भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

३९२ वीरमित्रोदयस्य राजनीतिप्रकाशे लिनीवारतण्डुलैः प्रतिद्रव्यमष्टोत्तरसहस्रमष्टोत्तरशतं वाऽऽहुती- र्जुहुयुः। मन्त्रगोत्रऋषिदेवताच्छन्दांस्युक्तान्येव। जयाभिषेकाङ्गहोमे विनियोग इति विशेषः । अन्ते च स्वाहाकारः । एवं सर्वत्र । तत्र याम्ये होत्रा कृष्णवाससा भवितव्यम् । तत्तद्वेदशाखाग- तान्यभिमुखानि तुलादानादिप्रयोगेषु द्रष्टव्यानि विस्तरभयान्नो- च्यते । होमसमये द्वारजापकजप्यानि तत्तद्वेदगतानि शान्ति- सूक्तान्यपि तत्रैव द्रष्टव्यानि । यद्वा प्रतिकुण्डं भिन्नभिन्नाः प्र- धानहोममन्त्राः । यथा- “ॐतत्पुरुषाय विद्महे महादेवाय धीम- हि । तन्नो रुद्रः प्रचोदयात्” इतिपुरुषमन्त्रः प्राक्कुण्डे । अस्य सांहितीर्देवता उपनिषद ऋषयः, रुद्रो देवता, गायत्रीछन्दः, विनि- योगः प्राग्वत् । एवमग्रेऽपि । “ॐजातवेदसे सुनवामसोममराती- यतो निदहाति वेदः । स नः पर्षदतिदुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः” इत्याग्नेये “रुद्रो वा एष यदग्निः” इति श्रुतेश्च रौद्रो मन्त्रः । अस्य काश्यपो जातवेदा अग्नित्रिष्टुप् । अघोरेभ्य इत्याद्यघोरमन्त्रः प्रागुक्त एव दक्षिणे । “ॐनिशि निशि जय स्वाहा खड्गराक्षसभेदन। रुधिराज्यार्द्रनिर्ऋत्यै स्वाहा नमः स्वधा नमः” इति पौराणो नैर्ऋतो मन्त्रो नैर्ऋत्ये । “ॐ नमोऽस्तु वामदेवाय नमो ज्येष्ठाय शूलिने। रुद्राय कालरूपाय कलाविकरणाय च ॥ बलाय बलप्रमथनाय सर्वभूतदमनाय च । मनोन्मनाय देवाय मनोन्मन्यै नमोनमः ॥” इतिमन्त्रः पौराणः पश्चिमे । ॐसमीर समीर स्वाहा स्वधा नमो नमः” इति पौराणो मन्त्रो वायव्ये । “ॐसद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः” इति मन्त्र उत्तरे ।

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३९३ अस्य सांहिती देवता उपनिषदो रुद्रो बृहती । "ॐईशानाय कद्रु- द्राय रुद्राय प्रचेतसे त्र्यम्बकाय शर्वाय । तन्नो रुद्रः प्रचोदयात्" इत्यैशान्ये । अस्य अघोरः कण्वो रुद्रो गायत्री । "ॐईशानः सर्व विद्यानामीश्वरः सर्वभूतानाम् । ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवोम्"इति पूर्वैशान्यन्तरालगते प्रधानकुण्डे। अस्य सांहिती देवता उपनिषदो रुद्रो गायत्री । एवं प्रधानहोमं कृत्वा स्वाहान्तैर्नामभिः प्रत्येकमाज्येनैकैकामाज्याहुतिं स्वकुण्डे जुहुयादाचार्यः पूर्वोक्तमण्डलदेवताभ्यः । ततः स्विष्टकृदादि । अघोरमन्त्रेण प्रायश्चित्ताहुतिपुरःसरं सर्वे पूर्णाहुतिप्राचीनमु- त्तराङ्गकाण्डं कृत्वा राज्ञा दिक्पालादिभ्यो बलिदाने कृते स- र्वैरवशिष्टैर्होमद्रव्यैः पुनः राजानम् अघोरमन्त्रेण त्र्यम्बकम- न्त्रेण वाभिषिञ्चेयुः । ततोऽभिषिक्तेन राज्ञा यथास्वगृह्यं पुण्या- हवाचने कृते, त्र्यम्बकमन्त्रेण हेममयं मृणालयुक्तं कौतुकं रा- ज्ञो दक्षिणकरे बध्नीयादाचार्यः । ततस्तत्रैव महामण्डपे राजा- नमधिवासयेत् । राज्ञा च मूत्रोत्सर्गाद्यावश्यकवर्जं तत्रैवाधि- वस्तव्यम् । ऋत्विग्भ्यश्चाधिवासनदक्षिणा यथाशक्ति देया । गीतवादित्रपुराणादिभिश्च तस्यां रात्रौ जागरणं कार्यम् । उपोषणं च तद्दिने सर्वेषाम् । अशक्तस्य हविष्याशनम् । ततोऽप- रेद्युः प्रातरुत्थाय नित्यकर्म कृत्वा सर्वे स्वस्वकुण्डे यथाशा- खं पूर्णाहुतिं जुहुयुः । अथाचार्यः पुरोहितर्त्विगादिसहितः प्रधानमण्डपादुत्तरतः कृते द्वारदेशात्पदमात्रे निखातैः प्रागादि- क्रमेण पलाशोदुम्बराश्वत्थवटमयैस्तोरणैर्युक्ते दशहस्ते राजा- भिषेकमण्डपे तोरणेषु हेमकुम्भान्निधाय दिग्गजाष्टकं चावा- ह्य सर्वतो दर्भमाला आबध्य द्वारदेशे कुम्भान् संस्थाप्य द्वारादिप्रदेशेषु इक्षुस्तवराजनिष्पावाजाजिधान्यकविकारव- ५०

३९४ वीरमित्रोदयस्य राजनीतिप्रकाशे द्रोक्षीरकुसुम्भपुष्पलवणारूयान्यष्टमङ्गलद्रव्याणि प्रकीर्य सा- धारणविधया च मण्डपप्रतिष्ठां कृत्वा तन्मध्यस्थायां रचि- तस्वस्तिकादिमण्डलायामास्तृतदर्भायां विकीर्णाष्टमङ्गलद्रव्या- यां वेद्यां सुवर्णरूप्यताम्रान्यतरमयं क्षीरिवृक्षजं वा माण्ड- लिकानन्तरजिन्महाराजानां क्रमेणैकसपादसार्द्धहस्तोच्छाया- मं भद्रासनं संस्थाप्य तदुपरि परिहितनववस्त्रं सायुधमलङ्कृतं शुद्धभस्मोद्धूलितसर्वाङ्गं राजानमुपवेश्य तद्वामतस्तत्पत्नीं चोपवेश्य “तन्महेशाय विद्महे वाग्विश्शुद्धाय धीमहि । तन्नः शिवः प्रचोदयात् ॥” इतिशिवगायन्या शिवकुम्भेनाभिषिच्य पूर्वोक्तया गौरीगायत्र्या वर्धन्या चाभिषिच्य शेषकलशैः स्था- पनक्रमेण रुद्राध्यायं पठन्नभिषिञ्चेत्, अघोरमन्त्रेण वा । तदा च प्रतिकलशं तदावृत्तिः । अभिषेकश्च कलशनिहितान् कूर्चान् कलशमुखेष्वानीय तद्द्वारा राजमूर्धनि यथोदकं पत- ति तथा कार्यः, कूर्चैः प्रोक्षणं वा । तदा चेतरेऽपि ब्राह्मणाः स्वस्वशाखागतान् “सुरास्त्वामभिषिञ्चन्तु” इत्यादिपौराणांश्चा- भिषेकमन्त्रान् पठेयुः । शङ्खभेर्यादिनानावाद्यशब्दश्च विधेयः । मन्त्र्यादयो राजसेवकाः पौरादयश्च जयादिशब्दै राजानं वर्धयेयुः । ततः कलशान्तर्गतपिष्टौषधिलेपपूर्वकं राजा शुद्धो- दकेन स्नात्वा क्षौमे वाससी परिधाय धृतप्रभूतशुक्लमणिख- चितमुकुटादिदिव्यभूषणनृपचिह्न आचार्यादिभिः प्रणीता- निनयनादौ कर्मशेषे समापिते यथाचारं भस्मधारणं कुर्या- त् । नृपचिह्नानि च नत्रोपकल्पितानि शिविकावैजयन्ती- चन्द्रसमप्रभच्छत्रशङ्खचामरभेर्यादीन्युत्तमानि भूषणानि च प्र- भूतान्याचार्यो राज्ञे दद्यात् । ततः कृतजयाभिषेकप्रतिष्ठा- सिद्ध्यर्थम् अष्टषष्टिपलहेपनिर्मितं नवरत्नालङ्कृतं सुदृढमं

यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३९५ दशधेनुशतानि सुशोभनं क्षेत्रं प्रत्येकं शतद्रोणमितांस्तिलांस्त- ण्डुलांश्च सोपधानतूलिकाद्युपस्करां शय्याम् अश्वादिवाहनं रथादियानं च आचार्यायामुकशर्मणे दक्षिणामहं सम्प्रददे न ममेति गुरवे दक्षिणां दद्यात् । परिमाणतो मूल्यतश्चैतदर्धमि- तानि तुरङ्गादीनि मिलितेभ्यः सर्वेभ्यो होतृभ्यस्तथैव त- दर्धमितानि सर्वाणि मिलितेभ्यो द्वारजापकेभ्यस्तदर्धमितानि ब्रह्मभ्यो गुरुवदेव दद्यात् । सर्वे च स्वस्त्युक्तिकामस्तुत्यादिपूर्वकं प्रतिगृह्णीयुः । पुरोहिताय च जयाभिषेकाङ्गभूतरुद्राभिषेकप्रति- ष्ठासिद्ध्यर्थं यथाशक्ति सुवर्णादूर्ध्वं हिरण्यं दक्षिणां दद्यात् । रुद्राभिषेकोपस्करं च बाणलिङ्गकलशमण्डपादिकं प्रतिपादयेत् । तत इतरसहायभूतब्राह्मणेभ्योऽपि यथाशक्ति सुवर्णं दक्षिणां द- दद्यात् । दीनानाथादिभ्यश्च यथाशक्ति भूयसीम् । ब्राह्मणभोजनं च सहस्रावरं यथाशक्ति सङ्कल्पयेत् । ततः स्थापितदेवताना- मुत्तरपूजां कृत्वा सर्वाः प्रतिमाः कलशादिसर्वोपस्करयुताः सोपस्करं च मण्डपद्वयमाचार्यहस्ते प्रतिपादयेत् । होमोपक- रणानि स्रुगाज्यचरुस्थाल्यादीनि तत्तद्धोतृहस्ते, हविःशेषांश्च तत्तद्ब्रह्महस्ते प्रतिपादयेत् । ततस्तत्तत्कुण्डस्थितानग्नीन् य- थाविभवं गन्धादिदक्षिणान्तोपचारैः सम्पूज्य नमस्कृत्य सर्वान् प्रदक्षिणीकृत्य "गच्छ गच्छ सुरश्रेष्ठ" इति सर्वान् वि- सर्जयेत् । तत आचार्यादिभिः कर्मणः सम्पूर्णतामच्छिद्रतां च वाचयित्वा राजा आचार्यादिसहितो महादेवस्य महतीं पूजां यथाविभवं महता सम्भारेण रुद्रमन्त्रेण कृत्वा "यस्य स्मृत्या च" इत्याद्युक्त्वा सकलस्वकीयसुहृन्मन्त्रिपरिजनादियुतो भुञ्जीत । त- दिने च न कस्यापि निगडबन्धनादि कुर्यात्पूर्वबद्धांश्च मोचयेदिति। इति जयाभिषेकप्रयोगः ।

३९६ वीरमित्रोदयस्य राजनीतिप्रकाशे एवं षष्ठे दिने जयाभिषेकं सम्पाद्य मङ्गल्यसुस्वप्नदर्शने समीचीने च निमित्ते सति व्रजेदित्युक्तम् । तत्र प्रस्थानतः सप्तमे दिने कियद्दूरे गत्वावस्थेयमित्यपेक्षायाम्— विष्णुधर्मोत्तरे, क्रोशमात्रं ततो गच्छेन्नाधिकं तु कदाचन । गत्वा देशे शुभे तिष्ठेत्पूजयित्वा सुरद्विजान् ॥ ततः क्रमेण गच्छेच्च परदेशं महीपतिः । आत्मसैन्यानुरूपेण कृतरक्षः पथा द्विज ॥ कृतरक्षः सन् आत्मसैन्यस्यानुरूपेण यवसेन्धनधान्यादि- मत्तया योग्येन पथा मार्गेण गच्छेत् । त्रिरात्रमुषितो गच्छेदूभूयो नक्षत्रसम्पदा । नक्षत्रसम्पदेति चन्द्रशुद्धिनिषिद्धयोगकरणादिराहित्योप- लक्षणम् । यवसेन्धनतोयानां रक्षको विषदूषणात् । परानभिमुखो गच्छेत्प्रभूतयवसेन्धनः ॥ इति । मनुः, कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । मूले, मूलभूते स्वदेशे । विधानं, तद्रक्षणार्थं सैन्यस्थापनादि । उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च ॥ संशोध्य त्रिविधं मार्ग षड्विधं च बलं स्वकम् । साम्परायिककल्पेन यायाद्रिपुपुरं प्रति ॥ त्रिविधं मार्ग, जलस्थलवनरूपं मार्गम् । षड्विधं बलं, 'मौलं च भृतकं चैव”इत्यादिनाभिहितम् । साम्परायिककल्पेन, [द्धकल्पेन ।

यात्राप्रकरणे कालविशेषेण सेनायां विशेषः । ३९७ शत्रुसेविनि मित्रे च गूढ युक्ततरा भवत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ इति । मत्स्यपुराणे तु कालविशेषेण सेनायां विशेष उक्तः— पदातिनागबहुलां सेनां प्रावृषि योजयेत् । हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम् ॥ खरोष्ट्रबहुलां सेनां तथा ग्रीष्मे नराधिपः । चतुर्विधबलोपेतां वसन्ते वा शरद्यथ ॥ सेना पदातिबहुला यस्य स्यात्पृथिवीपतेः । अभियोज्यो भवेत्तेन शत्रुविषयमाश्रितः ॥ गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च । किञ्चित्पङ्के तथा यायाद्बहुनागो नराधिपः ॥ रथाश्वबहुलो यायात् शत्रुं समपथाश्रयम् । जलाश्रयं नौबहुलस्तथा राजा रिपुं जयेत् ॥ खरोष्ट्रबहुलो राजा शत्रुं च वनसंस्थितम् । न वनस्थोऽभियोज्योऽरिः सदा प्रावृषि भूभुजा ॥ हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् । यवसेन्धनसंयुक्तं काले पार्थिव हैमने ॥ शरद्वसन्तौ धर्मज्ञ कालौ साधारणौ मतौ । विज्ञाय राजा हितदेशकालौ दैवं त्रिकालं च तथैव बुद्ध्या । यायात्परं कालविदां मतेन सञ्चिन्त्यमानं द्विजमन्त्रविद्भिः॥इति। विष्णुधर्मोत्तरे, राम उवाच । साङ्ग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भूभुजाम् । सर्वं वेत्सि महाभाग त्वं देव परमेष्ठिवत् ॥

३९८ वीरमित्रोदयस्य राजनीतिप्रकाशे पुष्कर उवाच । द्वितीयेऽहनि सङ्ग्रामो भविष्यति यदा तदा । गजाश्वान् स्नापयेद्राजा सर्वौषधिजलैः शुभैः ॥ गन्धमाल्यैरलङ्कुर्यात् पूजयेच्च यथाविधि । नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः ॥ छत्रं ध्वजं पताकां च वर्म चैव महाभुज । आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा ॥ तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम् । कृत्वा तु प्रार्थयेद्राजा विजयायेतराय वा ॥ प्रमथांश्च सहायार्थे धरणीं च महीभुजम् । भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत् ॥ संयतो ब्रह्मचारी च नृसिंहं संस्मरन् हरिम् । रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत् ॥ रात्रिशेषे समुत्थाय °स्नातः सर्वौषधीजलैः । पूजयित्वा नृसिंहं तु वाहनाद्यमशेषतः ॥ पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम् । पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्पुनः ॥ दक्षिणाभिः शुचिर्विप्रान् पूजयेत्पृथिवीपतिः । ततोऽनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः ॥ चन्दनागुरुकर्पूरकान्तकालीयकैः शुभैः । मूर्ध्नि कण्ठे समालभ्य रोचनां च तथा शुभाम् ॥ आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितम् । अलङ्करणमाबध्याच्छ्रियं धातुरितिस्रजम् ॥ या ओषधय इत्येवं धारयेदोषधीः शुभाः । नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम् ॥

ऐन्द्रायेति ततो वर्म धन्वनागेति वै धनुः । ततो राजा समादद्यात्सशरं त्वाभिमन्त्रितम् ॥ कुञ्जरं वा रथं वाश्वमारुहेदभिमन्त्रितम् । आरुह्य शिबिराद्राजा विनिष्क्रम्य समे शुभे । देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनाम् ॥ इति । अथ पुरोहितकर्तृकमाश्वलायनोक्तं सन्नहनं राजधर्म- त्वादुच्यते । सङ्ग्रामे समुपोढे राजानं सन्नाहयेदात्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय जीमूतस्येव भवति प्रतिकमिति कवचं प्रयच्छेदृत्तरया धनुरुत्तरां वाचयेत्स्वयं चतुर्थी जपेत्पञ्चम्ये- षूधि प्रयच्छदाभंप्रवर्तमान षष्ठीं सप्तम्यामश्वानष्टमामिषूनवेक्षमा- णं वाचयत्यहिरिवभोगैः पर्येति बाहुमिति तलं नह्यमानम- थैनं सारयमाणमुपारुह्याभीवर्त्तं वाचयति प्रयो वां मित्राव- रुणेति च द्वे अथैनमन्वीक्षेताप्रातिरथासासौपर्णैः प्रधारयन्तु मधुनो घृतस्यैतत्सौपर्णं सर्वा दिशोऽनुपरि यायादादित्यमौश- नसं वावस्थाय प्रयोधयेदुपश्वासय पृथिवीमुत द्यामिति तृचेन दुन्दुभिमभिमृशेदवस्सृष्टा परापतेतीषून्विसर्जयेद्यत्र बाणाः सम्प- तन्तीति युध्यमानेषु जपेत्संशिष्याद्वा संशिष्याद्वा । इति । ( आ० गृ० सू० अ० ३ । कं० १२ । ) अस्यार्थः । समुपोढे उपस्थिते । सन्नाहयेत्, पुरोहित इति शेषः। आत्वेति सूक्तं, जपेदितिशेषः। पादग्रहणेन ऋग्ग्रहणे प्राप्ते- ऽप्यत्र सूक्तग्रहणमितिवृत्तिकृत्। जीमृतेति, अस्य सूक्तस्याद्ययेति- शेषः, राज्ञे इति च शेषः । उत्तरया “धन्वनागा”इति धनुः प्रय- च्छेत् । उत्तरां “वक्ष्यन्ती वेदा”इति वाचयेत्, राजानमितिशेषः । स्वयं पुरोहितः “ते आचरन्ति”इति जपेत् । पञ्चम्या “बह्वीनां पि-

४०० वीरमित्रोदयस्य राजनीतिप्रकाशे

ता” इति इषुधिं प्रयच्छेत् । इषवो धीयन्ते यत्र स इषुधिः। यथेष्टदिग- भिमुखगमने “रथे तिष्ठन्” इति जपेत् । सप्तम्या “तीव्रात् घोषान्”, इति अश्वाननुमन्त्रयेत । अष्टमीं “रथवाहनम्” इति इषूनवेक्षमाणं राजानं वाचयेत् । ज्याघातपरित्राणं तलमुच्यते । तेन नह्यमान- मेतां वाचयेत् । सारथिना सारयमाणं राजानं रथे आरुह्य “अभीवर्तेन” इति सूक्तं वाचयेत् । प्रयो वामित्यृचौ च । एनं राजानमन्वीक्षेत एतैः सूक्तैः । “आशुः शिशान” इत्यम- तिरथं सूक्तम् । “शास इसेति” सूक्तं शासः । सौ- पर्णसूक्तानां बहुत्वार्द्विशेषमाह-प्रथारेति । एतन्सूक्तं सौ- पर्णं भवति नान्यत् । अथ राजा सर्वदिशो रथेना नुक्रमेण गच्छेत् । यस्यां दिश्यादित्यस्तां दिशमास्थायाहनि चेत्, रात्रौ चेद्यस्यां दिशि शुक्रस्तां दिशं परिगृह्य योधयेद्राजा । ना- पि प्रत्यादित्यं नापि प्रतिशुक्रमित्यर्थः । उपश्वासयेत्यादौ राजा कर्त्ता । यत्र बाणा इत्यत्र तु पुरोहितः कर्त्ता । संशि- ष्याद्वा । अथ वा पुरोधा आचक्षीत एतस्मिन् काले इयमृक्तवे- ति । यथा आत्वा हार्षमन्तरेधीतिसूक्तं पश्चाद्रथस्यावस्थाय ब्रूहि, जीमूतस्येति कवचं गृहाणेत्येवमादि । अध्यायान्तलक्ष- णार्थं द्विर्वचनमिति । मनुः, दण्डव्यूहेन तं मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ यतः शङ्केत सभयं ततो विस्तारयेद्बलम् । पद्मेन चैव व्यूहेन निवसेत सदा स्वयम् ॥ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । भयं यतो वा शङ्केत तां प्राचीं कल्पयेद्दिशम् ॥

-like curve, and goes down. It does NOT have a separate vertical bar! So in line 20, why would there be a vertical bar? Wait! What if the word is: कदाचित्? Wait, look at काहाचित्: is the first part ? Yes. Is the next stroke an 'ा'? Wait, could it be कर्हिचित्? Wait, what if it's काहाचित्? Let's look at the letter again: Wait, could it be: न व्यूह कल्पना कार्या राज्ञा भवात् काहाचित् । Wait, is that काहाचित्? Let's check the characters: क + ा + ह + ा + चि + त् = काहाचित्. Wait, what if it's कदाचित् with a broken type? If someone typeset it, why would they typeset काहाचित्? Could it be कश्चित्? No. Could it be काहिचित्? Wait, look at the letter after भवात्: Is it ? Yes. Then ? Wait, could it be पि? No. What if it IS काहाचित् (a misprint

४०२ वीरमित्रोदयस्य राजनीतिप्रकाशे स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना । नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥ सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः । भग्नसन्धारणं तत्र योधानां परिकीर्त्तितम् ॥ प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते । तत्र, क्रोशमात्रावस्थिते राज्ञि । युद्धादिना परराष्ट्रग्रहणं राज्ञोऽवश्यकर्त्तव्यमित्याह— याज्ञवल्क्यः, य एव धर्मो नृपतेः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ इति । शङ्खलिखितौ, राजक्रतुरेवाश्वमेधस्तं नासार्वभौमः प्र- तिपादयितुमर्हति । अश्वमेधेन यक्ष्य इति परविषयमभियाया- द्देशकालशक्तिसम्पन्नः प्रभूतयवसेन्धनोदकाविच्छिन्नसाम्परा- यिकः पथि संविहितसर्वोपकरणो दुर्गासारामात्यदेशदण्डा- क्रन्दाद्यगुणविधिज्ञः पर्षदं प्रति नयवान् विदितमध्वानं हित- मनुक्रामेत् यथाभूमिभागस्तथा विनियोगः श्रेयान् पानभोज- नोपनिवेशस्थानशङ्काप्रतिविधानकुशलो भूपतिरवहितः शत्रु- णा सह युद्ध्येत् । इति । युद्ध्यता राज्ञा किं कर्त्तव्यमित्यपेक्षायाम्— विष्णुधर्मोत्तरे, न भग्नान् पीडयेच्छत्रूनेकायनगता हि ते । मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि ॥ शठा भङ्गच्छलेनापि नयन्ति स्वभुवं परान् । तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा ॥ न संहतान्न विरलान् योधान् व्यूहे प्रकल्पयेत् ।

यात्राप्रकरणे सैन्यकल्पना । ४०३ आयुधानां तु सम्मर्दो यथा न स्यात्परस्परम् ॥ तथा तु कल्पना कार्या योधानां भृगुनन्दन । भेत्तुकामः परानीकं संहतैरेव भेदयेत् ॥ भेदरक्षापरेणापि कर्त्तव्या संहता तथा ॥ स्वेच्छया कल्पयेद्व्यूहं ज्ञात्वा वाऽरिप्रकल्पितम् । व्यूहं भेदावहं कुर्याद्रिपुव्यूहस्य पार्थिवः ॥ गजस्य देया रक्षार्थं चत्वारस्तु रथा द्विज । रथस्य चाश्वाश्चत्वारश्चत्वारस्तस्य चर्मिणः ॥ चर्मिभिश्च समास्तत्र धन्विनः परिकीर्त्तिताः । पुरतश्चर्मिणो देया देयास्तदनु धन्विनः ॥ धन्विनामनु चाश्वीयं रथांस्तदनु योजयेत् । रथानां कुञ्जराश्चानु दातव्याः पृथिवीक्षिता ॥ पदातिकुञ्जराश्वानां वर्म कार्यं प्रयत्नतः । अवर्मयित्वा यो वाहमात्मानं वर्मयेन्नरः ॥ स राम नरकं याति सुकृतेनापि कर्मणा । शूराः प्राङ्मुखतो देया न देया भीरवः क्वचित् ॥ शूरान् वा मुखतो दत्त्वा स्कन्धमात्रप्रदर्शनम् । कर्त्तव्यं भीरुसङ्घेन शत्रुविद्रवकारकम् ॥ दारयन्ति पुरस्तात्तु विद्रुता भीरवः पुरः । इति । यदि च परबलं दृष्ट्वा शत्रुर्युद्धोपक्रमं न करोति आसनमेव करोति तदा किं कर्त्तव्यमित्यपेक्षायाम्— मनुः, उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ॥ भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।

४०४ वीरमित्रोदयस्य राजनीतिप्रकाशे समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥ उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । युक्ते च दैवे युद्ध्येत जयप्रेप्सुरपेतभीः ॥ उपजपेत्, भेदं कुर्यात् । एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः ॥ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । दण्डेनाभिप्रसह्यैतांश्छनकैर्वशमानयेत् ॥ इति । सामादीनुपायानभिधाय युद्धं गत्यन्तराभाव एव कर्त्तव्य- मित्यभिप्रायेणोक्तम्— श्रीरामायणे, तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च । दानं लुब्धेषु भेदश्च शङ्कितेष्विति निश्चयः ॥ दण्डस्तथैव पात्यश्च नित्यकालं दुरात्मसु । इति । मनौ, साम्ना भेदेन दानेन समस्तैरुत वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । पराजयश्च सङ्ग्रामे तस्माद्युद्धं विवर्जयेत् ॥ इति । तथा, त्रयाणामप्युपायानां पूर्वोक्तानां परिक्षये । तथा युद्ध्येत सम्पन्नो विजयेत रिपून् यथा ॥ संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥

यात्राप्रकरणे सङ्ग्रामादनिवर्तनं क्षात्रधर्मः । ४०५ १ युद्ध्येत स्यन्दनाश्वेन समेऽनूपोन्नते द्विपैः । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ कुरुक्षेत्रांश्च मात्स्यांश्च पाञ्चालांञ्छूरसेनजान् । दीर्घाल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥ प्रहर्षयेद्वलं व्यूह्य भृशार्तांश्च परीक्षयेत् । चेष्टांश्चैव विजानीयादरीन् योधयतामपि ॥ इति । मनुः, समोत्तमाधमै राजा त्वाहूतः समरे परैः । न निवर्तेत सङ्ग्रामात्क्षात्रं धर्ममनुस्मरन् ॥ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युद्ध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ न कूटैरायुधैर्हन्याद्युद्ध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ मिथः परस्परं, स्पर्धमाना इतिशेषः । दिग्धैः विषाक्तैः । महाभारते, राज्ञां नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः । इति । राज्ञोऽधिकमित्यनुवृत्तौ- गौतमः, सङ्ग्रामे संस्थानमनिवृत्तिश्च । इति । देवलः, प्रजार्थं क्षत्रियो युद्ध्येत्स्वान् प्राणान् सम्परित्यजेत् । अश्वमेधफलं कृत्स्नं निसर्गेणाधिगच्छति ॥ शस्त्रेण निहतः सङ्ख्ये द्विषद्भिरपराङ्मुखः । १ स्यन्दनाश्वैः समे युद्ध्येदनूपे नौद्विपैस्तथा । इति मुद्रितमनु पुस्तके पाठः ।

४०६ वीरमित्रोदयस्य राजनीतिप्रकाशे शक्रलोकमवाप्नोति स्ववीर्याद्विजितं शुभम् ॥ आहवेऽभिमुखे शूरं प्रहितानि द्विषद्गणैः । भिन्द्युर्यावन्ति शस्त्राणि तावन्तः क्रतवोऽस्य ते ॥ क्षतेभ्यः प्रस्रुतं रक्तं क्षितिपांसुषु संस्पृशेत् । स देवलोके तावन्तं कालं तिष्ठति वै ध्रुवम् ॥ नास्ति राज्ञां समरतनुत्यागसदृशो धर्मः । गोब्राह्मणमित्रधनरक्षणार्थं मृतास्ते स्वर्गभाजः ॥ याज्ञवल्क्यः, य आहवेषु युध्यन्ते भूम्यर्थमपराङ्मुखाः । अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ इति । यमः, क्षत्रियस्योरसि क्षत्रं पृष्ठे ब्रह्म प्रतिष्ठितम् । तस्मात्पृष्ठं रणे रक्षेन्मा भवेद्ब्रह्मघातकः ॥ इति । पृष्ठं रणे रक्षेदित्यनेन पलायननिषेधः । मनुः, न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् । न मुक्तकेशमासीनं न तवास्मीति वादिनम् ॥ न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ नायुधव्यसनं प्राप्तं नार्त्तं नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ इति । बौधायनः, भीतमत्तोन्मत्तप्रमत्तविसन्नाहस्त्रीबालवृद्धब्राह्मणैर्न युध्येता- न्यत्राऽऽततायिनः । इति । गौतमः,

यात्राप्रकरणे युद्धे मरणपलायनयोर्धर्माधर्मत्वे । ४०७ न दोषो हिंसायामाहवेऽन्यत्राश्वसारथ्यनायुधकृताञ्जलि- प्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः । देवलः, तृणखादी परप्रेप्सुरलसः शरणं गतः । षण्ढः परार्दितो लिङ्गी स्थविरः पतितः शिशुः ॥ न धर्मयुद्धे हन्तव्या ज्ञेया योधैरनापदि । इति । व्यासः, ये हता निशितैः शस्त्रैः क्षत्रधर्मपरायणाः । ते गता ब्रह्मसदनं न मेऽत्रास्ति विचारणा ॥ न यज्ञैर्दक्षिणाभिर्वा न तपोभिर्न विद्यया । स्वर्गे यान्ति तथा मर्त्या यथा योधा रणे हताः ॥ न ह्यधर्मोऽस्ति पापीयान् क्षत्रियस्य पलायनात् । युद्धाद्धि धर्मः श्रेयान् वै पन्थाः स्वर्गस्य विद्यते ॥ इति । आपस्तम्बः, ब्राह्मणस्वान्यपजिगीषमाणः प्रत्यानेतुमिच्छन् युद्ध्यमानो हतोऽसौ साक्षायजः । इति । (?) धर्म इत्यर्थः । अत्र व्यासवाक्ये “योधा रणे हता” इति सा- मान्यत उपादानात् आपस्तम्बवाक्येऽपि “युद्ध्यमानो हत” इत्युपादानात्स्थानापत्त्या क्षत्रियातिरिक्तस्यापि क्षत्रवृत्त्या जीवतो युद्धमरणमत्यन्तं धर्मसाधनं, पलायनं सामर्थ्ये सति गोब्राह्म- णादीनामसंरक्षणं चात्यन्तमधर्मसाधनमिति द्रष्टव्यम् । आदित्यपुराणे, शूरस्याग्रे यदा विप्र आर्त्त उत्क्रोशते भृशम् । न च तं त्रायते पापाच्छूरो नरकभाग्भवेत् ॥ ब्राह्मणानां गवां चैव रक्षार्थं हन्यते यदि ।

४०८ वीरमित्रोदयस्य राजनीतिप्रकाशे स शूरो जीवितं हित्वा इन्द्रलोकं प्रपद्यते ॥ इति । याज्ञवल्क्ये, पदानि क्रतुतुल्यानिभग्नेष्व विनिवर्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ इति । आदित्यपुराणे, प्रजार्थे निहता ये च राजानो धर्मतत्पराः । अग्निविद्युद्धता ये च सिंहव्याघ्रहताश्च ये ॥ प्राप्नुवन्ति च ते सर्वे पुरीमैरावतीमिमाम् । निहताः, शस्त्रादिना । अग्निविद्युद्धता इत्यादावपि प्रजा- र्थ इत्यनुषज्यते । मनौ, यदस्य सुकृतं किञ्चिदमुत्रार्थमुपार्जितम् । भर्त्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ इति । आदित्यपुराणे, सङ्ग्रामे प्रस्थितं भूपं भृत्यस्त्यजति यः क्षणात् । स तेन नृपदण्डेन मूढो नरकमृच्छति ॥ जित्वारिं भोगसम्पत्तिर्मृतस्य च परा गतिः । निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ॥ शूराणां यद्विनिर्याति रक्तमाधावतां क्वचित् । तेनैव सह पाप्मानं सर्वं त्यजति वै मुने ॥ तथा व्रणचिकित्सायां वेदनां सहते तु याम् । ततो नास्त्यधिकं लोके तपः परमदारुणम् ॥ मृतस्य नास्ति संस्कारो नाशौचं नोदकक्रिया । कर्तुमिच्छति यस्येह सङ्ग्रामादधिकं हि किम् ॥ वराप्सरःसहस्राणि शूरमायोधने हतम् ।

यात्राप्रकरणे युद्धार्जितस्य कर्तव्यता । ४०९ अभिद्रवन्ति कामार्त्ता मम भर्त्ता भविष्यति ॥ यः सहायान् परित्यज्य स्वस्थः सन् गन्तुमिच्छति । अमून् हि तस्य कृन्तन्ति देवाः शक्रपुरोगमाः ॥ इति । तथा, तोषयित्वा नृपं युद्धे राज्ञां हत्वाग्रतः स्थितम् । जित्वा न हरति द्रव्यं स नरः स्वर्गमाश्रितः ॥ मृद्नाति यदि राष्ट्राणि यदा न हरते धनम् । यदि वध्येत तत्रैव स नरः स्वर्गमाश्रितः ॥ युद्धार्जितं यत् तत्किं कर्त्तव्यमित्यपेक्षायाम्— मनुः, रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्स्त्रियः । सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥ राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ सर्वद्रव्याणि, वस्त्रादीनि । कुप्यं, सुवर्णरजतान्यताम्रादि । अपृथग्जितं, योधैः सह सम्भूय जितम् । अत एव गौतमेन पृथग्जिते वाहनादौ च विशेष उक्तः— जेता लभेत साङ्ग्रामिकं वित्तं वाहनं तु राज्ञो योद्धॄंश्च पृथग्जये यथार्हं सभाजयेद्राजा । इति । पृथग्जये, स्वयमेकाकिनैवार्जिते वित्ते। योद्धॄन् यथार्हम्, यथोचितं पूर्वकृतमानसत्कारादिकमपेक्ष्य । सभाजयेत् पूजयेत् । पूर्वशत्रुविजयानन्तरं राज्ञः कर्त्तव्यमुक्तम्— मनुना, जित्वा सम्पूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान् । प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च ॥ ५२

४१० वीरमित्रोदयस्य राजनीतिप्रकाशे सर्वेषां तु विदित्वैषां सममेव चिकीर्षितम् । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ आदानमप्रियकरं दानं च प्रियकारकम् । अभीप्सितानामर्थानां कालयुक्तं प्रशस्यते ॥ जित्वा, परराष्ट्रं जित्वा । देवान्,धार्मिकान् ब्राह्मणांश्च, त- देशवासिन इति शेषः । सम्पूजयेत्, यथार्हं भूमिसुवर्णदानमाना- दिभिः सत्कुर्यात् । परिहारान्, न मया लोभाद्याविष्टेनास्य जयः कृतः किन्त्वयमस्मानेवमेवमपकृतवांस्ततोऽस्य मया जयः कृत इत्यादीनि स्वनिरपराधताख्यापनानि । यद्वा । परिहारान्, दा- नानि, लब्धं च सुवर्णादिकं मया ब्राह्मणसात्कृतमित्यादिकांश्च । तथा स्वामिदृढभक्तैर्यैर्ममापकृतं तेषामपराधा मया क्षान्ताः स्वस्वव्यापारमनुतिष्ठन्त्वित्यभयं च ख्यापयेत् । तदाह— याज्ञवल्क्यः, नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ इति । एषां सर्वेषां,परकीयामात्यादीनाम्। चिकीर्षितम्,अभिप्रायम्। समं,तुल्यम्। विदित्वा,ज्ञात्वा।तद्वंश्यं,सङ्ग्रामहतस्य राज्ञो वंशे भवम्। स्थापयेत्, तत्पदेऽभिषिञ्चेत् । समयक्रियाम्, इतः परं त्वयाऽस्मा- स्वेवं दिशा वर्तितव्यमितिसमयबन्धम् । तेषाम्, परेषां राज्ञाम् । यथोदितान्, यथाकुलक्रमागतान। धर्मान्, आचारान् । प्रमाणानि कुर्वीत,शपथरूपत्वेन कारयेत् । यदि त्वमस्मात्समयबन्धाच्च्युतो भवसि तदास्मात्कुलक्रमागताद्धर्माच्च्युतो भविष्यसीति शपथा- न् कारयेदित्यर्थः । अथ वा । तेषां पूर्वेषां राज्ञां, यथोदितान्

यात्राप्रकरणे परराष्ट्रं जित्वातदेशाचाराद्यलङ्घनम् ४११ यथाकृतान्, धर्मान् प्रजारक्षणप्रकारान् ब्राह्मणामात्यप्रभृतिभ्यो वृत्तिदानानि च, प्रमाणानि अविप्लाव्यानि, कुर्वीत कारयेत् । अभीप्सितानाम्, रणहतराजवंशस्य राज्ञस्तदमात्यानां चापे- क्षितानाम् । अर्थानां द्रव्याणाम् । आदानं ग्रहणम् । अप्रियकरम् अनिष्टकरम् । दानं च प्रियकारकं, तेषामिष्टकारकम् । यतोऽव- श्यापेक्षितगजाश्वादिधनलाभे राजान्तरैरनाक्रमणीयत्वं सम्भव- ति, अत एव तत् कालयुक्तं नवीनराज्यलाभकाले युक्तम- तः प्रशस्यते । विष्णुः, राजा परपुरप्राप्तौ तत्कुलीनमभिषेचयेत् न राजकुल- मुच्छिन्द्यात् अन्यत्राकुलीनराजकुलात् । इति । कात्यायनः, दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् । न प्रजानुमतो यस्मादन्यायेषु प्रवर्त्तते ॥ इति । राज्ञोऽन्यायप्रवृत्तौ यतः प्रजानामनुमतिर्नेत्यतो राष्ट्रं न पीडयेदितिसिद्धे येषाममात्यादीनामनुमत्याऽन्याये प्रवृत्तिस्तान् पीडयेदेवेति ध्येयम् । यदा च परराष्ट्रं वशे कृतं तदा तद्देशा- चारादीन् न लङ्घयेदित्याह— याज्ञवल्क्यः, यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ इति यातव्यः शत्रुर्यदि युद्धं करोति तदा तं हत्वा जित्वा वा तत्पदे तद्वंश्यमभिषिञ्चेदित्युक्तम् । यदि च स विजिगीषुं प्रबलं निर्णीय युद्धोपस्थितावपि सन्धि करोति तदा—