बार्हस्पत्य सूत्र / अर्थशास्त्र (महर्षि बृहस्पति - प्राचीन दण्डनीति, राजधर्म एवं कूटनीति सटीक)
Brihaspati Sutra or Barhaspatya Rajanitishastra with Commentary
महर्षि बृहस्पति (सम्पादक: डॉ. एफ. डब्ल्यू. थॉमस) द्वारा
२ बार्हस्पत्यसूत्रम् । नाग्निहोत्रवेदपाठादीनि च ॥१२॥ न तीर्थयात्रा ५ ॥१३॥ न राजसेवा च ॥१४॥ न स्त्रीसेवा च ॥१५॥ न म[१.ख]द्यं पिबेत् ॥१६॥ ब्राह्मणं न हन्यात् ॥१७॥ स्तेयं न कुर्यात् ॥१८॥ बहु न च स्रगनुलेपौ ६ ॥१९॥ न विषीदेत् ॥२०॥ न चातिकुप्येत् ॥२१॥ अविषये लोभमदानसंज्ञम् ७ ॥२२॥ केदारे बीजानि वापयेत् ॥२३॥ दानं कर्त्तव्यम् ॥२४॥ तदसहिष्णुता लोभः ॥२५॥ स्तेयं लोभश्च ॥२६॥ स्वद्रव्यव्ययहेतुः कामः ॥२७॥ गुरुदेवप्राज्ञनृपादिहिंसाबुद्धिः क्रोधः ॥२८॥ स्वशिरस्ताडनं च ॥२९॥
[
प्रथमोऽध्यायः । ३ बलादिषु च समं शत्रुं युद्धेन हन्यात् ॥३०॥ अन्याभियोर्थी सामदानभेदमायोपेत्तादिभिः ॥३१॥ मलवेधं न कुर्यात् ॥३२॥ मृगयातिसङ्गं च नाचरेत् ॥३३॥ स्त्रीष्वतिसङ्गादयशो व[रक]र्धते ॥३४॥ आयुश्च क्षीयते ॥३५॥ द्यूतपरतापपरापवादपातकिसमागमे समन्त्ररक्षानि परच्छिद्रा- णि विद्याव्यसनपरिहास्येन ॥३६॥ औषधोपयोगविण्मूत्रविसर्जनकस्नानदन्तधावनमैथुनोपभोग- दैवतपूजापि रहस्येन ॥३७॥ वृथा धर्मध्वजिनं न विश्वसेत् ॥३८॥ निन्देन्न च ॥३९॥ उन्मत्तजडादीन् दृष्ट्वा न हसेच्च ॥४०॥ तुल्यशीलवयोभिः क्रीडितव्यं रहस्ये ॥४१॥ गजाश्वक्रीडे व्यक्ते न द्विमूर्तम् ॥४२॥ दूषयेन्न च स्वजातिजीवत्सु ॥४३॥
- Sic M; W [ ०योगी ]. Read ०योधिनः ? 9. W समदनानभेद । 10. W मलषं । 11. W ०गतेमस-the reading and sense are doubtful; 12. W परि० । 13. W औषधोयोग० ।
- W स्मान । 15. For accusative after वि-श्वस् see Lexica and comp. V, 19 infra . 16. W ०जाक्रदीन् । 17. M includes रहस्ये in the next sûtra. 18. W ०अश्वरासक्रीडे । 19. M ०क्रे ।
अर्थेनानुरागेणाभिजन्मनौदार्येण पूर्वैर्भ[२ख]विष्यैरधिकत्व इच्छा कर्त्तव्या ॥४४॥ पूर्वाचरितं धर्ममनुजीविसख्यममात्यज्ञातिसुहृद्वान्धवान् समं पश्येत् ॥४५॥ बहिरन्तर्दण्डदानावतुजीविषु ॥४६॥ सामभेददानानि मन्त्रिषु ॥४७॥ सामभेददानार्थमायपिण्डानि²⁰ ज्ञातिषु ॥४८॥ अप्रियमपि वचनं शृणुयात् ॥४९॥ दुर्दिनग्रहवैषम्यत्रिजन्मनक्षत्रे गुरुकार्यप्राप्तौ²¹ न च मङ्गलानि सेवेत ॥५०॥ एकदेश²²कैरूपिणीमभिजातां स्त्रियं गमयेत् ।५१॥ अतिभेदयेन्नातिसामं नातिदानं न च स्त्रीषु दण्डो न च मायो²³पेता²⁴ कर्त्तव्या ॥५२॥ तासु न बहु वदेत् ॥५३॥ ग्रामया[३क]चकस्तुतमागधवन्दिनटनर्तक्यु²⁵पाध्यायासत्यवाद- ²⁶बटुविटवाणिजगोपालवेश्याकु²⁷नृपेष्व²⁸नृताडम्बरं वक्तव्यः॥५४॥ ²⁹संन्यासं नृपवेश्यामन्त्रवादोपजीविषु चिरं न सेवेत ॥५५॥
पाद-टिप्पणी (Footnotes / Variant Readings)
- भेदनाना० । 21. M W ०कार्ये प्र० । 22. W ०शम; M ०शा ए० । 23. M चामयो०। 24. M W insert न । 25. Read सूत for स्तुत ? W ०नर्तत्यु० । 26. M ०जतु०; W ०जहु० । 27. W ०वेश्य० । 28. M अनु० । 29. M संन्यास ।
हिन्दी अनुवाद एवं व्याख्या (Hindi Translation & Commentary)
- सूत्र ४४: धन, अनुराग, उच्च कुल (अभिजन) तथा उदारता के द्वारा पूर्वजों एवं भावी पुरुषों से भी अधिक श्रेष्ठ बनने की इच्छा रखनी चाहिए।
- सूत्र ४५: पूर्वजों द्वारा आचरित धर्म तथा अपने आश्रितों, मित्रों, मंत्रियों, ज्ञातियों (सगे-संबंधियों) एवं बंधु-बांधवों को समदृष्टि से देखना चाहिए।
- सूत्र ४६: अपने आश्रितों/कर्मचारियों (अनुजीवियों) पर आवश्यकतानुसार बाह्य एवं आन्तरिक दण्ड तथा दान का प्रयोग करना चाहिए।
- सूत्र ४७: मंत्रियों के प्रति साम (समझाना), भेद (विभाजन) तथा दान की नीति का प्रयोग करना चाहिए।
- सूत्र ४८: अपने जाति-बंधुओं (ज्ञातिजनों) में साम, भेद, दान तथा अर्थ-पिण्ड (जीविका/अंश) का सम्यक् विभाजन करना चाहिए।
- सूत्र ४९: यदि वचन अप्रिय भी हो, किंतु हितकारी हो, तो उसे सुनना चाहिए।
- सूत्र ५०: दुर्दिन (विपत्ति का समय), ग्रहों की विषमता, जन्म-नक्षत्र की प्रतिकूलता अथवा किसी गुरुतर (अति-महत्त्वपूर्ण) कार्य के आ उपस्थित होने पर सामान्य मांगलिक अनुष्ठानों में समय व्यर्थ न करके कार्यसाधन करना चाहिए।
- सूत्र ५१: कुलीन (अभिजाता) स्त्री को किसी एक निश्चित मर्यादा/स्थान में रहने का निर्देश देना चाहिए।
- सूत्र ५२: स्त्रियों के प्रति न तो अत्यधिक भेदनीति रखनी चाहिए, न अत्यधिक साम, न अत्यधिक दान; न उन पर कठोर दण्ड करना चाहिए और न ही उनके साथ छल-कपट (माया) का व्यवहार करना चाहिए।
- सूत्र ५३: स्त्रियों के सम्मुख अधिक बातें (गुप्त रहस्य आदि) नहीं कहनी चाहिए।
- सूत्र ५४: ग्रामीण, याचक, सूत, मागध, बंदी, नट, नर्तकी, असत्यवादी उपाध्याय, ब्रह्मचारी (बटु), विट, व्यापारी, गोपालक, वेश्या तथा कुत्सित राजाओं के समक्ष असत्य का आडम्बर (आवश्यकतानुसार कूटनीतिक असत्य) कहना चाहिए।
- सूत्र ५५: राजा, वेश्या तथा मन्त्र-तंत्र से आजीविका चलाने वालों के सान्निध्य में संन्यासी को अधिक काल तक वास नहीं करना चाहिए।
प्रथमोऽध्यायः । ५ आत्मप्रभुं सेवेत ॥५६॥ आयत्यादीनति न ॥५७॥ स्त्रीद्यूतपानसक्तान्न सेवयेत् ॥५८॥ पञ्च नाडिका इष्टदेवताजपादि ३० पञ्चनाडिकायामतीतायामास्था- नम् ॥५९॥ दश नाडिका विधिः पञ्च नाडिकाः स्नानम् ॥६०॥ त्रिनाडिका भोजनम् ॥६१॥ पञ्चनाडिका हास्यक्रीडा स्निग्धैः ॥६२॥ द्विनाडिका सन्ध्या ३१ ॥६३॥ सप्त नाडिका नृत्तादयः ॥६४॥ सप्त नाडिका मैथुन[३ख]भोजनादयः । ६५॥ सप्त नाडिका सुप्तिः ॥६६॥ स्वनियमं कुर्यादप्रमादेन ॥६७॥ अश्वनियामक इव ॥६८॥ शिरःकम्पनास्थानेन स्वागतेन शिष्टताम्बूलदानेन ३२ ब्राह्मणे- त्तमान् ॥६९॥ दुर्ब्राह्मणं ३३ शिरःकम्पेन ३४ न सोपायनमपि ॥७०॥
- M here inserts नाडिकां । 31. W सन्ध्य । 32. Sic ( not षि० ) । 33. W दुब्रा० । 34. W ०म्पन; M ०म्पनेन with सोपायनमपि in the next sûtra ।
६ बार्हस्पत्यसूत्रम् । समानप्रभुं विश्वेश्वरं वा स्वागतेनासनेन शिरःकम्पेन ताम्बूल- दानेन हास्यकथया च ॥७१॥ स्मितेन स्वागतेना†स्या†स्त्रैवर्णिकान् ॥७२॥ ईक्षणस्मितेन स्वागतेन शूद्रान् ॥७३॥ अभीष्टद्रव्यदानेन बालवृद्धादीन् ॥७४॥ अन्त्यपाषण्डादीन् वाङ्मात्रेणापि न ॥७५॥ कार्यगुरु[४क]तयाऽनुगच्छेत् ॥७६॥ अल्पं वदेच्च योगं दद्यात् ॥७७॥ वर्णिकापरिग्रहं न कुर्याद्रहस्ये ॥७८॥ कर्मकारान्प्रति योगीनपि कार्यमविचारयेत् ॥७९॥ स्निग्धैः सह समानं वर्येन्मन्त्रित्वे ॥८०॥ अन्त्यजं त्वनन्यजातिनम् ॥८१॥ अन्त्यजानां स्वार्थानिवेदकत्वमाज्ञाकर्तृत्वं च ॥८२॥ तन्नातिलालयेत् ॥८३॥ न विश्वसेच्च ॥८४॥ सर्वं ज्ञात्वा न कुर्यात् ॥८५॥
- W विश्वे० । 36. Text corrupt, reading doubtful.
- M नम् । 38. W ०वृद्धदीन् । 39–39. M includes in the next sûtra. 40. W कार्या० । 41. M ०कया । 42. W त्स्वल्पम् ।
- M W includes रहस्ये in the next sûtra. 44. Sic (for योगिन अपि ? ) । 45. W सहं । 46. W अत्य० । 47. अना० ।
प्रथमोऽध्यायः । ७ धर्मगुप्तिः गृहयात्रागुप्तिः^{४८} कार्यगुप्तिः वैरगुप्तिः यशोभङ्गे सत्यमपि नेति वदेत् ॥८६॥ चिकित्सकज्योति[४ख]^{४९}षमन्त्रवादिनः संग्रेहेत्^{५०} वृत्तशीलसम्प- न्नान् ॥८७॥ सत्यमपि दुःखानर्थसाधनमपि^{५१} न वदेत् ॥८८॥ पञ्चविंशतिवर्षं यावत् क्रीडाविद्यां व्यसनात् कुर्यात् ॥८९॥ अत उत्तरमर्थार्जनम् ॥६०॥ आत्मानमनृणी^{५२} कुर्यात् ॥६१॥ ऋणवाआयते^{५३} त्रिभिः कामक्रोधलोभैः^{५४} ॥६२॥ शरीरं सर्वदा रक्षेच्च ॥६३॥ नित्यकर्म न त्यजेत् ॥६४॥ जनघोषे सति क्षुद्रकर्म न^{५५} कुर्यात् ॥६५॥ नष्टे न स्थातव्यम् ॥६६॥ दूरपरिहरणीयं गुरुतरंमपि तद्राज्यकार्यम्^{५६} ॥६७॥ कुसुमान्तान दण्डनायकानवान्न सेवेत ॥६८॥ [५क]अल्पहानिः सोढव्या ॥६९॥
- W ॰यात्रा॰ । 49. W. चिकित्साज्यो॰ । 50. Sic (for संगृह्णीयात् ) । 51. Sic (omit अपि ?) 52. W आत्मानमात्मनृ॰ ।
- M र्णो वा जा॰ । 54. M W ॰लोभे । 55. W omits न । 56. W राज्या॰ ।
८ बार्हस्पत्यसूत्रम्। यथा मातङ्ग⁵⁷चोरव्यालसर्पव्याघ्रकुलं⁵⁸ विपिने श्मशाने⁵⁹ वसति तस्मात्परमनागसां ज्ञातिवैरं न कर्तव्यम् ॥१००॥ एकामिषश्वानवत्⁶⁰ राज्योपप्लवे तद्राज्यक्षेत्रम्⁶¹ ॥१०१॥ नीतिः किल नदीतीरतरुवत् ॥१०२॥ तन्नोहेतव्यम् ॥१०३॥ भूतद्रोहिणः कुसुमान्तादयः ॥१०४॥ यशोवीर्यायुःश्रीरतिक⁶²सामन्तसेवा ॥१०५॥ कामक्रोधमदमात्सर्यपैशुन्यादीन्न कारयेत् ॥१०६॥ अरिः⁶³ शुभशीलो⁶⁴ मित्रम् ॥१०७॥ सुहृत्सु शुभशीलः⁶⁵ शत्रुः ॥१०८॥ चन्द्रादित्ययोरेकरुचित्वाच्[ ५ख ]छत्रुत्वम् ॥१०९॥ यदि चेन्न स्थितस्तयोः ॥११०॥ ज्ञातिषु यत्र वैरं तत्कुलद्वय⁶⁶मामूलं नश्यति ॥१११॥ यः शास्त्रं दण्डनीतिं परित्यज्यनर्थकः शलभा इव वह्निं प्रविशत्यज्ञानात्, इत्याह भगवानाचार्यः सुरेन्द्रगुरुः ॥११२॥ इति बार्हस्पत्यसूत्रे प्रथमोऽध्यायः ॥
- W मातंगग्रहचोर० । 58. MW ०कुले । 59. W श्मशानभूमौ । 60. Sic (see note to trans.) 61. M राज्यं च० ।
- M श्रीरतिकसामन्त०, W श्रीरति कुसमान्त०. Read श्रियो हरति कुसुमान्त० । 63. M W हरिः। 64. MW शुभं शीला। 65. ०शील।
- M omits द्वय ।
[ द्वितीयोऽध्यायः । ] गुणवतो राज्यम् ॥१॥ विद्यागुणोऽर्थगुणाः सहायगुणाश्च ॥२॥ स्वकुलरञ्जनं च चारित्ररक्षणम् ॥३॥ कृषिगोरक्षवाणिज्यानि ॥४॥ सर्वथा लौकायतिकमेव शास्त्रमर्थसाधनकाले ॥५॥ कापालिकमेव कामसाधने ॥६॥ आर्हतं धर्मे ॥७॥ [६क] लौकायतिकमसेनार्थं क्षिप्रं नश्यति तत् ॥८॥ कापालिकार्हतबौद्धाश्च ॥९॥ एतेषु तिष्ठन् शलभबह्निवत् ॥१०॥ फलानि श्रोत्रसलिलकल्पानि ॥११॥ अविद्यायुक्तः पुरुषार्थं साधयितुं धर्मयुक्ते यदिच्छति तदा लौकायत्तिकाभिधानपाषण्डी ॥१२॥ यदा चण्डाल उदारसुरामांसादिकामेच्छुस्तदा कापालिका- भिधानपाषण्डी ॥१३॥
- W सा० । 2. M Sic; W ०मसेनार्थः correct reading doubtful ( अपेतार्थं ? ) । 3. W कापालक० । 4. W बद. Read यदे ? 5. W ०आभिधन० ।
१० बार्हस्पत्यसूत्रम् । यदा सन्ध्योपासनाद्यग्निहोत्रादि परित्यज्याहिंसार्थमेच्छुः तदा क्षपणकपा[६ख]षण्डी ॥१४॥ यदा वेदोक्तकर्म ज्ञानं च सर्वेश्वरं शिवं विष्णुं श्रियमपि परित्य- ज्य सर्वं शून्यमिति वदति तदा बौद्धाभिधानपाषण्डी ॥१५॥ वृथा धर्मं वदत्यर्थसाधनं लोकायतिकः पिण्डाढ्यश्चोर इति च ॥१६॥ सर्वमर्थार्थं करोत्यग्निहोत्रसन्ध्याजपादीन् ॥१७॥ स्वदोषं गूहितुं कामार्थं वेदं पठति ॥१८॥ अग्निहोत्रादीन् करोति ॥१९॥ सुरापानार्थमहिलामेहनार्थं करोति ॥२०॥ विष्ण्वादयः सुरापानिन इति कापालिकाः ॥२१॥ धर्मा[७क]र्थं मलपिण्डधारणाद्धर्मं वदति क्षपणकः ॥२२॥ शिवादय इति वदति क्षपणकः ॥२३॥ परापवादार्थं वेदशास्त्रधर्मादीन् पठति ॥२४॥ सर्वान्निन्दति ॥२५॥ महेश्वरविष्ण्वादीनपि ॥२६॥ सोऽप्यशनार्थं धर्मं वदति ॥२७॥ 6. M W ०सनाद् । 7. W शिवा; M W वदन्ति । 8. M W Sic (read चौर्यम ?) 9. M Sic (read र्तः० or र्थं ?) 10. M W ०मेनार्थम् । 11. M सुरापिनं । 12. W omits वेदं । 13. W. ०र्थं ।
द्वितीयोऽध्यायः । ११ वदनार्थं परान् स्तौति स बौद्धः ॥२८॥ लौकायतिको मृतो भवत्यर्थकामधर्ममोक्षविहीनो नारकी च॥२९॥ कुले च तत्कुलं तत्पुत्रपौत्रान्तरे विनश्यति ॥३०॥ कापाली स्वग्रामगृहस्वजनैः परित्यक्तः सर्वलोकनिन्दितो नारकी भवति ॥३१॥ तस्मिन्काल ए[७ख]व कुलं विनश्यति ॥३२॥ क्षपणकः स्वकुलग्रामवासिभिर्निन्दितो भवति त्रिकुलं विनश्यति ॥३३॥ बौद्धसंचितं कुलं पुत्रपौत्रकाले वा विनश्यति सुदुष्टो नारकी ॥३४॥ एवंपाषण्डिसंपर्कं मनसाऽपि न कुर्यात् ॥३५॥ सुव्यवस्थितमन्त्रेण परच्छिद्रज्ञानिना धार्मिकेण राज्यं परि- पालयितुं न शक्यते ॥३६॥ ऐश्वर्यमदमत्तेन सलोभमानिना संचितं विनश्यति ॥३७॥ कार्यं निश्चित्य विषयाननुभवति यः स उत्तममर्थं साध- यति ॥३८॥ चेष्टया कार्य[८ क]ज्ञान्यर्थपर इति धर्मवानिति लोकैर्यथा न ज्ञायते तथा कर्त्तव्यम् ॥३९॥ 14. M W तं । 15. W स्वगृहग्राम । 16. W जीवति । 17. W सतिकुलम् । 18. M W बौद्धः । 19. W ०पर्कं । 20. W सुव्यस्थि० । 21. M ज्ञातिना । 22. W०नां । 23. W ०चर ।
१२ बार्हस्पत्यसूत्रम्। ईश्वर इव चन्द्रादित्याविव ॥४०॥ स्वामिचित्तानुवृत्तिभिर्मत्यैक्यकारकमैव मन्त्रम् ॥४१॥ मन्त्रिणा स्वामिनोऽभिमतमुत्सृज्य कार्यं वक्तव्यम् ॥४२॥ नीतेः फलं धर्मार्थकामावाप्तिः ॥४३॥ धर्मेण कामार्थौ परीक्ष्यौ ॥४४॥ धर्मं धर्मेण ॥४५॥ अर्थमर्थेन ॥४६॥ कामं कामेन ॥४७॥ मोक्षं मोक्षेण ॥४८॥ गुरुशासनं कार्यमेव विरु[द्ध]द्धं धर्मेणापि पाण्डवविवाह इव, अर्जुनस्य संन्यास इव, व्यासविधवागमनमिव, कर्णो- त्पादनमिव, राममातृवधमिवेत्यादि ॥४९॥ नीतिवियुक्तः पुत्र इव शत्रुः ॥५०॥ बालं दुष्टं साहसिकमज्ञातशास्त्रमन्त्रे प्रवेशयेत् ॥५१॥ मूढा दुराचारास्तीक्ष्णा आत्मबुद्धयः क्षिप्रक्रुद्धा बाला मन्त्रयोग्या न ॥५२॥
- M श्व for इव । 25. W मत्येक०, M ०भिः मत्यैक्य० ।
- W फण्डमार्थे० । 27. W ०माभितिः । 28. Sc. परीक्षयेत् and so with the accusatives in sûtras 46–8. 29. Text corrupt; W ०शास्त्रमन्त्रेण. Read ०शास्त्रं मन्त्रे न ?
द्वितीयोऽध्यायः । १३ सर्वस्वान्यपि दीयन्तां स्वकार्यजीवयशोरक्षणे ॥५३॥ मन्त्रकाले न कोपयेत् ॥५४॥ धर्मप्रधानं पुरुषा[३०-क]र्थान ॥५५॥ अधर्मेण भुज्यमानं सुखमसुहृत् ॥५६॥ ३१स्थितिर्वर्धनम् ॥५७॥ अपथ्यभोजनो मृत्युप्रीतिकर इव सत्यव्रतः शास्त्रेषु निष्ठितः पुरुषः सागरमपि शोषयेत् ॥५८॥ क्रुद्धो यदि हतपौरुषास्त्रस्ता भवन्ति ॥५९॥ एक एव बहून् ३२दुर्जनो नाशयति ॥६०॥ पौरुषे निष्ठितो देवो ॥६१॥ ३३यस्य स्वदाररतिः यस्यात्मदमने शक्तिस्तेन सहशो न ॥६२॥ सज्जनो न भयाद् ३४व्यतिवर्तते ॥६३॥ तस्मिन्काले हितमवक्तव्यमवाक्यज्ञैः सुहृद्भिः ॥६४॥ उत्सिक्तहृदयं धर्मे चलि[-ख]तमौरसमजितात्मानं शासितुं नोत्सहेत ॥६५॥ दारुणकर्मभिः ३५श्रान्तमज्ञानान्निद्रया सुप्तं धर्मवाक्यानिलैः शीतै- र्बालिशं प्रबोधयेत् ॥६६॥ 30. M W पुरुषार्थान् । 31. M W स्थिति । 32. W दुर्जनान्ना० । 33. M निष्ठितो देवो यस्य, W देवो वयस्य. No interpunctuation in either case. 34. W ०तन्ते । 35. M शान्तम् ।
२. तृतीयाध्याय एवं चतुर्थाध्याय: षाड्गुण्य नीति, साम-दाम-भेद-दण्ड एवं दुर्ग-व्यवस्था
१४ बार्हस्पत्यसूत्रम् । दुर्जनमध्ये सूर्यवत् प्रकाशते सुजनः ३६ ॥६७॥ अधर्मव्यवस्थितान् ३७ न्यायवृत्तेन वारयेत् ॥६८॥ अधर्मं नार्जयेत् ॥६९॥ अकीर्तिं नार्जयेत् ॥७०॥ न मारयेत् ॥७१॥ लोला निवार्यतां ३८ धर्मपाठाङ्कुशेन गज इव ॥७२॥ गुरुवचनमलङ्घनीयं नयानुगतं चेत् ३९ ॥७३॥ गुरुमपि नीतिवियुक्तं निरासयेत् ॥७४॥ गुरुराहेति ॥७५॥ इति बार्हस्पत्यसूत्रे द्विती[१०क]योऽध्यायः ॥ 36. W सुधर्मः । 37. M ०स्थिता । 38. M ०तामधर्० । 39. W गतश्चे ।
[ तृतीयोऽध्यायः । ] जितक्लेशस्य पौरुषम् ॥१॥ देशान्तरवासेन जितक्लेशो भवति ॥२॥ सर्वबलकालदेशसामप्रकृतिसहायामयवसां ज्ञानं कार्यम् ॥३॥ उपवासादिसहिष्णुत्वं च ॥४॥ सुगन्धवासान् कोशान् कुर्यात् ॥५। बहुवादं मधुरमेव कुर्यात् ॥६॥ १शमबुद्धीन् मणीन् सर्वान् सदाराधयेत् ॥७॥ नवानि मन्त्राणि विद्यात् ॥८॥ त्रिविधानि शाक्ता वैष्णवा २ शैवानि तत[१०ख]प्रभिन्नानि ३ ॥९॥ मोक्षपुर्या ४ द्वारं त्रयम् ॥१०॥ शाक्ता वैष्णवाः शैवाः ॥११॥ पोतयानमार्गवच्छाक्तम् ५ ॥१२॥ महापथवद्वैष्णवम् ॥१३॥ केवलप्रथानिकमश्वरथयानवत् ॥१४॥
- W ०द्धिः; W read समबुद्धीन् । 2. Sic M W. 3. W here inserts च । 4. M ०पूर्वान् । 5. W om. शाक्तं and sûtras 13-15.
१६ बार्हस्पत्यसूत्रम् । लौकायतिकक्षपणकबौद्धादि बहुशार्दूलदुष्टमृगाकीर्णशून्या- टवीगुहामार्गवत् ॥१५॥ एतन् निरूप्यैकमाश्रयेत्^६ ॥१६॥ ज्योतिर्नाथस्थितं सदा निरूपयेत् ॥१७॥ चातुर्वर्ण्यं रक्षेच्च ॥१८॥ औषधानि सेवेत च ॥१९॥ बलवर्णतेजोमदबुद्धिशौर्यदयावर्धनानि दोषधातुशमानि^७ ॥२०॥ दानमानालङ्कारविद्याभिः सिद्धिं लभेत ॥२१॥ अष्टादश तीर्थानि निरूपयेत् ॥२२॥ षट् प्रकृतयस्तीर्थं^८ शत्रुमित्रोदासीना[११क]श्च^९ ॥२३॥ अन्तः शत्रुरन्तर्मित्रोऽन्तरुदासीन^१० इति^११ तेऽप्यनुजीविसखि- सुहृदश्च ॥२४॥ भार्यापुत्रबान्धवाश्च ॥२५॥ अन्येऽपि देवालयनृत्तयागभूम
तृतीयोऽध्यायः । १७ शृङ्गारवेषं कुर्यात् ॥२८॥ पुरद्वारे १८सर्वानिरोधनं कार्यम् ॥२९॥ सर्वान्न निशेष[११ख]येच्च ॥३०॥ इतिहासपुराणानि मानयेत् ॥३१॥ तत् पाकांश्च ॥३२॥ शाक्तागमांश्च ॥३३॥ १९वैखानसागमांश्च ॥३४॥ सांख्यांश्च ॥३५॥ शैवांश्च ॥३६॥ सर्वानपि स्वाध्यायं कुर्यात् कारयेच्च ॥३७॥ ब्राह्मणं न हन्यादोषदुष्टमपि ॥३८॥ निर्द्दयस्य २०दया कर्तव्या ॥३९॥ ग्रामणीन् सम्भावयेत् ॥४०॥ नगेन्द्रांश्च २१॥४१॥ दुर्बलमपि २२साम कुर्यात् ॥४२॥ दानेन बहु ॥४३॥ न स्वल्पञ्च ॥४४॥ नोत्तमेषु गुणबाहुल्यक्रमेण ॥४५॥
- W सर्वान् । 19. W omits न । 20. W ऽस्या ।
- W नृं । (for न्द्रां) । 22. W अपि स कु ।
१८ बार्हस्पत्यसूत्रम् । अक्षैर्दी²³व्येत् ॥४६॥ नैव²⁴ दीव्याच्च ॥४७॥ सर्पादीन् हन्यात् ॥४८॥ उत्तमान्नानामन्त्र²५सिद्धान् [१२क] विद्याबहुलान् द्विजान् मान- येत् ॥४९॥ अन्यराष्ट्रजान् द्विजान् क्षत्रबन्धून् कुमारसामन्तादीनात्मवत् सम्भावयेद्भो²⁶जनाच्छादनादिभिः ॥५०॥ शरणागतं सर्वपातकयुक्तमपि²⁷ रक्षेत् ॥५१॥ दुष्टनिग्रहं कुर्यात् ॥५२॥ शिष्टपरिपालनञ्च ॥५३॥ ग्रामं न बाधेत ॥५४॥ नगरञ्च ॥५५॥ देवालयानि च ॥५६॥ आसवानि²⁸ सेवयेत् ॥५७॥ अति न ॥५८॥ मांसानि च ॥५९॥ घृणा कार्या ॥६०॥
- W डि० । 24. Sic M W. 25. W नमन्त्र० । 26. M interpunctuates here and not after ०नादिभिः । 27. W सर्वपट्टत० । 28. Sic W M (for ०वान् ?)
तृतीयोऽध्यायः । १८ बौद्धादयो न ॥६१॥ अग्राया न ॥६२॥ मत्तकाशिन्यः सेव्याः ॥६३॥ पञ्चाशत्कोटियोजना पृथिवी ॥६४॥ सप्तद्वीपवती च ॥६५॥ सप्तसमुद्रावृता च ॥६६॥ कर्मभोगाति²⁹[१२ख]भोगदिव्यशृङ्गारसिद्धकैवल्या इति द्वीपा- भिधानाः ॥६७॥ मध्यः कर्मभूमिः ॥६८॥ तन्मध्ये गेरोराजम्बूः³⁰ ॥६९॥ तत्रोत्तरे हिमवान् ॥७०॥ तस्य दक्षिणे नवसाहस्री भूः ॥७१॥ तत्र दाक्षिणासो³¹ भारतः खण्डः ॥७२॥ तत्र साक्षाद्धर्माधर्मफलाः सिध्यन्ति ॥७३॥ तत्र दण्डनीतिः ॥७४॥ पूर्वभारतीयैःपठितव्यः भविष्यैर्वर्तमानैश्च चातुर्वर्णिकैश्च ॥७५॥ दण्डनीत्या भगवान् भानुर्नृपतिः³² ॥७६॥ 29. W omits गा । 30. Corrupt, reading doubtful. 31. W ०न्त्यो । 32. W ०तिं ।
२० बार्हस्पत्यसूत्रम् । वायुश्च सर्वे^३३ देवाश्च ॥७७॥ जन्तवश्च ॥७८॥ सहस्रयोजना बदारिकासेत्वन्ता ॥७९॥ द्वारकादिपुरुषोत्तम[१३क]सालग्रामान्ता सप्तशतयोजना^३४ ॥८०॥ तत्रापि रैवतक^३५ विन्ध्यसह्यकुमारमलयश्रीपर्वतपारियात्राः सप्त- कुलाचलाः^३६ ॥८१॥ गङ्गासरस्वतीकालिन्दीगोदावरीकावेरीताम्रपर्णीघृतमाला[:] कुलनद्यश्च ॥८२॥ अष्टादश विषयाश्च ॥८३॥ अष्टादश सागरा नृपाः ॥८४॥ अष्टादश पार्वतीयाः ॥८५॥ रामसृष्टिश्चत्वारिंशच्छतं दक्षिणोत्तरे आसह्यं^३७ द्वादश विश्वा- मित्रसृष्टिरेकादश ॥८६॥ नेपालं^३८ चतुःशतम् ॥८७॥ पूर्वसमुद्रतीरे वरुणातःसमुद्रान्तमष्टयोज[१३ख]ना ॥८८॥ पञ्चशतद्वितयमुत्तरलाटं पूर्वलाटञ्च ॥८९॥ काशीपाञ्चालद्वितयमशीतिः ॥९०॥
- W सर्व । 34. W ०नां । 35. W omits क । 36. W ०लां । 37. ०ह्या । 38. M omits ल; W has ०लक्ष्ण ।
तृतीयोऽध्यायः । २१ केकयस्रञ्जयं<sup>३९</sup> षष्टिः ॥६१॥ मात्स्य<sup>४०</sup>मागधं<sup>४१</sup> शतम् ॥६२॥ मालवशकुन्तमशीतिः ॥६३॥ कोसलावान्तिः षष्टिः ॥६४॥ सैन्ध<sup>४२</sup> वैदर्भद्वितयं शतद्वितयम् ॥६५॥ वैदेह<sup>४३</sup>कौरवं शतम् ॥६६॥ काम्बोजदशार्णमशीतिः ॥६७॥ एते महाविषयाः ॥६८। एते खलु चतुरश्राः ॥६९॥ आरट्टबाह्लीकौ<sup>४४</sup> दक्षिणोत्तरतः<sup>४५</sup> शतमात्रौ पूर्वपश्चाद्<sup>४६</sup> द्वा- दशौ ॥१००॥ शाकसौराष्ट्रौ चतुरश्रौ चत्वारिंशत् ॥१०१॥ अङ्गवङ्गकलिङ्गा[१.४क]ः शटमात्राश्चतुरश्राश्च<sup>४७</sup> ॥१०२॥ काश्मीरहूणाम्बष्ठसिन्धवः<sup>४८</sup> शतमात्राश्चतुरश्राश्च ॥१०३॥ किरातसौवीरचोलपाण्ड्या<sup>४९</sup> उत्तरे दक्षिणे स्थिताः शतात् परं षष्टिमात्राः<sup>५०</sup> ॥१०४॥
- W ०य । 40. W माद्य० । 41. W ०तः । 42. Sic.
- W श्व । 44. W ०ल्हि० । 45. W ०त्तरः । 46. W ०पश्वा ।
- W ०त्रं । 48. W काइमीहूणाम्बषुसिन० । 49. W किरामत० ।
- W ०त्रा ।