BharatKosha
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५

Page 189Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५

वाच्यान्तरम्—तदभ्यागमने हेतुं परीप्सुना धर्मराजेन धर्मनिबन्धिनीनामेनः प्रणुदां श्रुतीनां प्रसूतिः सुखोपविष्टो मुनिरावभाषे ॥ ४ ॥ कोषः—'कलुषं वृजिनेनोऽघम्' इत्यमरः । 'श्रुतिर्वेदे च कर्णे च' इति कोषः । 'हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्'—इत्यमरः ॥ ४ ॥ भावार्थः—व्यासागमनप्रयोजनज्ञानाय युधिष्ठिरो वेदविभागविधातारं व्यासं प्रत्युवाच ॥ ४ ॥ भाषार्थः—उन (व्यास) के आने के बारे में कारण पूछने की इच्छावाले महाराज युधिष्ठिर, धर्मसम्बन्ध पापनाशक, वेदों के उत्पादक, आराम-चैन से बैठे हुए, उन व्यास जी से बोले ॥ ४ ॥

अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री । तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥ ५ ॥

अनाप्तेति ॥ अनाप्तपुण्योपचयैरकृतपुण्यसंग्रहैर्दुरापा दुर्लभा । फलस्य सवित्री श्रेयस्करी निर्धूतरजा हतरजोगुणा । अन्यत्र निरस्तधूलिः । 'रजो रजोगुणे धूलौ परागातंर्वयोरपि' इति शाश्वतः । एषा भवद्दर्शनसम्पत्सम्पत्तिः । लाभ इति यावत् । सम्पदादिभ्यः क्विपो भावार्थत्वात् । वीतबलाहकायाः । गतमेघाया दिव आकाशस्य सम्बन्धिन्या वृष्टेस्तुल्येत्युपमाऽलङ्कारः अनभ्रवृष्टिवदतर्कितोपपन्नं भवद्दर्शनं सर्वथा कस्यचिच्छ्रेयसो निदानमित्यर्थः वारि वहतीति बलाहकः । पृषोदरादित्वात्साधुः ॥ अन्वयः—अनाप्तपुण्योपचयैः, दुरापा, फलस्य सवित्री, निर्धूतरजाः, एषा भव- द्दर्शनसम्पत् , वीतबलाहकायाः, दिवः, वृष्टेः, तुल्या ॥ ५ ॥ व्याख्या—अनाप्तपुण्योपचयैः—अप्राप्तपुण्यसमूहैः, अकृतसुकृतनिचयैरित्यर्थः । जनैरिति शेषः । दुरापा = दुर्लभा । फलस्य = मनोरथस्य, सवित्री = जननी, अभीष्ट- कल्याणकारिणी । निर्धूतरजाः = निरस्तरजोगुणा, सात्त्विकीति भावः । एषा = इयम् , आधुनिकीति भावः । भवद्दर्शनसम्पत् = स्वदवलोकन सम्पत्तिः, वृष्टिपक्षे, अनाप्तपुण्योपचयैः = अकृतधर्मैः, कृषकैः, दुरापा = दुष्प्राप्या, फलस्य = सस्यस्य, सवित्री = निदानरूपा, उत्पादयित्री । निर्धूतरजाः = हतधूलिः, वीतबलाहकायाः = विगतमेघायाः, दिवः = आकाशस्य, वृष्टेः = वर्षायाः, तुल्या = समा अर्थात् वृष्टि- र्भवतु न वा, किन्तु नभसि वारिदे आयाते 'वृष्टिसम्भवो लोकैरुच्यते परमाकाशे मेघं दृष्ट्वा सर्वथा वृष्टेरसम्भवो ज्ञायते लोकैः, तदानीं च जलवर्षणं भवति, तदत- र्कितं तथा, तथैव हतभाग्येऽपि मयि परमभाग्यवल्लोक इव स्वकृपादृष्टिवृष्टिर्विहिता भवतेति ॥ ५ ॥ समासः—पुण्यानामुपचयाः पुण्योपचयाः न आप्ताः पुण्योपचया यैस्तैरनाप्त- पुण्योपचयैः । दुःखेनवाप्यत इति दुरापा, निर्धूतं रजो यया सा निर्धूतरजाः ।

Page 190Permalink

६ | किरातार्जुनीयम् | [ तृतीयः

वीता गता बलाहका यस्यां सा वीतबलाहका, तस्या वीतबलाहकायाः ॥ ५ ॥
व्याकरणम्—सवित्री = सवितृ + ङीप् ॥ ५ ॥
वाच्यान्तरम्—अनाप्तपुण्योपचयैर्दुरापया फलस्य सवित्र्या, निर्धूतराजसाऽतया भवद्दर्शनसम्पदा वीतबलाहकाया दिवो वृष्टेस्तुल्यया भूयते ॥ ५ ॥
कोषः—'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृष' इत्यमरः । 'वृष्टिर्वर्षम्' इत्यमरः । 'द्योदिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्' इत्यमरः । अभ्रंमेघोवारिवाहः स्तनयित्नुर्बलाहक' इत्यमरः ॥ ५ ॥
सारार्थः—अनुपार्जितधर्मैर्जनैर्दुर्लभं सकलकल्याणकरं पापध्वंसकं भवद्दर्शनमकस्माद्, हतभाग्यस्य मम तथा सञ्जातं यथा निर्मेघादाकाशाज्जलवर्षणं विलोक्य जना हर्षोत्फुल्लनयना भूत्वा साश्चर्यमवलोकयन्तीति ॥ ५ ॥
भाषार्थः—नहीं किया है पुण्यों का संग्रह जिन लोगों ने, उनसे दुर्लभ और मनोरथ को पूरा करनेवाली, पापनाशिनी, आपकी दर्शनरूपिणी लक्ष्मी, बिना बादल के आकाश की वर्षा के समान है ॥ ५ ॥

अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः ।
आ संसृतेरस्मि जगत्सु जातस्त्वय्यागते यद्बहुमानपात्रम् ॥ ६ ॥

अद्येति ॥ अद्य क्रतूनां क्रिया अनुष्ठानानि । कामान् दुहन्तीति कामदुघाः । फलदा इत्यर्थः । 'दुहः कप्घश्च' इति कप्प्रत्ययो घादेशश्च । सम्प्रत्यद्य भूमिदेवाः ब्राह्मणाः । 'द्विजाग्रजन्मभूदेववाडवाः' । 'विप्रश्च ब्राह्मणः' इत्यमरः । सत्याशिषो जाता। ब्राह्मणाशिषोऽद्य फलिता इत्यर्थः । यद्यतः कारणात्त्वय्यागते सति । त्वदागमनेन निमित्तेनेत्यर्थः अस्मीत्यहमर्थेऽव्ययन् । 'अस्मीत्यस्मदर्थानुवादेऽहमर्थेऽपि' इति गतव्याख्याने । 'दासे कृतगासि भवत्युदितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये' इति प्रयोगाच्च । आ संसृतेरा संसारात्, यावत्संसारमित्यर्थः । अभिविधावाङ् विकल्पाइसमासः । जगत्सु बहुमानपात्रं बहुयोग्यताभाजनं जातः । सकलसत्कर्मफलभूतं त्वदागमनं येन मे जगन्मान्यतेति भावः ॥ ६ ॥

अन्वयः—अद्य क्रतूनां क्रियाः कामदुघा सम्प्रति भूमिदेवाः सत्याशिषः (जाताः) यत् त्वयि, आगते, आ संसृतेः जगत्सु बहुमानपात्रं जातः अस्मि ॥ ६ ॥

व्याख्याअद्य = अस्मिन् दिने, क्रतूनां = यज्ञानां, क्रियाः = कारणानि, कामदुघाः = इष्टपूर्तिकराः, जाता इति शेषः । इतः कालात्पूर्वं यज्ञानां फलं मम विपरीतः वनवासादिरूपमेव जातम्, इति मम सानुरोधोऽनुभव आसीदधुना भवद्दर्शननिसाधारणाऽपगता, अवश्यं कदाऽपि पुण्यफलं शुभं भवेत्येवेति निश्चय उत्पन्नो मम मनसीति भावः । तथा च सम्प्रति = वर्तमानसमये, इदानीमित्यर्थः । भूमिदेवाः =

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ७

Page 191Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ७

ब्राह्मणाः, सत्याशिषः = सत्याशीर्वादाः अमिथ्याशुभबचनाः, जाता इति शेषः। यद् = यस्मात्, त्वयि = भवति, व्यासः इत्यर्थः। आगते = समागते, ममाश्रयं प्रत्युपस्थिते सतीत्यर्थः असंसृतेः = सृष्ट्यादितः जगत्सु = संसारेषु बहुमानपात्रम् = परमसत्कारभाजनं, जातः = जनितः, अस्मि, अहमिति शेषः। बहुहुभिः पुण्यैरपि दुर्लभं तन्मम समजनि, अतोऽद्य मत्तोऽधिकभाग्यवान् कोऽप्यन्य इति भावः ॥६॥

समास—कामान् दुहन्ति यास्ताः कामदुघा। सत्या आशिषे येषां ते सत्याशिषः। भूमौ ये देवास्ते भूमिदेवाः। बहुः मानः तस्य पात्रमिति बाहुमानपात्रम् ॥ ६ ॥

व्याकरणम्—अस्मि = अस् + लट् + जातः = जन् + क्तः ॥ ६ ॥

वाच्यान्तरम्—अद्य क्रतूनां क्रियाभिः कामदुघाभिर्भूयते। सम्प्रति भूमिदेवैः सत्याशीर्भिर्भूयते। यत् त्वय्यागते मया बहुमानपात्रेण जातम् ॥ ६ ॥

कोषः—'यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः' इत्यमरः। 'एतर्हि सम्प्रतीदानीमधुना साम्प्रतम्' इत्यमरः। 'द्विजात्यग्रजन्म-भूदेव-वाडवाः। विप्रः ब्राह्मणोऽसौ' इत्यमरः ॥ ६ ॥

सारार्थः—अस्मात्कालात्पूर्वमहं यज्ञस्यापि फलं न किमपि शुभमेव ऽन्वति। नहि ब्राह्मणस्य वचनानि (भवन्तोऽतीव भाग्यवन्तो भविष्यथ एवं) न सत्यत्वेन भवन्तीति दुःखावसरे धारणाऽऽसीत् परन्तु साम्प्रतं मन्ये, सृष्ट्यादितो मत्समोऽन्यो न कोऽपि भाग्यवान् जातः, यतोऽतर्कितं दुर्लभं भवद्दर्शनमनायासेन समासादितम्, अतो मन्ये च पूर्वविहितयज्ञानुष्ठानफलोदयोऽद्यैव, ब्राह्मणानामाशीर्वादा अप्यद्यैव सफला जाता इत्यादि ॥ ६ ॥

भावार्थः—आज ही मेरे पहले के किये हुए यज्ञ सफल हुए, इस समय ब्राह्मणों के आशीर्वाद सत्य सिद्ध हुए, क्योंकि जब से संसार शुरू हुआ, तब से इस दुनियाँ में मेरे समान दूसरा कोई नहीं, ऐसा मैं आपके आने से परम-सत्कार-भाजन हुआ ॥ ६ ॥

श्रियं विकर्षत्यपहन्त्यघानि श्रेयः परिस्रौति तनोति कीर्तिम्।
संदर्शनं लोकगुरोरमोघं तावात्मयोनेरिव किं न धत्ते ॥ ७ ॥

श्रियमिति ॥ आत्मयोनेर्ब्रह्मण इव लोकगुरोस्तवामोघमविफलं संदर्शनं श्रियं विकर्षत्याकर्षति। अघानि दुःखान्यपहन्ति। 'अंहो दुःखव्यसनेष्वघम्' इत्यमरः। श्रेयः पुरुषार्थं परिस्रौति स्रवति। किर्तिं च तनोति। किं बहुना किं न धत्ते किं न करोति। सर्वं करोतीत्यर्थः ॥ ७ ॥

Page 192Permalink

८ किरातार्जुननीयम् . [ तृतीयः

अन्वयः—लोकगुरोः, तव, अमोघं सन्दर्शनम् , आत्मयोनेः ( दर्शनम् ) इव, श्रियं, विकर्षति, अघानि, अपहन्ति, श्रेयः परिस्रौति, कीर्तिं तनोति, किं न धत्ते ॥७॥

व्याख्या—लोकगुरोः=संसारोपदेशकस्य, तव=भवतः, व्यासस्येत्यर्थः । अमोघम् = अव्यर्थं, सफलमित्यर्थः । दर्शनम्=अवलोकनं ( कर्तृ ) । आत्मयोनेः=ब्रह्मणः, दर्शनमिव, श्रियं = सम्पत्तिम्, विकर्षति = आकर्षति, गतामपि राज्यलक्ष्मीं पुनरावर्तयतीति भावः । अघानि = पापानि, अपहन्ति = नाशयन्ति, श्रेयः = कल्याणं, परिस्रौति = स्रवति, कीर्ति = यशः, ख्यातिं, तनोति = विस्तारयति, एवं किं न धत्ते, सर्वं ददातीत्यर्थः ॥ ७ ॥

समासः—लोकस्य भुवनस्य गुरुर्लोकगुरुस्तस्य लोकगुरोः । न मोघमित्यमोघम्, आत्मा एव योनिरुत्पत्तिस्थानं यस्य स आत्मयोनिस्तस्यात्मयोनेः ॥ ७ ॥

व्याकरणम्—विकर्षति = वि + कृष् + लट् । अपहन्ति = अप + हन् + लट् । तनोति = तनु + लट् । परिस्रौति = परि + स्रु + लट् । धत्ते = धा + लट् ॥ ७ ॥

वाच्यान्तरम्—आत्मयोनेरिव लोकगुरोस्तव सन्दर्शनेन श्रियो विकृष्यन्ते, अघान्यपहन्यन्ते, श्रेयः परिस्रूयते, किं न धीयते ॥ ७ ॥

कोषः—'लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया' इत्यमरः । 'कलुषं वृजिनैनाऽघमंहो दुरितदुष्कृतम्' इत्यमरः । 'यशः कीर्तिः समज्ञा च' इत्यमरः । 'लोकस्तु भुवने जने' इति कोषः । 'ब्रह्माऽत्मभूः सुरज्येष्ठः परमेष्ठी पितामह' इत्यमरः ॥ ७ ॥

सारार्थः—इह जगति तद्वस्तु विद्यत एव न हि यन्न सम्पादयति भवतां संदर्शनं, सर्वमलभ्यमसाध्यमंशं मनोरथं पूरयतीति ॥ ७ ॥

भाषार्थः—ब्रह्मा के समान आपका दर्शन, गयी हुई लक्ष्मी को भी लौटाता है और पापों का नाश करता है । कल्याण (भलाई) करता है । यश फैलाता है और क्या-क्या नहीं देता ? अर्थात् सब कुछ देता है ॥ ७ ॥

श्च्योतन्मयूखेऽपि हिमद्युतौ मे न निर्वृतं निर्वृतिमेति चक्षुः । समुज्झितज्ञातिवियोगखेदं त्वत्संनिधावुच्छसतीव चेतः ॥ ८ ॥

श्च्योतदिति ॥ हे भगवन् , श्च्योतन्मयूखे सुधास्राविकारे हिमद्युताविन्दावपि विषये न निर्वृतम् । नञर्थस्य नञ्शब्दस्य सुप्सुपेति समासः । मे चक्षुस्त्वत्सन्निधौ निर्वृतिं सुखमेति । तथा चेतश्च समुज्झितज्ञातिवियोगखेदं त्यक्तबन्धुविरहदुःखं समुच्छ्वसतीवानुरोधेन प्राणितीवेत्युत्प्रेक्षा । पूर्वार्धे तु निर्वृत्तिकारणे सत्यपीवाद्यनिर्वृत्तिकथनाद्विशेषोक्तिः । तदुक्तम्—'ततसामग्रयामनिर्वृत्तिर्विशेषोक्तिर्निगद्यते' इति ॥ ८ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३

Page 193Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३

अन्वय—श्च्योतन्मयूखे, हिमद्युतौ, अपि न निर्वृतं मे चक्षुः, त्वत्सन्निधौ निर्वृत्तिम्, एति समुज्झितज्ञातिवियोगखेदम् (मे) चेतः, उच्छ्वसिति, इव ॥ ८ ॥

व्याख्या—श्च्योतन्मयूखे = पीयूषपूरस्त्राविकिरणो, हिमद्युतौ = चन्द्रे, अपि, न निर्वृतम् अशान्तम्, मे = मम, युधिष्ठिरस्येत्यर्थः । चक्षुः = नयनं, त्वत्सन्निधौ = भवत्समीपे, निर्वृत्ति = शान्तिम्, एति = गच्छति, अमृतवर्षिकिरणस्यापि चन्द्रस्य दर्शनेन न तथा नेत्रं शीतलम् जातं, यथा भवत्सौम्यशरीरदर्शनेनेति भावः अत्राय-माशयः । बाह्यं दुखं बाह्योपचारेण दूरीभवितुमर्हति न हि आन्तरिकं तेन, किन्तु आन्तरिकमान्तरिकोपचारेणैव, यथान्तर्दाहः शीतलजलपानादिना, न हि बहि-श्चन्दनलेपनेन, तद्वत् ममान्तःकरणजनिता व्यथा तु हृदयाह्लादकेन त्वद्दर्शनेनैव दूरी-भूता, न हि नयनाह्लादकचन्द्रकिरणेनेति, तद्युक्तमेवेति, समुज्झितज्ञातिवियोगखेदं=त्यक्तबान्धवविच्छेदखिन्नम्, प्रसन्नमित्यर्थः । मम चेतः = चित्तं, त्वत्सन्निधौ, उच्छ्र-सिति=ऊर्ध्वोच्छ्वासं गृह्णाति । अर्थात् रे दुःख ! अधुना तव कः प्रभावः ! जितमस्म-दुदितभाग्येन, नातः परमागन्तुं शक्नोषि अस्मदन्तिके, मम भाग्योदयकरोऽयं महात्मा, एवं पुनरागमिव्यति तदा पुनःपुनस्त्वं ताडितं भविष्यसि । अतोऽयं शिवस्ते मार्गः यन्न कदापि निश्चितप्राणहरे मयि समागन्तव्यम् ॥ ८ ॥

समासः—श्च्योतन्तो मयूखा यस्य स श्च्योतन्मयूखस्तस्मिन् श्च्योतन्मयूखे । हिमा हिमजननी द्युतिर्यस्य स हिमद्युतिस्तस्मिन् हिमद्युतौ । ज्ञातीनां वियोगः ज्ञातिवियोगः, ज्ञातिवियोगेन यः खेद स ज्ञातिवियोगखेदः, समुज्झितो ज्ञाति-वियोगखेदो येन तत् समुज्झितज्ञातिवियोगखेदम् ॥ ८ ॥

व्याकरणम्—निर्वृतम = निर् + वृ + क्तः । एति = इण् + लट् । उच्छ्वसिति = उद् = श्वस् + लट् ॥ ८ ॥

वाच्यान्तरम्—श्च्योतन्मयूखेऽपि हिमद्युतौ न निर्वृतेन मे चक्षुषा त्वत्सन्निधौ निर्वृत्तिरीयते । समुज्झितज्ञातिवियोगखेदेन मे चेतसोच्छ्वस्येते ॥ ८ ॥

कोषः—'किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । 'हिमाशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धव' इत्यमरः ॥ 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । 'सगोत्रबान्धवा' इत्यमरः ॥ ८ ॥

साराथ॑ः—परमाह्लादकमप्यमृतकिरणं चन्द्रं विलोक्य यन्मम नयनं न शीतलं जातं, तदधुनाऽऽकस्मिकभवद्दर्शनेन शीतलं पूतं च जातं, तथा चाधुना बन्धुविरह-व्यथां परित्यज्य मम मनस्त्वत्समीपे सुखान्वितं भवतीति ॥ ८ ॥

भाषार्थः--अमृत बनानेवाली किरणें हैं जिसकी, ऐसे चन्द्रमा को भी देखकर जो ठण्डी नहीं हुई, ऐसी मेरी आँख आपको देखकर ठण्डी होती हैं और बन्धुओं

Page 194Permalink
१०किरातार्जुनीयम्[ तृतीयः

के बिछुड़ने के दुःख को छोड़कर अभी मेरा शरीर आपके निकट साँस ( उच्छ्वास ) लेता है ॥ ८ ॥

निरास्पदं प्रश्नकुतूहलित्वमस्मास्वधीनं किमु निःस्पृहाणाम् ।
तथाऽपि कल्याणकरीं गिरं ते मां श्रोतुमिच्छा मुखरीकरोति ॥ ९ ॥

निरास्पदमिति । प्रश्नकुतूहलित्वं निरास्पदम् । त्वदागमनप्रयोजनप्रश्नो निरास्पद इत्यर्थः । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । प्रश्नावकाशे हेतुमाह—निःस्पृहाणाम् । युष्मादृशामित्यर्थः । अस्मास्वधीनमायत्तं किमु । न किञ्चिदस्मत्तो लब्धमित्यर्थः । आधारत्वविवक्षायां सप्तमी । तथाऽपि कल्याणकरीम् । अस्मद्धितैकहेतुमित्यर्थः । निःस्पृहवृत्तेः परार्थ्यादिति भावः । 'कृञो हेतु-' इति टप्रत्यये ङीप् । अतस्ते गिरं श्रोतुमिच्छा माम् । मुखं वागस्यास्तीति मुखरो निरन्तरभाषी । 'रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्' इति रः । 'दुर्मुखे मुखरावद्बमुखौ' इत्यमरः । ततश्चिवप्रत्ययः । मुखरीकरोति । व्याहारयतीत्यर्थः । निःस्पृहस्यापि ते वाक्यमस्मद्धितकरत्वाच्छ्रोतव्यमिति भावः ॥ ९ ॥

अन्वयः—प्रश्नकुतूहलित्वं, निरास्पदम् अस्मासु निःस्पृहाणाम्, अधीनं किमु । तथाऽपि कल्याणकरीं ते गिरं श्रोतुम्, इच्छा, मां मुखरीकरोति ॥ ९ ॥

व्याख्याप्रश्नकुतूहलित्वम् = भवदागमनप्रयोजनपृच्छौत्सुक्यम् । निरास्पदम् = अनाधारम्, अयुक्तमित्यर्थः । कुत इत्यत आह—अस्मासु = पाण्डवेषु, विषायिष्वित्यर्थः, निःस्पृहाणां = निरीहाणामनिच्छावतामित्यर्थः । अधीनम् = आयत्तं किमु ! न किमप्यस्मभ्यं लभ्यं विद्यते भावादृशां वीतस्पृहाणामत आगमनजिज्ञासा व्यर्थैवेति भावः । तथाऽपि = आगमनहेतुपृच्छौत्सुक्योऽनाश्रयेऽपि, ते = तव, कल्याणरीं = मङ्गलकरीं, गिरं = वाचं, श्रोतुम् = आकर्णयितुम्, इच्छा = अभिलाषा, मां = युधिष्ठिरम्, मुखरीकरोति = वाचालयति, व्याहारयतीत्यर्थः, निःस्पृहस्य ते समागमो न स्वार्थसाधनाय, किन्तु मदर्थसम्पादनायैवातस्तद्विप्रमङ्गलविधायकवचनश्रवणाभिलाषा मां प्रेरयति ॥ ९ ॥

समासः—कुतूहलमस्यास्तीति कुतूहली कुतूहलिनो भावः कुतूहलित्वम् प्रश्नस्य कुतूहलित्वम् , प्रश्नकुतूहलित्वम् , निर्गता स्पृहा येषां ते निःस्पृहास्तेषां निःस्पृहाणाम् ॥ ९ ॥

व्याकरणम्—मुखरीकरोति=मुखर + च्वि + कृ + लट् । श्रोतुम् = श्रु=तुमुन् ॥ ९ ॥

वाच्यान्तरम्—प्रश्नकुतूहलित्वेन निरास्पदेन भूयते । निःस्पृहाणामस्मास्वधीनेन केन भूयते । यथाऽपि कल्याणकरीं ते गिरं श्रोतुमिच्छयाऽहं सुखरीक्रियते ॥ ९ ॥

कोषः—'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः । 'श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११

Page 195Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११

सरस्वती' इत्यमरः। 'इच्छाऽऽकाङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथ' इत्य- मरः। 'अधीनो निम्न आयत्तः' इत्यमरः ॥ ९ ॥

सारार्थः—यतो भवादृशां वीतस्पृहाणां कुत्रापि किमपि लब्धुं समागमनं नहि भवति, अतस्तवागमनकारणप्रश्नोऽनुपपन्नोऽस्ति। तथाऽपि कल्याणसाधिकां भव- दीयां वाणीं श्रोतुमिच्छा मां प्रेरयतीति ॥ ९ ॥

भाषार्थः—'आप यहाँ किस लिये आये हैं ? यह पूछना व्यर्थ है। क्योंकि आप जैसे निरीह लोगों को मेरे यहाँ क्या प्रयोजन है। तो भी अपना मङ्गल करनेवाली आपकी बात सुनने की इच्छा मुझे बकवादी बनाती है ॥ ९॥

इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ। उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः॥ १०॥

इतीति ॥ इतीत्थमुक्तिविशेषरम्यमुक्तिवैचित्र्यचारु यथा तथोक्तवान् । उदार- चेता महामना नरेन्द्रो द्वैपायनेन व्यासेन । द्वीपमयनं स्थानं जन्मभूमैर्यस्य स द्वीपायनः स एव द्वैपायनस्तेन । 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः। नापत्यार्थे । 'नडादिभ्यः फक्' । तेष्वेव पाठाद्वाधितार्थत्वाच्च। जयोपपत्तौ मनः समाधाय । जय- सिद्धिमपेक्ष्येत्यर्थः । इति वक्ष्यमाणप्रकारामुदारामर्थवतीं गिरमभिदधे उक्तः। दुहादित्वादप्रधाने कर्मणि लिट् । 'प्रधानेकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः।' इति वचनात् ॥ १० ॥

अन्वयः—इति, उक्तिविशेषरम्यम्, उक्तवान्, उदारचेता, नरेन्द्रः, द्वैपायनेन, जयोपपत्तौ, मनः, समाधाय, इति, उदरां, गिरम्, अभिदधे ॥ १० ॥

व्याख्या—इति = पूर्वोक्तनवश्लोकार्थरूपम्, उक्तिविशेषरम्यं = वचनवैचित्र्यचारु, चमत्कृतिकरवाक्यरचनमित्यर्थः । उक्तवान् = कथितवान्, उदारचेताः = विशाल- हृदयः नरेन्द्रः = राजा युधिष्ठिर इत्यर्थः । द्वैपायनेन = व्यासेन, जयोपपत्तौ = जययुक्तौ, शत्रुपरजयसाधकोपाय इत्यर्थः । मनः = चित्तं, समाधाय = संयोज्य, इति = वक्ष्यमाणाम्, उदाराम् = अर्थबहुलां, गिरं = वाणीम्, अभिदधे = उक्तः ॥ ११ ॥

समासः—उक्तिनां विशेष उक्तिविशेषस्तेनोक्तिविशेषेण रम्यमित्युक्तिविशेषरम्यम् । जयस्योपपक्तिर्जयोपपत्तिस्तस्यां जयोपपत्तौ । उदारं चेतो यस्य स उदारचेताः । द्विर्गता आपो यस्मात्तद्दीपं, द्वीपगयनं यस्य स द्वीपायनः, स एव द्वैपायनस्तेन द्वैपायनेन ॥ १० ॥

व्याकरणम्—उक्तवान् = वच् + क्ववत् । सामाधाय = सम् + आ + धा = क्त्वा + ल्यप् । अभिदधे + अभि + लिट् ॥ १० ॥

Page 196Permalink

१२ किरातार्जुनीयम् [ तृतीयः

वाच्यान्तरम्—इत्युक्तिविशेषरग्यमुक्तवन्तमुदारचेतसं नरेन्द्रं द्वैपायनो जयोप- पत्तौ मनः समाधायेष्युदारां गिरमाभिदधौ ॥ १० ॥

कोषः—'व्याहार उक्तिर्लपितं भाषितं वचनं वच' इत्यमरः। 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः ॥ १० ॥

सारार्थः—एवं स्वं प्रति चमत्कारेणोक्तवन्तं युधिष्ठिर प्रति, तथा जयलाभो भवेत्तथा विचार्य तत्सिद्धान्तरूपं वचनं व्यासोऽब्रवीत् ॥ १० ॥

भाषार्थः—इस तरह बडी ही चमत्कारपूर्ण बात कहते हुए फैले दिल वाले युधिष्ठिर के प्रति, व्यासजी जय होने की युक्ति में दिल लगाकर आने वाली बातें बोले ॥

आदौ तावत्तस्य माध्यस्थ्यभङ्गदोषं युग्मेन परिहरति—

चिचीषतां जन्मवतामलघ्वीं यशोऽवतंसामुभयत्र भूतिम् । अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम् ॥११॥

चिचीपतामिति ॥ अलघ्वीं गुर्वीम् । वोतोगुणवचनात् इति ङीप् । । यशोऽवतंसां कीर्तिभूषगाम् । उभयत्रेह चामुत्र च भूतिं श्रेयश्चिचीषतां चेतुं संग्रहीतुमच्छताम् । चिनीतेः सन्नन्ताच्छतृप्रत्ययः । जन्मवतां शरीरिणां बन्धुषु विषये तुल्यरूपैकविधा वृत्तिर्व्यवहारोऽभ्यर्हितोचिता तपोधनानां स्वस्मत्सदृशां विशेषेण नियमेनाभ्य- र्हिता ॥ ११ ॥

अन्वयः—अलघ्वीं, यशोऽवतंसाम्, उभयत्र, भूति, चिचीषतां, जन्मवता, बन्धुषु, तुल्यरूपा, वृत्तिः, अभ्यर्हिता, तपोधनानां, विशेषेण, तुल्यरूपा ॥ ११ ॥

व्याख्या—अलघ्वीं = महायसीं, यशोऽवतंसां = कीर्तिभूषणाभू, उभयत्र = इह अमुत्र च, भूतिम् = एश्वर्यं, चिचीषतां = सङ्ग्रहीतुमभिलषतां, जन्मवतां = देहव- ताम्, बन्धुषु = स्वजनेषु, तुल्यरूपा=एकरूपा, अभेदरूपेति भावः । वृत्तिः = व्यापारः, वा व्यवहार इत्यर्थः । अभ्यर्हिता = अभ्युचिता, समुचितेति भावः । तपोधनानां = तपस्विनाम्, अस्मत्सदृशामिति शेषः । तु विशेषेन = अधिकतया, निश्चयेनेत्यर्थः तुल्यरूपा वृत्तिरुचितेति भावः ॥ ११ ॥

समासः—चेतुमिच्छन्तश्चिचीषन्तस्तेषां चिचीषताम् । जन्मास्त्येषामिति जन्म- वन्तस्तेषां जन्मवताम् । न लघ्वीत्यलघ्वी तामलघ्वीम् । यश एवावतंसो यस्याः सा यशोऽवतंसा तां यशोऽवतंसाम् । तुल्यं रूपं यस्याः सा तुल्यरूप। । तप एव धनं येषामिति तपोधनानां ॥ ११ ॥

व्याक०—चिचीषतां = चिञ् + सन् + शतृ । अभ्यर्हिता = अभि + अर्ह + तृच् ॥

वाच्यान्तरम्—जन्मवतां बन्धुषु तुल्यरूपया भृत्याऽभ्यर्हितया भूयते ॥ ११ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १३

Page 197Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १३

कोशाः—‘प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिण’ इत्यमरः। ‘पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखर’ इत्यमरः। ‘विभूतिर्भूतिरैश्वर्यम्’ इत्यमरः। ‘सगोत्रबान्धवज्ञातिबन्धुस्वजना’ इत्यमरः ॥ ११ ॥

सारार्थः—ये जना इह लोके परलोके च महतीं स्फुरन्तीं यशःपताकां लब्धुमिच्छन्ति, तैः स्वजनेषु निष्पक्षपातो व्यवहारो विधेयः, न हि कदाचित्पक्षपातकार्यः पक्षपाते कृतेऽयशः प्रसरति । तत्र ये किल तपस्विनस्तेषां कथैव का, तैस्त्व नियमेन सर्वत्र समदृष्टिः संरक्ष्या, अन्यथा योगिलक्षणनिपातः स्यादिति ॥ ११ ॥

भाषार्थः—बहुत यशरूप अलङ्करण अर्थात् ऐश्वर्य को जमा करने वाले लोगों को चाहिए कि अपने परिजनों में बराबर व्यवहार रखें। फिर तपस्वियों को तो जरूर समदृष्टि रखनी चाहिए ॥ ११ ॥

तथाऽपि निघ्नं नृप तावकीनः प्रह्वीकृतं मे हृदयं गुणौघैः ।
वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥ १२ ॥

तथापीति॥ तथाऽपि तुल्यवृत्तौ चित्तेऽपि । हे नृप ! तावकीनैस्त्वदीयैः । ‘युष्मदस्मदोरन्यतरस्यां खञ्’ इति खञ्प्रत्ययः । ‘तवकममकावेकवचने’ इति तवकादेशः गुणौघैः प्रह्वीकृतमावर्जितं मे हृदयं निघ्नं स्वदायत्तम्’ ‘अधीनो निघ्न आयत्तः’ इत्यमरः। ननु निःस्पृहस्य कोऽयं पक्षपात इत्यत्राह—वीतेति । वीतस्पृहाणां विरक्तानां मुक्तिभाजाम् । मुमुक्षूणामित्यर्थः। भवन्तीति भव्याः साधवः। ‘भव्यगेय-’ इत्यादिना कर्तरि निपातः। तेषु पक्षपाताः स्नेहा भवन्ति । न तु साध्वनुग्रहो महतां माध्यस्थ्यभञ्जक इति भावः ॥ १२ ॥

अन्वयः—तथाऽपि ( हे ) नृप !, तावकीनः, गुणौघैः, प्रह्वीकृतं, मे, हृदयं, निघ्नं, हि, वीतस्पृहाणां, मुक्तिभाजाम्, अपि, भव्येषु, पक्षपाताः, भवन्ति ॥ १२ ॥

व्याख्या—तथापि = समव्यवहारविधानौचित्येऽपि, हे नृपः = हे राजन्, युधिष्ठिर ! इत्यर्थः। तावकीनैः = त्वदीयैः, त्वत्सम्बन्धिभिरित्यर्थः। गुणौघैः=गुणसमूहैः, प्रह्वीकृतम् = आवर्जितम्, मे = मम, व्यासस्येत्यर्थः। हृदयम् = मनः, निघ्नं = त्वदधीनं जातमिति शेषः। हि = यस्माद्धेतोः, वीतस्पृहाणां = निरीहाणां विषयाभिलाषविमुखानामित्यर्थः। मुक्तिभाजाम् = मोक्षाभिलाषिणाम्, अपि समदृष्टिरक्षणोचितानामपि योगिनामित्यर्थः। भव्येषु = सज्जनेषु, पक्षपाताः = स्नेहाः, एकपक्षोपकारकरणाभिलाषा इत्यर्थः। भवन्ति = जायन्ते ॥ १२ ॥

समासः—गुणानामोघा गुणौघास्तैर्गुणौघैः। वीता विगता स्पृहा येषां ते वीतस्पृहास्तेषां वीतस्पृहाणाम्। भक्तिं भजन्त इति भक्तिभाजस्तेषां भक्तिभाजाम्। पक्षे पाताः पक्षपाताः ॥ १२ ॥

Page 198Permalink

१४ किरातार्जुनीयम् [ तृतीयः

व्याकरणम्—भवन्ति = भू + लट् ॥ १२ ॥

वाच्यान्तरम्—तथाऽपि हे नृप ! तावकीनौर्गुणौघैः प्रह्वीकृतेन मे हृदयेन निघ्नेन भूयते । हि वीतस्पृहाणां भक्तिभाजमपि भव्येषु पक्षपातैर्भूयते ॥ १२ ॥

कोषः—‘अधीनो निघ्न आयत्त’ इत्यमरः ॥ १२ ॥

सारार्थः—यद्यपि तपोधनैरस्मत्सदृशैः सर्वत्र समा दृष्टि रक्ष्या, तथाऽपि तव गुणसमूहैर्वशीकृतं मदीयं मनः, यतो निरीहाणामपि दीनभव्येषु पक्षपातो भवत्येवेति ॥ १२ ॥

भाषार्थः—तो भी, हे राजा युधिष्ठिर ! तुम्हारे गुणों से पिघला हुआ मेरा मन तुम्हारे कब्जे में पड़ गया है । क्योंकि वैरागी और मुक्ति चाहनेवालों का भी अनाश्रय भव्य (भले) आदमी में पक्षपात (एकतरफा ख्याल) हो ही जाता है ॥१२॥

अथ नृपस्य गुणवत्तां प्रकटयितुं धृतराष्ट्रस्य दुश्चेष्टामुद्घाटयति—

सुता न यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीता ।
यस्त्यक्तवान्वः स वृथा वलाद्वा मोहं विधत्ते विषयाभिलाषः ॥१३॥

सुता इति ॥ यूयं तस्य राज्ञो धृतराष्ट्रस्य सुताः पुत्रा न किमु । अपि तु सुता एवेत्यर्थः । गुणैः शान्तिदानदाक्षिण्यादिभिः सुयोधनं नातीता नातिक्रान्ता वा । अतीता एवेत्यर्थः । कर्तरि क्तः । असुतत्वमगुणत्वं च त्यागे हेतुः । युष्मासु तन्नास्तीत्यर्थः । उपालम्भे कारणमाह—य इति । यो धृतराष्ट्रो वा युष्मान्वृथा निष्कारणमेव त्यक्तवान् । यदि वयं सुता गुणाधिकाश्च तर्हि कथमत्याक्षीत्तत्राह—बलादिति । स विषयाभिलाषः भोगतृष्णा बलाद्वा बलादिव । ‘वा स्याद्विकल्पोपमयोरेवाथेऽपि समुच्चये’ इति विश्वः । मोहमविवेकं विधत्ते । विषयाभिलाषादतिरिक्तं न कश्चिद्युष्मत्यागहेतुरस्तीत्यर्थः । अत्र कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ १३ ॥

अन्वयः—यूयं, तस्य, राज्ञः, न, किमु, वा, गुणैः सुयोधनं, न अतीताः, यः, वः, वृथा, वा, बलात्, त्यक्तवान्, स, विषयाभिलासः, मोहं, विधत्ते ॥

व्याख्यायूयम् = भवन्तः, पाण्डवा इत्यर्थः । राज्ञः = भूपतेः, तस्य = धृतराष्ट्रस्य, सुताः = पुत्राः न किमु = किं न भवथ, अपि तु तस्य यूयं पुत्रोपमा एवेति भावः । वा = अथवा, गुणैः = शौर्यादार्यगाम्भीर्यविद्याऽऽदिभिः सुयोधनं = दुर्योधनम्, अतीताः = अतिक्रान्ताः, न ? अपि तु अतीता एव, अर्थात् भवरस्वपि पुत्रेषु सत्सु दुर्योधनश्चेद्गुणवत्तमस्तदा तत्पक्षपातकरणं किञ्चिद् युक्तम् परन्तु तथा न, किन्तु स च दुर्योधनो दुर्गुणैर्भवन्तमतिक्रान्तः, ईदृश्यां स्थितौ यजन्मान्धेन स्वात्मजस्य पक्षपातः ? कृतः स नोचित इत्याशयः । यः = धृतराष्ट्रः, एतन्नामको दुर्योधनपितेति

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १५

Page 199Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १५

यावत् । वः युष्मान्, पाण्डवानिति भावः । वृथा = अकारणमेव, वा = पक्षान्तरे, बलात् = सहसा, अविचिन्त्यैवेत्यर्थः । त्यक्तवान् = जहौ, सः विषयाभिलापः = रूपादिभोगेच्छाऽऽत्मकः, मोहं = भ्रमं, विधत्ते = करोति । अर्थात् स्वार्थपरता वा भोगाभिलापाऽपि कर्त्तव्यमार्गेऽन्धकाररूपेणागत्य किं न कर्त्तव्यमिति ज्ञाननिश्चयस्यावलोकनप्रथां करोतीत्यर्थः ॥ १३ ॥

समासः—विषयाणामभिलाषो विषयाभिलापः ॥ १३ ॥

व्याकरणम्—त्यक्तवान् = त्यज् + क्तवतु । विधत्ते = वि + धा + लट् ॥ १३ ॥

वाच्यान्तरम्—युष्माभिः किमु तस्य राज्ञः सुतैर्न भूयते । वा युष्माभिः सुयोधनोगुणैर्नातीत: । येन यूयं वृथा त्यक्ताः । विषयाभिलाषेण मोहो विधीयते ॥ १३ ॥

कोषः—'आत्मजस्तनयः सूनुः सुतः पुत्र स्त्रियां त्वमी' इत्यमरः । 'वृथा निरर्थकाविध्योः' इत्यमरः । 'मोहश्चित्तभ्रमो भ्रान्तिर्भ्रमो मूर्छति संमता' इति कोषः ॥

सारार्थः—भवन्तोऽपि धृतराष्ट्रस्य भ्रातृपुत्रत्वेन पुत्रोपमा एव, तत्रापि दुर्योधनापेक्षया विशेषगुणवन्तोऽपि सन्ति, तथापि तेन यद्भवन्तस्त्यक्ताः स्वपुत्रोऽङ्गीकृतस्तन्नोचितं विहितम् । परन्तु विषयाभिलाषो मोहं करोति, तेन हेतुना धृतराष्ट्रस्य मतिर्मोहापन्ना जाता इति ॥ १३ ॥

भाषार्थः—क्या आप पाँचो भाई धृतराष्ट्र के लड़के नहीं हैं या दुर्योधन से विशेष गुणी नहीं हैं, जो उसने आप लोगों को छोड़ दिया सो व्यर्थ ही और बिना विचार से, क्योंकि विषय की चाह मनुष्य को हृदयहीन कर देती है ॥ १३ ॥

अथ राज्ञ उत्साहवर्द्धनाय शत्रोर्हानिं सूचयति—

जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः ।
असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ १४ ॥

जहात्विति ॥ एनं धृतराष्ट्रमर्थसिद्धिः कथं न जहातु । जहात्येवेत्यर्थः । 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' इति प्राप्तकाले लोट् तस्य हानिकालः प्राप्त इत्यर्थः । कुतः । यो धृतराष्ट्रः संशय्य सन्दिह्य कर्णादिषु । तिष्ठते कर्णादीन्दुर्मन्त्रिणः सन्दिग्धार्थनिर्णेतृत्वेनावलम्बत इत्यर्थः । 'प्रकाशनस्थेयाख्ययोश्च' इति स्थेयाख्यायामात्मनेपदम् । तिष्ठतेऽस्मिन्निति स्थेयो विवादपदनिर्णोता । तथा हि । असाधुयोगा दुर्जनसंसर्गा जयान्तराया जयविघातकाः । किञ्च प्रमाथिनीनामुन्मूलनवशीलानां विपदां पदानि स्थानानि । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । न केवलं जयघातिनः किन्त्वनर्थकारिणश्चेत्यर्थः धृतराष्ट्रोऽपि दुर्जनः—विधेयत्वाद् विनंक्ष्यतीति ॥ १४ ॥

अन्वयः—यः, कर्णादिषु, संशय्य, तिष्ठते, एनम्, अर्थसिद्धिः, कथं, न, जहातु, हि, जयान्तरायाः, असाधुयोगाः, प्रमाथिनीनां, विपदां पदानि ( भवन्ति ) ॥

Page 200Permalink
१६किरातार्जुनीयम्[ तृतीयः

व्याख्या—यः = धृतराष्ट्रः, कर्णादिषु = अङ्गराजप्रभृतिषु, संशय्य = संशयमाप्य, तिष्ठते = निर्णये सुखेन व्यवतिष्ठते / सुखेनाववलम्बते, तम्, एनं, कथं = कस्माद्, न = नहि, अर्थसिद्धिः = प्रयोजनसिद्धिः, जहातु = त्यजतु, अवश्यमेव दुर्नयतां कर्णादीनां मन्त्रणया तस्येष्ट-सिद्धिः कथमपि न भविष्यतीति भावः। हि = यस्मात् कारणात्, जयान्तरायाः = जयविघ्नरूपाः, असाधुयोगाः दुर्जनसंसर्गाः, प्रमाथिनीनाम् = उन्मूलनशीलानां, विपदाम् = आपदां, दुःखानामित्यर्थः। पदानि = स्थानानि, भवन्ति ॥ १४ ॥

समासः—अर्थस्य सिद्धिर्अर्थसिद्धिः। कर्णं आदिर्येषां ते कर्णादयस्तेषु कर्णादिषु। न साधुरसाधुः, असाधोर्योगा असाधुयोगाः, जयस्यान्तरायाः जयान्तरायाः ॥ १४ ॥

व्याकरणम्—जहातु = हा + लोट्। संशय्य = सम् + शीङ् + क्त्वा + ल्यप्। तिष्ठते = स्था + लट् ॥ १४ ॥

वाच्यान्तरम्—येन कर्णादिषु संशय्य स्थीयते। सोऽयं कथं नार्थसिद्ध्या हीयतां, हि जयन्तरायैरसाधुयोगैर्विपदां पदैर्भूयते ॥ १४ ॥

कोषः—'कर्णः श्रुतौ, कर्णभूपे, जात्यः यक्ष्ममहाम्बुजे-' इति कोषः। 'विघ्नोऽन्तरायः प्रत्यूह' इत्यमरः। 'पदंव्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ॥ १४ ॥

सारार्थः = अहो कर्णदुर्योधनदुःशासनादीनामन्‍यायमार्गनिरतानां विचारेण यो धृतराष्ट्रः प्रवर्तते। कथं तस्याभ्युदयो भविष्यति। वस्तुतो दुर्जनजनसङ्गतयो जयविघ्नस्वरूपस्तथा चोन्मूलनशीलानां विपत्तीनां स्थानान्येव भवन्ति, अतो नियतं कियता कालेन तस्य विपत्तयः समुत्पत्स्यन्ते ॥ १४ ॥

भाषार्थः—जो कि संदेह होने पर कर्ण आदि अन्याइयों की राय पर चलता है, कैसे उसको कार्यसिद्धि नहीं छोवेगी। क्योंकि जय का विघ्नरूप दुर्जनों का सङ्ग सत्यानाश करनेवाली विपत्तियों की जगह है ॥ १४ ॥

एवं शत्रोरनर्थं सूचयित्वा राज्ञोऽर्थसिद्धिं सूचयति—

पथश्च्युतायां समितौ रिपूणां धर्म्यो दधानेन धुरं चिराय।
त्वया विपत्स्वप्यविपत्तिरम्यमाविष्कृतं प्रेम परं गुणेषु ॥ १५ ॥

पथ इति ॥ रिपूणां समितौ सभायाम्। 'सभासमितिसंसदः' इत्यमरः। पथश्च्युतायां मार्गाद् भ्रष्टायाम्। दुरात्मनो दुःशासनस्य स्त्रीग्रहणसाहसमङ्गीकृतवत्यामित्यर्थः। चिराय धर्म्यां धर्मादनपेताम्। 'धर्मंपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः। धुरं भारं दधानेन। कृच्छ्रेष्वपि धर्मादचलतेत्यर्थः। त्वया विपत्स्वपि, अविपत्त्या विनाप्यत एव रम्यं गुणेषु शान्तत्यागादिषु विषये परमुत्कृष्टं प्रेमाविष्कृतं प्रकटीकृतम्। दुःसहमपि सोढवता त्वया साधु कृतमिति भावः ॥ १५ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १७

Page 201Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १७

अन्वयः—पथश्च्युतायां, रिपूणां, समितौ, चिराय, धम्म्यां, धुरं, दधानेन, त्वया, विपत्सु, अपि, अविपत्तिरम्यं, गुणेषु, परं, प्रेम, आविष्कृतम् ॥ १५ ॥

व्याख्यापथश्च्युतायां = न्यायमार्गभ्रष्टायां, रिपूणां = शत्रूणां, दुर्योधनादीनामित्यर्थः । समितौ = सभायां, धम्म्यां = धर्मयुक्तां, धुरं = भारं, दधानेन = बिभ्रता, त्वया = भवता, युधिष्ठिरेणेत्यर्थः । विपत्सु = आपत्सु, दीनदशास्वित्यर्थः । अपि, अविपत्तिरम्यं = सुखावसरवद्रुचिरं, वा, अविपत्ति=अनश्वरं, रम्यं = प्राज्ञ, निष्कपटमित्यर्थः । परं=परमम्, प्रेम = स्नेहः, आविष्कृतम् = प्रकटीकृतम् । सुखावसरे सर्वे गुणेषु प्रेम प्रदर्शयन्ति, परन्तु दुःखावसरेऽपि भवानेव गुणेषु प्रेम प्रदर्शितवान्, अतो भवान् भव्यस्तेन त्वयि पक्षपातो नानुचित इति ॥ १५ ॥

समासः—न विपत्तिर्यत्र तत् अविपत्तिः ॥ १५ ॥
व्याकरणम्—आविष्कृतम् = आविस् = कृ + क्तः ॥ १५ ॥
वाच्यान्तरम्—पथश्च्युतायां रिपुणां समितौ धम्म्यां धुरं दधानस्त्वं विपत्सु, अविपत्तिरम्यं परं प्रेम गुणेषु आविष्कृतवान् ॥ १५ ॥

कोषः—'अयनं वर्त्ममार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः' । 'सभासमितिसंसद' इत्यमरः । 'प्रेमा ना प्रियता हार्द प्रेम स्नेह' इत्यमरः ॥ १५ ॥

भावार्थः—अहो किमधिकं भवतो गुणाधिक्यं वर्णयामि, द्रौपदीवस्त्रापकर्षणसमयेऽप्यन्यायमार्गनिरतानां कौरवाणां सभायां भवान् धर्मं न त्यक्तवान्, तथा चाक्लेशेन गुणेष्वेवादरोऽङ्गीकृतः विपद्दशायां बहवो धर्मवन्तोऽपि किञ्चित् कालपर्यन्तं धर्मं विहायावसरं प्रतीक्षन्ते परं भवाँस्तु तादृश्यामप्यवस्थायां धर्ममेवाङ्गीकृतवान् ॥ १५ ॥

भाषार्थः—नीतिमार्ग से उतरी हुई दुश्मनों की सभा में धर्मयुक्त कार्यभार वहन करते हुए भी तुम्हारे द्वारा विपत्ति में अच्छी हालत के जैसे गुणों में प्रेम दर्शाया गया है ॥ १५ ॥

विधाय विध्वंसमनात्मनीनं शमैकवृत्तेर्भवतश्छलेन।
प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥ १६ ॥

विधायेति ॥ किं च शमः पूर्वोक्तः मुख्या वृत्तिर्यस्य तस्यापरोपतापिनी भवतश्छलेन कपटेन । आत्मने हित आत्मनीनः स न भवतीत्यनात्मनीनः । स्वस्यैवानर्थहेतुरित्यर्थः । तम् । 'आत्मन्विश्वजनभोगोत्तरपदात्खः' इति खप्रत्ययः । विध्वंसमपकारं विधाय कृत्वा । प्रकाशितः प्रख्यापितस्त्वन्मतिशीलयोस्तव प्रज्ञासद्वृत्तयोः सारः प्रकर्षो यैस्ते तथोक्ताः । ते तव विद्विषः कृतोपकारा स्वोपकृतवन्त इव । अपकारोऽप्युपकारायैव संवृत्तः । यदेषां दौर्जन्यं युष्मत्सौजन्यं च जगति सुव्यक्त-

* ३ कि०

Page 202Permalink
१८किरातार्जुनीयम्[ तृतीयः

भासीदित्यर्थः। विद्यमानस्यापि सुजनस्य चन्दनदारुण इव गुणाः परिभव इव प्रचुरीभवन्तीति भावः ॥ १६ ॥

अन्वयः—शमैकवृत्तेः भवतः, छलेन, आत्मनीनं, विध्वंसं, विधाय, प्रकाशितत्वन्मतिशीलसाराः ते, विद्धिषः, कृतोपकाराः, इव ( सन्ति ) ॥ १६ ॥

व्याख्याशमैकवृत्तेः = शान्तिप्रधानव्यवहारस्य, भवतः = तव, युधिष्ठिरस्येत्यर्थः। छलेन=कपटोन। अनात्मनीनं = स्वनिष्ठकरं, विध्वंसं=सर्वहानिं, विधाय = कृत्वा, प्रकाशितत्वन्मतिशीलसाराः = प्रकटितभवद्बुद्धिविप्रकृतिप्रकर्षाः, ते = तव, युधिष्ठिरस्येत्यर्थः। विद्धिषः = शत्रवः, कृतोपकाराः=विहितसाहाय्याः, इव, सन्तीति। अर्थात् मिथो मित्रतायां दुर्जना अप्युपकारिण एव भवन्ति, का कथा सज्जनानाम्, परन्तु मिथो विरोधे जनिते दुर्जनाः, प्रकृतिं प्रकटयन्ति, सज्जना अपि स्वस्वभावं प्रदर्शयन्ति। किन्तु दुर्जनकृतापकारस्य प्रत्यपकारं न कुर्वन्ति तदानीं सज्जनस्य परिचयो यद् दुर्जनकृतापकारानपि क्षमापयित्वा, तत्प्रतीकारं ये न कुर्वन्ति 'ये यदनिष्टमिष्टं वा कुर्वन्ति ते तत् स्वार्थाय, अतश्चेदस्मदीयो रिपवोऽस्माकमनिष्टमाचरन्ति, तदा कुर्वन्तु, तत्फलं त एव प्राप्स्यन्ति, न सद्यस्त्युत्तरं दास्यामः, एवं स्वभाववतां भवतां स्वभावपरिचय एव प्रकाशितो भवद्वैरिणा सर्वत्रेति भावः ॥ १६ ॥

समासः—आत्मने हित आत्मनीनः न आत्मनीन इत्यनात्मनीनः, तमनात्मनीनम्। शम एवैका वृत्तिर्यस्य सः, शमैकवृत्तिस्तस्य शमैकवृत्तेः। मतिश्च शीलञ्च मतिशीले, तव मतिशीले, इति त्वन्मतिशीले त्वन्मतिशीलयोः सारौ, त्वन्मतिशीलसारौ, प्रकाशितौ त्वन्मतिशीलसारौ यैस्ते प्रकाशितत्वन्मतिशीलसाराः। कृतः उपकारो यैस्ते कृतोपकाराः ॥ १६ ॥

व्याकरणम्—विधाय = वि + धा + क्त्वा + ल्यप् ॥ १६ ॥

वाच्यान्तरम्—शमैकवृत्तेर्भवतश्छलेन, अनात्मनीनं विध्वंसं विधाय, प्रकाशितत्वन्मतिशीलसारैस्ते विद्धिड्भिः कृतोपकारैरिव भूयते ॥ १६ ॥

कोषः—'शमथस्तु शमः शान्तिः' इत्यमरः। 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः। 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः। 'वृत्तौ तु चरिते शीलम्' इत्यमरः ॥ १६ ॥

सारार्थः—दुर्योधनस्तु शान्तिशीलस्य भवतो या हानिः कृता सा स्वस्यैवानर्थरूपा तस्य। प्रत्युत पदे पदे तेनापकृता अपि भवन्तस्तस्यापकारमकृत्वा विपक्षावपि नीतिनियम एव पालित इत्यतुलं यशस्तत्कारणमेव प्रसृतं जगति। अतस्ते शत्रवो भवतः कृतोपकारा इव लक्ष्यन्ते मयेति युधिष्ठिरं प्रति व्यासोक्तिः ॥ १६ ॥

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११

Page 203Permalink

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११

**भाषार्थः—**शान्ति रखना ही एक चाल है जिसकी, ऐसे आपकी हानि के छल से अपनी हानि करके आपकी बुद्धि (समझ) और शील (सच्चरित्रता) ईमानदारी के प्रभाव को प्रकाशित करनेवाले आपके दुश्मन लोग आपके उपकारी के ही समान हैं ॥ १६ ॥

अथ प्रयोजनान्तरमाह—

लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः ।
अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥१७॥

...न्थेति ॥ तव । त्वयेत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी । धरित्री । विक्रमेण लभ्या प्राप्तव्या । न च सुलभा तं विनेत्याह—विपक्षश्च शत्रुरपि । वीर्यं शौर्यमस्त्राण्याग्नेयादीनि बलानि सैन्यानि तैर्ज्यायान्प्रशस्यतरः । अधिकतर इति यावत् । ज्येष्ठस्य 'यादादीयसः' इति ज्यादेशः । अतः प्रकर्षायाधिक्याय । उपायो विधेयः कर्तव्यः । कुतः । हि यस्माद्रणे जयश्रीः प्रकर्षतन्त्रा प्रकर्षप्रधाना । प्रकर्षोद्यतेत्यर्थः । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । बलिन एव जयः, न तु दुर्बलस्येति भावः ॥ १७ ॥

**अन्वयः—**तव धरित्री, विक्रमेण, लभ्या, च, विपक्षः, वीर्यास्त्रबलैः, ज्यायान् अतः, प्रकर्षाय, विधिः, विधेयः, हि, रणे, जयश्रीः, प्रकर्षतन्त्रा ॥ १७ ॥

**व्याख्या—**तव = भवतः, युधिष्ठिरस्येत्यर्थः । धरित्री = पृथ्‍वी, विक्रमेण = पराक्रमेण, लभ्या, = प्राप्या भविष्यतीति शेषः । न तु शान्त्या लभ्येति भीममतानुमोदनम् । विपक्षश्च = शत्रुश्च, वीर्यास्त्रबलैः = शौर्यशस्त्रसैन्यैः, ज्यायान् = महीयान्, अस्तीति शेषः । अतः = अस्मात्, कारणात् प्रकर्षाय = उत्कर्षाय, शत्रुतोऽधिकवीर्यशस्त्रसैन्यसम्पादनायेत्यर्थः । विधिः = विधानं, विधेयः = कर्तव्यः, हि = यस्मात्, कारणात्, रणे = सङ्ग्रामे, जयश्रीः = जयलक्ष्मीः, प्रकर्षतन्त्रा = उत्कर्षजनाधीना, न त्वपकर्षजनायेति भावः । अनेनाधुना युद्धकरणमुचितमिति युधिष्ठिर-मतानुमोदनं कृतं भगवता व्यासेन यतो मिथः सहजग्रोरुरोधः शान्तो भवेदिति ॥ १७ ॥

**समासः—**वीर्यं चास्त्राणि च बलानि च वीर्यास्त्रबलानि, तैर्वीर्यास्त्रबलैः । प्रकर्षेस्वतन्त्रं मुख्यो यस्याः सा प्रकर्षतन्त्रा । जयस्य श्रीः जयश्रीः ॥ १७ ॥

**व्याकरणम्—**लभ्या = लभ् + यत् । विधेयः = वि + धा + यत् ॥ १७ ॥

**वाच्यान्तरम्—**त्वं स्वकीयां धरित्रीं विक्रमेण लप्स्यसे । तव विपक्षेण वीर्यास्त्रबलैर्ज्यायसा भूयते । अतः प्रकर्षाय विधिः विधेहि, रणे जयश्रिया प्रकर्षतन्त्रया भूयते ॥ १७ ॥

Page 204Permalink

२० किरातार्जुनीयम् [ तृतीयः

कोषः— 'धरा धरित्री धरणिः क्षोणिर्ज्यां काश्यपी क्षितिः' इत्यमरः । 'शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता' इत्यमरः । 'बलमियी बलं सैन्यं चक्रं चा-नीकमस्त्रियाम्' इत्यमरः । 'उत्साहोऽध्यवसायः स्यात्सवीर्यमतिशक्तिभाक्' इत्य-मरः । 'द्विड्विपक्ष-हिता-मित्र-दस्यु-शात्रव-शत्रव' इत्यमरः । 'विधिर्विधाने दैवे च' इत्यमरः । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । 'अस्त्रियां समरानीकरणाः कलह-विग्रहौ' इत्यमरः ॥ १७ ॥

सारांशः— विना पराक्रमेण भवतो राज्यलाभो न भविष्यति । परन्तु भवद-पेक्षयाऽधुना शौर्यशस्त्रसैन्यैर्भवच्छत्रव एक विशेषा अतस्ते भवतोऽधिकविक्रमवन्तः सन्ति, अथ सङ्ग्रामे जयलाभो विशेषतया विक्रमाधिकस्यैवातोऽधुना युद्धे कृते तेषामेव जयसम्भवः, न तु विक्रमवतो भवतस्तेन विशेषविक्रमसम्पादनायोपायः प्रकर्तव्यः, यदाप्यपि तमुपायमप्रे—इति ॥ १७ ॥

भाषार्थः— आपकी गई भूमि ( जगह ) पराक्रम से मिलेगी, अभी आपका वैरी आपसे बल, शस्त्र और सेनाओं से बलवान् है। इसलिये आपको बलवान् होने के लिए उपाय करना चाहिये। क्योंकि युद्ध में जयलक्ष्मी बलवान् ही के अधीन होती है ॥ १७ ॥

अथ 'त्रि'—इत्यादिना श्लोकषष्टुष्टयेन विपक्षज्यायस्त्वं वर्णयति—

त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य सजामदग्नयः ।
वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥ १८ ॥

त्रिसप्तेति ॥ त्रिरावृत्तान्सप्तसावारान्त्रिःसप्तकृत्वः । एकविंशतिकृत्व इत्यर्थः । त्रिः-सप्तशब्दयोः सुप्तुपेति समासः । 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति । कृत्वसुच्प्रत्ययः । जगतीपतीनां महीपतीनां हन्ता नाशको गुरुबखवेदोपदेष्टा सः । प्रसिद्ध इत्यर्थः । अत एव यच्छब्दानपेक्षकत्वम् । तदुक्तं काव्यप्रकाशे—'प्रक्रान्त-प्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते' इति । जमदग्नेरपत्यं पुमाञ्जामदग्न्यः । 'गर्गादिभ्यो यञ्' इति यञ्प्रत्ययः । यस्य भीष्मस्य वीर्यावधूतो विक्रमाभिभूतः । अम्बिकास्वयंवर इत्यर्थः । तदा भङ्गप्राप्तिसमये गुणानां शौर्या-दीनां प्रकर्षमतिशयमाधारवशमाश्रयाधीनं विवेद अशे स्म । स्वविद्यायाः स्वशिष्ये भीष्मे स्वस्मादपि प्रकर्षाभानदर्शनादिति भावः । 'स्म पादपूरणे भूतेऽर्थे च' इति विश्वः ॥ १८ ॥

अन्वयः— (यः) त्रिःसप्तकृत्वः, जगतीपतीनां, हन्ता, गुरुः, सः, जामदग्न्यः, यस्य वीर्यावधूतः, (सन्) तदा गुणानां प्रकर्षम्, आधारवशं, विवेद ॥ १८ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २१

Page 205Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २१

व्याख्या—( यः ) त्रिःसप्तकृत्वः = त्रिगुणसप्तवारम् , एकविंशतिवारमित्यर्थः । जगतीपतीनाम् = महीपतीनां, क्षत्रियाणामित्यर्थः । हन्ता = नाशकः, गुरुः = धनुरस्यवेदोपदेशकः । भीष्मस्यापीति शेषः । सः = तथाविधः, जामदग्न्यः = जमदग्निमुनिपुत्रः, परशुराम इत्यर्थः । यस्य = भीष्मस्य, वीर्यावधूतः = पराक्रमतिरस्कृतः, भीष्मेण पराजितः सन्नित्यर्थः । तदा = स्वपराजयावसरे, गुणानां = शौर्यौदार्यगाम्भीर्यादीनाम् , प्रकर्षम् = उत्कर्षम् , आधारवशम् = आश्रयाऽनुगुणं, विवेद = ज्ञातवान् । अन्यत्किमु कथ्यते परशुरामोऽपि येन पराजितस्तादृशो भीष्मः 'कस्य मनो भयैकप्रवणं न कुर्यादि'ति पुरः श्लोकेन सम्बन्धः । न हि गुणोत्कर्षो गुरावेव तिष्ठति, शिष्योऽपि चेद् गुरोरधिकसत्पात्ररूपस्तदा गुर्वपेक्षया शिष्य एवाधिकगुणवानिति भावः ॥ १८ ॥

समासः—त्रिः, त्रिगुणाः सप्त, इति त्रिःसप्तकृत्वः । जगत्याः पतयो जगन्तीं, पतयस्तेषां जगतीपतीनाम् । जमदग्नेरपत्यं पुमान् जामदग्न्यः । वीर्येणावधूतो, वीर्यावधूतः । आधारस्य वश आधारवशंस्तमाधारवशम् ॥ १८ ॥

व्याकरणम्—त्रिःसप्तकृत्वः = त्रि + सुच् + सप्त + कृत्वसुच् । विवेद = विद् + लिट् ॥ १८ ॥

वाच्यान्तरम्—त्रिःसप्तकृत्वो जगतीपतीनां हन्त्रा गुरुणा तेन जामदग्न्येन यस्य वीर्यावधूतेन गुणानां प्रकर्ष आधारवशो विविदे ॥ १८ ॥

कोषः—'जगती जगतिच्छन्दो विशेषेऽपि क्षितावपि' इत्यमरः । 'स्म पादपूरणे भूतेऽर्थे' इति विश्वः । 'गुरुः प्रधाने महति चोपदेष्टर्यपि स्मृत' इति कोषः । 'मत आधार आश्रय' इति कोषः ॥ १८ ॥

सारार्थः—यः परशुराम एकविंशतिवारं निःक्षत्रियां महींमकरोत्, तच्छिष्योऽपि भवन् भीष्मः, अम्बाप्रेरितं तं परशुरामं जित्वा स्वपक्षः ( नाहं करिष्यामि करग्रहं कयाऽप्येवम्भूपः ) रक्षितः । स गुरोरपि विजेता भीष्मः केन भवरूपणीयेण निवारयितुं योग्यः ? नहि केनापीति ॥ १८ ॥

कथासन्दर्भः—एकदा भीष्मस्य ( देवव्रतस्य ) पिताऽन्तनुर्मृगयार्थं वनं गतस्तत्रैकां दाशकन्यकामालोक्य क्षीधिरहितेन कामाधिकतया तस्यामासक्तो भूत्वा तत्पितरं धीवरं कन्यादानाय प्रार्थयामास । स च धीवरः—मम प्राणमपि गृह्णातु राजा, नाहं वृद्धाय, विवाहाईवयस्कपुत्राय भवते दास्यामि स्वकन्यां, दास्यामि चेत्तदा भवत्पुत्राय देवव्रताय' इत्युत्तरं ददौ, ततस्तदुचितकथया लज्जितः कामबाणभिन्नमर्मावद्यधः स्वभवनमागत्य कोपभवने निद्रान्व्याजेन भूमौ निःश्वसन् प्राणान् हातुं पतितः । प्रभाते, अतीते च कियति समये, उषसि उत्थानशीलमपि राजानमनुत्थितमालोक्य परिचारका मन्त्रिणश्च तत्सकाशं गत्वाऽवलोकितवांस्त-

Page 206Permalink
२२किरातार्जुनीयम्[ तृतीयः

दीयां दशां, ज्ञातवांश्च तस्याशयं, तथा देवव्रतस्तत्पुत्रस्तस्याभिलाषपूर्यै तस्य दाश- स्यान्तिके गत्वाऽतिसत्वरम् मत्पित्रे देहि दुहितरं विवाहविधिनेत्यादिशत्। श्रुत्वा तद्वचनं, नाहं तस्मै दास्यामि, किं भवत्युपस्थितेऽस्मद्दौहित्रो राज्यभागी स्यादथवा भवत्पुत्रपरम्परायाः सम्भवेऽपि। यदि ग्रहीष्यति, तदा त्वदर्थं चेत्तथा ददामि सादरमिति निशम्य तदानीमेव देवव्रतेन प्रतिज्ञा कृता 'नाहं करिष्यामि विवाहं कयाऽपि साकं, नाहं राज्याङ्गीकरिष्यामिति' हेतोस्तस्य नाम भीष्मो भीष्म- प्रतिज्ञाकरणाज्जातम्। अथ तां दाशकन्यां योजनगन्धां स्वासमातरं कालीं समानीय स्वजनकायार्पिता भीष्मेण। तस्यां चित्रवीर्यविचित्रवीर्यौ द्वौ भ्रातरौ भीष्मस्य जातौ कदाचित्सञ्जाते काश्या महाराजस्य कन्यानां वीर्यशुल्के स्वयंवरे सम्मि- लिता निमन्त्रिता भूपतयः। भीष्मोऽपि स्वानुजाभ्यां सह तत्र गतः। परन्तु भीष्ममागतमेव विज्ञाय सर्वे राजानः स्वकीयामाशा विफला भविष्यन्तीमनुमान्य यथादिशं गताः अन्ते च भीष्मः अम्बा-अम्बिका-अम्बालिका-चेति कन्यात्रयमादाय स्वधामागमत्। तदानीमम्बाऽवदद् 'अहं पूर्वत एव शाल्वभूपानुरक्ता आसम्' इति निशम्य 'गच्छ यथेष्टं स्वच्छन्दचारिणि'-एवं कथयित्वा स्वानुजयोरम्बिकाम्बालि- काभ्यां विवाहं चकार परन्तु शाल्वेन 'नाहं त्वां परपरिगृहीतां ग्रहीष्यामि' इत्थमपमानिता पुनः साऽम्बिका लज्जावनतवदना भीष्मशरणमेवोपस्थिता 'त्वमेव मां गृहाण कुरुष्व मां किङ्करीमपि' इति प्रार्थितवती। परन्तु भीष्मः स्वप्रतिज्ञा- भङ्गभिया तां दूरतस्त्यक्त्वा स्थितः। अथ सा किंकर्त्तव्यविमूढा भूत्वाऽन्ते 'यदस्य गुरुः परशुराम एव कथयिष्यति तदा तदाज्ञां नोल्लङ्घयिष्यति' इति विचार्य रामा- न्तिकं गत्वा तस्मै सर्वं स्वखेदहेतुमकथयत्। ततो जातदयेन तेन भीष्मसन्निधि- मागत्यादिशत् 'कुरु विवाहमनया ऽम्बया'। ततो 'नहि करिष्यामि कदापि कयाऽपि सह करग्रहम्' इति साग्रहं वचः श्रुत्वा प्रकृत्या कोपने रामस्तेन सह योद्धुमारब्धः। युद्धे च भीष्मेण पराजितः स्वस्थानं गतः। सा च द्रुपदयज्ञकुण्डे पतित्वा ततो नपुंसकवेषेण शिखण्डीति नाम्ना परिचितस्तस्मान्निःसृतो भीष्ममृत्युनिदानीभूता- ऽभवदिति ॥ १८ ॥

भाषाऽर्थः--एक्कीस बार राजाओं का संहार करनेवाले, धनुर्वेद के आचार्य परशुराम ने भी उस भीष्म से हार कर माना कि गुणों की विशेषता पात्र के अनुसार होती है ॥ १८ ॥

यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि।
क्षुभ्यन्धनुः कस्य रणे न कुर्यान्मनो भयैकप्रवणं स भीष्मः ॥१९॥

यस्मिन्निति ॥ यस्मिन्भीष्मे विषये। अनीश्वरस्य भावोऽनैश्वर्यमसामर्थ्यम्। 'नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' इति विकल्पान्नञः पूर्वपदवृद्ध्यभावः। तेन

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् २३

Page 207Permalink

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् २३

कृतव्यलीको जनितवैलक्ष्यः । 'कुत्से वैलक्ष्ये व्यलीकम्' इति यादवः । अन्तकोऽपि यमोऽपि पराभवं प्राप्त इव । भीष्मस्येच्छामरणत्वादान्तकोऽपि पराजित इवास्ते किमुतान्य इति भावः । स भीष्मो रणे धनुर्धन्वन्कम्पयन्कस्य मनो भयैकप्रवणं भय एकप्रवणमेकोन्मुखम् । शिवभागवतवत्समासः । न कुर्यात् । सर्वस्यापि मनसि भयं कुर्यादेवेत्यर्थः ॥ १९ ॥

अन्वयः—यस्मिन्, अनैश्वर्यकृतव्यलीकः, अन्तकः, अपि, पराभवं, प्राप्तः, इव, रणे, धनुः, धुन्वन्, सः, भीष्मः, कस्य, मनः, भयैकप्रवणं, न, कुर्यात् ? ॥ १९ ॥

व्याख्या—यस्मिन् = भीष्मे, अनैश्वर्यकृतव्यलीकः = असामर्थ्यजनितदुःखः, अन्तकः = यमः, अपि, पराभवम् = पराजयं, प्राप्तः = गतः, इव जातः । तादृश इति शेषः । रणे = सङ्ग्रामे, धनुः = शरासनं, धुन्वन् = चालयन्, सन्, कस्य = जनस्य, मनः = चित्तम्, भयैकप्रवणं = भीष्माभिमुखं, न कुर्यात् = न विदधीत, अपि तु सर्वेषामपि कुर्यादेव, वा कस्य = ब्राह्मणोऽपि, मनो भयैकप्रवणं कुर्या- देवेति ॥ १९ ॥

समासः—ईश्वरस्य भाव ऐश्वर्यं न ऐश्वर्यम् अनैश्वर्यम्, अनैश्वर्येण कृतं व्यलीकं यस्यः सः अनैश्वर्यकृतव्यलीकः । एकस्मिन्नेव प्रवणमेकप्रवणम्, भय एकप्रवणं भयैकप्रवणम् ॥ १९ ॥

व्याकरणम्—कुर्यात् = कृ + लिङ् । प्राप्तः, प्र + आप् + क्तः ॥ १९ ॥

वाच्यान्तरम्—यस्मिन्ननैश्वर्यकृतव्यलीकेनापि पराभवं प्राप्तेनेव, रणे धनुर्धुन्वता तेन भीष्मेण कस्य मनो भयैकप्रवणं न क्रियेत ॥ १९ ॥

कोषः—'व्यलीकमप्रियकार्यवैलक्ष्येष्वापे पीडने'–इत्यमरः । 'कालो दण्डधर- श्राद्धदेवो वैवस्वतोऽन्तक' इत्यमरः । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । प्रवणं क्रमनिम्नोर्व्याम्' इत्यमरः ॥ १९ ॥

सारार्थः—महाभारते, शिखण्डिनं पुरस्कृत्य यदाऽसंख्यैः शरैरर्जुनेन भीष्मो रोमरोमसु वेधितस्तदा, तस्य मरणमुपस्थितमपि, स्वतपोब्रह्मचर्यप्रभावेण 'नाहम- धुना याम्यायने मृत्वा नरकमार्गेण गमिष्यामि परलोकम्, अतोऽहं सौम्यायने समागते त्यक्ष्यामि निजप्राणैः सहैतच्छरीरम्" इति निश्चित्य, इच्छामरणत्वेन यममप्यवमान्य, भीष्माष्टम्यां स्वदेहं जहौ, एवमिच्छाऽधीन मरणत्वेन यमस्या- ज्ञाऽपि भीष्मसमीपे न धावति, ईदृशः स धनुः करे कुर्वन् केन निवार्यते, प्रत्युत अगति विद्यत एव तादृशो जनो नहि, यस्तं निवारयतीति ॥ १९ ॥

भाषार्थः—जिस भीष्माचार्य के आगे अपनी शक्ति के अभाव से पैदा हुआ है दुःख जिसे, ऐसे यमराज भी हारे हुए की तरह मालूम पड़ते हैं। धनुष को

Page 208Permalink
२४किरातार्जुनीयम्[ तृतीयः

हाथ में चलाते हुए लड़ाई में ऐसे भीष्म से किसका मन भय के तरफ नहीं खिंच सकता, बल्कि सबों का मन भयभीत हो जायगा ॥ १९ ॥

सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः ।
परिस्फुरल्लोलशिखाऽप्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम् ॥२०॥

सृजन्तमिति ॥ आजौ रण इषुसंहतिर्बाणसंघान्सृजन्तं वर्षन्तं कोपज्वलितमत एवं परिस्फुरन्त्यो लोलाश्च शिखाग्राण्येव जिह्वा यस्य तं तथोक्तं जगल्लोकं जिघत्सन्तमत्तुमिच्छन्तम् । अदेः सन्नन्ताच्छतृप्रत्ययः । 'लुङ्सनोर्घस्लृ' इति घस्लादेशः । अन्तवह्निं कालाग्निमिव स्थितं गुरुं द्रोणं वो युष्माकं मध्ये कः सहेत सोढुं शक्नुयात् । न कोऽपीत्यर्थः । 'शकि लिङ् च' इति शक्यार्थे लिङ् ॥ २० ॥

अन्वयः— आजौ, इषुसंहतीः, सृजन्तं, कोपज्वलितं, परिस्फुरल्लोलशिखाऽप्रजिह्वं जगत्, जिघत्सन्तम्, अन्तवह्निम्, इव गुरुम्, वः, कः, सहेत ॥ २० ॥

व्याख्या— आजौ = संग्रामे, इषुसंहतीः, = शरवर्षाः, सृजन्तं = कुर्व्वन्तं, कोपज्वलितं = क्रोधोद्दीपितम्, अत एव, परिस्फुरल्लोलशिखाऽप्रजिह्वम् = परिचलच्चपलज्वालाऽप्ररसनं, जगत् = भुवनं, जिघत्सन्तम् = अत्तुमिच्छन्तम्, अन्तवह्निम् = प्रलयाग्निम्, इव गुरुम् = शस्त्रशास्त्राचार्यं, द्रोणमिति शेषः । वः = युष्माकम्, पाण्डवानां मध्ये इत्याशयः, कः = जनः, सहेत = क्षमते, न कोऽपि ॥ २० ॥

समासः— इषूणां संहतय इषुसंहतयस्ता इषुसंहतीः । कोपेन ज्वलितः कोपज्वलितस्तं कोपज्वलितम् । परिस्फुरन्त्यः लोलाश्च शिखाः परिस्फुरल्लोलशिखाः तासामग्राण्येव जिह्वा यस्य सः परिस्फुरल्लोलशिखाऽग्रजिह्वस्तं परिस्फुरल्लोलशिखाऽप्रजिह्वम् । अन्तस्य प्रलयस्य वह्निरन्तवह्निस्तमन्तवह्निम् ॥ २० ॥

व्याकरणम्— सहेत = सह + लिङ् ॥ २० ॥

वाच्यान्तरम्— आजाविषुसंहतीः सृजन् कोपज्वलितः, परिस्फुरल्लोलशिखाऽग्रजिह्वो जगद् जिघत्सन्नन्तवह्निरिव गुरुर्वः केन सह्येत ॥ २० ॥

कोषः— 'समुदायः स्त्रियः संहत्समित्याजिसमिधुष' इत्यमरः । 'कलम्बमार्गणशराः पत्री रोप इषुद्वयोः' इत्यमरः । 'स्त्रियां तु संहतिर्वृन्द निकुरुम्बं कदम्बकम्' इत्यमरः । 'कोपक्रोधामर्षरोषप्रतिघातरुडुक्रुधौ स्त्रियौ' इत्यमरः । 'रसज्ञा रसना जिह्वा' इत्यमरः । 'अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जय' इत्यमरः ॥ २० ॥

सारार्थः— सङ्ग्रामे शरवृष्टिं कुर्वन्तः, संसारं नाशयितुं प्रवृत्तस्य प्रलयाग्नेरिव द्रोणाचार्यस्य गुरोः पुरतो भवत्पक्षीयः कोऽपि न स्थास्यति ॥ २० ॥

भावार्थः— युद्धमें शरवर्षा करते हुए, क्रोध (गुस्सा) से प्रज्वलित, लहलहाती हुई ज्वाला की छोर ही है जिह्वा जिसकी, ऐसे प्रलय काल की आग के