दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
३६६ दशकुमारचरितम् । [ उत्तरपीठिकायां
३६६ दशकुमारचरितम् । [ उत्तरपीठिकायां ष्ठानधनदाज्ञाकरनिराक्रियातिसक्तचेतसः क्षत्रियस्याकर्षणायशक्तु । स चाहरहरागत्यादरेणातिगरीयासार्चयन्नथैश्च शिष्यान्संगृह्नन्नधिगतक्षणः कदाचित्काङ्क्षितार्थसाधनाय शनैरयाचिष्ट । ध्यानधीरः स्थानदर्शितज्ञान- संनिधिश्चैनं निरीक्ष्य निचाय्याकथयम्—'तात, स्थान एष हि यत्नः। तस्य हि कन्यारत्नस्य सकलकल्याणलक्षणैकराशेरधिगतिः क्षीरसागररश- नालङ्कृताया गङ्गादिनदीसहस्रहारयष्टिराजिताया घराङ्गनाया एवासाद- मुखनिर्गता तस्य क्षत्रियस्य जयसिंहस्य । कथम्भूतस्येत्याह-कनकेति-कनकलेखा अधिष्ठानमाश्रयो यस्य तादृशस्य धनदाज्ञाकरस्य कुबेरकिङ्करस्य यक्षस्य निरा- क्रियायां निराकरणे अतिसक्तं लग्नं चेतो यस्य तस्य । आकर्षणाय वशीकरणाय । अशक्तु समर्थोऽभवत् । स जयसिंहः । अहरहः प्रतिदिनम् । अतिगरीयसा- अत्यधिकेन । अर्थैः धनैः । संगृह्णन् आयत्तीकुर्वन् । अधिगतक्षणः प्राप्तावसरः काङ्क्षितार्थसाधनाय-अभीष्टसिद्ध्यर्थम् । शनैः मन्दं मन्दम् । अयाचिष्ट प्रार्थया- मास । ध्यानधीरः समाधिस्थिरः । स्थानेति-स्थाने योग्यपात्रे दर्शितः प्रकटितः ज्ञानस्य प्रज्ञायाः सन्निधिः सान्निध्यं येन सः । एनं जयसिंहम् । निचाय्य विचार्य । तात वत्स । स्थाने-युक्तः । यत्नः उद्यमः त्वया क्रियमाण इति शेषः । कन्यारत्न- स्य कन्यासु रत्नं श्रेष्ठं 'तस्य' । सकलेति-सकलानां सर्वेषां कल्याणलक्षणानां शुभ- चिह्नानां एकराशेरेकाश्रयस्य सर्वप्रकारमङ्गललक्षणाधारस्येत्यर्थः । कन्यारत्नस्य विशेषणमेतत् । अधिगतिः प्राप्तिर्लाभ इति यावत् । क्षीरेति-क्षीरसागरो दुग्धा- ब्धिरेव रशना मेखला तया अलंकृतायाः भूषितायाः । तथा गङ्गादीनां नदीनां सहस्रमेव हारयष्टिर्हारलता तया राजितायाः शोभितायाः धरा वसुमत्येवाङ्गना कामिनी तस्याः । आसादनाय प्राप्तये । साधनमुपायः । येनैतादृशं कन्यारत्नं लप्स्यते तेन ससागरा धरापि प्राप्स्यत इति भावः । न चेति-तदधिष्ठायी सा क्षत्रिय राजा जयसिंह भी मेरी कथाके वशीभूत हुआ। जिसका चित्त, कनकलेखाके ऊपर रहनेवाले कुबेरके सेवक उस यक्षको दूर भगानेमें, आसक्त हो रहा था। उस राजा जयसिंहने नित्य आकर अति आदरसे प्रचुर द्रव्यसे मेरी पूजा करके तथा भक्तोंको द्रव्यादिसे अपने अनुरूप कर लिया। एक दिन अवसर पाकर उस राजाने अपना अभीष्ट साधनाके हेतु मुझसे धीरेसे निवेदन किया समाधिस्थिर होकर मैंने, योग्यपात्रमें प्रज्ञाके सान्निध्यको लगाते हुए, उस राजा को देखकर कहा-'हे तात ! आपके द्वारा किया हुआ यह उद्योग युक्त ही है। उस कन्यारत्नकी प्राप्ति करना जो सम्पूर्ण मांगलिक चिह्नोंकी निधिके समान है, वैसा ही शुभप्रद है जैसे दुग्धसमुद्ररूपी करधनीको पहने
सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६७
नाय साधनम् । न च स यक्षस्तदधिष्ठायी केनचिन्नरेन्द्रेण तस्या लीला- स्मितनीलनीरजदर्शनाया दर्शनं सहते, तदत्र सह्यतां त्रीण्यहानि, यैरहं यतिष्येऽर्थस्यास्य साधनाय' इति । ( १४ ) तथादिष्टे च हृष्टे क्षितीशे गते निशि निशि निर्निशाकरार्चिषि नीरन्ध्रान्धकारकणनिकरनिगीर्णदशदिशि निद्रानिगडितनिखिलजनदृशि निर्गत्य जलतलनिलीनगाहनीयं नीरन्ध्रं कृच्छ्राच्छिन्द्रीकृतान्तरालं तदे-
कन्यामधितिष्ठतीति तथा । तत्राविष्ट इत्यर्थः स यक्षः नरेन्द्रेण मन्त्रतन्त्रज्ञेन लीलया विलासेन कटाक्षादिना अञ्चितं शोभितं नीलनीरजवत् नीलकमलवत् दर्शनं नयनं यस्यास्तादृश्यास्तस्याः कन्याया दर्शनमवलोकनं न सहते नाभिलषति । तत्त- स्मात् । अत्र विषये । सह्यतां अपेक्ष्यताम् । अहानि दिनानि । यैर्दिनेः । यतिष्ये चेष्टिष्ये । अर्थस्य प्रयोजनस्य । साधनाय सम्पादनाय । ( १४ ) तथा तेन रूपेण । आदिष्टे उपदिष्टे । हृष्टे सन्तुष्टे । निशि निशि प्रति- रात्रम् । किम्भूतायां निशीत्याह-निर्निशाकरार्चिषि-निर्नास्ति निशाकरस्य चन्द्रस्य अर्चिः तेजो यस्यां तथाभूतायां तथा नीरन्ध्राणां सान्द्राणां अन्धकाराणां तमसां कण- निकरैः कणसमूहैर्निगीर्णाः अवच्छादिता दश दिशो यस्यां तादृश्यां पुनश्च निद्रया निगदिताः बद्धाः निखिलजनानां दृशो नयनानि यस्यां तथाभूतायाम् । निर्गत्य स्वस्थानाद्बहिर्भूय । जलतलेत्यादि-तस्य सरसः एकतः एकस्यां दिशि जलतले सलिलाधःप्रदेशे निलीनेन निविष्टेन जनेन गाहनीयं प्रवेश्यम् तथा नीरन्ध्रं नि- श्छिद्रं तथा कृच्छ्रात् अतिकष्टेन छिन्द्रीकृतं शून्यीकृतमन्तरालं मध्यभागो यस्य
हुए तथा गङ्गा आदि सहस्रों नदियोंकी माला धारण किये हुए पृथिवीको प्राप्त करना है । ( जो यह कन्या प्राप्त करेगा वह आसमुद्रान्त राज्य करेगा ) परन्तु उस कन्यापर अधिवासकर्त्ता वह यक्ष उस कन्याके विलाससे शोभित नीलकमलके समान नेत्रोंको किसी मन्त्रज्ञको दर्शन कराना सहन नहीं करता है । अतः आप तीन दिनकी और इसके लिये प्रतीक्षा करें । इन दिनोंमें मैं आपके कार्यसाधनके लिये प्रयत्न करूँगा । ( १४ ) ऐसी राय देनेपर जब राजा जयसिंह प्रसन्न होकर चला गया, तब मैंने चन्द्रकी प्रभाहीन रात्रियोंमें, जब गहन अन्धकारके कणोंसे दशों दिशाएं व्याप्त हो जाती थीं, निद्रासे सभी जनोंकी आंखें मुँद जाती थी, कुटीसे निकलकर उस तालाबके एक ओर जलके अधः प्रवेशमें जनके निलीन योग्य, प्रवेश योग्य, छेद रहित, बड़े कष्टसे एक छेदको कुदारसे खोदकर सुरंगनामा तैयार किया । जिसके मध्यभागमें एक सुराख था जो सीढ़ियोंसे दूर था । उस सुरंगके प्रवेशद्वारवाले छेदको बड़ी-बड़ी शिलाओं और
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
३६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
३६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
कतः सरस्तटं तीर्थासन्निकृष्टं केनचित्खननसाधनेनाकार्षम् । घनशिले- ष्टिकाच्छन्नच्छिद्राननं तत्तीरदेशं जनैरशङ्कनीयं निश्चित्य, दिनादिस्नान- निर्षिक्तगात्रश्च नक्षत्रसंतानहारयष्ट्यग्रग्रथितरत्नम्, क्षणदान्धकारगन्ध- हस्तिदारणैककेसरिणम्, कनकैलशृङ्गरङ्गलास्यलीलानटम्, गगन- सागरघनतरङ्गराजलङ्घनैकनक्रम्, कार्याकार्यसाक्षिणम्, सहस्रार्चिषं सहस्राक्षदिगङ्गनाङ्गरागरागायितकिरणजालम्, रक्तनीरजाञ्जलिनाराध्य निजनिकेतनं न्यशिश्रियम् ।
तादृशम् तथा तीर्थानां जलावतरणसोपानानां असन्निकृष्टं दूरवर्त्ति एवम्भूतं सर- स्तटं केनचित् खननसाधनेन खनित्रेणाकार्ष कृतवानहम् । घनेति-घनाभिर्नि- विडाभिः शिलाभिः पाषाणैः इष्टिकाभिश्च छन्नमाच्छादितं छिद्रस्य सुरङ्गाया आननं मुखं यस्य तादृशं तत्तीरदेशं जनैर्लोकैः अशङ्कनीयं जनानां शङ्का न भविष्यती- त्येवं निश्चित्य अवधार्य दिनादौ प्रभाते निर्षिक्तं स्नानेन शुद्धीकृतं गात्रं शरीरं येन तादृशोऽहं सहस्रार्चिषं दिवाकरं किम्भूतमित्याह-नक्षत्रेत्यादि । नक्षत्राणां सन्तानः समूह एव हारयष्टिर्मौक्तिकलता तस्या अग्रग्रथितं सम्मुखगुम्फितं यद्- रत्नं तत्स्वरूपं, तथा क्षणदाया रजन्याः अन्धकार एव गन्धहस्ती मत्तगजस्तस्य दारणे भेदने एककेसरिणं अद्वितीयसिंहस्वरूपम्, तथा कनकैलस्य सुमेरुपर्वत- स्य शृङ्गशिखरमेव रङ्गः नृत्यशाला तत्र या लास्यलीला नृत्यादिक्रिया तस्या नटं नर्त्तकस्वरूपं, तथा गगनमेव सागरस्तस्य घना मेघा एव तरङ्गाणामूर्मिणां राजिः तस्य लङ्घने अतिक्रमणे एकनक्रं अद्वितीयग्राहस्वरूपं, कार्याणां कृत्यानाम- कार्याणामकृत्यानाञ्च साक्षिणं सर्वद्रष्टारम् । तथा सहस्राक्षस्य इन्द्रस्य दिक्पूर्वा सै वाङ्गना कामिनी तस्या अङ्गरागेण अङ्गविलेपनेन रागायितं रक्तवदाचरितं किर- णजालं स्वमयूखसमूहो येन तादृशं रक्तनीरजानां कोकनदानां अञ्जलिना अर्घ्यदानेनेत्यर्थः-आराध्य सम्पूज्य निजनिकेतनं स्वगृहं न्यशिश्रियं गतवानह- मिति शेषः ।
ईंटोंसे ऐसा बन्द कर दिया जिसमें लोगोंको शङ्का भी न होवे । इस तरीकेकी यह सुरङ्ग लोगोंसे न जानी जायगी ऐसा निश्चय हो जाता अर्थात्-जब सुरङ्गका छिद्र खूब ढक जाता तब प्रभात कालमें ही स्नान करके देह धोकर मैं, नक्षत्रसमूहरूपी मौक्तिकलताके मुख्य मणि, रात्रिके अन्धकाररूपी मत्तगजके विदारणमें अद्वितीय सिंह, सुमेरु पर्वतके शिखररूपी नृत्यलीलाके नर्त्तकरूप, आकाशरूपी सागरकी मेघरूपी तरङ्गोंको लांघनेमें मकर (ग्राह), कार्य और अकार्यके द्रष्टा, सहस्रदीधिति, इन्द्रकी प्राचीदिशारूपी
सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६६
( १५ ) याते च दिनत्रये, अस्तगिरिशिखरगैरिकतटसाधारण- च्छायतेजसि, अचलराजकन्यकाकदर्थनान्तरिक्षाख्येन शंकरशरीरेण संसृष्टायाः संध्याङ्गनायाः रक्तचन्दनचर्चितैकस्तनकलशदर्शनीये दिनाधि- नाथे, जनाधिनाथः स आगत्य जनस्यास्य धरंणिन्यस्तचरणनखकिरण- च्छादितकिरीटः कृताञ्जलिरतिष्ठन् । आदिष्टश्च—'दिष्ट्या दृष्टेष्टसिद्धिः। इह जगति हि न निरीहं देहिनं श्रियः संश्रयन्ते । श्रेयांसि च सकलान्यान-
( १५ ) याते व्यतीते । अस्तगिरीति—अस्तगिरेरस्ताचलस्य शिखरे शृङ्गे- यत् गैरिकतटं गैरिकमयप्रदेशः तत्साधारणी तत्सदृशा छाया कान्तिर्यस्य तथाभूतं तेजो यस्य तादृशे आरक्तमयूखे इत्यर्थः । अचलेति—अचलराजो हिमालयस्तस्य कन्यका पार्वती तस्याः कदर्थनया पीडनेन सपत्नीबुद्धयेति भावः, अन्तरिक्षाख्येन शङ्करशरीरेण शिवस्याकाशमूर्त्या संसृष्टायाः सङ्गतायाः सन्ध्यैवाङ्गना कामिनी तस्याः रक्तचन्दनेन रक्तानूलेपनेन चर्चितः रञ्जितो य एकः स्तनकलशः कुचकुम्भ- स्तद्वत् दर्शनीये विलोकनीये । अस्तमनसमये सूर्यस्य तादृशरूपवत्त्वात् । दिनाधि- नाथे सूर्ये । जनाधिनाथः राजा । सः जयसिंहः । जनस्य अस्य-ममेत्यर्थः । धरणि- न्यस्तेति-धरण्यां भूमौ न्यस्तयोः स्थापितयोः चरणयोः पादयोः नखानां किरणै- र्मयूखैः छादितं व्याप्तं किरीटं मुकुटं यस्यासौ । मच्चरणनिपतित इत्यर्थः । आदिष्ट उक्तो मयेति शेषः । दिष्ट्या भाग्येन । दृष्टा मयावलोकिता । इष्टसिद्धिः—अभीष्ट- लाभः । जगति संसारे निरीहं निस्पृहं देहिनं नरं श्रियः सम्पदः न संश्रयन्ते नाश्रयन्ति निःस्पृहाणां सम्पल्लाभो न भवतीत्यर्थः । श्रेयांसि शुभानि । अनलसानां
अंगनाके अङ्गरागसे लाल किरणोंवाले, सूर्यको लाल कमलोंद्वारा पूजकर अपनी कुटीमें चला जाता था । ( १५ ) तीन दिन बीत जानेपर, अस्ताचलके शिखरपर जो गेरू आदि धातु हैं उनकी प्रभाके समान तेजवाले, भवानीकी कदर्थनासे अन्तरिक्ष ( व्योम ) रूप शिवकी देहमें संश्लिष्ट सन्ध्यारूपो महिलाके लाल चन्दनसे व्याप्त एक स्तन-कलशके सदृश दर्शनीय, अस्त होनेवाले सूर्यके समय (सायंकालमें) वह राजा (आंध्रेश) आया और इस जनके ( मेरे ) भूमिपर घरे हुए चरणके नाखूनकी प्रभासे अपने मुकुटको आच्छादित करता हुआ बद्धाञ्जलि होकर बैठा । मैने आदेश दिया—'भाग्यवशात् आपकी इष्टसिद्धि मालूम हो गयी । इस संसारमें अनुद्योगीके समीप लक्ष्मी नहीं आती । उद्योगियोंके समीप कल्याणकारी कार्य आते रहते हैं—उद्योगी लक्ष्मीवान् होता है । अस्तु, आपके सदाचारसे, साधुसदृश आचरणसे तथा निष्पाप भावसे
४०० दशकुमारचरितम्। [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ४०० दशकुमारचरितम्। [ उत्तरपीठिकायां
लसानां हस्ते नित्यसांनिध्यानि । यतस्ते साधीयसा सच्चरितेतानाकलि- तकलङ्केनार्चितेनात्यादररचितेनाकृष्टचेतसा जनेनानेन सरस्तथा संस्कृ- तम्, यथेह तेऽद्य सिद्धिः स्यात् । ( १६ ) तदेतस्यां निशि गलदर्धायां गाहनीयम् । गाहनानन्तरं च सलिलतले सततगतीनन्तःसंचारिणः संनिगृह्य यथाशक्ति शय्या कार्या; ततश्च तटस्खलितजलस्थगितजलजषण्डचलितदण्डकण्टकाग्रदलितदेह- राजहंसत्रासजर्जररसितसंदत्तकर्णस्य जनस्य क्षणादाकर्णनीयं जनिष्यते
उद्यमवतां हस्ते पाणौ नित्यसांनिध्यानि नित्यं सान्निध्यं येषां तानीति विग्रहः । सदा सन्निहितानि भवन्तीति शेषः । ते तव । साधीयसा साधुतरेण सच्चरितेन सदाचरणेन । अनाकलितकलङ्केन पापस्पर्शरहितेन—सच्चरितेनेत्यस्य विशेषण- मेतत् । अत्यादररचितेन श्रद्धातिशयकृतेन । अर्चितेन-मम सत्कारेण । आकृष्टमा- वर्जितं चेतो यस्य तादृशेन अनेन जनेन-मया । सरः सरोवरम् । तथा तेन रूपेण । संस्कृतं-मन्त्रादिना शुद्धीकृतम् । यथा येन रूपेण । सिद्धिः अभीष्टलाभः । ( १६ ) तत् तस्मात् । एतस्यां अद्यतन्याम् । निशि-रजन्याम् । गलदर्धायां गलदधं यस्यास्तस्यां-निशीथावसानायाम् । गाहनीयं प्रवेष्टव्यम् । सलिलतलेः जलमध्ये अन्तःसञ्चारिणः शरीरान्तःस्थितान् सततगतीन् वायून् प्राणानिति यावत् । सन्निगृह्य कुम्भकेन सन्निरोध्य । यथाशक्ति-शक्त्यनुसारेण तदा यावती शक्तिस्तिष्ठेत्तदनुसारेणेति भावः । शय्या कार्या-शयनं करणीयं त्वयेति शेषः । ततेति—तटात्तीरदेशात् स्खलितं पतितं यजलं तेन स्थगितमाच्छादितं यज्जलजषण्डं पद्मसमूहस्तस्य चलितं कम्पितं यहण्डं नालं तस्य कण्टकाग्रेण कण्टकशिखया दलितं विद्धं देहं शरीरं यस्य तथाभूतस्य राजहंसस्य त्रासजर्जरे अयमन्दे रसिते
जो मेरी अति आदरके साथ पूजाकी है उससे आसक्त होकर मैने इस तालाबको ऐसा सुसंस्कृत कर दिया है कि, जिस कारण आज ही आपकी सिद्धि हो जायगी । ( १६ ) अतः आज ही आधी रातमें इस तालाबमें प्रवेश करना चाहिये ( आपको )। फिर उस तालाबमें प्रागादि वायुका निरोध करके पानीके नीचेभागवाली भूमिपर यथाशक्ति शयन कीजिये । तब तीरदेशके संलग्न जलसे आच्छादित होनेपर क्रान्त- कमलसमुदायके चपल नालके ( कमलनाल ) कण्टकाग्रभागोंसे विदलित शरीरवाले राजहंसोंके भयसे अत्यन्त मन्दध्वनिमें कानोंको लगानेवाले किसी व्यक्तिकी, एक क्षणमें, श्रवणीय जलसमूहकी ईषत् ध्वनि सुनायी पड़ेगी । ततः उस ध्वनिके निवृत्त हो जानेपर
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF सप्तमोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ४०१ जलसंघातस्य किंचिदारटितम् । शान्ते च तत्र सलिलरटिते क्लिन्नगात्रः किञ्चिदारक्तदृष्टिर्येनाकारेण निर्यास्यति निचाय्य तं निखिलजननेत्रानन्द- कारिणं न यक्षः शक्ष्यत्यग्रतः स्थितये । स्थिरतरनिहितस्नेहशृङ्खलानिग- डितं च कन्यकाहृदयं क्षणेनैकेनासहनीयदर्शनान्तरायं स्यात् । अस्याश्च धराङ्गनाया नात्यादृतनिराकृतारिचक्रं चक्रं करतलगतं चिन्तनीयं न तत्र रटिते दत्तौ अर्पितौ कर्णौ येन तादृशस्य जनस्य पुरुषस्य । कर्णीयं श्रवणीयं आरटितमित्यस्य विशेषणम् । जनिष्यते उत्पत्स्यते । जलसङ्घातस्य जलसमूहस्य किञ्चित् स्वल्पम् । आरटितं ध्वनिः। येन जनेन प्राक् त्रासमन्दरसितराजहंस- ध्वनिः आकर्णितः स एवानायासेन जलसंघातस्यारटितमपि श्रोतुमर्हति नान्यः द्वयोः सादृश्यात् । जलसंघातध्वनिः त्रासजर्जरहंसध्वनितुल्य इति फलितमिति भावः । शान्ते निवृत्ते । तत्र तस्मिन् पूर्वोक्ते जलशब्दे । क्लिन्नगात्रः जलार्द्र- शरीरः । किञ्चिदारक्तेति-किञ्चित्स्वल्पं आरक्ता ईषल्लोहितवर्णा दृष्टिर्नयनं यस्य सः । येन आकारेण-यत् स्वरूपमादायेत्यर्थः । निर्यास्यति-जलादुत्थास्यति । नि- चाय्येत्यादि-निखिलजनानां नेत्रयोरानन्दकारिणं आनन्दजनकं तं आकारं निचाय्य दृष्ट्वा । यक्षः कन्याधिष्ठितः अग्रतः स्थितये सम्मुखे स्थातुं न शक्ष्यति । स्थिरतरेति-स्थिरतरमचञ्चलं यथा तथा निहितः अर्पितो यः स्नेहः स एव शृङ्खला तया निगडितं बद्धम् । कन्यकाहृदयं कनकलेखाया मनः । असहनीयेति--असह नीयः सोढुमशक्यः दर्शनस्य तव विलोकनस्य अन्तरायो विघ्नो यस्य येन वेति तदिति हृदयविशेषणम् । सा खलु कन्या क्षणमपि तव विरहं सोढुमसमर्था भवि- ष्यतीति भावः । धराङ्गनायाः पृथ्वोरूपकामिन्याः । चक्रं मण्डलं किम्भूतमित्याह- नात्याहतेति-नात्याहृतं नातिप्रयासं यथा तथा निराकृतं पराजितं अरिचक्रं शत्रुमण्डलं यस्य तत् । करतलगतं तव हस्तस्थितं चिन्तनीयं मन्तव्यं त्वयेति शेषः । तत्-यन्मया कथितम् । इच्छसि चेत्-कर्तुं अभिलषसि यदि । अनेकेति उस जलमेंसे एक भीगा शरीरवाला तथा कुछ लाल आंखोंवाला व्यक्ति जलसे बाहर निकलेगा । सम्पूर्ण मनुष्योंके नेत्रोंको आनन्ददायक उस व्यक्तिको साक्षात् देखकर कन्याके ऊपर जो यक्ष है वह ठहर नहीं सकता है-भाग जायगा । गम्भीर भावसे प्रेमरूपी जंजीरोंद्वारा आबद्ध उस राजपुत्रीका चित्त आपको एक क्षण भी न देखनेसे दुःखी होगा । इस भूमिरूपी अंगनाकी उपलब्धि भी आपको बिना परिश्रमके हो जायगी । सभी शत्रुमण्डलसे रहिता इस पृथ्वीचक्रका राज्य भी आपको हस्तगत हो जायगा । अगर आपको उपर्युक्त लाभकी अभिलाषा हो, तो, अनेक शास्त्रवेत्ताओंसे, जिनकी बुद्धि शास्त्र- ज्ञानसे गम्भीर हो गयी हो, मन्त्रिगणोंसे, हितूजनोंसे, अन्य पौरवृद्धों आदिसे विचार
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४०२ दशकुमारचरितम् । [ उत्तरपीठिकायां
४०२ दशकुमारचरितम् । [ उत्तरपीठिकायां संशयः । तच्चेदिच्छस्यनेकशास्त्रज्ञानधीरधिषणैरधिकृतैरितरैश्च हितैषि- गणैराकलप्य जालिकशतं चानाय्य, अन्तरङ्गनरशतैर्यथेष्टदृष्टान्तरालं सरः क्रियते, रक्षा च तीरात्त्रिंशद्दण्डान्तराले सैनिकजनेन सादरं रचनीया । कस्तत्र तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्ति' इति । (१७) तत्त्वस्य हृदयहारि जातम्, तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्श- नासहैरिच्छां च राज्ञः कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ अनेकशास्त्राणां ज्ञानेनाभ्यासेन धीरा अविचलिता धिषणा बुद्धियेषां तैस्तादृशैः अधिकृतैः तव सचिवादि कार्याधिकारिभिः । इतरैरन्यैश्च हितैषिगणैः तव हिता- कांक्षिभिः । आकलप्य-तैः सह विचार्य । जालिकशतं-जालोपजीविधीवरवर्गम् । आनाय्य आकार्य संगृह्येति यावत् । अन्तरङ्गेति-अन्तरङ्गाणामात्मीयानां नराणां शतम् । यथेष्टेति-यथेष्टं यथाकामं दृष्टं परीक्षितमन्तरालं मध्यभागो यस्य तथाभूतम् । सरः जलाशयः । रक्षा चेति-तीरात् तटप्रदेशात् त्रिंशद्दण्डान्तराले- दण्डश्चतुर्हस्तप्रमाणो लगुडविशेषः त्रिंशत्परिमित्तानां दण्डाना मन्तराले व्यवधाने तीरात् विशत्यधिकशत हस्तपरिमित दूरवर्त्तिनि स्थाने इत्यर्थः सादरं सावधानं सैनिकजनेन रक्षा रक्षास्थानं रचनीया करणीया । कथमिति चेत्-तदाह यद् छिद्रेण रन्ध्रेणारयः शत्रवः चिकीर्षन्ति कर्तुमिच्छन्ति तत् को ज्ञातुं प्रभवेत् अतः सर्वतो रक्षा विधातव्येति । (१७) तत् महद्वचनम् । तु-किन्तु । अस्य जयसिंहस्य । हृदयहारि मनो मतम् । तदधिकृतैः राज्याधिकारिवर्गैः । तत्र कृत्ये तस्मिन् जलप्रवेशेन रूपान्तर- प्राप्तिरूपकर्मणि । रन्ध्रदर्शनासहैः दोषावलोकनाक्षमैः । इच्छां कन्याप्राप्त्य- भिलाषम् । कन्यकायामतिरागेण अत्यन्तप्रेम्णा जनितमुत्पादिताम् तथा नितान्त- निश्चलाम् । अतिदृढाम् । विशेषणद्वयं इच्छायाः । निश्चित्य-अवधार्य । अर्थः कर लीजिये । फिर जालोपजीवी ( धीवर ) वर्गोंको एकत्र करके तथा अपने आत्मीय जनोंसे तालाबके अन्तरालको यथारुचि परीक्षित कराकर, तालाबके तीरसे १२० हाथकी दूरीपर सावधानीपूर्वक अपने सैनिकोंसे रक्षा कराकर तालाबमें प्रवेश करियेगा । क्योंकि- यह कौन जान सकता है कि, शत्रु कहाँ पर है । वे शत्रुगण सुराखमें से प्रवेश कर लेते हैं । (१७) यह राय उस राजाके मनको हरणकर्त्री हुई । उस राजाके अधीनस्थ सेवकगणोंद्वारा उस जलप्रवेशका निषेध नहीं किया गया । क्योंकि वे लोग जान गये थे कि राजाका उस राजपुत्रीपर उत्पन्न प्रेम अति दृढ है । ऐसा निश्चय करके
सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४०३ एष न निषिद्धः । तथास्थितश्च तदासादनदृढतराशयश्च स आख्यात— राजन् , अत्र ते जनान्ते चिरं स्थितम् , न चैकत्र चिरस्थानं नः शस्तम् । कृतकृत्यश्चेह न द्रष्टासि । यस्य ते राष्ट्रे ग्रासाद्यासादितं यस्य ते किंचिद- नाचर्य कार्यं गतिरार्यगर्ह्या' इति । तत्रैतच्चिरस्थानस्य कारणम् । तच्चाद्य सिद्धम् । गच्छ गृहान् । यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः श- क्तिसदृशेन दानेनाराधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्रग्रथित- विषयः । न निषिद्धः न निवारितः । तथास्थितः तथा कर्तुं प्रतिज्ञातः । तदासाद- नेति-तस्याः'कन्याया आसादने प्राप्तौ दृढतरः द्रढीयान् आशयोऽभिप्रायो यस्या- सौ । सः जयसिंहः । आख्यात कथितोऽभवत् मयेति शेषः । ते तव । जनान्ते जनपदे । चिरं दीर्घकालं यावत् । स्थितं-वासः कृतो मयेति शेषः । एकत्र एक- स्मिन् स्थाने । चिरस्थानं दीर्घकालमवस्थानम् । नः अस्माकं संन्यासिनामि- त्यर्थः । शस्तं प्रशस्तं नेति सम्बध्यते । कृतकृत्यः; सफलप्रयोजनत्वं इहास्मिन् स्थाने न द्रष्टासि नावलोकयिष्यसि मामिति शेषः । नाहमत्र स्थास्यामीति भावः । राष्ट्रे राज्ये । ग्रासादि भोजनादि । आसादितं-मया लब्धं तस्य तादृशस्य तव कार्यं प्रयोजनं अनाचर्य असम्पाद्य गतिरन्यत्रगमनम् आर्यगर्ह्या सज्जननिन्दनीया अनुचितेत्यर्थः । तत्रस्थाने चिरस्थानस्य एतदेव कारणं नान्यदित्यर्थः । तच्च कार्यम् । सिद्धं सम्पन्नम् । यथार्हं जलेन राजस्नानोचितसलिलेन हृद्यगन्धेन मनो- हरगन्धशालिना इदं जलेनेत्यस्य विशेषणम् । सितेति-सितौ शुभ्रौ स्रक् माल्यं अङ्गरागश्च यस्य सः । शुभ्रमाल्यधरः शुभ्रानुलेपनश्चेत्यर्थः शक्तिसदृशेन साम- र्थ्यानुसारेण । दानेन दानं कृत्वा । आराधितेति-आराधिताः सेविताः धरणि- उन लोगोने उस कार्यका निषेध न किया और वे राजसेवक उस तालाबके दोष देखनेमें असमर्थ थे । जब मैने देखा कि वह राजा तालाबमें प्रवेश करनेमें कटिवद्ध है और उस राजपुत्रीकी प्राप्तिके लिये सन्नद्ध है, तथा मैंने कहा-'हे राजन् ! आपके इस नगरमें मैं बहुत समयतक बसा । हम संन्यासियोंका एक ही स्थानमें दीर्घकालतक बास करना अनुचित है । कृतकृत्य होनेपर आप मुझे यहां नहीं देखेंगे । आपके इस राष्ट्रमें मैंने भोजन आदि प्राप्त किया था, यदि आपके कार्यको असम्पादित किये बिना मैं, यहांसे चला जाता तो, अनुचित कार्यका कर्त्ता होता । अतः आपके कार्यके सम्पादनार्थ मैं इस राष्ट्रमें दीर्घकालतक रहा । आपका वह कार्य आज सम्पादित हो गया । अब आप घर जायँ । और राजोचित सुगन्धित जलसे स्नान करें । सफेद माला तथा चन्दन आदि यथाक्रम धारण करें । अपन सामर्थ्यके अनुसार दान करें । ब्राह्मणोंकी पूजा करें। पुनः तिलके तेलसे भींगे हुए कपड़ेकी बत्तियोंको बांसोंके दण्डोंके अग्रभागमें लपेटकर
वर्तिकाग्निशिखासहस्रप्रस्तनैशान्धकारराशिरगत्यार्थसिद्धये यतेथाः' इति । ( १८ ) स किल कृतज्ञतां दर्शयन्—'असिद्धिरैषा सिद्धिः, यदसन्नि- धिरिहार्याणाम् । कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति । नच निषेधनीया गरीयसां गिरः' इति स्नानाय गृहानयासीत् । अहं च नि- र्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः । तलस्य भूतलस्य तैतिलगणाः देवाः ब्राह्मणा इत्यर्थः येनासौ । कृतब्राह्मणपूजः इत्यर्थः । तिलस्नेहेति—तिलस्नेहेन तिलतैलेन सिक्तानां आर्दीकृतानां यष्ट्यग्रेषु दण्डाग्रेषु प्रथितानां प्रोतानां वर्तिकानां दीपद्शानां अग्निशिखासहस्रेण अग्निज्वाला समूहेन ग्रस्तो ध्वस्तः नैशान्धकारराशिः रजनीतिमिरसङ्घो येनासौ । आगत्य- सरस्तटमिति शेषः । अर्थसिद्धये स्वप्रयोजनसम्पादनाया यतेथाः प्रयत्नं कुर्याः । ( १८ ) स जयसिंहः । कृतज्ञतां स्वकृतज्ञभावं दर्शयन् प्रकाशयन् गृहानया- सीदित्यग्रिमेणान्वयः । असिद्धिरित्यादि—एषा सिद्धिः मदभीष्टलाभः असिद्धिरलाभ एव, यत्-यतः आर्याणां भवादृशां महापुरुषाणामिह अस्मिन् स्थाने असन्निधि- रसन्निधानम् अनवस्थानमिति यावत् । मत्प्रयोजनसिद्धौ सत्यामपि भवतोऽन्यत्र गमनान्न सा सिद्धिर्मे रोचते इति भावः । इयमीदृशी निःसङ्गता—भवत्सङ्गरहि- त्यम् । कष्टा—दुःखदायिनी । या निःसङ्गता । निरागसं निरपराधं दासजनं सेवकं मामिति शेषः त्याजयति दूरीकरोति । गरीयसां गुरूणां गिरः वचनानि । गुरूणां वाक्यानि न लङ्घनीयानि अतो नाहं भवन्तं प्रतिरुणध्मि इति भावः । इति- एवमुक्त्वा । स्नानाय-स्नातुम् । अहं-मन्त्रगुप्तः । निशीथे अर्धरात्रे । सरस्तीरेति- सरस्सतीरे यद् रन्ध्रं बिलं तत्र निलीनो गुप्तः । ईषदिति ईषच्छिद्रे स्वल्परन्ध्रे दत्तौ हजारों अग्निशिखासे रातका अन्धकार दूर करें । और अपने अर्थसिद्धिका प्रयत्न करें । ( १८ ) उस राजाने कृतज्ञता प्रकाशित करते हुए कहा—'यह लाभ मुझे इस समय अलाभके समान प्रतीत होता है, क्योंकि, इस अवसर पर आपका रहना न होगा । आपके संगसे रहित होना कष्टप्रद है । हाय ! निःसंगताके कारण निरपराधी सेवकका (मेरा) आपसे वियोग हो जायगा । गुरुजनोंकी वाणीका लङ्घन नहीं करना चाहिये (इसलिए मैं आपको रोक भी नहीं सकता ) ।' इस प्रकार कहकर स्नानके लिये घर चला गया । मैं ( मन्त्रगुप्त ) भी सूनी आधी रातमें उस कुटीसे निकलकर तालाबके तीरवाले बिल ( छेद ) में प्रविष्ट होकर छोटे छेदमें कान लगाकर बैठ गया । आधी रातके समय वह राजा, मुझसे उपदेशित क्रियाओंको करके स्थान-स्थान पर रक्षक पुरुषोंको नियुक्त करके, अनेकों धीवरोंको लाकर, उस तालाबके अन्तःप्रदेशके शल्यों ( कांटों ) को निकलवाकर उस तालाबके जलमें
सप्तमोच्छ्वासः । बालबोधिनीव्याख्यासहितम् । ४०५ स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जाल- कजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगा- हत गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नक्रलीलया नीरातिनिलीनया तं तथा शयानं कन्धरयां कन्थया न्यग्रहीषम् । खर- तरकालदण्डसंघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेना- जहात्स चेष्टाम् । ततश्चाकृष्य तच्छरीरं छिद्रं निधाय नीरान्निर्यासिषम् । ( १६ ) सङ्गतानां च सैनिकानां तदत्यचित्रियताकारान्तरग्रहणम् । कर्णौ येन तादृशः । स्थिते अवशिष्टे । कृतेति—कृता अनुष्ठिता यथादिष्टा मत्व- थनानुरूपा क्रिया येनासौ । स्थानेति-स्थाने अनेकेषु स्थानेषु रचिता कृता रक्षा रक्षिपुरुषसंस्थापनं येनासौ । राजा जयसिंहः । निराकृतेति—निराकृतं दूरीकृतं परीक्ष्य शोधितमिति यावत् अन्तःशल्यं जलमध्यस्थविघ्नो यस्य तादृशं सरः सलिलम् । सलीलगतिः सविलासगमनः । अगाहत प्राविशत् । गतमित्यादि— कीर्णकेशं कीर्णा विक्षिप्ताः केशा मूर्द्धजा यस्मिन् कर्मणि तद् यथा तथा, संहत- कर्णनासं—कर्णौ च नासे चेति कर्णनासं प्राण्यङ्गत्वादेकवद्भावः संहतं पिहितं कर्णनासं यस्मिन् कर्मणि तद् यथा तथा । एतत्पदद्वयं गतमिति क्रियाया विशेष- णम् । हास्तिनं-हस्तिप्रमाणकं—हस्ती प्रमाणमस्येति अण्प्रत्ययः । सरसस्तलं गतं प्रविष्टं, तथा पूर्वोद्दिष्टानुसारेण शयानं सुप्तम् तं जयसिंहं ग्रीवायां कन्थरायां नक्रलीलया नक्रस्य मकरस्येव लीला तया-नक्रवदित्यर्थः नीरातिनिलीनया नीर सलिले अतिनिलीनया अत्यन्तनिमग्नया कन्थया प्रावरणविशेषेण न्यग्रहीपं निगृहीतवानहमिति शेषः । खरतरेति—खरतरोऽतितीक्ष्णः यः कालदण्डो यम- दण्डस्तस्य यत्सङ्घट्टनं सङ्घर्षस्तद्वत् अतिचण्डैः अतिभीषणैः । करचरणघातः हस्तपादप्रहारैः । निर्दयैति—निर्दयं यथा तथा दत्तो निग्रहो निकारो यस्यासौ । स जयसिंहः चेष्टां अजहात् अम्रियत । ततः—सरस्तलात् । आकृष्य बहिष्कृत्य । छिद्रे पूर्वकृतरन्ध्रे । निधाय संस्थाप्य । निर्यासिषम्-निर्गतोऽभवम् । ( १९ ) सङ्गतानां तत्रोपस्थितानाम् । तदाकारान्तरग्रहणं अन्याकारप्राप्तिः । विलासयुक्त प्रविष्ट हुआ । राजा अपने बालोंको खोलकर, कान-नाक बन्दकर हस्तिप्रमाण जलमें सो गया । तब मैने उस सोनेवाले राजाके गलेको पानीमें अत्यन्त गुप्त मगरकी लीलासे कन्धा कन्था द्वारा पकड़ लिया । तदनन्तर अत्यन्त तीक्ष्ण कालदण्ड के संघटनके समान अति भीषण अपने हाथ-पैरोंके आघातसे उस राजाको खूब मारा जिससे उस जयसिंहने एक क्षणमें ही अपनी लीला समाप्त कर दी ( मर गया ) । फिर उसके शरीरको ले जाकर उसी छेदमें रख दिया और मै जलसे बाहर आ गया । ( १९ ) वहांपर उपस्थित सैनिकोंने रूप-परिवर्त्तन देखकर अत्यन्त आश्चर्य प्रकट-
४०६ दशकुमारचरितम् । [ उत्तरपीठिकायां
४०६ दशकुमारचरितम् । [ उत्तरपीठिकायां गजस्कन्धगतः सितच्छत्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डता- डनत्रस्तजनदत्तान्तरालया राजवीथ्या यातस्तां निशां रसनयननिरस्त- निद्रारतिरनैशम् । नीते च जनाक्षिलक्ष्यतां लाक्षारसदिग्धदिग्गजशिरः- सदृक्षे शक्रदिगङ्गनारत्नादर्शोऽर्कचक्रे कृतकरणीयः किरणजालकरालरत्नरा- जिराजितराजार्हासनाध्यासी यथासदृशा वारदर्शिनःशङ्कायन्त्रिताङ्गान्सन्नि- अस्यचित्रीयत-अस्याश्चर्यजनकमभवत् । गजस्कन्धगतः हस्तिशिरःस्थितः । सितेति सितच्छत्रादि येषां तानि सितच्छत्रादीनि श्वेतातपत्रप्रभृतीनि यानि सकलानि निखिलानि राजचिह्नानि नृपलक्षणानि तैः राजितः शोभितः । विशेषणद्वयं अह- मित्यस्य मन्त्रगुप्तवाक्यस्य । चण्डतरेति-चण्डतराणामतिप्रचण्डानां दण्डिनां दण्डधारिदौवारिकाणां दण्डैर्लगुडैस्ताडनेन प्रहारेण त्रस्ता भीता ये जनास्तैर्दत्त- मन्तरालमवकाशो यस्यां तया । राजवीथ्या राजमार्गॆण । यातश्चलितः । अहमिति शेषः । रसेति-रसेन अत्यधिकानन्दे कनकलेखानुरागेण वा नयनाभ्यां-पञ्चमी- द्विवचनमेतत्-निरस्ता अपगता निद्रारतिः शयनप्रीतिः यस्य तादृशोऽहम् अनै- षम् अत्यवाहयम् निशामिति पूर्वोक्तेनान्वयः। नीते चेत्यादि-लाक्षारसेन याव- केन दिग्धमनुलिप्तं यद् दिग्गजस्य दिङ्मातङ्गस्य शिरो मस्तकं तत्सदृशे तत्सम्ये रक्तवर्णे इति भावः, शक्रस्य दिक् पूर्वाशा-सैवाङ्गना कामिनी तस्या रत्नादर्शे मणि- दर्पणस्वरूपे अर्कचक्रे सूर्यमण्डले जनाक्षिलक्ष्यतां नरनयनगोचरतां नीते प्रापिते सति-सूर्ये उदिते सतीत्यर्थः। कृतकरणीयः विहितनित्यक्रियः। किरणजालेति- किरणजालेन मयूखमण्डलेन कराला व्याप्ता या रत्नराजिः रत्नसमूहस्तया राजितं शोभितं यद् राजाहं राज्योग्यमासनं तदध्यास्ते इति तच्छीलः । अहमिति शेषः । यथेति-यथासदृशं स्वस्वाधिकारोचितं आचारं राजमर्यादादिकं दर्शयन्ति ये तान्। शङ्केति-शङ्कया-यथा राज्ञः आकृतिपरिवर्त्तनं जातं तथैव प्रकृतेरपि क्रिया । हाथीके ऊपर चढ़कर सफेद छत्र आदि सभी राजचिन्होंसे सुशोभित मै राजमार्गसे चला । उस राजमार्गको अत्यन्त प्रबल दण्डधारी सेवकगण आगे आगे दण्डोंके प्रहार द्वारा जनोंको भय दिखाकर खाली करा देते थे। उस रात कनकावतीके प्रबलानुरागसे मुझे आँखोंमें निद्रा न आयी-वह रात मैंने जागकर बिता दी। प्रभातमें जब लाक्षारससे परिन्याप्त हुए दिग्गजोंके मस्तकोंके तुल्य, इन्द्रकी दिशा-( पूर्वदिशा-) रूपी अंगनाके मणिदर्पणके सदृश, सूर्यमण्डल लोगोंकी आखोंके सामने लक्षित हुआ। उस समय मै नित्यक्रियासे निवृत्त होकर, किरणजालसे परिपूर्ण एवं रत्नराशिसे देदी- प्यमान, राजाओंके अनुरूप श्रेष्ठ (सिंहासन) पर आरूढ़ होकर बैठा । उस समय यथानुरूप अपने नियमाचरणोंको प्रदर्शित करनेवाले, भयसे शरीरोंको संकुचित
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४०७
धिनिषादिनः सहायानगादिषम्—'दृश्यतां शक्तिरार्षी, यत्तस्य यतेर- जेयस्येन्द्रियाणां संस्कारेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि सरसि सरसिजदलसन्निकाशच्छायास्याधिकतरदर्शनीयस्याकारान्तरस्य सिद्धिरासीत् । अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः। तदि- दानीं चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशानां स्थानान्या- दररचितनृत्यगीताराधनानि क्रियन्ताम्। ह्रियन्तां च गृहादितः क्लेश- निरसनसहान्यर्थिसार्थैर्धनानि' इति ।
परिवर्तनं जातं स्यादिति भयेन यन्त्रितानि सङ्कुचितानि अङ्गानि गात्राणि येषां तान् । सन्निधिनिषादिनः सन्निधौ समीपे निषीदन्ति ये तान् पार्श्वचरानित्यर्थः । सहायान् सचिवादीन् । अगादिषम् अवोचम् । शक्तिः प्रभावः । आर्षी ऋषि- सम्बन्धिनी । यत्तस्येत्यादि—इन्द्रियाणां चक्षुरादीनां करणानां अजेयस्य जेतुम- शक्यस्य तस्य पूर्वोक्तस्य यतेर्मुनेः नीरजसा रजोगुणरहितेन पवित्रेणेत्यर्थः संस्कारेण मन्त्रानुष्ठानेन नीरजानां कमलानां सान्निध्येन सम्पर्केण शालते शोभते एवं शीले—तथा सहर्षाः सानन्दा अलिनो भ्रमरा यत्र तथाभूते सरसि सरोवरे सरसिजदलैः कमलदलैः सन्निकाशा तुल्या छाया कान्तिर्यस्य तादृशस्य तथा अधिकतरदर्शनीयस्य परमरमणीयस्य आकारान्तरस्य अन्यशरीरस्य सिद्धिः प्राप्तिरभूत् । ममेति शेषः । अद्य साम्प्रतम् सकलनास्तिकानां मन्त्रतन्त्रादिप्रभाव- मस्वीकुर्वताम् पाषण्डानामित्यर्थः । जायेत भवेत् । तत् तस्मात् । चन्द्रशेखरो महेश्वरः, नरकशासनो विष्णुः सरसिजासनो ब्रह्मा तदादीनां त्रिदशानां देवा- नाम् । स्थानानि मन्दिराणि । आदरेति—आदरेण श्रद्धया भक्त्या वा रचितमनु- ष्ठितं नृत्यगीताभ्यां आराधनं पूजनं येषु तानि । ह्रियन्तां नीयन्ताम् । गृहात् इतः अस्माद् राजसदनात् । क्लेशनिरसनसहानि-दारिद्र्यदुःखनाशसमर्थानि धनानि । अर्थिसार्थैः याचकसमूहैः । दरिद्रा आगत्य यथेष्टं स्वाभिलषितं धनं गृह्णन्त्विति भावः ।
करनेवाले, पार्श्वचरो और सहायकोंसे मैंने कहा—ऋषियोंकी शक्ति देखिये । इन्द्रियोंसे अजेय उस तपस्वीके पवित्र (रजोगुण रहित) संस्कारद्वारा उस तालाबमें, मैंने कमल- दलतुल्य क्या उससे भी अधिक दर्शनीय देह प्राप्त की । जिस तालाबमें कमलोंके समीप रहनेवाले प्रमुदित भौंरे कमल पर शोभा पा रहे हैं। (अपूर्व सिद्धि प्राप्त की । आज सभी नास्तिकोंका (आर्यधर्मविहीनोंका) शिर लज्जासे झुक गया है। अतः सम्प्रति सभी, महादेव, विष्णु, ब्रह्मा तथा अन्य देवताओंके मन्दिरोंमें श्रद्धाके साथ नाच-गाना एवं पूजा-अर्चा होवे । दारिद्र्यके दुःखको नाश करनेवाली लक्ष्मी (धन, वस्त्र आदि) याचक जनोंको इस राजप्रासादसे दिये जायें ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४०८ दशकुमारचरितम् । [ उत्तरपीठिकायां
४०८ दशकुमारचरितम् । [ उत्तरपीठिकायां ( २० ) आश्चर्यरसातिरेकहृष्टदृष्टयस्ते 'जय जगदीश, स्वतेजसाति- शय्य दश दिशः स्थगयन्निजेन यशसादिराजयशांसि' इत्यसकृदाशास्या रचयन्यथादिष्टाः क्रियाः। स चाहं दयितायाः सखीं हृदयस्थानीयां शशाङ्कसेनां कन्यकां कदाचित्कार्यान्तरागतां रहस्याचक्षिषि - 'कच्चिदयं जनः कदाचिदासीद् दृष्टः' इति । (२१) अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदीधितिलतां लीलालसं लासयन्ती, ललिताञ्चितकरशाखान्तरितदन्तच्छदकिसलया, (२०) आश्चर्यति-आश्चर्यरसस्य विस्मयस्य अतिरेकेण आधिक्येन हृष्टा प्रसन्ना दृष्टिर्येषां ते तादृशाः । ते सचिवादयः । स्वतेजसा निजप्रतापेन दशदिशः अतिशय्य अतिक्रम्य निजेन यशसा कीर्त्या आदिराजयशांसि पूर्वनृपतिकीर्तीः स्थगयन् आच्छादयन् जय सर्वोत्कर्षेण वर्त्तस्वेति असकृत्पुनःपुनः आशास्य आशीर्भिरभिनन्द्य यथादिष्टाः राजाज्ञानुसारेण क्रियाः देवताराधनादिकाः अर- चयन् अन्वतिष्ठन् । स च अहं-नृपरूपेण परिणतो मन्त्रगुप्त इत्यर्थः । दयितायाः प्रियायाः। हृदयस्थानीयां स्वहृदयतुल्यामन्तरङ्गभूताम् । कार्यान्तरागतां-अन्य- कार्यव्यपदेशेनागताम् । रहसि निर्जने । आचक्षिषि अकथयम् । अयञ्जनः-मज्ज- णः । कदाचित् कस्मिन्नपि समये । दृष्टः आसीत् त्वयेति शेषः कच्चित्-किम् । (२१) अथ प्रश्नानन्तरम् । सा शशाङ्कसेना । हर्षकाष्ठां हर्षातिशयम् । गतेन प्राप्तेन हृदयेनोपलक्षिता । ईषदल्पं आलक्ष्या दृश्या दशनदीधितिरेव दन्तकिरणा एव लता वल्ली तां लीलालसं विलासमन्दं यथा तथा लासयन्ती नर्त्तयन्ती प्रक्षिपन्तीति यावत् । तथा ललितेति-ललितं सुन्दरं यथा तथा (२०) विस्मयकी अधिकतासे प्रफुल्लित दृष्टिवाले उन याचकगण तथा मन्त्रिगणने 'जय जगदीश' एवं 'अपने प्रतापसे दश दिशाओंको परिव्याप्त करके तथा अपने यशसे पूर्ववर्त्ती राजाओंकी कीर्तिको जिन्होंने आच्छादित कर लिया है' ऐसे-ऐसे प्रशंसनीय वाक्य तथा आशीर्वचनको बार-बार कहकर, राजाद्वारा आदेशित पूजा-अर्चा समाप्त की। तदनन्तर किसी समय मेरे समीप किसी कार्यवश आयी हुई अपनी प्यारीकी सखी जो उसकी अन्तरंगिणी थी जिसका नाम शशांकसेना था, उस शशांकसेनासे मैंने (मन्त्रगुप्तने) एकान्तमें कहा-'क्या इस पुरुष को (मुझे) कभी पहिले देखा था ?' (२१) प्रश्नके बाद उस शशांकसेनाने आनन्दकी परम सीमा से युक्त चित्तसे कुछ देर देखकर, दन्तरूपी लताको विलासमें नर्त्तन कराकर, सुन्दर और संकुचित हाथकी अंगुलीसे अपने अधर पल्लवको ढककर, हर्षसे उत्पन्न जो आँसू उससे आक्लिन्न एवं कज्जल रहित नेत्रोंसे बद्धाञ्जलि होकर कहा- 'मैं आपको भली-भाँति पहचानती हूँ, यदि यह दृश्य (आपकी छवि) कोई कपटसे नहीं रचा हुआ है तो यह कैसे
हर्षजलक्लेदजर्जरनिरञ्जनेक्षणा रचिताञ्जलिः नितरां जाने यदि न स्यादै- न्द्रजालिकस्य जालं किञ्चिदेतादृशम् । कथं चैतत् कथय । इति स्नेहनि- र्यन्त्रणं शनैरगादीत् । अहं चास्यै कात्स्न्ये॑नाख्याय तदाननसङ्क्रान्तेन सन्देशेन सञ्जनय्य सहचर्या निरतिशयं हृदयाह्लादं ततश्चैतया दयितया निरर्गलीकृत। तिसत्कृतकलिङ्गनाथन्यायदत्तया सङ्गत्यान्ध्रकलिङ्गराजराज्य- शासी तस्यास्यारिणा लिलङ्घयिषितस्याङ्गराजस्य साहाय्यकायालघीयसा साधनेनागत्यात्र ते सखिजनसङ्गतस्य यादृच्छिकदर्शनानन्दराशिलङ्घित- अन्वितया संकुचितया करशाखया कराङ्गुल्या अन्तरितौ पिहितौ दन्तच्छदौ ओष्ठाधरावेव किसलयौ यथा तादृशी, तथा-हर्षेति-हर्षजलक्लेदेन आनन्दाश्रु- निर्गमेण जर्जरे क्लान्ते अतएव निरञ्जने कज्जलरहिते ईक्षणे नयने यस्याः सा । नितरां-अतिशयेन । जाने-त्वां जानामि । ऐन्द्रजालिकस्य मायाविनः । जालं- कपटम् एतादृशं एवम्भूतम् । यद्येषा ऐन्द्रजालिकमाया न स्यात्तदा त्वां सर्वथा परिचिनोमीत्यर्थः । कथं चैतत् कथय-कथमेवं सम्भावितमभूत् तत् कथयेत्यर्थः । स्नेहनिर्यन्त्रणं-स्नेहेन प्रेम्णा निर्यन्त्रणं निर्बाधम् । अस्यै शशाङ्कसेनायै । कात्स्न्र्येन-साकल्येन । तदाननसंक्रान्तेन-शशाङ्कसेनामुखद्वारा कथितेन । संजनय्य-उत्पाद्य । सहचर्याः कनकलेखायाः । एतया पूर्वोक्तया कनकलेखया । कीदृश्या इत्याह-निरर्गलीति-निरर्गलीकृतेन बन्धनान्मोचितेन ततः सत्कृतेन पूजितेन कलिङ्गनाथेन कर्दनाख्येन न्यायेन विधिपूर्वकं दत्तया अर्पितया कृत- विवाहयेत्यर्थः । संगत्य संगं प्राप्य । आन्ध्रेति-आन्ध्रकलिङ्गराजयोः आन्ध्रराजस्य कलिङ्गराजस्य च राज्यं शास्तीति तच्छासी अहमिति शेषः । तस्येत्यादि-तस्य पूर्ववर्णितस्यास्य अङ्गराजस्य सिंहवर्मणः अरिणा, शत्रुना चण्डवर्माख्येन लिल- घयिपितस्य आक्रमितुमिष्टस्य । साहाय्यकाय-साहाय्यं कर्तुम् । अलघायसा विपुलेन । साधनेन सैन्येन । अत्र अस्मिन् अङ्गदेशे । सखिजनसंगतस्य मित्र- वर्गपरिवृतस्य । ते तव राजवाहनस्येत्यर्थः । यादृच्छिकेति-यादृच्छिकं दैवसंयो- गाजातं यद्दर्शनं ते तव आनन्दराशिस्तेन लङ्घितमाक्रान्तं चेतो यस्य सः । इत्यन्तं मन्त्रगुप्तस्य वचनम् । हुआ, कहिये।' स्नेहसं बाधित हुई उसने मुझसे धीरेसे उपर्युक्त बात पूछी। तब मैंने अपनी सभा कृतियां उससे निवेदित कर दीं। फिर उसी शशांकसेनाके मुखसे अपना समां कृतियां, जो मेरी प्यारीको आनन्ददायिका थीं, अपनी प्यारीके समीप कहला भेजी तत्पश्चात् अति आदरपूर्वक प्रतिबन्ध रहित यथाविधि कलिङ्गराज की पुत्रीको स्वीकार किया और आन्ध्र तथा कलिङ्गराज भी प्राप्त किया। ततः आन्ध्र और कलिङ्ग देशपर शासन करते हुए इस शत्रु को जीतनेकी अभिलाषासे और अङ्गराजको
४१० दशकुमारचरितम् । [ उत्तरपीठिकायां
४१० दशकुमारचरितम् । [ उत्तरपीठिकायां चेता जात इति । तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भिरभिनन्द्यचित्रमिदं महामुनेर्वृत्तम् । अत्रैव खलु फलितमतिकष्टं तपः । तिष्ठतु तावन्नर्म । हर्षप्रकर्षस्पृशोः प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपम् । इत्याभिधाय पुनः अवतरतु भवान् इति बहुश्रुते विश्रुते विकचराजीवसदृशं दृशं चिक्षेप देवो राजवाहनः । इति मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः । (२२) तस्य मन्त्रगुप्तस्य । तत् पूर्ववर्णितम् । कौशलं नैपुण्यम् । अभि- नन्द्येत्यस्य कर्म । स्मितेति-स्मितस्य मन्दहासस्य ज्योत्स्नया किरणेन अभिषिक्तौ अनुलिप्तौ दन्तच्छदौ ओष्ठाधरौ यस्य तादृश इति राजवाहन इत्यग्रिमेणान्वयः । चित्रं-विस्मयकरम् । महामुनेः महातापसस्य तापसवेषधारिणो मन्त्रगुप्तस्ये- त्यर्थः । वृत्तं चरित्रम् । अत्रैव इह जन्मन्येव । फलितं सिद्धम् । अतिकष्टं-कष्ट- साध्यं । नर्म परिहासवाक्यम् । एतावद् यदुक्तं राजवाहनेन तत्त परिहाससूचकमेव साम्प्रतं परिहासं विहाय तत्त्वमेवोच्यते इत्यत्र तात्पर्यम् । हर्षप्रकर्षेति हर्षस्यान- न्दस्य प्रकर्षमाधिक्यं स्पृशतः इति तयोः-समधिकानन्दजनकयोः । प्रज्ञासत्त्वयोः बुद्धिबलयोः । स्वरूपम् तत्त्वम् । अवतरतु-स्वचरितवर्णनमारभताम् इत्यर्थः। बहुश्रुते-बहु नानाशास्त्रं श्रुतमधीतं येन तस्मिन् । विश्रुते तन्नामधेये कुमारे, तदुपरीत्यर्थः । विकचं प्रफुल्लं यद् राजीवं कमलं तत्-सदृशं तत्तुल्यां दृशं नयनं चिक्षेप निदधौ । अत्र तस्येत्यारभ्य राजवाहन इत्यन्तं वर्णनं कविनेव कृतमतो- ऽत्र ओष्ठ्यवर्णप्रयोगो न वैरस्यमावहतीति सहृदयैर्बोध्यम् । इति बालविबोधिनी व्याख्यायां सप्तम उच्छ्वासः । सहायताके लिए संग्राम के प्रभूत साधनों (सैन्यादिकों) के सहित यहांपर आया । यहांपर मित्रोंसहित आपका दर्शन पाकर आनन्दराशिस मेरा मन पुलकित हो गया । (२२) कुमार मन्त्रगुप्तके इस वृत्तको सुनकर सुहृदोंके साथ राजवाहनने मुस्कुराते हुए चन्द्रिकासे अभिषिक्त अधरोद्वारा उस मन्त्रगुप्तका अभिवादन किया और कहा-'इस महामुनिका चरितवृत्त विचित्र है। अति कठिन तपका फल आपको इसी जीवनमें उपलब्ध हो गया। अब परिहास त्याग दिया जाय। आनन्दके आधिक्यको स्पर्शित करनेवाला आपके बुद्धिवलका स्वरूप इस वृत्तमें देखा गया। वस्तु...। ऐसी बातें कह कर अपने विकसित पद्म के सदृश नेत्र को विक्षेपित कर देव राजवाहनने नानाशास्त्र निष्णात विश्रुतसे अपने चरितको प्रारम्भ करनेके लिये कहा। इस प्रकार सप्तम उच्छ्वासकी बालक्रोड़ा नामक हिन्दी टीका समाप्त हुई ।
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ॥ श्रीः ॥ दशकुमारचरितम् अष्टमोच्छ्वासः ( १ ) अथ सोऽप्याचचक्षे—'देव, मयापि परिभ्रमता विन्ध्याटव्यां कोऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशाहैः क्वचित्कूपाभ्याशेऽष्टवर्षदे- शीयो दृष्टः । स च त्रासगद्गदमगदत्—'महाभाग, क्लिष्टस्य मे क्रियता- मार्य, साहाय्यकम् । अस्य मे प्राणापहारिणीं पिपासां प्रतिकर्तुमुदकमु- दद्धन्निह कूपे कोऽपि निष्कलो ममैकशरणभूतः पतितः । तमलमस्मि नाहमुद्धर्तुम्' इति । ( २ ) अथाहमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य, तं च बालं वंश ( १ ) अथ मन्त्रगुप्तकथनानन्तरम् । स विश्रुतनामा कुमारः । विन्ध्याटव्यां विन्ध्यारण्ये । कोऽपि अज्ञातकुलनामा । अक्लेशाहैः क्लेशसहनयोग्यो नेत्यर्थः । कूपाभ्याशे जलाशयसमीपे । अष्टवर्षदेशीयः असमाप्ताष्टवर्षः । सः बालकः । त्रास- गद्गदं भयविह्वलं यथा तथा । क्लिष्टस्य क्लेशयुक्तस्य । आर्य पूज्य । साहाय्यकं- स्वार्थे कः । प्राणापहारिणीं जीवितनाशिनीम् । प्रतिकर्तुम् अपनोदयितुम् । उदद्धन् निष्कासयन् । निष्कलो वृद्धः । ममैकशरणभूतो मदवलम्बनभूतः । तं कूपपतितं वृद्धम् । अलं समर्थः । उद्धर्तुं कूपात्निष्कासयितुम् । इत्यन्तम् अगददित्यस्य कर्म । ( २ ) अथ तच्छ्रवणानन्तरम् । अभ्येत्य समीपमागत्य । व्रतत्या लतया, ( १ ) इसके पश्चात् विश्रुतने कहा—हे देव ! विन्ध्याटवीमें इतस्ततः भ्रमण करते हुए मैंने सहसा एक कूपके समीप आठ बरसके बालकको देखा । क्लेशोंको सहन करनेमें अशक्त वह मृदु बालक भूख-प्याससे पीड़ित हो रहा था। मुझे देखकर उसने भयान्रित होकर गद्गद स्वरसे कहा—हे महाभाग ! इस समय मैं बड़ी आपत्तिमें हूँ । आप मेरी सहायता करें । मुझे प्राणापहारिणी पिपासा सता रही है, उसीके निवृत्त्यर्थ मैं इस कूपपर आया तो पानी निकालनेके समय मेरे साथका एक वृद्ध इसमें गिर पड़ा । मेरे अतिरिक्त उसका कोई सहायक भी नहीं है और मुझमें इतना पौरुष नहीं कि मैं उसे खींचकर कूपके बाहर निकाल सकूं । ( २ ) तदनन्तर मैंने कुछ लताओंको एकत्र करके उनकी सहायतासे उस बूढ़ेको २७ द० कु० उ० Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४१२ दशकुमारचरितम् । [ उत्तरपीठिकायां
[Top Header: CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF]
४१२ दशकुमारचरितम् । [ उत्तरपीठिकायां
नालीमुखोद्घृताभिरद्भिः फलैश्च पञ्चषैः शरक्षेपोच्छ्रितस्य लकुचवृक्षस्य शिखरात्पाषाणपातितैः प्रत्यानीतप्राणवृत्तिमापाद्य, तरुतलनिषण्णस्तं जरन्तमब्रवम्-'तात, क एष बालः, को वा भवान्, कथं चेयमापदापन्ना' इति । ( ३ ) सोऽश्रुगद्गदमगदत्-'श्रूयतां महाभाग ! विदर्भो नाम जन- पदः तस्मिन्भोजवंशभूषणम्, अंशावतार इव धर्मस्य, अतिसत्त्वः, सत्यवादी, वदान्यः, विनीतः, विनेता प्रजानाम्, रञ्जितभृत्यः, कीर्ति- मान्, उदग्रः, बुद्धिमूत्तिभ्यामुत्थानशीलः, शास्त्रप्रमाणकः, शक्यभव्य- रज्जुभूतयेत्यर्थः । उत्तार्य उद्धृत्य । वंशनालीति-वंशस्य नाली अन्तश्छिद्रं वेणुर्वा तस्या मुखमग्रभागस्तेनोद्धृताभिर्निष्कासिताभिः । अद्भिजैलैः । पञ्च षड्वा प्रमाण- मेषां ते पञ्चषास्तैः । शरक्षेपो बाणगतिः, यावद्वाणा गच्छन्तीत्यर्थः । शरक्षेपाद- प्युच्छ्रितस्योन्नतस्य । शिखरात् अग्रदेशात् । पाषाणपातितैः प्रस्तरनिक्षेपेणाधः- क्षिप्तैः । फलैरित्यस्य विशेषणम् । करणभूतैः तैः प्रत्यानीता पुनराच्छिन्ना प्राणवृत्तिः जीवनयोगो यस्य तम्। आपाद्य कृत्वा । जरन्तं वृद्धम् । ( ३ ) सः वृद्धः । जनपदः देशः । अस्तीति शेषः । अंशावतारः-अंशेनैक- देशेन अवतारः न तु पूर्ण इत्यर्थः । अतिसत्त्वः समधिकबलवान् सत्त्वगुणप्रधानो वा । वदान्यो दानशौण्डः । विनेता शिक्षादाता । रञ्जितभृत्यः अनुरक्तसेवकः । बुद्धया मूर्त्या आकारेण चोत्थानशीलः पौरुषस्वभावः । शक्यं स्वसाध्यं अन्यं मङ्गल- जनकं कल्पं विधिम् आरभत इति शक्यभव्यकल्पारम्भी । संभावयिता मानधना- खींचकर उस कूपके बाहर निकाला तथा बांस की नलीद्वारा जल खींचकर उस बालक को पीनेको दिया जिससे उसकी प्यास बुझी । इसके पश्चात् मैने बाणों और पत्थरोंकी सहायतासे लकुच वृक्षसे पांच-छः फल तोड़कर उन दोनों को खिलाये जिससे उन दोनों की क्षुधा निवृत्त हुई। पुनः हम सब एक वृक्षकी छायामें जा बैठे और मैंने उस वृद्धसे प्रश्न किया-हे तात ! यह बालक कौन है ? आप कौन हैं ? यहाँ कैसे आये ? कैसे इस आपत्तिमें फँस पड़े ? मेरे प्रश्नों को श्रवण कर उस बूढ़ेके नेत्रोंमें आँसू आ गये और वह गद्गद कण्ठसे कहने लगा- ( ३ ) हे महाभाग ! विदर्भ नामका एक देश है । उसमें भोजवंशका भूषण पुण्यवर्मा नाम का एक शासक रहता था जो धर्मका अवतार, सत्यवादी, अप्रमेय बलिष्ठ, विनय-भावसम्पन्न, दानी, प्रजापालक, यशस्वी, अपने दासोंको प्रसन्न रखनेवाला, उन्नतिशील, शास्त्रपर श्रद्धा रखनेवाला, अपनी बुद्धि द्वारा तथा अपनी देह द्वारा प्रजाकी निरन्तर उन्नति करनेवाला, विद्वानोंकी पूजा करनेवाला, सेवकोंका
[Bottom Footer: Nepal Sanskrit University, Balmeeki Campus, Kathmandu]
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४१३ कल्पारम्भी, संभावयिता बुधान्, प्रभावयिता सेवकान्, उद्भावयिता बन्धून्, न्यग्भावयिता शत्रून्, असंबद्धप्रलापेष्वदत्तकर्णः, कदाचिदप्य- वितृष्णो गुणेषु, अतिनदीष्णः कलासु, नेदिष्ठो धर्मार्थसंहितासु, स्वल्पेऽपि सुकृते सुतरां प्रत्युपकर्ता, प्रत्यवेक्षिता कोशवाहनयोः, यत्नेन परीक्षिता सर्वाध्यक्षाणाम्, उत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः, सद्यः प्रतिकर्ता दैवमानुषीणामापदाम्, षाड्गुण्योपयोगनिपुणः, मनुमार्गेण प्रणेता चातु- र्वर्ण्यस्य पुण्यश्लोकः पुण्यवर्मा नामासीत् । (४) स पुण्यैः कर्मभिः प्राप्य पुरुषायुषम्, पुनरपुण्येन प्रजानाम- दिना सत्कर्त्ता । प्रभावयिता प्रभुत्वकारकः । उद्भावयिता संवर्द्धकः । न्यग्भावयिता जेता । असंबद्धप्रलापेषु निरर्थकवचनेषु । अवितृष्णो विरागरहितः, सर्वदा गुणा- नुरक्त एवेत्यर्थः । अतिनदीष्णः परमपटुः । नेदिष्ठोऽतिसमीपवर्ती, सर्वदैव तत्र संलग्न- इति भावः । सुकृते केनापि कृते उपकारे । सुतरामतिशयेन । प्रत्यवेक्षिता । अनु- सन्धानकर्त्ता । परीक्षिता परीक्षकः । सर्वाध्यक्षाणां प्रधानकर्मकर्तॄणाम् । कृतं निष्पादितं कर्म कार्यं यैस्तेषाम् । प्रतिकर्त्ता शमयिता । षाड्गुण्यं सन्धिविग्रहादिः तेषामुपयोगे विविच्य प्रयोगे निपुणः कुशलः । मनुमार्गेण मनूक्तपद्धत्या । पुण्य- श्लोकः पवित्रकीर्त्तिः । (४) सः पुण्यवर्मा । पुण्यैः कर्मभिः, यज्ञदानादिभिः । पुरुषायुषं पूर्णमायुः, शतं वर्षाणीति यावत् । प्राप्य लब्ध्वा । प्राप्येति पाठे जीवित्वेत्यर्थः । अपुण्येन प्रभाववर्द्धक, बन्धुओंकी सहायता करनेवाला, शत्रुओंका दमन करनेवाला तथा कार्यकुशल था । वह कभी असम्बद्ध तथा व्यर्थ बातोंपर ध्यान ही नहीं देता था । गुणोंकी प्राप्तिमें सदा वह तत्पर रहता था । सभी कलाओंका वह परिज्ञाता था । धर्म और अर्थका संग्रह करनेमें वह सदा प्रयत्नशील रहता था । यदि कोई उसका थोड़ा भी उपकार कर देता था तो उसके लिये वह अत्यधिक प्रत्युपकार करता था। अपने कोश और वाहनोंपर सदा दृष्टि रखता था । अपने समस्त कर्मचारियोंकी गुप्त रूपसे परीक्षा किया करता था । कार्यदक्ष लोगोंके पदोंकी अभिवृद्धि करता हुआ उन्हें पुरस्कृत करता रहता तथा सदा अर्थकी सहायतासे उनको सन्तुष्ट रखता था । सन्धि, विग्रह, यान, आसन, आश्रय, द्वैधीभाव इन छहों गुणोंका वह विधिवत् पालन करता था । मनुस्मृतिके अनुसार चारों वर्णोंके तथा चारों आश्रमोंके धर्मोंका पालन प्रजासे करवाता था । उसकी पवित्र कीर्ति समस्त भूतलपर छायी हुई थी । (४) उसने मानवीय अवस्थाका सुख पूर्णरूपेण भोगा और अन्तमें वह प्रजाके Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४१४ दशकुमारचरितम् । [ उत्तरपीठिकायां
४१४ दशकुमारचरितम् । [ उत्तरपीठिकायां गण्यतामरेषु । तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्येतिष्ठत् । स सर्वगुणैः समृद्धोऽपि दैवादण्डनीत्यां नात्यादृतोऽभूत् । तमेकदा रहसि वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत । ( ५ ) 'तात, सर्वैवात्मसंपदभिजातप्रभृत्यन्यूनैवात्रभवति लक्ष्यते । बुद्धिश्च निसर्गपट्वी, कलासु नृत्यगीतादिषु चित्रेषु च काव्यविस्तरेषु प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते । तथाप्यसावप्रतिपद्यात्मसंस्कार- मर्थशास्त्रेषु, अनग्निसंशोधितेव हेमजातिर्नातिभाति बुद्धिः । बुद्धिहीनो पापेन, दौर्भाग्येनेति यावत् । अमरेषु अगण्यत स्वर्गमगच्छत् । तदायतिः—तस्मात् पुण्यवर्मणः आयतिः प्रभावो यस्य सः । तत्पुत्र इत्यर्थः । स्यात्प्रभावेऽपि चायतिरित्पमरः । दण्डनीत्यां राजनीतौ । अत्याहत आदरवान् । बहुमतः सम्मा- नितः । प्रगल्भवाक् वाक्पटुः । ( ५ ) आत्मसात् पुरुषगुणपरम्परा । अभिजातप्रभृति कुलक्रमानुसारेण । अन्यूना अहीना । अत्रभवति त्वयि । निसर्गेति—निसर्गात् स्वभावात् पट्वी पटुः । चित्रेषु नानाविधेषु । प्राप्तविस्तरा लब्धप्रसरा । प्रतिविशिष्यते विशिष्टा- स्ति । असौ बुद्धिः । अप्रतिपद्य अप्राप्य । आत्मसंस्कारं वासनाम् । अर्थशास्त्रेषु दण्डनीत्यादिषु । अनग्निशोधितेति—अनग्निशोधितं सुवर्णं यथा न शोभते तथा सस्काररहिता । बुद्धिरपीत्यर्थः । अत्युच्छितः अत्युन्नततः । परैः शत्रुभिः । पापोंके कारण स्वर्गके देवगणोंमें जाकर मिल गया । इसके पश्चात् उसका पुत्र अनन्तवर्मा राजसिंहासनपर बैठा । यद्यपि अनन्तवर्मा सभी राजगुणोंसे परिपूर्ण था परन्तु, दुर्भाग्यवश उसकी नीतिसे लोग असन्तुष्ट थे और उसका आदर नहीं करते थे । एक दिन उसके पिताके द्वारा सम्मानित वृद्ध मन्त्री वसुरक्षितने अनन्तवर्माको एकान्त स्थलमें ले जाकर कहा— ( ५ ) हे तात ! स्ववंशानुसार आपमें सभी गुण वर्त्तमान हैं । स्वभावसे ही आप- बुद्धिमैं तीक्ष्ण हैं । औरोंकी अपेक्षा आपमें नृत्य, गीत, काव्यकला, चित्र-चातुर्य भी अधिक है । परन्तु, इन सबके रहते हुए भी आपकी प्रतिभा अर्थशास्त्रके तत्त्वान्वेषणमें असफल है । अतः इसकी शोभा उसी प्रकार हीन लग रही है जैसे अग्निमें बिना तपा हुआ सुवर्ण शोभाहीन रहता है । बुद्धिरहित राजा कितना ही बड़ा क्यों न हो, उसके रिपुगण उसे भीतर ही भीतर खोखला बना देते हैं । यद्यपि ऊपरसे देखनेमें यह बात ज्ञात नहीं होती परन्तु सूक्ष्मतासे ज्ञात हो जाती है । बुद्धिके न होनेसे वह राजा अपने साध्य-साधनोंका विभाग करनेमें असमर्थ रहता है । जो राजा राज्यपदके अनुकूल आचरण नहीं करता।
हि भूभृदत्युच्छ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते । न च शक्तः साध्यं साधनं वा विभज्य वर्तितुम् । अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय । अतिक्रान्तशासनाश्च प्रजा यत्किंचनवादिन्यो यथाकथंचिद्वर्त्तिन्यः सर्वाः स्थितीः संकिरेयुः । निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनमात्मानं च भ्रंशयते । आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा । दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामा- प्रतिहतवृत्ति । तेन हीनः सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुः
अध्यारुह्यमाणम् आक्रम्यमाणम् । चेतयते ज्ञातुं प्रभवति । शक्तः समर्थः । साध्यं कार्यम्, साधनं कारणम्, अथवा साध्यं विपक्षभूतं साधनं सपत्नभूतम् । विभज्य निर्णीय । अयथावृत्तः योग्यचरित्रहीनः । कर्मसु कार्येषु । प्रतिहन्यमानः प्रतिरुध्य- मानः । परिभूयते अवज्ञायते । अलब्धस्य लाभो योगः, लब्धस्य संरक्षणं क्षेमस्तयो- राराधनाय साधनाय अतिक्रान्तं लङ्घितं शासनं नृपादेशो याभिस्ताः । यत्किञ्चन- वादिन्यः अनियन्त्रितभाषिण्यः । यथाकथञ्चिद्वर्त्तिन्यः यथेच्छं विहरन्त्यः । स्थिती- र्मर्यादाः । संकिरेयुः विशृङ्खलयेयुः । इतो लोकात् । अमुतः परलोकात् । भ्रंशयति पातयति । आगमः शास्त्रमेव दीपस्तेन दृष्टेन । वर्तते सम्पद्यते । लोकयात्रा लोकस्थितिः । व्यवहिता विषयान्तरेणाच्छादिताश्च विप्रकृष्टा असन्निहितास्तेषु । अप्रतिहताऽकुण्ठिता वृत्तिः प्रसरो यस्य तत् । चक्षुषा सर्वं द्रष्टुं न प्रभवन्ति जीवाः शास्त्ररूपं दिव्यं चक्षुर्न कुत्रापि प्रतिहतं भवतीति भावः । तेन शास्त्रचक्षुषा । सतोः वर्तमानयोः । शन्तन्तादस्धातोः सप्तमीद्विवचने रूपम् । आयतविशालयोः दीर्घम-
उसे अपने-पराये शत्रु एक न एक दिन अवश्य धर दबाते हैं। ऐसी दशामें वह राजा प्रजासे तिरस्कृत हो जाता है तथा तिरस्कृत राजाकी आज्ञाओंका कोई भी पालन नहीं करता है। तब वह राजा जनताके योग-क्षेमकी व्यवस्था करनेमें अशक्त हो जाता है। ऐसी परिस्थिति होनेपर राजाज्ञाओंका उल्लङ्घन करके प्रजा मनमाने मार्गसे सभी नियमोंको तोड़कर चलने लगती है। नियमविरुद्ध चलनेवाली प्रजा अपनेको, राजाको और राज्यको नष्ट-भ्रष्ट कर डालती है। धर्मशास्त्ररूपी दीपकके प्रकाशमें चलनेसे राजा-प्रजाका जीवन बड़े सुखमें व्यतीत होता है। धर्मशास्त्र दिव्य दृष्टिके समान है जो दृष्टि वर्त्तमान, भूत और भविष्य तथा अज्ञातावश न दिखायी देनेवाले सभी पदार्थोंतक अप्रतिहत गतिसे पहुँच जाती है, कहीं रुकती नहीं है। सुन्दर तथा विशाल नेत्रोंवाले भी अन्धेके समान हैं यदि उनके पास उक्त धर्मशास्त्ररूपी दृष्टि नहीं है, क्योंकि कार्य तथा अकार्यका विचार