द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
द्रव्यगुणाः। महामहोपाध्याय श्रीचक्रपाणिदत्तविरचितः श्रीशिवदाससेनकृतटीकया समलङ्कृतः। पण्डितकुलपतिना, वि, ए, उपाधिधारिणा श्रीजीवानन्दविद्यासागरभट्टाचार्य्येण संस्कृतः प्रकाशितश्च। द्वितीय संस्करणम्। कलिकातानगर्य्याम्। सिद्धेश्वरयन्त्रे मुद्रितः। सं १८९०।
R 605 C 36 1897 [मुद्रा / Stamp: LIB... / JUL 3 1975]
द्रव्यगुणाः । प्रायः पृच्छन्ति यवेशांस्तद्द्रव्यगुणसंग्रहः । धारणस्मरणोन्मुखो यथा स्याल्लिख्यते तथा ॥ १ ॥ दशाननादितिमिरपरिभूतमिदं जगत् । प्रससाद यतस्तस्मै कस्मैचिन्महसे नमः ॥ काणादसांख्यायुर्वेदतन्त्राणां पारदृश्वनः । तातस्यानन्तसेनस्य वन्दे चरणपङ्कजम् ॥ महदादिनिकायोऽयं यस्याः प्रादुरभूत् किल । सतीं गुणमयीं भक्त्या भैरवीं जननीं भजे ॥ रचितश्चक्रदत्तेन यो द्रव्यगुणसंग्रहः । श्रीमतो शिवदासेन तस्य व्याख्याभिधीयते ॥ नोक्ताश्चक्रेण ये द्रव्यगुणा विस्तरभीरुणा । तेऽपि प्रसङ्गतो लेख्याः शिष्यव्युत्पत्तये मया ॥ अनिवद्धस्यापि इष्टदेवतानमस्कारस्य विघ्नवारणसमर्थत्वात् तन्निवन्धनं ग्रन्थगौरवमात्रमावहतीति कृतमपि नमस्कारं ग्रन्थादौ अनिवध्य शिष्यप्रवृत्त्यङ्गतया अभिधेयसम्बन्धप्रयोजना- न्येव तावदाह प्राय इत्यादि। द्रव्यगुणसंग्रह इति यद्यपि मधुरादिरसानां तथा छायातमसोश्च अद्रव्यभूतयोरपि गुणा अत्र वाच्यास्तथापि द्रव्यपदं कविषि गच्छन्तीति न्यायेन समर्थ- नीयम् । किं वा द्रव्याणि गुणाश्च द्रव्यगुणास्तेषां संग्रहः संक्षेपेण तद्धर्मप्रतिपादकं वचनम् । अस्मिन् पक्षेऽपि छायातमसोर्द्रव्यत्वं
२ द्रव्यगुणः।
मीमांसकमतमाश्रित्य समर्थनीयं सर्वपारिषदत्वात् वैद्यकशा- स्त्रस्य । तमस्तमालमालाभं चलतीति प्रतीयते । रूपवत्त्वात् क्रियावत्त्वात् द्रव्यन्तु दशमञ्च तत् । अन्ये तु अद्रव्यभूतानां रसादीनां ये गुणा वाच्यास्तेषामौपचारिकत्वेन अप्रधानत्वात् अत्रानुपग्रह इत्याहुः । इह च द्रव्यगुणा अभिधेयास्तैः समं ग्रन्थस्याभिधानाभिधेयलक्षणः सम्बन्धः । प्रयोजनञ्च द्रव्यगुण- ज्ञानम् । मुख्यप्रयोजनञ्च चिकित्सितमिति । धारणमिति शब्दतः, स्मरणमित्यर्थतः । इह यद्यपि आश्रयत्वेन द्रव्यमेव प्रधानं तथापि द्रव्यस्य स्वकार्य्यजनकत्वं प्रायो रसादिद्वारकमे- वेति रसवीर्य्यविपाकगुणा एव प्रथमतो वाच्याः । तत्रापि रसा- धीनत्वात् वीर्य्यस्य वीर्य्याधीनत्वाच्च विपाकस्य वीर्य्यात् पूर्व्वं रसो विपाकात् पूर्व्वञ्च वीर्य्यं निरूपणीयम् । उक्तञ्च पाको नास्ति विना वीर्य्याद्वीर्य्यं नास्ति विना रसादिति । तत्र याव- द्रसस्वरूपं न ज्ञायते तावत् तद्विशेषधर्माः कथं ज्ञेया इति लक्षणतः कारणतः संख्यातश्च रसोऽभिनिरूप्यते । तत्र रस- सामान्यलक्षणं यदाह चरकः । रसनार्थो रस इति रसनेन्द्रिय- ग्राह्यो योऽर्थः स रस इति लक्षणार्थः । एतच्च षण्णामपि रसा- नामनुगतं रूपादिषु व्यावृत्तत्वात् साधु लक्षणमिति चक्रः । अस्मत्पितृचरणास्तु यथाश्रुतमेतल्लक्षणं रसत्वे रसाभावे चाति- व्यापकं तयोरपि रसनेन्द्रियग्राह्यत्वात् । तथा अतीन्द्रियरसे च अव्यापकम् । तस्मात् रसनेन्द्रियग्राह्यवृत्तिगुणत्वावान्तरजाति- मत्त्वं रसत्वमिति लक्षणतया बोध्यमित्याहुः । ननु आप्यो रस इति सुश्रुतेनोक्तम् । तत्र विप्रतिपद्यामहे । यद्याप्यो रसस्तर्हि कथं पार्थिवद्रव्येषु रसोपलब्ध इति प्रथमा विप्रतिपत्तिः । द्वितीया तु यदि आप्य एव रसस्तर्हि अपामव्यक्तरसत्वेन मधुरादिविशेषो- त्पादो नोपपद्यत इति । अथ पाञ्चभौतिकत्वमेव रसस्येति स-
[द्रव्यगुणाः। ३]
न्यसे तदपि नोपपद्यते। तेजोवाय्वाकाशानां नोरसत्वात् रसं प्रति कारणत्वानुपपत्तेः। अत्राहूः। यदि आप्य एव रसस्तथापि उत्तरोत्तरभूतेषु पूर्वपूर्वभूतगुणानुप्रवेशात् रसवत्त्वं पृथिव्यामप्यु- पपद्यते। अतएवोक्तम्। 'विष्टं ह्यपरं परेण' इति। अस्यार्थः। अपरं पूर्वं भूतं परेण भूतेनानुप्रविष्टम्। तेन शब्दगुणस्याकाशस्य वायौ अनुप्रवेशात् वायोरपि शब्दवत्त्वम्। स्पर्शगुणत्वञ्च स्वत एव। एवं वायोस्तेजसि अनुप्रवेशात् तेजः शब्दस्पर्शरूपगुणम्। तेजसोऽपि जलेऽनुप्रवेशात् जलं शब्दस्पर्शरूपरसगुणम्। एवं जलस्य च पृथिव्यामनुप्रवेशात् पृथिवी च शब्दस्पर्शरूपरसगन्ध- गुणा इति ज्ञेयम्। कतिधा पुरुषीयेऽप्युक्तम्। महाभूतानि खं वायुरग्निरापः क्षितिस्तथा। शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तद्गुणाः॥ तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे। पूर्वः पूर्वगुणश्चैव क्रमशॊ गुणिषु स्मृतः॥ अस्यार्थः। तेषां खादीनां मध्ये पूर्वः खरूप एकगुणः शब्दै- कगुण इत्यर्थः। परे परे उत्तरोत्तरं गुणवृद्धिरित्यर्थः। यथा खमेकगुणं वायुर्द्विगुणः अग्निस्त्रिगुण इत्यादि। ननु गुणवृद्धिमा- त्रमित्युक्तम्। एतावता एकगुणत्वद्विगुणत्वादिनियमो न ज्ञायते को वा गुणः कुत्र भूते इत्यत आह पूर्व इत्यादि। खादिषु गुणिषु क्रमशॊ यथासंख्यं पूर्वी गुणः शब्दादिर्वर्त्तते। यथा खे शब्दः वायौ स्पर्श इत्यादि। गन्धस्तु यद्यप्युत्तरः गुणान्तराभावात् पूर्वी न भवति तथापि छत्रियो गच्छन्तीति न्यायेन अपूर्वस्यापि पूर्वत्वं समर्थनीयम्। न केवलं पूर्वी गुणो वर्त्तते किन्तु पूर्व- गुणश्च पूर्वस्य भूतस्यापि यो गुणः सोऽप्युत्तरभूते वर्त्तत इत्याह पूर्वगुणश्चेति। तेन वायौ स्पर्शो नैसर्गिकः पूर्वस्य आकाशस्य यो गुणः शब्दः सोऽपि वायौ इति द्विगुणत्वम्। एवमग्नौ रूपं
४ द्रव्यगुणाः।
नैसर्गिकं शब्दस्पर्शौ च पूर्वभूतगुणौ इति त्रिगुणत्वम् । एवमन्य- त्रापि । न चैवं सर्व एव गुणाः सर्वेषामेव प्रसज्येरन् तत्कथमाप्यो रस इति वाच्यम् । तेषु तेषु भूतेषु तत्तद्गुणानुप्रवेशेऽप्युत्क- र्षाभिप्रायेणाप्यत्वादिव्यपदेशात् । यत आकाशाधिके द्रव्ये शब्दोऽधिकः तथा वाताधिके द्रव्ये स्पर्शोऽधिकः । तथा तेजो- ऽधिके रूपमधिकम् । जलाधिके च रसोऽधिकः । पृथिव्यधिके च गन्धोऽधिक इति । शब्दादीनामाकाशीयत्वादिव्यपदेश इ- त्यर्थः । तथा अपामव्यक्तरसत्वेऽपि भूतान्तरसम्बन्धात् मधु- रत्वादिद्वैजात्यमुपपद्यते । उक्तञ्च सुश्रुते । स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षड्विधो भवतीति । अस्यार्थः स आप्यो रसो जलादन्यानि भूतानि शेषभूतानि तेषां संसर्गात् विदग्धः परिणतः कालसहायभूमिवियदनिलानलसंसर्गेण परिणामा- न्तरं गतः षट्प्रकारो भवतीति । तत्र पृथिव्यम्बुगुणबाहुल्यात् मधुरः । तोयाग्निगुणबाहुल्यात् अम्लः । पृथिव्यग्निगुणबाहुल्यात् लवणः । वातवह्निगुणबाहुल्यात् कटुकः । वाय्वाकाशगुणबाहु- ल्यात् तिक्तः । पृथिव्यनिलगुणबाहुल्यात् कषाय इति । ननु यदि तोयाग्निगुणबाहुल्यात् अम्लता तर्हि उष्णजलस्यापि अम्लता कुतो न स्यात् । नैष दोषो न हि भूतसंसर्गमात्रादेव रसविशेषो निष्पद्यते किं तर्हि विशिष्टां परिणतिमपेक्षते । तद्य- यथा पार्थिवस्यापि लोष्टस्याग्नितप्तस्य पृथिव्यग्निगुणबाहुल्येऽपि न लवणता भवति लवणत्वसाधनविशिष्टविदाहासम्भवादिति । एतमेवार्थं श्लोकेन कश्चिदाह । तोयाग्निगुणबाहुल्येऽप्यम्लत्वं नोष्णवारिणः । नैकस्माद्भूतसंयोगाद्विदाहाच्च रसा यतः ॥ ननु यदि शेषभूतयोगान्मधुरादिषड्विधत्वं तत्कथं पृथिव्य- म्बुगुणबाहुल्यं मधुरेऽभिधाय मधुरेऽपि विशेषेऽपां कारणत्व-
द्रव्यगुणः । ५
मुच्यते । अत्र वदन्ति आपो रसानामाधारकारणम् अपां पृथिव्या- व्यामनुप्रवेशात् पृथिव्यपि आधारकारणमेव तेन जलक्षिती अपि तदाधारतया रसानामभिव्यक्तौ अभिव्यक्तेश्च मधुरादिरूपता- मन्तरेण असम्भवात् मधुरादिविशेषेऽपि कारणे भवतः । अग्न्या- दयस्तु त्रयो नौरसतया मधुरादिविशेषे निमित्तकारणं प्राधा- न्येन भवन्ति तद्व्यतिरेकेण अम्लादिरसाभावात् । रसाभि- व्यक्तेश्च अग्न्यादिभूतत्रयसन्निधानं विनानुपलब्धेरभिव्यक्तौ अपि कारणत्वमग्न्यादीनां भवति । तदुक्तं चरके रसनार्थो रसस्तस्य द्रव्यमापः क्षित्तिस्तथा । निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ॥ अत्र हि चकारद्वयात् जलक्षित्योरपि विशेषे कारणत्वम् । तथा खादीनाञ्च निर्वृत्तौ अपि कारणत्वमुक्तं तेन मधुरे विशेषे- ऽपि अपां कारणत्वात् सुष्ठूक्तं पृथिव्यम्बुगुणबाहुल्यात् मधुर इति । एवं तोयाग्निगुणबाहुल्यात् अम्ल इत्यपि समाधेयम् । न च यथा भूमितोयाधिक्यात् मधुर एवं तोयवाय्वधिक्यात् भूम्याकाशा- धिक्यात् वा रसान्तरोत्पत्तिः कुतो न स्यादिति वाच्यम् । स्वभा- वस्यापर्यनुयोज्यत्वात् यतः पृथिव्यादिभूतानामेवायं स्वभावः यत् केनचिदेव भूताधिक्येन व्यवस्थिता रसविशेषोत्पादकाः न पुनर्यत्किञ्चिद्भूताधिक्येनेति । अतएव तोयाग्न्योः परस्पर- विरोधात् कथमेककार्यारम्भकत्वमित्यपि अपास्तमुक्तायुक्तेरेव । ननु च रसानां षड्विधत्वमनुपपन्नम् अन्तरिक्षजलादौ अव्य- क्तस्य सप्तमरसस्यापि विद्यमानत्वात् । नैवं मधुरादीनामेव षण्णां तत्र अन्तरिक्षजलादौ अव्यक्तीभावेन तस्य अव्यक्तरसस्य मधु- रादिभ्योऽभिन्नत्वात् । न च क्षारस्यापि रसत्वात् सप्तमत्वोप- पत्तिरिति वाच्यम् । तस्य क्रियागुणयोगेन द्रव्यत्वात् तदुक्तं चरके । क्षरणात् क्षारो नासौ रस इत्यादि । तत्सहचरितस्य लवण
६ द्रव्यगुणाः । मधुरो धातुविवर्द्धन आयुर्बलवर्णतृप्तिकृत्कण्ठ्यः । सन्धानकृन्मुखादिह्लादकरः स्निग्धगुरुशीतः ॥२॥ अम्लोरुचिदीप्तिकरो मन इन्द्रियबोधनो हृदयतर्पी । एवान्तर्भावो लवणवर्गपाठात् । एते च रसाः परस्परसंयोगात् सप्तपञ्चाशद्भवन्ति । ते पुनश्चरकसुश्रुतादौ अवगन्तव्याः । इह तु विस्तरभयान्नोक्ताः ॥ १ ॥ सम्प्रति रसेषु मध्ये आयुष्यत्वादिगुणयोगेन मधुरस्याद्यनि- र्हितत्वात् तद्गुणान् प्रथममभिदधते मधुर इति । सन्धान- कृदिति । उरःक्षतादीनां मुखादीति आदिशब्दात् घ्राण- जिह्वाकण्ठोष्ठग्रहणम् । स्निग्धगुरुशीत इत्यनेन वातपित्त- हन्तृत्वं बोध्यम् । एतच्च शीतत्वमौत्सर्गिकं तेन क्वचिन्मधुरस्य उष्णत्वमपि ज्ञेयम् । तदुक्तं चरके मधुरं किञ्चिदुष्णं स्याद् यथा चानूपमामिषमिति । यद्यपि गुणानां निर्गुणत्वेन रसेषु स्निग्धा- दयो गुणा न सन्त्येव तथाप्युपचाराद्द्रव्यगुणा एव रसेषु निर्दिश्यन्ते । तदुक्तम् गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये । रसेषु व्यपदिश्यन्ते साहचर्य्योपचारतः ॥ इति । साहचर्य्यमेकार्थसमवायः । उपचारस्य किं फलमिति चेद् ब्रूमः द्रव्यगुणकथने मधुरादिरसनिर्देशेनैव अनुक्ता अपि स्निग्धत्वादिगुणाः प्रायो मधुररससहचारिणो ज्ञेयाः । तेन मधुरत्वं निर्दिश्य पुनः स्निग्धत्वादि न वाच्यं साहचर्य्यलब्ध- त्वात् । यत्र वा उच्यते तत्रातिशयार्थं स्पष्टार्थञ्च ज्ञेयम् ॥ २ ॥ दीप्तिर्वह्नेर्बोधनम् प्रसादः । आर्ज्जवमनुलोमनम् अत्रापि
द्रव्यगुणः । ७ वाताऽर्जवकृद्दल्यः कण्ठदहः स्निग्धलघुरुष्णाः ॥ ३ ॥ लवणः क्लेदनः पाचनो दीपनो विच्छेदनः सरस्तीक्ष्णः । कफविष्यन्दी रुचिकृत् स्निग्धगुरूष्णो मुखविशोधी ॥ ४ ॥ अम्लस्योष्णत्वं प्रायिकं तेन आमलकस्याम्लस्यापि शीतत्वं न विरुद्धयते । तेन रसे गुणा विशेषाबाधेन ग्राह्या भवन्तीति निर्गलितार्थः ॥ ३ ॥ अत्रापि लवणस्योष्णत्वं प्रायिकमिति सैन्धवस्य शैत्यं न विरुद्धयते । अत्र केचित् सङ्गिरन्ते अम्बुतेजोबाहुल्यात् अम्लो रसो निष्पद्यते । तदत्र अम्बुतेजोभ्यामारब्धेऽम्ले किं तोयगुणा- धिक्यात् शैत्यं भवतु किंवा अग्निगुणाधिक्यात् उष्णत्वम् । एवं लवणेऽपि पृथिव्यग्निगुणारब्धे वाच्यम् । तौ पुनरम्ललवणौ वा आग्नेयौ एव परं सुश्रुतेन प्रतिपादितौ । यथा कट्वम्ललवणा आग्नेया इति । तदत्र वक्तव्यो हेतुविशेषः । येन परस्परविरुद्ध- गुणबहुलस्य केवलमाग्नेयत्वमेव स्यादिति । उच्यते अम्लरसादौ परस्परविरोधिभूतद्वयगुणबहुलेऽपि परस्यैव भूतस्य गुणाः पूर्व- भूतगुणानभिभूय स्वभावमुख्यत्वं दर्शयन्ति । कुत इति चेत् उष्ण- जलादौ प्रत्यक्षदृष्टत्वात् । यद्येवं रसेषु सर्वेषु एव लघुत्वप्रसङ्गः अग्निगुणाधिक्यादेव । न एतदस्ति उष्णत्वेन हि उष्णजलादौ शीतत्वमभिभूयमानं दृष्टं सुवर्णरजतलोहादिषु तु गुरुत्वमनभि- भूतमेव दृश्यते । तेन अम्लादिगुरुत्वे पूर्वभूतगुणा एव प्रधाना इति । भवति चात्र ।
१. प्रथम वर्ग: हरीतक्यादि वर्ग (हरीतकी, विभीतक, आमलकी, गुग्गुलु)
८ द्रव्यगुणः। कटुरास्यं शोधयति घ्राणाच्चिविरेचनः कृमीन् हन्ति। रसनोद्वेगकृदुष्णो लघुरूक्षः कुष्ठहारी च ॥ ५ ॥ तिक्तो न रोचते स्वयमरोचकघ्नो विषघ्नश्च । दीपनपाचनशोधनरुच्यः शीतो लघुश्चापि ॥६॥ तुवरो हिमगुरुरूक्षस्तम्भी शमनश्च पीतनो ग्राही । व्रणपाकार्त्तिक्लेदान्निहन्ति कण्ठञ्च बध्नाति ॥७॥ भूतद्वयगुणे मुख्ये मुख्यो गुणविशेषकृत । स्नेहगौरवयोः पूर्वः परः स्यादौष्णशैत्ययोः ॥ अत्र स्नेहगौरवयोरिविरोधिनोः रौक्ष्यलाघवयोर्ग्रहणमूह्यम् । वस्तुतस्तु भूतानामेव अयं स्वभावो यद्भूतद्वयसमारब्धेऽपि रसे कस्यचिद्भूतस्य कश्चिदेव गुणो व्यक्तत्वेनोपलभ्यते न सर्व इति । भूतस्वभावे च अदृष्टविशेष एव कारणमुन्नेयमिति ॥ ४ ॥ कटुरसगुणानाह । कटुरिति । अत्र लघुरूक्षत्वेनावृष्यत्वं कटोर्ज्ञेयं तदपि प्रायिकं तेन पिप्पलीनागरयोः कटुरसयोरपि वृष्यत्वमुपपन्नं भवति ॥ ५ ॥ तिक्तरसगुणानाह तिक्त इति । शोधन इति व्रणस्य स्तन्यस्य च । अत्र अर्कागुरुगुडूचीनां तिक्तानामप्यौष्ण्यं पूर्ववत् समर्थ- नीयम् ॥ ६ ॥ कषायरसगुणानाह तुवर इति । तुवर इति कषायः । ननु च रूक्षः शीतो लघुश्चेति चरकेणोक्तम् । अत्र च गुरुत्वमुक्तमिति विरोध इति चेन्नैवं तत्राप्यलघुरित्यकारप्रश्लेषाद्गुरुरित्यर्थ- ष्टीकाकृद्भिर्व्याख्यात इति । वाभटेऽप्युक्तं कषायः कफपित्तघ्नो गुरुर्वस्तिविशोधनः ।
द्रव्यगुणः । ८
शीतं कफमारुतकृद् वीर्यं गुरु पित्तनाशनं बल्यम् । उष्णं कफवातहरं पित्तकरं लघु वृष्यञ्च ॥ ८ ॥ इति । यत्तु सुश्रुते कषायो रसो लाघवाद्वातं वर्द्धयती- त्युक्तं तत्तस्य लघुपाकतयेति विरोधं परिहरन्ति । स्तम्भो स्तम्भनः । अत्रापि कषायस्य हिमत्वं स्तम्भित्वञ्चौत्सर्गिकं तेन हरीतक्यां कषायरसस्य उष्णत्वं भेदकत्वञ्चापवादतया सम- र्थनीयम् । शमन इति संगमनः पीतन इति व्रणस्य ॥ ७ ॥ सम्प्रति रसगुणाभिधानमनु वीर्य्यगुणा वाच्याः । तत्र वीर्य्य- स्वरूपमेव प्रथमं निरूप्यते । वीर्य्यं शक्तिः सा च पृथिव्यादीनां भूतानां यः सारभागस्तदतिशयरूपा बोध्या । सा च द्विविधा चिन्त्याचिन्त्यक्रियाहेतुत्वेन । तत्र चिन्त्यक्रियाहेतुर्या द्रव्यरसा- दीनां स्वस्वकर्माणि स्वभावसिद्धा शक्तिः । अचिन्त्यक्रियाहेतुश्च प्रभावापरपर्याया द्रव्याणां रसाद्यननुरूपकार्य्यकारणशक्तिः । उक्तञ्च भूतप्रसादातिशयो द्रव्ये पाके रसे स्थितः । चिन्त्याचिन्त्य- क्रियाहेतुर्वीर्य्यं धन्वन्तरेर्मतम् । एतेन द्रव्यरसपाकानां स्वस्व- कार्य्यकारणसामर्थ्यं वीर्य्यमित्यर्थः । यत्पुनश्चरके वीर्य्यन्तु क्रियते येन या क्रिया इत्यनेन रसादीनामपि वीर्य्यत्वमुक्तं तद्धर्म- धर्मिणोरभेदादेव समर्थनीयम् । न चैवं द्रव्यस्यापि वीर्य्यत्व- प्रसङ्गः । येनेति करणे तृतीया करणस्यैव शक्तित्वात् । द्रव्यस्य च कर्तृत्वात् एतेन द्रव्यकर्तृके रसादिकरणके कार्य्ये रसा- दीनामपि वीर्य्यत्वमित्यर्थः । सुश्रुतेऽप्युक्तं येन कुर्वन्ति तद्वीर्य्य- मिति । अत्र केचित् ननु यदि शक्तिरेव वीर्य्यं न तर्हि शीतो- ष्णादिलक्षणम् । अथ शीतोष्णादिलक्षणं न तदा शक्तिलक्षण- मिति । सत्यं परमार्थतः शक्तिरेव वीर्य्यं सा पुनर्बलवत्क्रिया निर्वर्त्तनक्षमा रसादिनानायोगाद्भिरुपाधिरिति । तस्याः शीतो-
१० द्रव्यगुणः । ण्यादयो गुणा उपाधित्वेनाङ्गीकृताः । ते तु द्रव्यसमवायिनो रसादिषु पुनरुपचरितवृत्तय इति । उक्तञ्च गुणाः कर्मव्यवस्थायै द्रव्याणां रसपाकयोः । शक्तेः कर्मसु शक्ता ये निरुपाधेरुपाधयः ॥ इत्याहुः । यत्पुनमृदु तीक्ष्णं गुरु लघु स्निग्धरूक्षोष्ण- शीतलं वीर्य्यमष्टविधं केचित् । केचिद्द्विविधमास्थिताः शीतोष्ण- मिति । मतभेदेनाष्टविधं द्विविधं वा वीर्य्यमिति । उक्तञ्चरकेण तत्पारिभाषिकवीर्य्यपुरस्कारेण । वैद्यके हि रसविपाकप्रभा- वातिरिक्ते प्रभूतकार्य्यकारिणि गुणे वीर्य्यमिति संज्ञा तेनाष्ट- विधवीर्य्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्य्यं प्रायः कुर्व्वन्तीति तेषां रसाद्युपदेशेनैव ग्रहणं मृद्वादीनाम- ष्टानान्तु रसाद्यभिभावकत्वमस्ति । तथा पिप्पल्यां कटुरस- कार्य्यं पित्तकोपममभिभूय तद्गते मृदुशीतवीर्य्ये पित्तमेव शमयत इति । तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्य्यं वातकोपनमभिभूय उष्णेन वीर्य्येण तद्विरुद्धं वातशमनमेव क्रियते । तथा मधुरेऽपीक्षौ शीतवीर्य्यत्वेन वातवृद्धिरित्यादि । सुश्रुतेऽप्युक्तम् एतानि खलु वीर्य्याणि स्वबलगुणोत्कर्षाद्रसमभि- भूयात्मकर्म दर्शयन्तीति । शीतोष्णवीर्य्यवादिमतन्तु अग्नीषो- मीयत्वाज्जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम् । उक्तञ्च नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ । व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित् ॥ प्रथमवादिमते शक्तिमात्रं वीर्य्यं तद्योगात् रसादीनामपि वीर्य्यसंज्ञा । पारिभाषिकवीर्य्यवादिमते तु शक्तिविशेषो वीर्य्यं तद्योगात् मृदुतीक्ष्णादीनामेव वीर्य्यसंज्ञा नापरेषां गुणाना- मिति । शास्त्रे व्यवहारस्तु पारिभाषिकवीर्य्यनयेनैवेति । भवतिचात्र
द्रव्यगुणः । ११ शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः । तयोरम्लं यदुष्णञ्च यच्चोक्तं कटुकं तयोः ॥६॥ शक्तिमात्रन्तु वीर्य्यं स्यादिति केचिद्बुधा विदुः । तन्मते द्रव्यरसयोः पाकस्य च गुणस्य च । मृदादेः स्वक्रियोत्पादे शक्तिर्वीर्य्यमिति स्थितिः ॥ यदुक्तं चरके वीर्य्यं क्रियते येन या क्रिया । नावीर्य्यं कुरुते किञ्चित् सर्वा वीर्य्यवती क्रिया ॥ इत्यनेन रसादीनां वीर्य्यत्वं तदभेदतः । मृदादयो गुणा अष्टौ वीर्याणीत्यूचिरे परे ॥ यस्मात् सर्वगुणोत्कृष्टाः शक्त्युत्कर्षयुता अमी । व्यवहारोपयुक्ताश्च नेदृशास्त्वपरे गुणाः ॥ तस्मान्न ते वीर्य्यसंज्ञा इति शास्त्रविदां मतम् । अन्ये शीतोष्णभेदेन वीर्य्यं द्विविधमूचिरे ॥ अग्नीषोममयं विश्वं यत एतच्चराचरम् । यद्यपि अष्टविधमेव वीर्य्यं भवति तथापि तेषु एव शीतो- ष्णयोः प्राधान्यात् तद्गुणमेवाह शीतमिति ॥ ८ ॥ इदानीं रसद्वारेण द्रव्याणां वीर्य्यमाह शीतमिति । यद्- द्रव्यं रसे पाके च मधुरं तद्वीर्येण शीतं ज्ञेयम् । तथा तयोः रसपाकयोर्यदम्लं तद्वीर्येणोष्णं ज्ञेयम् । तथा यच्च द्रव्यं तयोः रसपाकयोः कटुकमुक्तं तदपि वीर्येणोष्णं ज्ञेयमिति शेषः । किंवा यच्चोष्णं कटुकं तयोरिति पाठः । प्रभावोऽचिन्त्यक्रिया- हेतुवोर्य्यमेवेति शक्तिविशेष एव प्रभाव इत्यभिधीयते । प्रभाव- सत्त्वे च चरके मानमप्युक्तम् यथा रसवीर्य्यविपाकानां सामान्यं यत्र लक्ष्यते । विशेषः कर्मणाञ्चैव प्रभावस्तस्य स स्मृतः ॥
१२ द्रव्यगुणः । कटुर्विपाकः शुक्रघ्नो बद्धविट्वातलो लघुः । इति । सामान्यमिति तुल्यता कर्मणां पुनर्विशेषो न तुल्य- तेत्यर्थः । एतेन द्रव्ययोर्द्वयोरसादिसाम्ये सत्यपि एकस्मिन् द्रव्ये जायते कार्य्यविशेषः । इतरत्र तु न जायत इत्यत्र यत्का- रणतया वाच्यं तदेव प्रभाव इत्यर्थः । एतदुदाहरणञ्च तेनैवोक्तम् । कटुकः कटुकः पाके वीर्य्योष्णश्चित्रको मतः । तद्दन्ती प्रभावात्तु विरेचयति मानवम् ॥ इति । तद्वदिति । चित्रकतुल्यरसवीर्य्यपाकाः । एतेन चित्र- कस्य रसाद्यैस्तुल्यायामपि दन्त्यां तद्विरेचकत्वरूपं विशिष्टं कर्म तत्स्वकारणं प्रभावमनुमापयतीति भावः । तथा रसादि साम्याभावेऽपि रसादिजन्यत्वेन यत्कार्य्यं न अवधारयितुं पार्य्यते तदपि प्रभावकृतमेव मन्तव्यम् । यथा मण्यादीनां विष- हरणादिकं कर्म । तदुक्तं चरके मणीनां धारणीयानां कर्म यद्विविधात्मकम् । तत्प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ॥ विविधात्मकमिति विषहरणशूलहरणलौहाकर्षणादि ॥ ६ ॥ इदानीं विपाकगुणा वाच्याः । अतो विपाकस्वरूपं प्रथमं निरूप्यते अवस्थापाकापेक्षया विशिष्टः पाको विपाकः । विपाक- शब्देनेह लक्षणया विपाकाधेय आहारस्य रसविशेषो गौरवेण लाघवेन वा युक्तोऽभिधीयते । उक्तञ्च वाग्भटेन जाठरेणाग्निना योगाद्यदुदेति रसान्तरम् । रसानां परिणामान्ते स विपाक इति स्मृतः ॥ अत्र रसानां परिणामा मधुराम्लकटुरूपास्त्रयोऽवस्थापाकाः षड्रसस्यैवान्नस्य आमाशयादिस्थानसम्बन्धमहिम्ना जायन्ते । ते च चरके ग्रहणीचिकित्सिते
द्रव्यगुणः । १२ स्वादुर्गुरुः सृष्टमलो विपाकः कफशुक्रलः । पाकोऽम्लः सृष्टविण्मूत्रः पित्तकृत् शुक्रनुल्लघुः ॥१० अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः । इत्यादिना उक्ता अनुसन्धेयाः । तेषामन्तेऽवसाने पुनर्जाठ- राग्निसंयोगे सति यद्रसान्तरं रसविशेष उदेति स विपाक इत्यर्थः । इह केचिदाचक्षते प्रतिरसं पाकः अम्लोऽम्लस्य मधुरो मधुरस्य लवणो लवणस्य कटुकः कटुकस्य तिक्तस्तिक्तस्य कषायः कषायस्य इति षडेव विपाकाः । किमत्र प्रमाणमिति चेदुच्यते । यथा क्षीरमतिपच्यमानमपि मधुरमेव स्यात् । यथा वा शालियवादय उप्ताः प्ररूढाः फलिताश्च शाल्यादिस्वरूपा एव भवन्ति । तथा मधुरादयोऽपि निष्ठापाकेऽपि मधुरादि- स्वरूपा एव भवितुमर्हन्तीति । उक्तञ्च उप्ताः षष्टिकमाषाद्या बाह्यपकाश्च षड्रसाः । यान्ति नान्यत्वमित्येवं पाकः प्रतिरसं भवेत् ॥ इति । अन्येतु ब्रुवते रसा द्विविधा बलवन्तोऽबलवन्तश्च । बल- वत्त्वञ्च व्यक्तत्वेन मात्राबाहुल्येन वा अबलवत्त्वं पुनरेतद्विपर्य्य- येण । तत्र अल्पतया अबलवन्तो रसा बलवतां रसमायान्तीति । तेन निष्ठापाकेन बलवता रसेन दुर्बलरसाभिभवान्न रसप्रतिनिय- मेन मधुरस्य मधुर एव पाकोऽम्लस्य चाम्ल एवेत्यादि प्रतिनिय- माभावात् अनवस्थितः पाक इति । अनियतत्वपक्षेऽपि षट्क- त्वमेव कदाचित् कस्यचित् सम्भवादिति । बह्वोऽभिभवन्त्यल्पान् वह्निर्मिश्रीकृता रसाः । तेनानिश्चितमेवैके पाकमाहुर्मनीषिणः ॥ इति । अन्ये तु वातादिभ्यो दोषेभ्य एव त्रीन् पाकान् २
१४ द्रव्यगुणः । इच्छन्ति । कफात् वातकफात् मधुरः कफपित्तात् अम्लः वातात् पित्तात् वातपित्ताच्च कटुक इति । तदुक्तम् कफात् वातकफात् स्वादुरम्लः पित्तंकफोद्भवः । दोषैस्त्रयोऽनिलात् पित्तात् वातपित्तात् कटुर्मतः ॥ इति । तदेतत् मतत्रयं प्रमाणशून्यत्वात् उपेक्षणीयमेव । किञ्च प्रतिरसं रससदृशः पाकस्तथा बलवत्पराधीनता च पाकस्य रसद्वारप्रतिपाद्यमानकार्य्येणैव लभ्यते । तेनैतत् पक्षद्वय- मपि न निष्ठापाके चिन्तनीयं रसस्वरूपनिरूपणेनैवोक्तार्थत्वात् । दोषावस्थाजन्यश्च पाक उपपादकहेत्वभावात् आगमशून्यत्वाच्च प्रेक्षावद्भिरुपेक्षणीय इति । चरकेण तु त्रय एव विपाका अङ्गी- कृताः कट्वम्लमधुरभेदेन । अतस्तद्वचनमुपन्यस्यति । कटुतिक्तकषायाणां विपाकः प्रायशः कटुः । अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ॥ प्रायश इति वचनात् पिप्पलीकुलत्थादीनाम् रसाननुगुण- पाकतां दर्शयति । पाकस्तु तेजःसंयोगरूपो रसेषु सम्भव- तीति । कट्वादिशब्दैस्तदाधारद्रव्याण्युच्यन्ते । एतेन यत् कैश्चि- दुच्यते अवस्थापाकावसाने षड्रसस्यैव अन्नस्य कटुरसत्वेन तदानीं तिक्तादिरसानामभावात् तेषां विपाको नोपपद्यत इति तदपि अपास्तम् । तिक्तादिरसानामभावेऽपि तदाश्रयद्रव्यस्य विद्य- मानत्वादिति । वस्तुतस्तु अवस्थापाकत्रयेण तत्तदामाशयादि- स्थानमहिम्ना मधुराम्लकटुरसा उद्भूताः परं क्रियन्ते न तु सर्वथा प्राक्तरसाभिभवः । अन्यथा अवस्थापाकेन प्राकृतानां मधुरादिरसानां सर्वथा अप्राकृतत्वात् तेषां कफादिजनकत्वा- भिधानं निरवकाशं स्यादिति । ननु चरके अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः । इत्यादिना षण्णामेव रसानामविशेषेण अवस्थापाकवशात्
द्रव्यगुणः । १५ कफादिजनकत्वमुक्तम् । तत्तथाच रसविशेषाणामेव दोषविशेष- जनकत्वम् । तदुक्तं यथा कटुतिक्तकषायाणां विपाकः प्रायशः कटुः । इत्यादिना च यो विपाक उक्तस्तत् सर्वं विरुध्यते अवस्था- पाकेनैव बाधितत्वादिति । नैवम् । न हि अवस्थापाकोऽयं रस- स्वभावं निष्ठापाकं बाधते । किञ्च अवस्थायां स्वकार्यं करोति तेन रसादयोऽपि स्वकार्यं कुर्वन्ति । अवस्थापाकोऽपि स्वीयं कार्यं करोति यथा मधुरतिक्ताद्यनेकरसे उपयुक्ते मधुरोऽपि स्वकार्यं करोति । तिक्तादयश्च स्वकार्यं कुर्वन्ति । अयन्तु विशेषो यदि मधुराख्यस्य अवस्थापाकस्य मधुरादयः श्लेष्म- जनका रसा अनुगुणा भवन्ति तदा स बहुश्लेष्माणं जनयति । यथा तु विपरीतकटुकादिपरिगृहीतो भवति तदा स्तोक- मात्रं कफं जनयति । एवं पित्तजनकावस्थापाकेऽपि वाच्यम् । कटुतिक्तकषायाणामित्यादिना उक्तश्च निष्ठापाको रसमल- विवेकसमकालो भिन्नकाल एवावस्थापाकैः सममिति न विरोधः । स च भिन्नकालोऽपि अवस्थापाकजन्यदोषानुगुण- तया अननुगुणतया वा अवस्थापाकाहितदोषाणां वर्द्धनं क्षपणं वा करोतीति निष्ठापाकाभिधानं शास्त्रे प्रयोजनवदेव । अन्ये तु ब्रुवते न तावत् षड्रसादप्यन्नात् सामान्येन अवस्थापाके- ऽपि कफोत्पत्तिः । किन्तु षड्रस एवान्ने मधुरो य आहारांशः स उद्रिक्तः सन् कफं जनयति । तथा पित्तदोषकोपको य आहारभागस्तस्माद्विदाहावस्थायामुद्भूतात् अम्लरसात् पित्त- मुत्पद्यते । एवं वायुरपि वायुजनकाहारांशात् कटुतावस्थायां भवतीति । एतच्च न सङ्गतम् अन्नस्य भुक्तमात्रस्य इत्यादि- ग्रन्थविरोधात् । यतोऽत्र षड्रसस्यैव अन्नस्य सामान्येन अव- स्थापाकात् कफादिजनकत्वं दर्शितं न तु कस्यचिदाहारां-
१६ द्रव्यगुणः। शस्येति। यदि पुनः षड्रसाहारगतो यः श्लेष्मजनको भागः स एव स्थानमहिम्ना उद्भूतः सन् सर्वमेवाहारमवस्थापाकसमये मधुरीकृत्य कफं जनयतीत्युच्यते तदानुमतमेव। अन्ये त्वाहुः। यन्नान्नस्याग्निसंयोगान्मधुराद्यवस्थितं भवति। किन्तु कफा- दिस्थानेषु मनुष्याणां स्वभावादेव मधुरादयो रसास्तिष्ठन्ति ते चान्नं स्वस्वभावं नीत्वा कफादीन् जनयन्ति। उक्तं हि तन्त्रा- न्तरे मधुरो हृदयादूर्द्धं रसः कोष्ठे व्यवस्थितः। ततः संवर्द्धते श्लेष्मा शरीरबलवर्द्धनः। नाभीहृदयमध्येन रसस्त्वम्लो व्यवस्थितः ॥ स्वभावेन मनुष्याणां तत्र पित्तं विवर्द्धते। अधो नाभ्यान्तु स त्वेकः कटुकोऽवस्थितो रसः ॥ प्रायः श्रेष्ठतमस्तत्र प्राणिनां वर्द्धतेऽनिलः। तस्माद्विपाकस्त्रिविधो रसानां नात्र संशयः॥ एतच्च तन्त्रान्तरं श्लेष्मपित्तगतमधुराम्लरसवायुप्राभाविक- कटुरसाभिप्रायेण वर्णनीयम्। ते च कफादिगता रसा अस्माक- मप्यग्न्याशयपाकसह्कारितया अनुमता एवेति। तस्माद्- यथोक्त एवार्थो न्याय्य इति। अयञ्च विपाकाधेयो रसविशेषो न रसनेन्द्रियग्राह्यः किन्तु तत्तत्कार्य्यैरेवोन्नीयते॥ यथा कटु- रसाया उष्णवीर्य्याया अपि शुण्ठ्या वृष्यत्वेन मधुरः पाकोऽनु- मीयते तथा लवणस्य सृष्टविण्मूत्रत्वेन मधुरः पाक उन्नी- यते। तथा तिक्तकषायोर्बद्धविण्मूत्रतया कटुपाक उन्नीयत इति। ननु लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुप- पन्नम्। तथा तिक्तकषाययोः कटुपाकित्वेच पित्तहन्तृत्व- मनुपपन्नम्। नैवम्। सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणे उष्णवीर्य्यं यदस्ति तेन तत्पित्तरक्तादिकारकत्वम्। विपा- कस्तु तत्र पित्तरक्तकरणलक्षणे कार्य्ये बाधितोऽपि सृष्टविण्मूत्रा-
दिलक्षणेन लक्ष्यत एव । तथा तिक्तकषाययोरपि कटुविपाको बलवता शीतवीर्येण बाधितत्वान्न पित्तजनकः । बद्धविण्मूत्र- तया तु लक्ष्यत एव । एतेन यदुच्यते लवणादिषु विपाको यदि रसवीर्य्याभ्यां बाधितः स्वकार्य्यकरो न स्यात् तत् किं तेनोपदि- ष्टेन इति तन्निरस्तं भवति । यतोऽस्त्येव सृष्टविण्मूत्रतादि तत्का- र्य्यमिति । अन्ये तु एतद्दोषभयात् लवणस्तथेत्यत्र तथाशब्देन विप्रकृष्टमम्लमाकृष्य लवणोऽम्लः पच्यते इति व्याख्यानयन्ति । तन्न कट्वादीनां कटुविपाकः अम्लोऽम्लस्य शेषयोर्मधुर इति जतूकर्णविरोधात् । न च त्रय एव विपाकाः कथं भवन्ति तिक्तादयोऽपि कुतो न स्युरिति वाच्यम् । भूतस्वभावस्यापर्य्यनु- योज्यत्वात् । ननु यत्र रसविपरीत: पाको यथा लवणस्य मधुरः तिक्तकषाययोश्च कटुः स उच्यतां यस्तु समानगुणो मधु- रस्य मधुरः अम्लस्याम्लः कटुकस्य कटुकः तत्कथनेन किं प्रयो- जनम् । यतो रसगुणैरेव तत्र विपाकगुणोऽपि ज्ञास्यते । नैवम् । लवणादिवद्विसदृशरसान्तरोत्पादशङ्कानिरासार्थमपि तत्रानु- गुणोऽपि विपाको वक्तव्य एव । तथा यत्र समानगुणो विपाक- स्तत्र बलवत्कार्य्यं भवति । विपर्य्यये तु दुर्बलमिति ज्ञेयम् । सुश्रु- तेन द्विविध एव विपाकोऽङ्गीकृतः मधुरः कटुकश्चेति । द्वैविध्ये च भूतानां गुरुलाघवेन द्वैविध्यमेव हेतुः । यदुक्तं तेनैव तत्र पृथिव्यप्तेजोवायूकाशानां द्वैविध्यं भवति तद्गुणसाधर्म्यात् । तत्र पृथिव्यापश्च गुर्व्यः । शेषाणि च लघूनि । तस्माद् द्विविध एव विपाको भवति । तद्गुणसाधर्म्याच्च गुरुता लघुता ज्ञेत्यर्थः । अत्रापि सुश्रुतमते यद्यप्यम्ललवणौ मधुरविपाकौ तथापि तयोर्वातहरत्वे सृष्टविण्मूत्रतायाञ्च मधुरकार्य्यकरत्वं न पुनः पित्तहरत्वे । तथा तिक्तकषाययोः कटुविपाकयोरपि वातकर्त्तृत्वे बद्धविण्मूत्रतायाञ्च कटुकार्य्यकरत्वं न पुनः
१८ द्र्व्यगुणः । पित्तकर्तृत्वे अचिन्त्यत्वात् प्रभावस्य । एतदेवोक्तं माधवे- नापि । स्वादादीनां स्वादुपाकः सुश्रुताचार्य्यसम्मतः । तत्कथं पित्तजननौ स्यातामम्लकट्टू रसौ ॥ कटुपाकौ कथं पित्तनाशनौ तिक्ततूवरौ ॥ सिद्धान्तोऽपि । अम्लपट्वोः फलं दद्यात् स्वादुपाकः कटुः पुनः । कषायतिक्तयोरित्थं सुश्रुताचार्य्यसम्मतः ॥ इति । ननु पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः । विपक्कः पञ्चधा सम्यक् स्वान् गुणानभिवर्द्धयेत् ॥ इत्यनेन पञ्चधापि विपाकस्तेनैवोक्तः । तत्कथं न विरोध इति चेन्नैवम् । उपाधिभेदेन विरोधाभावात् । तत्र हि भूत- भेदमवलम्ब्य पञ्चधात्वम् । अत्र तु लाघवगौरवरूपं भूतगुण- द्वैविध्यमाश्रित्य द्वैविध्यमुक्तमिति न विरोधः । यथा पञ्चभूता- त्मकत्वेऽपि द्रव्याणां सौम्याग्नेयत्वाद्वैविध्यमिति । यत् पुनः सुश्रुतेनाम्लपाको न मन्यते तच्चरकमतानुयायिनो न सहन्ते । यतोऽम्लपाकतयैव व्रीहिकुलत्थादीनां पित्तकर्त्तृत्वमुपपद्यते । अथ मन्यसे व्रीह्यादेरुष्णवीर्य्यत्वेन तत्र पित्तकर्त्तृत्वम् । तदसत् । मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्य उष्णवीर्य्यतायामपि सत्यां न पित्तकर्त्तृत्वमुपपद्यते । रसविपाकाभ्यामेकस्य वीर्य्यस्य बाध- नीयत्वात् । किञ्च अम्लपाकत्वाद् व्रीह्यादेः पित्तमम्लगुणमुत्प- द्यते । यदि तु उष्णवीर्य्यताकृतं स्यात् तदा कटुगुणभूयिष्ठं पित्तं स्यात् । दृश्यते च व्रीहिभक्षणादम्लोद्गारादिना अम्लगुण- भूयिष्ठतैवेति । किञ्च पृथिवीसोमगुणातिरेकान्मधुरः पाको भवति वाय्वग्न्याकाशातिरेकाच्च कटुर्भवतीति पक्षे यदा व्यामिश्र- गुणातिरेको भवति । तदा सोमाग्न्यात्मकस्याम्लस्य उत्पादकः