भारतकोश
संग्रह पर लौटें

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

आचार्य ब्रह्मगुप्त द्वारा

DevanagariHindipublished737 पृष्ठ

( ३२२ ) गणितं बहुप्रकारं गोलो यंत्राणि यत्र कथितानि । स ब्रह्मगुप्तविहितः¹ स्फुट सिद्धांतो² स्मृतो ब्रह्म³ ॥ १४ ॥⁴ सिद्धांतेपि संब्राह्माद्यं¹ तपसा भक्त्या वयो महादेवम् । आराध्यकर³ नमस्तस्मै श्री ब्रह्म गुप्ताय ॥ १५ ॥ इति श्री भिल्लमाचार्य⁴भट⁵ जिष्णु सुत ब्रह्मगुप्तविरचिते ब्राह्म- स्फुटसिद्धान्ते संज्ञाध्यायः ब्रह्म गुप्त सिद्धांतः समाप्तः ॥

१४. (घ) १. विहतः (च) for (विहितः) २. सिद्धांतः (च) for (सिद्धांतो)
३. ब्रह्माः for (ब्रह्म) (ग) 'ग' में यह श्लोक अंकित नहीं है ।
(च) ३. ब्रमः for (ब्रह्म) ४. क्रमसंख्या—१ for (१४)
(ङ) श्लोक अनुपलब्ध है ।
१५. (घ) १. संब्राह्माद्यं for (सन्नाह्माद्यं) २. (च) +च+
३. आराध्य च कर for (आराध्यकर) ४. भिल्लमा for (भिल्लमाचार्य)
५. भट्ट for (भट)
६. अतिरिक्तपाठ—चतुर्विंशतितमः समाप्तोयं श्रीब्रह्मगुप्तकृतो ब्रह्मस्फुट
सिद्धांतः । ब्रह्मसिद्धांतबीजानि । खखखाङ्कं हृतान्येभ्योः । १२००० गतग-
म्याल्पात एव शून्य यमलहृता । २००, तल्लब्धं त्रि ३ सायक ५ हतं
कलाभिरूनौ । सदाकैंदु विषुवद् जीवद्वि ।२। हतं चंद्रोस्वतिथि १५ गुणं च
शतशीघ्रे द्वीपेषु ५२ हतं स्वक् चलेद्विक्कु १ वेदषद्धतं च पातकुजशनिषु
२ कल्याणं भूयात् ॥१॥ संवत् १५५४ वर्षे फाल्गुणवदि ४ चतुर्थी रवौ
लिखितं भयपुरवास्तव्य रेवातटे वास्तव्य ब्रह्मसिद्धांतः । ग्रंथ संज्ञा ।
(ग) 'ग' में यह श्लोक अंकित नहीं है । (ङ) श्लोक अनुपलब्ध है ।
चतुर्विंशतितमः समाप्तोऽयं श्रीब्रह्मगुप्तकृतो ब्रह्मस्फुटसिद्धांतः । ब्रह्मसिद्धांत-
बिजानि खखखांकूं हृतान्येभ्यो १२००० गतगम्याल्पात एव शून्य यमलहृता
२०० तलब्धं त्रि ३ सायक ५ हतं कलाभिरूनौ सदाक्कँ दु विषुवत् जीवेद्वि २
हतं चन्द्रोस्वतिथि १५ गुणं च शतशीघ्रे द्वीपेषु ५२ हतं स्वंकूंचलेद्विक्कु १
वेद ४. हतं च पात कुजशनिषु । २ कल्याणं भूयात् १ श्री ॥ श्री ॥ for
(ब्रह्मगुप्त सिद्धांतः समाप्तः)

( ३२३ ) अथ ब्रह्मगुप्तकृतो ध्यानग्रहोपदेशाध्यायः ॥ ॐ नमः श्री सरस्वत्यै ॥ पंचाशत्संयुक्तै वर्षशतै¹ पंचभिर्विना शाकः । त्रिस्थोऽर्के²र्वसुवेदैर्नवचन्द्रैस्ताडितः क्रमशः ॥ १ ॥ समायक¹संयुक्तः खजिन २४० विभागो नितः सयमवेदैः । मध्यमराशिः शशिविश्वभाजिततोह्यधिक मासा स्युः ॥ २ ॥ तैरपरितनो युक्तो मासगणोभ्यधिक शेषके¹ शुद्धे² । घटिकादिक³ भचक्राद्रविरवशेषो⁴ भवद्भादि⁵ ॥ ३ ॥ रूपेण रूपरामैः खसायकैस्ताडितो गुणो¹ युक्तः । षड्भिः करैश्च² दिग्भिराघटिकां³ विघटिका स्युः ॥ ४ ॥ खखरसलब्धं घटिकासु नियोजये¹ तिथिध्र² । रव्यादिकस्तदुदये चैत्रदवेर्क³ चन्द्रो⁴ वा⁵ ॥ ५ ॥ 〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰 १. (ङ) १. शतैः for (शतै) २. त्रिष्ठोऽर्के for (त्रिस्थोर्के) २. (ङ) १. पंचाब्धियुतोऽधः षष्टिभाजितो लब्धियुक् सरसवेदः । for समायक संयुक्तः खजिन २४० विभागो नितः सयमवेदैः । २. मध्यमराशि विश्वैर्विभाजितोऽभ्यधिकमासाः स्युः ॥ २ ॥ for मध्यमराशिः शशिविश्वभाजिततोह्यधिक मासा स्युः ॥ २ ॥ ३. (ङ) १. शेषकः for (शेषके) २. शुद्धः for (शुद्धे) ३. घटादिको for (घटिकादिक) ४. रविशेषो for (रवशेषो) ५. भवेद्भादिः ॥ ३ ॥ for (भवद्भादि) ॥ ३ ॥ ४. (ङ) १. गणो for (गुणो) २. वेदैर्धृत्या for (करैश्च) ३. वासरघटिका for (दिग्भिराघटिकां) ५. (ङ) १. नियोजयेत् for (नियोजये) २. तिथिध्रुवकाः for (तिथिध्र) ३. चैत्रादावर्क for (चैत्रदवेर्क) ४. चन्द्रौ for (चन्द्रो) ५. च for (वा)

( ३२४ ) मासगुणो यमगुणितः पृथक् द्विततोद्धृतः फलसमेतः । सार्धार्त्तयुतो वसुयम विभक्तः शेषाधोः केन्द्रम् ॥ ६ ॥ चैत्रादिमासगुणिते द्वे नक्षत्रे क्षिपेत्सहलांशौ । घटिकैकादशयुक्तः सार्द्धेन व पलेन रहिते वा ॥ ७ ॥ नाड्यर्द्धेन समेतं द्वितयं प्रक्षिपेच्च शशिकेंद्रे । रूपं रूपं हुताशांशशराश्च तिथ्यङ्कवे क्रमशः ॥ ८ ॥ वारं दद्यात्प्रतिदिनमब्धिपलोनां परित्यजेन्नाडीम् । केन्द्रे क्षिपेद्भूमेकं सद्वियमलं घटीचतुष्कमितौ ॥ ६ ॥ उज्जयनी याम्योत्तर रेखायाः प्राग्धनं क्षयः पश्चात् । योजनखाष्टि ८० नाडी चरदलर्माप सौम्य दक्षिणयोः ॥ १० ॥ तिथियो दशभागो रविधिष्ण्यसमन्विताः शशीमध्यः । तिथिभोग नाडिकोनं कर्त्तव्यं शीतगोः केन्द्रः ॥ ११ ॥

६. (ङ) १. मासगणो for (मासगुणो) २. कुतस्त्वोद्धृतः for (द्विततोद्धृतः)
३. सार्ध्राष्ट for (सार्धार्त्त)
४. ५. विभक्तशेषो विधोः for (विभक्तः शेषाधोः)
७. (ङ) १. युक्तै for (युक्तः) २. फलेन for (वपलेन)
३. सहिते for (रहिते) ४. च for (वा)
८. (ङ) १. हुताशाः for (हुताशां)
६. (ङ) १. भद्रियमलं for (सद्वियमलं) २. मिते for (मितौ)
१०. (ङ) १. उज्जयिनी for (उज्जयनी)
२. षष्ट्या नाडी for (खाष्टि ८० नाडी)
११. (ङ) १. तिथयो for (तिथियो) २. भागोना for (भागो)
३. रविणा समन्विता for (रविधिष्ण्यसमन्विता)
४. शशी भवति मध्यः for (शशीमध्य)
दूसरी पंक्ति – तिथ्यंशाढधा शोष्थास्तिथि भोगजनाडिकाः केन्द्रात् ।
for
तिथिभोगनाडिकोनं कर्त्तव्यं शीतगोः केन्द्रः ॥

( ३२६ ) सप्तह¹स्त्रिवसुहतो गुरोः शनिर्द्विगुणितो नवेषु³ हृतः । ²दिग्गणितो रसधृतिहृद्राहो लिप्ता सुकृतलिप्ताः ॥ ३५ ॥ त्रिगुणो दलितः शुद्धादशयुक्तसितं¹ चलध्रु²वे देयः । तात्कालिकं चलं स्याद्रविरन्येषां ज्ञशुक्रौ सहः³ ॥ ३६ ॥ मंदांशो¹ नगरवयो भयमाः खनगेंदवः खननदाश्च । यमतत्वानि तदूनान्यथाज्ञा²त्सूर्यवद्ग्राह्याः³ ॥ ३७ ॥ रदगुणिता सप्तकृता¹ कुजस्य सौम्यस्य युगगुणा² गताः³ । द्विगुणै⁴व फलं सुरेर्द्विगुणा⁵ त्रिभाजिताः स्फुजिताः⁶ ॥ ३८ ॥ त्र्यंशङ्गागोनास्य त्रिगुणारविजय मंदफलं लिप्ताः । मंदफलदलोनयुतं शीघ्रोच्चात् शोधयेन्मध्यः ॥ ३६ ॥ तस्मात् शीघ्रफलदलं स्वमृणं वामंदसंस्कृतं¹ कृत्वा² । प्राग्वन्मंदफलमतः³ सकलं मध्यग्रहे⁴ कुर्यात् ॥ ४० ॥ ३५. (ङ) १. हत for (हस्त्रि) २. दिग्गुणितो for (दिग्गणितो) ३. लिप्तः for (लिप्ता) ३६. (ङ) १. स्वद्वादशांशयुक्तः for (शुद्धादशयुक्त) २. सितचलं ध्रुवं स्यात् for (सितचलध्रुवे देयः) ३. स्तः for (सहः) ३७. (ङ) १. मंदांशा for (मंदांशो) २. तदूनान्मध्याज्ज्या for (तदूनान्यथाज्ञात्) ३. सूर्यवत् ग्राह्या for (सूर्यवद्ग्राह्याः) ३८. (ङ) १. हृता for (कृता) २. नगगुणा for (युगगुणा) ३. त्रिहृता for (गताः) ४. द्विगुणा हि for (द्विगुणैव) ५. गुणाग्नित्रिभाजिता for (गुणात्रिभाजिताः) ६. स्फुजितः for (स्फुजिताः) ३६. (ङ) १. त्रिगुणा त्रिंशद्भक्ता रविजस्य फलस्य मंदफललिप्ताः । मन्दफलयुतोनं स्वशीघ्रोच्चाच्छोधयेन्मध्यम् ॥ ३६ ॥ for त्र्यंशङ्गागोनास्य त्रिगुणारविजय मंदफलं लिप्ताः । मंदफल दलोनयुतं शीघ्रोच्चात् शोधयेन्मध्यः ॥ ३६ ॥ ४०. (ङ) १. संस्कृते for (संस्कृतं) २. दत्त्वा for (कृत्वा) ३. प्राग्वन्मन्द for (प्राग्वन्मंद) ४. मान्दग्रहात् for (मध्यग्रहे)

( ३३० ) तस्मत्¹पृथक् स्थितादपि² शीघ्रोच्चाह्वितशोधिताच्चफलेन⁴ । सकलेन⁵ संस्कृतो मृदुफल⁶स्फुटो जायते स्पष्टः ॥ ४१ ॥ भागीकृतचलकेन्द्र¹त्रिगुणो॑श्²चचुर्युद्धृते³ फलं पिंडा⁴ । षडांशधिकेन⁵ चक्राद्विशुद्धशेषे⁶ तथैव⁷ स्यात् ॥ ४२ ॥ पिंडांतरेण गुणितं¹ शार्कं² खायुद्धृत³क्रमं⁴ देयम् । उत्क्रमविधौ⁵ विशोध्यं गतपिंडे⁶ शीघ्रफलमेत्⁷ ॥ ४३ ॥ पिंडतवि¹ विकराणं गुणौ² यदाद्येन पिंडके³ ततः । यल्लभ्यते⁴ खवेदैस्तदेव फलमत्र बोद्ध्यम्⁵ ॥ ४४ ॥ पिंडे चतुर्दशे¹ विश्वपिंडगुणितान्²मखोद्धृताद्धि³ कलात् । लब्धेन विश्वपिंडो रहितः शेषं फलं भवति ॥ ४५ ॥

४१. (ङ) १. तस्मात् for (तस्मत्)    २. सितादि for (स्थितादपि)
४. विवर्जितात् (स्फुटकेन्द्रम्) for (आह्वषितशोधिताच्च फलेन)
५. तस्मात् शीघ्र फलेन संस्कृतः for (सकलेन संस्कृतो)
६. 'मृदुफल' पद लुप्त है।
४२. (ङ) १. केन्द्रे for (केन्द्र)    २. त्रिगुणो for (त्रिगुणोश्)
३. खाग्न्युद्धृते for (च युद्धृते)    ४. पिंडः for (पिंडा)
५. षडाद्यधिके for (षडाशधिकेन)
६. विशोध्य for (विशुद्ध)    ७. शेषेण for (शेषे)
८. पिंडः for (तथैव)
४३. (ङ) १. गुणिते for (गुणितं)    २. शेषे for (शार्कं)
३. खाब्ध्युद्धृते for (खायुद्धृत)    ४. क्रमाद्देयम् for (क्रमंदेयम्)
५. विधौ for (विधो)    ६. पिंडे for (पिंडे)
७. मेतत् for (मेत्)
४४. (ङ) १. पिंडाभावे for (पिंडतवि)    विकलं for (विकराणं)
२. गुणयेदाद्येन for (गुणौ यदाद्येन)
३. पिंडकेन for (पिंडके)    ४. गण्यंतेतु for (यल्लभ्यते)
५. बोद्धव्यम् for (बोद्ध्यम्)
४५. (ङ) १. चतुर्दश for (चतुर्दशे)    २. विश्वैर्गुणिते for (विश्वपिंडगुणितान्)
३. नखोद्धृते विकलाः for (मखोद्धृताद्धि कलात्)

( ३३१ ) वसुवेदयुगेति — भौमस्य–४८ । ६४ । १४० । १८४ । २२८ । २७० । <u>३०६।</u> <u>३३६ । ३५६ । ३६६ । ३४२ । २६८ । १०८ । ० ।</u> (नोट — रेखाङ्कित अङ्क कटे हुए हैं।) बुधस्य — ३३ । ६६ । ६८ । १२८ । १५४ । १७७ । १६४ । २०४ । २०४ । १८८ । १५७ । १०७ । ३६ । ० ।। गुरोः—१८ । ३६ । ५० । ६६ । ७८ । ८६ । ६० । ८८ । ८४ । ७४ । ५८ । ३६ । १६ । ० ।। शुक्रस्य—५० । १०० । १५० । १६६ । २४६ । २६६¹ । ३३३ । ३३१² । ४०० । ४१८ । ४०८ । ३४० । १५० । ० ।। शनेः—११ । २२ । ३१ । ३८ । ४४ । ४६³ । ४८ । ४६ । ४२ । ३४⁴ । २०⁵ । । १६ । ६ । ० ।। रूपगुणा ३१ बाणाजिना २४५ । शर ५ । षट्नव ६६ । यम २। गुणा ३ क्रमशः ।। मध्यमभुक्तिकलाः ।। स्फुटषट् द्वि २६ रदा ३२ वसु ८ रवेशा १७ । पिण्डक¹फलन विभागो भागादि फल²गृहे³ स्वमृणं तत् । चलकेन्द्रे⁵ मेष⁶तुलादि⁷ संस्थिते कारयेत्क्रमशः ।। ४६ ।। वसुवेदायुगनंदाः खेवेदचन्द्राः समुद्रवसुचंद्राः । वसुयम¹भलागगनाद्भूत बाहवो रसनभो रामाः ।। ४७ ।। (ङ) १. २६० for (२६६) २. ३७१ for (३३१) ३. ४८ (४६) ४. ३५ for (३४) ५. २७ for (२०) ४६. (ङ) १. पिडफल नवमभागो for (पिण्डकफलनविभागो) २. फलं for (फल) ३. ग्रहेषु वा for (गृहे) ४. स्वमृणम् for (स्वमृणांतत्) ५. चलकेंद्रे for (चलकेन्द्र) ६. मेषादौ for (मेष) ७. तुलादिके for (तुलादि) ८. 'संस्थिते' पदं लुप्त है । ४७. (ङ) १. वसुयमयममा रसनभोरामा नन्दाग्निरामाश्च ।। ४७ ।। for (वसुयमभलागगनाद्भूत बाहवो रसनभो रामाः ।। ४७ ।।)

( ३३२ ) $^१$वेदसुरोगोक्षगुणा रससरामविलोचना द्विगुणाः । $^२$वसुरसयमा वसुदिशो नभस्य कुजशीघ्रपिण्डा स्युः ॥ ४८ ॥ गुणरामाः षट्करसा वसुनंदारामलोचन शशांकाः । सागर विषयशशांका नगनगचन्द्राः कृतांकभुवः ॥ ४६ ॥ वेदना जलधिनखा वसुवसुचंद्रास्तुरंग विषयभुवः । तुरगदिशो रसरामा नभश्चपिंडास्तशशिसूनोः ॥ ५० ॥ $^१$द्वरस्त्रिगुणाः खशराः $^२$षड्रंसा गजनगा $^३$रसाप्तौ च । $^४$खांका $^५$भुजंगरसवः सागर वसवः समुद्रनगाः ॥ ५१ ॥ भुजंगशरारस रामारसैंदवश्$^१$चंद्रपिंडकाः सूरेः । $^२$वक्राद्विशुद्धशेषः स्फुटो भवेत्सिंहिकासूनुः ॥ ५२ ॥ खशराः $^१$शनंखति तिथयो $^२$वसुवसुवंशः शरा विनाशतयाः । $^३$शशिन वयमागुणासुराः $^४$कुनवगुणाः शून्यखांबुधयः ॥ ५३ ॥ ४८. (ङ) १. मोक्षगुणा रससरामा विलोचनाब्धिगुणाः । for (वेदसुरोगोक्षगुणा रससराम विलोचना द्विगुणाः ।) २. वसुवसुयमा वसुदिशो नभश्च कुजशीघ्रपिण्डाः स्युः ॥ ४८ ॥ for वसुरसयमावसुदिशो नभस्य कुजशीघ्रपिंडा स्युः ॥ ४८ ॥ ४६. (ङ) १. गजविलोचन for (रामलोचन) ५१. (ङ) १. धृतिरसगुणाश्च for (द्वरस्त्रिगुणाः) २. षट् for (षड्) ३. रसाष्टौ for (रसाप्तौ) ४. खाङ्गाश्च for (खांका) ५. भुजगवसवः for (भुजंगरसवः) ५२. (ङ) १. 'चन्द्र' पद लुप्त है । २. रसेन्दवः पिण्डकाः for (रसेंदवश्चन्द्रपिंडकाः) ३. चक्रा for (वक्रा) ५३. (ङ) १. शतंखातिथ्यः for (शनंखतितिथयो) २. सागरनन्देव्वोऽङ्कजिनाः for (वसुवसुवंशः शरा विनाशतयाः) ३. गुणगुणरामाः for (शशिन वयमागुणासुराः) ४. कुनगंगुणाः for (कुनवगुणाः)

( ३३३ ) कुंजरचन्द्र समुद्रागजाभ्रवेदानभो बु^१धिज्वलनाः । गगनशिलीमुखचन्द्रा वियच्चर्पिडाः सुरारिगुरौ^२ ॥ ५४ ॥ रुद्रायमाः^१ कुगुणा^२ वसुरामाः सागराम्बुनिधयश्चः^३ । रसवेदा^४गजवेगज^५वेदा^६षड्वयो लोचनांबुधयः ॥ ५५ ॥ पंचगुणा^१ सप्तयमा रसचंद्राः षण्णभश्च^२ रविसूनोः । अ^३द्यतनस्वसूनयोर्ग्रहयोर्विवरं भवेद्भुक्तिः ॥ ५६ ॥ रूप^१गुणा बाणाजिनाः शराः षडंकायमौ गुणाः क्रमशः । मध्य^२मभुक्तिकलाः स्युरत्कृतिरदखास्तखेचरा विकलाः ॥ ५७ ॥ मंद^१स्फुट खंडगुणा भुक्ति खखनवहृतागतिज्या स्यात् । ग्रह^२वत्तत्फलविधिमृदुकेँद्रवशाद्गतौ स्वमृणम् ॥ ५८ ॥

५४. (ङ) १. नभोऽम्बुधि for (नभोबुधि) २. गुरोः for (गुरौ)
५५. (ङ) १. द्वियमाः for (यमाः) २. कुगुणा for (कुगुणा)
३. च for (चः) ४. वसुवेदा for (रसवेदा) ५. ‘वेगज’ लुप्त है ।
६. गजवेदाः for (गजवेगजवेदा) ७. षडब्धयो for (षड्वयो)
५६. (ङ) १. पंचगुणाः for (पंचगुणा) २. षड्नभश्च for (षण्णभश्च)
३. रूपगुणा ३१ बाणाजिनाः २४५ शर ५ षण्णाव ६६ यम २ गुणाः
३ क्रमशः ॥ ५६ ॥
for
( अद्यतन स्वसूनयोर्ग्रहयोर्विवरं भवेद्भुक्तिः ॥ ५६ ॥ )
५७. (ङ) १. मध्यमभुक्तिकलाः स्युः षड् द्वि २६ रदाः ३२ खंवसु ८ शका ११ विकलाः
for
(रूपगुणा बाणाजिनाः शराः षडंकायमौ गुणाः क्रमशः ।)
२. मन्दगुणिताभुक्तिः खखनवविहताभुक्तिः स्यात् ॥ ५७ ॥
for
(मध्यमभुक्तिकला स्युरत्कृतिरदखास्तखेचरा विकलाः ॥ ५७ ॥)
५८. (ङ) १. ग्रहवत् तन्मन्दफलं मृदु केन्द्रवशात् स्वमृणं तदूनां च ।
for
(मंदस्फुट खंड गुणा भुक्ति खखनवहृतागतिज्यास्यात् ।)
२. शीघ्रगति सङ्गणयेदेवं शीघ्रस्य खण्डेन ॥ ५८ ॥
for
(ग्रहवत्तत्फलविधिमृदुकेन्द्रवश।द्गतौ स्वमृणम् ॥ ५८ ॥)

( ३३४ ) १ न द्विहता शीघ्रगतिः संगुणाय शीघ्रभोग्यखंडेन । २ खार्कैर्विभजेलिप्ता भौमादीनामतिशीघ्रम् ॥ ५६ ॥ १ स्वमृणं क्रमोत्क्रमविधौ चतुर्दशो विश्वपिंडको गुणकः । २ हारः ख रसागगतिरे वक्रिणोद्वोधिता चक्रम् ॥ ६० ॥ भुक्तेऽरपि प्रदलिते द्वे सकलफले द्वे च कारयेद् ग्रहवत् । मांदं फलं त्रितयं वक्रोच्चस्य द्वितो व्यस्तम् ॥ ६१ ॥ नवतितयो ६२ चरखंडा विज्यावत् ॥ ६३ ॥

५६. (ङ) १. पिंडान्तरेण खार्कैः १२० लिप्ताद्यं स्यात् फलं गतेः शीघ्रम् ।
for
(नद्विहता शीघ्रगतिः संगुणाय शीघ्रभोग्य खंडेन ।)
२. स्वमृणं क्रमोत्क्रमविधौ चतुर्दश विधिश्च पिंडको गुणकः ॥ ५६ ॥
for
(खार्कैर्विभजेलिप्ता भौमादीनामतिशीघ्रम् ॥ ५६ ॥)
६०. (ङ) १. ह्रस्वगतिरेवं बह्वणात्याज्ये भुक्ते ।
for
(स्वमृणं क्रमोत्क्रमविधौ चतुर्दशो विश्वपिंडको गुणकः । )
२. पददलिते द्वे द्वे सकाले कारयेत् स्फुटा भुक्तिः ॥ ६० ॥
for
(हारः खरसगगतिरेवक्रिणोद्वोधिता चक्रम् ॥ ६० ॥)
नोट—(नवतिपयोधिविभक्ता इत्यादि आर्याषट्कं खण्डखाद्याच्चिन्त्यम्)
६१. (ङ) १. नवतिययो १५६ ऽष्टि १६ विभक्ताः,
पंचरसा ६५ वसु ८ हृता दश १० त्रिहृताः ।
विषुवच्छुगुणिताः स्वदेशजाश्चरदलविनाड्यः ॥ ६१ ॥
for
भुक्तेऽरपि प्रदलिते द्वे सकल फले द्वे च कारयेद् ग्रहवत् ।
मांदं फलं त्रितयं वक्रोच्चस्य द्वितो व्यस्तम् ॥ ६१ ॥
(ङ) नोट—खण्डखाद्यस्य श्लोकाश्चैते ।
६२. (ङ) १. ज्या केन्द्रं स्फुटभानुं कृत्वा ये राशयश्चरार्धानि ।
भुक्तानि भोग्यगुणिताच्छेषात् खखधृतिहृतात्फलम् ॥ ६२ ॥
for
(नवतितयो ॥ ६२ ॥)
६३. (ङ) गतिपादं पादोनां गतिं विशोध्यास्तकाल उदये च ।
संसाधितस्य तस्य ग्रहस्य चरकर्म चान्यस्य ॥ ६३ ॥
for
(चरखंडा विज्यावत् ॥ ६३ ॥)

( ३३५ ) पंचदशहीनयुक्ता ६४ क्रांतिकालाद्विरसगुणाः ॥ ६५ ॥ त्रिज्यां विषुवच्छाया घातस्तच्छ्रुति विभाजितार्च्चाप्तम् । अक्षो नित्यं याम्यो गोलवशाद्दिग्भवेत्क्रांतिः ॥ ६६ ॥ क्रांत्य¹क्षायुति वियोगा²द्दक्षरणपदैः शोधिर्तै³दिनदलाभाः⁴ । भाश्रुतिकृत्योः कृतमनुयुतो नयोस्तत्पदे⁵ व्यस्ते ॥ ६७ ॥ षड्गुणितागत शेषा नाड्यो दिवसाद्धं विभाजितात् स्यात्¹ । दिनदलकरण²गुणाप्ता³ तया⁴ त्रिज्यया फलं कर्णः ॥ ६८ ॥ ६४. चरदल विनाडिकागति कलावधात् खखरसाग्नि ३६०० लब्धकलाः । ऋणमुदयेऽस्तमये धनमुत्तरगोलेऽन्यथा याम्ये ॥ ६४ ॥ for (पंचदशहीनयुक्ता ॥ ६४ ॥) ६५. पंचदशहीनयुक्ताश्चरार्ध ना

( ३३६ ) दिनदले¹ कर्णांगुरो² त्रिज्या³ निहते श्रवणोद्धुते फलस्य धनुः । द्युदलगुणं तिथिभक्तं दिनगतशेषावसः क्रमशः ॥ ६६ ॥ ¹ज्याखंडोने शेषे ७० चापानयने नवशत ७१ । तिथिनक्षत्र ग्रहसंक्षिप्तोतिस्फुटश्चैवम्² ॥ ७२ ॥ दुर्जनकृतघ्न शत्रु¹प्रभृतीनामेशनिव²द्वातव्यः । ध्यानग्रहाधिकारो जिष्णुसुतब्रह्मगुप्तकृतः ॥ ७३ ॥ आर्याः १०६३ ॥ ॥ छः ॥ इति श्री ब्रह्मगुप्त सिद्धान्तः समाप्तः । श्रीरस्तु ॥ छः ॥ स्वस्ति श्री संवत् १६७८ वर्षे शाके १५४४ प्रवर्त्तमाने । उत्तरायने । वसंत ऋतौ । माहामङ्गलप्रदा । वैशाख शुदि १० बुधे, समये श्री राजनगरमध्य वातव्यं······लिखितमस्ति । स्वयं पठनार्थं । पठनार्थं तथा पुत्रपौत्र पठनार्थं तथा परोपकाराय । श्री कृष्णार्पणमस्तु । यादृशं पुस्त० । इत्यादि । भग्न द्रिष्टि । त्यादि । श्रीरस्तु ॥ इति समाप्तोऽयं ग्रन्थः ।

६६. (ङ) १. दिनदलकर्णौ for (दिनदलकर्णांगुरो)  २. त्रिभज्यागुणे for (त्रिज्या)
३. 'निहते' पद लुप्त है ।
४. श्रवणोद्धृते for (श्रवणोद्धुते)  ५. शेषासवः for (शेषावसः)
७०. (ङ) १. ज्याखण्डोने शेषे गुणिते नवभिः शतैरशुद्धहृते ।
क्षेप्याणि शुद्धखण्डैर्गुणितानि शतानि नवचापम् ॥ ७० ॥ for
(ज्याखंडोने शेषे ॥ ७० ॥)
इति तिथिनक्षत्रदिनमाद्यादिकसिद्धौ ब्रह्मगुप्तेन ।
द्वासप्तत्यार्याणां संक्षिप्तोऽतिस्फुटश्चैषः ॥ ७० ॥ for
(चापानयने नवशत ॥ ७१ ॥)
२. ७२ वीं संख्या का श्लोक ७३ अंकित है । अगला पृष्ठ देखिये ।
७३. (ङ) इसकी श्लोक संख्या ७२ है ।
वामपार्श्वे लिखितम् ] प्रथम दशध्याई पत्र प्रथम लितम् । पश्चात् कियत्
दिवसे पंचदशाध्या इति लिखितमस्ति एवं पत्र ॥
१. प्रतिकञ्चुककारिणे for (प्रभृतीनामेश नि)  २. न for (व)
३. + इति श्री ब्रह्मगुप्तकृतो ध्यानग्रहोपदेशाध्यायः समाप्तः ॥ +

अकारादिक्रमेण श्लोकानुक्रमणिका अंशकशेषत्रियुतम् २५२ अध्यायः पञ्चदशः २१५ अंशकशेषा न्यूनाः २३८ अध्वर्द्धाद्धं क्षेत्रान्युडूनि १९६ अंशकशेषेण युताः २५२ अनयोर्न कदाचिदपि १४९ अंशसममंशके कलासमं २५२ अन्तरमाद्यो भूयो १०८ अकृतार्यभटः शीघ्रगम् २१ अन्तरयोगो तुल्यान्यदिशोः १०५ अक्षचराद्धार्ज्ञाकंम् २०२ अन्त्यफलज्याप्तास्वान्य १८४ अक्षज्याया वित्रिभलग्नात् ७९ अन्त्यानतो क्रमज्या ६२ अक्षज्या शंकुवधालम्ब ७१ अन्यत्र सर्वतोदिशम् २७६ अक्षांशभूपरित्रि २८० अन्या विक्षेपकला १५० अग्न्यष्टभिरिषुमनुभिः ४० अन्येष्टनाडिकाभिः कृत्वा १३१ अग्रान्त्यमुपांत्येना २३७ अन्यैरप्युक्तमिदं योयं १३४ अग्राशंकुतलैक्यं १२६ अपमेवकृतः सूर्येदु ३१९ अघनमभगणलब्धम् १७८ अपसृतिरन्यशलाका ३०६ अंगचितिविजय्नंदि १५१ अम्बरयोजनपरिधिः २८० अंगैः रुद्रैः सिद्धैर्गजैः ३२७ अर्कफलभुक्ति घाताद् ३३ अत्र मया यन्नोक्तम् ३२१ अर्काग्र्याक्षकलंबकजीवे २०८ अथवा कपालके ३१० अर्काग्रावर्गोनं नृज्या ६७ अथवा जिनभगणादि २३५ अर्कैद्धतरघटिका १४७ अधिकदिनोदितघटिकाभिः १२८ अर्कोदयास्तमययोर्विना २६ अधिकः स्मृत्युक्तमनोरार्य १० अर्कोनचन्द्रलिप्ता ३२६ अधिकाग्रभागहारा २३३ अर्कोनचन्द्रलिप्ता ४५ अधिकैः शतैश्चतुर्भिः १४० अर्कोनलग्नहोरा पंच १८० अधिमासकैः सविकलैः १७१ अर्द्धच्छिन्नो भानुः २८७ अधिमासशेषपादा २५० अर्द्धज्याभूमला २३ अधिमासशेषवर्गम् २५८ अध्यर्द्धाद्धं क्षेत्राणि संहिता १९८ अधिमासाः शशिमासाः ८ अल्पप्रश्नासूनां यदि ६१ अधिमासोवमशेष १७५ अवनतिरतोन्धथा भवति ७८ अध्यर्द्धां समक्षेत्राणाम् १९७ अवमविकलं न सावनमेभिः १७६

( २ ) अवमाति यः सविकलैः १३१ आर्यभटस्याज्ञानात्- ३४ अवमावशेषमवमैः २५३ आर्यभटेनास्मिन् मतिलब्धूनि १८३ अवमावशेषलब्धा १७५ आर्यभटो जानाति १३६ अवमावशेषवर्गम् २५८ आर्यभटो युगपादांस्त्रीन् १३८ अवमाशेषवर्गो २३९ आर्याष्टशते पाना १३९ अवलम्बनं शलाकां ३०१ इति कथिततन्त्रारणाणान् १५२ अविषमचतुरस्रभुजगति १५८ इति परिलेखाध्यायः २३२ अविषम पार्श्वभुजगुणकरणौ १५९ इति बहुधा विवदन्ति १५१ अव्यक्तवर्गधनवर्गवर्ग २४७ इति बाहुवर्ग कोटि ९८ अव्यक्ताँतरभक्तम् २४८ इत्यपदकृतिस्त्र्यूना २५५ अष्टचरार्धस्य ज्या २०९ इन्दुविलिप्ताशेषम् २५६ अष्टनखैर्मपगविरदलिप्सोनै ११० इन्दुविलिप्ताशेषम् २६१ अष्टयमाश्रुत्युगुणा २०७ इंदोर्विपया द्वितमा २२४ अष्टयमैः कृतचन्द्रैः ४१ इषुशरकृताष्टदिग्भिः २६३ असकृत् ग्रासकालेन ७५ इष्टकरन्यूनाया २४७ असकृत् मांदे तत्फल २८५ इष्टगुणाकारगुणितम् १७८ अस्ताँतर्घटिकाभियों २६७ इष्टगुणाकारगुणितो १६२ अह्नोगताऽवशेषाः ६४ इष्टग्रहभगणगुणादहर्गणात् ११ आकृतिफलमव्याहत १६५ इष्टग्रहेष्टशेषाद्युगणो २६२ आचार्येण ज्ञातः श्री २६७ इष्टग्रासविमर्द्दस्थित्यर्द्धा ८४ आग्नेयी नैऋत्यो ३२१ इष्टग्रासोकेंद्वोः २२७ आद्यघटिकान्तरं वशात् १२९ इष्टघटिकागुणानामसकृत् १६४ आद्यंतरमिष्टाभिर्घटिकाभिः १३१ इष्टज्या संगुणिता १८६ आद्यंतरातसंधिषु कल्प- ३ इष्टदिनाद्धं नतांश ५३ आद्यन्तवर्ग योगान्मूलं ९५ इष्टदिवसाद्धं घटिका २६६ आद्यन्त्ययोः सधूम्रः कृष्णः ७७ इष्टद्वयेन भक्तो द्विधेष्ट १६१ आद्यन्ते वान्कृत्वा विक्षेपः २२८ इष्टभगणादिशेषं २५७ आद्यादनन्तरोधः २७५ इष्टभगणादिशेषाः २३६ आद्याद्गणाद्दिन्यान् व्यस्तान् २५० इष्टभगणादिशेषात् २३७ आनयति दिवसवारम्- ११ इष्टभगोन भूदिनशेषैः १७६ आनयति यस्तमो २६५ इष्टशरस्य भक्ते ज्याद्धं १६३ आयतकर्णौ बाहू १६२ इष्टश्विन्योदयिकान् १८४ आयनिकव्योनाम् २०४ इष्टस्य भुजस्य कृतिः १६१ आर्यभटैः क्षेत्रांशैः ८९ इष्टाच्छायावृत्ते तदग्रयो ६६ आर्यभट दूषणानां १४८ इष्टात्कालात् भानोरुदया १२१

( ३ ) इष्टान्मध्यादन्यांस्तिथिम् १७१ उद्दिष्टे कल्पकृतो . २७५ इष्टापक्रमवर्गमिज्यावर्गाद् ४३ उद्रगणिताद्विशोध्य १६४ इष्टार्कचरार्द्धं ज्या २०८ उनदिवसोदिताभ्यो १२६ इष्टालपराशिवर्गो युक्तोना १७० उन्नतजीवाकोटिः छाया ५१ इष्टाहतभक्तानाम् १७७ उन्नतजीवाभक्तं व्यासाद्धं ६६ इष्टेषु मानदिवसे २४० उषिताय दीर्घकाल २१६ इष्टोदयिकभुजांतर १८६ उनदिनोदितगुणितात् १०८ इष्टोद्धृतकराणी २४६ ऊनाधिकशंकुगुणा १२६ इह नोक्तानि बहुत्वान् ४८ ऊने मानैक्चार्द्धात् ग्रहयो १२८ इह नोद्दिष्टं यत्तद्रविवद् १०१ ऊनोल्पभुक्तिरुदितः १२१ उंकारो दिनवारो गुरुः १४० ऊर्द्धांशा छेदगुणाः १५५ उत्क्रमजीवा चापं २१३ ऋग्वर्गः पर्यायः २७२ उत्क्रमसमखण्ड २८३ ऋणमधिकाद् विशोध्यम् २४३ उज्जयिनी याम्योत्तर ३२४ ऋणमूनं धनमधिकं १०६ उत्क्रमजीवाभ्यधिक ६५ ऋणयोर्वा धनयोर्वान्तरेण १०६ उत्तरगोले ग्रायां १४३ ऋतुनवरवगुणः नवशर २४ उत्तरगोले नं तदं २११ एकदिनावमशेषं षट् २६३ उत्तरगोले याम्ये २१२ एकद्विकयोः परतो २७६ उत्तरहीनाद्विगुणादि १४७ एकद्वित्रिगुणाया २८२ उदयज्यया विभक्ता २११ एकादशलिप्तांशा भौमः १५ उदयं प्रागस्तमयो लग्नेन १२१ एकान्यदिशातिवियुतेः ७६ उदयविलग्नादधिके ११६ एकेष्टदिवसघटिका २३६ उदयसममंडलान्तरं २०४ एकैकयुतविहीना २७२ उदयास्तमयावदिदोः ८८ एकैकेन द्वाद्या न २७२ उदयास्तविधौ विवद्बुध्य ८८ एकोत्तरमेकाद्यं यदीष्ट १५७ उदयास्तविलग्नान्तर १०६ एको वक्रिभुक्त्यो युत्योनः १०३ उदयास्तसूत्रशंकवंतरं ३०५ एवं राश्यंश कला २४१ उदयास्तसूर्योरन्तरे १२५ एवं वभूवरं नाडिकांगुलैः ३१२ उदयिकाद्दिनमुक्तचा १४१ एवं विचार्यमाणं पंच १४५ उदयिके यः परिधिः १४२ एवं समेषु विषमेष्वृणं २३८ उदये ग्रहभमुनीनामस्तमये ११६ एवं समेषु विषमेष्वृणं २३८ उदये ज्येष्टापक्रमजीवा २१० एवं जीवा खंडान्यल्पानि २८२ उदयेस्तमये चाग्राम् २०३ एवं तावाद्यावन्यदयोः ६५ उदितघटिका यदि हृता १३० एवं त्रिज्या रविशशि २८६ उदितामुदितास्तमिता १४७ एवं द्वितीयराशियुतिहीनं १६४

( ४ ) एवं नक्षत्राणां घटिका १०४ कीलस्योपरिगमिभि ३१४ एवं नक्षत्रांतातिथि १६१ कीलोपरिगामिन्याम् ३११ एवं भमुनिध्रुवयो ११७ कुंजरचन्द्र समुद्रा ३३३ एवं मानेक्याद्वादधिके १०७ कुदकगं धनाव्यक्त २३३ कक्षामंडलतुल्यं २६६ कुदलांत्याज्या च्छेद्रो ६६ कक्षामंडलतुल्यम् १८४ कुदिनगताधिकमासकघातः १७४ कक्षामंडलभूमध्ये २८३ कुदिनदुतमवशेषम् १७७ कदिनादौ स्मृतियुक्तं १५० कृतनवपंचयमा नन्द २५ कन्यायां पञ्चनखैस्तुलिनि ११० कृतवसुनावष्टनवनव ५ करार्णलम्बस्तत्कृति २४६ कृतिगुरसहशराश्योः १६१ कर्णांकृतेः कोटिकृतं १४६ कृतिसंयोगाद्द्विगुग २६५ कर्णाकृतिस्त्रिसमभूजाः १६२ कृत्वाग्रोधः कल्पान्ये २७७ कर्णगतस्थेनेन्दो २३१ कृत्वापि दृष्टिकर्म श्रोपेग ११८ कर्णगुणाद् व्यासाद्धार्दि ७६ कृत्वा विशाद्वितयं ६७ कर्णयुतादुद्धार्ध रखण्डे १४६ कृत्वेवंदिनघटिकाः १०५ कर्णवलकयुतौ खंडे १६१ कृष्णचतुर्दश्यन्ते शकुनि ४७ कर्णहृते व्यासाद्धंम् १७६ केन्द्रभुजकोटिजीवा १८२ कर्णाग्रे चन्द्रमसं २३१ केन्द्रे पृथक् फले द्वादशोद्धृते १७६ कर्णास्त्रित भुजघातैक १६० केशादित्यविशाखा १६६ कर्णे ज्याक्षिपप्रचलनमेव ३१५ कोटिज्यया द्विगुणया १८३ कलिगतशुद्धिः प्राग्वच्छुक्राद् १८ कोटिभुजकर्णशंकु १३२ कल्पगताक्षदिनयुतेः १४ कोटि श्रवणज्ञानात् १४७ कल्पगताब्द द्वादशघातः १० कोट्यग्राभ्यां बाहुकर्णौ १३३ कल्पगताब्दा गुणिता १३ कोणछायाकर्णेन २१५ कल्पदिनसप्तकवधात् १७६ कोणछाया कांतिदल २१४ कल्पपरार्धमनवः षट्कस्य ६ कोद्यांत्यफलाद्यैक्यं १८५ कल्पेऽर्कबुधसितानाम् ४ क्रांतिकालाद्विरसगुणाः ३३५ कल्पेषु पृथग्गुरु २७६ क्रांतिज्या तत्क्रान्ति ११७ कालगुणितं प्रमाणं १५६ क्रान्तिज्या विषुवच्छाया ४४ कालज्ञानं प्रायः पर्व ७२ क्रांतिज्ञः सममंडल २०१ कालप्रमाणघातः १५६ क्रान्तिव्यासाद्धं गुणा ७० कालक्षंदेशयोगाद्भूयः ४ क्रांत्यक्षायुतिवियोगा ३३५ कालस्य परिच्छेदः कर्तुं २६८ क्रान्त्या विषुवच्छाया २०८ कालान्तरेण दोषा येन्यैः १४८ क्रान्त्योर्यु तिरन्यदिशोः १६३ कालोक्षपास्तिहितः ३१२ क्षयधनधनक्षयास्तत्फलानि २६

( ५ ) क्षयधनहानिधनानि ३३ गुणितं वा द्वादशभिः ५६ क्षयवृद्धिज्याहीनं युक्तं ६४ गुणितं व्यासाद्धेन ६३ क्षितिजेऽग्रा प्राच्यपरा ७१ गुणिताद्युगाधिमासैः १७५ क्षितिजे भूदललिप्ताः २६५ गुणितानि चन्द्रदिवसैः १७३ क्षितिजोन्मण्डलयोः २६५ गुणिता व्यासाद्धेन १२५ क्षेत्रव्यपक्षेत्रफलं १६४ गुणिता स्वभुक्तिलिप्ता १२६ खखरसलब्धं घटिकासु ३२३ गुण्यं गुणकारं वा १६६ खत्रययमनवपंच्राष्ट १६ गुण्यगुणकारयोः १६८ खत्रिघनगुणा व्यासाद्धं ७३ गुण्यो राशिर्गुणकार १६८ खनंदा द्वियमाः खाब्धयो २२४ गुरुणा न धूलिकर्म १३५ खशराः शनंखति ३३२ गुरुषष्ट्यै कविघटि २७७ खशरैर्जिनैज्ञ सितयोः ४२ गृहपुंरुषांतरसलिले २७१ खाष्टाब्धयो वसुशर ६ गोगेंदुखेश गुणित २६४ खे भूगोलस्तदुपरि २७८ ग्रहकक्ष्यायनतुल्याः १६५ खोद्धृतमृणधनं वा २४५ ग्रहकेन्द्रभुक्तिज्या ३७ गगने ननंद चन्द्रैः ३२८ ग्रहणाग्रहसंयोगग्रहः २१६ गच्छधनमिष्टगुणितैः १८० ग्रहणं ग्रहयोगं वा ६८ गणितज्ञो गोलज्ञो २६७ ग्रहणो यथा रवींद्वोः २२५ गणितं बहुप्रकारं ३२२ ग्रहणोत्तरं न देयं २२८ गणितेन फलं सिद्धम् ३२० ग्रहनक्षत्रभ्रमणम् २७८ गतघटिकाः शेषा वा १०० ग्रहभक्तेरूनाया मंदोच्चं १३६ गतदिवसा पृथक् विमासक १७५ ग्रहमेलके यदुक्तं तत्स्थूलं १३५ गतभगणयुता द्युगुणा २५१ ग्रहयोगेंदुच्छाया २३२ गतभगणोना द्युना २५१ ग्रहयोगोत्र ग्रहयुति १३५ गतभोग्यखंडकांतरे ३२५ ग्रहयोः स्वोदयलग्ने १०५ गतमासदिनावशेष १७६ ग्रहसूर्यान्तरघटिका १२२ गतशेषनता घटिका २०० ग्रहाभास्करांतरैः प्राक् ८५ गतशेषालपास्याह्नः ५८ ग्रासात्कालः प्राग्वत्स्पष्ट ८२ गुणकच्छेदः छेदो २३८ ग्रासान्यत्वं न ततो २८८ गुणकयुतिरष्टगुणिता २५६ ग्राह्यं परिलिखितैक्यम् २१८ गुणकारखण्डतुल्य १६७ घटिकाकलशार्द्धं ३०६ गुणाके वर्गच्छिन्ने २५६ घटिकांगुलांतरस्थै ३११ गुणच्छेदफलवधो १६८ घटिकाद्वयेन चन्द्रो १२२ गुणमधिमासकशेषम् १७४ घटिका स्वशंकुभागैः २६९ गुणरामाः षट्करसाः ३३२ घातोवार्कगुणास्त्रिज्या ६१

( ६ ) चक्रात्प्रोह्य चतुर्थे १८४ छेदस्य छेदरूपं कृत्वा १६६ चक्रात्प्रोह्य मृगादौ स्फुटः ७० छेदहता यदलान्त्या ६२ चक्रार्द्धे ऽर्कशशियुतौ १६१ छेदेनेष्ट युतोनेना १६८ चक्रे वैधृतमेकाय तस्थयोः १६२ छेदोधना द्वितीयात् १५४ चतुर्गहतो विवस्वान ३२८ छेदोन्यथा तदेवञ्च १६४ चतुरुनैन्यपद कृता २५६ जगति तमोभूतेऽस्मिन् ११ चत्वादि त्र्युवर्त्त २२५ जनसंसदि दैवविदां २६६ चन्द्रकुजजीवमंदा २६३ जयति प्रगतसुरासुर १ चन्दरविग्रहगोन्दु १५१ जलपूर्णकृतघटीभिः ३११ चरदलघटिका गुणिता ४४ जात्यद्वयकोटिभुजाः १६२ चरदलजीवोनाधिक ६४ जानात्येकमपि यतो १४८ चरखंडा त्रिज्यावत् ३३४ जिनभागज्या गुणिता ४३ चापानयने नवशत ३३६ जिनभागैर्यम्येन २९३ चित्रास्वातिवदुदये १०५ जिनरम् गोभिश्चरद्गुणा २६४ चैत्रसितादेरुदयात् १ जीवविलिप्ताशेषा २६१ चैत्रसितायास्तिथयः १४ जीवावशांकभास्कर ८३ चैत्रसिताद्योब्द पतिद्भूनाया २१ जीवा स्वाहोरात्रम् ३०० चैत्रादिमासगुणिते द्वे ३२४ ज्ञदिने यदंशशेषम् २४० छाद्यं छादकमानैक्यार्धं ७३ ज्ञदिनेऽर्कं कलाशेषम् २६० छादयति शमिततयो २९० ज्ञदिनेऽर्कं कलाशेषम् २६१ छादय योगतारां ११३ ज्ञस्येवं मनुसूर्यैः पठितैः ८९ छायेन युतोनस्य ७४ ज्ञातं कृत्वा मध्यं भूयो २६६ छाया कर्णविभक्ता ६३ ज्ञातज्ञेयग्रहयोः २६६ छायाग्रभ्रमरेखा ४६ ज्ञातभुगणादिभुक्तं १७६ छायाग्रान्तरगुणिता १६७ ज्ञातः सभार्वं उदयैः २६६ छायाद्वितीयाग्रांतर २६७ ज्ञातै छायापुरुषैः २६८ छायांतरसैकहृतं १६७ ज्ञात्वा शंकुछायामनुपातात् २७० छायां दृग्ज्या यष्टि ३०६ ज्ञानैकभगणाभुक्तिः १७७ छायापुरुषच्छिन्नम् २७१ ज्याखंडोने शेषे ३३६ छायावृत्ताग्रोमासौम्येन ६९ ज्यापरिधिस्पष्टी ४८ छायावृत्तेऽर्कग्रा कर्णगुणा २१२ ज्यां प्रोह्यशेषगुणिताः २७ छायावृत्तेऽर्काग्रा कर्णगुणा ५० ज्यार्द्धानि ज्यार्द्धानां ज्या २८२ छिद्रे स्वधिया क्षेप्यम् ३१४ ज्यार्द्धं दृष्टि दृग्ज्याघ्नत ३०१ छेदचतुर्थे बाहुर्ये १८७ ज्यावर्गातितक्रान्तिज्या ५४ छेदवधस्य द्विगुगच्छेद २३४ ज्याव्यासकृतिविशेषात् १६३

( ७ ) ज्येष्टापक्रमभागै १०१ तिथिविकलषष्टि १७६ तच्चापं मन्दफलं फल २६ तिर्यक्कीलोमध्ये ३१३ तच्चापांशा सदृशैः १२७ तुल्यक्रमोक्रमसमज्या ८२२ तज्जयेन्दु शंकुराद्यः सवितुः ८० तैरपरितनो युक्तो ३२३ तज्ये परमफलज्या १८८ त्यक्तं तत्परिधौ प्रतिलोमं २८३ तत्प्राग्विक्षेपे सौम्ये ११८ त्रिंशत्सनवरसेंदुः ३२५ तत्स्थस्तद्व्याससमो २६१ त्रिंशद्गुणास्तिथियुतः ११ तत्स्पष्टतिथिखेदांतरे ८१ त्रिगुणमवमाशेषं १५ तत्स्फुटपरिधिः खनगाः ३६ त्रिगुणयोरविद्धैर्धृति १७२ तत्स्वक्रान्तिज्याभ्याम् ११८ त्रिगुणः शनिरिन्दुन्नो १७२ तत्स्वल्नांशकयोगान्तर २२१ त्रिगुणो दलितः शुद्धा ३२६ • तदधिककालोदयवधराशि ५७ त्रिचतुरनन्तरषष्ट्यः १८० तदभावे होमजपः २८६ त्रिच्छायाग्रज्ञो यः क्रान्त्यक्षार्के १६६ तद्गुणिते ज्ये भांशैः २८ त्रिज्या कृत्याभक्ता १४६ तद्दलखण्डानि तदुन २८२ त्रिज्याकृते चतुर्गुण ७८ तद्दिग्गुणा योगादधि १३ त्रिज्याक्षवृद्धिद्यैकांतरे २१३ तद्द्रुगणैर्दिनभोगो १६७ त्रिज्यादिनाद्धं सममंडलांतरा २०५ तद्भुजफल कृतियोगात् २६ त्रिज्यांत्यफलत्वतियुतेः १८३ तद्युगवधो महायुगमुक्तं १५० त्रिज्याप्तांशुभिरुदयैः ११९ तद्युदलपरिध्यंतर ३१ त्रिज्यावर्गान्नौस्वशंकु ८० तद्द्द्वर्गान्तरमाद्यं तदंतरं २६५ त्रिज्यां विषुवच्छाया ३३५ तन्त्रपरीक्षागणितं ३१६ त्रिज्या विक्षेपगुणा २२२ तंत्रभ्रंशं प्रतिदिनमेवं १५१ त्रिज्याहता भुजज्या २८ तस्मात्पृथक्स्थिकृतादपि ३३० त्रिज्याहता युतोना ५८ तस्मात् शीघ्रफदलं ३२६ त्रिनवग्रहेन्दु क्रान्तिः १६२ तात्कालिकविक्षेपः ७५ त्रिप्रश्नोत्तद्या शंकोः ६७ तात्कालिकसंस्थानं २२२ त्रिभुजभुजौभूर्भुमि १६० तात्कालिकैर्ग्र हैरसकृद् १४४ त्रिभुजस्य बधोभुजयो १५६ तात्कालिकोपरणै १२० त्रिमनेवांत्यफलधनुः १८५ ताभ्यां सूर्यशशांकौ ३०४ त्रिविषयवेदशशांकाः २५ तावत्सूर्ये राशि न क्षिपेत् ५७ त्रैराशिके प्रमाणफल १५५ तिथिगतगम्ये भुक्ति ७२ त्र्यंशद्भागोनास्य त्रिगुणा ३२६ तिथिनक्षत्रग्रह ३३६ त्र्यूनाधिमासः शेषात् २३६ तिथिभोगनाडिकासु ३२५ त्र्यूनोचोद्विपदाग्रम् २७३ तिथियोदशभागो ३२४ दक्कर्णविज्ञानात् १४६

( ८ ) दक्षिणातोभयमलाः ११२ दृश्यादृश्यं दृग्गोलार्धम् २६६ दृग्मण्डलदृक्क्षेपायमण्डल २६६ दृश्यादृश्यायुवद्ग्रहार्क ८७ दृष्टोच्यं समर्पठि यष्टि ३१० दृष्टिगृहोच्यज्ञो यः २६८ दिक्स्थितफलकद्वि ३१० दृष्टिगृहोच्यैक्यहृता २७० दिग्मध्ये छायाग्रं कृत्वा ५० दृष्टिद्रं कूलंबगुणा ३०७ दिग्मध्ये स्थितदृष्टचा १३३ दृष्ट्वा दिनाद्धं घटिका २६७ दिग्मात्रमेतदन्या १७० दृष्ट्वा विषुवच्छायां २०० दिग्लम्बाक्षस्वोदय ७१ देयमसुताय नेदं ३९ दिग्वर्णवलनवेलायां ७२ देवगुरोरष्टरसा ३५ दिनगतशेषच्छेदप्राणाः ६३ देवा सव्यगमसुराः २७६ दिनगतशेषप्राणैरिरिष्टार्को २०२ देशांतरं यथाद्रकू २१८ दिनघटिकांकितपृष्ठे ३०० देशान्तराद्यमेवं स्पष्टौ ३१ दिनदलकर्णगुणान्त्या ६४ देशान्तरे खमध्ये भुज २९ दिनदलपरिधिस्फुट ३२ द्वद्रस्त्रिगुणाः खशराः ३३२ दिनदलविभक्त २१६ द्युगणात्सपत्यंशं स्व १५ दिनदले कर्णगुणे ३३६ द्युगरोषुषधोलिप्ताजीवः १६ दिनमध्यार्का क्रान्त्याक्ष ६५ द्युगुणं विनाधिमासावमैः १७१ दिनरात्रिमोनघटिकाः ४५ द्युगुणामवशेषाद्रविचन्द्रौ २६३ दिनरात्र्यर्धे यच्चरदलाद् २०३ द्युगुणायुगाधिमासैः १७८ दिनवारादिः पश्चादुज्जयिनी १२ द्युगुणस्फुटग्रहयो १८४ दिवसार्द्धोक्रमजीवा २१३ द्युगुणांस्त्रिंशद्भक्ताद् १८० दीप्तलशंकुतलयोः १६७ द्युगुणेन कुदिनशेषैः १७६ दीप्तलशंकुतलयोः २७० द्युगुणेन्दुदिवसघातात् १७३ दुरअष्टे ग्रहणे २२६ द्युदलनतोक्षांशानामेक २१० दुर्जनकृतघ्नशत्रु २१६ द्युदलान्नतो क्रमज्या ६२ दुर्जनकृतघ्नशत्रु ३३६ द्युदले जिनलिप्तोनं ३० दूरअष्टाः स्पष्टा श्री ३६ द्युदले शंकु न तज्ये २११ दृक्षेपज्यातो सत्तन्नाशात् १४५ द्रष्टोदयिकानश्विन्यौ १७२ दृक्षेपज्या भुक्तितरा १४३ द्वादशगुणिताक्षज्या २०६ दृक्षेपज्या बाहुदृग्ज्या १४४ द्वादशभिर्गुणिताया १०० दृग्गणितप्रग्रहयोः २२३ द्वादशभिः शितांशुसित ८७ दृग्गणितैक्यं न भवति ७८ द्वादशविषुवच्छाया ६७ दृग्ज्या द्वादशगुणिता ५६ द्विगुणपदसैकगुणितम् १५८ दृग्मण्डले नतांशज्या २९५ द्विगुणाः कलाः दिनगणाः १६ दृग्लग्नदृष्टिभाग ९० द्विचतुः सत्यंशगुणो १६६

( ९ ) द्वित्तीययोर्यतो २८४ निश्छेदभागहारो ग्रहयो २६२ द्वौद्वौ राशिकराहतवः ३१७ निश्छेदभागहारौ विपरीतौ २६२ धनभक्तं धनमृणहतं २४५ नीचोच्चवृत्तमध्यस्य १५० धनयोर्धनमृणयोः २४३ नृच्छायाग्रगजमत्स्य ४६ धनुर्यंत्रं अंकितमंश ३०२ पंचगुणा सप्तयमा ३३३ धार्यं धनुस्तथाग्र २६६ पंचज्यया यतोर्कग्रहणं १४५ धार्यं समं तथावाज्या २६६ पंचदशकला हीनैः ११३ ध्रुवकादूनः पश्चादधिकः १११ पंचदशहीनयुक्ता ३३५ ध्रुवताराप्रतिबद्धम् १ पंचदशात्रानुक्तान्येको १९६ ध्रुवयोर्विद्धंसव्यगम २७८ पंचांबराणि गुणरामपंच ५ ध्व्यापाः कोष्टकवृद्ध्या २७६ पंचाशतसंयुक्तं वर्षं ३२३ ध्द्युनमधिमासशेषम् २४६ पंचेपु पंचयुगगुण ३२६ नक्षत्रसावनदिनात् ३१७ पदमेकहीनमुत्तरगुणितम् १५७ नगभूहृद्रविभोग्यं ३२६ परमफलकेन्द्रविकः १८२ नतभागज्या द्वादश ६५ परमापक्रमजीवा २०६ न द्विहता शीघ्रगतिः ३३४ परमालाबदमिथुनांते १५० नलको मूले विद्धः ३१० पराच्य परादिगभिमुखं २३० नवतिकृतेः प्रोह्यपदं १८६ परिकरवत्तन्मध्ये २६२ नवतिथयो ३३४ परिकर्मविंशति यः १५३ नवतेरधिकांशाना ६६ परिकल्पार्कं बिन्दुः २३० नवतेर्लम्बांशात्प्रोज्य ५३ परिधौ भगणांशकम् ३०२ नवतेस्तनैर्दृश्यो १२४ परिलिख्य वृत्तमवनौ ३०३ नवनगशशिमुनिकृत १० परिलितीष्टग्रासम् २१७ नवमसृकिषु दशम १६६ परिलेखग्राह्यस्य २२१ नश्यति भूछायेंदु २६१ परिलेखोवलिनज्या २२६ नष्टांतास्त्वाधस्थोन २७५ परिवर्त्ता खचतुष्टय ७ न समायगुमनुकल्पाः १४० पर्वेदोः पक्षांते २२४ न स्फुटमार्यभटादिष्वर्कं ८२ पश्चापग्रहणे प्रागमक्षे २२० नाडीचतुष्टुविधिना १४५ पश्यति यतः क्षितिस्यः २६३ नाडघर्द्धेन समेतं द्वितयं ३२४ पश्यंति देवदैत्याः २७६ नावार्थो ज्ञातेरपि तन्त्रैः १३३ पातदपमंडलवह्नि २६३ नास्तमयस्तत्र तुला २१४ पातलशंकुमुदयेन्दुस्ते २०१ निगिरति च घटिकाम् ३१२ पातेंदुयोगलब्धौ कृत्वा १७७ निश्छेदभागहाराद् २४१ पातो नखेभार्द्धात् २२३ निश्छेदभागहारो भानो २५३ पातो नतुल्यमोगतीन् १७२