भारतकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

( १॥≡० ) विषयाः पृष्ठे ३७। तत्र ध्वजयुक्तिः ... ... ... ६८ ३८। अथ निष्पताकध्वजः ... ... ... ७० ३९। अथ उपकरणयुक्तिः ... ... ... ७२ ४०। अथ चामरपरीक्षा ... ... ... ७३ ४१। अथ भृङ्गारोद्देशः ... ... ... ७३ ४२। अथ चषकोद्देशः ... ... ... ७८ ४३। अथ वितान लक्षणम्, } वस्त्रनिरूपणम् } ... ... ... ७९ ४४। अथ अलङ्कारयुक्तिः ... ... ... ८४ ४५। अथ वज्रलक्षणानि, } अथ गणना } ... ... ... ८५ ४६। अथ पद्मराग परीक्षा ... ... ... ८६ ४७। अथ वज्रादीनां दोषाः ... ... ... ८९ ४८। अथ वज्रादीनां मूल्यम् ... ... ... ९४ ४९। अथ हीरक परीक्षा, } तस्य दोषाः } ... ... ... ९६ ५०। अथ हीरक मूल्यम् ... ... ... १०३ ५१। अथ विद्रुम परीक्षा, } अथ प्रवाल परीक्षा } ... ... ... १०४ ५२। अथ गोमेद परीक्षा ... ... ... १०६ ५३। अथ मुक्ता परीक्षा ... ... ... १०७ ५४। अथ मुक्ता गुणाः ... ... ... ११४ ५५। अथ मुक्ता दोषाः ... ... ... ११५ ५६। अथ मुक्तामूल्यम् ... ... ... ११७ ५७। „ वैदूर्य्य परीक्षा ... ... ... १२० ५८। „ „ गुणाः ... ... ... १२१

( १॥० ) विषयाः पृष्ठे ५९ । अथ इन्द्रनील परीक्षा ... ... १२३ ६० । ” इन्द्रनील गुणाः, } ” ” दोषाः } ... ... १२५ ६१ । ” ” मूल्यम् ... ... १२७ ६२ । ” मरकत परीक्षा ... ... १२७ ६३ । ” मरकत मणेश्च्छाया, } ” मरकत मणेर्दोषगुणाः } ... ... १२९ ६४ । ” कृत्रिमाकृत्रिम परीक्षा ... ... १३० ६५ । ” मरकत मूल्यम् ... ... १३१ ६६ । ” पुष्पराग परीक्षा ... ... १३१ ६७ । ” कर्केतनमणि परीक्षा ... ... १३२ ६८ । ” भीष्ममणि परीक्षा ... ... १३४ ६९ । ” पुलकमणि परीक्षा ... ... १३४ ७० । ” रुधिराख्य परीक्षा ... ... १३६ ७१ । ” स्फटिक लक्षणम् ... ... १३६ ७२ । ” अयस्कान्त लक्षणम्, } ” मिश्रक लक्षणम् } ... ... १३८ ७३ । ” शङ्ख लक्षणम्, } अलङ्करणयुक्तिः } ... ... १३८ ७४ । ” अस्त्रयुक्तिः, } ” अस्त्रज्ञानम् } ... ... १३९ ७५ । ” खङ्ग परीक्षा ... ... ... १४० ७६ । ” खङ्गस्य प्रत्यङ्गगणनम् ... ... १४१ ७७ । ” खङ्गस्य चत्वारिरूपाणि ... ... १४२ ७८ । ” खङ्गस्य त्रिंशन्नेत्राणि ... ... १४२ ७९ । ” खङ्गस्य त्रिंशदरिष्टानि ... ... १४३

Line: ,, ,, दिव्य लक्षणम्, } ... १६९ Line: ,, ,, भौम लक्षणम्

( १० ) विषयाः पृष्ठे ९९। अथ हय क्रियाकालः, „ हयारोहणज्ञानम्, ⎬ .. ... १८० „ हय ताड़नविधिः ⎭ १००। „ „ धावनविधिः ... ... १८१ १०१। „ „ रक्तमोक्षणविधिः ... ... १८२ १०२। „ „ ऋतुचर्या ... ... १८३ १०३। „ गज परीक्षा, ⎬ ... ... १८६ तवकालः ⎭ १०४। „ गज गुणाः ... ... ... २०० १०५। „ गज दोषाः ... ... ... २०२ १०६। „ वृष परीक्षा ... ... ... २०६ १०७। „ वृष गुणाः ... ... ... २०७ १०८। „ वृष दोषाः ... ... ... २०८ १०९। „ महिष परीक्षा... ... ... २१० ११०। „ मृग परीक्षा ... ... ... २११ १११। „ सारमेय परीक्षा ... ... २१३ ११२। „ अज लक्षणम्... ... ... २१४ ११३। „ चतुष्पद्यानोद्देशः ... ... २१५ ११४। „ द्विपद्यानोद्देशः ... ... २१६ ११५। „ द्विपद्यानकथनम् ... ... २१८ ११६। „ निच्छदिः ... ... ... २२० ११७। „ अष्टदोलाकथनम् ... ... २२१ ११८। अथ निष्यद यानोद्देशः ... ... २२३ ११९। अथ अस्य लक्षणानि ... ... २२४ १२०। अथ विशेष निष्यद यानोद्देशः, ⎬ ... ... २२५ तत्र दीर्घा नौका लक्षणम् ⎭

( १७ ) विषया: पृष्ठे १२१ । अथ उन्नत नौका लक्षणम्, \Bigg} ... ... २२६ धातुनौकाकथनम् १२२ । अथ जघन्य जलयानानि ... ... २२९ समाप्तं सूची-पत्रम् ।

Digitized By Siddhanta eGangotri Gyaan Kosha CC-0. Gurukul Kangri Collection, Haridwar.

(यह पृष्ठ मूल रूप से रिक्त है, इस पर कोई देवनागरी पाठ उपलब्ध नहीं है।)

अथ युक्तिकल्पतरुः । ( श्रीभोजराजीयः ) ( अत्र नीति युक्तिः ) श्रीं नमः शिवाय । विश्व सर्गविधौ वेधा स्तत्पालयति यो विभुः । तदत्ययविधावीश स्तंवन्दे परमेश्वरम् ॥ १ ॥ कंसानन्दमकुर्व्वाणः कं सानन्दं करोति यः । तं देववृन्दैराराध्यमनाराध्यमहम्भजे ॥ २ ॥ नमामि शास्त्रकर्त्तृणां चरणानि मुहुर्मुहुः । येषां वाचः पावयन्ति (१) श्रवणेनैव सज्जनान् ॥ ३ ॥ नानामुनि * निबन्धानां सारमाकृष्य यत्नतः । तनुते भोजनृपति र्युक्तिकल्पतरुं मुदे ॥ ४ ॥ विवुधाभीष्टदममुं कल्पवृक्षं समाश्रितः (२) । प्राप्नोतीष्टतमां सिद्धिं वुधाः ! (३) संसेव्यतामयम् ॥ ५ ॥ ( १ ) पारयन्ति (ख) पुस्तक पाठः । ( २ ) समाश्रितम् (ख) पुस्तक पाठः । ( ३ ) वुधैः (ख) पुस्तक पाठः ।

  • इह तु आर्य्यावर्त्ते बहून्येव प्राचीनानि नीतिपुस्तकानि सम्यगासन् । तेषु च वार्हस्पत्यं, औशनसम्, विश्वामित्रोयम्, धौम्यञ्चैतानि पुरातनानि । एवं कौटिलीयम्, कामन्दकीयम्, नीतिमयूखादीनि च मध्यकालिकानि । अपरानि च भर्तृहरीयादीनि । महर्षिमन्वादीनां संहितासु च बहुषु प्रकरणेषु सन्ति नीतिविषयाः। पुराण-ज्योतिःशास्त्र-चिकित्साशास्त्राणां प्रकरणेषु च वर्त्तन्ते बहुधा नीतयः ।

२ युक्तिकल्पतरौ— दण्डनीति र्यस्य मूलं ज्योतिश्शास्त्रं प्रकाण्डकम् । दृष्टार्था इतरा विद्याः शाखा पुष्पं तथेतराः ॥ ६ ॥ अप्यदृष्टफलं (४) यस्य रसस्तस्यामृतं सताम् । सोऽयं कल्पतरुर्धीरैः ! उपास्यो भूप-मन्त्रिणाम् ॥ ७ ॥ संश्रित्यामुं कल्पवृक्षमन्यशास्त्राण्यवेक्ष्य च (५) । राजभि र्मन्त्रतामर्थ्यो यः शास्त्रार्थोत्तमो भुवि ॥ ८ ॥ अयमिष्टतमो भूपैर्ज्ञेयो हितफल-प्रदः । अन्येषान्च भवेदिष्टः प्रियत्वेनान्ददात्यपि ॥ ९ ॥ अस्य नीत्यासमारम्भश्छन्दोग्रन्थैः समापनम् । नीतिहीन नरेन्द्राणां नश्यन्त्याशु सुसम्पदः ॥ १० ॥ अतो नीतिः प्रयत्नेन श्रवणीया नृपोत्तमैः । अतः प्रथमतॊ नीतिशास्त्रमत्र निवध्यते ॥ ११ ॥ नीतिर्बृहस्पति-प्रोक्ता तथैव

नीतियुक्तिः । ३ अथ तेषां परीक्षा यथा— सदाचारः कुशलधीः सर्व्वशास्त्रार्थ-पारगः । नित्यनैमित्तिकानाञ्च कार्य्याणां कारकः शुचिः ॥ १४ ॥ अपर्व्व-मैथुन-परः पितृ-देवार्च्चने रतः । गुरुभक्तो जित-क्रोधो विप्राणां हितकृत् सदा ॥ १५ ॥ दयावान् शील-सम्पन्नः सत्कुलीनो महामतिः । परदारेषु विमुखो दृढ-सङ्कल्पको द्विजः ॥ १६ ॥ अन्यैश्च वैदिकगुणै र्युक्तः कार्य्यो गुरुर्नृपैः । एतैरेव गुणै र्युक्तः पुरोधाः स्यान्महीभुजाम् ॥ १७ ॥ शान्तो विनीतः कुशलः सत्कुलीनः शुभान्वितः । शास्त्रार्थतत्त्वगोऽमात्यो भवेद् भूमिभुजामिह ॥ १८ ॥ तथा बुद्धिमतां श्रेष्ठो धार्म्मिकः शास्त्रवित्तमः । हीनश्चाप्य परोधेन * भूपमन्त्रो प्रकीर्त्तितः ॥ १९ ॥ परेङ्गितज्ञः परवाग् व्यङ्ग्यार्थस्यापि तत्त्ववित् । सदोत्पन्नमति र्धीरो दूतः स्यात् पृथिवीपतेः ॥ २० ॥ ————*———— दूतस्य बहुभेदा वच्यन्ते । नीतिशास्त्रार्थ कुशलो लेख्यालेख्य-विशारदः । बह्वर्थवक्ता चाल्पेन लेखकः स्यात् सभापटुः ॥ २१ ॥ ज्योतिःशास्त्र-विशेषज्ञः सुन्दराङ्गः सभापटुः । कुलक्रमागतः शुद्धो गणकः स्यान्महीपतेः ॥ २२ ॥

  • 'हीनश्चाप्य परोधेन' इत्यनेनौचित्यादिराहित्यं राज्ञोहितानुष्ठानपरत्वञ्च सुज्ञेयम् ।

Digitized By Siddhanta eGangotri Gyaan Kosha ४ युक्तिकल्पतरौ— वृद्धः (१) कुलोद्गतः शक्तः पितृपैतामहः शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥ २३ ॥ हयशिक्षा विधानज्ञ * स्तच्चिकित्सित-पारगः । अश्वाध्यक्षो महीभर्तुः सुभक्तश्च प्रशस्यते ॥ २४ ॥ गजलक्षण-जातिज्ञ † स्तच्चिकित्सित पारगः । निर्भयश्च विशुद्धश्च गजाध्यक्षः प्रशस्यते ॥ २५ ॥ अस्त्र (२) शास्त्रेषु कुशलो बहुबन्धु-जनान्वितः । शुद्धः कुलोद्भवो विद्वान् धर्मभीरु रभोस्तथा ॥ २६ ॥ युद्धाध्यक्षः ‡ स्मृतोराज्ञां दुर्गसन्धानकार्यवित् (३) । अध्यक्षान् विविधान् कुर्य्या स्तत्र तत्र विपश्चितः ॥ २७ ॥ (१) बुद्धः इति (ख) पुस्तक पाठः । (२) अस्त्र शस्तेषु इति (ख) पुस्तक पाठः ।—अत्रास्त्रशास्त्राणि धनु- [L1

नौतियुक्तिः । ५ अप्रमत्तानलुब्धांश्च विरोधांश्चैव राजसु । राज्ञामाज्ञानुरूपेण तत्तत्कर्म्म प्रकुर्व्वताम् ॥ २८ ॥ प्रसादञ्च महीपालः कुर्या त्कार्यानुरूपकम् । सर्व्वे सेवितुमिच्छन्ति महीपालं धनाश्रया ॥ २९ ॥ स्वत(४)स्ते तु महीपालैः परीक्ष्यास्तव कोविदैः * । कोषो महीपते र्जीवो न तु प्राणाः कथञ्चन ॥ ३० ॥ द्रव्यं हि राजा भूपस्य नशरीरमिति स्थितिः । धर्म्महेतोः सुखार्थाय भृत्यानां भरणाय च ॥ ३१ ॥ आपदर्थञ्च संरक्ष्यः कोषः कोषवता सदा । धनात् कुलं प्रभवति धनाद्धर्म्मः प्रवर्त्तते (५) ॥ ३२ ॥ नाधनस्य भवेद्धर्म्मः कामांश्चैव कथञ्चन । अधर्म्मान्न धनं कुर्य्यात्तद्धनं गृह्यते परैः ॥ ३३ ॥ स्वयं पापस्य पात्रं स्यात् सिंहो हस्तिवधादिव । तादात्मिको मूलहरः कदर्य्य स्त्रिविधोऽर्द्धकः ? ॥ ३४ ॥ उत्पन्नार्थ-व्ययकरो यो भविष्यदनाशया । स तादात्मिक आख्यातः कल्याणो तस्य नायतः ॥ ३५ ॥ यः पित्र्यार्ज्जितं वित्त मन्यायेन तु भक्षयेत् । स मूलहर आख्यात स्तदुदर्कोऽपि चाशुभः ॥ ३६ ॥ ( ४ ) सुतास्ते तु इति (ख) पुस्तक पाठः । ( ५ ) प्रवर्द्धते इति (ख) पुस्तक पाठः ।

  • धनलिप्सया सर्व्वे साधवो दुर्ज्जना वा सुधियो वा महीपालं आश्रयन्ति, परं राज्ञो- हि तेषां स्वतः सचिवेन, विदुषा वा परीक्षणमुचितम् । विना परीक्षया सुजन-दुर्ज्जन- निश्चये राज्ञोऽनिष्टञ्च स्यादिति ।

युक्तिकल्पतरौ— स कदर्य्यस्तु भृत्या(६)त्म-पीडनै्यर्थसञ्चयी । तद्धनं राज-दायाद-तस्कराणां निधिर्भवेत् ॥ ३७ ॥ भिच्चा च राजकोषस्य स्तोक-स्तोकेन वर्द्धते । अञ्जनञ्च(७) धनञ्चैव स्तोक-स्तोकेन हीयते ॥ ३८ ॥ कोषस्य साधनोपायो मुख्यं राष्ट्रमिति स्मृतम् । भूगुणैर्वर्द्धते राष्ट्रं तद्वृद्धि (८) नृपसत्तता ॥ ३८ ॥ राज्ञोपायेन (९) संरक्ष्या ग्रामे ग्रामे कृषीबलाः । तेभ्यः कृषि स्ततश्चार्था अर्थेभ्यः सर्व्वसम्पदः ॥ ४० ॥ शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । तथा वर्षेषु वर्षेषु कर्षणाद्गुण-क्षयः * ॥ ४१ ॥ एकस्यां गुणहीनायां कृषिमन्यत्र कारयेत् ॥ ४२ ॥ — ०० — अथ बलम् । रथिनः सादिनश्चैव गजारोहाश्च सत्तमाः । पत्तयश्च महाकाया वलमेतच्चतुर्विधम् † ॥ ४३ ॥ (६) भृतार्थ इति (ख) पुस्तक पाठः । (७) अर्ज्जनञ्च इति (ख) पुस्तक पाठः । (८) तद्वृद्धिः इति (ख) पुस्तक पाठः । (९) अपायेन इति (ख) पुस्तक पाठः ।

  • प्रत्यब्दं कर्षणेन क्षेत्रस्य शस्योत्पादनशक्तिर्ह्रसत्येव । अतएवहि कृषीवलैः कृष्टभूमौ तच्छक्तिपरिवृद्ध्यर्थं पर्युसित-गोमय-पङ्क करीषभस्मादिकं प्रदातव्यमित्यादि वृहत्पराशरीय- कृषियन्त्रेऽस्ति । † “एको रथी गजश्चैको नराः, पञ्च पदातयः । त्रयश्च तुरगाश्चैव पत्तिरित्यभिधीयते ॥” ( इति भरतः )

नीतियुक्तिः । ७ मौलभूतं श्रेणीबद्धं संहतन्तु स्मृतम्बलम् । पूर्वं पूर्वं गरीयस्तु बलानां व्यसनन्तथा ॥ ४४ ॥ रथो बलं समे देशे गजस्तु विषमे बलम् । जाङ्गले बलमश्वाश्च बलं नौका जलप्लुते ॥ ४५ ॥ पदातयस्तु सर्व्वत्र बलं स्यात् पृथिवीभुजः । राज्ञा युद्धाय युज्येत यदन्यद्द्विविधं बलम् ॥ ४६ ॥ सर्व्वं पत्तिबलाधीनं तस्मात्पत्तिर्बलं बलम् ॥ ४७ ॥ अथ यानम् । चतुष्पदञ्च द्विपदं विपदञ्चबहुपादकम् । चतुर्विध मिहोद्दिष्टं यानं भूमिभुजोमतम् ॥ ४८ ॥ गजाश्वादि चतुष्पादं दोलादि द्विपदम्भवेत् । नौकाद्यं विपदं ज्ञेयं रथाद्यं बहुपादकम् ॥ ४६ ॥ व्योमयानं * विमानं वा पूर्व्वमासीन्महीभुजाम् । यथानुगुण-सम्पन्नानिता नाहुः सुखप्रदान् ॥ ५० ॥ अथ यात्रा । गुणातिशयसम्पन्नः शत्रूंयाया जिगीषया । यदि पश्चात्प्रकोपेण यदि राष्ट्रेण कण्टकाः ॥ ५१ ॥ † श्लोकार्द्धं (क)-(ख) पुस्तके नास्ति । —"विमानं हंससंयुक्तम्" मार्कण्डेयपुराणे । 'सर्व्वेभ्योऽवसरन्ददाति पुष्पक्वत्' इति परिमलं । एवमेव भारतेरामायणादौ विमान- नामास्ति । केषाञ्चिद्विदुषां नये पुष्पकविमान-व्योमयानानि एकार्थबोधकानि ।

८ युक्तिकल्पतरौ— संधा(ङ्ग)यान्यत्र यायाद्वा पार्ष्णिग्राहेण (१) शत्रुना । रात्रावुलूको विनिहन्ति (२) काकान्, काकोऽप्यु लूकं (३) रजनौ व्यपाये । इति स्वकालं समुदीक्ष्य * यायात् ; काले फलन्तीह समीहितानि ॥ ५२ ॥ प्रबल-व्यसनोपेतं दुर्भिक्षादि-प्रपीड़ितम् । सभू(भृ)तान्तरकोपेतं न यायात् पृथिवीपतिः ॥ ५३ ॥ निजदैवानुकूल्ये हि प्रातिकूल्ये परस्य च । यायान्नृपो यतो दैवं बलमेतत्परं मतम् ॥ ५४ ॥ निरातङ्के (४) निरुत्पाते निरुद्विग्ने निरामये । विपत्ते जयमिच्छन्ति राजानो विजिगीषवः ॥ ५५ ॥ ०० अथ विग्रहः। यत्रायुद्धे † (५) ध्रुवं नाशो युद्धे जीवितसंशयः । तं कालमेकं युद्धस्य प्रवदन्ति मनीषिणः ॥ ५६ ॥ ( १ ) वाहेन इति (ग) पुस्तक पाठः । ( २ ) निवह्नन्ति इति (क)—(ख) पुस्तक पाठः । ( ३ ) उलूको इति (क)—(ख) पुस्तक पाठः । ( ४ ) 'अन्यत्र तु' इति (ग) पुस्तक पाठः । ( ५ ) यत्न युद्धे इति (ग) पुस्तक पाठः ।

  • —श्लोकोऽयं शाकुन-विषये । अथवा यदा स्वस्य प्राबल्यं शत्रोर्दोर्बल्यं तत्रयायादिति काकोलूक न्यायः । † यत्रायुद्धे'ति—अरातिना सह राज्ञो युद्धे निश्चिते तेन निधनं राज्यापहरणञ्च अवश्यम्भावि, अतो युद्धं श्रेयः, विना संग्रामेन मरणात् समरे मरणं राज्ञो धर्मः स एव युद्धकालः ।

नीतियुक्तिः । ९ आत्मोदये विगृह्णीयात् क्षोभो नात्म(थ)बले यदि । व्यसने च प्रहर्त्तव्यं शत्रौ न तु विपर्य्यये ॥ ५७ ॥ स्वयं राज्ञा न योद्धव्यं येऽपि शस्त्रास्त्रकोविदैः । मृता (६) युद्धेषु दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥ ५८ ॥ रथयुद्धं समे देशे विषमे हस्ति-सङ्गरः । अश्वयुद्धं मरौ देशे पत्ति-युद्धञ्च दुर्गमे ॥ ५९ ॥ अत्यये सर्व्वयुद्धं स्यान्नौकायुद्धं जलप्लुते । संहत्य योधयेदन्यान् कामं विस्तारयेद्बहून् ॥ ६० ॥ सूचीमुखमनीकं (७) स्यादल्पं हि बहुभिः सह । अपि पञ्चाशतः (८) शूरा निघ्नन्ति परवाहिनीम् ॥ ६१ ॥ येऽपि वा पञ्च षट् सप्त संहिताः (९) कृतनिश्चयाः । —*— अथ चरः । विवस्वानिव तेजोभि र्नभस्वानिव वेगतः । राजा चरेज्जगत् सर्व्वं प्राप्नु याल्लोकसम्मतोः (१०) ॥ ६२ ॥ तर्केङ्गितज्ञ स्मृतिमान् खीयभाव-प्रकाशकः । क्लेशायाससहोदक्षः सर्व्वत्र भयवर्ज्जितः ॥ ६३ ॥ —————————————————— (६) कृता (हृता) इति (ग) पुस्तक पाठः । (७) अत्र सूचीमुखमनीकं यत्तद्वदवस्थित-वाचिनौत्यर्थः । (८) आदि पञ्चाशतः इति (ग) पुस्तक पाठः । (९) संहता इति (क)-(ख) पुस्तक पाठः । (१०) सम्मतैः इति (क)-(ख) पुस्तक पाठः । २

१० युक्तिकल्पतरौ— सुभक्तो (११) राजसु तथा कार्य्याणां प्रतिपत्तिमान् । नृपो निहन्याच्चारेण परराष्ट्रं विचक्षणः ॥ ६४ ॥ काल(१२)ज्ञान्मन्त्रकुशलान् साम्बत्सर चिकित्सकान् । तथान्यानपि युञ्जीत समर्थान् शुद्धचेतसः ॥ ६५ ॥ सक्रुद्धांश्च (१३) तथा लुब्धान् दृष्टार्था-त्तत्त्व भाषिणः (१४) । पाषण्डिन स्तापसादीन् परराष्ट्रे नियोजयेत् ॥ ६६ ॥ स्वदेश परदेशज्ञान् सुशीलान् सुविचक्षणान् । वार्त्ताहर्य्यान् बहू ंश्चैव चराणां विनियोजयेत् ॥ ६७ ॥ नैकस्य वचने राजा चारस्य प्रत्ययं वहेत् । द्वयोः सम्बन्ध माज्ञाय तद्युक्तं कार्य्यमारभेत् ॥ ६८ ॥ तस्माद्राजा प्रयुञ्जीत चरान् बहुमु(सु)खान् बहून् । नौरता वामना (१५) कुब्जा स्तद्विधा ये च कारवः ॥ ६९ ॥ भिक्षुक्यश्चारणा दास्यो मालाकार्य्यः (१६) कलाविदः । अन्तःपुरगतां वार्त्तां निर्हरेयु रलक्षिताम्(न्) ॥ ७० ॥ प्रकाशश्चाप्रकाशश्च चरस्तु द्विविधो मतः । अप्रकाश्योऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः ॥ ७१ ॥ ( ११ ) सभक्तो (भक्तौ) इति (ख) पुस्तक पाठः । ( १२ ) वालज्ञान् (लभ्यः) (ग) पुस्तक पाठः । ( १३ ) संक्रुद्धान् (क) (ग) पुस्तक पाठः । ( १४ ) अतत्त्वभाषिणः (क)-(ग) पुस्तक पाठः । ( १५ ) वासना इति (क) पुस्तक पाठः । नौरताः क्लीव्यं गता, निर्गतं रतं रमणं यस्मादिति वा । भिक्षुक्यः परिव्राजिकाः । ( १६ ) मालाकाराः इति (ग) पुस्तक पाठः ।

नीतियुक्तिः । ११ अथ दूतलक्षणम् । दूतञ्चैव प्रकुर्वीत सर्व्वशास्त्र-विशारदम् । इङ्गितज्ञं तथा सभ्यं दक्षं सत्कुल(१७)सम्भवम् ॥ ७२ ॥ अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतोराज्ञः प्रशस्यते ॥ ७३ ॥ दूत एव हि सन्धत्ते भिनत्त्येव हि सङ्गता(म्)न् । विमृष्टार्थो (१८) मितार्थश्च तथा शासन-हारकः ॥ ७४ ॥ दूता स्त्रयोऽमात्यगुणैः समैः पादार्द्धवर्ज्जितैः । विमृष्टार्थः कार्य्यवशात् शासनं न करोति यः ॥ ७५ ॥ मितार्थः कार्य्यमात्रोक्तौ न कुर्य्यादुत्तरोत्तरम् । यथोक्तवादी (१९) सन्देश-हारको लेखहारकः ॥ ७६ ॥ तत्र दूतो व्रजन्नेव चिन्तये दुत्तरोत्तरम् । वार्त्ताविशेषं भूपायं न (२०) झटित्यङ्गवेश्मनि ॥ ७७ ॥ दूतोहि न (२१) लिखेत् किञ्चिन्निर्ण्णेता विनिसंशयम् । पृच्छ्यमानो हि न ब्रूयात् स्वामिनः क्वापि वैशसम् * ॥ ७८ ॥ पणवद्धो (२२) भवेत् सन्धिः स्वयं हीन (२३) स्तमाचरेत् ।


( १७ ) सु(स)कुल इति (क)-(ख) पुस्तक पाठः । ( १८ ) विमृष्यार्थः इति (क) पुस्तक पाठः । ( १९ ) यथोक्तवाख्यौ इति (क) पुस्तक पाठः । ( २० ) झटित्यौत्यङ्ग इति (क) पुस्तक पाठः । ( २१ ) हि स लिखेत् इति (क) पुस्तक पाठः । ( २२ ) पणवन्धः इति (क)-(ख) पुस्तक पाठः । ( २३ ) स्वयं हि न इति (ग) पुस्तक पाठः ।


  • वैशसं-वधं, विशेषानिष्टापातं, प्रतिरोधं वा न वदेत् इति ।

' or 'नौति'! Let's look at it: न with au-matra: नौ! Then ति! Wait, does it have 'ौ' or 'ी'? Look at 'नी' in "सन्धिर्नैव": न + ै! Here: look at "नौति": Wait, it has two strokes on top of the vertical line! That's 'ौ'! So it is printed as "नौतिधर्म्मरतश्च".

Wait, let's check line 11: "एतैः सन्धिं न कुर्वीत विशेषात् पूर्व्वपीडितैः ॥ ८४ ॥" Let's check line 12: "सन्धिं हि तादृशैः कुर्व्वन् प्राणैरपि हि हीयते ॥ ८५ ॥" Wait, is there a separator? A line with a star in the middle: or •—• Then: "आसनम् ।" Then: "अन्यद्वारा विपन्नन्तु विगृह्यासनमुच्यते ।" "अरिं विगृह्य वा स्थानम् विग्रहासनमुच्यते ॥ ८६ ॥" Wait, look at "स्थानम् विग्रहासनमुच्यते": "स्थानम्" with anusvara or halanta ma? It is "स्थानम्" with halanta ma! And "विपन्नन्तु": विपन्नन्तु!

Let's check the footnotes: Dividing line. "( २४ ) प्रतिश्रियं इति

नीतिशक्तिः । १३ अन्यैश्च (२७) विजिगीषोश्च विग्रहे हीयमानयोः । सन्धाय यदवस्थानं सन्धा (२८) यासनमुच्यते ॥ ८७ ॥ उदासीने मध्यमे वा समाने प्रतिशङ्कया । एकीभूय व्यवस्थानं सम्भूयासनमुच्यते ॥ ८८ ॥ सर्व्defaultषां प्रीतिजननं निजराष्ट्रस्य रक्षणम् । एतत् प्रीत्यासनं नाम सर्व्वासन-महत्तरम् ॥ ८९ ॥ अथ द्वैधम् । वलिनोर्द्विषतोर्मध्ये वाचा मौनं (२९) समर्पयेत् । द्वैधीभावेन वर्त्तेत * काकाक्षिवदलक्षितः ॥ ९० ॥ यापयेत्क्रमास्थाय सन्निकृष्टतरं तयोः । उभयोरपि संयापे सेवेत बलवत्तरम् ॥ ९१ ॥ अथाश्रयः । अस्थितौ यदि कल्याणं भवेत् संश्रयणन्तथा । भवति श्रेयसे राज्ञां विपरीतं न कर्हिचित् ॥ ९२ ॥ ( २७ ) अन्यस्य इति (क) पुस्तक पाठः । —अयं पाठः समीचीनः । ( २८ ) सन्ध आसनं इति (ख) पुस्तक पाठः । ( २९ ) वाचात्मानं इति (ख) पुस्तक पाठः ।

  • काकाक्षिन्यायः—यथा काकस्यैकमेव नेत्रमुभयोश्चक्षुषोः कार्य्यं सम्पादयति किम्बा कैकर इव झटित्येव लक्ष्यालक्ष्यं उभयं पश्यति तद्वत् द्वैधीभावे राज्ञाऽवस्थातव्यम् ।

१४ युक्तिकल्पतरौ— उच्छिद्यमानो बलिना आश्रयेद्बलवत्तरम् । विनीतवत्तत्र कालं नयेदिति मतिर्ध्रुवा(म्) ॥ ९३ ॥ दद्बलं वा कोषं वा भूमिं वा भूतिसम्भवाम् । आश्रयेदभियोक्तारं समाश्रय गुणान्वितम् ॥ ९४ ॥ वोत-व्यसनमश्रान्तं महोत्साहं महामतिम् । प्रविशन्ति महाराजमपाम्यतिमिवापगाः ॥ ९५ ॥ अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनम् । प्रमदेववृद्धपतिं नेच्छत्युपग्रहीतुं कमला ॥ ९६ ॥ उत्साहाच्छ्रियमप्नोति उत्साहाच्च महद् यशः । तस्मात्सर्व्वौपधा (१) शुद्ध मुत्साहं नित्यमाचरेत् ॥ ९७ ॥ अमर्ष(र्शं)श्चैव शौर्य्यञ्च शीघ्रकारित्वमेवच । तत्कर्म्मणि प्रवीणत्व मित्युत्साह-गुणामताः ॥ ९८ ॥ व्यसनस्यागमद्वार मनुत्साहो महीपतेः । सामदान दण्डभेदा इत्युपाय-चतुष्टयम् ॥ ९९ ॥ साम-सिद्धं प्रशंसन्ति * सर्व्वतश्च विपश्चितः । स्रवन्निवामृतं वाचा सामोपायं समाचरेत् ॥ १०० ॥ लुब्धं चौणं प्रदानेन सत्कृत्यवशमानयेत् । भेदं कुर्व्वीत यत्नेन महामात्यपुरोधसाम् ॥ १०१ ॥ यथा बलं प्रकुर्व्वीत † दुष्ट-दण्डनिपातनम् ॥ १०२ ॥ ( १ ) सर्व्वोपरि(रौ) शुद्धः इति (ख) पुस्तक पाठः ।

  • चतसृषु नीतिसु सामः प्रधानत्वादेव प्रसंशन्ति विपश्चितः । † दुष्टस्य दमनं शिष्टस्य परिपालनञ्च बलानुसारेण कर्त्तव्यमिति ।