक्तस्य कणस्योपादानमुञ्छः, शिलं चोञ्छश्च शिलोञ्छम्, तेन शिलेनोञ्छेन वा। कुसूलधान्यादिश्चतुर्विधो गृहस्थो जीवेत्। एषां कुसूलधान्यादीनां २ब्राह्मणानां गृहस्थानां चतुर्णां परः परः पश्चात्पश्चात्पठितः ३श्रेयान् प्रशस्यतमः। एतच्च यद्यपि द्विजः ४प्रकृतस्तथापि ब्राह्मणस्यैव भवितुमर्हति, विद्योपशमादियोगात्। तथा च मनुना (४।२)-'अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः। या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥' इति विप्रमेव ५प्रस्तुत्य मनुः (४।७)- कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा' इत्याद्यभिहितम्। एतच्चातिसंचयं६ यायावरं प्रत्युच्यते, न विप्रमात्रामिप्रायेण। तथा सति-'त्रैवार्षिकादिकास्तो यः स हि सोमं पिबेद् द्विजः' (आ. १२६) इत्यनेन विरोधः। तथा च गृहस्थानां द्वैविध्यं तत्र तत्रोक्तम्। यथाह देवलः-'द्विविधो गृहस्थो यायावरः शालीनश्च। तयोर्यायावरः प्रवरो याजनाध्यापनप्रतिग्रहरिक्थसञ्चयवर्जनात्। षट्कर्माधिष्ठितः प्रेष्यचतुष्पदगृहग्रामधनधान्ययुक्तो लोकानुवर्ती शालीनः' इति। शालीनोऽपि चतुर्विधः-याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपशुपाल्यैः षड्भिर्जी- वत्येकः, याजनादिभिस्त्रिभिरन्यः, याजनाध्यापनाभ्यामपरः, चतुर्थस्त्वध्यापनेनैव। तथाह मनुः (४।९)-'षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते। द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥' इति। अत्र च 'प्रतिग्रहोऽधिको विप्रे' (आ. ११८) इत्यादिना शालीनस्य वृत्तयो दर्शिताः। यायावरस्य 'जीवेद्वापि शिलोञ्छेन' इति ॥ १२८ ॥ भाषा-कोठिली भर (बारह दिन के खर्चे भर) अन्न वाले, घड़े भर (छः दिन के खर्चे भर) अन्न वाले, तीन दिन के खर्चे भर अन्न वाले, दिन भर के भोजन योग्य अन्न वाले और खेतों में गिरे हुए अन्न को बीन कर जीवन निर्वाह करने वाले व्यक्तियों में पहले वाले से बाद वाले उत्तरोत्तर श्रेष्ठ होते हैं ॥ इति गृहस्थधर्मप्रकरणम्। अथ स्नातकधर्मप्रकरणम् एवं श्रौत-स्मार्तानि कर्माण्यभिधायेदानीं गृहस्थस्य स्नानादारभ्य ब्राह्मण- स्यावश्यकर्तव्यानि विधि-प्रतिषेधात्मकानि मानससङ्कल्परूपाणि स्नातक- व्रतान्याह- न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः। न विरुद्धप्रसङ्गेन सन्तोषी च भवेत्सदा ॥ १२९ ॥ १. शाल्यादेर्निपतित । २. ब्राह्मणानां चतुर्णां । ३. श्रेयानुत्कृष्टतमः । ४. प्रकृतः प्रकरणप्राप्तः प्राकृतः । ५. पुरस्कृत्य । ६. नातिसम्पन्नसंयतं ।

५८ याज्ञवल्क्यस्मृतिः ब्राह्मणस्य प्रतिग्रहादयोऽर्थप्राप्त्युपाया दर्शिताः तत्र विशेष उच्यते— स्वाध्यायविरोधिमर्थमप्रतिषिद्धमपि नेहेत नान्विच्छेत् । न यतस्ततः न यतः कुतश्चिदविदिताचाराच्च । विरुद्धप्रसङ्गेन विरुद्धमयाज्ययाजनादिप्रसङ्गो नृत्य- गीतादिः । विरुद्धं च प्रसङ्गश्च विरुद्धप्रसङ्गं तेन । नार्थमीहेतेति सम्बद्ध्यते । नञ्- आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्यस्मिन्स्नातकप्रकरणे नञ्शब्दः प्रत्येकं पर्युदासार्थ एव । किञ्चिदर्थलाभेऽपि सन्तोषी परितुष्टो भवेत् । चकारात्संयतश्च. ‘संतोषं परमास्थाय सुखार्थी संयतो भवेत्’ ( ४।१३ ) इति मनुस्मरणात् ॥ भाषा—अपने स्वाध्याय के विरोधियों से धन अर्जित करने की इच्छा न करे, इधर-उधर अविचारित स्थान से या ( अपने कर्म के) विरुद्ध कार्य ( जैसे नृत्य-गीत आदि ) द्वारा धन कमाने की अभिलाषा न रखे । सदैव सन्तोष रखे ॥ १२९ ॥ कुतस्तर्हि धनमन्विच्छेदित आह— राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा । दम्भिहैतुकपाखण्डिवकवृत्तींश्च वर्जयेत् ॥ १३० ॥ क्षुधा सीदन् पीड्यमानः स्नातकः राज्ञो विदितवृत्तान्तात्, अन्तेवासिनो वक्ष्यमाणलक्षणात्, याज्यात् याजनार्हाच्च, धनमाददीत । ‘क्षुधा सीदन्’ इत्यनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न १कुतश्चिदर्थमन्विच्छेदिति गम्यते । किञ्च दम्भिहैतुकादीन् सर्वकार्येषु वर्जयेत् । चकाराद्विकर्मस्थबैडालव्रतिकान्शठान् । यथाह मनुः ( ४।३० )—‘पाखण्डिनो विकर्मस्थान्बैडालव्रतिकान्शठान् । हैतुकाम्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥’ इति । लोकप्रदर्शनार्थमेव कर्मानुष्ठायी दम्भी, युक्तिबलेन सर्वत्र संशयकारी हैतुकः, त्रैविद्यविरुद्धपरिगृहीताश्रमिरणः पाखण्डिनः । बकवदस्य वर्त्तनमिति बकवृत्तिः । यथाह मनुः ( ४।१९६ )— ‘अधोदृष्टिर्नैकृतिकः३ स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकवृत्ति- रुदाहृतः ॥’ इति । प्रतिषिद्धसेविनो विकर्मस्थाः । बिडालो मार्जारस्तस्य व्रतं स्वभावो यस्यासौ बैडालव्रतिकः । तस्य लक्षणमाह मनुः ( ४।१९५ )—‘धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥’ इति । शठः = सर्वत्र वक्रः । एतैः संसर्गनिषेधादेव स्वयमेवम्भूतो न भवेदिति गम्यते ॥ १३० ॥ भाषा - भूख से व्याकुल होने पर राजा, अन्तेवासी और यज्ञ कराने योग्य व्यक्ति से धन-प्राप्ति की इच्छा करे, परन्तु अहंकारी, संशय की दृष्टि १. कुतश्चिद्धनमन्वि । २. वृत्तिकशठान् । ३. नैष्कृतिकः ।

आचाराध्यायः ५६ रखने वाले, पाखंडी, और बगुलाभगत के निकट (धन को इच्छा से) न जावे ॥ १३० ॥ शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥ १३१ ॥ किञ्च, शुक्ले धौते अम्बरे वाससी धरतीत शुक्लाम्बरधरः । केशाश्च श्मश्रूणि च नखाश्च केशश्मश्रुनखम्, नीचं निकृत्त केशश्मश्रुनखं यस्यासौ तथोक्तः । शुचिरन्तर्बहिश्च स्नानानुलेपनधूपस्रगादिभिः सुगन्धी च भवेत् । यथाह गौतमः (९।२)—'स्नातको नित्यं शुचिः सुगन्धिः स्नानशीलः' इति । सुगन्धित्व- विधानादेव निर्गन्धमाल्यस्य निषेधः । तथा च गोभिलः—'नागन्धां स्रजं धारयेदन्यत्र हिरण्यरत्नस्रजः' इति । सदा स्नातक एवम्भूतो भवेत् । एतच्च सति सम्भवे; 'न जीर्णमलवद्वासा भवेच्च विभवे सति' (मनु. ४।३४) इति स्मरणात् । न च भार्यादर्शने तस्यां पुरतोऽवस्थितायामश्नीयात्, अवीर्यवदपत्योत्पत्तिभयात् । तथा च श्रुतिः—'जायाया अन्ते नाश्नीयाद्वोर्यवदपत्यं भवति' इति । अतस्तया सह भोजनं दूरादेव निरस्तम् । न चैकवासाः, न १संस्थितः 'अश्नीयात्' इति सम्बध्यते ॥ १३१ ॥ भाषा—स्वच्छ वस्त्र धारण करे, केश, दाढ़ी-मूँछ और नखों को काट कर छोटा रखे, (स्नान एवं सुगन्धिलेप द्वारा) पवित्र रहे । पत्नी के सामने, एक वस्त्र पहन कर और खड़ा होकर भोजन न करे ॥ १३१ ॥ न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी ॥ १३२ ॥ किञ्च, कदाचिदपि संशयं प्राणविपत्तिसंशयावहं कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मान्निष्कारणं २किञ्चिदपि परुषं अप्रियं उद्वेगकरं वाक्यं न वदेत् । न चाहितं, नानृतं वा प्रियमपि, चकारात् असत्यं बीभत्सकरं च, अकस्मात् वदेदिति सम्बध्यते । एतच्च परिहासादि- व्यतिरेकेण, 'गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना' इति स्मरणात् । न च स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वार्धुषी स्यात् । प्रतिषिद्धवृद्ध्युप- जीवी वार्धुषी ॥ १३२ ॥ भाषा—जिस कार्य में प्राणों का संशय हो उस कर्म में प्रवृत्त न होवे; अकस्मात् (बिना कारण के) अप्रिय वचन वचन न बोले; अहितकारी और १. संस्थित उत्थितः । २. कञ्चिदपि पुरुषं स्त्रियमप्रियं ।

६० / याज्ञवल्क्यस्मृतिः असत्य ( तथा अश्लील ) वचन भी न बोले; चोर न बने एवं ( निषिद्ध ) व्याज से वृत्ति न चलावे ॥ १३२ ॥ दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः । कुर्यात्प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ १३३ ॥ किञ्च, दाक्षायणं सुवर्णम्, १तदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तदस्यास्तीति ब्रह्मसूत्री, वैणवयष्टिमान्, कमण्डलुमान्, 'स्यात्' इति सर्वत्र सम्बन्धनीयम् । अत्र च ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्राप्त्यर्थम् । यथाह वसिष्ठः—'स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥' इति । अत्र च दाक्षायणीति सामान्याभिधानेऽपि कुण्डलधारणमेव कार्यम्, 'वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥' ( ४।३६ ) इति मनु- स्मरणात् । तं२दा देवं देवप्रतिमाम्, मृदं तीर्थादुद्धृतां, गां, ब्राह्मणं, वनस्पतिं अश्वत्थादिकं प्रदक्षिणं कुर्यात् । एतान्प्र३दक्षिणतः कृत्वा प्रब्रजेदित्यर्थः । एवं चतुष्पथादीनपि 'मृदं गां देवतां विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥' ( ४।३९ ) इति मनुस्मरणात् ॥ १३३ ॥ भाषा—सदैव दाक्षायण ( सोने का कुण्डल ), यज्ञोपवीत, डंडा और कमण्डलु लिये रहे। देवमूर्ति, ( तीर्थ की ) मिट्टी, गाय, ब्राह्मण और ( पीपल आदि ) वृक्षों की परिक्रमा करे ॥ १३३ ॥ न तु मेहेन्नदीछायावर्त्मगोष्ठाम्बुभस्मसु । न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १३४ ॥ नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्गं कुर्यात्, एवं श्मशानादावपि । यथाह शङ्खः—'न गोमयकृष्टशष्पशाद्वलचितिश्मशानवल्मीकवर्त्मखलगोष्ठबिलपर्वतपुलिनेषु मेहेत्, भूताधारत्वात्' इति । तथाग्न्यादीन्प्रति अग्न्यादीनामभिमुखं न मेहेत्, नाप्येतान्पश्यन् । यथाह गौतमः ( ९।१२ )—'न वाय्वग्निविप्रादित्या- पोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्याम्युदस्येत्, न देवताँः प्रति पादौ प्रसारयेत्' इति । एतद्देशव्यतिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रं७पुरीषे कुर्यादिति । यथाह वसिष्ठः—'परिवेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात्' इति ॥ १३४ ॥


१. तद्वान्, तद्धारणात् । २. एवं देवं देवताचीं । ३. प्रदक्षिणतः । ४. प्रत्यर्काग्निगो । ५. श्मशानवल्मीक । ६. नैतान् प्रति । ७. मेहनं कार्यं ।

आचाराध्यायः ६१ भाषा—नदी, छाया, मार्ग, गोशाला, जल और भस्म में मूत्र एवं मल का त्याग न करे । अग्नि, सूर्य, गाय, चन्द्रमा, संध्या, जल, स्त्री और द्विज की ओर मुँह कर भी (मूत्र एवं पुरीष) न करे ॥ १३४ ॥ नैक्षेताकं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १३५ ॥ नैवार्कमिक्षेतेति यद्यप्यत्र सामान्येनोक्तं, तथाप्युदयास्तमयराहुग्रस्तोदक- प्रतिबिम्बमध्याह्नवत्तिन एवादित्यस्यावेक्षणं निषिध्यते, न सर्वदा । यथोक्तं मनुना (४।३७)—'नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥' इति । उपभोगादन्यत्र नग्नां स्त्रियं नेक्षेत । न नग्नां स्त्रियमिक्षेतान्यत्र मैथुनात्' इत्याश्वलायनः । संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्ते नग्नामपि नेक्षेत । चकाराञ्जनादिकमाचरन्तीम् । तथा च मनुः (४।४३)—'नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां च न चासीनां यथासुखम् ॥ नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः ॥' इति । मूत्रपुरीषे च न पश्येत् । तथा अशुचिः सन् राहुतारकाश्च न पश्येत् । चकारादुदके स्वप्रतिबिम्बं न पश्येत्, 'न चोदके निरीक्षेत स्वं रूपमिति धारणा (मनु. ४।३८) इति वचनात् ॥ १३५ ॥ भाषा—(उदय, अस्त, राहुग्रस्त, जल में प्रतिबिम्बित एवं मध्याह्न- कालीन) सूर्य को, (संभोग के अतिरिक्त अन्यत्र) नंगी स्त्री को, जिसके साथ सद्यः मैथुन किया गया हो ऐसी (अनग्ना) स्त्री को, मूत्र तथा पुरीष को और अपवित्र रहते राहु एवं तारों को न देखे ॥ १२५ ॥ अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयेत् । वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥ १३६ ॥ वर्षति सति 'अयं मे वज्रः पाप्मानमंपहन्तु' इति मन्त्रमुच्चारयेत् । वर्षति अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत् । 'न प्रधावेच्च वर्षति' इति प्रतिषेधात्; न च प्रत्यक्शिराः स्वप्यात् । चकारान्नग्नो न शयांत । एकश्च शून्यगृहे न च नग्नः शयीतेति । 'नैकः सुप्याच्छून्यगेहे' (४।५७) मनुस्मरणात् ॥ १३६ ॥ भाषा—वर्षा होने पर 'अयं मे वज्रः पाप्मानमपहन्तु' मन्त्र का उच्चारण करे । (वर्षा में) छाता आदि से आच्छादित हुए बिना कहीं न जावे । पश्चिम की ओर शिर करके (और नंगा) न सोवे ॥ १३६ ॥ १. अपहनत् । २. ऽच्छादितो न स्यात् ।

पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १३७ ॥

६२ याज्ञवल्क्यस्मृतिः ष्ठीवनासृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् । पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १३७ ॥ ष्ठीवनमुद्गिरणम्, असृक् रक्तं, शकृत् पुरीषं प्रसिद्धम्, एतान्यप्सु न निक्षिपेत् । एवं तुषादीनपि । यथाह शङ्खः—‘तुषकेशपुरीषभस्मास्थिश्लेष्म- नखलोमान्यप्सु न निक्षिपेन्न पादेन पाणिना वा जलमभिहन्यात्’ इति । अग्नौ च पादौ न प्रतापयेत् । नाप्यग्निं लङ्घयेत् । चकारात् ष्ठीवनादीन्यग्नौ न निक्षिपेत् । मुखोपधमनादि चाग्नेर्न कुर्यात् । तथा च मनुः (४।५३)—नाग्नि मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ अधस्तान्नोपद्ध्याच्च न चैनमभिलङ्घयेत् । न चैनं पादतः कुर्यान्न प्राणिवैध- माचरेत् ॥’ इति ॥ १३७ ॥ भाषा—थूक, रक्त, पुरीष, मूत्र, एवं वीर्य जल में न फेंके । अग्नि में पैरों को न सेंके और न उसे लाँघे ॥ १३७ ॥ जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् । नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् ॥ १३८ ॥ जलमञ्जलिना संहताभ्यां हस्ताभ्यां न पिबेत् । 'जल' ग्रहणं पेयमात्रोप- लक्षणम् । विद्यादिभिरात्मनोऽधिकं शयानं न प्रबोधयेन्नात्थापयेत् । 'श्रेयांसं न प्रबोधयेत्' इति विशेषस्मरणात् । अक्षादिभिर्न क्रीडेत् । धर्मघ्नैः पशुसम्भनादिभिर्न क्रीडेत् । व्याधितैर्ज्वराद्यभिभूतैः सहकत्र न संविशेन्न शयीत ॥ भाषा—अंजलि से जल न पिए और न सोये हुए व्यक्ति को जगावे । जुआ न खेले, ( पशु हिंसक आदि ) धर्मभ्रष्ट व्यक्तियों के साथ न खेले और न रोगी व्यक्ति के पास सोवे ॥ १३८ ॥ विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् । केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ १३९ ॥ जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं, बाहुभ्यां नदीतरणं च, वर्जयेदिति सम्बद्ध्यते । केशादिषु च संस्थितिं वर्जयेत् । चकारादस्थिकार्पासा- मेध्येषु च ॥ १३९ ॥ भाषा—( जनपद, गाँव और कुल के) विरुद्ध कर्म न करे । प्रेतधूम- स्पर्श और तैर कर नदी पार करना कार्य न करे । केश, भस्म, भूसी, अंगार और कपाल पर न बैठे ॥ १३९ ॥ १. मनुलङ्घयेत् । २. मतिलङ्घयेत् । ३. प्राणाबाध ।