बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२९
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २२९
ज्योतिः द्योततेः दीप्तिकर्मणः । रसः शब्दरूप हि तद्ब्रह्म । अमृतं अविनाशि हि तद्ब्रह्म । वृहतेर्वृद्धिकर्मणः परिवृढं भवति ॥ ८ ॥
वारुणीभ्यां रात्रिमुपतिष्ठत 'इमं मे वरुण' 'तत्त्वा यामी' ति 'द्वाभ्याम् ॥ ९ ॥
अनु०— सायंकालीन सन्ध्योपासना के समय 'इमं मे वरुण' तथा 'तत्त्वा यामि' वरुण देवता के इन दो मन्त्रों से सूर्य की प्रार्थना करे ॥ ९ ॥
इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्रमोषीः ॥
'अहरेव मित्रः रात्रिर्वरुण' इति श्रुतेः रात्रिमिति कालनिर्देशः । उपस्थेयस्तु सविता तत्कालविशिष्टः । उपस्थानं चोपोत्थितेनैव कर्तव्यम्, न पुनरासीनेनैव । यच्च समयाचारप्रसिद्धं प्रदक्षिणादि तदप्यत्र कर्तव्यं 'वृत्तीयशिष्टागमः' इति लिङ्गात् ॥ ९ ॥
एवमेव प्रातः प्राङ्मुखस्तिष्ठन् ॥ १० ॥
अनु०— इसी प्रकार प्रातः काल पूर्व की ओर मुख कर सन्ध्योपासना करे॥१०॥
एवमिति 'तीर्थं गत्वा' इत्यादि सर्वमतिदिशति । प्रातरिति कालनिर्देशः । प्राङ्मुख इति प्रत्यङ्मुखनिवृत्त्यर्थम् । तिष्ठन्निति आसननिवृत्त्यर्थम् ॥ १० ॥
मैत्रीभ्यामहुरुपतिष्ठते "मित्रस्य चर्षणीधृतो' 'मित्रो जनान् यातयती'ति द्वाभ्याम् ॥११॥
अनु०— दिन में मित्र देवता के दो मन्त्रों 'मित्रस्य चर्षणीधृतः' तथा 'मित्रो जनान् यातयति' से सूर्य की प्रार्थना करे ॥११ ॥
टि०— मित्रस्य चर्षणीधृतश्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ।
१. इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशंस मा न आयुः प्रमोषीः ॥
२. मित्रस्य चर्षणीधृतश्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ॥
मित्रोजनान् यातयति प्रजानन् मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाऽभिचष्टे सत्याय हव्यं घृतवद्विधेम ॥
२३० बौधायनधर्मसूत्रम् [ सन्ध्योपासनम्
अतिरोहितार्थमेतत् ॥ ११ ॥
सुपूर्वामपि पूर्वामुपक्रम्योदित आदित्ये समाप्नुयात् ॥१२॥
अनु०—प्रातःकालीन सन्ध्या सूर्य के उगने से पर्याप्त पहले आरम्भ करे और सूर्य के उगने पर समाप्त करे ॥ १२ ॥
सुपूर्वां नक्षत्रेषु दृश्यमानेषु पूर्वा सन्ध्यामुपक्रम्याऽदित्योदयोत्तरकाले समाप्नुयात् ॥ १२ ॥
अनस्तमित उपक्रम्य सुपश्चादपि पश्चिमाम् ॥१३॥
अनु०—सायंकालीन सन्ध्या सूर्य के अस्त होने के पूर्व आरम्भ करे और नक्षत्रों के दिखायी पड़ते ही समाप्त करे ॥ १३ ॥
सुपश्चात् यावन्नक्षत्रविभावनं तावति समाप्नुयादित्यर्थः ॥ १३ ॥
सायम्प्रातस्सन्ध्योपासनकर्तुरायुर्विच्छेदो न भवतीत्याह—
सन्ध्ययोश्च सम्पत्तावहोरात्रयोश्च सन्ततिः ॥१४॥
अनु०—प्रातः और सायंकालीन सन्ध्योपासना की सम्पूर्ति से ( यथोचित अनुष्ठान से ) जीवन में दिन और रात्रि की परम्परा अविच्छिन्न रहती है ॥ १४ ॥
सन्ध्योपासनकर्तुर्भवतीति शेषः । सम्पत्तिस्सम्पूर्णता । सा च सन्ध्योपासनेन यथाविध्यनुष्ठानेन भवति । तस्यां च सत्यामहोरात्रयोस्सन्ततिरविच्छेदो भवति । उपासितुरायुरविच्छिन्नं भवतीत्यर्थः । आह च—
ऋषयो दीर्घसन्ध्यत्वाद्वीर्घमायुरवाप्नुयुः ।
प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥ इति ॥ १४ ॥
अथाऽनुपासितुर्दोषमाह—
अपि चाऽत्र प्रजापतिगीतौ श्लोकौ भवतः—
अनागतां तु ये पूर्वामनतीतां तु पश्चिमाम् ।
सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणास्मृताः ॥
सायं प्रातस्सदा सन्ध्यां ये विप्रा नो उपासते ।
कामं तान् धार्मिको राजा शूद्रकर्मसु योजयेदिति ॥१५॥
अनु०—इस विषय में प्रजापति द्वारा गाये गये दो श्लोक भी हैं—जो ब्राह्मण प्रातःकालीन और सायंकालीन सन्ध्याएँ उचित समय पर नहीं करते हैं, उन्हें
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २३१
सप्तमः खण्डः ] द्वितीयप्रश्ने चतुर्थोऽध्यायः २३१
ब्राह्मण कैसे कहा जा सकता है ? जो द्विजाति व्यक्ति सायं और प्रातः सन्ध्योपासना नहीं करता उसे धार्मिक राजा शूद्र के कार्यों में लगावे ॥ १५ ॥
प्रजापतिग्रहणमादरार्थम् । अनागतामनतिक्रान्तामिति चोदितकालाभिप्रा- यम् । कथं ते ब्राह्मणा इति । विप्रग्रहणं च द्विजात्युपलक्षणार्थम् । अत एव शूद्रकर्मस्वित्युक्तम् । इतरथा क्षत्रियकर्मस्वित्यवक्ष्यत् आनन्त्यात् । आह च-
न तिष्ठति तु यः पूर्वामुपास्ते न च पश्चिमाम् ।
स शूद्रवद् बहिष्कार्यस्सर्वस्माद् द्विजकर्मणः ॥ इति ॥ १५ ॥
तथा कथम् ?
तत्र सायमतिक्रमे रात्र्युपवासः प्रातरतिक्रमेऽहरुपवासः ॥ १६ ॥
**अनु०—**यदि सायंकाल सन्ध्योपासना का समय सन्ध्योपासना किये बिना ही बीत जाय, तो रात्रि को उपवास करे और प्रातःकालीन सन्ध्योपासना का समय सन्ध्योपासना किये बिना ही बीतने पर दिन में उपवास करे ॥ १६ ॥
अतीतां तां सन्ध्यां कृत्वेति शेषः । उपवासोऽनशनम् ॥ १६ ॥
किञ्च—
स्थानासनफलमवाप्नोति ॥ १७ ॥
**अनु०—**इस प्रायश्चित्त से वह वही फल प्राप्त करता है जो सन्ध्योपासना में खड़े होकर तथा बैठकर प्राप्त किया जाता है ॥ १७ ॥
प्रायश्चित्तप्रशंसेषा ॥ १७ ॥
अथाऽप्युदाहरन्ति—
यदुपस्थकृतं पापं पद्भ्यां वा यत्कृतं भवेत् ।
बाहुभ्यां मनसा वाऽपि वाचा वा यत्कृतं भवेत् ।
सायं सन्ध्यामुपस्थाय तेन तस्मात्प्रमुच्यते ॥१८॥
**अनु०—**इस सम्बन्ध में भी निम्नलिखित पद्य उद्धृत करते हैं—
पुरुष जननेन्द्रिय से, पैरों से जो कुछ पाप कर्म किये रहता है, जो कुछ पाप बाहों से, अथवा मन से या वाणी से किये होता है, उन सभी पापों से सायंकालीन सन्ध्या करने पर मुक्त हो जाता है ॥ १८ ॥
**टि०—**जननेन्द्रिय विषयक दुष्कृत यहाँ स्वभार्या के ही संबन्ध में हैं, क्योंकि परदारगमन के प्रायश्चित्त विशेष रूप से बताये गये हैं। स्वभार्या का ऋतुकाल से भिन्न समय में संभोग अधर्म है। पैरों से दुष्कृत का तात्पर्य है निषिद्ध स्थान पर
२३२ बौधायन-धर्मसूत्रम् [ सन्ध्योपासनम्
अनजाने जाना। बाहुओं से दुष्कृत हिंसा, छेदन, भेदन आदि। दूसरों की वस्तुओं के प्रति लोभ बुद्धि रखना मानसिक दुष्कृत का उदाहरण है। अप्रिय और असत्य वाणी के दुष्कृत का उदाहरण है। अप्रिय और असत्य भाषण वाणी के दुष्कृत के अन्तर्गत आते हैं।
उपस्थकृतं परभार्या प्रति बहुशः प्रायश्चित्तस्याऽऽम्नानादिह स्वभार्याया-मेवाऽनृतकालाद्युपयोगेऽनाम्नाते। पद्भ्यां यदबुद्धिपूर्वप्रतिषेधगमनादि कृतम्। बाहुभ्यामपि हिंसाच्छेदनभेदनादि हस्तचापल्यं तत्। तथा मनसा परद्रव्यस्याऽ-भिध्यानादि। वाचा कृतं अवद्यवदनादि। यत्र यत्र वाङ्मनःकायकृते प्रायश्चित्ताम्नानविरोधो नास्ति, तत्र तत्रैतदेव प्रायश्चित्तमित्यभिप्रायः। सन्ध्यो-पासनप्रशंसा वैषा ॥ १८ ॥
किञ्च— रात्र्या चाऽपि सन्धीयते ॥ १९ ॥
अनु०—सन्ध्योपासना करने वाला आगामी रात्रि से सम्बद्ध हो जाता है॥१९॥
पुरुष इति शेषः। अभिसन्धानमभ्युदयः ॥ १९ ॥
न चैनं वरुणो गृह्णाति ॥ २० ॥
अनु०—वरुण देवता उसकी मृत्यु नहीं करते ॥ २० ॥
टि०—अर्थात् वह जल में डूबकर या जलोदर व्याधि से नहीं मरता—गोविन्द-स्वामी।
वरुणो नाम वृणातेः पापमप्सु मरणं जलोदरव्याधिर्वा ॥ २० ॥
एवमेव प्रातरुपस्थाय रात्रिकृतात् पापात् प्रमुच्यते ॥२१॥
अनु०—इसी प्रकार प्रातः सन्ध्योपासना कर रात्रि में किये गये पापों से पुरुष मुक्त हो जाता है ॥ २१ ॥
अर्थवादातिदेशः। फलातिदेशो वाऽयम्। रात्रावुपस्थादिभिः कृतादि-त्यर्थः। २१ ॥
अह्ना चाऽपि सन्धीयते ॥ २२ ॥
अनु०—उसका सम्बन्ध आगामी दिन के साथ हो जाता है ॥ २२ ॥
पूर्वैव व्याख्या ॥ २२ ॥
मित्रश्चैनं गोपायत्यादित्यश्चैनं स्वर्गं लोकङ्गमयतीति ॥२३॥
अनु०—मित्र देवता उसकी रक्षा करते हैं और आदित्य उसे स्वर्ग लोक को पहुँचाता है ॥ २३ ॥
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३३
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३३
इदमपि तथा ॥ २३ ॥
अथ संहृत्य स्तौति—
स एवमेवाऽहरहरहोरात्रयोः सन्धिषूपतिष्ठमानो ब्रह्मपूतो ब्रह्मभूतो ब्राह्मणः शास्त्रमनुवर्तमानो ब्रह्मलोकमभिजयतीति विज्ञायते ॥ ब्रह्मलोकमभिजयतीति विज्ञायते ॥ २४॥
इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने सप्तमः खण्डः ॥ ७ ॥
**अनु०—**जो ब्राह्मण इस विधि से प्रतिदिन प्रातः तथा सायंकाल सन्ध्योपासना करता है, वह ब्रह्म द्वारा पवित्र होकर ब्रह्म के साथ एकत्व प्राप्त कर लेता है । शास्त्रों के अनुसार आचरण करते हुए वह ब्रह्मलोक को प्राप्त करता है । ऐसा वैदिक परम्परा से जाना जाता है ॥ २४ ॥
ब्रह्मपूतः सावित्र्या पूतः । ब्रह्मभूतः शब्दब्रह्मप्रणवमापन्नः ॥
आह च—
योऽधीतेऽहन्यहन्येतान्त्रीणि वर्षाण्यतन्द्रितः ।
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमानिति ॥
विज्ञायते इति श्रुतिसंसूचनम् ॥ २४ ॥
इति श्रीगोविन्दस्वामिविरचिते बौधायनधर्मविवरणे
द्वितीयप्रश्ने चतुर्थोऽध्यायः ॥
द्वितीयप्रश्ने पञ्चमोऽध्यायः
अष्टमः खण्डः
'प्रयतोऽभिषिक्त' इत्युक्तम् । प्रसङ्गात्तद्विधिमाह—
अथ हस्तौ प्रक्षाल्य कमण्डलुं मृत्पिण्डं च गृह्य तीर्थं गत्वा त्रिः पादौ प्रक्षालयते त्रिरात्मानम् ॥ १ ॥
**अनु०—**दोनों हाथों को धोकर, कमण्डलु तथा मिट्टी का पिण्ड लेकर तीर्थ पर जाकर तीन बार दोनों पैरों को ( मिट्टी का अंश लेकर कमण्डलु के जल से ) धोवे तथा तीन बार अपने शरीर का प्रक्षालन करे ॥ १ ॥
| २३४ | बौधायन-धर्मसूत्रम् | [ स्नानविधिः |
|---|
टि०—तीर्थ से यहाँ पवित्र जलाशय से तात्पर्य है। गोविन्दस्वामी ने इस संबन्ध में श्लोक उद्धृत किया है जिसमें नदी, देवखात, तटाक, सरोवर पर स्नान करना वाञ्छनीय बताया गया है। सूत्र में मृत्पिण्ड के साथ प्रयुक्त 'च' शब्द से गोविन्द-स्वामी गेरुवर, दूब, दर्भ आदि के ग्रहण का भी अर्थ लेते हैं।
अथ स्नानविधिरुच्यते इति शेषः। तत्राऽऽरम्भे हस्तयोः प्रक्षालनम्। यद्वा तीर्थे गत्वा हस्तौ प्रक्षाल्येति सम्बन्धः। चशब्दात् गोमयदूर्वार्दभदि च। अन-पूर्वे हि समासे क्त्वो ल्यप् भवति, इह तु छान्दसो गृह्येति ल्यबादेशः। तीर्थम्।
नदीषु देवखातेषु तटाकेषु सरस्सु च।
स्नानं समाचरेन्नित्यमुत्स¹प्रस्रवणेषु च ॥ इति
तथा—
सति प्रभूते पयसि नाऽल्पे स्नायात् कथंचन।
इत्येवञ्जातीयकम्। तत्र गत्वा मृत्पिण्डैकदेशेन कमण्डलूदकेन चैकैकं पादं त्रिस्त्रिः प्रक्षालयते। एवमात्मानमपि।² आनर्थक्यदतदङ्गन्यायेनाऽऽत्मन-श्शरीरं प्रक्षालयेदिति गम्यताम् ॥ १ ॥
अथेदानीं प्रक्षालितपादेनैव प्रवेष्टव्यान् देशानाह--
अथ हैके ब्रुवते—श्मशानमापो देवगृहं गोष्ठं यत्र च ब्राह्मणा अप्र-क्षाल्य पादौ तन्न प्रवेष्टव्यमिति ॥ २ ॥
**अनु०—**कुछ लोग कहते हैं कि श्मशान में, जल में, मन्दिर में, गायों के गोष्ठ में तथा जिस स्थान पर ब्राह्मण हों वहाँ पैरों को धोए बिना प्रवेश नहीं करना चाहिए ॥ २ ॥
श्मशानादयः प्रथमान्ताश्शब्दा निर्देशफलाः। प्रातिपदिकार्थे हि प्रथमां स्मरति पाणिनिः। तेषां कर्मत्वख्यापनार्थं तच्छब्दप्रयोगः। द्वौ नञौ प्रकृत-मर्थं सूचयतः। तस्मात्प्रक्षाल्यैव प्रवेष्टव्यं श्मशानादीति वाक्यार्थः। 'अर्हे कृत्य-तृचश्च' इति स्मरणेन तव्यप्रत्ययादर्हार्थो गम्यते न तु कर्मत्वम्, प्रक्षाल्यैव प्रवेष्टुमर्हतीत्यर्थः ॥ २ ॥
१. गर्त्तस्रवणेषु चेति. ग. पु.
२. यत्र प्रधाने विहितं कार्यं तत्र कर्तुमशक्यत्वादनर्थकं भवत् तत्परिहाराय तदङ्गेऽनु-ष्ठीयते स आनर्थक्यदतदङ्गन्यायः। प्रकृते चाऽऽत्मनोऽमूर्तत्वात् तत्र प्रक्षालनक्रियादेरस-म्भवात् तदङ्गभूतस्य शरीरस्य प्रक्षालनं वेदितव्यमिति।
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३५
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३५
अथाऽपोऽभिप्रपद्यते— हिरण्यशृङ्गं वरुणं प्रपद्यते तीर्थं मे देहि याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । तन्म इन्द्रो वरुणो बृहस्पतिस्सविता च पुनन्तु पुनः पुनरिति ॥
अनु०—पैरों को धोने के बाद इस मन्त्र का पाठ करते हुए जल में प्रवेश करे— मैं सुवर्ण की सींगवाले वरुण की शरण में जाता हूँ । हे वरुण, मेरी प्रार्थना सुनकर मुझे स्नान योग्य पवित्र जल दो । अपवित्र जनों का जो अन्न मैंने खाया हो अथवा पापी जनों से जो कुछ दान लिया हो, मन से, वाणी से और कर्म से मैंने जो कुछ पाप किया हो, उसे इन्द्र, वरुण, बृहस्पति और सविता मुझ से दूर कर मुझे बार-बार पवित्र करे ॥ ३ ॥
टि०—'हिरण्यशृङ्ग' इत्यादि तैत्तिरीय आरण्यक १०. १. १२ में प्राप्त ऋचा वामदेव ऋषि की बतायी गयी है, प्रथम पद्य पुरस्ताद्बृहती छन्द में और दूसरा पंक्ति छन्द में है ।
अथशब्दात्प्रक्षालनानन्तर्यमाह । अत्र गन्धद्वारामित्यृचा गोमयेनात्मान-मालेप्यं$^१$ केचिदिच्छन्ति । हिरण्यशृङ्गमिन्यूचोवामदेव ऋषिः । काण्डर्षयो वा विश्वेदेवाः । प्रथमा पुरस्ताद् बृहती, द्वितीया पंक्तिः । उभे अपि लिङ्गोक्तदैवते । तत्र द्वयोरप्ययमर्थः--हिरण्यशृङ्गं हिरण्मयशृंगं वरुणं प्रपद्ये त्वां शरणं इत्य-ध्याहारः । मया याचितस्त्वं मम स्नानाय तीर्थं जलाशय देहि । वरुणो ह्यपां राजा 'यासां राजा वरुणः' लिङ्गात् । किमतो यदाज्ञया तुभ्यं तीर्थमिति ? आह--यन्मयेति । असाधूनामभोज्यान्नानां अन्नं यन्मया भुक्तम्, यो वा मया पापकर्मभ्यः प्रतिग्रहः कृतः, यच्च मया मनोवाक्कायकर्मभिः दुष्कृतं, तत्सर्वं जलाशयेस्नानेन, इन्द्रादयः पुनन्विति यन्मया पुनः पुनः प्रार्थयितुं शक्यते इत्येतदतो भवति ॥ ३ ॥
अथाऽञ्जलिना उपहन्ति 'सुमित्रा न आप ओषधयस्सन्व'ति ॥४॥
अनु०--इसके अनन्तर अञ्जलि से 'सुमित्रा न आप ओषधयस्सन्तु' (जल और ओषधियाँ मेरे लिए सुखदायी होंवे) कहते हुए जल ग्रहण करे ॥ ४ ॥
द्विहस्तसंयोगोऽञ्जलिः तेनाऽञ्जलिना$^२$ जलप्रपद्नानन्तरमुपहन्ति
१. 'गोमयेनानुपलेपनं' इति, घ. पु. २. जलप्रवेशादन्तरं इति. घ पु.
२३६ बौधायन-धर्मसूत्रम् [ स्नानविधिः
गृह्णाति । नः अस्माकं आपश्चौषधयश्च तदुत्पादितास्सुमित्राः सुखहेतवस्स- न्त्विति मन्त्रार्थः ॥ ४ ॥
अथैना अपः—
तां दिशं निरुक्षति यस्यामस्य दिशि द्वेष्यो भवति "दुर्मित्रास्त- स्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्म" इति ॥ ५ ॥
अनु०—उस जल को 'दुर्मित्रास्तस्मै भूयासुः योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ( जो मुझसे द्वेष करता है और जिससे हम द्वेष करते हैं। उसके लिए यह जल नाश करने वाला हो) कहकर उस दिशा की ओर गिरावे जिस दिशा में उसका कोई शत्रु निवास करता हो ॥ ५ ॥
अस्य स्नातुः द्वेष्यो यस्यां दिशि अस्ति तां दिशं अपोऽभ्युक्षति । यः पुरुषः अस्मान् द्वेष्टि यं वा वयं द्विष्मः तस्मै दुर्मित्रा दुःखहेतवः आपो भूयासुरिति मन्त्रार्थः ॥ ५ ॥
अथाऽप उपस्पृश्य त्रिः प्रदक्षिणमुदकमावर्तयति "यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छता" दिति ॥ ६ ॥
अनु०—जल से आचमन कर तीन बार प्रदक्षिणा करते हुए और "यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात्" ( जल में जो कुछ कष्टदायी, अपवित्र और अशुभ हो वह निकल जाय ) कहते हुए अपने चारो ओर जल में आवर्त उत्पन्न करे ॥ ६ ॥
उपस्पर्शनं पाणिप्रक्षालनं आवर्तयति परिभ्रामयति, क्रूरं यदमेध्यं मूत्रादि अशान्तं व्याधिरूपं यदेवञ्जातीयकं अप्सम्बन्धि तत्सर्वमपगच्छतादिति मन्त्रा- भिप्रायः ॥ ६ ॥
अप्सु निमज्ज्योन्मज्ज्य ॥ ७ ॥ नाऽप्सु सतः प्रयमणं विद्यते न वासः प्रक्षूलनं नोपस्पर्शनम् ॥ ८ ॥
अनु०—जल में डुबकी लगाकर और निकलकर ( पुनः आचमन करे ) ॥७॥ अनु०—जल में रहकर शरीर की सफाई ( शौचादि कर्म ), वस्त्रों को हाथ से रगड़ कर धोने तथा आचमन का कार्य न करे ॥ ८ ॥
उन्मज्ज्याऽऽचान्तः पुनराचामेदिति सम्बन्धः। निमज्जनमद्भिरात्मनः प्रच्छा- दनम् उन्मज्जनं ताभ्य आविर्भावः। अत्रोन्मज्जनानन्तरभाविनीं क्रियामनुक्त्वा मनस्याविर्भूतं प्रतिषेधं विस्मरणभयादाचार्य उपदिशति स्म—नाप्सु सत इति।
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३७
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३७
प्रथमणं शौचं मूत्रपुरीषोद्यपनयनलक्षणं पल्पूलनं मलापनयनाय पाणिभ्याम- वस्फोटनं, उपस्पर्शनं आचमनम् । एतत्त्रयमप्सु सता न कर्तव्यमित्यर्थः॥७-८॥
यद्युप॒रुद्धा॑स्स्यु॒रेतेनोप॑तिष्ठते "नमो॑ऽग्नये॒ऽप्सुमते॒ नम॒ इन्द्रा॑य नमो॒ वरु॑णाय॒ नमो वारु॑ण्यै॒ नमो॒ऽद्भ्य” इति ॥ ९ ॥ उत्तीर्याऽऽचम्याऽऽचान्तः पुनराचामेत् ॥ १० ॥
अनु—यदि स्नान के लिए प्रयुक्त जल चारो ओर से घिरा हो (जैसे कूप में) तो "नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः" इस मन्त्र से उसकी प्रार्थना करे । मन्त्रार्थ—जल के स्वामी अग्नि को नमस्कार, जल को नमस्कार ॥ ९ ॥
अनु०—जल से बाहर निकलकर और आचमन कर पुनः आचमन करे ॥१०॥
'तपस्यमवगाहनम्' ( २. ३. १.) इत्यस्मिन्नध्याये 'स्रवन्तीष्वनिरुद्धासु' इति निरुद्धास्वप्सु स्नानप्रतिषेध उक्तः। तस्येदानीं प्रायश्चित्तमाह—यद्युपरुद्धास्स्यु- रेतेनोपतिष्ठते 'नमोऽग्नय' इति । नात्र मन्त्रे विरोहितं किञ्चिदस्ति । जलाश- यादुत्तीर्य प्राङ्मुख उदङ्मुखो वा आचामेत् । अप आचम्याऽऽचामेदित्येव सिद्धवे आचान्तः पुनरिति चोक्तम् । तस्याऽयमभिप्रायः—मन्त्राचमनं सर्वत्रा- ऽऽचान्त एव कुर्यादिति ॥ ९-१० ॥
आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् । पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पूता पु॑नातु॒ माम् ॥ यदु॑च्छि॒ष्टमभो॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामापोऽस॑तां च प्रति॒ग्रहं॒ स्वाहेति॑ ॥ ११ ॥
अनु०—( इसके साथ निम्नलिखित मन्त्रों का जप करे ) जल पृथिवी को पवित्र करे । पवित्र पृथिवी मुझे पवित्र करे । ब्रह्मणस्पति पवित्र करे । ब्रह्मा पवित्र करे । जो कुछ उच्छिष्ट अभोज्य खाकर मैंने पाप किया है अथवा मैंने जो दुष्कर्म किये हैं तथा अयोग्य लोगों का जो दान ग्रहण किया है उसे जल पवित्र करे ।
वामदेव ऋषिः, विश्वेदेवा वा ऋषयः। द्वे अप्येते अनुष्टुभौ आपः प्रार्थ्यन्ते । आपश्शोधयन्तु । इह पृथिवीशब्देन तन्मयं शरीरमुच्यते । ताभि- रद्भिः पूतं शरीरं मां पुनातु । पुनन्तु ब्रह्मणस्पतिरिति एकस्मिन् पूजायां बहुवच- नमेतत् , वैष्णवान् खनामि' इति यथा । ब्रह्मणस्पतिः पृथिवी पुनात्वित्यर्थः । ब्रह्मपूता बृहस्पतिपूतं शरीरम् , यदुच्छिष्टमन्यत् यदभोज्यं मया भुक्तं यद्वा दुश्चरितं मम सम्बन्धीति शेषः। सर्वं पुनन्तु मां, सर्वस्मादस्मात् मामापः पुन-
२३८ | बौधायन-धर्मसूत्रम् | [ स्नानविधिः
न्तु मामापोऽसतां च प्रतिग्रहम्। असन्तश्शूद्राः पापकर्माणो वा तत्प्रतिग्रह- जातादेनो मामापः पुनन्त्विति। स्वाहेति प्रदानप्रतिपादकश्रवणार्थेयमित्य- वेहि ॥ ११ ॥
मन्त्राचमनानन्तरम्— पवित्रे कृत्वाऽद्भिर्मार्जयति 'आपो हिष्ठा मयोभुव इति तिसृभिः "२हिरण्यवर्णाश्शुचयः पावका" इति चतसृभिः "३पवमानस्सुवर्चन" इत्येतेनाऽनुवाकेन मार्जयित्वाऽन्तर्जलगत्तोऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वा प्रक्षालितोपवातान्यक्लिष्टानि वासांसि परिधायाऽप आचम्य दर्भेष्यासीनो दर्भान् धारयमाणः प्राङ्मुखस्सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा दशावरम् ॥ १२ ॥
अनु०— कुश के दो पवित्र बनाकर जल से 'आपो हिष्ठा मयोभुवः' (तै० सं० ४. १. ५.१) इन तीनों मन्त्रों से तथा 'हिरण्यवर्णाश्शुचयः' (तै० सं० ५. ६ १) आदि चार मन्त्रों से तथा 'पवमानस्सुवर्चन' (तै० ब्रा० १.४.८) अनुवाक से मार्जन कर, पुनः जल में जाकर 'ऋतं च सत्यं च' तीन ऋचाओं के अघमर्षण मन्त्र से तीन बार प्राणायाम करे तब किनारे आकर वस्त्रों को निचोड़कर धोए हुए, वायु में सुखाये गये तथा पहनने योग्य छिद्रादिरहित वस्त्र पहन कर जल से आचमन करे कुशों पर बैठकर हाथ में कुश लेकर पूर्व की ओर मुख कर एक सहस्र बार या सौ बार अथवा अनिश्चित बार अथवा कम से कम दस बार सावित्री मन्त्र का जप करे।
ऋतं च सत्यं चाऽभीद्धात्तपसोऽध्यजायत। ततो रात्रिरजायत ततस्समुद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत। अहोरात्राणि विदधद्विश्वस्य मिषतो वशी। सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्। दिवं च पृथिवीं चाऽन्तरिक्षमथो सुवः ॥ १२ ॥
पवित्रे इति द्विवचनाद् द्वाभ्यां दर्भाभ्यां मार्जनम्। अन्तर्जलं जलमध्यम्।
१. मन्त्रत्रयमिदं १५९. पृष्ठे टिप्पण्यां द्रष्टव्यम्। २. हिरण्यवर्गाश्शुचयः पावका इति मन्त्रचतुष्टयं तै. सं. ५. ६. १ द्रष्टव्यम्। ३. पवमान इत्यनुवाकः तै. ब्रा. १. ४. ८. द्रष्टव्यः।
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३९
अष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३९
तेनैव सिद्धे गतग्रहणं जलेनैव सर्वाङ्गीणाच्छादनार्थम्। अघमर्षणं नाम "ऋतं च सत्यं च' इति तृचम्। तेन त्रिः पठितेन एकः प्राणायामो भवति। एवं त्रयः प्राणायामाः। वासःपीडनमिह पितॄणां तृप्त्यर्थम्। उपवातं शोषितम्। अक्लिष्टमच्छिद्रम्। बहुवचनादन्तर्वाससो बहिर्वासस उत्तरीयस्य च ग्रहणम्। आचमनं मध्याह्नसन्ध्याग्राह्कम्। आचमनानन्तरं च सावित्र्याऽभिमन्त्रिता- नामपामदित्याभिमुखं प्रक्षेपणं सदाचारसिद्धं द्रष्टव्यम्। अपरिमितं उक्त- संख्यातोऽधिकम् ॥ १२ ॥
अथाऽऽदित्यमुपतिष्ठते$^२$—"उद्वयं तमसस्परि। ऽउदु त्यम्। चित्रम्। तच्चक्षुर्देवहितम्। य उदगा" दिति ॥ १३ ॥
अनु०—इसके अनन्तर "उद्वयं तमसस्परि। उदुत्यम्। चित्रम्। तच्चक्षुर्देव- हितम्। य उदगात्" मन्त्रों से सूर्य की प्रार्थना करे ॥ १३ ॥
उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम्। देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम् ॥ चित्रं देवानामुदगादनीकं चक्षुमित्रस्य वरुणस्याग्नेः। आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च। तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्। पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक् च सूर्यं दृशे ॥ य उदगान्महतोऽर्णवाद्दिभ्राजमानस्सरिरस्य मध्यात् समावृषभो लोहिताक्ष- स्सूर्यो विपश्चिन्मनसा पुनातु ॥ ऋग्वेतत् ॥ १३ ॥
१. ऋतं च सत्यं चाऽभीद्धात्तपसोऽध्यजायत । ततो रात्रिरजायत ततस्समुद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ सूर्य्याचन्द्रमसो धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चाऽन्तरिक्षमथो स्वः ॥ २. उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ चित्रं देवानामुद- गादनीकं चक्षुमित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च ॥ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक् च सूर्यं दृशे ॥ य उदगान्महतोऽर्णवा- द्विभ्राजमानस्सरिरस्य मध्यात् समावृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥
२४० बौधायन-धर्मसूत्रम् [ नित्यतर्पणविधिः
अथाऽप्युदाहरन्ति— प्रणवो व्याहृतयस्सावित्री चेत्येते पञ्च ब्रह्मयज्ञा अहरहर्ब्राह्मणं किल्बिषात् पावयन्ति ॥ १४ ॥ **अनु०—**इस विषय में निम्नलिखित उद्धृत करते हैं— प्रणव, व्याहृतियां, सावित्री मन्त्र—ये पांच ब्रह्मयज्ञ प्रतिदिन ब्राह्मण को पाप से मुक्त करते हैं ॥ १४ ॥
यज्ञशब्देन जपो लक्ष्यते । आह च प्रणवादीन् प्रक्रम्य— विधिद्यज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशु स्याच्छतगुणं साहस्रो मानसः स्मृतः ॥ इत्यादि । तुल्यवत्प्रसंख्यानात् प्रणवव्याहृतीनामपि सावित्र्याः पुरस्तात् प्रयोगोऽवगम्यते । अहरहरिति नित्यस्नानार्थतामाह । किल्बिषं पापम् ॥१४॥
पूतः पञ्चभिर्ब्रह्मयज्ञैरथोत्तरं देवतास्तर्पयति ॥ १५ ॥ **अनु०—**इन पांच ब्रह्मयज्ञों से पवित्र होकर उसके बाद वह देवताओं का तर्पण करता है ॥ १५ ॥ अतिरोहितार्थमेतत् ॥ १५ ॥
इति बौधायनीयधर्मसूत्रे द्वितीयप्रश्नेऽष्टमः खण्डः ।
नवमः खण्डः
अग्निः प्रजापतिस्सोमो रुद्रोऽदितिर्बृहस्पतिस्सर्पा इत्येतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरत्राणि समुहूर्तानि तर्पयामि ॥ ओं वसूंश्च तर्पयामि ॥ १ ॥ **अनु०—**अग्नि, प्रजापति, सोम, रुद्र, अदिति, बृहस्पति-पूर्वं द्वार के इन सभी देवताओं का नक्षत्रों, ग्रहों, दिन और रात्रियों तथा मुहूतों के साथ तर्पण करता हूं । वसुओं का तर्पण करता हूं ॥ १ ॥
पितरोऽर्यमा भगस्सविता त्वष्टा वायुरिन्द्राग्नी इत्येतानि दक्षिण-
नवमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २४१
नवमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २४१
द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । ओं रुद्रांश्च तर्पयामि ॥ २ ॥
अनु०—पितरों, अर्यमा भग, सविता, त्वष्टा, वायु, इन्द्र-ओर अग्नि—इन दक्षिण द्वार के देवताओं का, नक्षत्रों, ग्रहों, दिन ओर रात्रि तथा मुहूर्तों के साथ तर्पण करता हूँ। रुद्रों का तर्पण करता हूँ ॥ २ ॥
मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्मा विष्णुरित्येतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि ॥ ओं आदित्यांश्च तर्पयामि ॥ ३ ॥
अनु०—मित्र, इन्द्र, महापितर, आपः, विश्वे देवा, ब्रह्मा, विष्णु—इन पश्चिम द्वार के देवताओं का नक्षत्रों, ग्रहों, दिन ओर रात्रि तथा मुहूर्तों के साथ तर्पण करता हूँ। आदित्यों का तर्पण करता हूं ॥ ३ ॥
वसवो वरुणोऽजएकपादहिर्बुध्न्यः पूषाऽश्विनौ यम इत्येतान्युदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि ॥ ४ ॥
अनु०—वसुओं, वरुण, अज एकपाद, अहिर्बुध्न्य, पूषा, अश्विनौ, यम-इन उत्तर द्वार के देवताओं का नक्षत्रों, ग्रहों, दिन ओर रात्रि तथा मुहूर्तों के साथ तर्पण करता हूँ ॥ ४ ॥
ओं विश्वान् देवांस्तर्पयामि । साध्यांस्तर्पयामि । ब्रह्माणं तर्पयामि प्रजापतिं तर्पयामि । चतुर्मुखं तर्पयामि । परमेष्ठिनं तर्पयामि । हिरण्यगर्भं तर्पयामि । स्वयम्भुवं तर्पयामि । ब्रह्मपार्षदांस्तर्पयामि । ब्रह्मपार्षदीश्च तर्पयामि ॥ अग्निं तर्पयामि । वायुं तर्पयामि । वरुणं तर्पयामि । सूर्यं तर्पयामि । चन्द्रमसं तर्पयामि । नक्षत्राणि तर्पयामि । ज्योतींषि तर्पयामि । सद्योजातं तर्पयामि । ओंभूः पुरुषं तर्पयामि । ओं भुवः पुरुषं तर्पयामि । ओं सुवः पुरुषं तर्पयामि । ओं भूर्भुवस्स्वः पुरुषं तर्पयामि । ओं भूस्तर्पयामि । ओं भुवस्तर्पयामि । ओं सुवस्तर्पयामि । ओं महस्तर्पयामि । ओं जनस्तर्पयामि । ओं तपस्तर्पयामि । ओं सत्यं तर्पयामि ॥ ओं भवं देवं तर्पयामि । ओं शर्वं देवं तर्प-
१९ बौ०गृ०
२४२ बौधायन-धर्मसूत्रम् [ नित्यतर्पणविधिः
यामि । ओमीशानं देवं तर्पयामि । ओं पशुपतिं देवं तर्पयामि । ओं रुद्रं देवं तर्पयामि । ओमुग्रं देवं तर्पयामि । ओं भीमं देवं तर्पयामि । ओं महान्तं देवं तर्पयामि ॥ ओं भवस्य देवस्य¹ पत्नीं तर्पयामि । ओं शर्वस्य देवस्य पत्नीं तर्पयामि । ओमीशानस्य देवस्य पत्नीं तर्पयामि । ओं पशुपतेर्देवस्य पत्नीं तर्पयामि । ओं रुद्रस्य देवस्य पत्नीं तर्पयामि । ओमुग्रस्य देवस्य पत्नीं तर्पयामि । ओं भीमस्य देवस्य पत्नीं तर्पयामि । ओं महतो देवस्य पत्नीं तर्पयामि ॥ ५ ॥
**अनु०—**मैं सभी देवों का तर्पण करता हूं । साध्यों का तर्पण करता हूँ । ब्रह्मन् का तर्पण करता हूँ । प्रजापति का तर्पण करता हूँ । चतुर्मुख का तर्पण करता हूँ । परमेष्ठी का तर्पण करता हूँ...॥ ५ ॥
ओं भवस्य देवस्य सुतं तर्पयामि । ओं शर्वस्य देवस्य सुतं तर्पयामि । ओमीशानस्य देवस्य सुतं तर्पयामि । ओं पशुपतेर्देवस्य सुतं तर्पयामि । ओं रुद्रस्य देवस्य सुतं तर्पयामि । ओमुग्रस्य देवस्य सुतं तर्पयामि । ओं भीमस्य देवस्य सुतं तर्पयामि । ओं महतो देवस्य सुतं तर्पयामि । ओं रुद्रांस्तर्पयामि । रुद्रपार्षदांस्तर्पयामि । रुद्रपार्षदीश्च तर्पयामि ॥ ६ ॥
**अनु०—**भव देव का तर्पण करता हू । शर्व का तर्पण करता हूँ...॥ ६ ॥
ओं विघ्नं तर्पयामि । विनायकं तर्पयामि । वीरं तर्पयामि । शूरं तर्पयामि । वरदं तर्पयामि । हस्तिमुखं तर्पयामि । वक्रतुण्डं तर्पयामि । एकदन्तं तर्पयामि । लम्बोदरं तर्पयामि । गणपतिं तर्पयामि । विघ्नपार्षदांस्तर्पयामि । विघ्नपार्षदीश्च तर्पयामि ॥७॥
**अनु०—**विघ्न का तर्पण करता हूँ । विनायक का तर्पण करता हूँ...॥ ७ ॥
ओं सनत्कुमारं तर्पयामि । स्कन्दं तर्पयामि । इन्द्रं तर्पयामि । षष्ठीं तर्पयामि । षण्मुखं तर्पयामि । विशाखं तर्पयामि । जयन्तं तर्पयामि । महासेनं तर्पयामि । स्कन्दपार्षदांस्तर्पयामि । स्कन्दपार्षदीश्च तर्पयामि ॥ ८ ॥
१. अत्र पत्नीरिति बहुवचनान्तपाठ 'आ'. पु.
नवमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २४३
नवमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २४३
ओमादित्यं तर्पयामि । सोमं तर्पयामि । अङ्गारकं तर्पयामि । बुधं तर्पयामि । बृहस्पतिं तर्पयामि । शुक्रं तर्पयामि । शनैश्चरं तर्पयामि । राहुं तर्पयामि । केतुं तर्पयामि ॥ ९ ॥
ओं केशवं तर्पयामि । नारायणं तर्पयामि । माधवं तर्पयामि । गोविन्दं तर्पयामि । विष्णुं तर्पयामि । मधुसूदनं तर्पयामि । त्रिविक्रमं तर्पयामि । वामन तर्पयामि । श्रीधरं तर्पयामि । हृषीकेशं तर्पयामि । पद्मनाभं तर्पयामि । दामोदरं तर्पयामि । श्रियं देवीं तर्पयामि । सरस्वतीं देवीं तर्पयामि । पुष्टिं देवीं तर्पयामि । तुष्टिं देवीं तर्पयामि । वैनतेयं तर्पयामि । विष्णुपार्षदांस्तर्पयामि । पार्षदीश्च तर्पयामि ॥ १० ॥
ओं यमं तर्पयामि । यमराजं तर्पयामि । धर्मं तर्पयामि । धर्मराजं तर्पयामि । कालं तर्पयामि । नीलं तर्पयामि । मृत्युं तर्पयामि । अन्तकं तर्पयामि । चित्रं तर्पयामि । चित्रगुप्तं तर्पयामि । औदुम्बरं तर्पयामि । वैवस्वतं तर्पयामि । वैवस्वतपार्षदांस्तर्पयामि । वैवस्वतपार्षदीश्च तर्पयामि ॥ ११ ॥
भरद्वाजं तर्पयामि । गौतमं तर्पयामि । अत्रिं तर्पयामि । आङ्गिरसं तर्पयामि । विद्यां तर्पयामि । दुर्गां तर्पयामि । ज्येष्ठां तर्पयामि । धान्वन्तरिं तर्पयामि । धान्वन्तरिपार्षदांस्तर्पयामि । धान्वन्तरिपार्षदीश्च तर्पयामि ॥ १२ ॥
अथ निवीती ॥ १३ ॥
अन०--निवीती होकर ( यज्ञोपवीत को गले चारो ओर लटकाकर ) ॥ १३॥
ओम्ऋषींस्तर्पयामि । परमर्षींस्तर्पयामि । महर्षींस्तर्पयामि । ब्रह्मर्षींस्तर्पयामि । देवर्षींस्तर्पयामि । राजर्षींस्तर्पयामि । श्रुतर्षींस्तर्पयामि । जनर्षींस्तर्पयामि । तपर्षींस्तर्पयामि । सत्यर्षींस्तर्पयामि । सप्तर्षींस्तर्पयामि । काण्डर्षींस्तर्पयामि । ऋषिकांस्तर्पयामि । ऋषिपत्नीस्तर्पयामि । ऋषिपुत्रांस्तर्पयामि । ऋषिपौत्रांस्तर्पयामि । काण्वं बौधायनं तर्पयामि । आपस्तम्बं सूत्रकारं तर्पयामि । सत्याषाढं हिरण्यकेशिनं
| २४४ | बौधायन धर्मसूत्रम् | [ नित्यतर्पणविधिः |
|---|
तर्पयामि । वाजसनेयिनं याज्ञवल्क्यं तर्पयामि । आश्वलायनं शौनकं तर्पयामि । व्यासं तर्पयामि । वसिष्ठं तर्पयामि । प्रणवं तर्पयामि । व्याहृतीस्तर्पयामि । सावित्रीं तर्पयामि । गायत्रीं तर्पयामि । छन्दांसि तर्पयामि । ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्ववेदं तर्पयामि । अथर्वाङ्गिरसं तर्पयामि । इतिहासपुराणानि तर्पयामि । सर्पवेदांस्तर्पयामि सर्पदेवजनांस्तर्पयामि । सर्वभूतानि तर्पयामि ॥ १४ ॥
इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने नवमः खण्डः ।
**अनु०—**मैं ऋषियों का तर्पण करता हूँ, परमर्षियों का तर्पण करता हूँ...॥१४॥
दशमः खण्डः
अथ प्राचीनावीती—ओं पितॄन् स्वधा नमस्तर्पयामि । पितामहान् स्वधा नमस्तर्पयामि । प्रपितामहान् स्वधा नमस्तर्पयामि । मातृस्स्वधा नमस्तर्पयामि । पितामहीस्स्वधा नमस्तर्पयामि । प्रपितामहीस्स्वधा नमस्तर्पयामि । मातामहान् स्वधा नमस्तर्पयामि । मातुः पितामहान् स्वधा नमस्तर्पयामि । मातुःप्रपितामहान् स्वधा नमस्तर्पयामि । मातामहीस्स्वधा नमस्तर्पयामि । मातुःपितामहीस्स्वधा नमस्तर्पयामि । मातुःप्रपितामहीस्स्वधा नमस्तर्पयामि ॥ १ ॥
**अनु०—**प्राचीनावीती होकर—पितरों को स्वधा, मैं पितरों का तर्पण करता हूँ...॥ १ ॥
ओमाचार्यान्स्वधा नमस्तर्पयामि । आचार्यपत्नीः स्वधा नमस्तर्पयामि । गुरुन्स्वधा नमस्तर्पयामि । गुरुपत्नीस्स्वधा नमस्तर्पयामि । सखीन्स्वधा नमस्तर्पयामि । सखिपत्नीस्स्वधा नमस्तर्पयामि । ज्ञातीन्स्वधा नमस्तर्पयामि । ज्ञातिपत्नीस्स्वधा नमस्तर्पयामि । अमात्यान् स्वधा नमस्तर्पयामि । अमात्याः स्वधा नमस्तर्पयामि । सर्वान्स्वधा नमस्तर्पयामि । सर्वास्स्वधा नमस्तर्पयामि ॥ २ ॥
एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४५
एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४५
अनुतीर्थमथ उत्सिञ्चति—ऊर्जं वहन्तीरममृतं घृतं पयः कीलालं परिस्रुतं स्वधास्थ तर्पयत मे पितॄन् । तृप्यत तृप्यत तृप्यतेति ॥ ३ ॥
अनु०—( हाथ के ) तीर्थों से जल दे—हे जल, तुम अन्न लाते हो, अमृत, घृत, दूध, यवागू-लाते हो, तुम पितरों के लिए अमृत हो, मेरे पितरों को तृप्त करो, तुम तृप्त होओ, तुम होओ ॥ ३ ॥
अनुतीर्थं तीर्थं प्रति । अनेनैतत् ज्ञापितं भवति—जलतर्पणं भवतीह महदिति ऊर्जं अन्नं अमृतादिपञ्चकम् । यद्यपि कीलालमन्नम् । तथाऽपि परिस्रुतसन्निधानात् यवागूरभिप्रेता । यूयं स्वधा अमृताः स्थ तर्पयत मम पितृपितामहप्रपितामहान् । यूयं च तृप्यत वीप्सावचनमादरार्थम् ॥ ३ ॥
नैकवस्त्रो नार्द्रवासा देवानि कर्माणि नानु सञ्चरेत् । पितृसंयुक्तानि चेत्येकेषां पितृसंयुक्तानि चेत्येकेषाम् ॥ ४ ॥
इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने दशमः खण्डः ॥
अनु०—केवल एक वस्त्र पहन कर, अथवा गीले वस्त्र पहन कर देवताओं की पूजा का कर्म न करे । पितरों से संबद्ध कर्मों को भी एक वस्त्र पहन कर या गीला वस्त्र पहन कर न करे ऐसा कुछ आचार्यों का मत है ॥ ४ ॥
नाऽऽर्द्रवासाः इति साक्षादार्द्रवासोनिषेधार्थः । अनुसञ्चरेत् अनुतिष्ठेत् । पितृसंयुक्तानि अत्राऽपिशब्दोऽध्याहर्तव्यः ॥ ४ ॥
इति श्रीगोविन्दस्वामिविरचिते बौधायनधर्मविवरणे द्वितीयप्रश्ने पञ्चमोऽध्यायः ।
द्वितीयप्रश्ने षष्ठोऽध्यायः
एकादशः खण्डः
देवऋषिपितृतर्पणमुक्तम्—
'अथेमे पञ्च महायज्ञास्तान्येव महासत्राणि-देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति ॥ १ ॥
१. See मा. शत. ब्रा. ११.५.६.१. and alsh. आ. गृ. १.१२.१४-१.१३.१.
| २४६ | बौधायन-धर्मसूत्रम् | [पञ्चमहायज्ञाः |
|---|
अनु०—देवयज्ञ, पितृयज्ञ, भूतयज्ञ, मनुष्ययज्ञ, और ब्रह्मयज्ञ—ये पाँच महायज्ञ हैं और इन्हें ही महासत्र भी कहा गया है ॥ १ ॥
फलत एषां यज्ञानां महत्त्वं न स्वरूपतः, दीर्घकालप्रयोगसामान्याच्च महासत्रसमास्ते। 'देवयज्ञः' इत्यादिसंज्ञाकरणं संव्यवहारार्थम् ॥ १ ॥
अहरहस्स्वाहाकुर्यादा काष्ठात् तथैतं देवयज्ञं समाप्नोति ॥ २ ॥
अनु०—प्रतिदिन देवताओं के लिए 'स्वाहा' के साथ अग्नि में हवन करे। केवल एक काष्ठ का टुकड़ा तक भी हवन के रूप में अर्पित किया जा सकता है। इस प्रकार देवयज्ञ का अनुष्ठान करे ॥ २ ॥
अत्र 'देवेभ्यस्स्वाहा' इति मन्त्र उद्धर्त्तव्यः। द्रव्यमोदनप्रभृति आ काष्ठात् ज्ञेयम्। वीप्सावचनं नित्यत्वख्यापनार्थम्। समाप्नोति अनुतिष्ठेत्। एवमुत्तरेष्वपि यथासम्भवं योजना ॥ २ ॥
अहरहस्स्वधाकुर्यादोदपात्रात्तथैतं पितृयज्ञं समाप्नोति ॥ ३ ॥
अनु०—प्रतिदिन पितरों के लिए 'स्वधा' के साथ जल से पूर्ण पात्र इत्यादि पूजा अर्पित करे। इस प्रकार पितृयज्ञ का अनुष्ठान करे ॥ ३ ॥
'पितृभ्यस्स्वधा नमः' इति मन्त्रोऽध्याहार्यः। उदपात्रं उदकं आज्यौदनप्रभृति तत्पर्यन्तमित्यर्थः ॥ ३ ॥
अहरहर्नमस्कुर्यादा पुष्पेभ्यस्तथैतं भूतयज्ञं समाप्नोति ॥ ४ ॥
अनु०—प्रतिदिन प्राणियों के प्रति पुष्पों द्वारा पूजा आदि करते हुए आदर व्यक्त करे। इस प्रकार भूतयज्ञ का अनुष्ठान करे ॥ ४ ॥
'भूतेभ्यो नमः।' इति मन्त्रोद्धारः। एते त्रयो महायज्ञाः वैश्वदेवबलिहरणैरेव सम्पादिता इति। केचित्कर्तव्या इति। एतत्तु युक्तायुक्ततया विचारणीयम् ॥ ४ ॥
अहरहर्ब्राह्मणेभ्योऽन्नं दद्यादा मूलफलशाकेभ्यस्तथैतं मनुष्युयज्ञं समाप्नोति ॥ ५ ॥
अनु०—प्रतिदिन ब्राह्मणों के लिए मूल, फल, शाक आदि अन्न प्रदान करे और इस प्रकार मनुष्ययज्ञ का अनुष्ठान करे ॥ ५ ॥
बहुभ्यो दातुं शक्त्यभावे एकस्मा अपि ॥ ५ ॥
अहरहस्स्वाध्यायं कुर्यादा प्रणवात्तथैतं ब्रह्मयज्ञं समाप्नोति ॥ ६ ॥
एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४७
एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४७
अनु०—प्रतिदिन प्रणव से आरम्भ कर वेद का स्वाध्याय करे और इस प्रकार ब्रह्मयज्ञ का अनुष्ठान करे ॥ ६ ॥
ब्रह्मयज्ञः कर्तव्यः ब्रह्मैव यज्ञस्स च यागः ॥ ६ ॥
तदाह—
स्वाध्यायो वै ब्रह्मयज्ञः१ ॥ ७ ॥
अनु०—वेद का स्वाध्याय ही ब्रह्मयज्ञ है ॥ ७ ॥
ऋङ्वेतत् ॥ ७ ॥
'तस्य ह वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथस्स्वर्गो लोक उदयनं यावन्तं ह वा इमां वित्तस्य पूर्णां ददत्स्वर्गं लोकं जयति भूयांसं चाऽक्षय्यं चाऽप पुनर्मृत्युं जयति य एवं विद्वान् स्वाध्यायमधीते ॥ ८ ॥
अनु०—इस स्वाध्यायरूपी ब्रह्मयज्ञ का वाणी ही जुहू है, मन उपभृत् है, चक्षु ध्रुवा के स्थान पर होता है, बुद्धि स्रुवा का कार्य करती है सत्य अवभृथ है और स्वर्ग लोक उदयन या यज्ञ की परिसमाप्ति है । जितना स्वर्गफल इस धन-धान्यपूर्ण सम्पूर्ण पृथ्वी का दान करने वाला पाता है उतना, किंवा उससे भी अधिक स्वर्गफल, वह व्यक्ति प्राप्त करता है, जो इस प्रकार ज्ञान-सम्पन्न हो, स्वाध्याय करता है और वह अक्षय्य मोक्ष प्राप्त करता है, पुनर्मरण पर विजय कर लेता है ॥ ८ ॥
टि०— इस सूत्र का पूर्वार्द्ध शतपथ ब्राह्मण ११.५.६.२ से तथा उत्तरार्द्ध तैत्तिरीय आरण्यक २.१७ से उद्धृत है।
उपमेयम्, उपासना वा । यस्मिन् तत्तद्भावयेदित्यर्थः । वाचि जुहूबुद्धिमित्यादि । उदयनं परिसमाप्तिः । एतस्मादपि प्रायणोऽप्युन्नेयः । प्रारम्भापेक्षत्वात् परिसमाप्तेः । तदानीमस्मिन् लोके प्रायणीयबुद्धिः । वित्तस्य वित्तेन धनेन स्वाध्याययज्ञेन स्वाध्याययज्ञमुपासिता जयति ततोऽपि भूयांसमक्षय्यमनन्तमपवर्गं मोक्षमित्यर्थः । अपमृत्युरकालमरणम् ॥ ८ ॥
अथ निगमनम्—
तस्मात्स्वाध्यायोऽध्येतव्य इति हि ब्राह्मणम् ॥ ९ ॥
१. अत्र सूत्रे 'तस्य' इत्यारभ्य 'उदयनं' इत्येतत्पर्यन्तं शतपथब्राह्मणस्थं वाक्यम् । 'यावन्तं ह वा' इत्यारभ्य 'पुनर्मृत्युं जयति' पर्यन्तं तैत्तिरीयारण्यकस्थम् ( तै. आ. २. १४) ततः पुनश्शतपथस्थम् ॥
२४८ बौधायन-धर्मसूत्रम् [ पञ्चमोध्यायः
**अनु०—**इस कारण स्वाध्याय का अध्ययन करना चाहिए ऐसा ब्राह्मण का वचन है ॥ ९ ॥
**टि०--**द्रष्टव्य शतपथ ब्राह्मण ११.५.७.३-४
हिशब्दो हेतौ । इत्थं ब्राह्मणस्य भावादित्यर्थः ॥ ९ ॥
अथाऽप्युदाहरन्ति—
स्वभ्यक्तस्सुहितः सुखे शयने शयानः यं यं क्रतुमधीते तेन तेनाऽस्येष्टं भवतीति ॥ १० ॥
**अनु०—**इस सम्बन्ध में निम्नलिखित उद्धृत करते हैं यदि तेल आदि लगाकर, भोजन आदि से अच्छी प्रकार तृप्त होकर और सुखपूर्वक लेटकर जिस-जिस यज्ञ के मन्त्रों का अध्ययन करता है उस उस से इष्ट होता है ॥ १० ॥
स्वभ्यक्तः तैलादिना । सुहितः तृप्तो भोजनादिना । 'यं यं क्रतुम्' इत्यस्मिन् विधावन्यानर्थक्यप्रसंगात् प्रशंसैषा ॥ १० ॥
एवं तावद् गार्हस्थ्यमुक्तम् । अधुनाऽस्यैव प्रशंसा—
तस्य ह वा एतस्य धर्मस्य चतुर्धा भेदमेक आहुरदृष्टत्वात् ये चत्वार इति कर्मवादः ॥ ११ ॥
**अनु०—**इस धर्म के चार भेद हैं, ऐसा कुछ आचार्य कहते हैं । किन्तु ऐसी बात न दिखलायी पड़ने से ये चार भेद याज्ञिक कर्मों के सम्बन्ध में ही समझना चाहिए ॥ ११ ॥
योऽसौ धर्मः श्रुतिस्मृतिशिष्टागमैः प्रसिद्धः तस्यैतस्य धर्मस्य चातुर्विध्यमा-श्रमचतुष्टयकृतमिति एके ऋषय आहुः । किमिति ? यावत् दृष्टत्वान्मन्त्रार्थस्य तैः, यं दृष्टैषमाहुः । तस्यैतत्प्रतीकग्रहणं ये चत्वार इति । चत्वारोऽप्याश्रमाः देवलोकायनाः पन्थान इत्येव सत्यम् । अयं तावन्मन्त्रः कर्मवादः कर्मभेदमेव करोति नाऽऽश्रमभेदम् ॥ ११ ॥
कानि पुनस्तानि कर्माणोत्याह—
ऐष्टिकपाशुकसौमिकदार्वीहोमानाम् ॥ १२ ॥
**अनु०—**ये चार प्रकार हैं—ऐष्टिक यज्ञ, पशुयज्ञ, सोमयज्ञ और दार्वी-होम ॥ १२ ॥
स्वार्थ एवाऽत्र तद्धितः ॥ १२ ॥