BharatKosha
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २७

Page 211Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २७

वाच्यान्तरम्—यया समासादितसाधनः सुदुश्चरां तपस्यामाचरन् कपिकेतनो दुरापं वीर्यं समवाप्यैतानुन्मूलयिता ॥ २२ ॥

कोषः—'निर्वर्त्तनोपकरणानुब्रज्यासु च साधनम्' इत्यमरः । 'तपः कृच्छ्रादि-कर्मसु-' इत्यमरः । 'कपिः-प्लवङ्ग-प्लवग-शाखामृग-वलीमुखा' इत्यमरः । 'पताका वजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः ॥ २२ ॥

सारार्थः—यां मदुपदिष्टाम् मन्त्रविद्यां प्राप्य, तदनुसारेण तपस्यां विधाय, ततोऽलौकिकं पाशुपतप्रभृति दिव्यास्त्रं समासाद्य भीष्मद्रोणकर्णप्रभृतीन् वीरानर्जुनो विनाशयिष्यति ॥ २२ ॥

भाषार्थः—जिस मेरी विद्या के बल से परम कठिन तपस्या कर उससे युद्धोपकरण लाभ करके औरों से दुर्लभ पराक्रमवाले अर्जुन उन (भीष्म आदि) का नाश करेंगे ॥ २२ ॥

महत्त्वयोगाय महामहिम्नामाराधनीं तां नृप ! देवतानाम् ।
दातुं प्रदानोचित ! भूरिधाम्नोमुपागतः सिद्धिमिवास्मि विद्याम् ॥२३॥

महत्त्वेति ॥ हे नृप, महत्त्वयोगाय प्रकर्षलाभाय महामहिम्नां महानुभावानां देवतानामिन्द्रादीनाम् । आराध्यतेऽनयेत्याराधनी ताम् । प्रसादयित्रीमित्यर्थः । करणे ल्युट् । ङीप् । भूरिधाम्नीं महाप्रभावाम् । 'धाम देहे गृहे रश्मौ स्थाने जन्म-प्रभावयोः' इति विश्वः । 'अन उपधालोपिनोऽन्यतरस्याम्' इति वा ङीप् । विद्यामिन्द्रमन्त्ररूपां सिद्धिं साक्षात्कार्यसिद्धिमिवेति विद्याया अमोघत्वोक्तिः । हे प्रदानोचित ! दानपात्रभूत ! फलभोक्तृत्वादस्य पात्रत्वोक्तिः, दातुमुपागतोऽस्मि ॥ २३ ॥

अन्वयः—हे प्रदानोचित ! नृप ! महत्त्वयोगाय, महामहिम्नां, देवतानाम् , आराधनीं, भूरिधाम्नीं, तां विद्यां, सिद्धिम्, इव दातुम्, उपागतः अस्मि ॥२३॥

व्याख्या—हे प्रदानोचित ! = हे वितरणयोग्य ! नृप ! = राजन् !, महत्त्व-योगाय = उत्कर्षलाभाय, महामहिम्नां = परमप्रभावाणां, देवतानां = देवानाम् , आराधनी = सेवनीयाम्, भूरिधाम्नीम् = अतितेजोवर्ती, तां = विद्यां, सिद्धिम् = इष्टपूर्तिम् , इव, दातुं = वितरितुम् , आगतः = इह समागतः, अस्मि = भवामि, अहमिति शेषः । सिद्धिपक्षे, भूरिधाम्नाम् = अतिप्रभावसाधनीम् , अनेन 'निरास्पदं प्रश्नकौतूहलित्वमि'-ति पद्यस्योत्तरं दत्तं व्यासेनेति ॥ २३ ॥

समासः—महत्त्वस्य योगो महत्त्वयोगस्तस्मै महत्त्वयोगाय । महान् महिमा यासान्ता महामहिमानस्तासां, महामहिम्नाम् । प्रकर्षेण दानस्योचितः प्रदानोचितस्तत्सम्बुद्धौ हे प्रदानोचित ! भूरि धाम यस्याः सा भूरिधाम्नी, तां भूरिधाम्नीम् ॥ २३ ॥

Page 212Permalink

२८ किरातार्जुनीयम् [ तृतीयः

व्याकरणम्—दातुं = दा + तुमुन् । उपागतः = उ + आ = गम् + क्तः । अस्मि = अस् लट् ॥ २२ ॥

वा०—हे प्रदानोचित ! तां विद्यां दातुमुपागतेन मया भूयते ॥ २३ ॥

कोषः—'वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्' इत्यमरः । 'धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः' इत्यमरः । 'पुरुहुः पुरु भूयिष्ठं स्फारं भूयिष्ठ भूरि च' इत्यमरः ॥ २३ ॥

सारार्थः—हे दानपात्र, भवतः शत्रुरधुनोत्कृष्टोऽस्ति, जयस्तूत्कर्षाधीनस्तेन तादृशादपि शत्रोर्यथा भवानुत्कृष्टः स्यात्तथा यस्या विद्यायाः प्रभावेण भवान् भविष्यति, तां सकलदेवपूज्यां परमपराक्रमसम्पादनीं विद्यां भवते दातुमहमित्यागतोऽस्मीति ॥ २३ ॥

भावार्थः—हे देने के (सिखाने के) योग्य ! हे राजन् ! बड़े होने के लिए परम महिमा वाले देवताओं से माननीय, अत्यन्त तेज और बल बढ़ाने वाली सिद्धि (मनोरथपूर्ति) के समान विद्या को देने के लिये मैं आया हूँ ॥ २३ ॥

इत्युक्तवन्तं व्रज साधयेति प्रमाणयन्वाक्यमजातशत्रोः ।
प्रसेदिवांसं तमुपाससाद वसन्निवान्ते विनयेन जिष्णुः ॥२४॥

इतीति ॥ इत्युक्तवन्तं प्रसेदिवांसं प्रसन्नम् । 'भाषायां सदवसश्रुवः' इति क्वसुः । तं मुनिं जिष्णुर्जयशीलोऽर्जुनः । 'ग्लाजिस्थश्च-' इति क्स्नुप्रत्ययः । व्रज साधयानुतिष्ठेत्येवंरूपम् । अजातशत्रोधर्मराजस्य । स्वयमविद्वेषणशीलत्वादियं संज्ञा । वाक्यं प्रमाणयन् । तदादिष्टः सन्नित्यर्थः । अन्ते वसँश्छात्र इव । 'छात्रन्तेवासिनौ शिष्ये' इत्यमरः । विनयेनानौद्धत्येनोपाससाद समीपं प्राप ॥ २४ ॥

अन्वयः—जिष्णुः, इति, उक्तवन्तं, प्रसेदिवांसं, तं व्रज, साधय, इति, अजातशत्रोः, वाक्यम्, प्रमाणयन्, अन्ते, वसन्, इव विनयेन, उपाससाद ॥ २४ ॥

व्याख्या—जिष्णुः=अर्जुनः, इति=पूर्वोक्तपद्यद्वयार्थरूपं, वाक्यम्, उक्तवन्तं = कथितवन्तम्, प्रसेदिवांसं = सुप्रसन्नं, तं = व्यासं प्रति, व्रज = गच्छ, साधय = अनुतिष्ठ, तां विद्यामिति शेषः । इति, अजातशत्रोः = अखिलजनहितैषिणः, युधिष्ठिरस्येत्यर्थः । वाक्यं = वचनम्, प्रमाणयन् = स्वीकुर्वन्, अन्ते वसन्, इव=अन्तेवासी इव, छात्र इवेत्यर्थः । विनयेन = नम्रवेषेण, उपाससाद = समीपमगमत् । यथा छात्रोऽध्यनायाध्यापकसमीपं गच्छति, तथा व्याससमीपं विद्यालाभायार्जुनो जगामेति भावः ॥ २४ ॥

समासः—न जात इत्यजातः, अजातः शत्रुर्यस्य तस्याजातशत्रोः ॥ २४ ॥

व्याकरणम्—व्रज = व्रज् + लोट् । साधय = साध् + णिच् + लोट् । प्रमाणयन् = प्र + मान् + णिच् + शतृ । उपाससाद=उप + आ + सद् + लिट् ॥ २४ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २६

Page 213Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २६

वाच्यान्तरम्—इत्युक्तवान् प्रसेदिवान् सः (व्यासः) व्रज साधय, इति अजात-शत्रोर्वाक्यं प्रमाणयताऽन्तेवसता जिष्णुना विनयेनोपासेदे ॥ २४ ॥'

कोषः—‘प्रसेदिवान् प्रसन्नः स्यादानन्देन समन्वित’ इति कोषः। छात्रान्तेवासिनौ शिष्ये—' इत्यमरः। ‘जिष्णुरिन्द्रेऽर्जुनेऽन्यस्मिन् जयशीले जनेऽपि च’ इति कोषः ॥ २४ ॥

सारार्थः—पूर्वोक्तप्रकारेणोपदिशन्तं व्यासं प्रति युधिष्ठिरस्याज्ञया छात्र इवार्जुनो गतवान् ॥ २४ ॥

भाषार्थः—इस तरह कहते हुए, हँसमुख व्यास के पास ‘जाओ’ उस विद्या को साधो, यह बड़े भाई युधिष्ठिर की बात मानकर अर्जुन विद्यार्थी के समान उपस्थित हुए ॥ २४ ॥

निर्याय विद्याऽथ दिनादिरम्याद्विम्बादिवार्कस्य मुखान्महर्षेः ।
पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥२५॥

निर्यायेति ॥ अथ वह्निकणावदाता स्फुलिङ्गवदुज्ज्वला। देवतासान्निध्यादिति भावः , विद्येन्द्रमन्त्ररूपा। दिनादिरम्यादर्कस्य प्रभातभास्करस्य । बिम्बादिव महर्षेर्व्यासस्य मुखान्निर्याय निर्गत्य । समासेऽनञ्पूर्वे क्त्वो ल्यप् । दीप्तिरर्कदीधितिः । स्फुरद्विकसत्पङ्कजमिव । पार्थाननमर्जुनस्य मुखमभिपेदे प्रविष्टा ॥ २५ ॥

अन्वयः—अथ 'वह्निकणावदाता, (कर्त्री) विद्या, दिनादिरम्यात्, अर्कस्य, बिम्बात्, इव, महर्षेः मुखात्, निर्याय, दीप्तिः, स्फुरत्पद्मम् इव, पार्थाननम् , अभिपेदे ॥ २५ ॥

व्याख्या—अथ = व्याससमीपेऽर्जुनगमनानन्तरं, वह्निकणावदाता = अग्निस्फुलिङ्गधवला, दैवतरत्वादिति शेषः। विद्या=योगविद्या, इन्द्रप्रसन्नकरणमन्त्ररूपेत्यर्थः (कर्त्री) । दिनादिरम्यात् = प्रभातसुन्दरात्, अर्कस्य = सूर्यस्य, बिम्बात् = मण्डलात्, इव, महर्षे = व्यासस्य, मुखात् = वदनात्, निर्याय=निर्गत्य, पार्थाननम् = अर्जुनमुखम, अभिपेदे=प्राप्ता। (यथा) दीप्तिः=सूर्यभाः, स्फुरत्पद्मं = विकसत्कमलकुसुमम्, इव ॥ २५ ॥

समासः—दिनस्यादिः दिनादिस्तस्मिन् दिनादौ रम्यो यस्तस्माद्दिनादिरम्यात् । महांश्चासौऋषिर्महर्षिस्तस्य महर्षेः। पृथायाः कुन्त्या अपत्यं पुमान् पार्थस्तस्य, पार्थस्याननमिति । पार्थाननम् । वह्नेः कणा वह्निकणा इवावदाता धवला या सा वह्निकणावदाता । स्फुरच्च तत्पद्मं स्फुरत्पद्मम् ॥ २५ ॥

व्या०—निर्याय = निर् + या + क्त्वा + ल्यप् अभिपेदे = अभि + पद् + लिट् ।

Page 214Permalink
३०किरातार्जुनीयम्[ तृतीयः

वाच्यान्तरम्—वह्निकणावदातया विद्यया दिनादिरम्यादर्कस्य बिम्बादिव महर्षे-
र्मुखाच्छ्रियाय दीप्त्या स्फुरत्पद्ममिव पार्थाननमभिपेदे ॥ २५ ॥

कोषः—'प्रभात‍ोऽहर्मुखं कल्यमुषःप्रत्यूषसी अपि' इत्यमरः । 'सुन्दरं रुचिरं रम्यं चारु सर्वाङ्गशोभनम्' इति कोषः । 'विकर्त्तनोऽर्कमार्त्तण्ड-मिहिरारुणपूषणः' इत्यमरः । 'मुखमास्यं च वदनम्' इति कोषः । 'स्युः प्रभा रुग् रुचिस्त्विड्भाभा-श्छवि-द्युति-दीप्तय' इत्यमरः । 'वापुंसि पद्मं नलिनमरविन्दं महोत्पलम्' इत्यमरः॥

सारार्थः—यथा प्रभाते सूर्य्यबिम्बाद्निर्गताः किरणा ईषद्विकसितकमलमुखे पतन्ति, तथैव व्यासमुखाद्विन्द्रप्रसन्नकरमन्तरूपा विद्याऽर्जुनमुखे प्रविष्टेति ॥ २५ ॥

भाषार्थः—जैसे प्रातः (सुबह) समय के सुन्दर सूर्य के मण्डल से कान्ति निकलकर खिले हुए कमल के मुख में बैठती है, दस, वैसे ही व्यास के मुख से वह आग की चिनगारी के समान उज्ज्वल विद्या निकलकर अर्जुन के मुख में घुस गई ॥ २५ ॥

योगं च तं योग्यतमाय तस्मै तपः प्रभावाद्विततार सद्यः ।
येनास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥२६॥

योगं चेति ॥ योग्यतमायार्हत्तमाय तस्मै पार्थाय तं वक्ष्यमाणमहिमानं योगं ध्यानविधि च 'योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु' इत्यमरः । तपःप्रभावात् विततार। ददौ । चिरकालग्राह्यमपीति भावः । येन योगेन तत्त्वेषु प्रकृतिमहददाविषु । तथा च । 'मूलप्रकृतिर्महानहङ्कारो मनश्च पञ्च तन्मात्राणि पञ्च बुद्धिन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च महाभूतानीति चतुर्विंशतितत्त्वानि' । तत्रावभासे साक्षात्कारे कृते सत्यस्यार्जुनस्य चक्षुरक्षि चिराय समुन्मिमीलेवोन्मिषितमिवेत्युत्प्रेक्षा । तदा तस्य कोऽपि महानखिलाज्ञानभञ्जनस्तत्त्वावभासश्चिरादन्धस्य दृष्टिलाभ इवाभवदिति भावः । २६ ॥

अन्वयः—योग्यतमाय, तस्मै, तं योगं, च, तपः प्रभावात्, सद्यः, विततार । येन, तत्त्वेषु, अवभासे, कृते, अस्य, चक्षुः, चिराय, समुन्मिमील, इव ॥ २६ ॥

व्याख्या—योग्यतमाय = दानपात्रतमाय, तस्मै = अर्जुनाय, तं = वक्ष्यमाणं, योगं = चित्तनिरोधात्मकं, वा, इन्द्रप्रसन्नत्वसम्पादकमुपलक्षं, तपःप्रभावात् = सुकृतानुभावाद्, अभ्यस्तत्वेनेत्यर्थः । सद्यः = शीघ्रमेव, विततार = ददौ, येन = योगेन, तत्त्वेषु = प्रकृत्यादिषु । अवभासे = प्रत्यक्षे, कृते = विहिते, अर्जुनस्य, चक्षुः = नेत्रं, चिराय = चिरकालं, समुन्मिमील इव = उन्मिमील इव ॥ २६ ॥

समासः—अतिशयेन योग्यो योग्यतमस्तस्मै योग्यतमाय । तपसां प्रभावस्तपःप्रभावस्तस्मात् तपःप्रभावात् ॥ २६ ॥

सर्गः ३] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३१

Page 215Permalink

सर्गः ३] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३१

व्या०—विततार=वि + तृ + लिट्। समुन्मिमील=सम् + उद् + मील् + लिट् ॥

वाच्यान्तरम्—तेन व्यासेन तस्मै योग्यतमाय स योगश्च तपःप्रभावात् सद्यो वितीरे। येन तत्त्वेष्ववभासे कृतेऽस्य समुन्मिमीले वेति ॥ २६ ॥

कोषः—'योग्यः सन्नहनोपायध्यानसङ्गतियुक्तिषु-'इत्यमरः। 'सद्यः सपदि तत्क्षणे' इत्यमरः। 'लोचनं नयनं नेत्रमिक्षणं चक्षुरक्षिणी' इत्यमरः ॥ २६ ॥

सारार्थः—ततो व्यासस्तत्क्षणोऽर्जुनाय योगं शिक्षयामास अथार्जुनोऽपि तेन योगबलेन ध्यानस्थोऽभवदिति ॥ २६ ॥

भाषार्थः—उसके बाद व्यासजी ने देने के लायक अर्जुन को अपने तपोबल से झट उस योग को दे दिया, जिससे तत्त्वों में प्रत्यक्ष विचार करने पर अर्जुन की आँख खुल गयी ॥ २६ ॥

आकारमाशंसितभूरिलाभं दधानमन्तःकरणानुरूपम्।
नियोजयिष्यन्विजयोदये तं तपःसमाधौ मुनिरित्युवाच ॥२७॥

आकारमिति ॥ आशंसित आख्यातो भूरिलाभोऽनेकश्रेयःप्राप्तिर्येन तं तथोक्तम् । महाभागसूचकमित्यर्थः । अन्तःकरणशब्देन तद्वृत्तिरुत्साहो लक्ष्यते । तदनुरूपं । तदनुकूलम् । उत्साहानुगुणव्यापारक्षममित्यर्थः । आकारं मूर्तिं दधानं तमर्जुनं मुनिर्विजयोदये विजयफलके तपःसमाधौ तपोनियमे । 'समाधिर्नियमे ध्याने नीवाके च समर्थने' इति विश्वः । नियोजयिष्यन् । नियोजयितुमिच्छन्नित्यर्थः । 'लृट् शेषे च' इति लृट् । 'लूटः सद्वा' इति सप्रत्ययः । इति वक्ष्यमाणमुवाच ॥ २७ ॥

अन्वयः—मुनिः, आशंसितभूरिलाभम्, अन्तःकरणानुरूपम्, आकारं दधानं, तं, विजयोदये, तपःसमाधौ, नियोजयिष्यन्, इति, उवाच ॥ २७ ॥

व्याख्या—मुनिः = वेदव्यासः, आशंसितभूरिलाभम् = आख्यातप्रचुरप्राप्तिम्, अन्तःकरणानुरूपं = चित्तानुकूलम्, आकारम्, = मूर्तिं, दधानं = धारयन्तं, तम् = अर्जुनं, विजयोदये = अरिपराजयफले, तपःसमाधौ = तपोनियमे, नियोजयिष्यन् = लगयिष्यन्, सन्, इति=वक्ष्यमाणं, वचः, उवाच=कथयामास ॥२७॥

समासः—भूरि लाभः भूरिलाभः, आशंसितो भूरिलाभो येन स आशंसितभूरिलाभस्तमाशंसितभूरिलाभम्। अन्तःकरणस्यानुरूपोऽन्तःकरणानुरूपस्तमन्तःकरणानुरूपम्। विजय एवोदयो यस्मिन् स विजयोदयस्तस्मिन् विजयोदये । तपसःसमाधिस्तस्मिंस्तपःसमाधौ ॥ २७ ॥

व्याकरणम्—दधानं = धा + लट् + शानच् । नियोजयिष्यन् = नि + युज् + णिच् + लृट् + शतृ । उवाच=वच् + लिट् ॥ २७ ॥

Page 216Permalink
३२किरातार्जुनीयम्[ तृतीयः

वाच्यान्तरम्—आशंसितभूरिलाभमन्तःकरणानुरूपमाकारं दधानः सोऽर्जुनः विजयोदये तपःसमाधौ नियोजयिष्यता मुनिनेत्यूचे ॥ २७ ॥

कोषः—'समाधिर्नियमे ध्याने नीवाके च समर्थने'—इति विश्वः । आकारस्त्विङ्गितं' इत्यमरः । 'पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च' इत्यमरः ॥ २७ ॥

सारार्थः—व्यासोपदिष्टयोगविद्यां समासाद्यार्जुनस्याकृतिस्तथा जाता यथा भाविकृत्यसम्पन्नता स्फुटमेव द्योत्यते, इति स्वोद्योगं सफलमवलोक्य पुनस्तपो-नियमे योजयितुं तं व्यासो वक्ष्यमाणवचनमुवाचेति ॥ २७ ॥

भाषार्थः—अधिक लाभ होने की झलक है जिसमें, और मन के अनुकूल चेष्टा को धारण किए हुए अर्जुन का विजय-फल वाले तपस्या के नियम में लगाने की इच्छा से व्यास जी फिर बोले ॥ २७ ॥

अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् ।
समाचराचारमुपात्तशस्त्रो जपोपवासाभिभवैर्मुनीनाम् ॥ २८ ॥

अनेनेति ॥ अनेन स्वोपदिष्टेन योगेन विवृद्धतेजा निजां पदवीं परस्मै अयच्छन् । परस्य प्रवेशमयच्छन्नित्यर्थः । उपात्तशस्त्रो गृहीतायुधः सन् । अपोपवासाभिभवैः स्वाध्यायानशनस्नानैर्मुनीनामाचारं समाचरानुतिष्ठ ॥ २८ ॥

अन्वयः—अनेन, योगेन, विवृद्धतेजाः, निजां, पदवीं, परस्मै, अयच्छन्, उपात्तशस्त्रः, जपोपवासाभिभवैः, मुनीनाम्, आचारं, समाचर ॥ २८ ॥

व्याख्या—अनेन = मदुपदिष्टेन, योगेन = तपोनियमेन, विवृद्धतेजाः = प्राप्तपराक्रमः, 'त्वमिति शेषः । निजां=स्वीयाम्, आधुनिकीं दीनामित्यर्थः । पदवीम् = पद्धतिम्, परस्मै = अन्यस्मै शत्रवे, इत्यर्थः । अयच्छन् = अददत्, अपरिचितस्य स्वाश्रये प्रवेशं न दददित्यर्थः । उपात्तशस्त्रः=गृहीतायुधः सन्, अपोपवासाभिभवैः=जपव्रतस्नानैः, मुनीनां=योगिनाम्, आचारम्=आचरणं, समाचर=अनुतिष्ठ । न हि वने विविधशत्रुसङ्कुलेऽसावधानेन त्वया स्थातव्यमित्याशयः ॥ २८ ॥

समासः—विवृद्धं तेजो यस्य स विवृद्धतेजाः । उपात्तं शस्त्रं येन स उपात्तशस्त्रः । जपश्छोपवासश्चाभिभवश्च जपोपवासाभिभवास्तैर्जपोपवासाभिभवैः ॥ २८ ॥

व्याकरणम्—अयच्छन् = नञ् + दाण् + लट् + शतृ । समाचर = सम् + आ + चर्—लोट् ॥ २८ ॥

वाच्यान्तरम्—अनेन योगेन विवृद्धतेजसा, निजां पदवीं परस्मै अयच्छतो-पात्तशस्त्रेण जपोपवासाभिभवैर्मुनीनामाचारः समाचर्यताम् ॥ २८ ॥

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ३३

Page 217Permalink

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ३३


कोषः—'योगः संहननोपायध्यानसङ्गतियुक्तिषु' इत्यमरः। 'अयनं वर्त्म मार्गा- ध्वपन्थानः पदवी सृतिः' इत्यमरः। 'स्वाध्यायः स्याज्जपः सुब्रह्मभिवकः सकलं च सा' इत्यमरः। 'नियमो व्रतमस्त्री तच्चोपवासादिपुण्यकम्' इत्यमरः ॥ २८ ॥

सारार्थः—अस्मदुपदिष्टयोगाभ्यासेन स्वप्रभावं संवर्धयन्, स्वाश्रममार्गोऽपि न कमप्यपरिचितं प्रवेशयन् सदाऽऽयुधं गृहीत्वा जपव्रतयज्ञस्नानादिभिर्यो- योग्याचरणमाचरेति ॥ २८ ॥

भाषाऽर्थः—इस (मेरे कहे हुए ) योग से अपने प्रभाव को बढ़ाकर, अपने आश्रम का रास्ता भी दूसरे को न दिखाते हुए, हरवक्त हथियारबन्द रह कर जप-व्रत, यज्ञ-स्नानादि क्रियाओं से मुनियों का आचरण करो ॥ २८ ॥

क्षेत्रविशेषे तपःसिद्धिरित्याशयेन तं निदर्शयन्नाह—

करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥२९॥

करिष्यस इति ॥ यत्र शिलोच्चये गोत्रभिद इन्द्रस्य प्रसत्तये प्रसादाय सुदुश्चराणि तपांसि करिष्यसे । चारुशिलोच्चयं रम्यशिखरं तं शिलोच्चयं गिरिमिन्द्रकीलरूपम् । 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । त्वामेष गुह्यको यक्षः अनन्तर- मेवास्य पुरः प्रादुर्भावादेष इति निर्देशः । क्षणान्नेष्यति प्रापयिष्यति ॥ २९ ॥

अन्वयः—अत्र, गोत्रभिदः, प्रसत्तये, सुदुश्चराणि, तपांसि, करिष्यसे, तं, चारु- शिलोच्चयं, शिलोच्चयम् एष, गुह्यकः, त्वां, क्षणात्, नेष्यति ॥ २९ ॥

व्याख्या—यत्र=यस्मिन्, पर्वत इति शेषः । गोत्रभिदः = इन्द्रस्य, प्रसत्तये = हर्षाय, प्रसन्नतायै इत्यर्थः । सुदुश्चराणि = अतिकष्टसाध्यानि, तपांसि = योगा- चारात्मकानि, करिष्यसे = आचारयिष्यसि, त्वमिति शेषः । तं = तथोक्तं, चारु- शिलोच्चयं = रम्यप्रस्तरसकलसमूहं, शिलोच्चयम् = पर्वतम्, इन्द्रकीलसंज्ञक- मित्यर्थः । एषः = अयं, वर्तमान इत्यर्थः । गुह्यकः = यक्षः, ( कर्ता ), त्वाम् = अर्जुनं, क्षणात् = सत्वरमेव, नेष्यति = प्रापयिष्यति ॥ २९ ॥

समासः—गोत्रान् पर्वतान् भिनत्तीति गोत्रभित्, तस्य गोत्रभिदः । शिला- नामुच्चयो यत्र स शिलोच्चयस्तं शिलोच्चयम् । चारवः शिलोच्चया यस्मिन् स चारु- शिलोच्चयस्तं चारुशिलोच्चयम् ॥ २९ ॥

व्याकरणम्—करिष्यसे = कृ + लृट् । नेष्यति = नी + लृट् ॥ २९ ॥

वाच्यान्तरम्—यत्र गोत्रभिदः प्रसत्तये सुदुश्चराणि तपांसि, त्वया करिष्यन्ते । तं चारुशिलोच्चयं शिलोच्चयम्, एतेन त्वं क्षणान्नेष्यते ॥ २९ ॥

12 कि०

Page 218Permalink

३४ किरातार्जुनीयम् [ तृतीयः

कोषः— 'सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा' इत्यमरः। अद्रिगोत्रगिरि-ग्रावाचलशैल-शिलोच्चया' इत्यमरः। 'पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनय' इत्यमरः॥ २९ ॥

सारांशः— यस्मिन् पर्वते तव तपःकरणं मया निश्चितं तत्रायं यक्षस्त्वां झटित्येवालौकिकगत्या प्रापयिष्यति। दुर्गपर्वतारोहणशमो न कोऽपि ते भविष्येति ॥

भाषार्थः— जहाँ (पर्वत पर) इन्द्र को खुश करने के लिए तुम कठिन तपस्या करोगे, उस सुन्दर शिखरवाले पर्वत पर तुझे यह यक्ष तुरत ले जायगा॥ २९॥

इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे।
तं राजराजानुचरोऽस्य साक्षात्प्रदेशमादेशमिवाधितष्ठौ ॥ ३० ॥

इतीति ॥ इतीत्थं महेन्द्रसूनुमर्जुनं ब्रुवाणेनोक्तवता। 'वर्तमानसामीप्ये' इति भूते वर्तमानवत्प्रत्ययस्तिरोधानस्याविलम्बसूचनार्थः। तेन महर्षिणा व्यासेन तिरोबभूवेऽन्तर्दधे। भावे लिट्। राजराजो यक्षराजः। 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इति विश्वः। तस्यानुचरः पूर्वोक्तयक्षोऽस्य मुनेरादेशं साक्षादिव प्रदेशमर्जुनाधिष्ठितस्थानमधितष्ठौ। प्राप्त इत्यर्थः। 'स्यादिष्वभ्यासे चाभ्यासस्य' इति षत्वम् ॥ ३० ॥

अन्वयः— महेन्द्रसूनुम्, इति, ब्रुवाणेन, तेन, महर्षिणा, तिरोबभूवे। राजराजानुचरः, अस्य (मुनेः,), साक्षात् आदेशम्, इव, तं, प्रदेशम्, अधितष्ठौ ॥ ३० ॥

व्याख्या—

  • महेन्द्रसूनुम् = अर्जुनम्,
  • इति = एवं,
  • ब्रुवाणेन = कथितवता,
  • तेन = प्रसिद्धेन,
  • महर्षिणा = महायोगिना, व्यासेनेति शेषः।
  • तिरोबभूवे = अन्तर्दधे। व्यासः स्वस्थानं प्रस्थित इत्याशयः।
  • अथ तदानीं राजराजानुचरः = कुबेरभृत्यः, यक्ष इत्यर्थः।
  • अस्य = व्यासस्य, मुनेः,
  • साक्षात् = देहवान्,
  • आदेशमिव = अनुशासनमिव,
  • तम् = अर्जुनाध्युषितम्,
  • प्रदेशं = स्थलविशेषम्,
  • अधितष्ठौ = प्राप्तः, न विलम्बो जात इति ॥ ३० ॥

सारांशः— महांश्चासाविन्द्रो महेन्द्रस्तस्य महेन्द्रस्य सूनुर्महेन्द्रसूनुस्तं महेन्द्रसूनुम्। महांश्चासावृषिर्महर्षिस्तेन महर्षिणा राज्ञां राजा राजराजः, तस्य राजराजस्यानुचरः राजराजानुचरः ॥ ३० ॥

व्याकरणम् — ब्रुवाणेन = ब्रू + लट् + शानच्। तिरोबभूवे = तिरस् + भू + भावे लिट्। अधितष्ठौ = अधि + स्था + लिट् ॥ ३० ॥

वाच्यान्तरम् — महेन्द्रसूनुमिति ब्रुवाणः स महर्षिस्तिरोबभूव। अस्य साक्षादादेश इव स च प्रदेशः राजराजानुचरेण सोऽधितष्ठे ॥ ३० ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३५

Page 219Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३५

कोषः—'आत्मजस्तनयः सूनुः सुतः पुत्र' इत्यमरः । मनुष्यधर्मा धनदो राजराजो धनाधिप' इत्यमरः । 'अनुप्लवः सहायश्चानुचरोऽभिसरः समाः' इत्यमरः ॥

सारार्थः—अर्जुनं प्रतियोगानुशासनं, तत्सहायकसाधनञ्चादिश्यगते व्यासे, व्यासप्रयुक्तो यक्षस्तमर्जुनाधिष्ठितं प्रदेशं व्यासमुनेर्मूत्तिधर आदेश इव झटित्येव प्राप्तः ॥

भाषार्थः—अर्जुन के प्रति ऐसे बोलते हुए व्यास, वहाँ से चल दिये । बाद में यक्ष खासकर जैसे स्वरूपधारी व्यास का आदेश ही हो, वैसे अर्जुन जहाँ पर स्थित थे; उस स्थान पर आ पहुँचा ॥ ३० ॥

कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ । इयाय सख्याविव सम्प्रसादं विश्वासयत्याशु सतां हि योगः ॥ ३१ ॥

कृतेति ॥ स पुण्यजनो यक्षः कृतानतिः कृतप्रणामः सन् व्याहृतसान्त्ववादे उक्तप्रियवचने । 'व्याहार उक्तिर्लपितम्' इत्यमरः । जिष्णावर्जुने जातस्पृहो जातानुरागः सन् । सख्यौ सुहृदीव । 'अथ मित्रं सखा सुहृद्' इत्यमरः । सम्प्रसादं विश्रम्भमियाय प्राप । तथा हि । सतां साधूनां योगः सङ्गतिराशु विश्वासयति विश्वासं जनयति हि । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३१ ॥

अन्वयः—कृतानतिः, व्याहृतसान्त्ववादे, जिष्णौ, जातस्पृहः, सः, पुण्यजनः, सख्यौ, इव, सम्प्रसादम् , इयाय । हि, सतां, योगः, आशु, विश्वासयति ॥ ३१ ॥

व्याख्या—कृतानतिः = कृतनमस्कारः, व्याहृतसान्त्ववादे = उक्तप्रियवचने, मृदुकथनशीले—इत्यर्थः । जिष्णौ = जयनशीले, अर्जुने, जातस्पृहः = उत्पन्नानुरागः, सः = अर्जुनमार्गदर्शकः, पुण्यजनः = यक्षः, सख्यौ = मित्रे, इव, सम्प्रसादं = विश्वासम्, इयाय = प्राप, हि = यतः, सतां=सज्जनानां, योगः = सङ्गतिः, आशु=शीघ्रं विश्वासयति = विश्वासं जनयति ॥ ३१ ॥

समासः—कृता आनतिर्येन सः कृतानतिः । सान्त्वस्य वादः सान्त्ववादः व्याहृतः सान्त्ववादो येन स व्याहृतसान्त्ववादस्तस्मिन् व्याहृतसान्त्ववादे । जाता स्पृहा यस्य स जातस्पृहः ॥ ३१ ॥

व्या०—इयाय = इण् + लिट् । विश्वासयति = वि + श्वस् + णिच् + लट् ॥ ३१ ॥

वाच्यान्तरम्—कृतानतिना, व्याहृतसान्त्ववादे जिष्णौ जातस्पृहेण तेन पुण्यजनेन सख्याविव सम्प्रसादम् ईये । सतां योगेनाशु विश्वास्यते ॥ ३१ ॥

कोषः—'साम सान्त्वमुभे समे' इत्यमरः । 'स्पृहाऽभिलाषा वाञ्छा च' इति कोषः । 'यक्षैकपिङ्गलैविलश्रीदपुण्यजनेश्वरा' इत्यमरः । 'अथ मित्रं सखा सुहृद्' इत्यमरः ॥ ३१ ॥

Page 220Permalink
३६किरातार्जुनीयम्[ तृतीयः

सारार्थः—महर्षिव्यासादेशात्समागतः स यक्षोऽर्जुनं प्रणम्य तदीयमथुरालापेनोत्पन्नानुरागः सन् प्रीतिविश्वासपात्रमेकान्तमित्रमिव तं मेने, यतः सज्जनानां सङ्गतिर्दिष्ट्यैव विश्वासमुत्पादयति ॥ ३१ ॥

भाषार्थः—उस यक्ष ने अर्जुन को प्रणाम करके मीठे बोलने वाले अर्जुन से मित्र के समान प्रेम किया। क्योंकि सज्जनों की सङ्गति जल्द विश्वास दिलाती है ॥

अथोष्णभासेव सुमेरुकुञ्जान्विहीयमानानुदयाय तेन ।
बृहद्द्युतीन्दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान्प्रपेदे ॥ ३२ ॥

अथेति ॥ अथोष्णभासा सूर्येणोदयाय पुनरुद्गमाय विहीयमानांस्त्यज्यमानानिति तमःप्राप्तिकारणोक्तिः । बृहद्द्युतीन् । सौवर्णत्वाद्दीव्यमानान्नित्यर्थः । इति तमसः सङ्कोचकारणोक्तिः । सुमेरुकुञ्जानिव । अत्र सुमेरुग्रहणं कुञ्जानां सौवर्णत्वद्योतनार्थम् । तेनार्जुनेनोदयाय श्रेयसे विहीयमानान्बृहद्द्युतीनानेकबुद्धिप्रकाशान् । पूर्ववद्विशेषणद्वयस्य प्रयोजनमनुसन्धेयम् । पाण्डुसुतान् । चतुर इति शेषः । दुःखेन कृच्छ्रेण कृत उपपादित आत्मलाभो यस्य तत्तथोक्तम् । तेषां विवेकित्वात्कथञ्चिल्लब्धोदयमित्यर्थः । तमः शोकोऽन्धकारश्च । 'तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे' इत्युभयत्रापि विश्वः । शनैर्मन्दम्प्रपेदे । तेषां विवेकित्वाद्भीतभीतमिवेति भावः । अत्र तमःशब्दस्य श्लिष्टत्वाच्छ्लेषानुप्राणितेयमुपमा ॥ ३२ ॥

अन्वयः—अथ उष्णभासा, उदयाय, विहीयमानान्, बृहद्द्युतीन्, सुमेरुकुञ्जान्, इव, तेन, ( विहीयमानान् बृहद्द्युतीन् ) पाण्डुसुतान्, दुःखकृतात्मलाभं, तमः, शनैः प्रपेदे ॥ ३२ ॥

व्याख्या—अथ = युधिष्ठिरसमीपादर्जुनस्य गमनानन्तरम्, उष्णभासा = सूर्येण, उदयाय = समुदयलाभाय, विहीयमानान् = त्यज्यमानान्, बृहद्द्युतीन् = काञ्चनवर्णान्, अतितेजोवतः सुमेरुकुञ्जान् काञ्चनगिरिलतागुल्मान्, इव, तेन = अर्जुनेन, उदयाय = अभ्युदयाय, शत्रुपरजयार्थमित्यर्थः । विहीयमानान् = त्यज्यमानान्, बृहद्द्युतीन् = अतिविक्रमवतः, पाण्डुसुतान् = युधिष्ठिरभीमनकुलसहदेवानित्यर्थः । दुःखकृतात्मलाभं = क्लेशवशजनितं, तमः = अन्धकारः शोकश्च, शनैः = मन्द मन्दं, क्रमशः, प्रपेदे = प्राप । इति ॥ ३२ ॥

समासः—उष्णा भासो यस्य स उष्णभास्तेनोष्णभासा । सुमेरोः कुञ्जाः सुमेरुकुञ्जास्तान् सुमेरुकुञ्जान् । बृहती द्युतिर्येषां ते बृहद्द्युतयः, तान् बृहद्द्युतीन् । आत्मनो लाभः आत्मलाभः । दुःखेन कृत आत्मलाभो येन तद् दुःखकृतात्मलाभम् । पाण्डोः सुताः पाण्डुसुतास्तान् ॥ ३२ ॥

व्याकरणम्—प्रपेदे = प्र + पद् + लिट् ॥ ३२ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३७

Page 221Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३७

वाच्यान्तरम्—अथोष्णभासोदयाय विहीयमानाः सुमेरुकुञ्जा इव बृहद्द्युतयः पाण्डुसुता दुःखकृतात्मलाभेन तमसा प्रपेदिरे ॥ ३२॥

कोषः—'भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः' इत्यमरः। 'मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालय' इत्यमरः। 'निकुञ्जकुञ्जौ वा क्लीबे लताऽदिपिहितोदरे' इत्यमरः। 'तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे'—इत्यमरः॥ ३२ ॥

सारार्थः—पुराणे तु सूर्यः सुमेरुं परितो भ्रमतीति कथाऽस्ति, तत्र यथा सूर्येण विरहितान् मेरुशिखराग्रान् ध्वान्तमभिभवति, तथैवार्जुनविरहितानपि युधिष्ठिरादीन् शोक आक्रमत्। सूर्येणैव प्रकाशितानि प्रकाशन्ते मेरुशिखराणि, तद्वत् अर्जुनेन सहिताः सन्त एव मुदितास्त आसन् ॥ ३२ ॥

भाषार्थः—'जैसे सूर्य से बिछुड़े हुए सुमेरुपर्वत के शिखर ( चोटियों ) को अन्धकार छा लेता है, वैसे ही अर्जुन से बिछुड़े हुए, पर तेजस्वी पाण्डवों को, दुःख के अधीन किया है आत्मा को जिसने ऐसा शोक ने घेर लिया ॥ ३२ ॥

असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः ।
तुल्याद्विभागादिव तन्मनोभिर्दुःखातिभारोऽपि लघुः स मेने ॥ ३३ ॥

असंशयेति ॥ असंशयमसंदिग्धं यथा तथाऽऽलोचितं विवेचितं यत्कार्यं तेन नुन्नो निरस्त इति लघुत्वहेतूक्तिः। 'नुदविदान्दत्राघ्रीह्रीभ्योऽन्यतरस्याम्' इति निष्ठा-नत्वम्। कार्यगौरवमालोच्य निरस्त इत्यर्थः। तथाऽपि प्रेम्णा भ्रातृवात्सल्येन कर्त्रा समानीय पुनराकृष्य विभज्यमानः समशोकभागीक्रियमाणः। तुल्येन प्रेम्णा तुल्यदुःखत्वं भवतीति भावः। स पूर्वोक्तो दुःखमेवातिभारोऽपि। अतिभारभूतमपि दुःखमित्यर्थः। तन्मनोभिस्तेषां चतुर्णां पार्थानां मनोभिस्तुल्याद्विभागादिव। पूर्वोक्तात्प्रेमकृतात्समविभागादिवेत्यर्थः वस्तुतस्तु विवेकादेवेति भावः। पुनर्विभागग्रहणं तस्य हेतुत्वोत्प्रेक्षार्थमनुवादाददोषः। लघुर्मेने मतः। यथैकोऽनेकधा विभज्य बहुभिरुह्यमानो महानपि भारो लघुर्मन्यते तद्वदित्यर्थः ॥ ३३ ॥

अन्वयः—असंशयालोचितकार्यनुन्नः, प्रेम्णा, समानीय, विभज्यमानः, सः, दुःखातिभारः, अपि, तन्मनोभिः, तुल्याद्, विभागाद् इव, लघुः मेने ॥ ३३ ॥

व्याख्याअसंशयालोचितकार्यनुन्नः = निश्चयविचारितकृत्यवच्छिन्नः। अर्थादनेनार्जुनकृततपसा निश्चयं जयलाभो भविष्यतीति निसन्देहालोचितकार्यरूपायुधेन खण्डितो दुःखपिण्ड इति भावः। प्रेम्णा = प्रियतया, भ्रातृसौहार्देनेत्यर्थः। समानीय = गृहीत्वा, विभज्यमानः = विभागीकृतः, सः = अर्जुनविरहजातः, दुःखातिभारः = शोकातिभारः, अपि, तन्मनोभिः = युधिष्ठिरप्रभृतिचित्तैः, तुल्यात् = समानात्, विभागात् = खण्डाद्, इव, लघुः, स्वल्पः, मेने। यथा किमपि गुरु वस्तु

Page 222Permalink

३८ किरातार्जुनीयम् [ तृतीयः

केनचिदस्त्रेण वाहकजनसहस्रस्यासमं खण्डं कृत्वा, प्रत्येकजनेभ्यो दत्तं सङ्कहनयोग्यं जायते। तद्वद् अर्जुनविच्छेदजन्यदुःखराशिं ध्रुवसम्भावितजयफलेन तपोऽस्त्रेण विभज्य, युधिष्ठिरप्रभृतिभ्रातृचतुष्टयस्य मनोभिर्गृहीतमत एवासह्यं नाभूदित्यर्थः॥

समासः—न संशयो विद्यते यत्र तदसंशयम्, असंशयम् आलोचितं यत् कार्यं तदसंशयालोचितकार्यं, तेनासंशयालोचितकार्येण नुन्न इत्यसंशयालोचितकार्यनुन्नः। तेषां मनांसि तन्मनांसि तैस्तन्मनोभिः। दुःखस्यातिभारो दुःखातिभारः॥

व्याकरणम्—विभज्यमानः = वि + भज् + यक् + लट् + शानच्। समानीय = सम् + आ + नी + ल्यप्। मेने = मन् + लिट् ॥ ३३ ॥

वाच्यान्तरम्—असंशयालोचितकार्यनुन्नः, प्रेम्णा समानीय विभज्यमानं, दुःखातिभारं तन्मनांसि, तुल्याद्दिभागादिव लघुं मेमिरे ॥ ३३ ॥

कोषः—'ध्रुवो ऽभेदे, क्लीबं तु निश्चिते शाश्वते त्रिषु' इत्यमरः। 'प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्' इत्यमरः। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन' इत्यमरः॥ ३३॥

सारार्थः—व्यासोपदिष्टतपः सम्पादनार्थं प्रस्थितेऽर्जुने, तद्विरहजनितक्लेशं सर्वै भ्रातरः सहवासितया विभज्य गृहीतवान्, अतः स महान् दुर्वहोऽपि लघुः सङ्गयोग्यो जातः॥ ३३॥

भाषार्थः—निश्चय करके सोचा हुआ जो काम उससे टुकड़े किये हुये और प्रेमरूप तराजू से विभाग किये (तोले) गये, ऐसे अर्जुन के विरह से हुए दुःख के परम भार भी, जैसे बराबर ही बराबर हिस्सा हो ऐसे उन (युधिष्ठिर, भीम, नकुल, सहदेव) लोगों के मन से हलका (सहने योग्य) माना गया ॥ ३३ ॥

अथैवं प्रेम्णाऽऽकृष्यमाणमपि शोकं विवेको निजिगायेत्याह—

धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः। वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः॥३४॥

धैर्येणेति॥ धैर्येण तेषां निसर्गतो निर्विकारचित्तत्वेन तथा महर्षेर्व्यासस्य। प्रवर्तकस्येति शेषः। विश्वास्यतया। श्रद्धेयवचनष्वेनेत्यर्थः। अरातिप्रभवादरातिहेतुकात्तीव्राद् दुःसहान्मन्योः क्रोधाद्धेतोस्तथाऽर्जुनप्रभावपरिज्ञानाच्चेति। हेत्वन्तरं विशेषणमुखेनाह—मघोनः सुतेऽर्जुने वीर्यं च। 'न लोक—' इत्यादिना षष्ठीप्रतिषेधः। विद्वात्सु। शातवत्स्विति यावत्। 'विदेः शतृर्वसुः,' इति वैकल्पिको वस्वादेशः। तेषु पार्थेषु स शोकः स्थानं स्थितिं नावाप न प्राप ॥ ३४॥

अन्वयः—धैर्येण, महर्षेः, विश्वास्यतया, अरातिप्रभवाद्, तीव्राद् मन्योः (हेतोः) मघोनः, सुते, वीर्यं, विद्वत्सु, तेषु, सः, शोकः, स्थानं, न, अवाप ॥ ३४ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३६

Page 223Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३६

व्याख्या—धैर्येण = चित्तस्थैर्येण, हेतुनेति शेषः । इदं महतां लक्षणं, तथोक्तं नीतौ—'विपदि धैर्यमथाभ्युदये क्षमा' इत्यादि । धैर्यवतां लक्षणन्तु कुमारसम्भवे— विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।' इति । महर्षेः = व्यासस्य, विश्वास्यतया = श्रद्धेयवाक्यतया, न कदाऽपि व्यासोद्योगो विफलो भव- तीति हेतोर्मानेनोद्योगेन ध्रुवं जयलाभो भविष्यतीति हेतोः । अरातिप्रभवाद् = शत्रुजनितात् , तीव्राद् = दारुणाद् , अतिदुःसहादित्यर्थः । मन्योः = क्रोधाद् , वा, दैन्यात्, कारणाद् , मघोनः = इन्द्रस्य, सुते = पुत्रे, अर्जुन इत्यर्थः । वीर्यं = विक्रमं, विद्वत्सु = ज्ञातवत्सु, तेषु = युधिष्ठिरप्रभृतिभ्रातृषु, सः=अर्जुनविरहोत्पन्नः, शोकः= दुःखं, स्थानं = स्थित्यर्थं स्थलं, न, अवाप = न प्राप, भाविशुभफलाभमनोरथेन शोकमग्नास्ते न बभूवुरिति भावः ॥ ३४ ॥

समासः--अरातिः प्रभव उत्पत्तिस्थानं यस्य सः अरातिप्रभवः तस्मादराति- प्रभवात् ॥ ३४ ॥

व्याकरणम्—विद्वत्सु = विद् + लट् + शतृ, तस्य वस्वादेशः । अवाप = अव + आप् + लिट् ॥ ३४ ॥

वाच्यान्तरम्—धैर्येण हेतुना महर्षेर्विश्वास्यतयाऽरातिप्रभवातीव्राम्मन्योश्च हेतो- स्तथा चार्जुनविक्रमज्ञानात्, तेन शोकेन तेषु स्थानं नावापे ॥ ३४ ॥

कोषः—'चित्तस्थैर्यं धृतिर्धैर्यं तुष्टितोष इति स्मृत' इति कोषः । 'तीव्रैकान्त- नितान्तानि गाढबाढदृढानि च' इत्यमरः । 'अभिघाति-पराराति-प्रत्यर्थि-परि- पन्थिन' इत्यमरः । 'आत्मजस्तनयःसूनुः सुतः पुत्र' इत्यमरः । 'इन्द्रो मरुत्वान्म- घवा विडौजाः पाकशासनः' इत्यमरः ॥ ३४ ॥

सारार्थः—यतस्ते प्रकृत्या विपदि धैर्यवन्त आसन्, तथा च व्यासप्रयासः सफल एव भविष्यति, नियतमनेनास्माकं झटित्येवाभ्युदयो भविष्यति, एवं विश्वा- सतः, अथ च दुष्टशत्रुकृतापमानजनितदुःखान्, अर्जुनस्य लोकातिशयिशौर्यप्रतीत्या च, अर्जुनविरहजन्यशोकः पाण्डवेषु न वासमकरोत् ॥ ३४ ॥

भाषार्थः—स्वभावतः उन लोगों को धीरता से और व्यास के विश्वास से और बड़े दारुण दुःसह, शत्रुओं से पैदा हुए क्रोध के कारण, पाण्डवों से अर्जुन के विरह का दुःख नहीं ठहर सका ॥ ३४ ॥

तान्भूरिधाम्नश्चतुरोऽपि दूरं विधाय यामानिव वासरस्य । एकौघभूतं तदशर्म कृष्णां विभावरीं ध्वान्तमिव प्रपेदे ॥ ३५ ॥

तानिति ॥ तान्यार्थास्त्यक्तवत् । शर्म सुखम् । 'शर्मशातसुखानि च' इत्यमरः । तद्विरुद्धमशर्म दुःखम् । 'नञ्' इति नञ्समासः । भूरिधाम्नोऽतितोजस्विन इति

Page 224Permalink

४० | किरातार्जुनीयम् | [ तृतीयः

हानिहेतुत्वोक्तिः। चतुरस्तान्पार्थानपि वासरस्य भूरिधाम्नश्चतुरो यामान्प्रहरानिव । दूरं विहाय त्यक्त्वैकौघभूतमेकराशीभूतंसत् । ‘श्रेण्यादयः कृतादिभिः’ इत्यर्थे कर्म-धारयः । ‘श्रेण्यादिराकृतिगणः’ इति शाकटायनः । कृष्णां विभावरीं कृष्णपक्षरात्रिं ध्वान्तमिव । कृष्णां द्रौपदीं प्रपेदे प्राप ॥ ३५ ॥

**अन्वयः—**एकौघभूतं, तत्, अशर्मं, भूरिधाम्नः चतुरः, अपि, तान्, वासरस्य यामान्, इव, दूरं, विहाय, ध्वान्तं, विभावरीम्, इव, कृष्णां, प्रपेदे ॥ ३५ ॥

**व्याख्या—**एकौघभूतम् = एकत्रीभूतं, तत् = अर्जुनविरहजातम्, अशर्म = अकल्याणं, दुःखमित्यर्थः ( कर्तृ ) । भूरिधाम्नः = अतितॆजसः, चतुरः = चतुः-सङ्ख्याकान्, युधिष्ठिरभीमनकुलसहदेवान् इत्यर्थः । तान् = पाण्डवान्, भूरिधाम्नः = परमप्रकाशान्, वासरस्य = दिनस्य, यामान् = प्रहरान्, इव, दूरं विहाय = दूरं त्यक्त्वा, ध्वान्तम् = अन्धकारः, विभावरीं = रजनीं, रात्रिभित्यर्थः । इव, कृष्णां = द्रौपदीम्, प्रपेदे = प्राप । तत्र यथा दिनप्रथमयामः शान्तस्तथैव युधिष्ठिरः, यथा द्वितीयतृतीयौ दुःसहौ तथैव भीमनकुलौ मल्लौ, चतुर्थ इव शान्तः सहदेव आसीत्, सर्वेभ्यः शान्ता घोरदुःखान्धकारवती रात्रिरूपा द्रौपदी, वर्णेन कृष्णवर्णाऽऽसीत् ॥

**समासः—**भूरि धाम येषां ते भूरिधामानस्तान् भूरिधाम्नः । एक ओघ एकौघः, अनेकौघ एकौघीभूतं तदेकौघभूतम् । न शर्म अशर्म ॥ ३५ ॥

**व्याकरणम्—**विहाय = वि + हा + क्त्वा + ल्यप् । प्रपेदे=प्र + पा + लिट् ॥

**वाच्यान्तरम्—**वासरस्य यामानिव तांश्चतुरः पाण्डवान् दूरं विहाय, एकौघ-भूतेन तेनाशर्मण, ध्वान्तेन विभावरीव कृष्णा प्रपेदे ॥ ३५ ॥

कोषः—'धाम रश्मौ गृहे वित्ते' इति कोषः । 'द्वौ यामप्रहरौ समौ' इत्यमरः । 'घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ' इत्यमरः । 'शर्म-शात-सुखानि च' इत्यमरः । 'विभावरीतमस्विन्यौ रजनी यामिनी तमो' इत्यमरः । 'अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तम' इत्यमरः ॥ ३५ ॥

**सारार्थः—**सर्वोऽर्जुनविरहशोको द्रौपद्या एवाभवत् । यथा दिने दिवसस्य चतुरः प्रहरांस्त्यक्त्वा, रात्रावेव तमस्तिष्ठति, तथैव, पाण्डवांश्चतुरो विहाय द्रौपद्या-मेवार्जुनविच्छेदखेदो गतवानित्यर्थः ॥ ३५ ॥

**भाषार्थः—**बडे प्रकाशवान दिन के चारों प्रहरों के समान, चारों पाण्डवों को छोड़ रात्रि के सदृश द्रौपदी को, अर्जुन के बिछुड़ते ही शोकरूपी अन्धकार ने घेर लिया ॥ ३५ ॥

तुषारलेखाऽऽकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।
अगूढभावाऽपि विलोकने सा न लोचने मीलयितुं विषेहे ॥३६॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४१

Page 225Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४१


तुषारेति ॥ सा द्रौपदी विलोकनेऽर्जुनावलोकनेऽगूढभावाऽगूढाभिप्रायाऽपि। स्फुटाभिलाषिणीति यावत्। 'भावो लीलाक्रियाचेष्टामूत्यभिप्रायजन्तुषु' इति वैजयन्ती। मङ्गलभङ्गभीरुर्मङ्गलहानेर्भीता सती। पर्यश्रुणी परिगताश्रुके। बाष्पावृते-इत्यर्थः। अत एव तुषारलेखाऽऽकुलितोत्पलाभे हिमबिन्दुसहितेन्दीवरसन्निभे इत्युपमाऽलङ्कारः। लोचने मीलयितुं न विषेहे न शशाक। अश्रुणोऽस्थावरकत्वे-ऽपि तन्निपातस्यामङ्गलत्वात्तन्निवर्त्तकं सा न चकारेत्यर्थः ॥ ३६ ॥

अन्वयः—अगूढभावा अपि, मङ्गलभङ्गभीरुः सा, (द्रौपदी) विलोकने, तुषारलेखाऽऽकुलितोत्पलाभे, पर्यश्रुणी, लोचने मीलयितुं न विषेहे ॥ ३६ ॥

व्याख्या—अगूढभावाऽपि = व्यक्ताशयाऽपि, मुखदर्शनेनैव हृद्गतातिविरहव्यथा लभ्यत इत्यर्थः। मङ्गलभङ्गभारुः = सिद्धिविघ्नभीता, यात्रासमये चेत्सुप्रसन्नया रमण्या जनो विलोक्यते तदा यात्राफलं सफलमेव भवति। यदि च विलपन्त्या दृश्यते तदा ध्रुवं यात्रा विफलेवातोऽतिविरहव्यथया जर्जरिताऽपि शोकवेगं धैर्येणा-च्छाद्य बहिर्व्याज्जप्रसादमेव दर्शितवतीति भावः। सा = द्रौपदी, विलोकने = अर्जु-नावलोकने, तुषारलेखाऽऽकुलितोत्पलाभे = हिमकणपूर्णकमलोपमे, पर्यश्रुणी = बाष्पपूरिते, लोचने, मीलयितुं = सङ्कोचयितुं, न विषेहे = न शशाक, नेत्रपुटसम्पुटी-करणेनाश्रुपातस्य नियतत्वाद्विकसित एव नयने रक्षिते द्रौपद्येति भावः ॥ ३६ ॥

समासः—तुषारस्य लेखास्तुषारलेखास्ताभिराकुलिते य उत्पले, ते तुषार-लेखाऽऽकुलितोत्पले तयोराभा इव आभा ययोस्ते तुषारलेखाऽऽकुलितोत्पलाभे। परिगते अश्रुणी ययोस्ते पर्यश्रुणी। मङ्गलस्य भङ्गो मङ्गलभङ्गस्तस्माद्भीरुर्मङ्गलभङ्ग-भीरुः। न गूढः इत्यगूढः अगूढे भावो यस्याः साऽगूढभावा ॥ ३६ ॥

व्याकरणम्—मीलयितुं = मील् + णिच् + तुमुन्। विषेहे = वि + षह् = लिट् ॥

वाच्यान्तरम्—मङ्गलभङ्गभीर्वा, अगूढभावयाऽपि तया लोचने मीलयितुं न विषेहे ॥ ३६ ॥

कोषः—'भावो लीला क्रिया-चेष्टा-भूत्यभिप्रायजन्तुषु-इति वैजयन्ती। 'अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्' इत्यमरः। 'वीथ्यालिरावलिः पङ्क्तिः-श्रेणीलेखास्त राजय' इत्यमरः। 'स्यादुत्पलं कुवलयम्' इत्यमरः। 'शःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः। 'लोचनं नयनं नेत्रम्' इत्यमरः ॥ ३६ ॥

सारार्थः—यदाऽर्जुनो व्यासोपदिष्टतपः सम्पादनाय गन्तुं प्रवृत्तस्तदानीं तद्वि-रहव्यथया दीनाया द्रौपद्याः सवाष्पे नयने, गद्गदं च करणं जातम्। परन्तु यात्रा-समयेऽश्रुनिपातो रोदनञ्च यात्राफलव्यर्थकरमिति धिया तया शीतबिन्दुभरितकमल इव निजनयने विकसित एव रक्षिते ॥ ३६ ॥

Page 226Permalink
४२किरातार्जुनीयम्[ तृतीयः

**भाषार्थः—**स्पष्ट अभिप्राय दिखाने वाली भी द्रौपदी, अमङ्गल (असगुन) होने के डर से अर्जुन को देखने के समय, पाला के बिन्दुओं से भरे हुए कमल के समान, आँसू से डबडवायी आँखें न मिला सकीं ॥ ३६ ॥

अकृत्रिमप्रेमरसाभिरामं रामाऽर्पितं दृष्टिविलोभि दृष्टम् ।
मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः ॥ ३७ ॥

अकृत्रिमेति ॥ इन्द्रसूनुरर्जुनः । क्रियया निर्वृत्तः कृत्रिमः । 'द्वितः क्त्रिः' इति क्त्रिः । 'कत्रेर्मम्नित्यम्' इति मम् प्रत्ययः । तद्विरुद्धम् । प्रेमैव रसः । अकृत्रिमेण प्रेमरसेनाभिरामम् । अन्यत्र प्रेमरसेन मधुरादिना चाभिरामम् । रामया रमण्याऽर्पतम् । दृष्टिं विलोभयतीति दृष्टिविलोभि दृष्टिप्रियमित्यर्थः । दृष्टं दर्शनं । 'नपुंसके भावे क्तः' । मनःप्रसादः । प्रसन्नं मन इत्यर्थः । सोऽञ्जलिरिवेत्युपमितसमासः ' तेन मनःप्रसादाञ्जलिना । पथि साधु पाथेयं शम्बलमिव । 'पन्थ्यतिथिवसतिस्वपतेर्डण्' निकाममतिशयेन जग्राह । रामाऽर्पितं पाथेयं पथि क्षेमाय भवतीत्यागमः ॥ ३७ ॥

**अन्वयः—**इन्द्रसूनुः मनःप्रसादाञ्जलिना, अकृत्रिमप्रेमरसाभिरामं, रामाऽर्पितं दृष्टिविलोभि, दृष्टं, पाथेयम्, इव, निकामं, जग्राह ॥ ३७ ॥

**व्याख्या—**इन्द्रसूनुः = अर्जुनः, मनःप्रसादाञ्जलिना = चिदानन्दाञ्जलिना, अकृत्रिमप्रेमरसाभिरामं = स्वाभाविकस्नेहरसरमणीयं, न कपटप्रेमसुन्दरमित्यर्थः । रामाऽर्पितं = रमणीदत्तं, द्रौपदीवितीर्णमित्यर्थः । दृष्टिविलोभि = नयनाधीनकरं, नेत्राह्लादकमित्यर्थः । दृष्टं = दर्शनं, द्रौपद्या इति शेषः । पाथेयम् = मार्गोपयोगि-वस्तुजातं, निकामं = यथेष्टं, जग्राह = गृहीतवान् । यात्रासमये स्त्रीदत्तं पाथेयं, शुभोदर्क्याय भवति ॥ ३७ ॥

**समासः—**क्रियया निर्वृत्तः कृत्रिमः, न कृत्रिमः, अकृत्रिमः, अकृत्रिमो यः प्रेमा, स अकृत्रिमप्रेमा तस्य यो रसः स अकृत्रिमप्रेमरसस्तेनाभिरामं यत् तदकृत्रिमप्रेमरसाभिरामम् । रामयाऽर्पितं रामाऽर्पितम् । दृष्टिं विलोभयतीति दृष्टिविलोभि । मनसः प्रसादो मनःप्रसादः स एवाञ्जलिरिति मनःप्रसादाञ्जलिः तेन मनःप्रसादाञ्जलिना ॥

**व्याकरणम्—**जग्राह = ग्रह् + लिट् ॥ ३७ ॥

**वाच्यान्तरम्—**इन्द्रसूनुनाऽकृत्रिमप्रेमरसाभिरामं रामाऽर्पितं दृष्टिविलोभि दृष्टं मनःप्रसादाञ्जलिना पाथेयमिव निकामं जगृहे ॥ ३७ ॥

कोषः—'प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्' इत्यमरः । 'चक्षुर्नेत्राग्बु' इत्यमरः । 'तौ युतावञ्जलिः पुमान्' इत्यमरः । 'पाथेयं शम्बलं मार्गे भोग्यपेयादिकञ्च यत्—' इति कोषः ॥ ३७ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४३

Page 227Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४३

सारार्थः—यथा कश्चित्पथिकः प्रस्थानसमये स्वरमण्याः करात्पाथेयं गृहीत्वा व्रजति, तथैवार्ज्जुनस्तपोऽर्थं वनं गन्तुमुद्यतो द्रौपद्या नयनग्राहि दर्शनं पाथेयवद् गृहीतवान् ॥ ३७ ॥

भाषार्थः—अर्जुन ने अपने दिल को खुशी रूप अञ्जलि से बिना बनावट प्रेमरस से सुन्दर आँख को लुभाने वाले द्रौपदी के लिए हुए दर्शन की पाथेय के समान ग्रहण किया ॥ ३७ ॥

धैर्यावसादेन हतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः ।
निरुद्धबाष्पोदयसन्नकण्ठमुवाच कृच्छ्रादिति राजपुत्री ॥ ३८ ॥

धैर्येति ॥ वन्यद्विपेन । वन्यग्रहणमुच्छृङ्खलत्वद्योतनार्थम् । निदाघसिन्धुर्ग्रीष्म-नदीव । निदाघग्रहणं दौर्बल्यद्योतनार्थम् । धैर्यावसादेन धैर्यभ्रंशेन कर्त्रा, हतप्रसादा हतनैर्मल्या । क्षोभं गमितेत्यर्थः । राजपुत्री क्षत्रियसुता द्रौपदी । अतः क्षात्रयुक्तमेव वक्ष्यतीति भावः । निरुद्धवाष्पोदयं संरुद्धरोदनं सन्नकण्ठं हीनस्वरम् । अथ तयोरु-भयोः कृतबहुव्रीह्यो क्रियाविशेषणयोर्विशेषणसमासः । कृच्छ्रात्कथमपिस्थिति वक्ष्य-माणमुवाच ॥ ३८ ॥

अन्वयः—वन्यद्विपेन, निदाघसिन्धुः, इव, धैर्यावसादेन, हतप्रसादा, राजपुत्री, निरुद्धवाष्पोदयसन्नकण्ठं (यथा स्यात्तथा), कृच्छ्राद्, इति उवाच ॥ ३८ ॥

व्याख्यावन्यद्विपेन = आरण्यकगजेन, अशिक्षितेनापालकतयेत्यर्थः । निदाघ-सिन्धुः = ग्रीष्मनदी, इव, धैर्यावसादेन = धृतिध्वंसेन, हेतुना, हतप्रसादा = दूरी-कृतानन्दा, वा नदीपक्षे, अपगतनैर्मल्या, उन्मथितेति यावत् । राजपुत्री = द्रुपद-नृपसुता, द्रौपदीति शेषः । निरुद्धवाष्पोदयसन्नकण्ठम् = अन्तर्गताश्रुपूरन्यासगल-विवरं, यथा स्यात्तथा, कृच्छ्रात् = कष्टात्, कथं कथमपीत्यर्थः । इति = वक्ष्यमाणं. वचः, उवाच = उक्तवतीति ॥ ३८ ॥

समासः—धैर्यस्यावसादो धैर्यावसादस्तेन धैर्यावसादेन । हतः प्रसादो यस्याः सा हतप्रसादा । वने भवो वन्यः वन्यश्चासौ द्विपो वन्यद्विपस्तेन वन्यद्विपेन । निदाघस्य सिन्धुर्निदाघसिन्धुः । निरुद्धाश्च ते बाष्पा निरुद्धवाष्पास्तेषामुदयो निरुद्धवाष्पोदयः, तेन सन्नः कण्ठो यस्मिंस्तद् निरुद्धवाष्पोदयसन्नकण्ठम् । राज्ञः पुत्री राजपुत्री ॥३८॥

व्याकरणम्—उवाच = वच् + लिट् ॥ ३८ ॥

वाच्यान्तरम्—वन्यद्विपेन निदाघसिन्ध्वा, इव, धैर्यावसादेन हतप्रसादया राजपुत्र्या निरुद्धवाष्पोदयसन्नकण्ठं यथा स्यात्तथा ऊचे ॥ ३८ ॥

कोषः—'प्रसादस्तु प्रसन्नता' इत्यमरः । 'दन्ती दन्तावलो हस्ती द्विरदोनेकपो द्विप' इत्यमरः । 'ग्रीष्म ऊष्मकः । निदाघ उष्णोपगम'-इत्यमरः । 'देशे, नव-

Page 228Permalink

४४ किरातार्जुनीयम् [ तृतीयः

विशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । 'कण्ठो गलोऽथ ग्रीवायाम् इत्यमरः ॥

सारार्थः—यथा ग्रीष्मे (ज्येष्ठाषाढयोः) प्रकृत्याऽपि स्वल्पप्रवेशा नदी वन्य- हस्तिना मलिनीक्रियते, तथैवार्ज्जुनविच्छेदखेदेन विमनायमाना, पूर्वतोऽपि कृशाङ्गी द्रौपदी बाष्पगद्गदकण्ठेन कथं कथमर्जुनं प्रत्युवाचेति ॥ ३८ ॥

भाषार्थः—वनैले हाथी से ग्रीष्म की नदी की भाँति, धैर्य के नाश से दूर हो गई है प्रसन्नता जिसकी ऐसी द्रौपदी रोके हुए रोदना के आँसुओं से रुँधे गले से किसी तरह बोली ॥ ३८ ॥

मग्नां द्विषच्छद्मनि पङ्कभूते सम्भावनां भूतिमिवोद्धरिष्यन् ।
आधिद्विषां मा तपसां प्रसिद्धेरस्मद्विना मा भृशमुन्मनीभूः ॥ ३९॥

मग्नामिति ॥ पङ्कभूते पङ्कोपमिते । 'भूतं क्ष्माऽऽदौ पिशाचादौ न्याय्ये सत्यो- पमानयो' इति विश्वः । द्विषच्छद्मनि शत्रुकपटे मग्नाम् । दुरुद्धरा मित्यर्थः । सम्भावनां योग्यताम् । गौरवमिति यावत् । भूतिं सम्पदामिव । 'भूतिर्भस्मनि सम्पदि' इत्यमरः । उद्धरिष्यन् । उद्धारकत्वमिति शेषः । आधिद्विषां दुःखच्छिदां तपसां मा प्रसिद्धेः सम्यक्सिद्धिपर्यन्त मस्मद्विना । अस्माभिर्विनेत्यर्थः । 'पृथ- ग्विना—' इत्यादिना विकल्पारपञ्चमी । भृशं मोन्मनोभूः अस्मद्विरहाद् दुर्मना मा भूदित्यर्थः । दौर्मनस्यस्य तपःपरिपन्थित्वादिति भावः । 'माङि'— इत्याशीर्थे लुङ् । 'न माङ्योगे' इत्यडागमप्रतिषेधः । अनुन्मना उन्मनाः सम्पद्यमान उन्मनी । अभूततद्भावे च्विः । 'अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च' इति सकारलोपः । 'अस्य च्वौ' इतिकारः ॥ ३९ ॥

अन्वयः—पङ्कभूते, द्विषच्छद्मनि, मग्नां, सम्भावनां, भूतिम्, इव, उद्धरिष्यन् (त्वम्) आधिद्विषां, तपसाम्, आप्रसिद्धेः, अस्मद्विना, भृशम्, मा, उन्म- नीभूः ॥ ३९ ॥

व्याख्या—पङ्कभूते = कर्दमोपमे द्विषच्छद्मनि = शत्रुकृतकपटजाले, मग्नां = निमग्नां, सम्भावनां = योग्यतां, जनानुमानितां भाविनीमित्यर्थः । भूतिम् = ऐश्वर्य- मिव, निधिमिवेत्यर्थः । उद्धरिष्यन् = उद्धारं कर्तुमभिलपन्, निधिपक्षे, उत्पाट- यितुमिच्छन् । त्वमर्जुन इति शेषः । आधिद्विषां = मनोव्यथाहारकाणां, तपसां = तपोऽनुष्ठानानाम्, आप्रसिद्धेः = सर्वथा सिद्धिपर्यन्तम्, अस्मद्विना = अस्मान् (द्रौपदीं) विना, मा = नहि, भृशम् = अत्यर्थम, उन्मनीभूः = विकलचेता उत्कण्ठितचित्तो नहि भव । तपसि स्वयमुत्कण्ठितस्य सिद्धिवाधा भवतीत्यतस्तपः सम्पन्नतयै एवोत्कण्ठितेन भवता भाव्यमिति भावः ॥ ३९ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४५

Page 229Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ४५

समासः—द्विषतां छद्म द्विषच्छद्म, तस्मिन् द्विषच्छद्मनि। आधिद्विषो ये तेषाम-धिद्विषाम् ॥ ३९ ॥

व्याकरणम्—उद्धरिष्यन् = उद् + हृ + लृट् + शतृ। उन्मनीभूः = उन्मनी + भू + लुङ् ॥ ३९ ॥

वाक्यान्तरम्—पङ्कभूते द्विषच्छद्मनि मग्नां सम्भावनां भूतिमिवोद्धरिष्यता त्वया, आधिद्विषां तपसामाप्रसिद्धेरस्मद्विना भृशं मा, उन्मनीभावि ॥ ३९ ॥

कोषः—'रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः। 'कपटोऽस्त्रीव्याज-दम्भोपधयश्छद्मकैतवे'—इत्यमरः। 'निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शावकर्दमौ— इत्यमरः। 'भूतं क्ष्माऽऽसौ पिशाचादौ न्याय्ये सत्यापमानयोः' इत्यमरः। 'भूति-र्भस्मनि सम्पदि'—इत्यमरः। पुंस्याधिर्मानसी व्यथा' इत्यमरः। 'अतिवेलभृशा-त्यर्थातिमात्रोद्गाढनिर्भरम्' इत्यमरः ॥ ३९ ॥

सारार्थः—शत्रुकपटप्रपञ्चेन हृतराज्यः प्राप्तपरमकृशो भवाँस्तत्प्रशमाय तपः कर्तुं गच्छति, परतन्त्रे तपसि प्रवृत्तेन त्वया यावत्तपःसिद्धिर्न लभ्यते, तावदस्माकं स्मरणं न कदाऽपि विधेयमिति ॥ ३९ ॥

भाषार्थः—शत्रु के कपट-कीचड़ में फँसी हुई अपनी योग्यता की गाढ़ी हुई सम्पत्ति के समान उसे उद्धार करने की इच्छा रखते हुए मन की दर्द को हटाने वाली तपस्या की सिद्धि तक मेरे बिना अत्यन्त उत्कण्ठित (व्यग्र) नहीं होना ॥

अथानौत्सुक्यदाढर्यार्थं तस्य सर्वार्थसिद्धिनिदानत्वमाह—

यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥४०॥

यश इति ॥ यशोऽधिगन्तुम्। कीर्तिं लब्धुमित्यर्थः। सुखस्य लिप्सया लब्धु-मिच्छया वा। मनुष्यसङ्ख्यां मनुष्यगणनामतिवर्तितुमतिक्रमितुं वा। अमानुषं कर्म कर्तुं वेत्यर्थः। अभियोगभाजामभिनिवेशवतां निरुत्सुकानामत्सुकानाम्। अदु-र्मनायमानानामित्यर्थः। सिद्धिः पूर्वोक्तं यशः सुखाद्यर्थसिद्धिश्च। समुत्सुकेवातुरक्त-कान्तेवाङ्कमुत्सङ्गमन्तिकं वोपैति। तस्मादस्मद्विरहदुःखमातपःसिद्धेः सोढव्यमिति भावः ॥ ४० ॥

अन्वयः—यशः अधिगन्तुं, वा, सुखलिप्सया, वा, मनुष्यसङ्ख्याम्, अतिवर्तितुं, निरुत्सुकानाम्, अभियोगभाजां, सिद्धिः, समुत्सुका, इव अङ्कम् उपैति ॥ ४० ॥

व्याख्यायशः :: ख्यातिम्, अधिगन्तुम् = प्राप्तुम्, मम यशो भवत्वित्या-शयेत्यर्थः। वा, सुखलिप्सया = कल्याणकाङ्क्षया, वा, मङ्गललाभासया, वा मनुष्य-

Page 230Permalink

४६ किरातार्जुनीयम् [ तृतीयः

सङ्ख्याम् = मानवगणनाम्, अतिक्रमितुं, सकलनरातिशायि-कर्म-करणाय, निरुत्सु- कानाम् = औत्सुक्यहीनानाम्, अभियोगभाजाम् = अभिनिवेशवतां, कर्मण्या- सक्तानामित्यर्थः । जनानामिति शेषः । सिद्धिः = क्रियासिद्धिः, समुत्सुका = समु- त्कण्ठिता, स्त्री, इव, अङ्कं = क्रोडम्, उपैति = प्राप्नोति ॥ ४० ॥

समासः—सुखस्य लिप्सा लब्धुमिच्छा या सा सुखलिप्सा, तया सुखलिप्सया मनुष्याणां सङ्ख्या मनुष्यसङ्ख्या तां मनुष्यसङ्ख्याम् । निर्गता उत्सुकाः निरुत्सुका- स्तेषां निरुत्सुकानाम् । अभियोगं भजन्ते ये तेऽभियोगभाजस्तेषामभियोग- भाजाम् ॥ ४० ॥

व्याकरणम्—अधिगन्तुम् = अधि + गम् + तुमुन् । अतिवर्त्तितुम् = अति + वृ + तुमुन् । उपैति = उप + इण् + लट् ॥ ४० ॥

वाच्यान्तरम्—निरुत्सुकानामभियोगभाजां समुत्सुकया कान्तयेव सिद्ध्या, अङ्क उपेयते ॥ ४० ॥

कोषः—'यशः कीर्त्तिः समज्ञा च' इत्यमरः । 'स्यादानन्दथुरानन्दः शर्मशात- सुखानि च' इत्यमरः । 'इच्छाऽऽकाङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः' इत्यमरः । 'अभियोगस्तु शपथे स्यादार्द्रे च पराभवे'—इति विश्वः ॥ ४० ॥

सारार्थः—कीर्तिर्मे भवतु सुखं मे भवतु । मनुष्याणां गणनाया अवसरेऽहं सर्वप्रथमो भवामि, एवं मनोरथशालिभिर्जनैरुत्कण्ठां सर्वथा परित्यज्येव कर्म कर्त्तव्यं तदा स्वयं परमानुरागेणोत्कण्ठिता कामिनीव तत्कार्यसिद्धिरुतस्सकाशमागच्छति ॥

भाषार्थः—यश मिलने की इच्छा से, या सुख की चाह से, या मनुष्य की गिनती को अतिक्रमण (सब से असाधारण होना) करने की इच्छा से जो उद्योगी लोग उत्कण्ठा को दूर छोड़ कर काम करते हैं, उत्कण्ठिता स्त्री की नाईं कार्यसिद्धि उनकी गोद में दौड़कर पहुँचती है ॥ ४० ॥

अथास्य मन्यूद्द्दीपनद्वारा तपःप्रवृत्ति प्रथयितुमरिनिकारं तावच्चतुर्भिश्लोकाटयति—

लोकं विधात्रा विहितस्य गोप्तुं क्षत्रस्य मुष्णन्वसु जैत्रमोजः । तेजस्विताया विजयैकवृत्तेर्निघ्नन्प्रियं प्राणमिवाभिमानम् ॥ ४१ ॥

लोकमिति ॥ विधात्रा ब्रह्मणा लोकं गोप्तुं विहितस्य सृष्टस्य क्षत्रस्य क्षत्रियजातेः सम्बन्धि । जयनशीलं जेतु तदेव जैत्रम् । जैतृशब्दात्तृजन्तात् 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः । ओजो बलं च दीप्तिर्वा । 'ओजो बले च दीप्तौ च—' इति विश्वः । तदेव वसु धनमिति रूपकालङ्कारः । मुष्णन्नपहरन् । अरिनिकृतस्य कुतः क्षात्रं तेज इति भावः । किञ्च विजयैकवृत्तेर्विजयैकजीवितायाः । 'क्षत्रियस्य विजितव्यम्' इति स्मरणादिति भावः । 'वृत्तिर्वर्त्तनजीवने' इत्यमरः । तेजस्वितायास्तेजस्वि- नामित्यर्थः । तेजःप्राधान्यद्योतनार्थं भावप्रधानो निर्देशः । प्रियं प्राणमिव । प्राण-