BharatKosha
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

चतुर्दशः सर्गः ३२१

Page 577Permalink

चतुर्दशः सर्गः ३२१

दिशः समूहन्निव विक्षिपन्निव प्रभां रवेराकुलयन्निवानिलम् । मुनिश्चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्नि्वेषुभिः ॥ ५० ॥

मल्लि०—दिश इति। क्षयकालः कल्पान्तकाल इव। 'संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि' इत्यमरः। दारुणो रौद्रो मुनिरर्जुनः। इषुभिर्बाणैः। दिशः समूहन्निव एकत्र समाहरन्निव। अन्यथा तासां पारदर्शनं न स्यादिति भावः। रवेः प्रभां विक्षिपन्निव अधः प्रक्षिपन्निव। अन्यथा सा कथं न दृश्यत इति भावः। तथा अनिलं वायुमाकुलयन्निवेषुभिरन्तराल आघूर्णयन्निव। तस्य तथा गतिविधातादिति भावः। सशैलां क्षितिं चलयन्निव कम्पयन्निव। तथा संक्षोभादिति भावः। चचाल गतिमकरोत्। सर्वत्र 'इव' शब्द उत्प्रेक्षायाम् ॥ ५० ॥

हिन्दी—प्रलय-समयके समान भयंकर तपस्वी (अर्जुन) बाणोंसे मानों दिशाओंको एक स्थानमें लाते हुए, मानों सूर्यके तेजको नीचे फेंकते हुए, वायुको बाणोंसे मानों घुमाते हुए, मानों पर्वतके साथ पृथिवीको कम्पित करते हुए घूमने लगे ॥ ५० ॥

विमुक्तमाशंसितशत्रुनिर्जयैरनेकमेकावसरं वनेचरैः। स निर्जघानायुधमन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥ ५१ ॥

मल्लि०—विमुक्तमिति। आशंसितः काङ्क्षितः शत्रुनिर्जयो यैस्तैः। अहमहमिकया शत्रुं विजिगीषद्भिरित्यर्थः। वनेचरैरेकावसरं समकालम्। अत्यन्तसंयोगे द्वितीया। विमुक्तं प्रयुक्तमनेकं बहु आयुधम्। जातावेकवचनम्। सोऽर्जुनः क्रियाफलमतिपातितोऽतिक्रान्तः काल इव। अतिक्रान्तकालस्य कर्मणो निष्फलत्वादिति भावः। अन्तरा मध्ये शरैर्निजघान ॥ ५१ ॥

हिन्दी—शत्रुको जीतनेकी आशा करते हुए किरातोंसे एक ही बार छोडे हुए अनेक हथियारोंको अर्जुनने क्रियाफलको अतिक्रान्त समयके समान बीचमें बाणोंसे प्रहार किया ॥ ५१ ॥

गतैः परेषामविभावनोयतां निवारयद्भिर्विपदं विदूरगैः। भृशं बभूवोपचितो बृहत्फलै शरैरुपा तैरिव पाण्डुनन्दनः ॥ ५२ ॥

मल्लि०—गतैरिति। पाण्डुनन्दनोऽर्जुनः परेषामविभावनीयतां लघुप्रयोगात्, अन्यत्र—गूढप्रयोगाच्च अदृश्यतामप्रकाशयतां च गतैर्विपदममर्थं निवारयद्भिर्विदूरगैः दूरलक्ष्यगैः परमण्डलप्रविष्टैश्च बृहत्फलैरायताग्रैर्महालाभैश्च। 'फलं बाणाग्रलाभयोः'

२१ कि०

Page 578Permalink
३२२किरातार्जुनीयम्

इति शाश्वतः। शरैर्हयाद्यैः सामादिभिरिव भृशमुपचितः प्रवृद्धो बभूव। अत्र शब्दमात्रसाधर्म्यात् प्रकृताप्रकृतश्लेषः। उपमेति केचित् ॥ ५२ ॥

**हिन्दी—**अर्जुन शत्रुओंसे शीघ्रतासे छोड़े जानेसे नहीं जाने जाते हुए, अन्य गूढ प्रयोगसे अदृश्यताको प्राप्त अनर्थका निवारण करते हुए और दूर लक्ष्यको जानेवाले, और परमण्डलको प्रविष्ट, बड़े बाणाग्रवाले, और अधिक लाभवाले बाणोंसे, वा साम आदि उपायोंसे अतिशय समृद्ध हुए ॥ ५२ ॥

दिवः पृथिव्याः ककुभां नु मण्डलात्पतन्ति बिम्बादूत तिग्मतेजसः।
सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥ ५३ ॥

**मल्लि०—**दिव इति। शरा दिवोऽन्तरिक्षात् पृथिव्या भूगोलाद्वा ककुभां मण्डलान्नु दिशां मण्डलाद्वा, उत तिग्मतेजसोऽर्कस्य बिम्बात् मण्डलाद्वा अथवा सकृद्विकृष्टात् कार्मुकाद्वा, मुनेः शरीराद्वा पतन्तीति ते गणा अभिमेनिरे ज्ञातवन्तः। अन्यथा कथममी विश्वमन्तर्धाय शराः संभाव्यन्त इति भावः। अत्र सर्वतः शरसंपातदर्शनात् संभावनया पृथिव्यादीनामन्यतमस्यापादानत्वोत्प्रेक्षा। सा च प्रतीयमाना व्यञ्जकाप्रयोगात् । 'नु' शब्दादयस्तु संशये ॥ ५३ ॥

**हिन्दी—**बाण आकाशसे, पृथिवीसे, दिशाओंके मण्डलसे, अथवा सूर्यमण्डलसे वा एकबार खींचे गये धनुसे अथवा मुनि (अर्जुन) के शरीरसे गिर रहे हैं ऐसा किरात सेना सोचने लगी ॥ ५३ ॥

गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि ।
जयादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्रिभिः ॥ ५४ ॥

**मल्लि०—**गणेति। मर्मविदारणैरपि। मर्मस्थानान्येव विदारयद्भिरपीत्यर्थः। गणाधिपानां परासुतां मरणम् अविधायाकृत्वा निर्गतैः। तेषाममर्त्यत्वादिति भावः। तस्य मुनेः पत्रिभिः शरैः कृतापराधैरिव स्वामिकार्याकरणात् सापराधैरिवेत्युत्प्रेक्षा। अधोमुखैः सद्भिः जवाद्धिमवानतीयेऽतिक्रमे। तत्र प्रविष्टमित्यर्थः। लज्जितस्य क्वचिन्निलयनमुचितमिति भावः ॥ ५४ ॥

**हिन्दी—**मर्मस्थानोंको ही विदीर्ण करते हुए भी प्रमथोंको मारे बिना निकले हुए तपस्वी अर्जुनके बाण अपराध किये हुएके समान अधोमुख होकर वेगपूर्वक हिमालय पर्वतको पार कर गये ॥ ५४ ॥

Page 579Permalink

चतुर्दशः सर्गः३२३

द्विषां क्षतीर्याः प्रथमे शिलीमुखा विभिद्य देहावरणानि चक्रिरे ।
न तासु पेते विशिखैः पुनर्मुनेररुन्तुदत्वं महतां ह्यगोचरः ॥ ५५ ॥

मल्लि०—द्विषामिति । प्रथमे । प्रथममुक्ता इत्यर्थः । शिलीमुखा मुनिशरा द्विषां देहावरणानि वर्माणि विभिद्य याः क्षतीः प्रहारान् चक्रिरे तासु क्षतिषु पुनः पश्चात्प्रयुक्तैर्मुनेर्विशिखैर्न पेते न पतितम् । पिष्टपेषणदोषापातादिति भावः । तथा हि—अरुन्तुदत्वं पीडितपीडनं महतां सतामगोचरोऽविषयं हि । मन्तः पीडितपीडां न कुर्वन्तीत्यर्थः । 'न हन्याद्व्यसनप्राप्तं नार्तं नातिपरिक्षतम्' । इति निषेधस्मरणादिति भावः । अरुः व्रणं तुदतीति अरुन्तुदः । 'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । 'विध्वरुषोस्तुदः' इति खश्प्रत्ययः । 'अरुर्द्विपदजन्तस्य मुम्' इति मुमागमः ॥ ५५ ॥

हिन्दी—पहले छोड़े गये तपस्वी ( अर्जुन ) के बाणोंसे शत्रुओंके शरीरके कवचोंको भेदन कर जो प्रहार किया । उनमें फिर उन्होंने प्रहार नहीं किया । क्योंकि बड़े लोगोंसे दूसरोंका मर्मस्पर्श करना नही देखा जाता है ॥ ५५ ॥

समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः ।
प्रभा हिमांशोरिव पङ्कजावलिं निनाय संकोचमुपापतेश्चमूम् ॥ ५६ ॥

मल्लि०—समुज्झितेति । यावन्तोऽरातयो यावदराति । 'यावदवधारणे' इत्यव्ययीभावः । यावदराति यथा तथा समुज्झिताऽरातिजनसंख्यया मुक्ता मुनिचापात्सह संभूय एव निर्यती निष्क्रामन्ती । तादृक् तस्य कौशलमिति भावः । यातेः शतरि ङीप् । मुनिबाणसंहतिरुमापतेश्चमूं हिमांशोः प्रभा पङ्कजावलिमिव संकोचं निनाय प्रापयामास । दुहादिपाठान्नेयर्द्विकर्मकः ॥ ५६ ॥

हिन्दी—जितने शत्रु हैं उतनी छोड़ी गई तपस्वी ( अर्जुन ) के धनुसे मिलकर निकलती हुई मुनिके बाणोंकी पङ्क्तिने शिवसेनाको जैसे चन्द्रमाकी कान्ति कमल-पङ्क्तिको संकुचित कर देती हैं उसी तरह संकुचित कर दिया ॥ ५६ ॥

अजिह्ममोजिष्ठममोघमक्लमं क्रियासु बह्वीषु पृङ्नियोजितम् ।
प्रसेहिरे सादयितुं न सादिताः शरोधमुत्साहमिकास्य विद्विषः ॥ ५७ ॥

मल्लि०—अजिह्ममिति । अजिह्मं स्वरूपतो गत्या चाऽवक्रम् । अन्यत्र तु—जिह्मस्थानप्रवृत्तो न भवतीत्यजिह्मस्तम् । ओजिष्ठमोजस्विनं सारवत्तमं तेजिष्ठं च । उभयत्रापि 'ओजस्वि' शब्दादिष्ठन्न्तादिष्ठन् । 'विन्मतोर्लुक्' इति लुक् । टिलोपश्च । अमोघमव्यर्थम् अक्लमं निरन्तरव्यापारेऽप्यश्रान्तं बह्वीषु क्रियासु छेदनभेदनपात-

Page 580Permalink

३२४ किरातार्जुनीयम्

नादिकर्मसु पृथक् भेदेन नियोजितम् । कर्मानुगुण्येन विनियुक्तमित्यर्थः । अस्य मुनेः शरोघमुत्साहोत्सुक्यमिव । वीररसस्य स्थायिभूतं प्रयत्नविशेषमिवेत्यर्थः । सादिताः कंपिता विद्दिषः शत्रवः सादयितुं प्रतिकर्तुं न प्रसेहिरे न शेकुः । तस्योत्साहवदेव शरवर्गं दुर्धर्षमभूदिति भावः ॥ ५७ ॥

हिन्दी—अकुटिल अथवा कुटिल स्थानसे प्रवृत्त नहीं होनेवाला, अत्यन्त सारयुक्त वा अतिशय तेजसे सम्पन्न, सफल । अश्रान्त बहुत-सी क्रियाओं (छेदन, भेदन और पातन आदि) में अलग-अलग नियोजित तपस्वी अर्जुनके वाणसमूहके वीररसके स्थायीभाव उत्साहके समान पीड़ित शत्रुलोग प्रतीकार करनेमें समर्थ नहीं हुए ॥ ५७ ॥

शिवध्वजिन्यः प्रतियोधमग्रतः स्फुरन्तमुग्रैषुमयूखमालिनम् ।
तमेकदेशस्थमनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ॥ ५८ ॥

**मल्लि०—**शिवेति । अनेकदेशगा नानादेशस्थाः शिवध्वजिन्यो हरसेनाः। उग्रैषवो मयूखा इवेत्युपमितसमासः । अन्यत्र तु, उग्रैषव इव मयूखा इति मयूरव्यंसकादित्वात्समासः । तेषां मालाऽस्यास्तीति तं उग्रैषुमयूखमालिनम् । व्रीह्यादित्वादिनिः । एकदेशस्थमेकत्रावस्थितं तं मुनिमर्कं प्रजा इव युगपत् प्रतियोधं योधं योधं प्रति । 'अव्ययं विभक्ती—'त्यादिना प्रत्यर्थे वीप्सायामव्ययीभावः । अग्रतः स्फुरन्तं निदध्युर्ददृशुः । यथैकोऽर्क एकत्रैव स्थितोऽपि नानादेशस्थानामपि प्रतिपुरुषं ममैवाग्रे वर्तत इति युगपत् प्रतीयते तद्वद्वाणवर्षी मुनिरपि प्रतियोधं तथैव प्रत्यभादित्यर्थः ॥ ५८ ॥

**हिन्दी—**अनेक स्थानोंमें स्थित शिवजीकी सेनाएँ किरणोंके समान उग्र बाण अथवा उग्रवाणोंके समान किरणें उनकी पङ्क्तिवाले एक स्थानमें स्थित अर्जुनको सूर्यको प्रजाओंके समान एक-ही बार अपने सामने अवस्थित देखने लगीं । ५८ ।

मुनेः शरोघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता ।
विधूनितं भ्रान्तिमियाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥ ५९ ॥

**मल्लि०—**मुनेरिति । प्रकोपात् अमर्षादिव विष्वक् समन्तात् आयताऽगच्छता, उग्ररंहसा तीव्रवेगेन मुनेः शरोघेणोक्तविशेषणेन । महानिलेन वात्यया निदाघजं ग्रीष्मोत्थं रज इव । विधूनितं व्याहतं तत् बलं प्रमथानां सैन्यं सङ्गिनीमनुबन्धिनीम् । अविच्छिन्नामिति यावत् । भ्रान्तिमनवस्थानम् । इयाय प्राप ॥ ५९ ॥

Page 581Permalink

चतुर्दशः सर्गः ३२९

**हिन्दी—**मानों कोपसे चारों ओरसे आते हुए तीव्र वेगवाले अर्जुनके बाण-समूहसे बवण्डरसे ग्रीष्मसे उत्पन्न धूलके समान ताडित होकर प्रमथोंका सैन्य लगातार भ्रान्ति (भ्रमण) को प्राप्त होने लगा ॥ ५९ ॥

अथ त्रिभिर्विशेषकमाह— तपोबलेनैव विधाय भूयसोस्तनूरदृश्याः स्विदिषून्निरस्यति । अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ॥ ६०॥

**मल्लि०—**तप इत्यादि । एष मुनिः । तपोबलेन तपःसामर्थ्येन भूयसीर्बह्वीः । अदृश्या स्तनूरात्मनः शरीराणि विधाय सृष्ट्वा, इषून्निरस्यति स्विन् क्षिपति किम् । अथवा, अमुष्यास्य मुनेः । मायया विहितं प्रतिहतं स्वं स्वकीयमिव आयुधं प्रतीपं प्रतिकूलम् । आगत्य । प्रत्यावृत्त्येत्यर्थः । नोऽस्माकं निहन्ति किमु । 'जासिनिप्रहणे-' त्यादि सूत्रेण कर्मणि षष्ठी । शेषविवक्षायां तु द्वितीया ॥ ६० ॥

**हिन्दी—**यह तपस्वी तपस्याके सामर्थ्य से बहुत से अदृश्य शरीरों को बना कर बाण छोड रहा है क्या ? अथवा इसकी मायासे नष्ट आयुध प्रतिकूल होकर (लोट कर ) हमलोगों पर प्रहार कर रहा है क्या ? ( प्रमथलोग ऐसा सोचने लगे ) ॥ ६० ॥

हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित्प्रहरन्ति देवताः । कथं न्वमी संततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥ ६१ ॥

**मल्लि०—**हृता इति । यद्वा, अस्य मुनेर्गुणैः शान्त्यादिभिः हृता आकृष्टाः । वशीकृता इति यावत् । भयेन दरेण वा । भयाद्विभ्यत्य एवेत्यर्थः । देवतास्तिरोहिताः सत्य प्रहरन्ति स्विन् । तत्कुतः । अन्यथा, अस्य मुनेः । अमी सायका जलधेरुर्मय इव कथं नु संततमनेकेऽसङ्ख्या भवन्ति । एतच्चोद्यमन्यसपक्षसंभवेन न संभवतीत्यर्थः । [ 'एक' शब्दस्यैकशेषे कृते एक इति रूपमिति केचित् । 'नु' शब्दस्त्वन्यार्थे ] ॥ ६१ ॥

**हिन्दी—**अथवा इस तपस्वीके गुणोंसे आकृष्ट होकर वा तपस्वीके भयसे देवता लोग अदृश्य होकर प्रहार कर रहे हैं क्या ? नहीं तो इस तपस्वीके ये बाण समुद्रकी तरङ्गोंकी तरह लगातार कैसे असंख्य हो रहे हैं ? ॥ ६१ ॥ ( प्रमथलोग ऐसा सोचन लगे ) ।

Page 582Permalink

३२६ | किरातार्जुनीयम्

जयेन कच्चिद्विरमेदयं रणाद्भवेदपि स्वस्ति चराचराय वा।
तताप कीर्णा नृपसूनुमार्गणेरिति प्रतर्काकुलिता पताकिनी॥ ६२॥

मल्लि०-- जयेनेति। कच्चिदयं रणाज्जयेन विरमेत्। अस्मान्जित्वा कच्चि- दयं युद्धमुपसंहरेदित्यर्थः। अपि चराचराय स्वस्ति भवेत् कच्चित्। अपि स्थावर- जङ्गमं जगन्न विनश्येदित्यर्थः। 'अपि' शब्दः संभावनायाम्। प्रार्थनायां लिङ्। इति प्रतर्काकुलिता पूर्वोक्ता ये प्रतर्कास्तैः आकुलिता विह्वला। अत्र सहेतुकं विशेषमाह— नृपसूनुमार्गणेरर्जुनबाणैः कीर्णा विद्धा पताकिनी सेना। किरातपते- रिति शेषः। तताप तापं प्राप॥ ६२॥

हिन्दी— यह (तपस्वी) जयलाभ करके युद्धसे विरत होगा क्या? स्थावर और जङ्गम प्राणियोंका कल्याण भी होगा क्या? इस प्रकारके तर्कसे आकुल होकर अर्जुनके बाणोंसे विद्ध प्रमथोंकी सेना सन्तप्त होने लगी॥ ६२॥

अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः।
बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना॥ ६३॥

मल्लि०— अमर्षिणेति। अमर्षिणा क्रोधवता क्षमाश्रयं शान्तिसाध्यं कृत्यमिव। क्षमासाध्यं हि कृत्यं सामर्षैनिरस्यते, तच्च निरस्तं न शोभते। मदोद्धतेन पुंसा हितं प्रियं वचो निरस्तं तिरस्कृतमिव। यथा बलीयसा बलवत्तरेण विधिना दैवेन निरस्तं पौरुषमिव। बलीयसा दैवेन प्रतिहतपुरुषव्यापारस्य निष्फलत्वादिति भावः। तथा जिष्णुनाऽर्जुनेन निरस्तं क्षिप्तं बलं किरातसैन्यं न रराज। मालो- पमा॥ ६३॥

हिन्दी— क्रोधी पुरुषसे शान्तिसे सिद्ध होने वाले कार्यके समान, मदसे उद्धत पुरुषसे तिरस्कृत हित और प्रियवचनके समान, अधिक बलसे युक्त भाग्यसे प्रतिहत पुरुषार्थके समान जयशील अर्जुनसे प्रतिहत होकर प्रमथसेना शोभित नहीं हुई॥ ६३॥

प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः।
रविकरग्लपितैरिव वारिभिः शिवबलैः परिमण्डलता दधे॥ ६४॥

मल्लि०— प्रतिदिशमिति। प्लवगानामधिपोऽधीशो लक्ष्म यस्य तेन वानर- चिह्नेन। 'कपिप्लवङ्गप्लवगे-'ति, 'चिह्नं लक्ष्म च लक्षणम्' इति चामरः। अर्जुनेन विशिखसंहतितापितमूर्तिभिरिति। विशिखा बाणास्तेषां संहतयः समूहाः।

Page 583Permalink

चतुर्दशः सर्गः [३२७]

• 'स्त्रिया तु संहतिर्वृन्दम्' इत्यमरः। तामिस्तापिताः पीडिता मूर्तयो देहा येषां तैस्तथामूर्तैः। शरनिकरकर्तितकलेवरैरित्यर्थः। शिवबलैः प्रमथसैन्यैः कर्तृभिः, रविकरेण ग्लपितैः सूर्यकिरणशोषितैर्वारिभिरुदकैरिव, प्रतिदिशं दिक्षु परिमण्डलता परितश्चक्राकारमण्डलेतेति यावत्। दधेऽधारि प्रतिदिशं मण्डलाकारेण स्थितमित्यर्थः। धाञः कर्मणि लिट्। आतपतप्तं हि नीरं परिभ्रमति तद्वन्मुनिपीडितं सैन्यं बभ्रामेत्यर्थः। द्रुतविलम्बितं छन्दः—'द्रुतविलम्बितमाह नभौ भरौ'। इति लक्षणात् ॥ ६४ ॥

हिन्दी— कपिध्वज अर्जुनसे बाणसमूहसे सन्तप्तमूर्त्तिवाली प्रमथसेनाएं सूर्य-किरणोंसे सुखाये गये जलोंके समान प्रत्येक दिशाओंमें मण्डलाकार हो गई । ६४।


प्रविततशरजालच्छन्नविश्वान्तराले
विधुवति धनुराविर्मण्डलं पाण्डुसूनौ ।
कथमपि जयलक्ष्मीर्भीतभीता विहातुं
विषमनयनसेनापक्षपातं विषेहे ॥ ६५ ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः।

मल्लि०— प्रविततेति। प्रविततानि विस्तीर्णानि यानि शरजालानि तैः छन्नमाच्छादितं विश्वान्तरालं येन तस्मिञ्छरसमूहपूरितब्रह्माण्डोदरे पाण्डुसूनौ अत एव आविर्मण्डलमाविर्भूतमण्डलं धनुः। आविर्भूतं मण्डलं यस्य धनुष इति वृत्तौ भूतार्थस्यानुप्रवेशात् 'भूत' शब्दस्याप्रयोगः। विधुवति कम्पयत्यास्फालयति सति भीतभीतेव भीतप्रकारेव जयलक्ष्मीर्विजयश्रीः कथमपि केनचित्प्रकारेण। महता कष्टेन वा। विषमनयनसेनापक्षपातं शिवसैन्यानुरागं विहातुं त्यक्तुं विषेहे। शशाकेत्यर्थः। मालिनीवृत्तम्। लक्षणं तूक्तम् ॥ ६५ ॥

इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां चतुर्दशः सर्गः समाप्तः ।

हिन्दी— विस्तृत बाणसमूहोंसे विश्वके अन्तरालको आच्छादित करनेवाले अर्जुनके मण्डलाकार किये गये धनुको कम्पित करनेपर डरी हुई-सी विजयलक्ष्मी किसी प्रकार अथवा बड़े कष्टसे शिवसेनाके अनुरागको छोड़नेको समर्थ हुई ॥ ६५॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः।

Page 584Permalink

पञ्चदशः सर्गः

अथ भूतानि वार्त्रघ्नशरैस्त्रस्तस्त तत्रसुः ।
भेजे दिशः परित्यक्तमहेष्वासा च सा चमूः ॥ १ ॥

मल्लि०—अथेति । अथानन्तरम् । तत्र रणे भूतानि सर्वप्राणिनः । वृत्रं हतवानिति वृत्रहेन्द्रः । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' । तस्यापत्यं पुमान् वार्त्रघ्नोऽर्जुनः । 'तस्यापत्यम्' इत्यण्प्रत्ययः । तस्य शरैस्त्रस्तत्रसमुद्विग्भूः । 'वा जृम्भमुत्रसाम्' इति विकल्पादेत्वाभ्यासलोपाभावः । सा चमूश्च । इषवोऽस्यन्त एभिरितीष्वासा धनूंषि । 'धनुष्काण्डेऽस्त्रमिष्वासः' इति हेमचन्द्रः । 'अकर्तरि च कारके संज्ञायाम्' इति करणे घञ् । परित्यक्ता महान्त इष्वासा यया सा । परित्यक्तायुधेत्यर्थः । दिशो भेजे । पलायाञ्चक्र इत्यर्थः । अत्र भूतत्राससेनापलायनयोः समुच्चयकथनाद्द्विसद्विषयः क्रियासमुच्चयोऽलङ्कारः । 'गुणक्रियायौगपद्यं समुच्चयः' इति सामान्यलक्षणम् । तस्य यमकेन संसृष्टिः ॥ १ ॥

हिन्दी—तदनन्तर उस युद्धमें समस्त प्राणी अर्जुनके बाणोंसे त्रस्त हो गये, ह प्रमथसेना भी आयुधोंका परित्याग कर दशों दिशाओमे भाग गई ॥ १ ॥

अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मनः ॥ २ ॥

मल्लि०—अपश्यद्भिरिति । गणैः प्रमथैः । ईशानं स्वामिनं शिवम् । पुरोवर्तिनमिति भावः । अपश्यद्भिरिव रणान्निववृते निवृतम् । भावे लिट् । तथा हि—कृच्छ्रेषु आपत्सु संभ्रमेण साध्वसेन ज्वलितं तप्तम् । 'संभ्रमः साध्वसेऽपि स्यात्' इति विश्वः । मनो मुह्यत्येव । अतः पुरोवर्तिनोऽप्यदर्शनमुपपद्यत इति भावः ॥ २ ॥

हिन्दी—प्रमथगण स्वामी शिवजीको न देखते हुए-से होकर युद्धसे निवृत्त हो गये, क्योंकि विपत्तियोंमें घबराहटसे सन्तप्त होकर मन मोहयुक्त हो जाता है ॥ २ ॥

खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतौ कृतोच्चैर्ध्वानरं नरम् ॥ ३ ॥

मल्लि०—खण्डितेति । खण्डिता ध्वस्ता आशंका जयाशा यस्यास्तया तेषां

Page 585Permalink

पञ्चदशः सर्गः ३२९

गणानां संवन्धिन्या तया । अतिसंनिकृष्टयेत्यर्थः । पराङ्मुखतया रणवैमुख्येन । पलायनेनेत्यर्थः । केतौ ध्वजे कृत आरोपित उच्चैरून्नतो वानरो हनुमान् येन तं नरं पुरुषम् । कपिध्वजमित्यर्थः । कृपा करुणा । आविवेश । तदीयदुर्दशां दृष्ट्वा स कृपाविष्टोऽभूदित्यर्थः । यमकालङ्कारः ॥ ३ ॥

हिन्दी—विजयकी आशासे रहित उन प्रमथोंके पलायनसे कपिध्वज अर्जुन दयासे युक्त हो गये ॥ ३ ॥

आस्थामलम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ ४ ॥

मल्लि०—आस्थामिति । आस्थां यत्नमालम्ब्य । 'आस्था त्वालम्बनास्थान-यत्नापेक्षासु कथ्यते' इति विश्वः । वशं नीतेषु क्षुद्रेषु अरातिषु शत्रु षु विषयेऽनुकम्पया कृपया महतां वीराणां माहात्म्यं महानुभावत्वं व्यक्ति स्फुटताम् । आयाति प्राप्नोति । स्वपौरुषनिर्जितेष्वरतिष्वपि करुणा भूषणमेव महतामिति भावः ॥ ४ ॥

हिन्दी—प्रयत्नका अवलम्बन कर क्षुद्र शत्रुओंके वशवर्ती होने पर वीर पुरुषोंकी महानुभावता दयासे व्यक्त हो जाती है ॥ ४ ॥

स सासिः सासुसूः सासो येयायेयाययाययः ।
ललो लीलां ललोऽलोलः शशोशशिशुशोः शशन् ॥ ५ ॥
( एकाक्षरपदः )

मल्लि०—स सासिरिति । सहासिना वर्तमानः सासिः सखड्गः असून् सुवन्ति प्रेरयन्तीत्यसुवो बाणाः । 'षू प्रेरणे' इति धातोः 'सत्सूद्विषे-'त्यादिना क्विप् । असुसूभिः सह वर्तत इति सासुसूः सबाणः । अस्यन्ते क्षिप्यन्ते शरा अनेनेत्यासो धनुः । 'अकर्तरि च कारके संज्ञायाम्' इति घञ् । आसेन सह वर्तत इति सासः सचापः । सर्वत्र 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । येया यातव्या यानसाध्याः अयेया अयातव्या यानं विनैव साध्याः । 'अचो यत्' इति यत्प्रत्ययः । येयाश्च अयेयाश्च येयायेयाः, तेषां द्वयानामाये स्वर्णगजादिलाभे याति येयायेयाययः । अयं शुभावहर्दैवं यातोत्यर्थः । येयायेयाययश्चासौ अययश्चेति येयायेयाययाययः । याधातो-रुभयत्रापि 'आतोऽनुपसर्गे कः' इति कप्रत्ययः । लतो ललति विलसतीति ललः । 'लल विलासे' पचाद्यच् । अलोलोऽचपलः । शशिन ईशः शिवस्तस्य शिशुः स्कन्द-स्तं शृणाति हिनस्तीति शशीशशिशुशोः । क्विप् । शशन् प्लुतगति कुर्वन् । 'शश

Page 586Permalink
३३०किरातार्जुनीयम्

प्लुतगतौ' इति धातोः शतृप्रत्ययः। सोऽर्जुनो लीलां शोभां ललौ प्राप। 'ला आदाने' कर्तरि लिट् ॥ ५ ॥

**हिन्दी—**साऽसिः = असि (तलवार) को लिये हुए, साऽसुसूः = असु (प्राण)-को प्रेरणा करनेवाले अर्थात् बाण उसको लिये हुए, साऽसः = आस = बाणोंको छोड़नेवाला धनु, उससे युक्त, येयायेयायनायायथः = अर्थात् येयाः (यानसे साध्य) अयेयाः (यानके बिना साध्य), येयाऽयेयानम् (यान साध्य और अयानसाध्य) इनके आये (सुवर्ण और गज आदिके लाभमे) याति (जो प्राप्त होता है), अयम् (शुभकारक भाग्य) को जो याति (प्राप्त करता है), इस कारणसे ललः (शोभित होनेवाला), अलोलः (जो लोल अर्थात् चपल नहीं है) शशीशः = शशी (चन्द्रमा) उनके ईश (स्वामी) अर्थात् शिवजी, उनके शिशु (बालक अर्थात् स्कन्द), उनका ताडनकरनेवाले शशन् = प्लुतगति करते हुए सः = अर्जुन लीलां (शोभा) को ललौ = प्राप्त हुए ॥ ५ ॥

**हिन्दी—**हाथमें तलवार, बाण और धनुषको लिये हुए और यानसाध्य और अयानसाध्य दोनों प्रकारके सुवर्ण और हाथी आदिके लाभमें प्राप्त होनेवाले शुभदायक भाग्यको प्राप्त करनेवाले शोभायुक्त चञ्चल न होकर शिवपुत्र स्कन्दको पीडित करते हुए प्लुत गतिवाले होकर अर्जुन शोभित हुए ॥ ५ ॥

यह "एकाक्षर पद्य" नामका चित्रकाव्य है।

त्रासजिह्मं यतश्चैतान् मन्दमेवान्वियाय सः।
नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः॥ ६ ॥

**मल्लि०—**त्रासेति। सोऽर्जुनः। त्रासजिह्मं भयविलम्बं यथा तथा यतो गच्छतः। पलायमानानित्यर्थः। एतान् गणान् मन्दमेव। अन्वियायानुजगाम। तथा हि—महौजसो महानुभावा भग्नानतिपीडयितुं नेच्छन्ति ॥ ६ ॥

**हिन्दी—**अर्जुनने भयसे कुटिल होकर जाते हुए (भागते हुए) इन गणों का मन्दगतिसे अनुगमन किया, क्योंकि महानुभावलोग भागे हुएको ज्यादा पीडित करना नहीं चाहते हैं ॥ ६ ॥

अथाग्रे हसता साचिस्थितेन स्थिरकीर्तिना।
सेनान्या ते जगदिरे किञ्चिदायस्तचेतसा॥ ७ ॥
(निरोष्ठ्यम्)

पञ्चदशः सर्गः ३३१

Page 587Permalink

पञ्चदशः सर्गः ३३१

मल्लि०--अयेति । अथाग्रे । बलानामित्यर्थः । हसता तद्भङ्गदर्शनात्समय- मानेन साचिस्थिततेन तन्निवारणाय तिर्यग्व्यवस्थितेन । 'तिर्यगर्थे साचि तिरः' इत्यमरः । स्थिरकीर्तिना । स्वयमभङ्ग्त्वादिति भावः । किंचिदीषद् बायस्तं खिन्नं चेतो यस्य तेन स्वकीयगणभङ्गादीपरिखिन्नचित्तेन सेनान्या स्कन्देन । 'पार्वतीन्दनः स्कन्दः सेनानीरग्निभूर्गुहः' इत्यमरः । ते गणाः प्रमथादयो जगदिरे उक्ताः । ओष्ठ्यवर्णाभावान्निरोष्ठ्यमेतत् ॥ ७ ॥

हिन्दी—अनन्तर सेनाओंके सामने हँसते हुए उनको रोकनेके लिए तिरछे होकर रहे हुए स्थिर कीर्तिवाले और कुछ खिन्न चित्तवाले होकर सेनापति कार्तिकेय उन सैनिकोंको कहने लगे । यह निरोष्ठ्य नामक चित्रकाव्य है, इसमें ओष्ठस्थानीय वर्ण नहीं हैं ॥ ७ ॥

अथैकविंशतिभिः श्लोकैः स्कन्दवाक्यमेवाह--

मा विहासिष्ट समरं समरन्तव्यसंयतः । क्षतं क्षुण्णासुरगणैरगणेरिव किं यशः ॥ ८ ॥ ( पादान्तादियमकम् )

मल्लि०--मा विहासिष्टेत्यादि । रन्तव्यं रमणं क्रीडा । बहुलग्रहणाद्भावे तव्यप्रत्ययः । संयद्युद्धम् । 'समुदायः स्त्रियः संयत्समिदाजिरिमियुधः' इत्यमरः । समे रन्तव्यसंयती येषां ते समरन्तव्यसंयतः तुल्यक्रीडासंगरा इति तेषां संबोधनम् । यूयं समरं संग्राम मा विहासिष्ट न त्यजत । जहातेर्भाङि लुङ् । मध्यमबहुवचनम् । क्षुण्णाः पराजिता असुरगणा यैस्तैः । भवद्भिरिति शेषः । अगणैरिव गणेभ्योऽन्यै- रिव किं किमर्थं यशः क्षतं नाशितम् । नैतद्युक्तं महाशूराणां भवादृशानामित्यर्थः ८।

हिन्दी-रमण और युद्धको समान समझनेवाले हे प्रमथो ! तुमलोग संग्रामको मत छोड़ो । दैत्यगणोंको जीतनेवाले तुमलोग गणोंसे इतर ( भिन्न )के समान होकर अपने यशको क्यों नष्ट कर रहे हो ? । यह 'पादान्तादियमक' नामका चित्रकाव्य है ॥ ८ ॥

विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः । अमो वो मोघमुद्गूर्णा हसन्तीव महासयः ॥ ९ ॥

मल्लि०--विवस्वदिति । विवस्वदंशुसंश्लेषणे सूर्यकिरणसंपर्केण द्विगुणी- कृतानि उत्तेजितानि तेजांसि येषां ते तथोक्ता मोघं व्यर्थम् उद्गूर्णा उद्यताः ।

Page 588Permalink

३३२ किरातार्जुनीयम्

'गुरी उद्यमने' इति धातोः कर्मणि क्तः। वो युष्माकम्। अमो महासयः सङ्गा हसन्तीवेत्युत्प्रेक्षा। किं पलायमानानां खड्गैरिति हासः ॥ ९ ॥

हिन्दी—सूर्यकी किरणोंके सम्पर्कसे द्विगुण तेजवाला व्यर्थ ही उठाया गया तुमलोगोंका यह विशाल खड्ग मानों उपहास कर रहा है ॥ ९ ॥

वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम्।
वाणैर्वाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥ १० ॥
[ पादादियमकम् ]

मल्लि०—वन इति। वनसदां वनेचराणाम्। अवने रक्षके, वने मार्गं मृगसंबन्धिनं मार्गं पन्थानम्। उपेयुषाम्। पलायमानामित्यर्थः। युष्माकमिति शेषः। बाणो ध्वनिरेषामस्तीति तैर्बाणैर्ध्वनियुक्तैः। 'वण संशब्देने' इति धातोरर्घम्। ततः 'अर्शआदिभ्योऽच्' इत्यच्प्रत्ययः। यमकत्वाद् बवयोरभेदः। उक्तं च—'रलयोर्डलयोस्तद्वज्जशययोर्बवयोरपि। सविन्दुकाबिन्दुकयोः स्यादभेदेन कल्पनम्।' इति। वाणैः शरैः समासक्तं समासङ्गितम् अशं दुःखं तत् केन शाम्यतीति शङ्के। केनोपायेन शाम्येदिति विचारयामीत्यर्थः ॥ १० ॥

हिन्दी—वनचरोंके रक्षक वनमें रास्ते रास्तेमें प्राप्त होनेवाले (भागते हुए) तुमलोगोंके ध्वनियुक्त बाणोंसे सम्बद्ध दुःख किस उपायसे शान्त होगा ? मैं ऐसी आशङ्का कर रहा हूँ। यह 'पादादियमक' नामक चित्रकाव्यका उदाहरण है। १०।

पतितोत्तुङ्गमाहात्म्यैः संहतायतकीर्तिभिः।
गुर्वी कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥ ११ ॥

मल्लि०—पातितेति। पातितं भ्रंशितम् उत्तुङ्गमहात्म्यमुन्नतभावा यैस्तैः संहता आहृता आयता विस्तुताः कीर्तयो यैस्तैः। युष्माभिरिति शेषः। कां गुर्वीमापदं हन्तुम्। न कांचिदपीत्यर्थः। आवृत्तिर्युद्धाद्विनिवृत्तिः। सैव साहसं कृतम्। अतः पापादन्यत्र किंचित्फलमस्तीति भावः। तदुक्तं मनुना—'यस्तु भीत परावृत्तः संग्रामे हन्यते परैः। भर्तुर्यद्दुष्कृतं किचित्तत्सर्वं प्रतिपद्यते॥ यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम्। भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥' इति ॥ ११ ॥

हिन्दी—उन्नत महत्त्वको भ्रष्ट करनेवाले, विस्तृत कीतिका संहार करनेवाले तुमलोगोंने कौन-सी बड़ी आपत्तिको नाश करनेके लिए युद्धसे भागने का साहस कर लिया है ? ॥ ११ ॥

Page 589Permalink

पञ्चदशः सर्गः ३३३

नासुरोऽयं, न वा नागो घरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥ १२ ॥

( गोमूत्रिक बन्ध )

मल्लि०— नेति । वि.च, अयमसुरो दैत्यो न । नागो नागराजो वा पन्नगश्च न । घर इव संस्था यस्य स घरसंस्थः पर्वताकारः । 'अहार्य्यघरपर्वताः' इत्यमरः । 'संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु' इति वैजयन्ती । राक्षसो न । किंतु अयं सुखयतीति सुखः । सुखसाध्य इत्यर्थः । नवाभोगोऽभिनवप्रयत्नः । महोत्साह इत्यर्थः । 'आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि' इति विश्वः । धरणिस्थो भूतलचारी राजसो रजोगुणप्रधानो ना पुरुषो हि । कश्चिन्मानुष इत्यर्थः । 'पुरुषाः पूरुषा नरः । मनुष्या मानुषा मर्त्या मनुजा मानवा नरा' इत्यमरः । अतो न पलायनमुचितमिति भावः । गोमूत्रिकाबन्धः—'वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः । गोमूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः ।' इति लक्षणात् । षोडशकोष्ठद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥ १२ ॥

हिन्दी— ( हे प्रमथो ! ) यह ( तपस्वी ) दैत्य नहीं है, न नाग है, न पर्वताकार राक्षस है, किन्तु यह सुखसाध्य और महान् उत्साहसे युक्त भूतलमें रहनेवाला रजोगुणी पुरुष है ॥ १२ ॥

मन्दमस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥ १३ ॥

मल्लि०— मन्दमिति । एष मुनिर्घृणया कृपया । इषुं लतां शाखामिव मन्दमस्यन् क्षिपन् वो युष्मान् पशूनिवागतावज्ञं यथा तथा जघनेषु प्रणुदति चोदयति । किमतः परं कष्टमस्तीति भावः ॥ १३ ॥

हिन्दी— ( हे प्रमथो ! ) यह ( तपस्वी ) कृपासे शाखाकी तरह बाणको छोड़ता हुआ तुमलोगोंको पशुओंकी तरह अनादरपूर्वक जघन स्थानोंमें प्रहार कर रहा है, ( इससे ज्यादा कष्ट क्या है ? ) यह 'गोमूत्रिका बन्ध' नामक चित्रकाव्यका उदाहरण है ॥ १३ ॥

न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ १४ ॥

( एकाक्षरः । )

Page 590Permalink

३३४ | किरातार्जुनीयम्

मल्लि०—नेति। पदच्छेदस्तावत्—न ना ऊननुन्नः नुन्नोनः ना अना नानानना ननु। नुन्नः अनुन्नः ननुन्नेनः ना अनेनाः नुन्ननुन्ननुत्। अथ योजना—हे नानाननाः नानाप्रकाराण्याननानि येषां ते। नानाविधास्या इत्यर्थः। ऊनेन = निकृष्टेन नुन्नो विद्ध ऊननुन्नो यः स ना न = पुरुषो न। तथा नुन्न ऊनो येन स नुन्नोनो ना = पुरुषोऽना ननु अपुरुषः खलु। ऊनाद्भीतः पलायमानस्तु किं वक्तव्यमिति भावः। किञ्च, नुन्न इनः स्वामी यस्य स नुन्नेनः। स न भवतीति ननुन्नेनः। नञर्थस्य 'न' शब्दस्य सुप्सुपेति समासः। सनुन्नो विद्धोऽपि अनुन्नोऽविद्ध एव। यूयमनुन्नस्वामिकत्वादनुन्ना एवेति भावः। तथा नुन्ननुन्ननुदतिशयेन नुन्ना नुन्ननुन्नास्तान् दुदतीति नुन्ननुन्ननुत्। अतिपीडितपीडको ना पुरुषोऽनेना निर्दोषो न भवतीति, किन्तु सदोष एवेति। 'नातं नातिपरिक्षतम्' इति निषेधादित्यर्थः। अयं तु नैतादृश इति। न पलायितव्यमिति भावः। अयमेकव्यञ्जनः। अन्त्यस्तकारस्तु न दोषावहः 'नान्त्यवर्णस्तु भेदकः' इत्यभ्यनुज्ञानात् ॥ १४ ॥

हिन्दी—हे नानाऽऽननाः = हे नाना (अनेक) प्रकारके आननों (मुखों) वाले ! ऊननुन्नः = ऊन (निकृष्ट) से नुन्न (विद्ध) जो पुरुष है, वह ना (पुरुष) न = नहीं है। नुन्नोनः = नुन्न, (विद्ध) है ऊनः (निकृष्ट) पुरुष जिससे, वह ना = पुरुष, अना = पुरुष नहीं है और नुन्नेनः = नुन्नः (विद्ध) है इन (स्वामी) जिसका, वह नुन्नेनः = जो ऐसा नहीं है ननुन्नेनः, वह नुन्नः (विद्ध) होकर भी अनुन्नः (विद्ध) नहीं है, तुम अनुन्न (अविद्ध) स्वामीवाले होनेसे अनुन्न विद्ध नहीं हो। नुन्ननुन्ननुत् = नुन्ननुन्नान् (अत्यन्त विद्ध जनोंको) नुत्, पीड़ित करनेवाला, ना = पुरुष, अनेनाः = निर्दोष, न = नहीं होता है अर्थात् दोषी होता है (यह तपस्वी ऐसा नहीं है, इस कारण तुमलोगोंको भागना उचित नहीं है)। यह पद्य 'एकाक्षर' नामक चित्रकाव्यका उदाहरण है ॥ १४ ॥

वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान्।
प्रकृत्या ह्यमणिः श्रेयानालङ्कारश्च्युतोपलः ॥ १५ ॥

मल्लि०—वरमिति। कृताः पूर्वमुत्पादिताः पश्चाद् ध्वस्ता नष्टास्ते कृतध्वस्ताः 'पूर्वकाले'त्यादिना समासः। कृतध्वस्ता गुणा यस्य तस्मात् पुंसः। अत्यन्तमतिशयेनागुणो निर्गुणः पुमान् वरं = मनाक्प्रियः। किञ्चित्प्रिय इत्यर्थः। 'वरं क्लीबे मनाक्प्रिये' इत्यमरः। तथा हि—प्रकृत्या स्वभावेन। अमणिर्मणिरहितोऽलङ्कारो...

Page 591Permalink

पञ्चदशः सर्गः [३३५]

श्रेयान्। च्युतोपलो मणिरत्नो न श्रेयान्। ‘उपलः प्रस्तरे रत्ने’ इति विश्वः। पलायितुः समरादसमर एव वरमिति भावः। अत्र समानविद्यनारोपयोः प्रतिबिम्ब-करणाद् दृष्टान्तालङ्कारः॥ १५॥

हिन्दी—पहले गुणोंको उत्पन्न करनेवाला पीछे उनको नष्ट करनेवाले पुरुषसे निर्गुण पुरुष कुछ अच्छा है। जैसे कि स्वभावसे मणिरहित अलङ्कार विशेषतः अच्छा होता है परन्तु भ्रष्ट रत्नवाला अलंकार अच्छा नहीं होता है अर्थात् युद्धसे भागनेवालेको युद्धमें न जाना ही अच्छा होता है ॥ १५ ॥


स्यन्दना नो चतुरगाः सुरेभा वाऽविपत्तयः।
स्यन्दना नो च तुरगाः सुरेभा वा विपत्तयः॥ १६॥
(समुद्गकः।)

मल्लि०—स्यन्दना इति स्यन्दन्ते गच्छन्तीति स्यन्दना जवनाः। स्यन्दना रथा नो सन्ति। नन्दगामिनस्त्वल्पम् ... चतुरं गच्छन्तीति चतुरगाः। तुरगाश्च अश्वा नो सन्ति। सुरेभाः शोभनबृंहिताः। सुरेभा वा सुरगजाश्च नो सन्ति। अविपत्तयो विपत्तिरहिताः विपत्तयो वा विगतायः पदातयो नो सन्ति। अतो न भेतव्यमिति भावः। अत्र पूर्वोत्तरार्धगतानां विशेषणानां विशेष्याणां चोद्देश्योद्देश्यीभूतानां यथासंख्यसंबन्धानुक्रमाद्यथासंख्यालंकारो यमकेन संसृष्टः॥ १६॥

हिन्दी—इस पुरुषके, स्यन्दनाः = वेगवाले, स्यन्दनाः = रथ, नो = नहीं हैं। अथवा चतुरगाः = अच्छी तरह चलनेवाले, तुरगा = घोड़े, नहीं = नहीं हैं। वा = अथवा, सुरेभा = सुन्दर आवाजवाले सुरेभाः = सुरों (देवताओं) के इभाः (हाथी) भी, नो = नहीं हैं। वा = अथवा अविपत्तयः = विपत्तिसे रहित, वि-पत्तयः = विशिष्ट, पत्तियां = पैदल सेनाएँ, भी, नो = नहीं है। (इस कारणसे तुमलोगोंको डरना उचित नहीं है)। यह 'समुद्गक' नामक चित्रकाव्यका उदाहरण है। इसमें यमक और यथासंख्य अलंकारकी संसृष्टि है ॥ १६ ॥


भवद्भिरधुनाऽरातिपरिहापितपौरुषैः।
ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्तरः॥ १७॥

मल्लि०—भवद्भिरिति। अधुनाऽरातिभिः परिहापितानि त्याजितानि पौरुषाणि यैस्तैर्भवद्भिः। अर्कनिष्पीतैरर्केण संशोषितैर्ह्रदैरिव। दुरुत्तरो दुस्तरः पङ्क इव पङ्को दुष्कीर्तिरूपः प्राप्तः ॥ १७ ॥

Page 592Permalink

३३६ | किरातार्जुनीयम्

हिन्दी—इस समय शत्रुसे पुरुषार्थका त्याग कराये गये तुमलोगोंने दुःखसे सुखाये गये तालाब जैसे दुस्तर पङ्क (कीचड़) को प्राप्त करता है वैसे ही दुःखसे हटाये जानेवाला पङ्क (कलङ्क) को प्राप्त कर लिया है ॥ १७ ॥

वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥ १८ ॥
(प्रतिलोमानुलोमपादः)

मल्लि०वेत्रेति । वेत्राणि = वंशाः फलिन्यो वा । शाका बर्बराश्च कुजा वृक्षा यस्मिंस्तस्मिन् वेत्रशाककुजे । शत्रुष्णा दुष्प्रवेश इत्यर्थः । 'वेत्रं वंशफलिनीद्रोः' इति विश्वः । 'शाकः बर्बरवर्धकाः' इत्यमरः । लेशेन स्तोकेनाव्यजते कम्पत इति लेशैजः । स न भवतीति अलेशैजस्तस्मिन् । अत्यन्ताकम्पन इत्यर्थः 'एज् कम्पने' पचाद्यच् । न कोकते नादत्त इत्यकुकः ग्रहणासमर्थः शात्रवो यस्मिंस्तस्मिन् अकुकशात्रवे । 'कुक आदाने' । पचाद्यच् । शैले पर्वते । केषां भावः किता कुत्सितता तयोपलक्षिताः सन्तः । 'कुत्साप्रश्नवितर्केषु क्षेपे किं शब्द इष्यते' । इति शाश्वतः । विदिशो जेतुं यात गच्छत किम् । यातेः संप्रश्ने लोट् । मध्यमपुरुषबहुवचनम् । दिवि स्वर्गेऽपि । तुञ्जेश इति तेषां संबोधनम् । तुञ्जन्ति इति तुञ्जा हिंसका दैत्याः। 'तुजि हिंसायाम्' पचाद्यच् । तेभ्यो दैत्येभ्य ईशते इति तुञ्जेशः । ईशेः क्विप् । तेभ्योऽपि शक्ता इत्यर्थः । स्वर्गेऽप्यसुरविजयिनां युष्माकमत्र क्षुद्रस्थले क्षुद्रशत्रोः पलायनमनुचितमिति भावः ॥ १८ ॥

हिन्दी—तुमलोग बांस, शाक (बर्बर) और वृक्षोंसे युक्त अर्थात् शत्रुसे दुष्प्रवेश्य, कम्पित न होनेवाले, जहाँ ग्रहण करनेमें शत्रु असमर्थ हैं, ऐसे पर्वतमें निन्दितरूपसे उपलक्षित होते हुए अनेक दिशाओंको जीतनेके लिए जाते हो क्या ? तुमलोग स्वर्गमें भी हिंसकों (दैत्यों) से समर्थ हो । स्वर्गमें भी दैत्योंको जीतनेवाले तुमलोगोंको ऐसे क्षुद्र स्थलमें क्षुद्र शत्रुसे डरकर भागना उचित नहीं है यह भाव है । यह 'प्रतिलोमानुलोमपाद' नामक चित्रकाव्यका उदाहरण है ॥ १८ ॥

अयेशे तिष्ठति पलायनमेतद्धो न युक्तमित्याह—

अयं वः क्लैब्यमापन्नान् दृष्टपुष्टानरातिना ।
इच्छतीशश्च्युताचारान् दारानिव निगोपितुम् ॥ १९ ॥

मल्लि०अयमिति । अयमीशः स्वामी शिवः क्लैब्यं निष्पौरुषत्वम् । आप-

Page 593Permalink

पञ्चदशः सर्गः ३३७

म्नान् प्राप्तांस्तथा अरातिना दृष्टपृष्ठान् । पलायमानानित्यर्थः । वो युष्मान् व्युता- चारान् स्खलितव्रतान् दारान् कलत्राणीव । 'अथ पुंभूम्नि दाराः' इत्यमरः । निगोपितुं गोप्तुम् । ऊदित्वानिङ्‌विकल्पः । दारदोषं भर्तेव स्वमहिम्ना युष्मद्दोषं संवर्तितुम् । इच्छति । अतः कुतो युष्माकमनर्थ इत्यर्थः ॥ १९ ॥

हिन्दी—ये स्वामी शिवजो नपुंसकत्वको प्राप्त ( पुरुषार्थहीन ) और शत्रुने जिनकी पीठ देख ली है ( भागते हुए ) तुमलोगोंको पत्नीकी तरह रक्षा करना चाहते हैं ( तुम्हारे दोषोंको छिपाना चाहते हैं ) ॥ १९ ॥

ननु हो मथना राधो घोरा नाथमहो नु न । तयदातवदा भीमा माभीदा बत दायत ॥ २० ॥

( प्रतिलोमानुलोमार्धः )

मल्लि०—नन्विति । 'ननु' इत्यामन्त्रणे । 'हो' इत्याह्वाने । 'हे है भोस्तो समस्तो च हृतसंबोधनार्थयोः । हो हो चैवंविधो ज्ञेयो संबुद्ध्याह्वानयोरपि' । इति विश्वः । मथन्तीति मथनाः । 'मन्थ विलोडने' कर्तरि ल्युट् । राधन्ति = समर्था भवन्तीति राधः । 'राधू सामर्थ्ये, क्विप् । घोरा क्रूराः । शत्रूणामिति भावः । नाथ महयन्ति पूजयन्तीति नाथमहः । दृशिग्रहणात्कर्मण्यपपदे क्विप् । तयन्ति=रक्ष- न्तीति तया रक्षकाः । पचाद्यच् । दायन्तीति दाताः = शुद्धाः । 'दैप् शोधने' कर्तरि क्तः । वदन्तीति वदा वक्तारः । पचाद्यच् । तेषां द्वन्द्वः तयदातवदाः । भीमा भयंकराः । माभीः । नञर्थ'मा'शब्दस्य सुप्सुपेति समासः । तां ददतीति माभीदा अभयप्रदाः एवंविधा यूयमिति शेषः । 'बत' इति खेदे । बवयोरभेदः । न दायत नु न शुद्धाः किम् । 'नु' पृच्छायाम् । किंतु शुद्धा एव । न काकुरत्रानुसंधेया । 'दैप् शोधने' लोट्मध्यमपुरुषबहुवचनम् ॥ २० ॥

हिन्दी—हे सैनिको ! शत्रुओंको मथन करनेवाले, समर्थ, शत्रुओंके लिए क्रूर, अपने स्वामीकी पूजा करनेवाले, रक्षा करनेवाले, शुद्ध, वक्ता, भयङ्कर और अभयदान करनेवाले तुमलोग क्या शुद्ध नहीं हो ? ( शुद्ध ही हो ) । यह 'प्रति- लोमानुलोमार्ध' नामक चित्रकाव्यका उदाहरण है ॥ २० ॥

किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहैः । ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मानिता ॥ २१ ॥

मल्लि०—किमिति । अपास्तोऽवधीरतो देवत्वमानुष्यकयोः परिग्रहः स्वीकारो

१२ कि०

Page 594Permalink

३३८ | किराताजुर्नीयम्

यैस्तैः । अतिदेवमानुषैरित्यर्थः । मनुष्याणां भावो मानुष्यकम् । 'योद्धादुपसंख्यानाद्बुञ्' । ज्वलितान्यदूर्तः ज्वलिता उज्ज्वलिताः । प्रकाशिता इति यावत्। अन्यगुणा अमन्दगुणा यैस्तैः । 'अन्यो विभिन्नासदृशो' इति वैजयन्ती । ईदृशैर्भवद्भिरिति शेषः । तेजसि प्रतापे स्थिता प्रतापैकशरणा धूर्वी मानिता शौर्यादिना विना किमिति त्यक्ता । किमिति निर्लज्जैः पलायन इति भावः ॥ २१ ॥

हिन्दी - देवत्व और मनुष्यत्वका अतिक्रमण करनेवाले, असाधारण गुणोंको प्रकाशित करनेवाले तुमलोगोंने प्रतापमें स्थित शूरत्वके अभिमानको क्यों छोड़ दिया ? अर्थात् क्यों निर्लज्ज होकर पलायन कर रहे हो ? ॥ २१ ॥

निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
सारतो न विरोधी नः स्वाभासो भरवानुत ॥ २२ ॥

मल्लि०—निशितेति । हे अमरणा मरणरहिताः ! निशितासिरितोऽन्वितोऽस्य खड्गरतः । अभीको निर्भीकः । रुचा तेजसोपलक्षितः सुष्ठु आभासत इति स्वाभासो रमणीयः पचाद्यच् । उतात्यर्थमतिशयेन भरवान् । रणभरसहिष्णुरित्यर्थः । 'उतात्यर्थविकल्पयोः' इति विश्वः । ईदृशो नोऽस्माकं विरोधी शत्रुः सारतो बलतो न न्येजते न कम्पते । प्रचलतीत्यर्थः । 'एजृ कम्पने' । लट् । अतो भवद्भिरपि स्थातव्यमेव । न चलितव्यमिति भावः ॥ २२ ॥

हिन्दी--हे अमर प्रमथगण ! तीक्ष्ण खड्गको लिया हुआ, निर्भीक, तेजसे उपलक्षित, रमणीय, युद्धभारका सहिष्णु ऐसा हमलोगोंका विरोधी (शत्रु) बलके कारण कम्पित नहीं हो रहा है । (इस कारणसे तुमलोगोंको भी अचल होकर रहना चाहिए) ॥ २२ ॥

नन्वयं न चलतीति कथं ज्ञायते ? तत्राह प्रतिलोमानुलोमेन श्लोकद्वयम्—

तनुवारभसो भास्वानधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥ २३ ॥

मल्लि०—तन्विति । तनुमावृणोत्याच्छादयतीति तनुवारं=वर्म । कर्मण्यण् । जेतुं रभसो भासन इति तनुवारभसः । 'भस दीप्तौ' । पचाद्यच् । भास्वान्=तेजस्वी, चारुणा भास्वताऽविनतेनोन्नतेन । उरसा वक्षःस्थलेनोपलक्षितः । एवंविधोऽर्जुनोऽधीरो धैर्यसहितो रसितेन शब्दितेनैवाश्नाति ग्रसतीति रसिताशी तस्मिन् । रखेणैव विश्वप्राणहारिणीत्यर्थः । आभीक्ष्ण्ये णिनिः । जन्ये युद्धे । 'युद्धमायोधनं जन्यम्'

पञ्चदशः सर्गः ३३९

Page 595Permalink

पञ्चदशः सर्गः ३३९

इत्यमरः । अनीतः निर्भीकः सन् को रमते=कः क्रीडति ? यदि रमत तर्ह्ययमेवेति भावः । निर्भयतयाऽङ्गदेवाश्य निश्चकत्वं निश्चीयत इत्यर्थः । पूर्वश्लोकस्यायं प्रतिलोमः ॥ ३३ ॥

हिन्दी—कवचसे शोभित, तेजस्वी, सुन्दर और उन्नत वक्षःस्थलसे उपलक्षित, ऐसा होकर भी धैर्य्यरहित, शब्द करतेहुए ही निरन्तर त्रास करनेवाले युद्धमें निर्भीक होकर कौन-सा पुरुष क्रीड़ा करता है ? (यही तपस्वी क्रीड़ा कर रहा है) ॥ ३३ ॥

अथ पञ्चभिः कुलकमाह—विभिन्नेत्यादिभिः

विभिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि ।
हतद्विपनगष्ठ्यूतरुधिराम्बुनदाकुले ॥ २४ ॥

मल्लि०—आहवं विशिनष्टि—विभिन्नानि विदारितान्यत एव पातितान्यश्वीयान्यश्वसमूहाः । 'पूर्वकाले-'ति समासः । तैरश्वसमूहैर्निरुद्धानि रथानां वर्त्मनि यस्मिंस्तथोक्ते । 'वृन्दे त्वश्वीयमाइश्ववत्' इत्यमरः । 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति छप्रत्ययः । हतास्ताडिता द्विपा गजा एव नगाः शैलाः । 'शैलवृक्षौ नगावगौ' इत्यमरः । तै ष्ठ्यूतानि उज्झितानि । ष्ठीवतेः कर्मणि क्तः । 'ष्ठिवोः ष्ठूढनुनासिके च' इत्यूठादेशः । तानि रुधिराण्येवाम्बूनि तेषां नदैः प्रवाहैराकुले व्याप्ते ॥ २४ ॥

हिन्दी—(युद्धका और भी विशेषण दिखलाते हैं)—विदारित अश्वसमूहोंसे जहाँ रथोंका मार्ग रुका हुआ है, ताड़ित हाथी-रूप पर्वतोंसे छोड़े गये रुधिररूप जलके प्रवाहोंसे व्याप्त (युद्धमें) ॥ २४ ॥

देवाकानिंनिकावादे
वाहिकास्वस्वकाहिवा ।
काकारेभभरेकाका
निस्वभव्यव्यभस्वनि ॥ २५ ॥

मल्लि०देवेति । पुनः, देवानाकनयतुद्वांशयत्युत्साहयतीति देवाकानि तस्मिन् देवाकानिनि । 'कन दीप्तौ' इति धातोर्ण्यन्ताण्णिनिः । यद्वा,—'के शब्दे' इति धातोराङ्पूर्वस्य भावे ल्युटि आकानम् आश्चन्दनमीषद्रदनमिति यावत् । देवानां तच्चतोत्यर्थः । कावाद ईषद्वादो वावकलहः । 'ईषदर्थे' इति 'कु'शब्दस्य कादेशः ।

Page 596Permalink
३४०किरातार्जुनीयम्

तदर्हति कावादे। अर्शआदिभ्योऽच् । वाहिका = पर्यायेण रणभारोद्वहनम्। सं पर्याये धात्वर्थनिर्देशे ण्वुल्वक्तव्यः। वाहिकया कमप्राप्तरणक्रियया सुष्ठु शोभं यथा तथाऽस्वकान्=परानाजिहीतेऽभियुङ्क्ते। योजयतीति यावत् । वाहिकास्वस्वकाहास्तस्मिन् । योद्धृधर्मो युद्ध उपचर्यते । 'ओहाङ् गतौ' इति धातोर्विच्प्रत्ययः। 'सोमपा' शब्दवत्प्रक्रिया । 'वा' शब्दश्चार्थे । कं मदोदकमाकिरन्तीति काकारा मदस्राविणः । किरतेराङ्पूर्वात्कर्मण्यण, एवंविधा इभभरा गजघटा यत्र तस्मिन् काकारेभभरे । काका इव काका गर्ह्या इति लक्षणया तेषामामन्त्रणम् । निस्ता निरुत्साहा भव्याः = सोत्साहास्तानुभयान्व्ययन्ति संवृण्वन्तीति निस्वमव्ययाः 'व्येञ् संवरणे' । 'आतोऽनुपसर्गे कः' । तैर्भासिस्त भासत इति निस्वभव्यव्ययस्तस्तस्मिन्,। 'अन्येष्वोऽपि दृश्यन्ते' इति क्वनिप् । सर्वतो भ्रमणात्सर्वतोभद्राख्यश्चित्रबन्धः । तथाह दण्डी-तदिदं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुष्कोष्ठे चतुरङ्गबन्धक्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्टयं विलिख्यानन्तरपङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु पङ्क्तिषु प्रथमः पादः सर्वतो वाच्यते, द्वितीयादिषु द्वितीय इत्यादि ॥ २५ ॥

हिन्दी—देवताओंको उत्साहित करनेवाले, घोड़ेसे बचनके कलहसे युक्त बारी-पारीसे युद्धके भारको प्राप्त क्रियासे अच्छी तरहसे शत्रुओंसे युद्ध करनेके साधन मद गिरानेवाली गजघटासे युक्त हे कौएके समान निन्दनीय ! उत्साहरहित और उत्साहयुक्त दोनों प्रकारके जनोंसे सवरण करनेवाले शोभित (युद्धमें) ।

इस पद्यमें चारों चरणोंमें बाएँ और दाहिने भागके अक्षर दुहराये गये हैं अतः यह सर्वतोभद्रनामक चित्रकाव्यका उदाहरण है ॥ २५ ॥

प्रवृत्तशववित्रस्ततुरगाक्षिप्तसारथौ ।
मारुतापूर्णतूणीरविक्रुष्टहतसादिनि ॥ २६ ॥

मल्लि०—प्रवृत्तेति । प्रवृत्तशवेभ्यो नृत्यत्कबन्धेभ्यो वित्रस्तैः क्षुभितैस्तुरगैराक्षिप्ता अवधूताः सारथयो यत्र तस्मिन् । तथा मारुतेनापूर्णेभ्यस्तैस्तूणीनिषङ्गेर्विक्रुष्टाः शब्दायमाना हतास्ताडिताः सादिनस्तोरङ्गिका यत्र तस्मिन् पाठान्तरे मारुतापूर्णतूणीरैर्विकृष्टा आकर्षिता अतएव हता मारिताः सादिनोऽश्ववारा यत्र तस्मिन् ॥ २६ ॥

हिन्दी—नाचते हुए कबन्धों (शिरसे रहित शवों) से डरे हुए घोड़ों