BharatKosha
Back to the archive

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

by महाकवि भारवि

Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)

DevanagariHindipublished707 pages

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १७

Page 201Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १७

अन्वयः—पथश्च्युतायां, रिपूणां, समितौ, चिराय, धम्म्यां, धुरं, दधानेन, त्वया, विपत्सु, अपि, अविपत्तिरम्यं, गुणेषु, परं, प्रेम, आविष्कृतम् ॥ १५ ॥

व्याख्यापथश्च्युतायां = न्यायमार्गभ्रष्टायां, रिपूणां = शत्रूणां, दुर्योधनादीनामित्यर्थः । समितौ = सभायां, धम्म्यां = धर्मयुक्तां, धुरं = भारं, दधानेन = बिभ्रता, त्वया = भवता, युधिष्ठिरेणेत्यर्थः । विपत्सु = आपत्सु, दीनदशास्वित्यर्थः । अपि, अविपत्तिरम्यं = सुखावसरवद्रुचिरं, वा, अविपत्ति=अनश्वरं, रम्यं = प्राज्ञ, निष्कपटमित्यर्थः । परं=परमम्, प्रेम = स्नेहः, आविष्कृतम् = प्रकटीकृतम् । सुखावसरे सर्वे गुणेषु प्रेम प्रदर्शयन्ति, परन्तु दुःखावसरेऽपि भवानेव गुणेषु प्रेम प्रदर्शितवान्, अतो भवान् भव्यस्तेन त्वयि पक्षपातो नानुचित इति ॥ १५ ॥

समासः—न विपत्तिर्यत्र तत् अविपत्तिः ॥ १५ ॥
व्याकरणम्—आविष्कृतम् = आविस् = कृ + क्तः ॥ १५ ॥
वाच्यान्तरम्—पथश्च्युतायां रिपुणां समितौ धम्म्यां धुरं दधानस्त्वं विपत्सु, अविपत्तिरम्यं परं प्रेम गुणेषु आविष्कृतवान् ॥ १५ ॥

कोषः—'अयनं वर्त्ममार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः' । 'सभासमितिसंसद' इत्यमरः । 'प्रेमा ना प्रियता हार्द प्रेम स्नेह' इत्यमरः ॥ १५ ॥

भावार्थः—अहो किमधिकं भवतो गुणाधिक्यं वर्णयामि, द्रौपदीवस्त्रापकर्षणसमयेऽप्यन्यायमार्गनिरतानां कौरवाणां सभायां भवान् धर्मं न त्यक्तवान्, तथा चाक्लेशेन गुणेष्वेवादरोऽङ्गीकृतः विपद्दशायां बहवो धर्मवन्तोऽपि किञ्चित् कालपर्यन्तं धर्मं विहायावसरं प्रतीक्षन्ते परं भवाँस्तु तादृश्यामप्यवस्थायां धर्ममेवाङ्गीकृतवान् ॥ १५ ॥

भाषार्थः—नीतिमार्ग से उतरी हुई दुश्मनों की सभा में धर्मयुक्त कार्यभार वहन करते हुए भी तुम्हारे द्वारा विपत्ति में अच्छी हालत के जैसे गुणों में प्रेम दर्शाया गया है ॥ १५ ॥

विधाय विध्वंसमनात्मनीनं शमैकवृत्तेर्भवतश्छलेन।
प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ॥ १६ ॥

विधायेति ॥ किं च शमः पूर्वोक्तः मुख्या वृत्तिर्यस्य तस्यापरोपतापिनी भवतश्छलेन कपटेन । आत्मने हित आत्मनीनः स न भवतीत्यनात्मनीनः । स्वस्यैवानर्थहेतुरित्यर्थः । तम् । 'आत्मन्विश्वजनभोगोत्तरपदात्खः' इति खप्रत्ययः । विध्वंसमपकारं विधाय कृत्वा । प्रकाशितः प्रख्यापितस्त्वन्मतिशीलयोस्तव प्रज्ञासद्वृत्तयोः सारः प्रकर्षो यैस्ते तथोक्ताः । ते तव विद्विषः कृतोपकारा स्वोपकृतवन्त इव । अपकारोऽप्युपकारायैव संवृत्तः । यदेषां दौर्जन्यं युष्मत्सौजन्यं च जगति सुव्यक्त-

* ३ कि०

Page 202Permalink
१८किरातार्जुनीयम्[ तृतीयः

भासीदित्यर्थः। विद्यमानस्यापि सुजनस्य चन्दनदारुण इव गुणाः परिभव इव प्रचुरीभवन्तीति भावः ॥ १६ ॥

अन्वयः—शमैकवृत्तेः भवतः, छलेन, आत्मनीनं, विध्वंसं, विधाय, प्रकाशितत्वन्मतिशीलसाराः ते, विद्धिषः, कृतोपकाराः, इव ( सन्ति ) ॥ १६ ॥

व्याख्याशमैकवृत्तेः = शान्तिप्रधानव्यवहारस्य, भवतः = तव, युधिष्ठिरस्येत्यर्थः। छलेन=कपटोन। अनात्मनीनं = स्वनिष्ठकरं, विध्वंसं=सर्वहानिं, विधाय = कृत्वा, प्रकाशितत्वन्मतिशीलसाराः = प्रकटितभवद्बुद्धिविप्रकृतिप्रकर्षाः, ते = तव, युधिष्ठिरस्येत्यर्थः। विद्धिषः = शत्रवः, कृतोपकाराः=विहितसाहाय्याः, इव, सन्तीति। अर्थात् मिथो मित्रतायां दुर्जना अप्युपकारिण एव भवन्ति, का कथा सज्जनानाम्, परन्तु मिथो विरोधे जनिते दुर्जनाः, प्रकृतिं प्रकटयन्ति, सज्जना अपि स्वस्वभावं प्रदर्शयन्ति। किन्तु दुर्जनकृतापकारस्य प्रत्यपकारं न कुर्वन्ति तदानीं सज्जनस्य परिचयो यद् दुर्जनकृतापकारानपि क्षमापयित्वा, तत्प्रतीकारं ये न कुर्वन्ति 'ये यदनिष्टमिष्टं वा कुर्वन्ति ते तत् स्वार्थाय, अतश्चेदस्मदीयो रिपवोऽस्माकमनिष्टमाचरन्ति, तदा कुर्वन्तु, तत्फलं त एव प्राप्स्यन्ति, न सद्यस्त्युत्तरं दास्यामः, एवं स्वभाववतां भवतां स्वभावपरिचय एव प्रकाशितो भवद्वैरिणा सर्वत्रेति भावः ॥ १६ ॥

समासः—आत्मने हित आत्मनीनः न आत्मनीन इत्यनात्मनीनः, तमनात्मनीनम्। शम एवैका वृत्तिर्यस्य सः, शमैकवृत्तिस्तस्य शमैकवृत्तेः। मतिश्च शीलञ्च मतिशीले, तव मतिशीले, इति त्वन्मतिशीले त्वन्मतिशीलयोः सारौ, त्वन्मतिशीलसारौ, प्रकाशितौ त्वन्मतिशीलसारौ यैस्ते प्रकाशितत्वन्मतिशीलसाराः। कृतः उपकारो यैस्ते कृतोपकाराः ॥ १६ ॥

व्याकरणम्—विधाय = वि + धा + क्त्वा + ल्यप् ॥ १६ ॥

वाच्यान्तरम्—शमैकवृत्तेर्भवतश्छलेन, अनात्मनीनं विध्वंसं विधाय, प्रकाशितत्वन्मतिशीलसारैस्ते विद्धिड्भिः कृतोपकारैरिव भूयते ॥ १६ ॥

कोषः—'शमथस्तु शमः शान्तिः' इत्यमरः। 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः। 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः। 'वृत्तौ तु चरिते शीलम्' इत्यमरः ॥ १६ ॥

सारार्थः—दुर्योधनस्तु शान्तिशीलस्य भवतो या हानिः कृता सा स्वस्यैवानर्थरूपा तस्य। प्रत्युत पदे पदे तेनापकृता अपि भवन्तस्तस्यापकारमकृत्वा विपक्षावपि नीतिनियम एव पालित इत्यतुलं यशस्तत्कारणमेव प्रसृतं जगति। अतस्ते शत्रवो भवतः कृतोपकारा इव लक्ष्यन्ते मयेति युधिष्ठिरं प्रति व्यासोक्तिः ॥ १६ ॥

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११

Page 203Permalink

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ११

**भाषार्थः—**शान्ति रखना ही एक चाल है जिसकी, ऐसे आपकी हानि के छल से अपनी हानि करके आपकी बुद्धि (समझ) और शील (सच्चरित्रता) ईमानदारी के प्रभाव को प्रकाशित करनेवाले आपके दुश्मन लोग आपके उपकारी के ही समान हैं ॥ १६ ॥

अथ प्रयोजनान्तरमाह—

लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः ।
अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥१७॥

...न्थेति ॥ तव । त्वयेत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी । धरित्री । विक्रमेण लभ्या प्राप्तव्या । न च सुलभा तं विनेत्याह—विपक्षश्च शत्रुरपि । वीर्यं शौर्यमस्त्राण्याग्नेयादीनि बलानि सैन्यानि तैर्ज्यायान्प्रशस्यतरः । अधिकतर इति यावत् । ज्येष्ठस्य 'यादादीयसः' इति ज्यादेशः । अतः प्रकर्षायाधिक्याय । उपायो विधेयः कर्तव्यः । कुतः । हि यस्माद्रणे जयश्रीः प्रकर्षतन्त्रा प्रकर्षप्रधाना । प्रकर्षोद्यतेत्यर्थः । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । बलिन एव जयः, न तु दुर्बलस्येति भावः ॥ १७ ॥

**अन्वयः—**तव धरित्री, विक्रमेण, लभ्या, च, विपक्षः, वीर्यास्त्रबलैः, ज्यायान् अतः, प्रकर्षाय, विधिः, विधेयः, हि, रणे, जयश्रीः, प्रकर्षतन्त्रा ॥ १७ ॥

**व्याख्या—**तव = भवतः, युधिष्ठिरस्येत्यर्थः । धरित्री = पृथ्‍वी, विक्रमेण = पराक्रमेण, लभ्या, = प्राप्या भविष्यतीति शेषः । न तु शान्त्या लभ्येति भीममतानुमोदनम् । विपक्षश्च = शत्रुश्च, वीर्यास्त्रबलैः = शौर्यशस्त्रसैन्यैः, ज्यायान् = महीयान्, अस्तीति शेषः । अतः = अस्मात्, कारणात् प्रकर्षाय = उत्कर्षाय, शत्रुतोऽधिकवीर्यशस्त्रसैन्यसम्पादनायेत्यर्थः । विधिः = विधानं, विधेयः = कर्तव्यः, हि = यस्मात्, कारणात्, रणे = सङ्ग्रामे, जयश्रीः = जयलक्ष्मीः, प्रकर्षतन्त्रा = उत्कर्षजनाधीना, न त्वपकर्षजनायेति भावः । अनेनाधुना युद्धकरणमुचितमिति युधिष्ठिर-मतानुमोदनं कृतं भगवता व्यासेन यतो मिथः सहजग्रोरुरोधः शान्तो भवेदिति ॥ १७ ॥

**समासः—**वीर्यं चास्त्राणि च बलानि च वीर्यास्त्रबलानि, तैर्वीर्यास्त्रबलैः । प्रकर्षेस्वतन्त्रं मुख्यो यस्याः सा प्रकर्षतन्त्रा । जयस्य श्रीः जयश्रीः ॥ १७ ॥

**व्याकरणम्—**लभ्या = लभ् + यत् । विधेयः = वि + धा + यत् ॥ १७ ॥

**वाच्यान्तरम्—**त्वं स्वकीयां धरित्रीं विक्रमेण लप्स्यसे । तव विपक्षेण वीर्यास्त्रबलैर्ज्यायसा भूयते । अतः प्रकर्षाय विधिः विधेहि, रणे जयश्रिया प्रकर्षतन्त्रया भूयते ॥ १७ ॥

Page 204Permalink

२० किरातार्जुनीयम् [ तृतीयः

कोषः— 'धरा धरित्री धरणिः क्षोणिर्ज्यां काश्यपी क्षितिः' इत्यमरः । 'शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता' इत्यमरः । 'बलमियी बलं सैन्यं चक्रं चा-नीकमस्त्रियाम्' इत्यमरः । 'उत्साहोऽध्यवसायः स्यात्सवीर्यमतिशक्तिभाक्' इत्य-मरः । 'द्विड्विपक्ष-हिता-मित्र-दस्यु-शात्रव-शत्रव' इत्यमरः । 'विधिर्विधाने दैवे च' इत्यमरः । 'तन्त्रं प्रधाने सिद्धान्ते' इत्यमरः । 'अस्त्रियां समरानीकरणाः कलह-विग्रहौ' इत्यमरः ॥ १७ ॥

सारांशः— विना पराक्रमेण भवतो राज्यलाभो न भविष्यति । परन्तु भवद-पेक्षयाऽधुना शौर्यशस्त्रसैन्यैर्भवच्छत्रव एक विशेषा अतस्ते भवतोऽधिकविक्रमवन्तः सन्ति, अथ सङ्ग्रामे जयलाभो विशेषतया विक्रमाधिकस्यैवातोऽधुना युद्धे कृते तेषामेव जयसम्भवः, न तु विक्रमवतो भवतस्तेन विशेषविक्रमसम्पादनायोपायः प्रकर्तव्यः, यदाप्यपि तमुपायमप्रे—इति ॥ १७ ॥

भाषार्थः— आपकी गई भूमि ( जगह ) पराक्रम से मिलेगी, अभी आपका वैरी आपसे बल, शस्त्र और सेनाओं से बलवान् है। इसलिये आपको बलवान् होने के लिए उपाय करना चाहिये। क्योंकि युद्ध में जयलक्ष्मी बलवान् ही के अधीन होती है ॥ १७ ॥

अथ 'त्रि'—इत्यादिना श्लोकषष्टुष्टयेन विपक्षज्यायस्त्वं वर्णयति—

त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य सजामदग्नयः ।
वीर्यावधूतः स्म तदा विवेद प्रकर्षमाधारवशं गुणानाम् ॥ १८ ॥

त्रिसप्तेति ॥ त्रिरावृत्तान्सप्तसावारान्त्रिःसप्तकृत्वः । एकविंशतिकृत्व इत्यर्थः । त्रिः-सप्तशब्दयोः सुप्तुपेति समासः । 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति । कृत्वसुच्प्रत्ययः । जगतीपतीनां महीपतीनां हन्ता नाशको गुरुबखवेदोपदेष्टा सः । प्रसिद्ध इत्यर्थः । अत एव यच्छब्दानपेक्षकत्वम् । तदुक्तं काव्यप्रकाशे—'प्रक्रान्त-प्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते' इति । जमदग्नेरपत्यं पुमाञ्जामदग्न्यः । 'गर्गादिभ्यो यञ्' इति यञ्प्रत्ययः । यस्य भीष्मस्य वीर्यावधूतो विक्रमाभिभूतः । अम्बिकास्वयंवर इत्यर्थः । तदा भङ्गप्राप्तिसमये गुणानां शौर्या-दीनां प्रकर्षमतिशयमाधारवशमाश्रयाधीनं विवेद अशे स्म । स्वविद्यायाः स्वशिष्ये भीष्मे स्वस्मादपि प्रकर्षाभानदर्शनादिति भावः । 'स्म पादपूरणे भूतेऽर्थे च' इति विश्वः ॥ १८ ॥

अन्वयः— (यः) त्रिःसप्तकृत्वः, जगतीपतीनां, हन्ता, गुरुः, सः, जामदग्न्यः, यस्य वीर्यावधूतः, (सन्) तदा गुणानां प्रकर्षम्, आधारवशं, विवेद ॥ १८ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २१

Page 205Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २१

व्याख्या—( यः ) त्रिःसप्तकृत्वः = त्रिगुणसप्तवारम् , एकविंशतिवारमित्यर्थः । जगतीपतीनाम् = महीपतीनां, क्षत्रियाणामित्यर्थः । हन्ता = नाशकः, गुरुः = धनुरस्यवेदोपदेशकः । भीष्मस्यापीति शेषः । सः = तथाविधः, जामदग्न्यः = जमदग्निमुनिपुत्रः, परशुराम इत्यर्थः । यस्य = भीष्मस्य, वीर्यावधूतः = पराक्रमतिरस्कृतः, भीष्मेण पराजितः सन्नित्यर्थः । तदा = स्वपराजयावसरे, गुणानां = शौर्यौदार्यगाम्भीर्यादीनाम् , प्रकर्षम् = उत्कर्षम् , आधारवशम् = आश्रयाऽनुगुणं, विवेद = ज्ञातवान् । अन्यत्किमु कथ्यते परशुरामोऽपि येन पराजितस्तादृशो भीष्मः 'कस्य मनो भयैकप्रवणं न कुर्यादि'ति पुरः श्लोकेन सम्बन्धः । न हि गुणोत्कर्षो गुरावेव तिष्ठति, शिष्योऽपि चेद् गुरोरधिकसत्पात्ररूपस्तदा गुर्वपेक्षया शिष्य एवाधिकगुणवानिति भावः ॥ १८ ॥

समासः—त्रिः, त्रिगुणाः सप्त, इति त्रिःसप्तकृत्वः । जगत्याः पतयो जगन्तीं, पतयस्तेषां जगतीपतीनाम् । जमदग्नेरपत्यं पुमान् जामदग्न्यः । वीर्येणावधूतो, वीर्यावधूतः । आधारस्य वश आधारवशंस्तमाधारवशम् ॥ १८ ॥

व्याकरणम्—त्रिःसप्तकृत्वः = त्रि + सुच् + सप्त + कृत्वसुच् । विवेद = विद् + लिट् ॥ १८ ॥

वाच्यान्तरम्—त्रिःसप्तकृत्वो जगतीपतीनां हन्त्रा गुरुणा तेन जामदग्न्येन यस्य वीर्यावधूतेन गुणानां प्रकर्ष आधारवशो विविदे ॥ १८ ॥

कोषः—'जगती जगतिच्छन्दो विशेषेऽपि क्षितावपि' इत्यमरः । 'स्म पादपूरणे भूतेऽर्थे' इति विश्वः । 'गुरुः प्रधाने महति चोपदेष्टर्यपि स्मृत' इति कोषः । 'मत आधार आश्रय' इति कोषः ॥ १८ ॥

सारार्थः—यः परशुराम एकविंशतिवारं निःक्षत्रियां महींमकरोत्, तच्छिष्योऽपि भवन् भीष्मः, अम्बाप्रेरितं तं परशुरामं जित्वा स्वपक्षः ( नाहं करिष्यामि करग्रहं कयाऽप्येवम्भूपः ) रक्षितः । स गुरोरपि विजेता भीष्मः केन भवरूपणीयेण निवारयितुं योग्यः ? नहि केनापीति ॥ १८ ॥

कथासन्दर्भः—एकदा भीष्मस्य ( देवव्रतस्य ) पिताऽन्तनुर्मृगयार्थं वनं गतस्तत्रैकां दाशकन्यकामालोक्य क्षीधिरहितेन कामाधिकतया तस्यामासक्तो भूत्वा तत्पितरं धीवरं कन्यादानाय प्रार्थयामास । स च धीवरः—मम प्राणमपि गृह्णातु राजा, नाहं वृद्धाय, विवाहाईवयस्कपुत्राय भवते दास्यामि स्वकन्यां, दास्यामि चेत्तदा भवत्पुत्राय देवव्रताय' इत्युत्तरं ददौ, ततस्तदुचितकथया लज्जितः कामबाणभिन्नमर्मावद्यधः स्वभवनमागत्य कोपभवने निद्रान्व्याजेन भूमौ निःश्वसन् प्राणान् हातुं पतितः । प्रभाते, अतीते च कियति समये, उषसि उत्थानशीलमपि राजानमनुत्थितमालोक्य परिचारका मन्त्रिणश्च तत्सकाशं गत्वाऽवलोकितवांस्त-

Page 206Permalink
२२किरातार्जुनीयम्[ तृतीयः

दीयां दशां, ज्ञातवांश्च तस्याशयं, तथा देवव्रतस्तत्पुत्रस्तस्याभिलाषपूर्यै तस्य दाश- स्यान्तिके गत्वाऽतिसत्वरम् मत्पित्रे देहि दुहितरं विवाहविधिनेत्यादिशत्। श्रुत्वा तद्वचनं, नाहं तस्मै दास्यामि, किं भवत्युपस्थितेऽस्मद्दौहित्रो राज्यभागी स्यादथवा भवत्पुत्रपरम्परायाः सम्भवेऽपि। यदि ग्रहीष्यति, तदा त्वदर्थं चेत्तथा ददामि सादरमिति निशम्य तदानीमेव देवव्रतेन प्रतिज्ञा कृता 'नाहं करिष्यामि विवाहं कयाऽपि साकं, नाहं राज्याङ्गीकरिष्यामिति' हेतोस्तस्य नाम भीष्मो भीष्म- प्रतिज्ञाकरणाज्जातम्। अथ तां दाशकन्यां योजनगन्धां स्वासमातरं कालीं समानीय स्वजनकायार्पिता भीष्मेण। तस्यां चित्रवीर्यविचित्रवीर्यौ द्वौ भ्रातरौ भीष्मस्य जातौ कदाचित्सञ्जाते काश्या महाराजस्य कन्यानां वीर्यशुल्के स्वयंवरे सम्मि- लिता निमन्त्रिता भूपतयः। भीष्मोऽपि स्वानुजाभ्यां सह तत्र गतः। परन्तु भीष्ममागतमेव विज्ञाय सर्वे राजानः स्वकीयामाशा विफला भविष्यन्तीमनुमान्य यथादिशं गताः अन्ते च भीष्मः अम्बा-अम्बिका-अम्बालिका-चेति कन्यात्रयमादाय स्वधामागमत्। तदानीमम्बाऽवदद् 'अहं पूर्वत एव शाल्वभूपानुरक्ता आसम्' इति निशम्य 'गच्छ यथेष्टं स्वच्छन्दचारिणि'-एवं कथयित्वा स्वानुजयोरम्बिकाम्बालि- काभ्यां विवाहं चकार परन्तु शाल्वेन 'नाहं त्वां परपरिगृहीतां ग्रहीष्यामि' इत्थमपमानिता पुनः साऽम्बिका लज्जावनतवदना भीष्मशरणमेवोपस्थिता 'त्वमेव मां गृहाण कुरुष्व मां किङ्करीमपि' इति प्रार्थितवती। परन्तु भीष्मः स्वप्रतिज्ञा- भङ्गभिया तां दूरतस्त्यक्त्वा स्थितः। अथ सा किंकर्त्तव्यविमूढा भूत्वाऽन्ते 'यदस्य गुरुः परशुराम एव कथयिष्यति तदा तदाज्ञां नोल्लङ्घयिष्यति' इति विचार्य रामा- न्तिकं गत्वा तस्मै सर्वं स्वखेदहेतुमकथयत्। ततो जातदयेन तेन भीष्मसन्निधि- मागत्यादिशत् 'कुरु विवाहमनया ऽम्बया'। ततो 'नहि करिष्यामि कदापि कयाऽपि सह करग्रहम्' इति साग्रहं वचः श्रुत्वा प्रकृत्या कोपने रामस्तेन सह योद्धुमारब्धः। युद्धे च भीष्मेण पराजितः स्वस्थानं गतः। सा च द्रुपदयज्ञकुण्डे पतित्वा ततो नपुंसकवेषेण शिखण्डीति नाम्ना परिचितस्तस्मान्निःसृतो भीष्ममृत्युनिदानीभूता- ऽभवदिति ॥ १८ ॥

भाषाऽर्थः--एक्कीस बार राजाओं का संहार करनेवाले, धनुर्वेद के आचार्य परशुराम ने भी उस भीष्म से हार कर माना कि गुणों की विशेषता पात्र के अनुसार होती है ॥ १८ ॥

यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि।
क्षुभ्यन्धनुः कस्य रणे न कुर्यान्मनो भयैकप्रवणं स भीष्मः ॥१९॥

यस्मिन्निति ॥ यस्मिन्भीष्मे विषये। अनीश्वरस्य भावोऽनैश्वर्यमसामर्थ्यम्। 'नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' इति विकल्पान्नञः पूर्वपदवृद्ध्यभावः। तेन

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् २३

Page 207Permalink

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् २३

कृतव्यलीको जनितवैलक्ष्यः । 'कुत्से वैलक्ष्ये व्यलीकम्' इति यादवः । अन्तकोऽपि यमोऽपि पराभवं प्राप्त इव । भीष्मस्येच्छामरणत्वादान्तकोऽपि पराजित इवास्ते किमुतान्य इति भावः । स भीष्मो रणे धनुर्धन्वन्कम्पयन्कस्य मनो भयैकप्रवणं भय एकप्रवणमेकोन्मुखम् । शिवभागवतवत्समासः । न कुर्यात् । सर्वस्यापि मनसि भयं कुर्यादेवेत्यर्थः ॥ १९ ॥

अन्वयः—यस्मिन्, अनैश्वर्यकृतव्यलीकः, अन्तकः, अपि, पराभवं, प्राप्तः, इव, रणे, धनुः, धुन्वन्, सः, भीष्मः, कस्य, मनः, भयैकप्रवणं, न, कुर्यात् ? ॥ १९ ॥

व्याख्या—यस्मिन् = भीष्मे, अनैश्वर्यकृतव्यलीकः = असामर्थ्यजनितदुःखः, अन्तकः = यमः, अपि, पराभवम् = पराजयं, प्राप्तः = गतः, इव जातः । तादृश इति शेषः । रणे = सङ्ग्रामे, धनुः = शरासनं, धुन्वन् = चालयन्, सन्, कस्य = जनस्य, मनः = चित्तम्, भयैकप्रवणं = भीष्माभिमुखं, न कुर्यात् = न विदधीत, अपि तु सर्वेषामपि कुर्यादेव, वा कस्य = ब्राह्मणोऽपि, मनो भयैकप्रवणं कुर्या- देवेति ॥ १९ ॥

समासः—ईश्वरस्य भाव ऐश्वर्यं न ऐश्वर्यम् अनैश्वर्यम्, अनैश्वर्येण कृतं व्यलीकं यस्यः सः अनैश्वर्यकृतव्यलीकः । एकस्मिन्नेव प्रवणमेकप्रवणम्, भय एकप्रवणं भयैकप्रवणम् ॥ १९ ॥

व्याकरणम्—कुर्यात् = कृ + लिङ् । प्राप्तः, प्र + आप् + क्तः ॥ १९ ॥

वाच्यान्तरम्—यस्मिन्ननैश्वर्यकृतव्यलीकेनापि पराभवं प्राप्तेनेव, रणे धनुर्धुन्वता तेन भीष्मेण कस्य मनो भयैकप्रवणं न क्रियेत ॥ १९ ॥

कोषः—'व्यलीकमप्रियकार्यवैलक्ष्येष्वापे पीडने'–इत्यमरः । 'कालो दण्डधर- श्राद्धदेवो वैवस्वतोऽन्तक' इत्यमरः । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । प्रवणं क्रमनिम्नोर्व्याम्' इत्यमरः ॥ १९ ॥

सारार्थः—महाभारते, शिखण्डिनं पुरस्कृत्य यदाऽसंख्यैः शरैरर्जुनेन भीष्मो रोमरोमसु वेधितस्तदा, तस्य मरणमुपस्थितमपि, स्वतपोब्रह्मचर्यप्रभावेण 'नाहम- धुना याम्यायने मृत्वा नरकमार्गेण गमिष्यामि परलोकम्, अतोऽहं सौम्यायने समागते त्यक्ष्यामि निजप्राणैः सहैतच्छरीरम्" इति निश्चित्य, इच्छामरणत्वेन यममप्यवमान्य, भीष्माष्टम्यां स्वदेहं जहौ, एवमिच्छाऽधीन मरणत्वेन यमस्या- ज्ञाऽपि भीष्मसमीपे न धावति, ईदृशः स धनुः करे कुर्वन् केन निवार्यते, प्रत्युत अगति विद्यत एव तादृशो जनो नहि, यस्तं निवारयतीति ॥ १९ ॥

भाषार्थः—जिस भीष्माचार्य के आगे अपनी शक्ति के अभाव से पैदा हुआ है दुःख जिसे, ऐसे यमराज भी हारे हुए की तरह मालूम पड़ते हैं। धनुष को

Page 208Permalink
२४किरातार्जुनीयम्[ तृतीयः

हाथ में चलाते हुए लड़ाई में ऐसे भीष्म से किसका मन भय के तरफ नहीं खिंच सकता, बल्कि सबों का मन भयभीत हो जायगा ॥ १९ ॥

सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः ।
परिस्फुरल्लोलशिखाऽप्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम् ॥२०॥

सृजन्तमिति ॥ आजौ रण इषुसंहतिर्बाणसंघान्सृजन्तं वर्षन्तं कोपज्वलितमत एवं परिस्फुरन्त्यो लोलाश्च शिखाग्राण्येव जिह्वा यस्य तं तथोक्तं जगल्लोकं जिघत्सन्तमत्तुमिच्छन्तम् । अदेः सन्नन्ताच्छतृप्रत्ययः । 'लुङ्सनोर्घस्लृ' इति घस्लादेशः । अन्तवह्निं कालाग्निमिव स्थितं गुरुं द्रोणं वो युष्माकं मध्ये कः सहेत सोढुं शक्नुयात् । न कोऽपीत्यर्थः । 'शकि लिङ् च' इति शक्यार्थे लिङ् ॥ २० ॥

अन्वयः— आजौ, इषुसंहतीः, सृजन्तं, कोपज्वलितं, परिस्फुरल्लोलशिखाऽप्रजिह्वं जगत्, जिघत्सन्तम्, अन्तवह्निम्, इव गुरुम्, वः, कः, सहेत ॥ २० ॥

व्याख्या— आजौ = संग्रामे, इषुसंहतीः, = शरवर्षाः, सृजन्तं = कुर्व्वन्तं, कोपज्वलितं = क्रोधोद्दीपितम्, अत एव, परिस्फुरल्लोलशिखाऽप्रजिह्वम् = परिचलच्चपलज्वालाऽप्ररसनं, जगत् = भुवनं, जिघत्सन्तम् = अत्तुमिच्छन्तम्, अन्तवह्निम् = प्रलयाग्निम्, इव गुरुम् = शस्त्रशास्त्राचार्यं, द्रोणमिति शेषः । वः = युष्माकम्, पाण्डवानां मध्ये इत्याशयः, कः = जनः, सहेत = क्षमते, न कोऽपि ॥ २० ॥

समासः— इषूणां संहतय इषुसंहतयस्ता इषुसंहतीः । कोपेन ज्वलितः कोपज्वलितस्तं कोपज्वलितम् । परिस्फुरन्त्यः लोलाश्च शिखाः परिस्फुरल्लोलशिखाः तासामग्राण्येव जिह्वा यस्य सः परिस्फुरल्लोलशिखाऽग्रजिह्वस्तं परिस्फुरल्लोलशिखाऽप्रजिह्वम् । अन्तस्य प्रलयस्य वह्निरन्तवह्निस्तमन्तवह्निम् ॥ २० ॥

व्याकरणम्— सहेत = सह + लिङ् ॥ २० ॥

वाच्यान्तरम्— आजाविषुसंहतीः सृजन् कोपज्वलितः, परिस्फुरल्लोलशिखाऽग्रजिह्वो जगद् जिघत्सन्नन्तवह्निरिव गुरुर्वः केन सह्येत ॥ २० ॥

कोषः— 'समुदायः स्त्रियः संहत्समित्याजिसमिधुष' इत्यमरः । 'कलम्बमार्गणशराः पत्री रोप इषुद्वयोः' इत्यमरः । 'स्त्रियां तु संहतिर्वृन्द निकुरुम्बं कदम्बकम्' इत्यमरः । 'कोपक्रोधामर्षरोषप्रतिघातरुडुक्रुधौ स्त्रियौ' इत्यमरः । 'रसज्ञा रसना जिह्वा' इत्यमरः । 'अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जय' इत्यमरः ॥ २० ॥

सारार्थः— सङ्ग्रामे शरवृष्टिं कुर्वन्तः, संसारं नाशयितुं प्रवृत्तस्य प्रलयाग्नेरिव द्रोणाचार्यस्य गुरोः पुरतो भवत्पक्षीयः कोऽपि न स्थास्यति ॥ २० ॥

भावार्थः— युद्धमें शरवर्षा करते हुए, क्रोध (गुस्सा) से प्रज्वलित, लहलहाती हुई ज्वाला की छोर ही है जिह्वा जिसकी, ऐसे प्रलय काल की आग के

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २५

Page 209Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २५

समान द्रोणाचार्य को आपके दल वालों में कौन रोकेगा ? अर्थात् कोई भी नहीं ॥ २० ॥

निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम्।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ॥ २१ ॥

निरीक्ष्येति ॥ संरम्भेण कोपेन निरस्तं त्याजितं धैर्यं निर्विकारचित्तत्वं येन तं तथोक्तम् आटोपेनैव परधैर्यापहारिणमित्यर्थः। आराधितजामदग्न्यं शुश्रूषित-भार्गवम्। जामदग्न्यादधिगतास्त्ररहस्यमित्यर्थः। राधेयं राधासुतं कर्णम् 'स्त्रीभ्यो ढक्'। निरीक्ष्य मृत्योरप्यसंस्तुतेष्वपरिचितेषु। 'संस्तवः स्यात्परिचयः' इत्यमरः भयेषु प्रसभं पक्षपातः परिचयो जायेत। मृत्युरप्यस्माद्बिभीयात्किमुतान्य इति भावः। सम्भावनायां लिङ्। अत्र जनिक्रियाऽपेक्षया समानकर्तृकत्वाभावेऽपि पक्ष-पातक्रियाऽपेक्षया तत्सम्भवान्निरीक्ष्येति ल्यबन्निर्देश समर्थनीयः। 'प्रधानोपसर्जन-भावस्त्वप्रयोजकः' इति व्यक्तिविवेककारः। अत्र भयसम्बन्धरहितस्य मृत्योर्भय-सम्बन्धाभिधानादसम्बन्धे सम्बन्धरूपातिशयोक्तिरलङ्कारः ॥ २१ ॥

अन्वयः—संरम्भनिरस्तधैर्यम्, आराधितजामदग्न्यं, राधेयं निरीक्ष्य, असंस्तुतेषु भयेषु प्रसभं, मृत्योः, अपि, पक्षपातः, जायेत ॥ २१ ॥

व्याख्या—संरम्भनिरस्तधैर्यं = कोपव्यक्तसन्तोषम्, आराधितजामदग्न्यं = सेवितपरशुरामं, राधेयं = राधापुत्रं कर्णमित्यर्थः। निरीक्ष्य = विलोक्य, सङ्ग्रामे इति शेषः। असंस्तुते = अपरिचितेषु, अकस्माज्जनितेष्वित्यर्थः। भयेषु. भीतिषु, प्रसभं = बलात्, सहसेत्यर्थः। मृत्योः यमराजस्य, अपि, पक्षपातः, परिचयः, जायेत = उत्पद्येत। यमस्यापि भयमुत्पद्यते तथाविधं कर्णं विलोक्य तर्हि का कथाऽन्येषामिति भावः ॥ २१ ॥

समासः—संरम्भेण निरस्तं धैर्यं यस्यः सः, तं संरम्भनिरस्तधैर्यम्, आरा-धितः जामदग्न्यो येन सः, आराधितजामदग्न्यस्तमाराधितजामदग्न्यम्। राधाया अपत्यं पुमान् राधेयस्तं राधेयम्। न संस्तुता असंस्तुतास्तेष्वसंस्तुतेषु, पक्षे पातः पक्षपातः ॥ २१ ॥

व्याकरणम्—निरीक्ष्य = निर् + ईक्ष् + क्त्वा + ल्यप्। जायेत-जन् + लिङ्॥
वाच्या०—राधेयं निरीक्ष्यसंस्तुतेषु भयेषु प्रसभं मृत्योरपि पक्षपातेन जायेत॥
कोषः—'क्रोधः कोपस्तु संरम्भ' इति कोपः। 'संस्तवः स्यात् परिचय' इत्य-मरः। 'प्रसभं तु बलात्कारो हठ' इत्यमरः ॥ २१ ॥

सारार्थः—युद्धे यः कर्णः प्रतिपक्षिणां धैर्यनाशं करोत्येव, येन परशुरामसेवया युद्धशिक्षा शिक्षिता, यं विलोक्य, जगद्भयङ्करस्यापि यमस्य भयमुत्पद्यते, तवग्रे न कोऽपि भवत्पक्षीयाः स्थातुं योग्यः ॥ २१ ॥

Page 210Permalink

२६ किरातार्जुनीयम् [ तृतीयः

भाषार्थः—क्रोध से धैर्यको दूर करने वाले परशुराम की सेवाकर धनुर्वेद पढ़ने वाले कर्ण को देखकर निडर (निर्भय) यम को भी भय हो जाता है ॥ २१ ॥

अथानन्तरं करणीयमागमनप्रयोजनं च युग्मेनाह—

यया समासादितसाधनेन सुदुश्चरामाचरता तपस्याम् । एते दुरापं समवाप्य वीर्यमुन्मूलितारः कपिकेतनेन ॥ २२ ॥

ययेति ॥ यया विद्यया करणेन सुदुश्चरामतिदुष्करां तपस्यां तपश्चर्याम् । 'कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोः' इति क्यङ् । 'अप्रत्ययात्' इति स्त्रियामप्रत्ययः । आचरता । पशुपतिं प्रति तपः कुर्वतेत्यर्थः । अत एव समासादितं प्राप्तं साधनं पाशुपतास्त्ररूपं येन तेन । कपिर्हनुमान्केतनं चिह्नं यस्य तेन । अर्जुनेनेत्यर्थः । दुरापमन्यस्य दुर्लभं वीर्यं तेजः समवाप्य । एते पूर्वोक्ता भीष्मादय उन्मूलितार उन्मूलयिष्यन्ते । उन्मूलयतेर्ण्यन्तात्कर्मणि लुट् । अत्र चिण्वद्भावागमेऽपि तस्य 'असिद्धवद्वाभात्' इत्यसिद्धत्वाद् 'णेरनिटि' इति णिलोपः । तन्निमित्तस्यैव 'अनिटि' इति निषेधात् । उक्तं च—'चिण्वद् वृद्धियुँक्च हन्तेश्च घत्वं, दीर्घश्चोतो यो मितां वा चिणीति । इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वक्षिनिमित्तो विघाती ॥' इति ॥ २२ ॥

अन्वयः—यया सुदुश्चरां, तपस्याम्, आचरता, समासादितसाधनेन, कपिकेतनेन, दुरापं, वीर्यं, समवाप्य, एते, उन्मूलितारः ॥ २२ ॥

व्याख्यायया = मन्त्रविद्यया, (करणेन) । सुदुश्चराम् = अतिदुःसाध्यां, तपस्यां = तपश्चर्यां, तपोऽनुष्ठानमित्यर्थः । आचरता = कुर्वता, अर्थात् इन्द्रप्रभृतिदेवानुद्दिश्य तपो विदधतेत्यर्थः । तदनन्तरं, समासादितशाधनेन = संलब्धयुद्धोपकरणेन, प्राप्तपाशुपतास्त्रादिविविधायुधेनेत्यर्थः । कपिकेतनेन = अर्जुनेन, दुरापं = दुर्लभं, कष्टसाध्यमित्यर्थः । वीर्यम् = पौरुषं, समवाप्य = लब्ध्वा, अलौकिकं शौर्यमासाद्येति भावः । एते = दुर्दान्ताः, भीष्मद्रोणकर्णादयो दुर्जयाः शत्रुपक्षीयाः, उन्मूलितारः = उन्मूलयिष्यन्ते, तां विद्यां दातुमागतोऽस्मीति, पुरःपद्येन सम्बन्धः मदुपदिष्टतपोऽनुष्ठानं विना न जेतुं शक्या एते, अतोऽर्जुनोऽवश्यं प्रेषणीयस्तपःसम्पादनेयेति भावः ॥ २२ ॥

समासः—समासादितं साधनं येन सः, समासादितसाधनस्तेन समासादितसाधनेन । कपिर्हनुमान् केतनं चिह्नं पताकायां यस्य सः, कपिकेतनस्तेन । कपिकेतनेन ॥ २२ ॥

व्याकरणम्—उन्मूलितारः = उद् + मूल् + लुट् । समवाप्य = सम् + अव + आप् + ल्यप् ॥ २२ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २७

Page 211Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २७

वाच्यान्तरम्—यया समासादितसाधनः सुदुश्चरां तपस्यामाचरन् कपिकेतनो दुरापं वीर्यं समवाप्यैतानुन्मूलयिता ॥ २२ ॥

कोषः—'निर्वर्त्तनोपकरणानुब्रज्यासु च साधनम्' इत्यमरः । 'तपः कृच्छ्रादि-कर्मसु-' इत्यमरः । 'कपिः-प्लवङ्ग-प्लवग-शाखामृग-वलीमुखा' इत्यमरः । 'पताका वजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः ॥ २२ ॥

सारार्थः—यां मदुपदिष्टाम् मन्त्रविद्यां प्राप्य, तदनुसारेण तपस्यां विधाय, ततोऽलौकिकं पाशुपतप्रभृति दिव्यास्त्रं समासाद्य भीष्मद्रोणकर्णप्रभृतीन् वीरानर्जुनो विनाशयिष्यति ॥ २२ ॥

भाषार्थः—जिस मेरी विद्या के बल से परम कठिन तपस्या कर उससे युद्धोपकरण लाभ करके औरों से दुर्लभ पराक्रमवाले अर्जुन उन (भीष्म आदि) का नाश करेंगे ॥ २२ ॥

महत्त्वयोगाय महामहिम्नामाराधनीं तां नृप ! देवतानाम् ।
दातुं प्रदानोचित ! भूरिधाम्नोमुपागतः सिद्धिमिवास्मि विद्याम् ॥२३॥

महत्त्वेति ॥ हे नृप, महत्त्वयोगाय प्रकर्षलाभाय महामहिम्नां महानुभावानां देवतानामिन्द्रादीनाम् । आराध्यतेऽनयेत्याराधनी ताम् । प्रसादयित्रीमित्यर्थः । करणे ल्युट् । ङीप् । भूरिधाम्नीं महाप्रभावाम् । 'धाम देहे गृहे रश्मौ स्थाने जन्म-प्रभावयोः' इति विश्वः । 'अन उपधालोपिनोऽन्यतरस्याम्' इति वा ङीप् । विद्यामिन्द्रमन्त्ररूपां सिद्धिं साक्षात्कार्यसिद्धिमिवेति विद्याया अमोघत्वोक्तिः । हे प्रदानोचित ! दानपात्रभूत ! फलभोक्तृत्वादस्य पात्रत्वोक्तिः, दातुमुपागतोऽस्मि ॥ २३ ॥

अन्वयः—हे प्रदानोचित ! नृप ! महत्त्वयोगाय, महामहिम्नां, देवतानाम् , आराधनीं, भूरिधाम्नीं, तां विद्यां, सिद्धिम्, इव दातुम्, उपागतः अस्मि ॥२३॥

व्याख्या—हे प्रदानोचित ! = हे वितरणयोग्य ! नृप ! = राजन् !, महत्त्व-योगाय = उत्कर्षलाभाय, महामहिम्नां = परमप्रभावाणां, देवतानां = देवानाम् , आराधनी = सेवनीयाम्, भूरिधाम्नीम् = अतितेजोवर्ती, तां = विद्यां, सिद्धिम् = इष्टपूर्तिम् , इव, दातुं = वितरितुम् , आगतः = इह समागतः, अस्मि = भवामि, अहमिति शेषः । सिद्धिपक्षे, भूरिधाम्नाम् = अतिप्रभावसाधनीम् , अनेन 'निरास्पदं प्रश्नकौतूहलित्वमि'-ति पद्यस्योत्तरं दत्तं व्यासेनेति ॥ २३ ॥

समासः—महत्त्वस्य योगो महत्त्वयोगस्तस्मै महत्त्वयोगाय । महान् महिमा यासान्ता महामहिमानस्तासां, महामहिम्नाम् । प्रकर्षेण दानस्योचितः प्रदानोचितस्तत्सम्बुद्धौ हे प्रदानोचित ! भूरि धाम यस्याः सा भूरिधाम्नी, तां भूरिधाम्नीम् ॥ २३ ॥

Page 212Permalink

२८ किरातार्जुनीयम् [ तृतीयः

व्याकरणम्—दातुं = दा + तुमुन् । उपागतः = उ + आ = गम् + क्तः । अस्मि = अस् लट् ॥ २२ ॥

वा०—हे प्रदानोचित ! तां विद्यां दातुमुपागतेन मया भूयते ॥ २३ ॥

कोषः—'वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्' इत्यमरः । 'धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः' इत्यमरः । 'पुरुहुः पुरु भूयिष्ठं स्फारं भूयिष्ठ भूरि च' इत्यमरः ॥ २३ ॥

सारार्थः—हे दानपात्र, भवतः शत्रुरधुनोत्कृष्टोऽस्ति, जयस्तूत्कर्षाधीनस्तेन तादृशादपि शत्रोर्यथा भवानुत्कृष्टः स्यात्तथा यस्या विद्यायाः प्रभावेण भवान् भविष्यति, तां सकलदेवपूज्यां परमपराक्रमसम्पादनीं विद्यां भवते दातुमहमित्यागतोऽस्मीति ॥ २३ ॥

भावार्थः—हे देने के (सिखाने के) योग्य ! हे राजन् ! बड़े होने के लिए परम महिमा वाले देवताओं से माननीय, अत्यन्त तेज और बल बढ़ाने वाली सिद्धि (मनोरथपूर्ति) के समान विद्या को देने के लिये मैं आया हूँ ॥ २३ ॥

इत्युक्तवन्तं व्रज साधयेति प्रमाणयन्वाक्यमजातशत्रोः ।
प्रसेदिवांसं तमुपाससाद वसन्निवान्ते विनयेन जिष्णुः ॥२४॥

इतीति ॥ इत्युक्तवन्तं प्रसेदिवांसं प्रसन्नम् । 'भाषायां सदवसश्रुवः' इति क्वसुः । तं मुनिं जिष्णुर्जयशीलोऽर्जुनः । 'ग्लाजिस्थश्च-' इति क्स्नुप्रत्ययः । व्रज साधयानुतिष्ठेत्येवंरूपम् । अजातशत्रोधर्मराजस्य । स्वयमविद्वेषणशीलत्वादियं संज्ञा । वाक्यं प्रमाणयन् । तदादिष्टः सन्नित्यर्थः । अन्ते वसँश्छात्र इव । 'छात्रन्तेवासिनौ शिष्ये' इत्यमरः । विनयेनानौद्धत्येनोपाससाद समीपं प्राप ॥ २४ ॥

अन्वयः—जिष्णुः, इति, उक्तवन्तं, प्रसेदिवांसं, तं व्रज, साधय, इति, अजातशत्रोः, वाक्यम्, प्रमाणयन्, अन्ते, वसन्, इव विनयेन, उपाससाद ॥ २४ ॥

व्याख्या—जिष्णुः=अर्जुनः, इति=पूर्वोक्तपद्यद्वयार्थरूपं, वाक्यम्, उक्तवन्तं = कथितवन्तम्, प्रसेदिवांसं = सुप्रसन्नं, तं = व्यासं प्रति, व्रज = गच्छ, साधय = अनुतिष्ठ, तां विद्यामिति शेषः । इति, अजातशत्रोः = अखिलजनहितैषिणः, युधिष्ठिरस्येत्यर्थः । वाक्यं = वचनम्, प्रमाणयन् = स्वीकुर्वन्, अन्ते वसन्, इव=अन्तेवासी इव, छात्र इवेत्यर्थः । विनयेन = नम्रवेषेण, उपाससाद = समीपमगमत् । यथा छात्रोऽध्यनायाध्यापकसमीपं गच्छति, तथा व्याससमीपं विद्यालाभायार्जुनो जगामेति भावः ॥ २४ ॥

समासः—न जात इत्यजातः, अजातः शत्रुर्यस्य तस्याजातशत्रोः ॥ २४ ॥

व्याकरणम्—व्रज = व्रज् + लोट् । साधय = साध् + णिच् + लोट् । प्रमाणयन् = प्र + मान् + णिच् + शतृ । उपाससाद=उप + आ + सद् + लिट् ॥ २४ ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २६

Page 213Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २६

वाच्यान्तरम्—इत्युक्तवान् प्रसेदिवान् सः (व्यासः) व्रज साधय, इति अजात-शत्रोर्वाक्यं प्रमाणयताऽन्तेवसता जिष्णुना विनयेनोपासेदे ॥ २४ ॥'

कोषः—‘प्रसेदिवान् प्रसन्नः स्यादानन्देन समन्वित’ इति कोषः। छात्रान्तेवासिनौ शिष्ये—' इत्यमरः। ‘जिष्णुरिन्द्रेऽर्जुनेऽन्यस्मिन् जयशीले जनेऽपि च’ इति कोषः ॥ २४ ॥

सारार्थः—पूर्वोक्तप्रकारेणोपदिशन्तं व्यासं प्रति युधिष्ठिरस्याज्ञया छात्र इवार्जुनो गतवान् ॥ २४ ॥

भाषार्थः—इस तरह कहते हुए, हँसमुख व्यास के पास ‘जाओ’ उस विद्या को साधो, यह बड़े भाई युधिष्ठिर की बात मानकर अर्जुन विद्यार्थी के समान उपस्थित हुए ॥ २४ ॥

निर्याय विद्याऽथ दिनादिरम्याद्विम्बादिवार्कस्य मुखान्महर्षेः ।
पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥२५॥

निर्यायेति ॥ अथ वह्निकणावदाता स्फुलिङ्गवदुज्ज्वला। देवतासान्निध्यादिति भावः , विद्येन्द्रमन्त्ररूपा। दिनादिरम्यादर्कस्य प्रभातभास्करस्य । बिम्बादिव महर्षेर्व्यासस्य मुखान्निर्याय निर्गत्य । समासेऽनञ्पूर्वे क्त्वो ल्यप् । दीप्तिरर्कदीधितिः । स्फुरद्विकसत्पङ्कजमिव । पार्थाननमर्जुनस्य मुखमभिपेदे प्रविष्टा ॥ २५ ॥

अन्वयः—अथ 'वह्निकणावदाता, (कर्त्री) विद्या, दिनादिरम्यात्, अर्कस्य, बिम्बात्, इव, महर्षेः मुखात्, निर्याय, दीप्तिः, स्फुरत्पद्मम् इव, पार्थाननम् , अभिपेदे ॥ २५ ॥

व्याख्या—अथ = व्याससमीपेऽर्जुनगमनानन्तरं, वह्निकणावदाता = अग्निस्फुलिङ्गधवला, दैवतरत्वादिति शेषः। विद्या=योगविद्या, इन्द्रप्रसन्नकरणमन्त्ररूपेत्यर्थः (कर्त्री) । दिनादिरम्यात् = प्रभातसुन्दरात्, अर्कस्य = सूर्यस्य, बिम्बात् = मण्डलात्, इव, महर्षे = व्यासस्य, मुखात् = वदनात्, निर्याय=निर्गत्य, पार्थाननम् = अर्जुनमुखम, अभिपेदे=प्राप्ता। (यथा) दीप्तिः=सूर्यभाः, स्फुरत्पद्मं = विकसत्कमलकुसुमम्, इव ॥ २५ ॥

समासः—दिनस्यादिः दिनादिस्तस्मिन् दिनादौ रम्यो यस्तस्माद्दिनादिरम्यात् । महांश्चासौऋषिर्महर्षिस्तस्य महर्षेः। पृथायाः कुन्त्या अपत्यं पुमान् पार्थस्तस्य, पार्थस्याननमिति । पार्थाननम् । वह्नेः कणा वह्निकणा इवावदाता धवला या सा वह्निकणावदाता । स्फुरच्च तत्पद्मं स्फुरत्पद्मम् ॥ २५ ॥

व्या०—निर्याय = निर् + या + क्त्वा + ल्यप् अभिपेदे = अभि + पद् + लिट् ।

Page 214Permalink
३०किरातार्जुनीयम्[ तृतीयः

वाच्यान्तरम्—वह्निकणावदातया विद्यया दिनादिरम्यादर्कस्य बिम्बादिव महर्षे-
र्मुखाच्छ्रियाय दीप्त्या स्फुरत्पद्ममिव पार्थाननमभिपेदे ॥ २५ ॥

कोषः—'प्रभात‍ोऽहर्मुखं कल्यमुषःप्रत्यूषसी अपि' इत्यमरः । 'सुन्दरं रुचिरं रम्यं चारु सर्वाङ्गशोभनम्' इति कोषः । 'विकर्त्तनोऽर्कमार्त्तण्ड-मिहिरारुणपूषणः' इत्यमरः । 'मुखमास्यं च वदनम्' इति कोषः । 'स्युः प्रभा रुग् रुचिस्त्विड्भाभा-श्छवि-द्युति-दीप्तय' इत्यमरः । 'वापुंसि पद्मं नलिनमरविन्दं महोत्पलम्' इत्यमरः॥

सारार्थः—यथा प्रभाते सूर्य्यबिम्बाद्निर्गताः किरणा ईषद्विकसितकमलमुखे पतन्ति, तथैव व्यासमुखाद्विन्द्रप्रसन्नकरमन्तरूपा विद्याऽर्जुनमुखे प्रविष्टेति ॥ २५ ॥

भाषार्थः—जैसे प्रातः (सुबह) समय के सुन्दर सूर्य के मण्डल से कान्ति निकलकर खिले हुए कमल के मुख में बैठती है, दस, वैसे ही व्यास के मुख से वह आग की चिनगारी के समान उज्ज्वल विद्या निकलकर अर्जुन के मुख में घुस गई ॥ २५ ॥

योगं च तं योग्यतमाय तस्मै तपः प्रभावाद्विततार सद्यः ।
येनास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥२६॥

योगं चेति ॥ योग्यतमायार्हत्तमाय तस्मै पार्थाय तं वक्ष्यमाणमहिमानं योगं ध्यानविधि च 'योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु' इत्यमरः । तपःप्रभावात् विततार। ददौ । चिरकालग्राह्यमपीति भावः । येन योगेन तत्त्वेषु प्रकृतिमहददाविषु । तथा च । 'मूलप्रकृतिर्महानहङ्कारो मनश्च पञ्च तन्मात्राणि पञ्च बुद्धिन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च महाभूतानीति चतुर्विंशतितत्त्वानि' । तत्रावभासे साक्षात्कारे कृते सत्यस्यार्जुनस्य चक्षुरक्षि चिराय समुन्मिमीलेवोन्मिषितमिवेत्युत्प्रेक्षा । तदा तस्य कोऽपि महानखिलाज्ञानभञ्जनस्तत्त्वावभासश्चिरादन्धस्य दृष्टिलाभ इवाभवदिति भावः । २६ ॥

अन्वयः—योग्यतमाय, तस्मै, तं योगं, च, तपः प्रभावात्, सद्यः, विततार । येन, तत्त्वेषु, अवभासे, कृते, अस्य, चक्षुः, चिराय, समुन्मिमील, इव ॥ २६ ॥

व्याख्या—योग्यतमाय = दानपात्रतमाय, तस्मै = अर्जुनाय, तं = वक्ष्यमाणं, योगं = चित्तनिरोधात्मकं, वा, इन्द्रप्रसन्नत्वसम्पादकमुपलक्षं, तपःप्रभावात् = सुकृतानुभावाद्, अभ्यस्तत्वेनेत्यर्थः । सद्यः = शीघ्रमेव, विततार = ददौ, येन = योगेन, तत्त्वेषु = प्रकृत्यादिषु । अवभासे = प्रत्यक्षे, कृते = विहिते, अर्जुनस्य, चक्षुः = नेत्रं, चिराय = चिरकालं, समुन्मिमील इव = उन्मिमील इव ॥ २६ ॥

समासः—अतिशयेन योग्यो योग्यतमस्तस्मै योग्यतमाय । तपसां प्रभावस्तपःप्रभावस्तस्मात् तपःप्रभावात् ॥ २६ ॥

सर्गः ३] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३१

Page 215Permalink

सर्गः ३] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३१

व्या०—विततार=वि + तृ + लिट्। समुन्मिमील=सम् + उद् + मील् + लिट् ॥

वाच्यान्तरम्—तेन व्यासेन तस्मै योग्यतमाय स योगश्च तपःप्रभावात् सद्यो वितीरे। येन तत्त्वेष्ववभासे कृतेऽस्य समुन्मिमीले वेति ॥ २६ ॥

कोषः—'योग्यः सन्नहनोपायध्यानसङ्गतियुक्तिषु-'इत्यमरः। 'सद्यः सपदि तत्क्षणे' इत्यमरः। 'लोचनं नयनं नेत्रमिक्षणं चक्षुरक्षिणी' इत्यमरः ॥ २६ ॥

सारार्थः—ततो व्यासस्तत्क्षणोऽर्जुनाय योगं शिक्षयामास अथार्जुनोऽपि तेन योगबलेन ध्यानस्थोऽभवदिति ॥ २६ ॥

भाषार्थः—उसके बाद व्यासजी ने देने के लायक अर्जुन को अपने तपोबल से झट उस योग को दे दिया, जिससे तत्त्वों में प्रत्यक्ष विचार करने पर अर्जुन की आँख खुल गयी ॥ २६ ॥

आकारमाशंसितभूरिलाभं दधानमन्तःकरणानुरूपम्।
नियोजयिष्यन्विजयोदये तं तपःसमाधौ मुनिरित्युवाच ॥२७॥

आकारमिति ॥ आशंसित आख्यातो भूरिलाभोऽनेकश्रेयःप्राप्तिर्येन तं तथोक्तम् । महाभागसूचकमित्यर्थः । अन्तःकरणशब्देन तद्वृत्तिरुत्साहो लक्ष्यते । तदनुरूपं । तदनुकूलम् । उत्साहानुगुणव्यापारक्षममित्यर्थः । आकारं मूर्तिं दधानं तमर्जुनं मुनिर्विजयोदये विजयफलके तपःसमाधौ तपोनियमे । 'समाधिर्नियमे ध्याने नीवाके च समर्थने' इति विश्वः । नियोजयिष्यन् । नियोजयितुमिच्छन्नित्यर्थः । 'लृट् शेषे च' इति लृट् । 'लूटः सद्वा' इति सप्रत्ययः । इति वक्ष्यमाणमुवाच ॥ २७ ॥

अन्वयः—मुनिः, आशंसितभूरिलाभम्, अन्तःकरणानुरूपम्, आकारं दधानं, तं, विजयोदये, तपःसमाधौ, नियोजयिष्यन्, इति, उवाच ॥ २७ ॥

व्याख्या—मुनिः = वेदव्यासः, आशंसितभूरिलाभम् = आख्यातप्रचुरप्राप्तिम्, अन्तःकरणानुरूपं = चित्तानुकूलम्, आकारम्, = मूर्तिं, दधानं = धारयन्तं, तम् = अर्जुनं, विजयोदये = अरिपराजयफले, तपःसमाधौ = तपोनियमे, नियोजयिष्यन् = लगयिष्यन्, सन्, इति=वक्ष्यमाणं, वचः, उवाच=कथयामास ॥२७॥

समासः—भूरि लाभः भूरिलाभः, आशंसितो भूरिलाभो येन स आशंसितभूरिलाभस्तमाशंसितभूरिलाभम्। अन्तःकरणस्यानुरूपोऽन्तःकरणानुरूपस्तमन्तःकरणानुरूपम्। विजय एवोदयो यस्मिन् स विजयोदयस्तस्मिन् विजयोदये । तपसःसमाधिस्तस्मिंस्तपःसमाधौ ॥ २७ ॥

व्याकरणम्—दधानं = धा + लट् + शानच् । नियोजयिष्यन् = नि + युज् + णिच् + लृट् + शतृ । उवाच=वच् + लिट् ॥ २७ ॥

Page 216Permalink
३२किरातार्जुनीयम्[ तृतीयः

वाच्यान्तरम्—आशंसितभूरिलाभमन्तःकरणानुरूपमाकारं दधानः सोऽर्जुनः विजयोदये तपःसमाधौ नियोजयिष्यता मुनिनेत्यूचे ॥ २७ ॥

कोषः—'समाधिर्नियमे ध्याने नीवाके च समर्थने'—इति विश्वः । आकारस्त्विङ्गितं' इत्यमरः । 'पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च' इत्यमरः ॥ २७ ॥

सारार्थः—व्यासोपदिष्टयोगविद्यां समासाद्यार्जुनस्याकृतिस्तथा जाता यथा भाविकृत्यसम्पन्नता स्फुटमेव द्योत्यते, इति स्वोद्योगं सफलमवलोक्य पुनस्तपो-नियमे योजयितुं तं व्यासो वक्ष्यमाणवचनमुवाचेति ॥ २७ ॥

भाषार्थः—अधिक लाभ होने की झलक है जिसमें, और मन के अनुकूल चेष्टा को धारण किए हुए अर्जुन का विजय-फल वाले तपस्या के नियम में लगाने की इच्छा से व्यास जी फिर बोले ॥ २७ ॥

अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् ।
समाचराचारमुपात्तशस्त्रो जपोपवासाभिभवैर्मुनीनाम् ॥ २८ ॥

अनेनेति ॥ अनेन स्वोपदिष्टेन योगेन विवृद्धतेजा निजां पदवीं परस्मै अयच्छन् । परस्य प्रवेशमयच्छन्नित्यर्थः । उपात्तशस्त्रो गृहीतायुधः सन् । अपोपवासाभिभवैः स्वाध्यायानशनस्नानैर्मुनीनामाचारं समाचरानुतिष्ठ ॥ २८ ॥

अन्वयः—अनेन, योगेन, विवृद्धतेजाः, निजां, पदवीं, परस्मै, अयच्छन्, उपात्तशस्त्रः, जपोपवासाभिभवैः, मुनीनाम्, आचारं, समाचर ॥ २८ ॥

व्याख्या—अनेन = मदुपदिष्टेन, योगेन = तपोनियमेन, विवृद्धतेजाः = प्राप्तपराक्रमः, 'त्वमिति शेषः । निजां=स्वीयाम्, आधुनिकीं दीनामित्यर्थः । पदवीम् = पद्धतिम्, परस्मै = अन्यस्मै शत्रवे, इत्यर्थः । अयच्छन् = अददत्, अपरिचितस्य स्वाश्रये प्रवेशं न दददित्यर्थः । उपात्तशस्त्रः=गृहीतायुधः सन्, अपोपवासाभिभवैः=जपव्रतस्नानैः, मुनीनां=योगिनाम्, आचारम्=आचरणं, समाचर=अनुतिष्ठ । न हि वने विविधशत्रुसङ्कुलेऽसावधानेन त्वया स्थातव्यमित्याशयः ॥ २८ ॥

समासः—विवृद्धं तेजो यस्य स विवृद्धतेजाः । उपात्तं शस्त्रं येन स उपात्तशस्त्रः । जपश्छोपवासश्चाभिभवश्च जपोपवासाभिभवास्तैर्जपोपवासाभिभवैः ॥ २८ ॥

व्याकरणम्—अयच्छन् = नञ् + दाण् + लट् + शतृ । समाचर = सम् + आ + चर्—लोट् ॥ २८ ॥

वाच्यान्तरम्—अनेन योगेन विवृद्धतेजसा, निजां पदवीं परस्मै अयच्छतो-पात्तशस्त्रेण जपोपवासाभिभवैर्मुनीनामाचारः समाचर्यताम् ॥ २८ ॥

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ३३

Page 217Permalink

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ३३


कोषः—'योगः संहननोपायध्यानसङ्गतियुक्तिषु' इत्यमरः। 'अयनं वर्त्म मार्गा- ध्वपन्थानः पदवी सृतिः' इत्यमरः। 'स्वाध्यायः स्याज्जपः सुब्रह्मभिवकः सकलं च सा' इत्यमरः। 'नियमो व्रतमस्त्री तच्चोपवासादिपुण्यकम्' इत्यमरः ॥ २८ ॥

सारार्थः—अस्मदुपदिष्टयोगाभ्यासेन स्वप्रभावं संवर्धयन्, स्वाश्रममार्गोऽपि न कमप्यपरिचितं प्रवेशयन् सदाऽऽयुधं गृहीत्वा जपव्रतयज्ञस्नानादिभिर्यो- योग्याचरणमाचरेति ॥ २८ ॥

भाषाऽर्थः—इस (मेरे कहे हुए ) योग से अपने प्रभाव को बढ़ाकर, अपने आश्रम का रास्ता भी दूसरे को न दिखाते हुए, हरवक्त हथियारबन्द रह कर जप-व्रत, यज्ञ-स्नानादि क्रियाओं से मुनियों का आचरण करो ॥ २८ ॥

क्षेत्रविशेषे तपःसिद्धिरित्याशयेन तं निदर्शयन्नाह—

करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥२९॥

करिष्यस इति ॥ यत्र शिलोच्चये गोत्रभिद इन्द्रस्य प्रसत्तये प्रसादाय सुदुश्चराणि तपांसि करिष्यसे । चारुशिलोच्चयं रम्यशिखरं तं शिलोच्चयं गिरिमिन्द्रकीलरूपम् । 'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । त्वामेष गुह्यको यक्षः अनन्तर- मेवास्य पुरः प्रादुर्भावादेष इति निर्देशः । क्षणान्नेष्यति प्रापयिष्यति ॥ २९ ॥

अन्वयः—अत्र, गोत्रभिदः, प्रसत्तये, सुदुश्चराणि, तपांसि, करिष्यसे, तं, चारु- शिलोच्चयं, शिलोच्चयम् एष, गुह्यकः, त्वां, क्षणात्, नेष्यति ॥ २९ ॥

व्याख्या—यत्र=यस्मिन्, पर्वत इति शेषः । गोत्रभिदः = इन्द्रस्य, प्रसत्तये = हर्षाय, प्रसन्नतायै इत्यर्थः । सुदुश्चराणि = अतिकष्टसाध्यानि, तपांसि = योगा- चारात्मकानि, करिष्यसे = आचारयिष्यसि, त्वमिति शेषः । तं = तथोक्तं, चारु- शिलोच्चयं = रम्यप्रस्तरसकलसमूहं, शिलोच्चयम् = पर्वतम्, इन्द्रकीलसंज्ञक- मित्यर्थः । एषः = अयं, वर्तमान इत्यर्थः । गुह्यकः = यक्षः, ( कर्ता ), त्वाम् = अर्जुनं, क्षणात् = सत्वरमेव, नेष्यति = प्रापयिष्यति ॥ २९ ॥

समासः—गोत्रान् पर्वतान् भिनत्तीति गोत्रभित्, तस्य गोत्रभिदः । शिला- नामुच्चयो यत्र स शिलोच्चयस्तं शिलोच्चयम् । चारवः शिलोच्चया यस्मिन् स चारु- शिलोच्चयस्तं चारुशिलोच्चयम् ॥ २९ ॥

व्याकरणम्—करिष्यसे = कृ + लृट् । नेष्यति = नी + लृट् ॥ २९ ॥

वाच्यान्तरम्—यत्र गोत्रभिदः प्रसत्तये सुदुश्चराणि तपांसि, त्वया करिष्यन्ते । तं चारुशिलोच्चयं शिलोच्चयम्, एतेन त्वं क्षणान्नेष्यते ॥ २९ ॥

12 कि०

Page 218Permalink

३४ किरातार्जुनीयम् [ तृतीयः

कोषः— 'सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा' इत्यमरः। अद्रिगोत्रगिरि-ग्रावाचलशैल-शिलोच्चया' इत्यमरः। 'पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनय' इत्यमरः॥ २९ ॥

सारांशः— यस्मिन् पर्वते तव तपःकरणं मया निश्चितं तत्रायं यक्षस्त्वां झटित्येवालौकिकगत्या प्रापयिष्यति। दुर्गपर्वतारोहणशमो न कोऽपि ते भविष्येति ॥

भाषार्थः— जहाँ (पर्वत पर) इन्द्र को खुश करने के लिए तुम कठिन तपस्या करोगे, उस सुन्दर शिखरवाले पर्वत पर तुझे यह यक्ष तुरत ले जायगा॥ २९॥

इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे।
तं राजराजानुचरोऽस्य साक्षात्प्रदेशमादेशमिवाधितष्ठौ ॥ ३० ॥

इतीति ॥ इतीत्थं महेन्द्रसूनुमर्जुनं ब्रुवाणेनोक्तवता। 'वर्तमानसामीप्ये' इति भूते वर्तमानवत्प्रत्ययस्तिरोधानस्याविलम्बसूचनार्थः। तेन महर्षिणा व्यासेन तिरोबभूवेऽन्तर्दधे। भावे लिट्। राजराजो यक्षराजः। 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इति विश्वः। तस्यानुचरः पूर्वोक्तयक्षोऽस्य मुनेरादेशं साक्षादिव प्रदेशमर्जुनाधिष्ठितस्थानमधितष्ठौ। प्राप्त इत्यर्थः। 'स्यादिष्वभ्यासे चाभ्यासस्य' इति षत्वम् ॥ ३० ॥

अन्वयः— महेन्द्रसूनुम्, इति, ब्रुवाणेन, तेन, महर्षिणा, तिरोबभूवे। राजराजानुचरः, अस्य (मुनेः,), साक्षात् आदेशम्, इव, तं, प्रदेशम्, अधितष्ठौ ॥ ३० ॥

व्याख्या—

  • महेन्द्रसूनुम् = अर्जुनम्,
  • इति = एवं,
  • ब्रुवाणेन = कथितवता,
  • तेन = प्रसिद्धेन,
  • महर्षिणा = महायोगिना, व्यासेनेति शेषः।
  • तिरोबभूवे = अन्तर्दधे। व्यासः स्वस्थानं प्रस्थित इत्याशयः।
  • अथ तदानीं राजराजानुचरः = कुबेरभृत्यः, यक्ष इत्यर्थः।
  • अस्य = व्यासस्य, मुनेः,
  • साक्षात् = देहवान्,
  • आदेशमिव = अनुशासनमिव,
  • तम् = अर्जुनाध्युषितम्,
  • प्रदेशं = स्थलविशेषम्,
  • अधितष्ठौ = प्राप्तः, न विलम्बो जात इति ॥ ३० ॥

सारांशः— महांश्चासाविन्द्रो महेन्द्रस्तस्य महेन्द्रस्य सूनुर्महेन्द्रसूनुस्तं महेन्द्रसूनुम्। महांश्चासावृषिर्महर्षिस्तेन महर्षिणा राज्ञां राजा राजराजः, तस्य राजराजस्यानुचरः राजराजानुचरः ॥ ३० ॥

व्याकरणम् — ब्रुवाणेन = ब्रू + लट् + शानच्। तिरोबभूवे = तिरस् + भू + भावे लिट्। अधितष्ठौ = अधि + स्था + लिट् ॥ ३० ॥

वाच्यान्तरम् — महेन्द्रसूनुमिति ब्रुवाणः स महर्षिस्तिरोबभूव। अस्य साक्षादादेश इव स च प्रदेशः राजराजानुचरेण सोऽधितष्ठे ॥ ३० ॥

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३५

Page 219Permalink

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ३५

कोषः—'आत्मजस्तनयः सूनुः सुतः पुत्र' इत्यमरः । मनुष्यधर्मा धनदो राजराजो धनाधिप' इत्यमरः । 'अनुप्लवः सहायश्चानुचरोऽभिसरः समाः' इत्यमरः ॥

सारार्थः—अर्जुनं प्रतियोगानुशासनं, तत्सहायकसाधनञ्चादिश्यगते व्यासे, व्यासप्रयुक्तो यक्षस्तमर्जुनाधिष्ठितं प्रदेशं व्यासमुनेर्मूत्तिधर आदेश इव झटित्येव प्राप्तः ॥

भाषार्थः—अर्जुन के प्रति ऐसे बोलते हुए व्यास, वहाँ से चल दिये । बाद में यक्ष खासकर जैसे स्वरूपधारी व्यास का आदेश ही हो, वैसे अर्जुन जहाँ पर स्थित थे; उस स्थान पर आ पहुँचा ॥ ३० ॥

कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ । इयाय सख्याविव सम्प्रसादं विश्वासयत्याशु सतां हि योगः ॥ ३१ ॥

कृतेति ॥ स पुण्यजनो यक्षः कृतानतिः कृतप्रणामः सन् व्याहृतसान्त्ववादे उक्तप्रियवचने । 'व्याहार उक्तिर्लपितम्' इत्यमरः । जिष्णावर्जुने जातस्पृहो जातानुरागः सन् । सख्यौ सुहृदीव । 'अथ मित्रं सखा सुहृद्' इत्यमरः । सम्प्रसादं विश्रम्भमियाय प्राप । तथा हि । सतां साधूनां योगः सङ्गतिराशु विश्वासयति विश्वासं जनयति हि । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३१ ॥

अन्वयः—कृतानतिः, व्याहृतसान्त्ववादे, जिष्णौ, जातस्पृहः, सः, पुण्यजनः, सख्यौ, इव, सम्प्रसादम् , इयाय । हि, सतां, योगः, आशु, विश्वासयति ॥ ३१ ॥

व्याख्या—कृतानतिः = कृतनमस्कारः, व्याहृतसान्त्ववादे = उक्तप्रियवचने, मृदुकथनशीले—इत्यर्थः । जिष्णौ = जयनशीले, अर्जुने, जातस्पृहः = उत्पन्नानुरागः, सः = अर्जुनमार्गदर्शकः, पुण्यजनः = यक्षः, सख्यौ = मित्रे, इव, सम्प्रसादं = विश्वासम्, इयाय = प्राप, हि = यतः, सतां=सज्जनानां, योगः = सङ्गतिः, आशु=शीघ्रं विश्वासयति = विश्वासं जनयति ॥ ३१ ॥

समासः—कृता आनतिर्येन सः कृतानतिः । सान्त्वस्य वादः सान्त्ववादः व्याहृतः सान्त्ववादो येन स व्याहृतसान्त्ववादस्तस्मिन् व्याहृतसान्त्ववादे । जाता स्पृहा यस्य स जातस्पृहः ॥ ३१ ॥

व्या०—इयाय = इण् + लिट् । विश्वासयति = वि + श्वस् + णिच् + लट् ॥ ३१ ॥

वाच्यान्तरम्—कृतानतिना, व्याहृतसान्त्ववादे जिष्णौ जातस्पृहेण तेन पुण्यजनेन सख्याविव सम्प्रसादम् ईये । सतां योगेनाशु विश्वास्यते ॥ ३१ ॥

कोषः—'साम सान्त्वमुभे समे' इत्यमरः । 'स्पृहाऽभिलाषा वाञ्छा च' इति कोषः । 'यक्षैकपिङ्गलैविलश्रीदपुण्यजनेश्वरा' इत्यमरः । 'अथ मित्रं सखा सुहृद्' इत्यमरः ॥ ३१ ॥

Page 220Permalink
३६किरातार्जुनीयम्[ तृतीयः

सारार्थः—महर्षिव्यासादेशात्समागतः स यक्षोऽर्जुनं प्रणम्य तदीयमथुरालापेनोत्पन्नानुरागः सन् प्रीतिविश्वासपात्रमेकान्तमित्रमिव तं मेने, यतः सज्जनानां सङ्गतिर्दिष्ट्यैव विश्वासमुत्पादयति ॥ ३१ ॥

भाषार्थः—उस यक्ष ने अर्जुन को प्रणाम करके मीठे बोलने वाले अर्जुन से मित्र के समान प्रेम किया। क्योंकि सज्जनों की सङ्गति जल्द विश्वास दिलाती है ॥

अथोष्णभासेव सुमेरुकुञ्जान्विहीयमानानुदयाय तेन ।
बृहद्द्युतीन्दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान्प्रपेदे ॥ ३२ ॥

अथेति ॥ अथोष्णभासा सूर्येणोदयाय पुनरुद्गमाय विहीयमानांस्त्यज्यमानानिति तमःप्राप्तिकारणोक्तिः । बृहद्द्युतीन् । सौवर्णत्वाद्दीव्यमानान्नित्यर्थः । इति तमसः सङ्कोचकारणोक्तिः । सुमेरुकुञ्जानिव । अत्र सुमेरुग्रहणं कुञ्जानां सौवर्णत्वद्योतनार्थम् । तेनार्जुनेनोदयाय श्रेयसे विहीयमानान्बृहद्द्युतीनानेकबुद्धिप्रकाशान् । पूर्ववद्विशेषणद्वयस्य प्रयोजनमनुसन्धेयम् । पाण्डुसुतान् । चतुर इति शेषः । दुःखेन कृच्छ्रेण कृत उपपादित आत्मलाभो यस्य तत्तथोक्तम् । तेषां विवेकित्वात्कथञ्चिल्लब्धोदयमित्यर्थः । तमः शोकोऽन्धकारश्च । 'तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे' इत्युभयत्रापि विश्वः । शनैर्मन्दम्प्रपेदे । तेषां विवेकित्वाद्भीतभीतमिवेति भावः । अत्र तमःशब्दस्य श्लिष्टत्वाच्छ्लेषानुप्राणितेयमुपमा ॥ ३२ ॥

अन्वयः—अथ उष्णभासा, उदयाय, विहीयमानान्, बृहद्द्युतीन्, सुमेरुकुञ्जान्, इव, तेन, ( विहीयमानान् बृहद्द्युतीन् ) पाण्डुसुतान्, दुःखकृतात्मलाभं, तमः, शनैः प्रपेदे ॥ ३२ ॥

व्याख्या—अथ = युधिष्ठिरसमीपादर्जुनस्य गमनानन्तरम्, उष्णभासा = सूर्येण, उदयाय = समुदयलाभाय, विहीयमानान् = त्यज्यमानान्, बृहद्द्युतीन् = काञ्चनवर्णान्, अतितेजोवतः सुमेरुकुञ्जान् काञ्चनगिरिलतागुल्मान्, इव, तेन = अर्जुनेन, उदयाय = अभ्युदयाय, शत्रुपरजयार्थमित्यर्थः । विहीयमानान् = त्यज्यमानान्, बृहद्द्युतीन् = अतिविक्रमवतः, पाण्डुसुतान् = युधिष्ठिरभीमनकुलसहदेवानित्यर्थः । दुःखकृतात्मलाभं = क्लेशवशजनितं, तमः = अन्धकारः शोकश्च, शनैः = मन्द मन्दं, क्रमशः, प्रपेदे = प्राप । इति ॥ ३२ ॥

समासः—उष्णा भासो यस्य स उष्णभास्तेनोष्णभासा । सुमेरोः कुञ्जाः सुमेरुकुञ्जास्तान् सुमेरुकुञ्जान् । बृहती द्युतिर्येषां ते बृहद्द्युतयः, तान् बृहद्द्युतीन् । आत्मनो लाभः आत्मलाभः । दुःखेन कृत आत्मलाभो येन तद् दुःखकृतात्मलाभम् । पाण्डोः सुताः पाण्डुसुतास्तान् ॥ ३२ ॥

व्याकरणम्—प्रपेदे = प्र + पद् + लिट् ॥ ३२ ॥