BharatKosha
Back to the archive

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

by महर्षि बौधायन

Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)

DevanagariHindipublished486 pages

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१३

Page 265Permalink

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१३

अनु०--अन्य अतिथियों के लिए ( अथवा याचकों के लिए ) पकाया हुआ अन्न देना चाहिए ॥ २० ॥

कृतान्नं पक्वान्नम् । आह च—'इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते' इति । इतरेभ्योऽतिथिभ्यः बहिर्वेदि कृतान्नमेव देयं नियमतः । सान्तानिकादिभ्यः पुनः कृतान्नमकृतान्नं च ॥ २० ॥

तदिदं पूर्वोक्तमातिथ्यं, तददनमिहाऽनूच्यते—

सुप्रक्षालितपादपाणिराचान्तश्शुचौ संवृते देशेऽन्नमुपहृतमुपसङ्गृह्य कामक्रोधद्रोहेलोभमोहानपहृत्य सर्वाभिरङ्गुलीभिः शब्दमकुर्वन्नश्नीयात् ॥ २१ ॥

इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने पञ्चमः खण्डः ॥ ५ ॥

अनु०—पैरों और हाथको अच्छी तरह धोकर, आचमन कर, पवित्र तथा चारो ओर से घिरे हुए स्थान में बैठकर लाए हुए अन्न को बादरपूर्वक ग्रहण कर काम, क्रोध, लोभ, 'मोह' को दूर कर सभी अङ्गुलियों से भोजन को मुँह में डालते हुए बिना शब्द किये हुए भोजन करे ॥ २१ ॥

आत्मयाजिनो भोजनविधिरयम् । संवृते देशे उपविश्य भुञ्जीतेति शेषः । फलकादौ पादं पात्रं वाऽऽरोप्य न भोक्तव्यमिति । उपहृतमानीतम् । उपसंगृह्य प्रीतिपूर्वकमभिसंवाद्य कामादीन्व्र्वर्जयित्वा शब्दं सीत्काराद्यकुर्वन् ॥ २१ ॥


षष्ठः खण्डः

न पिण्डशेषं पात्र्यामुत्सृजेत् ॥ १ ॥

**अनु०--**भोजन का ग्रास खाने के बाद बचे हुए अंश को पुनः थाली में न गिरावे ॥ १ ॥

**टि०—**तात्पर्य यह कि इतना ही बड़ा ग्रास उठाना चाहिए जिसे पूरा खाया जा सके, कुछ खाकर कुछ पुनः थाली में डालने की अभ्यास न हो ।

जग्धाऽवशिष्टस्य पिण्डस्याऽभोक्ष्यत्वात्तस्य पात्र्यामुत्सर्जने पुनरादानप्रसङ्गाच्च । अतश्च यावद्ग्रसितुं शक्नोति तावदेवाऽऽददीतेति गम्यते ॥ १ ॥

Page 266Permalink
२१४बौधायन-धर्मसूत्रम्[ स्नातकधर्माः

मांसमत्स्यतिलसंसृष्टप्राशनेऽप उपस्पृश्याऽग्निमभिमृशेत् ॥ २ ॥

**अनु०—**मांस, मछली, या तिल से युक्त भोजन खाने के बाद जल से शुद्धि कर अग्नि का स्पर्श करे ॥ २ ॥

संसृष्टशब्दः प्रत्येकमभिसम्बध्यते । यावद्भिर्मांसपरमाणुभिर्मिश्रित ओदने तद्रसोपलब्धिर्भवति तावद्भिस्संसृष्टस्य प्राशने इदं प्रायश्चित्तम् । ननु मांससंसृष्टनिषेधादेव मत्स्यसंसृष्टस्याऽपि निषेधसिद्धेः कुतः पृथगुपादानं ? मत्स्यार्थमिति । उच्यते-मत्स्यगन्धोपलब्धावपि प्रायश्चित्तं भवतीत्यभिप्रायः । तिलसंसृष्टं तिलौदनम् ॥ २ ॥

'अस्तमिते च स्नानम् ॥ ३ ॥ पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥ ४ ॥ नोत्सङ्गेऽन्नं भक्षयेत् ॥ ५ ॥ आसन्द्यां न भुञ्जीत ॥ ६ ॥ वैणवं दण्डं धारयेद्रुक्मकुण्डले च ॥ ७ ॥ पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥ ८ ॥ न बहिर्मालां धारयेत् ॥ ९ ॥
सूर्यमुदयास्तमये न निरीक्षेत ॥ १० ॥

**अनु०—**और सूर्य के अस्त होने पर स्नान करे। पलाश के बने आसन और खड़ाऊँ तथा पलाश की दातौन का प्रयोग न करे। अपनी गोद में रखकर भोजन न करे। किसी आसन पर रखकर भोजन न करे। बाँस का डण्डा धारण करे और कानों में सोने के कुण्डल पहिने। स्नान करते समय एक पैर को दूसरे पैर से न रगड़े और खड़े रहते समय एक पैर के ऊपर दूसरा पैर न रखे। बाहर की ओर दिखायी पड़ने वाली माला न धारण करे। उदय और अस्त के समय सूर्य के ऊपर दृष्टिपात न करे ॥ ३-१० ॥

अदृष्टार्थमेतद्व्रतम् ॥ ३-१० ॥

नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥ ११ ॥ यदि ब्रूयान्मणिधनुरित्येव ब्रूयात् ॥ १२ ॥

**अनु०—**इन्द्रधनुष देखकर दूसरे व्यक्ति से 'इन्द्रधनुष दिखाई पड़ रहा है' ऐसा न कहे। यदि कहना ही हो तो 'मणिधनु' नाम लेकर कहे ॥ ११-१२ ॥


१. तृतीयादीनि नवयान्तानि सूत्राणि व्याख्यानपुस्तकेषु नोपलभ्यते, न च व्याख्यातानि व्याख्यात्रा। अतश्च स एषामभावमेवाऽभिप्रेतीति प्रतीयते See• P 152. L.L. 7.

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१५

Page 267Permalink

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१५

परं प्रति निषेधोऽयम् । आत्मनो निरीक्षणे न दोषः । इतिकरणलिङ्गात् शब्दोच्चारणनिषेधमेनमध्यवस्यामः ॥ ११-१२ ॥

पुरद्वारीन्द्रकीलपरिघावन्तरेण नाऽतीयात् ॥ १३ ॥

अनु०—नगर के द्वार पर स्थापित इन्द्रकील और परिघा के बीच से न जाय ॥ १३ ॥

इन्द्रकीलः पुरद्वारे स्थापितः काष्ठविशेषः । परिघा तु प्रसिद्धा । तावन्तरेण न गच्छेत् ॥ १३ ॥

प्रेङ्ख्योरन्तरेण न गच्छेत् ॥ १४ ॥

अनु०—झूले के बीच से न जाय ॥ १४ ॥

प्रेङ्खो निखातदारुलम्बमाना क्रीडाफलका, तयोरन्तरेण गमननिषेधः ॥१४॥

१वत्सत्तन्तौ च नोपरि गच्छेत् ॥ १५ ॥

अनु०—बछड़े के पगहे के ऊपर से न जाय ॥ १५ ॥

तन्ती दाम तल्लङ्घनं निषिध्यते । चशब्दात् गोतन्तौ च ॥ १५ ॥

भस्मास्थिरोमतुषकपालापस्नानानि नाऽधितिष्ठेत् ॥ १६ ॥

अनु०—भस्म, अस्थि, केश, भूसा, खप्पर, काई और जल से गीले स्नान के स्थान के ऊपर से होकर नहीं जाना चाहिए ॥ १६ ॥

रोमशब्दः केशश्मश्रुणोरपि प्रदर्शनार्थः । अपस्नानं स्थलस्नानस्रुतजलं गात्रोद्वर्त्तनमलं वा ॥ १६ ॥

२गां धयन्तीं न परस्मै प्रब्रूयात् ॥ १७ ॥

अनु०—यदि कोई गाय अपने बछड़े को दूध पिला रही हो तो इसके विषय में दूसरे व्यक्ति से न कहे ॥ १७ ॥

टि०—यह 'धयन्ती' से अत्यन्त स्नेहपूर्वक बछड़े को चाटते हुए प्रस्रुत (पेन्हाई हुई) गौ से तात्पर्य है ।

स्वकीयामपि तां वारयेत् । न तु परस्मा आचक्षीत । किमयं स्तनन्धयस्य ख्यापननिषेधः, किं वा धेन्वा इति । तत्र गां धयन्तीमिति श्रवणाद्धेन्वा एव क्वचित्काञ्चित् पिबन्त्या इति । केचित्तुनस्तस्यास्तथा प्रीत्यभावात् यथा वत्सस्य मातुः स्तनान् पिबतः, तत्र हि साक्रोशं कथयन्ति वारयन्ति च । कथं


१. cf. गो. गृ. ९. ५१, २. cf गो. गृ. ९. २४,

Page 268Permalink
२१६बौधायन-धर्मसूत्रम्[ स्नातकधर्माः

पुनः धयन्तोमितिशब्देन स्तनं पिबन्तीति गम्यते १। गां धयन्तीं वत्सस्य मूत्रा- दिकमिति योजनया। अनेन चाऽतीव प्रस्तुतावस्था लक्ष्यते ॥ १७ ॥

'नाधेऽनुमधेनुरिति ब्रूयात् ॥ १८ ॥
यदि ब्रूयात् धेनुम्भव्येत्येव ब्रूयात् ॥ १९ ॥

**अनु०—**जो गाय दूध न देने वाली गाय हो उसे अधेनु न कहे। यदि उसके विषय में कहना हो तो उसे 'धेनुभव्या' (भविष्य में दूध देने वाली) कहे ॥१८-१९॥

क्षीरिणी गौर्धेनुः । अधेनुस्तद्विपरीता । ^२उच्चारणनिषेधाददृष्टं कल्प्यम् ॥ १८ ॥ १९ ॥

^३शुक्ता रूक्षाः परुषा वाचो न ब्रूयात् ॥ २० ॥

**अनु०--**शोकमय वा अपशकुनयुक्त, रूक्ष और कठोर वचन न बोले ॥२०॥
**टि०—**शुक्ता से इस प्रकार के वचनों का तात्पर्य है जिससे किसी को हृदय में कष्ट हो और अपने दुर्भाग्य का स्मरण हो जैसे विधवा को विधवा कहना। रूक्ष वचन में किसी व्यक्ति में दोष न होने पर भी उसमें दोष का कथन होता है जैसे श्रोत्रिय को अश्रोत्रिय कहना। परुष वचन ऐसे वचन हैं जिनमें किसी में दोष होने पर भी गुण के रूप में उल्लेख किया जाय जैसे अन्धे को आँखवाला कहना।—गोविन्द स्वामी।

शुक्ताः शोककारिण्यः, यथा विधवा विधवाविति । रूक्षाः अविद्यमाने दोषे दोषख्यापिकाः, यथा श्रोत्रियं सन्तमश्रोत्रिय इति । परुषास्तु विद्यमाने दोषे गुणख्यापकाः, यथाऽन्धं चक्षुष्मानिति ॥ २० ॥

नैकोऽध्वानं व्रजेत् ॥ २१ ॥

**अनु०—**अकेले यात्रा पर न निकले ॥ २१ ॥

मध्ये व्याध्याद्युत्पत्तिप्रसङ्गात् । अतस्सद्वितीयो व्रजेत् ॥ २१ ॥

° न पतितैर्न स्त्रिया न शूद्रेण ॥ २२ ॥

**अनु०—**पतितों के साथ, किसी स्त्री के साथ या शूद्र वर्ण के पुरुष के साथ यात्रा न करे ॥ २२ ॥


१. cf. गौ. ध. ९. २०.
२. अनुच्चारणे नियमादृष्टं कल्प्यम् । इति घ. पु.
३. घ. पुस्तके रिक्ता इति सूत्रमारभ्य रिक्ताः व्यर्थाः, रूक्षाः क्रूराः, परुषाः कर्णकठोराः, इति व्याख्यातम् ।

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१७

Page 269Permalink

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१७

सह ब्रजेदिति शेषः । एतैस्सद्वितीयो न स्याद्भ्रमन इत्यर्थः ॥ २२ ॥

न प्रतिसायं व्रजेत् ॥ २३ ॥

अनु०—सन्ध्या के आगमन के समय यात्रा पर न निकले ॥ २३ ॥

प्रमाद्भयादेव ॥ २३ ॥

न नग्नस्स्नायात् ॥ २४ ॥ न नक्तं स्नायात् ॥ २५ ॥

अनु०--नग्न होकर स्नान न करे । रात्रि में स्नान न करे ॥ २४-२५ ॥

अनयोः पूर्वः प्रतिषेधः स्नानमात्रे । उत्तरस्तु नित्यनैमित्तिके । तत्र हि— ‘शक्तिविषये मुहूर्तमपि नाऽप्रयतस्स्यात्’ इत्युक्तम् । नैमित्तिकस्याऽपि महानिशि प्रतिषेधं केचिदिच्छन्ति ॥ २४ ॥ २५ ॥

न नदीं बाहुकस्तरेत् ॥ २६ ॥

अनु०—बाहों से तैर कर नदी पार न करे ॥ २६ ॥

बाहुभ्यां तरतीति बाहुकः ॥ २६ ॥

न कूपमवेक्षेत ॥ २७ ॥

अनु०—कुए में न झांके ॥ २७ ॥

आत्मानं तत्र द्रष्टुमिति शेषः । इतरथा कूपपतितानां बालादीनामुद्धारणासिद्धेः ॥ २७ ॥

न गर्तमवेक्षेत ॥ २८ ॥

अनु०—किसी गहरे गड्ढे में न झांके ॥ २८ ॥

अधोमुख एव निम्नॊ भूभागः गर्तो भवति । को विशेषः कूपगर्तयोरिति चेत्-कूपो नाम दुःखेनाऽऽदायोदकं पातुं योग्यः, निम्नं खातित इत्यर्थः । यः करेणोदकं गृहीत्वा पातुं योग्यस्स गर्तः ॥ २८ ॥

न तत्रोपविशेद्यत एनमन्य उत्थापयेत् ॥ २९ ॥

अनु०—उस स्थान पर न बैठे जहां से कोई उठा दे ॥ २९ ॥

सर्वत्र पारवश्यं पुरुषस्य हृदीत्युपदेशः । राजभवनादिष्वासननिषेधोऽयम् । स्वयमारोढुमशक्यं देशं प्रत्यारोहणनिषेधो वा । ‘सूर्यमुदयास्तमये न निरीक्षेत’ ( २. ६. १० ) इत्यारभ्योक्तानां प्रतिषेधानां केचिद्दृष्टार्थाः केचिददृष्टार्थाः केचिदुभयार्था इत्यवश्यं परिहरणीया एव । नो चेत् ‘स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्’ इत्यवसरः स्यात् ॥ २९ ॥

Page 270Permalink

२१८ | बौधायनधर्मसूत्रम् | [ स्नातकधर्माः

पन्था देयो ब्राह्मणाय गवे राज्ञे ह्यचक्षुषे । वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ ३० ॥

**अनु०—**ब्राह्मण, गाय, राजा, नेत्रहीन, वृद्ध, बोझ लिए हुए व्यक्ति, गर्भिणी स्त्री और दुर्बल व्यक्ति के लिए मार्ग छोड़ देना चाहिए ॥ ३० ॥

**टि०—**गोविन्दस्वामी के अनुसार 'च' शब्द अन्य इसी प्रकार के व्यक्तियों का भी उल्लेख करता है जो आदर के योग्य होते हैं।

अब्राह्मणेभ्योऽप्यचक्षु प्रभृतिभ्यः पञ्चभ्यो वर्त्मसङ्कटे समुपस्थिते पन्थानं दातुं स्वयं तस्मादपसरेदेव । चशब्दोऽनुक्तोपसंग्रहार्थः । तेन ‘चक्रिणेऽन्धकाय समुपजोविने तपस्विने हिताय वा' इत्यादिब्राह्मणादिर्माह्यः ॥ ३० ॥

ब्राह्मणेभ्यो दत्वा पन्थानं कथंलक्षणं ग्रामं प्रति गच्छेदित्यत आह—

'प्रभूतधोदकयवससमिकुशमाल्योपनिष्क्रमणमाढ्यजनाकुल- मनलससमृद्धमार्यजनभूयिष्ठमदस्युप्रवेश्यं ग्राममावासितुं यतेत धार्मिकः ॥ ३१ ॥

**अनु०—**धर्म कर्म में तत्पर रहने वाला व्यक्ति ऐसे ग्राम में रहने का प्रयत्न करे, जहाँ प्रचुर ईंधन, जल, चारा, हवनादि कर्म के लिए समिधा, कुश, माला प्रचुर मात्रा में उपलब्ध हो, जहाँ आने जाने में सुविधा हो, बहुत से धनी लोग निवास करते हों, जहाँ उद्योगशील, आलस्यहीन समृद्ध लोग रहते हों, आर्यजनों की संख्या अधिकांश हो, और जिसमें चोर प्रवेश न करते हों ॥ ३१ ॥

**टि०—**तुलना० गौतमधर्मसूत्र. १.९.६५ पृ० ९० "प्रभूतैधोदकयवसकुशमाल्यो पनिष्क्रमणमार्यजनभूयिष्ठमनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ।”

प्रभूतशब्दः एधादिभिष्षड्भिः प्रत्येकमभिसंबन्धनीयः । एधः इन्धनादि । यवसः दोह्यानां गवादीनां भक्ष्यः । उपनिष्क्रमणं विहारभूमिः । आढ्याः धनवन्तः । अलसाः निरुत्साहाः । तद्विपरीता अनलसाः । आर्याः पण्डिताः । दस्यवश्चोराः तैरप्रवेश्यं अधृष्यम् । तत्र हि धर्माश्रमाविरोधेन जीवनं सुकरं भवति । तत्र धार्मिको नित्यं निवसेदित्यर्थः ॥ ३१ ॥

उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः । उषित्वा द्वादश समाः शूद्रसाधर्म्यमृच्छति ॥ ३१ ॥

**अनु०—**जिस ग्राम में कुए से ही पानी पिया जाता हो वहाँ शूद्रा स्त्री से विवाह


१. cf. गौ ध. १.६६,

Page 271Permalink

षष्ठः खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २१९

पर निवास करने वाला ब्राह्मण बारह वर्ष निरन्तर रहने पर शूद्रों के समकक्ष ही हो जाता है ॥ ३२ ॥

उदपानं कूपः कूपोदकमेव पानीयं, नाऽन्यत् यस्मिन् ग्रामे स एवमुक्तः । वृषलीशब्दः प्राक् प्रदानाद्रजस्वलाया वाचकः । तथा हि—

पितुर्गृहे तु या कन्या ऋतुं पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया तत्पतिर्वृषलीपतिः ॥ इति ॥

शूद्रायाः पतित्वे धर्मानुष्ठानानुपपत्तेः । एवंविधो धार्मिकोऽपि शूद्रसाधर्म्यमृच्छति । तस्मादल्पोदके ग्रामे धार्मिको न निवसेदित्यभिप्रायः ॥ ३२ ॥

ग्रामनिवास उक्तः, नगरे त्वनेवंविधेऽपि निवासनिषेधाय निन्दति—

पुररेणुकुण्ठितशरीरस्तत्परिपूर्णनेत्रवदनश्च । नगरे वसन् सुनियतात्मा सिद्धिमवाप्स्यतीति न तदस्ति ॥ ३३ ॥

**अनु०—**यदि यह कहा जाय कि नगर की धूल से जिसका शरीर धूसरित है और जिसके नेत्र और मुख उस धूल से परिपूर्ण हैं किन्तु जिसने इन्द्रियों और मन पर संयम कर रखा है वह नगर में रहता हुआ भी सिद्धि प्राप्त करता है तो ऐसी बात नहीं है (नगर का निवासी सिद्धि नहीं प्राप्त कर पाता) ॥ ३३ ॥

कुण्ठितं प्रच्छादितम् । तच्छब्देन पुररेणुरेव परामृश्यते । तेन परिपूरिते नेत्रे वदनं च यस्य स तत्परिपूर्णनेत्रवदनः । उष्ट्रखरविड्वराहगजश्वपुरीषमूत्रसुराकाकोच्छिष्टशवकपालास्थितुषभस्माद्युपहतसर्वावयव इत्यर्थः । एवंविधस्सुनियतेन्द्रियोऽपि नगरे वसन् परलोकं नाऽऽप्नोतीत्यर्थः ॥ ३३ ॥

रेणुः प्रस्तुतस्तत्राऽऽह—

रथाश्वगजधान्यानां गवां चैव रजश्शुभम् ।
अप्रशस्तं समूहन्याः श्वाजाविखरवाससाम् ॥ ३४ ॥

**अनु०—**रथों, अश्व, हाथी के चलने से उठने वाली, अनाज के साथ मिली हुई तथा गाय के पैरों से उड़ने वाली धूल पवित्र होती है, किन्तु झाडू से बुहारने पर उड़ी हुई, बकरी, भेड़, गदहे के पैरों से उठी हुई तथा कपड़े से उड़ायी गयी धूल अपवित्र होती है ॥ ३४ ॥

पूर्वाणि पञ्च रजांसि शुभानि । इतराणि षट् अप्रशस्तानि वर्ज्यानि । समूहनी सम्मार्जनी ॥ ३४ ॥

पूज्यान् पूजयेत् ॥ ३५ ॥

Page 272Permalink

२२० बौधायन-धर्मसूत्रम् [ पुत्रभेदाः

**अनु०—**पूज्य व्यक्तियों का सम्मान करे ॥ ३५ ॥
अवसरौचित्योपायेनाऽयमपि श्रेयस्करो नियमः। उक्तं च—‘प्रतिबध्नाति हि श्रेयः पूज्यपूजान्यतिक्रमः’ इति ॥ ३५ ॥

ऋषिविद्वन्नृपवरमातुलश्वशुरर्त्विजः ।
एतेऽर्घ्याश्शास्त्रविहिताः स्मृताः कालविभागशः ॥ ३६ ॥

**अनु०—**ऋषि विद्वान् पुरुष और राजा तथा मामा, श्वशुर और ऋत्विज ये शास्त्र के नियम के अनुसार अथवा अवसर के अनुसार अर्घ्य होते हैं ॥ ३६ ॥

**टि०—**ऋषि, विद्वान् पुरुष तथा राजा सर्वदा पूज्य होते हैं वे जब भी आवें उन्हें मधुपर्क दिया जाता है, किन्तु मामा और श्वशुर यदि एक वर्ष के अन्तर पर आवें तो मधुपर्काहं होते हैं, जब की ऋत्विज् याज्ञिक क्रिया के अवसर पर अर्घ्य है। ऋषि मन्त्रों के अर्थ का ज्ञाता होता है, विद्वान् वह है जो अङ्गों, इतिहास के साथ सम्पूर्ण वेद का प्रवक्ता हो। इस सम्बन्ध में गौतमधर्मसूत्र के नियम अत्यन्त स्पष्ट हैं ‘ऋत्विगाचार्यश्वशुरपितृव्यमातुलानामुपस्थाने मधुपर्कः। संवत्सरे पुनः। यज्ञविवाहयोर्वाक्। राज्ञश्च श्रोत्रियस्य।’ १।५ २५-२८ पृ० ५३-५४ ।

ऋषिर्मन्त्रार्थज्ञः। विद्वान् साङ्गस्य सेतिहासस्य वेदस्य प्रवक्ता। नृपोऽभिषिक्तः। क्षत्रियः। वरो वोढा दुहितुः। इतरे प्रसिद्धाः। अर्घ्याः मधुपर्कार्हा इति शास्त्रेण वेदेन चोदिताः स्मृताश्च स्मृतिकर्तृभिर्मन्वादिभिरप्यनुमोदिताः। यद्वा—कालविभागेन स्मृताः ॥ ३६ ॥

कोऽसौ कालविभाग इत्याह—

ऋषिविद्वन्नृपाः प्राप्ताः क्रियारम्भे वरर्त्विजौ ।
मातुलश्वशुरौ पूज्यौ संवत्सरगतागताविति ॥ ३७ ॥

**अनु०—**ऋषि, विद्वान पुरुष और राजा के आने पर उन्हें मधुपर्क से सम्मानित किया जाता है (पुंसवन्, सोमयाग आदि) यज्ञक्रिया के आरम्भ में ऋत्विज को मधुपर्क दिया जाता है। मामा और श्वशुर यदि एक वर्ष के बाद आये हों तो वे अर्घ्य होते हैं ॥ ३७ ॥

प्राप्ताः प्रभासादभ्यागताः। क्रियारम्भः पुंसवनसोमयागादीनामारम्भः। संवत्सरपर्यागतौ संवत्सरमुषित्वाऽऽगतौ ॥ ३७ ॥

अग्न्यगारे गवां मध्ये ब्राह्मणानां च सन्निधौ।
स्वाध्याये भोजने चैव दक्षिणं बाहुमुद्धरेत् ॥ ३८ ॥

Page 273Permalink

.षष्ठ : खण्डः ] द्वितीयप्रश्ने तृतीयोऽध्यायः २२१

अनु०—जिस घर में अग्नि का आधान किया गया हो उसमें प्रवेश करते समय गायों के बीच में जाने पर, ब्राह्मणों के समीप, दैनिक स्वाध्याय के अवसर पर तथा भोजन के समय दाहिने हाथ को उठावे ॥ ३८ ॥

टि०—सूत्रस्थ 'च' शब्द से अन्य पवित्र स्थानों और शुभ अवसरों पर भी हाथ उठाने का नियम समझना चाहिए।

स्वाध्याये वर्तमाने भोजनेऽपि बाहोरुद्धरणं नमस्काररूपेण । चशब्दः प्रशस्तमङ्गल्यदेवायतनप्रज्ञातवनस्पत्यादिप्रदर्शनार्थः ॥ ३८ ॥

उत्तरं वासः कर्तव्यं पञ्चस्वेतेषु कर्मसु ।
स्वाध्यायोत्सर्गदानेषु भोजनाचमनयोस्तथा ॥ ३९ ॥

अनु०—इन पांच कामों में उत्तरीय वस्त्र अवश्य धारण करना चाहिए। स्वाध्याय, मूत्रमलत्याग, दान, भोजन तथा आचमन के समय ॥ ३९ ॥

तृतीयं वस्त्रमुपवीतवत् व्यतिषज्यते तदुत्तरीयम् । तत् स्नातकस्य प्राप्यम्-प्येषु कर्मस्ववश्यं कर्तव्यमित्युच्यते । उत्सर्गो मूत्रपुरीषकरणम् ॥ ३९ ॥

हवनं भोजनं दानमुपहारः प्रतिग्रहः ।
बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् ॥ ४० ॥

अनु०—हवन क्रिया में भोजन करते समय, देवता गुरु आदि को बलि या उपहार देते समय तथा दान लेते समय दाहिने हाथ को घुटने से बाहर नहीं करना चाहिए और इसी प्रकार आचमन के विषय में भी नियम बताया गया है ॥ ४० ॥

जान्वोर्द्वयोरन्तरा दक्षिणं बाहुं विधायैतानि कार्याणीत्यर्थः । उपहारो बलिहरणम् । यद्वा—प्रसिद्ध एवोपहरो देवगुरुविषयः ॥ ४० ॥

अन्नदानं स्तूयते—
अन्ने श्रितानि भूतानि अन्नं प्राणमिति श्रुतिः ।
तस्मादन्नं प्रदातव्यमन्नं हि परमं हविः ॥ ४१ ॥

अनु०—प्राणी अन्न के ऊपर आश्रित होते हैं और अन्न ही प्राण है ऐसा श्रुति का वचन है अतः अन्न का दान करना चाहिए। अन्न ही सबसे उत्तम हवि है ॥ ४१ ॥

अन्ने श्रितानि अन्नावष्टम्भानि स्थावराणि जङ्गमानि च । 'अन्नं प्राणमन्नपान' मिति श्रुतिः । देवा अप्यन्नावष्टम्भा एव । हुतप्रहुतादयस्तेषामन्नानि तस्माद्यथाशक्त्या दातव्यम् ॥ ४१ ॥

Page 274Permalink

२२२ | बौधायन-धर्मसूत्रम् | [ स्नातकधर्माः

हुतेन शाम्यते पापं हुतमन्नेन शाम्यति ।
अन्नं दक्षिणया शान्तिमुपयातीति नश्श्रुतिरिति ॥ ४२ ॥

इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने षष्ठः खण्डः ॥

अनु०—हवन करने से पाप शान्त हो जाता है, हवन भी अन्न दान से शान्त होता है। अन्न दक्षिणा द्वारा-शान्ति प्राप्त करता है, ऐसा हमें श्रुति से ज्ञात होता है ॥ ४२ ॥

हुतं होमः कूष्माण्डगणहोमादिलक्षणः । तेन पापं शाम्यते । हुतविषयं च न्यूनातिरिक्तमन्नदानेन शाम्यति । अन्नदानविषयं च न्यूनातिरिक्तमस्वादु-ताकृतं प्रियवचनाभावनिमित्तं च दक्षिणया शाम्यति । वक्ष्यति होतान्—

भोजयित्वा द्विजानान्ते पायसेन च सर्पिषा ।
गोभूतलहिरण्यानि मुक्तवद्भ्यः प्रदाय च ॥ इति ।

चशब्दोऽवधारणार्थः । सर्वत्राऽत्र प्रमाणमस्माकं श्रुतिरेवेत्यर्थः । सा च 'तस्मादन्नं ददत् सर्वाण्येतानि ददाती'त्येवमादिका ॥ ४२ ॥

इति बौधायनधर्मसूत्रविवरणे गोविन्दस्वामिकृते द्वितीयप्रश्ने तृतीयोऽध्यायः ॥


द्वितीयप्रश्ने चतुर्थोऽध्यायः

सप्तमः खण्डः

यथा स्नातकस्याऽन्नदानमवश्यं कर्तव्यम्, एवमुपनीतमात्रस्य सन्ध्योपासनं प्रत्यहमवश्यं करणीयमित्याह--

अथाऽतस्सन्ध्योपासनविधिं व्याख्यास्यामः ॥ १ ॥

अनु०—इस कारण अब हम सन्ध्योपासन विधि की व्याख्या करेंगे ॥१॥
टि०—सन्ध्या रात्रि ओर दिन की सन्धिवेला को कहते हैं। इस समय ॐकार तथा व्याहृतियों के साथ गायत्री मन्त्र का जप आदि मानसिक आराधना सभी कर्मों से अधिक मंगलतर बतायी गयी है ।

अथशब्दो मङ्गलार्थः । तस्मिन् खल्वर्थे स्मर्यते—
ओङ्कारश्चाऽथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातो तस्मान्माङ्गलिकावुभौ ॥ इति ।

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२३

Page 275Permalink

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२३

तस्मादिति माङ्गल्यहेतुतामुपदर्शयति । सन्ध्योपासनं हि सर्वेभ्यः कर्मभ्यो मङ्गलतरम् । सन्ध्या नाम रात्रेर्वासरस्य चाऽन्तरालकालवर्ति सूर्योपासनम् । तत्र प्रणवव्याहृतिसहितस्तत्स वितुरिति मन्त्रोच्चारणजन्यस्तद्विषयस्सन्ततो मानसो व्यापारः । इदमेवाऽत्र प्रधानम् । यदन्यत्तदङ्गम् । तथा च ब्राह्मणम्- 'उद्यन्तमस्तं यन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमश्नुते' इति । कुर्वन् प्रदक्षिणं मन्त्रोच्चारणं वा । ब्राह्मणग्रहणं ऋणश्रुतिवत् । विधि-मनुष्ठानक्रमं वक्ष्याम इति सङ्ग्रहः कृतः । तत्र कालो वक्ष्यते—'सुपूर्वामपि-पूर्वामुपक्रम्य' (२-७-१२ ) इत्यत्र ॥ १ ॥

तीर्थं गत्वाऽप्रयतोऽभिषिक्तः प्रयतो वाऽनभिषिक्तः प्रक्षालित-पादपाणिरप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति ॥२॥

अनु०—पवित्र जलाशय पर जाकर अशुद्ध होने पर स्नान कर और शुद्ध होने पर बिना स्नान किये भी, पैरों और हाथों को धोकर, आचमन कर, 'सुरभि' शब्द से युक्त ऋग्वेद के मन्त्र का उच्चारण करते हुए, अप् देवता के मन्त्रों से, वरुण देवता के मन्त्रों से हिरण्यवर्ण इत्यादि मन्त्रों से, 'पवमानः सुवर्चनः' इस अनुवाक् से, व्याहृतियों से तथा अन्य पवित्र करने वाले मन्त्रों से अपने ऊपर जल छिड़के और शुद्ध होवे॥२॥

टि०—तीर्थं से नदी, पवित्र जलाशय से तात्पर्य है । विकल्प का नियम केवल स्नान के विषय में समझना चाहिए । हाथों और पैरों के धोने का नियम दोनों ही स्थितियों में होता है, चाहे स्नान किये हो या न किये हो ।

हाथ को कलाई तक धोने का नियम है । आचमन मन्त्रोच्चारण के साथ होता है । सायंकाल आचमन का मन्त्र है 'अग्निश्च मा मन्युश्च' और प्रातःकालीन आचमन का मन्त्र है 'सूर्यश्च मा मन्युश्च' । स्नान भी 'हिरण्यशृङ्गम्' आदि मन्त्र से होता है । 'सुरभि' शब्द वाला मन्त्र 'दधिक्राव्णः' आदि है । 'आपो हि' इत्यादि तीन मन्त्र अब्दिङ्ग हैं । वरुण देवता के मन्त्र 'यच्चिद्धि ते' आदि तीन मन्त्र, अथवा कुछ लोगों के अनुसार 'अव ते हेड' ' इमं मे वरुण' मन्त्र है । 'हिरण्यवर्णाः' इत्यादि चार मन्त्र हैं । ये मन्त्र पूर्णतः इस प्रकार हैं”

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापम-कार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु यत्कि-ञ्च दुरितं मयि । इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा ॥

सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्र्या पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु।

Page 276Permalink

२२४ बौधायन-धर्मसूत्रम् [सन्ध्योपासनम्

यत्किञ्च दुरितं मयि । इदमह माममृतयोनौ । सूर्ये ज्योतिषि जुहोमि स्वाहा ॥ ( महा-नारायणोपनिषद् २४.२५)

दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखात् कर प्रण आयूंषि तारिषत् ॥

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वःशिव-तमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः । तस्मा अरंगमामवो यस्य क्षयाय जिन्वथ आपो जनयथा च नः ।

यच्चिद्धि ते विशो यथा प्रदेव वरुण व्रतम् । मिनीमसि द्यवि द्यवि ॥ यत्किञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम । मा नस्त-स्मादेनसो देव रीरिषः ॥ कितवासो यद्रिपुर्नदीवि यद्वा घा सत्यमुत यन्न विद्म सर्वा तो विष्य शिथिरेव देवाऽथाते स्याम वरुण प्रियासः ॥

कर्तृसंस्कारोऽयम् । तीर्थं नदी देवखातादि बहिर्ग्रामाज्जलाशयः । तत्र गत-स्सन्प्रयतश्चेत् स्नायादेव । प्रयतश्चेन्न स्नायात् । स्नानास्नानयोर्विकल्पः । स च शक्त्यपेक्षः प्रक्षालितपादपाणिरित्यादि अभिषिक्तानभिषिक्तयोस्साधारणम् । प्रक्षालनं चाऽऽमणिबन्धात् । 'अभ्यर्हितं पूर्वम्' इति पाणेः^१ पूर्वनिपाताभावश्छां-न्दसः । अत्राऽपामाचमनं समन्त्रं वेदितव्यम् । मन्त्रश्च—^२'अग्निश्च मा मन्यु-श्चे'त्यनुवाकः सायङ्काले । ^३ 'सूर्यश्च' मा मन्युश्चेति प्रातः । प्रत्यहं हस्तपादादिभिः पापकरणस्याऽवश्यंभावित्वात्तदवलोपनसमर्थत्वाच्चैतयोः । स्नानप्रक्षालनाच-मनप्रोक्षणानि च बाह्याभ्यन्तरमलावलोपनार्थानीति गम्यते । प्रयतो भवतीति सूत्रान्ते निगमनात् । अत एव च स्नानमप्यत्र ^४ 'हिरण्यशृङ्ग' मित्येवमादिभि-भिस्समन्त्रकमेव द्रष्टव्यम् । वक्ष्यति सन्ध्योपासनफलप्रदर्शनवेलायां मान्त्रव-


^१. पूर्वनिपाते सिद्धेऽप्यपूर्वनिपातश्छान्दसः इति. ग. पु. ।
^२. अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा ॥
^३. सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्र्या पापमकार्षम् । मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ । सूर्ये ज्योतिषि जुहोमि स्वाहा ॥ ( महानारायणोप० २४-२५ ) इति समग्रो मन्त्रो ।
^४. अनुवाकस्समग्रः पठनीयः स्नानकाले इति सम्प्रदायः। स च महानारायणो-पनिषदि द्रष्टव्यः ।

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२५

Page 277Permalink

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२५

र्णिकमेव पापप्रमोचनम्-‘यदुपस्थकृतं पापम्’ ( ८-१८) इत्येवमादिना । वसि- ष्ठश्चैतमर्थमनुमोदमान उपलक्ष्यते-‘अथाऽऽचामेदग्निश्चेति सायं सूर्य- श्चेति प्रातः मनसा पापं ध्यात्वा निवदन्’ इति यद्यपि रहस्यप्रायश्चित्तप्रकरण इदं पठ्यते तथाऽपि वाक्यादविगानसमाचारादहरहरप्यवगन्तव्यम् । सुरभि- मती ‘दधिक्राव्णः’ इत्युक्त । अब्लिङ्गाः अब्देवल्यः ताश्च$^२$ ‘आपो हि’ इति तिस्रः । वारुण्यो वरुणदेवत्याः ताश्च$^३$ ‘यच्चिद्धि ते’ इति तिस्रः । केचित् ‘अव ते हेडः’ इति ‘इमं मे वरुण’ इति ऋचावपीच्छन्ति । ‘हिरण्यवर्णाः’ इति चतस्रः । पावमान्यः ‘पवमानः सुवर्चनः’ इत्यनुवाकः । अन्यानि पवित्राण्य- घमर्षणादीनि स्वयमेव वक्ष्यति-‘उपनिषदो वेदादयः’ (३.१०.१०) इति प्रक्रम्य ‘सावित्रीति चेति पावनानी’ त्यन्तेन । यद्वा-‘अघमर्षणं देवकृतम्’ (४.३.७.) इत्यत्र । प्रयत: पूतस्सन्योपासनयोग्यो भवति ॥ २ ॥

अथ स्नानप्रोक्षणयोर्व्यवस्थामाह—

अथाऽप्युदाहरन्ति— अपोऽवगाहनं स्नानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रोक्षणं चाऽपि द्विजातीनां विशिष्यते इति ॥ ३ ॥

अनु०—इस विषय में निम्नलिखित गाथा भी उद्धृत करते हैं—जल में डुबकी लगाना और स्नान करना सभी वर्णों के लिए विहित है; किन्तु मन्त्रों के उच्चारण के साथ प्रोक्षण का कर्म केवल द्विजाति वर्णों के लिए ही विशेष रूप से है ॥ ३ ॥

अपोऽवगाहनमिति वारुणं स्नानमाह । तच्च सार्ववर्णिकं सर्ववर्णसाधा- रणम् । मन्त्रवत्प्रोक्षणं पूर्वोक्तैर्मन्त्रैर्मार्जनं तच्च ब्राह्मणादित्रैवर्णिकानां विशिष्टं स्नानम् । एवं चाऽद्विजस्य वारुणमेव । द्विजातीनां पुनरुभयोरंसमुच्चयस्सति सम्भवे । असम्भवेऽपि तेषां मार्जनमवश्यंभावि ॥ ३ ॥


१. दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्रण आयूँषि तारिषत् ॥ २. आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वश्शिव- तमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः । ३. यच्चिद्धि ते विशो यथा तदेव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥ यत्कि- ञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥ कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म, सर्वा ता विष्य शिथिरेव देवाऽथाते स्याम वरुण प्रियासः ॥

१८ बौ०ध०

Page 278Permalink

२२६ बौधायन-धर्मसूत्रम् [सन्ध्योपासनम्

किञ्च— सर्वकर्मणां चैवाऽऽरम्भेषु प्राक्सन्ध्योपासनकालाच्चैतेनैव पवित्र- समूहेनाऽऽत्मानं प्रोक्ष्य प्रयतो भवति ॥ ४ ॥

**अनु०—**जो व्यक्ति सभी धार्मिक क्रियाओं के प्रारम्भ में सन्ध्योपासन काल से पहले भी इन्हीं पवित्र करने वाले मन्त्रों के समूह से अपना प्रोक्षण करता है, वह शुद्ध हो जाता है ॥ ४ ॥

सर्वकर्माणि श्रुतिस्मृतिशिष्टागमसिद्धानि । सर्वकर्मग्रहणेनैव सिद्धे सन्ध्यो- पासनस्य पृथग्ग्रहणं तस्याऽत्यन्तप्राशस्त्यप्रतिपादनार्थम् । तच्च प्रदर्शितमस्मा- भिरथातश्शब्दयोरभिप्रायं वर्णयद्भिः । पवित्रसमूहेन सुरभिमत्यादीनां स्तोमे- नाऽऽत्मानं प्रोक्ष्याऽद्भिरेवाऽऽत्मानं परितोऽपि रक्षा कर्तव्या । अत ऊर्ध्वं गायत्र्याऽभिमन्त्रितेनाऽम्भसा हतानि रक्षांस्यात्मानमाह—मृत्युरिति । यच्च स्वाध्यायब्राह्मणे पठितम्-‘सन्ध्यायां, गायत्र्याऽभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति’ ‘यत्प्रदक्षिणं प्रक्रमन्ति’ इति च । तदपि प्रसिद्धत्वादेव नोक्तमाचार्येण, ‘अग्निश्च’ इत्यादिमन्त्रद्वयवत् । स्मृतिरप्यस्ति—

कराभ्यां तोयमादाय सावित्र्या चाऽभिमन्त्रितम् । आदित्याभिमुखो भूत्वा प्रक्षिपेत् सन्ध्ययोर्द्वयोः ॥ इति ।

एतदुक्तं भवति—सन्ध्योपासनवेलायां कर्तव्येषु समन्त्रकाचमनप्रोक्षण- जलोत्क्षेपणप्रदक्षिणसावित्रोजपोपस्थानेष्वाचार्येण स्वशाखायामनुक्ता उक्ताः । उक्तास्तु नोक्ताः सिद्धत्वादेव । न केवलमुत्क्षेपणप्रदक्षिणे एव भवतः ॥ ४ ॥

अथाऽप्युदाहरन्ति— दर्भेष्वासीनो दर्भान् धारयमाणस्सोदकेन पाणिना प्रत्यङ्मुखस्सा- वित्रों सहस्रकृत्व आवर्तयेत् ॥ ५ ॥

**अनु०—**इस विषय में निम्नलिखित पद्य भी उद्धृत करते हैं— कुशों के ऊपर बैठकर अपने (दाहिने) हाथ में कुश लेकर, हाथ में जल लेकर, पश्चिम की ओर मुख कर एक सहस्र बार गायत्री मन्त्र का जप करे ॥ ५ ॥

**टि०—**पश्चिम की ओर मुख सायंकालीन सन्ध्या में किया जाता है । जप ऋषि, छन्द, देवता, विनियोग के साथ किया जाता है । प्रणव तथा व्याहृतियों के ऋषि वामदेव हैं । गायत्री छन्द है । ओंकार सभी का देवता है । सावित्री मन्त्र के ऋषि विश्वामित्र हैं । छन्द गायत्री है और देवता है सविता ।

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२७

Page 279Permalink

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२७

दर्भेष्वग्रथितेष्वनन्तर्गर्भेषु ^१त्रिष्वासीनस्तादृशानेव दर्भान् सोदकेन पाणिना धारयमाणः। एकवचनाद्दक्षिणो ग्रहीतव्यः। सावित्रीं सवितृदेवत्यां 'तत्सवितुः' इत्येतामृचं प्रणवव्याहृतिसहिताम्। तथाहि—

एतदक्षरमेतां च जपन् व्याहृतिपूर्व्विकाम्।
सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ इति।

ऋषिच्छन्दोदेवताविनियोगस्मरणपूर्वंको जपो द्रष्टव्यः। न ह्येतद्वज्ञानमृते श्रौतस्मार्त्तकर्मप्रसिद्धिरित्यभियुक्तोपदेशात्। तत्र प्रणवव्याहृतीनामृषिर्वामदेवः। देवी गायत्री छन्दः। ओङ्कारस्सर्वदेवत्यः ^२पारमेष्ठ्यः। व्यस्तानां व्याहृतीना-मग्निर्वायुस्सूर्य इति देवताः। सावित्र्या ऋषिः विश्वामित्रः गायत्री छन्दः सविता देवता। सन्ध्योपासने विनियोगः। यस्मिन् सर्वमोतं प्रोतं च भवतीति ओङ्का-रेण ब्रह्मोच्यते। तच्च सवितृमण्डलमध्यवर्ति। तथा च श्रुतिः—'आदित्यो ब्रह्मेत्यादेशः' इति। स एव च भूः भवतेस्सद्रूपं परं ब्रह्म। भुवः भावयतेः तदेव हि सर्वं भावयतीति। तदेव सुवः। तथा च यास्कः—'स्वरादित्यो भवति सु रणः सु ईरणः स्तुतो रसान् स्तुतो भासं ज्योतिषां स्तुतो भासेति'। यो देव-स्सविताऽस्माकं धियः कर्माणि पुण्यानि प्रति प्रेरयेत् तस्य यो भर्गः तपनहेतुः वरेण्यं वरणीयं वरदं वा मण्डलमभिचिन्तयाम उपास्महे इति मन्त्रार्थः ॥ ५ ॥

अथ स एव कल्पान्तरमाह—

प्राणायामशो वा शतकृत्वः ॥ ६ ॥

अनु०—अथवा प्राणायाम करते हुए सौ बार सावित्री मन्त्र का जप करे ॥६॥
टि०—श्वास रोककर यथाशक्ति तीन-चार या पाँच बार मन्त्र का जप कर श्वास छोड़ने का नियम है।

'सावित्रीमावर्तयेत्' इत्यनुवर्तते। प्राणायामश्च श्वासनिरोधनमात्रम्। न सव्याहृतोकामित्यादिकम्। प्रत्यावृत्ति श्वासनिरोधः। अथ वा यावच्छक्ति त्रिः चतुः पञ्चकृत्वः पठित्वा श्वासमुत्सृजेत् ॥ ६ ॥

उभयतःप्रणवां सप्तसव्याहृतिकां मनसा वा दशकृत्वः ॥ ७ ॥

अनु०—अथवा सावित्री मन्त्र के आरम्भ और अन्त में प्रणव और व्याहृतियों को जोड़ते हुए केवल दस बार जप करे ॥ ७ ॥
टि०—यहाँ सातों व्याहृतियों का आरम्भ और अन्त में प्रयोग अभिप्रेत है। पहले प्रणव फिर सात व्याहृतियाँ होती हैं ॐ भूः। ॐ भुवः। ॐ स्वः। ॐ महः।


१. त्रिष्विति नास्ति. ग. पु. ।
२. परमेष्ठी. इति ग. पु. ।

Page 280Permalink

१२८ बौधायन-धर्मसूत्रम् [ सन्ध्योपासनम्

ॐ जनः । ॐ तपः । ॐ सत्यम् । ॐ तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।

सावित्रीं प्राणायामश आवर्तत इत्यनुवर्तते । उभयतः प्रणवो यस्यास्तथा सप्त व्याहृतिभिस्सह वर्तत इति सैवोच्यते ।। सप्तव्याहृतयो भूरादयस्सत्यान्ताः । अत्रैवं क्रमः कल्प्यः—¹ प्रथमं प्रणवस्ततः सप्त व्याहृतयः ततस्सावित्रीसहिताश्च ध्यान्तः ( ? ) प्रणव इति । केचित्सावित्र्या एवोभयतः प्रणवमिच्छन्ति । न तु सप्तानामपि व्याहृतीनाम् । अपरे पुनरादितः प्रणवस्ततस्सप्तव्याहृतिकायाः सावित्र्या दशकृत्वोऽभ्यासः ततः प्रणव इति । एतौ पक्षौ विचारणीयौ । आद्यस्य तु सम्प्रदायोऽस्ति ॥ ७ ॥

त्रिभिश्च प्राणायामैस्तान्तो ब्रह्महृदयेन ॥ ८ ॥

**अनु०—**यदि ब्रह्महृदय ( 'ओं भूः ओं भुवः' इत्यादि ) अनुवाक से तीन बार प्राणायाम करने पर थक गया हो, तो सावित्री मन्त्र का जप करे ॥ ८ ॥

**टि०—**ब्रह्महृदय अनुवाक 'ओं भूः ओं भुवः' इत्यादि तैत्तिरीयसंहिता का है । प्रत्येक प्राणायाम में इस अनुवाक का तीन बार जप होता है । इस प्रकार तीन प्राणायामों में कुल नौ बार जप करना यहाँ अभिप्रेत है । व्याहृति, प्रणव तथा 'ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्' का श्वास रोककर तीन बार जप करने पर प्राणायाम होता है ।

ब्रह्महृदयं 'ओं भूः । ओं भुवः' इत्यनुवाकः । अनेन नवकृत्वः पठित्वा एतान् त्रीन् प्राणायामान् सम्पाद्य तान्तः ग्लानिमापन्नस्सावित्रीमावर्तयेदिति सिंहावलोकनन्यायेन सम्बन्धः । स्मृतिशतसिद्धत्वात् । एवं हि प्राणायाम लक्षणं प्रसिद्धम्—

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते ॥ इति ।

²'ओमापो ज्योतिरि' त्यनुवाकशेषश्शिरः । तत्र प्रणवो गतः । व्याहृतित्रयं च । महः महतेः पूजाकर्मणो व्याप्तिकर्मणो वा ब्रह्म । जनो ब्रह्म जनेर्विपरी-तलक्षणात् न जायत इत्यर्थः । तपस्तपतेरभिजनकर्मणः । सत्यमिति धातुत्रय-निमित्तमेतत् । सर्वं ब्रह्मैवेत्युपसंहारार्थः । सावित्री गता । आपः आप्नोतेः ।


१. ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यम् । ॐ तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।
२. ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ।

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२९

Page 281Permalink

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२९

ज्योतिः द्योततेः दीप्तिकर्मणः । रसः शब्दरूप हि तद्ब्रह्म । अमृतं अविनाशि हि तद्ब्रह्म । वृहतेर्वृद्धिकर्मणः परिवृढं भवति ॥ ८ ॥

वारुणीभ्यां रात्रिमुपतिष्ठत 'इमं मे वरुण' 'तत्त्वा यामी' ति 'द्वाभ्याम् ॥ ९ ॥

अनु०— सायंकालीन सन्ध्योपासना के समय 'इमं मे वरुण' तथा 'तत्त्वा यामि' वरुण देवता के इन दो मन्त्रों से सूर्य की प्रार्थना करे ॥ ९ ॥

इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्रमोषीः ॥

'अहरेव मित्रः रात्रिर्वरुण' इति श्रुतेः रात्रिमिति कालनिर्देशः । उपस्थेयस्तु सविता तत्कालविशिष्टः । उपस्थानं चोपोत्थितेनैव कर्तव्यम्, न पुनरासीनेनैव । यच्च समयाचारप्रसिद्धं प्रदक्षिणादि तदप्यत्र कर्तव्यं 'वृत्तीयशिष्टागमः' इति लिङ्गात् ॥ ९ ॥

एवमेव प्रातः प्राङ्मुखस्तिष्ठन् ॥ १० ॥

अनु०— इसी प्रकार प्रातः काल पूर्व की ओर मुख कर सन्ध्योपासना करे॥१०॥

एवमिति 'तीर्थं गत्वा' इत्यादि सर्वमतिदिशति । प्रातरिति कालनिर्देशः । प्राङ्मुख इति प्रत्यङ्मुखनिवृत्त्यर्थम् । तिष्ठन्निति आसननिवृत्त्यर्थम् ॥ १० ॥

मैत्रीभ्यामहुरुपतिष्ठते "मित्रस्य चर्षणीधृतो' 'मित्रो जनान् यातयती'ति द्वाभ्याम् ॥११॥

अनु०— दिन में मित्र देवता के दो मन्त्रों 'मित्रस्य चर्षणीधृतः' तथा 'मित्रो जनान् यातयति' से सूर्य की प्रार्थना करे ॥११ ॥

टि०— मित्रस्य चर्षणीधृतश्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ।


१. इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्रमोषीः ॥

२. मित्रस्य चर्षणीधृतश्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ॥
मित्रोजनान् यातयति प्रजानन् मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाऽभिचष्टे सत्याय हव्यं घृतवद्विधेम ॥

Page 282Permalink

२३० बौधायनधर्मसूत्रम् [ सन्ध्योपासनम्

अतिरोहितार्थमेतत् ॥ ११ ॥

सुपूर्वामपि पूर्वामुपक्रम्योदित आदित्ये समाप्नुयात् ॥१२॥

अनु०—प्रातःकालीन सन्ध्या सूर्य के उगने से पर्याप्त पहले आरम्भ करे और सूर्य के उगने पर समाप्त करे ॥ १२ ॥

सुपूर्वां नक्षत्रेषु दृश्यमानेषु पूर्वा सन्ध्यामुपक्रम्याऽदित्योदयोत्तरकाले समाप्नुयात् ॥ १२ ॥

अनस्तमित उपक्रम्य सुपश्चादपि पश्चिमाम् ॥१३॥

अनु०—सायंकालीन सन्ध्या सूर्य के अस्त होने के पूर्व आरम्भ करे और नक्षत्रों के दिखायी पड़ते ही समाप्त करे ॥ १३ ॥

सुपश्चात् यावन्नक्षत्रविभावनं तावति समाप्नुयादित्यर्थः ॥ १३ ॥

सायम्प्रातस्सन्ध्योपासनकर्तुरायुर्विच्छेदो न भवतीत्याह—

सन्ध्ययोश्च सम्पत्तावहोरात्रयोश्च सन्ततिः ॥१४॥

अनु०—प्रातः और सायंकालीन सन्ध्योपासना की सम्पूर्ति से ( यथोचित अनुष्ठान से ) जीवन में दिन और रात्रि की परम्परा अविच्छिन्न रहती है ॥ १४ ॥

सन्ध्योपासनकर्तुर्भवतीति शेषः । सम्पत्तिस्सम्पूर्णता । सा च सन्ध्योपासनेन यथाविध्यनुष्ठानेन भवति । तस्यां च सत्यामहोरात्रयोस्सन्ततिरविच्छेदो भवति । उपासितुरायुरविच्छिन्नं भवतीत्यर्थः । आह च—

ऋषयो दीर्घसन्ध्यत्वाद्वीर्घमायुरवाप्नुयुः ।
प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥ इति ॥ १४ ॥

अथाऽनुपासितुर्दोषमाह—

अपि चाऽत्र प्रजापतिगीतौ श्लोकौ भवतः—

अनागतां तु ये पूर्वामनतीतां तु पश्चिमाम् ।
सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणास्मृताः ॥

सायं प्रातस्सदा सन्ध्यां ये विप्रा नो उपासते ।
कामं तान् धार्मिको राजा शूद्रकर्मसु योजयेदिति ॥१५॥

अनु०—इस विषय में प्रजापति द्वारा गाये गये दो श्लोक भी हैं—जो ब्राह्मण प्रातःकालीन और सायंकालीन सन्ध्याएँ उचित समय पर नहीं करते हैं, उन्हें

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २३१

Page 283Permalink

सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २३१

ब्राह्मण कैसे कहा जा सकता है ? जो द्विजाति व्यक्ति सायं और प्रातः सन्ध्योपासना नहीं करता उसे धार्मिक राजा शूद्र के कार्यों में लगावे ॥ १५ ॥

प्रजापतिग्रहणमादरार्थम् । अनागतामनतिक्रान्तामिति चोदितकालाभिप्रा- यम् । कथं ते ब्राह्मणा इति । विप्रग्रहणं च द्विजात्युपलक्षणार्थम् । अत एव शूद्रकर्मस्वित्युक्तम् । इतरथा क्षत्रियकर्मस्वित्यवक्ष्यत् आनन्त्यात् । आह च-

न तिष्ठति तु यः पूर्वामुपास्ते न च पश्चिमाम् ।
स शूद्रवद् बहिष्कार्यस्सर्वस्माद् द्विजकर्मणः ॥ इति ॥ १५ ॥

तथा कथम् ?

तत्र सायमतिक्रमे रात्र्युपवासः प्रातरतिक्रमेऽहरुपवासः ॥ १६ ॥

**अनु०—**यदि सायंकाल सन्ध्योपासना का समय सन्ध्योपासना किये बिना ही बीत जाय, तो रात्रि को उपवास करे और प्रातःकालीन सन्ध्योपासना का समय सन्ध्योपासना किये बिना ही बीतने पर दिन में उपवास करे ॥ १६ ॥

अतीतां तां सन्ध्यां कृत्वेति शेषः । उपवासोऽनशनम् ॥ १६ ॥

किञ्च—

स्थानासनफलमवाप्नोति ॥ १७ ॥

**अनु०—**इस प्रायश्चित्त से वह वही फल प्राप्त करता है जो सन्ध्योपासना में खड़े होकर तथा बैठकर प्राप्त किया जाता है ॥ १७ ॥

प्रायश्चित्तप्रशंसेषा ॥ १७ ॥

अथाऽप्युदाहरन्ति—

यदुपस्थकृतं पापं पद्भ्यां वा यत्कृतं भवेत् ।
बाहुभ्यां मनसा वाऽपि वाचा वा यत्कृतं भवेत् ।
सायं सन्ध्यामुपस्थाय तेन तस्मात्प्रमुच्यते ॥१८॥

**अनु०—**इस सम्बन्ध में भी निम्नलिखित पद्य उद्धृत करते हैं—
पुरुष जननेन्द्रिय से, पैरों से जो कुछ पाप कर्म किये रहता है, जो कुछ पाप बाहों से, अथवा मन से या वाणी से किये होता है, उन सभी पापों से सायंकालीन सन्ध्या करने पर मुक्त हो जाता है ॥ १८ ॥

**टि०—**जननेन्द्रिय विषयक दुष्कृत यहाँ स्वभार्या के ही संबन्ध में हैं, क्योंकि परदारगमन के प्रायश्चित्त विशेष रूप से बताये गये हैं। स्वभार्या का ऋतुकाल से भिन्न समय में संभोग अधर्म है। पैरों से दुष्कृत का तात्पर्य है निषिद्ध स्थान पर

Page 284Permalink

२३२ बौधायन-धर्मसूत्रम् [ सन्ध्योपासनम्

अनजाने जाना। बाहुओं से दुष्कृत हिंसा, छेदन, भेदन आदि। दूसरों की वस्तुओं के प्रति लोभ बुद्धि रखना मानसिक दुष्कृत का उदाहरण है। अप्रिय और असत्य वाणी के दुष्कृत का उदाहरण है। अप्रिय और असत्य भाषण वाणी के दुष्कृत के अन्तर्गत आते हैं।

उपस्थकृतं परभार्या प्रति बहुशः प्रायश्चित्तस्याऽऽम्नानादिह स्वभार्याया-मेवाऽनृतकालाद्युपयोगेऽनाम्नाते। पद्भ्यां यदबुद्धिपूर्वप्रतिषेधगमनादि कृतम्। बाहुभ्यामपि हिंसाच्छेदनभेदनादि हस्तचापल्यं तत्। तथा मनसा परद्रव्यस्याऽ-भिध्यानादि। वाचा कृतं अवद्यवदनादि। यत्र यत्र वाङ्मनःकायकृते प्रायश्चित्ताम्नानविरोधो नास्ति, तत्र तत्रैतदेव प्रायश्चित्तमित्यभिप्रायः। सन्ध्यो-पासनप्रशंसा वैषा ॥ १८ ॥

किञ्च— रात्र्या चाऽपि सन्धीयते ॥ १९ ॥

अनु०—सन्ध्योपासना करने वाला आगामी रात्रि से सम्बद्ध हो जाता है॥१९॥

पुरुष इति शेषः। अभिसन्धानमभ्युदयः ॥ १९ ॥

न चैनं वरुणो गृह्णाति ॥ २० ॥

अनु०—वरुण देवता उसकी मृत्यु नहीं करते ॥ २० ॥

टि०—अर्थात् वह जल में डूबकर या जलोदर व्याधि से नहीं मरता—गोविन्द-स्वामी।

वरुणो नाम वृणातेः पापमप्सु मरणं जलोदरव्याधिर्वा ॥ २० ॥

एवमेव प्रातरुपस्थाय रात्रिकृतात् पापात् प्रमुच्यते ॥२१॥

अनु०—इसी प्रकार प्रातः सन्ध्योपासना कर रात्रि में किये गये पापों से पुरुष मुक्त हो जाता है ॥ २१ ॥

अर्थवादातिदेशः। फलातिदेशो वाऽयम्। रात्रावुपस्थादिभिः कृतादि-त्यर्थः। २१ ॥

अह्ना चाऽपि सन्धीयते ॥ २२ ॥

अनु०—उसका सम्बन्ध आगामी दिन के साथ हो जाता है ॥ २२ ॥

पूर्वैव व्याख्या ॥ २२ ॥

मित्रश्चैनं गोपायत्यादित्यश्चैनं स्वर्गं लोकङ्गमयतीति ॥२३॥

अनु०—मित्र देवता उसकी रक्षा करते हैं और आदित्य उसे स्वर्ग लोक को पहुँचाता है ॥ २३ ॥