गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
अथ ग्रन्थमालाया विषये विद्वद्वर्याणामभिप्रायः। आयुर्वेदीयचिकित्सकानां, जयपुरराजकीयसंस्कृतमहाविद्यालयस्य आयुर्वेद- परीक्षकाणां, चरकसंहितायाः स्वतन्त्रव्याख्याप्रणेतॄणां, वङ्गीयराॅयलएशियाटिक- समाजसदस्यानां, 'एम्. ए. विद्याभूषण' इत्याद्युपाधिविभूषितानां कविराजश्री- योगीन्द्रनाथसेनमहोदयानामभिप्रायः— दुरासदपुराणायुर्वेदग्रन्थप्रकाशने । महाधनानां जीर्णानां मणीनां संस्कृताविव ॥ १ ॥ आचार्योपाह्वय श्रीमद्भिषग्यादवशर्मणः । अतिशस्ततया भाति साधुरेष समुद्यमः ॥ २ ॥ श्रेयसा कर्मणाऽनेन केवलं भिषजां नहि । आर्याणामेव सर्वेषां सुकृतज्ञत्वमर्हति ॥ ३ ॥ द्वारकानाथकारुण्यादायुर्वेदविशारदः । सुसंस्कारेषु जीर्णानामाप्तकामो भवत्वयम् ॥ ४ ॥ प्रोत्साहनीयो विद्वद्भिः सर्वैरेष भिषग्वरः । इति योगीन्द्रनाथस्य भिषजः प्रार्थना सदा ॥ ५ ॥ कलिकातानगरवास्तव्यानां 'एम्. ए; एल्. एम्. एन्ड एस्; विद्यानिधि, कविभूषण' इत्युपाधिविभूषितानां कविराजश्रीयुतगणनाथसेनमहोदया- नामभिप्रायः— हन्त खल्वेष महानेव भाग्योदयो भिषजां यदद्य हीयमानवैद्यकज्योतिःसमु- दीपनाथ समुदिता नवीना मासिकपत्रिका वैद्यजनकण्ठललाममालेवमायुर्वेदीय- ग्रन्थमाला नाम । सेयं वैद्यवरश्रीमदाचार्ययादव-त्र्यम्बकशर्मभिः सम्पाद्यमाना नवनवग्रन्थरत्नसमुज्ज्वला परां श्रियं पुष्णाति । विशेषतश्चात्र रसहृदवादिकान- तिदुर्लभान् ग्रन्थान् प्रकाश्यमानानालोक्य परां कोटिमानन्दस्याध्यगमम् । यथा चास्याः संपादकप्रवरैर्बद्धपरिकरं प्रयतते ग्रन्थसंग्रहाय तथा चिरायुष्मत्याऽनया पत्रिकया महानेवोपकारः संपत्स्यतेऽचिरेणेति साग्रहमाशास्ते— Calcutta, } कलिकातावास्तव्यः Dt. 1-12-1910. } श्रीगणनाथसेनः
४ सुश्रुतसंहितायाः सुश्रुतार्थसंदीपनभाष्याख्यव्याख्याप्रणेतॄणां राजशाहीवास्त- व्यानां कविराजश्रीहारणचन्द्रशर्मचक्रवर्तिनामभिप्रायः— श्रीश्रीशः शरणम् । वैद्य श्रीयादवजी त्रिविक्रमजी महोदयं प्रति यथाविहितसम्मानपुरःसरं विनि- वेदयति— तत्र भवद्भिः प्रेषितामायुर्वेदीयग्रन्थमालानाम्नीं पत्रिकामवाप्य नितरां परि- तुष्टोऽस्मि । भारतीयानां दौर्भाग्यवशाच्चिरन्तनैर्भिषग्भिरुपनिबद्धा बहवो ग्रन्था विलुप्तिमापुः । ये च केचन लुप्तप्राया राजपुरुषाणां प्रयत्नात् यथाकथमपि मुद्रिताः समुपलभ्यन्ते त एवेदानीं पाश्चात्यविज्ञानदृप्तेऽपि देशे भारतीयार्याणां वैद्यकविद्यायामतितरां नैपुण्यविशेषमाख्यापयन्ति । अधुनापि बहवो ग्रन्था अमुद्रिता आकरगता मणय इव न जातु जनानामुपकारायौयुर्वेदस्य गौरववर्धनाय वा प्रभवन्ति । धन्योऽसि त्वं यज्जनहितेच्छया रक्षार्थं चायुर्वेदतन्त्राणाममुद्रितांस्तां- स्तान् प्राचीनान् ग्रन्थान् बहुप्रयासेनोपसंगृह्य प्रतिमासमायुर्वेदीयग्रन्थमालायां प्रकाशयसीति । सांवत्सरिकमूल्यमप्यस्या नातिदुर्बहम् । नह्यपायान्तरेण रूप्य- कत्रयव्ययात् कथमपि रसहृदयादिकास्ते ते दुर्लभा ग्रन्थाः शक्यन्ते नाम दृष्टिपथमप्यारोहयितुम् । प्रतिग्रन्थं सुयुक्तिपूर्णा भूमिका दुरूहार्थबोधिका टिप्प- न्यपि वर्तेत इति सानन्दमभिनन्दयामि । पत्रिकेयं सर्वथायुर्वेदानुशीलयि- तॄणामुपयोगिनी भविष्यतीति परमाशासे इति । $\left.{l}राजशाही ६ डिसें० १९१० सः\right}$ श्रीहारणचन्द्रचक्रवर्ती । जयपुरराजकीयसंस्कृतमहाविद्यालये आयुर्वेदप्रधानाध्यापकानां, आयुर्वेदा- चार्योपाधिभृतां राजवैद्य पं० श्रीलक्ष्मीराम स्वामी महोदयानामभिप्रायः— अद्य प्रादुर्भूतमान्तरिकमानन्दं बहिः प्रकाशयन् सत्यं सन्तोषमावहामि । यतो हि बहोः कालादुपेक्षापथमारोपिते विषये साम्प्रतं समाजे लोकानां दृष्टि- पातः । नैतदवधि परमोपयोगिनः खल्वायुर्वेदशास्त्रस्य पुरातनग्रन्थानां प्रकाशने समभूत्समवधानम् । परमद्य नवीनमाविष्कृतामायुर्वेदीयग्रन्थमालां पश्यन् सन्तुष्यामि हृदये । एषा हि मोहमयीनगरात् प्रचरिष्यन्ती मासिकपत्रिका । एत्तस्याः खलु सम्पादका मोहमयीनगरमधिवसन्त आचार्योपाह्वा यादव- शर्मणः । एषा हि परमोपयोगिनः प्राचीनानायुर्वेदग्रन्थान् प्रकाशयितुमा- विर्भूता । एवंविधान् ग्रन्थान् प्रकाशयन्ती सैषा कियदुपकरिष्यति लोकानामिति सर्वेऽप्यनुमिन्युयुः । अस्यां हि प्रकाशयितुमभिलषितानां विरलपठनपाठनप्रचा-
राणां ग्रन्थानां परिशोधनकर्मणि बहून्यादर्शपुस्तकान्यपेक्ष्यन्त इति सम्पादक- महाशयैरवश्यमस्मिन्विषये समवधातव्यम् । सुयोग्यसम्पादकमधिगतवतीमिमा- मायुर्र्वेदविषयरसिका अवश्यमेव समाद्रियेरन्निति विश्वसिमि । चराचरगुरुः परमेश्वरः कुर्यादेनां यशस्विनीमिति निर्मायं समाशासे— जयपुर, ता. ६।१।१९११ $\qquad\qquad$ श्रीलक्ष्मीरामस्वामी जयपुरराजकीयसंस्कृतमहाविद्यालये आयुर्वेदाध्यापकानां, तर्कोपाध्यायसाहि- त्यशास्त्रिणां, अखिलभारतवर्षीयसयाजीआयुर्वेदविद्यापीठस्य द्वितीयवैद्यकसंमेलन- सभाधिपतीनामायुर्वेदविद्यानिधीनां व्यासोपाह्वयराजवैद्यभट्टगंगाधरशर्मणा मभिप्रायः— अयि सुहृद्गणा उद्घाट्यतां चक्षुर्द्दश्यतामनुपमं वस्तु गृह्यतामायुर्यततां त्रि- वर्गप्राप्तौ बहुकालात् प्राप्तोऽयमवसरः निष्पन्नोऽथैवात्मनामवितर्कितो विचारः माभवन्तु तूर्यशब्द इवार्थशून्याः । यतः शास्त्रमूलं हि ज्ञानं तन्मूला च सिद्धिः सिद्धेः फलमनामयः, तथाहि जीवानन्दनीयः श्लोकः,— “प्राग्जन्मीयतपःफलं तनुभृतां प्राप्येत मानुष्यकं, तच्च प्राप्तवतः किमन्य- दुचितं प्राप्तुं त्रिवर्गं विना । तत्प्राप्तेरपि साधनं प्रथमतॊ देहो रुजावर्जितस्तेना- रोग्यमभीप्सितं दिशतु वो देवः पशूनां पतिः ॥” इति । प्रार्थनीयतमस्य नैरूज्योपजीवनभूता नानाविधाः सद्यःफलप्रदा अदृष्टचरा अश्रुतचरा रसहृदयगदनिग्रहादयः प्राचीना आयुर्वेदग्रन्था यत्र मुद्राय्यन्ते । कृते प्रयत्न उपलभ्यमाना आयुर्वेदप्रकाशराजमार्त्तण्डपाकार्णवशालिहोत्रसमुच्चयरसक- ल्पलतारसावलि-रसपारिजात-रसेन्द्रचूडामणयो यत्रोद्धारश्च शिवकल्याणाय्य- संहिता-हितोपदेश-हिकमतप्रदीप-रोगब्बादकामरत्नानि वृक्षचिकित्सा द्रव्या- भिधानं शब्दरत्नप्रदीपो निघण्टुर्माधवनिदानस्य पद्यमयी टीका टीकान्तराणी- तरेषां राघवपाण्डवीयकाव्यमिव क्रोडीकृतार्थद्वयीकः शृङ्गारातरङ्गविलास इत्या- दयस्ते ते च वैद्यग्रन्था मुद्रापयितुमाशास्याः । सेयमायुर्वेदीयग्रन्थमाला केषां न प्रमोदमुद्वहेत् । शास्त्ररसिकानां भिषजामवश्यमादरणीया नेतरमासिकपत्रिकेव मूल्यभारं बिभर्तीति सहर्षमुपादेया । इमामायुर्वेदीयमासिकपत्रिकामवलोकमानो बहुलमावहामि संतोषम् । अस्या मासिकपत्रिकाया असंभावितप्रादुर्भावायाः संपादका आचोर्यापाहा- स्त्रिविक्रमतनुजा वैद्यप्रकाण्डा यादवशर्माणः पुरुषोत्तमाः श्लाघ्यतमाः ।
६ किं त्वेतस्यां तैस्तैराचार्यप्रवरैः समूहितान्यनेकमुनिजनस्वान्तखनिजानि विवि- धसूत्रस्यूतानि भारतीयानां हृदयङ्गमानि प्रत्नानि योगरत्नानि स्थले स्थले तत्त्वार्थावगमकैस्तत्तदौषधीनां शक्यार्थविशेषाभिधायकैरनेकार्थानां भेषजनाम्नां तन्त्रान्तरसंवादात् प्रकरणादिवशाच्चैकार्थे नियन्तृभिर्गूढवाक्यप्रसाधकैर्वाक्यैरनु- काव्यकलेशोक्तसंदिग्धार्थप्रकाशकैः परिभाषावाक्यैः सांप्रतिकोपयुज्यमानमाना- दिभिः साधनविधया च पूर्णगर्भया टिप्पण्या तथा संस्कारमर्हन्ति यथाधीयाना- श्चिकित्सकानां बटवोपि पटवो भवेयुः । नहि यथायथज्ञानमन्तरा भवन्ति प्राणाभिसरा वैद्याः; अतः संपादकमहोदयैः सहायकमहाशयैरन्तान्यैर्वा विद्व- द्वैर्य्यवरैः सान्द्रस्नेहैः संश्रियमाणानानातन्त्रैः साहाय्ये समवधेयम् । यतः सतां विभूतयः परानुपकुर्वन्ति । प्राप्तश्चायुर्वेदोद्धारसमयः । चिरस्थायिनीं क्रियादेना- मायुर्र्वेदीयग्रन्थमालामवाङ्मनसगोचरप्रभावोऽस्पष्टरूपोऽनादिमध्यनिधनः कालो- नाम भगवानित्याशीः $\left.{l}जयपुरम्. ता. २-३-११.\right}$ गङ्गाधरभट्टस्य. सर्वतन्त्रापरतन्त्राणां सुप्रसिद्धनामधेयानां मिथिलाभूषणानां नवानीवास्त- व्यानां धर्मदत्तापरनामधेयानां पण्डितश्रीबब्वाझामहोदयानामभिप्रायः— “जीवनसुखलुण्ठनैकरतानतामयदस्युप्रचयदमननिपुणभिषग्जह्वारथसूतस्य जरा- भुजगीकवलितोत्साहजनदुष्पारविविधव्याधिमकरप्रचारभीषणसंसारजलधिपार- दस्य चिकित्सावधूहृदयहृद्यरसस्य रसस्य विविधप्रक्रियाप्रकाशकानि तन्त्राणि गदनिदानप्राप्त्युपशयोपशमप्रकाशकभास्वदपूर्वायुर्वेदग्रन्थांश्च संशोध्य दुर्बोधस्थान- व्याख्यानमपि विधाय सन्निवेश्य च मासिकपत्रे मार्मिकजनलोचनगोचरतां नयता भिषग्वरेण श्रीमता यादवशर्मणा यथायमुपकृतो भैषज्यतत्त्वविविदिषुर्जुन- निचहस्तथा वर्णयितुमपेक्ष्यमाणया शेषतया रहिता वयमेतावदीशवरादभ्यर्थयामो भुचमलङ्कुर्वाणास्तुचिरं भूयासुरेतादृशा विद्वन्मणय इति” 'तृचिनाप्पल्लि' वास्तव्यानां 'अभिनवभट्टबाण' इत्युपाधिविभूषितानां व्याक- रणग्रन्थरत्नावलिसंपादकानां पं० रा. च. वि. कृष्णमाचार्याणामभिप्रायः— 'आर्याः, अधिगता संचिका अतीवानन्दयति माम् । श्रीमतामायुर्वेदग्रन्थ- प्रकठनव्यवसायश्च नितरामखिलैरप्यभिनन्दनीयः । श्रीमद्भिश्च तन्मुद्रणे शोधना- दिषु च सुबहु आधीयते श्रद्धेति मे मतिः' भवतां—कृष्णमाचार्यः ता. ३-१-१९११.
७ बळिआमण्डलान्तःपातिपनिवाग्रामवास्तव्यानां व्याकरणसाहित्यानेकशास्त्रा- वगाहनगम्भीरमतीनां 'उत्तरमोहनचरित्र'द्यनेक काव्यविरचयितॄणां पं. श्रीरमा- पतिमिश्राणामभिप्रायः— अदृष्टालभ्यानां विविधविधरोगौघनिधनं विधातॄणामद्यावधि नहि गतानामनुगुणम् प्रसिद्धिं, ग्रन्थानां प्रकटनपरैर्यादवबुधैर्हतैतद्देशीयेदृशविषयबाहुल्यविमतिः ॥ १ ॥ विधायागम्यानां विषमविषयाणां कचिदपि विशालं व्याख्यानं बुधजनविलोक्याव्यविषयम् । उपोद्घातं चादौ हतमपि महाशोकजनन- मधीतो नो वैद्येष्विति जनजनव्यापि कुमतम् ॥ २ ॥ मूल्याल्पत्वादगुणाधिक्यान्मुद्रणासुविधानात्। उपादेयत्वमप्यस्य पत्रस्य सुलभं कृतम् श्रीरमापतिमिश्रः । जयपुरराजकीयमहाविद्यालयस्याऽऽयुर्वेदाचार्यपरीक्षोत्तीर्णानां, पञ्चनदविश्व- विद्यालयालब्धशास्त्रीपदवीकानां, इन्द्रप्रस्थीय बी. एल्. आयुर्वेदविद्यालयस्य परीक्षकाणां, जींदराज्याधीशस्थापितराजकीयधर्मव्यवस्थापककमीटीसीनियरसभा- सदानां श्रीयुत पं. श्यामलालशर्ममहोदयानामभिप्रायः— वैद्य यादवजी त्रिकमजी आचार्यमहाशयं प्रति यथोचितमानपुरःसरं निवे- दयति-'आचार्य'इत्युपाधिभूषितैस्तत्र भवद्भिः श्रीयादवशर्मभिः संपाद्यमानामिमां 'आयुर्वेदीयग्रन्थमालाख्यां' मासिकपत्रिकामवलोकनेन प्रफुल्लितहृदयोऽहं विज्ञा- पयामि किञ्चिद्विद्वज्जनेषु । यदत्र मुद्रिता आयुर्वेदग्रन्था दुष्प्राप्या एव, नैवाया- वधि कुत्रापि मुद्रिताः । स्वल्पव्ययेनैव प्राप्या एषा पत्रिका आयुर्वेदरसिकजनै- रवश्यमेव संग्रहणीयेति । श्रीमन्तश्च पुरातनायुर्वेदप्रकाशनद्वारा वैद्यजनोपकार- करणाय समर्था भवन्विति याचते जगदीश्वरम् संगरुर } भवदीयः ता. २-१९११ } श्रीश्यामलालशर्मा शास्त्री आयुर्वेदाचार्यः। जयपुरराजकीयसंस्कृतमहाविद्यालयस्य आयुर्वेदाचार्यपरीक्षोत्तीर्णानां, मुंबई- स्थायुर्वेदविद्यालयस्य वाग्भटाध्यापकानां, पञ्चनदविश्वविद्यालयस्य शास्त्रीपरीक्षो- त्तीर्णानां, वैद्यकिशोरीवल्लभशर्मणामभिप्रायः— प्रियसहृदयाः ! भावत्कायुर्वेदीयग्रन्थमालानामकं मासिकपत्रमासाद्यातीव चेतस्तुष्यति । यत्र खलु दुष्प्राभा योग्याश्चायुर्वेदीया रसाह्वयादिग्रन्थाः प्रकाश्यन्ते । अपि नाम विदितमेवैतद्विदुषां यथा संप्रति प्रारब्धवशात्परम्पराप्राप्तप्रचुरपुस्तकचयानां स्वयं तान्यानुपयुञ्जानानां परेभ्यश्च प्रेक्षणमात्रार्थमप्यददानानां पुस्तककीनाशानां
८
हस्तपतितानि पुस्तकानि शीर्णतामवाप्य घुणानां कीटकान्तराणां चोपभोग- भाजनानि भवन्ति । अथ च बहवो मुद्रणाधिकारिणः स्वार्थशेमुष्या अवैद्येभ्यः संशोध्यैवाशुद्धप्रायाणि पुस्तकानि मुद्रयन्तीत्यादिकारणवशादाय़ुर्वेदीयग्रन्थानां प्रलयत्वमेवापाद्यते । परमीशानुकम्पया सोऽयं महान्भावः साम्प्रतमभ्युन्नति- चिकीर्षुणा वैद्यवरश्रीयादवशर्मणा महतायासेन प्राक्तनान् ग्रन्थरत्नानन्वेष्य सं- शोध्य मुद्रयित्वा च निरस्तः । प्रियवयस्येनायुर्वेदसमुद्धरणे ह्यतीव श्रमः समनु- ष्ठितः प्राचीनायुर्वेदग्रन्थरत्नलोकोलोचनगोचरीभावायेति श्लाघ्यः प्रयत्नः । अखि- लभारतवर्षीयैर्वैद्यैर्विद्वद्भिश्चावश्यं ग्राहकसंख्याः संवर्ध्य संवर्धनीयः समुत्साहप्रवाहः किल प्रकाशकमहोदयस्य । येनाभ्युन्नतिमाप्नुयादहरह आयुर्वेदीयग्रन्थमालेति शम् ।
पौषकृष्णनवमी सं० १९६७. किशोरीवल्लभः ।
देहलीनगरस्थबनवारीलाल-आयुर्वेदविद्यालयाध्यापकानां वैद्यराजपण्डित श्री मनोहरलालशर्मणामभिप्रायः— श्रीमन्महोदयः ! सानन्दं निवेदयामः—याऽधुनाऽयुर्वेदीयग्रन्थमालाविर्भूता संदृश्यते, साचेयं पुरातनायुर्वेदीयतन्रोद्धतरत्नैर्ग्रथिता श्रीयादवत्रिविक्रमाचार्य्यभिषग्भिः सद्धिप्र- जामुपकाराय मालेव प्रतिभाति । किञ्चात्रायुर्वेदियसयोगा विविधगदप्रशनक्षमा दरीदृश्यन्ते, यैश्चाशु दाक्ष्यं स्याद्विदुषां भिषजामेवेति ॥
$\left.{l}इन्द्रप्रस्थ ता० ३०-१-१९११.\right}$ \quad {l}पं० मनोहरलाल शर्मा वैद्यराजः बनवारीलाल-आयुर्वेदविद्यालयाध्यापकः
भोलादग्रामवास्तव्यानां वैद्यवर्याणां 'नागरदास मोहनलाल पाठक' इत्येषा- मभिप्रायः— प्रिय विद्वन्मण्डन महाशय ! प्राचीनायुर्वेदीयपुस्तकोद्धरणप्रयासं आयुर्वेदीयग्रन्थमालाभिधानमासिकपत्रि- कामुखेन कृतं श्रीमद्भिर्भवद्विदीक्ष्याऽऽनन्दार्णवनिमनोऽहं लिखाम्यभिनन्दनम्- यत्नं समस्तविदुषां मुदमावहन्तं श्रीमद्भवत्कृतमुदीक्ष्य मुदं दधेऽहम् ॥ श्रीशैलराजतनयाश्रितवामभागस्त्वां तत्फलेन निजधर्मजुषं युनक्तु ॥ १ ॥ योऽङ्गीकृतोऽत्र भवता सुमहान् प्रयासः प्राचीनपुस्तकगणोद्धरणक्रियायाम् ॥ सेवा पृथग्मनुजवर्गसुदुष्करा सा सम्पादिता हि विदुषां भवता पृथिव्याम् ॥ २ ॥
९ भिषग्वर्याः सर्वे शृणुत वचनं सादरतया यदा चायुर्वेदोधितलगर्तिं लिप्सथ तदा ॥ विहायान्यं यत्नं झटिति कुरुत ग्राहकतया सहायं खल्वस्या इदमभिमतं कर्म विदुषाम् ॥ ३ ॥ सर्वे भिषजो ग्राहकाः सन्तो भवतां यत्नं पुष्णन्तु । पत्रिकेयं सर्वथायुर्वेद- विद्यालिप्सुभिः सजनैः संग्रहणीयेति मन्यते भूहाद्-मार्गशीर्ष कृष्ण- } मोहनलालतनुजन्मा पाठकोपाव्हो नाग- दलनवम्याम् ॥ संवत् १९६८ } रदासशर्मा । मुंबईनगरस्थायुर्वेदविद्यालयपरीक्षोत्तीर्णानां ‘भिषग्वर, ए. ए. एम्. एस्’ इत्यु- पाधिधारिणां कच्छअंजारग्रामस्थानां ‘शिवशङ्कर जयानन्द भट्ट’ इत्येषामभिप्रायः- प्रियमहाशय ! प्राचीनायुर्वेदग्रन्थप्रकाशने श्रीमतां प्रयासोऽतीवाभिनन्दनीयः । रसहृदयादि- ग्रन्थानां प्रकाशनारम्भो मे निकामं जनयति हृदयानन्दम् । सर्वेऽपि भारतीया भिषजो ग्राहकाः सन्तः श्रीमतां यत्नमभिपूष्णन्तु । श्रीमन्तश्चानेकोपयुक्तग्रन्थ- प्रकाशने तद्वारा भारतीयवैद्यगणोपरि चानुपमोपकारकरणे च क्षमा भवन्विति याचते परमात्मान- कच्छ अंजार, } भिषग्वरः श्रीशिवशंकरशर्मा. ता. ११-११-१९१० } पुण्यपत्तनस्थानां अष्टाङ्गहृदयमाधवनिदानयोर्महाराष्ट्रभाषानुवादकानां ‘एल्. एम्. एन्ड एस्.’ इत्युपाधिधारिणां ‘डॉ. गणेश कृष्ण गर्दे’ इत्येषामभिप्रायः- वैद्यवर्य जादवजी त्रिकमजी यांस, आपण पाठविलेलीं आयुर्वेदीयग्रंथमालेच्या पहिल्या अंकाचीं ४८ पानें पोंचलीं. आपला उद्योग फार स्तुत्य आहे. उपयुक्त व अप्रसिद्ध असे आयुर्वेदीयग्रंथ जितके प्रसिद्ध होतील तितकी आपल्या जुन्या चिकित्सा- शास्त्रांतील उपयुक्त भाग कायम राखण्यास मदत होईल. जुनी परंपरा लुप्त होत चालली आहे व रसक्रियेची नुस्ती थट्टा चालली आहे. शास्त्रोक्त रीतीनें पारदादिकांची सिद्धि न करितां अनेक वैद्यकीच्या कारखान्यांतून वाटेल तशीं रसायनें तयार करून भाविक लोकांच्या गळ्यांत बांधलीं जात आहेत व अशा औषधांच्या उपयोगापासून रोग्यांचें नुकसान होतें एवढेंच
१० नव्हें, तर कच्च्या रसायनी औषधामुळे झालेले नुकसान दृष्टोत्पत्तीस आल्यामुळे लोकांकडून वैद्यशास्त्रालाही दूषण मिळतें, ही स्थिति नाहींशी होण्याला सशास्त्र औषधें तयार झालीं पाहिजेत व ह्या गोष्टीच्या सिद्धतेची पहिली पायरी झटली ह्मणजे रसहृदय, रसार्णव इत्यादि प्राचीन परंपरेचे प्रकाशक असे ग्रंथ प्रसिद्ध झाले पाहिजेत. तें काम आपण हातीं घेतलेले पाहून व त्यांत आमचे मित्र रा. रा. त्र्यंबक गुरुनाथ काळे यांनीं मदत कर- ण्याचें कबूल केलें आहे असें ऐकून मला फार समाधान वाटलें. आपल्या ह्या सत्कार्यास चांगला आश्रय मिळून तें सिद्धीस जावें अशी आशा करून हें पत्र संपवितों. पुणें, ता. २६।१०।१०. — गणेश कृष्ण गर्दे. पौर्वपाश्चात्योभयचिकित्साशास्त्रनिपुणानां 'ऑनरेबल, सर डॉ० भालचन्द्र कृष्ण भाटवडेकर' इति विख्यातानामभिप्रायः— Bombay, December, 6th 1910. “VAIDYA JÂDAVAJI TRICAMJI ÂCHARYA gave me a copy of the 1st volume of the Monthly Magazine called Âyurve- diya Granthamâlâ, a monthly Medical Sanskrit Magazine edited and published by him. It contains 3 different re- prints of MSS which he has secured, one of them Rasahrida- yam Tantram is written by Govindâchârya, the Guru of the celebrated Shankarâchârya, who is supposed to have lived about a 1000 years ago. The Magazine is well conceived and if kept up to the standard of the 1st Vol. is calculated to do immense good to the Ayurvedic Literature of the present time. I wish Vaidya Jâdavaji every success in the work he has undertaken.”
११ Madras, E. 4-12-1910. “Dear sir, It affords me much pleasure to have gone through the pages of your valuable journal “Ayurvediya Grantha Mâlâ” and I accord my hearty and cordial welcome to it as just the thing that is needed for the resuscitation of Âyurvedas’ lore at present. The valued works, with which you have commenced the journal promise a bright career to your journal, while the beautiful get-up of the periodical leaves nothing to be desired. I have no doubt that the journal conducted by one of your deep and profound erudition can be otherwise than an acquisition and help to the labours of the modern workers in the field of whom I have the privilege of being included as one.” मुंबईनगरस्थायुर्वेदविद्यालयव्यवस्थापकानां ‘एल्. एम्. एन्ड एम्.’ इत्युपाधि- धारिणां ‘डॉ० पोपट प्रभुराम’ इति विख्यातानामभिप्रायः— My dear Vaidya Jâdavaji Tricamji Âchârya, I am very much obliged to you for your kindly sending to me the issues of your Ayurvediya Granthamala. The Sanskrit Medi- cal science is very vast and there are many works which are still not published. It is a great service done to the profession especially the Aryan Medical practitioners to pub- lish these unknown works. Nobody could do it better than you as your sound knowledge of the science and the earnest wish of yours to publish these works bespeak your fitness to take up the work. Medical practitioners and students of the science will both find many things new in these works which will add a good deal to their knowledge. I have recommended these issues to the students of the Aryan Medical School before whom you have lectured for a period of about two years and who have always been thinking of your interesting lectures on Vagbhatta. I wish you all success in this your undertaking. I remain, Yours truly, 2/3 Anant Wadi, } POPAT PRABHURAM, Bombay 17th Jan. 1911. } Supt. A. M. S.
१२ From Pandit M. Duraiswami Aiyangar, Ayurveda Bhushan, Certificated Ayurvedic Doctor, Lecturer, Madras, S. K. P. A., Medical College, Assistant Physician S. K. P. D. Ayurvedic Hospital. Dear Sir, In regard to the Medical monthly “Ayurvediya Granthamala” edited and published by you, I am glad to perceive that your journal stands unique in the field of Medicine and marks the beginning of sincere attempts to resuscitate the Ancient Lore which has been thrown into oblivion by the unthinking millions. Your journal takes the place of a beacon to lead your benighted brethren along the forgotten paths and to help them considerably to unravel and appreciate fully the profound truths of the Hindu science of Medicine. While wishing you hearty success in your honest efforts, I hope no consideration shall deter you from carrying out fully your desired object, as you would thus be doing a service to the public which would be its own reward. $\left.\begin{aligned} &Ayurveda Vilas, &176 Mint Street, &\textit{Madras, E. 2-3-1911.} \end{aligned}\right}$ Yours Faithfully, M. D. SWAMI. From, B. MANNARU SASTRIAL, Pillayar palayam, Madura Post, South India To, Vaidya Jadavaji Trikumji Acharya, Bombay. Dear Sir, I am one of the profound mourners for the long-lost mother of Ayurvedic Lore. I had long lost all hopes of her revival. I went on mourning every day. It was at such a juncture, when I interested in such researches, was about to relinquish every idea of success, that your ‘Ayur- vedic Grantha Mala conducted by your profound erudition happened to pass before my watery eyes. Immediately I
१३ found that she was already revived in the learned North and was coming towards me with redoubled brilliance and beauty like the gold subjected to many refinements in fire. It afforded me so much pleasure and satisfaction as would be felt by a small orphan at finding his long dead mother reviv- ed to life and standing before it. As a representative of the rest of the mourners who also enjoyed the opportunity of persuing your journal and thus satisfying themselves, I render my heart-felt thanks for the interest that you have taken in its resusciation I perused the 9 issues of your worthy journal and was curious enough to go through the August Issue. I was very much feeling the unexpected and un- lucky delay of great length. whereas I found the August journal came to my hands on the 19th instant. I deeply felt apology for your delay. Deep was my sorrow to see the merciless God afflicting such a divine moon like you, in your divine errand. Deep is my wish that God no more might thus interrupt you in the discharge of your bene- volent and national duty. Deep is my anxiety and wish for your longlife, for your interrupted health and for the prosperity of your journal. It would not be too much to add that the worthy journal of yours would stimulate the slug- gish spirit of all our Southern Sanskrit Scholars whose com- bined efforts should contribute their quota to the resuscia- tion of Ayurvedic lore and to the national advancement. With my best wishes for the same. I remain, Sir, Yours Sincerely. Pɪʟʟᴀʏᴀʀ Pᴀʟᴀʏᴀᴍ, } 28th Septembr 1911. } B. MANNARU SASTRIAL. 'वैद्यकुलभूषण' इति तथा वैद्यरत्न इति च प्राप्तोपाधिद्वयानां कानपुरीय- वैद्यपरिषन्मन्त्रिणां श्रीयुत पं० रामेश्वरमिश्रवैद्यशास्त्रिणामभिप्रायः— ओ३म् श्रीधन्वन्तरये नमस्कृतिः । श्रीयुक्त यादवजी त्रिकमजी महोदयेषु बहुमानपुरस्सरैयं विज्ञप्तिः—
यच्च शल्यशालाक्याद्यष्टाङ्गभूतं वेदसमकालं किलायुर्वेदशास्त्रं, तच्छरी- रायुर्रिरामयत्वलाभाद्धर्मादिचतुर्वर्गसाधनत्वं तस्येति धर्मादिचतुर्वर्गलिप्सूनां प्राणिनां रागाद्याध्यात्मिकैरुन्मादाद्याधिदैविकैः कुष्ठाद्याधिभौतिकैश्चानेकविधरोग- भुजङ्गैः संदष्टानां समूलरोगनिवृत्तये परमकारुणिकैरात्रेयकश्यपशाण्डिल्यभरद्वा- जादिमहर्षिभित्रिकालज्ञानशालिभिर्मुनिभिः स्वास्थ्यानुवृत्तिपुरःसरं दीर्घायुर्लभा- यानेकविधा आरोग्योपजीवनभूता विरचिताः संहिताः । ताः कदाचिदत्युत्तमोन्न- तिपदारूढाश्वासन् । याः संहिताः सम्यगधीत्य पुरातनैरातिदुरुहायुर्वेदमर्मज्ञैर्वि- शुद्धबुद्धिभिश्चिकित्सकवरैरेव रसायनैरन्यैश्च दिव्यौषधितल्लजैश्चयवनादीनां जरा- राजयक्ष्मादिरोगार्तानामारोग्यं विधायातिजराभिभूतानां नूनं नूतनं वयःस्थापि- तमिति । तासु समुपलभ्यमानास्वप्यनेकासु संहितासु हन्त बह्व्यः संहिताः कुत्रचिद्विद्यमाना अपि इदानीं दृष्टमपि नोपलभ्यन्ते । परं संतुष्यति चेतः खलु आयुर्वेदीयग्रन्थमालायां संप्रथिता रसहृदयादिग्रन्थाः, ये हि पुरा लुप्तप्राया अत एव सुदुर्लभाश्च प्रकाश्यन्ते । अन्येषां च ग्रन्थानां तादृशानां संप्रकाशने ह्यस्मत्सुहृद्वैरायुर्वेदोद्धारकैराचार्ययादवजीमहोदयैर्महानायासः समुत्तष्ठितः । स खलु प्रभूतमभिनन्दनीयो धन्यवादाईश्चार्यमहाशयः । अधुना परिम्लायमाना- प्यायुर्विद्यावली कादम्बिन्या इवास्याः प्रादुर्भावेन भूयः पल्लविता पुष्पशालिनी फलसंकुला च स्यादिति वरीवृत्यतेऽस्माकमवितथो मनोरथः । तथाहि— आप्लावयत्वस्मिन्नवसरे पण्डितराजवचोवीचिरस्मद्धृदयप्रदेशम् ।— “आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा वात्याभिः परुषीकृता दशदिशश्चण्डात्तपो दुःसहः । एवं धन्वनि चम्पकस्य सकले संहारहेतावपि त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥” सर्वेषामेव भारतवर्षीयायुर्वेदारविन्दमलिन्दानामतीव सांप्रतं संप्रति स्वकी- याधिहोमजन्योत्साहधूमस्तोमैरस्याः कादम्बिन्याः संवर्धनमिति साग्रहमभ्यर्थ- यते, अपि चायुर्वेदीयग्रन्थमाला चिरायुष्मती तत्प्रकाशकश्च चिरायुर्भूयादित्या- शास्ते च पौषशुक्लद्वादश्यां $\left.{l}
\right}$ श्रीरामेश्वरमिश्रो वैद्यशास्त्री । चन्द्रे, सं० १९६८ विक्रमाब्दे नयागंज, कानपुर.
१५ ( राजमार्तण्डादुद्धर्तोशः ) वातज्वरे शुण्ठ्यादिः क्वाथः। वातज्वरोपशमनाय पिबेत्सुधी- दुःस्पर्शनागरघनकथितं कषायम् पित्तज्वरे नलदादिकषायः । पित्तोद्भवे नलदपर्पटकाब्दशुण्ठी- श्रीखण्डनैः कथितमेतदुशन्ति वैद्याः ॥ १९९ ॥ कफज्वरे शुण्ठ्यादिकषायः । शुण्ठीग्रवासकट्फलान्नकृतः कषायः श्लेष्मोद्भवं शमयति ज्वरमाशु पीतः। सर्वज्वरे शुण्ठ्यादिकषायः । सर्वज्वरप्रशमनार्थमुदाहरन्ति विश्वौषधेन सह पर्पटकं मुनीन्द्राः ॥ २०० ॥ ( ज्वराधिकारः २० ) ( रससारादुद्धर्तोशः ) पुरा शुद्धो रसेन्द्रश्च संस्कारैश्चैव संस्कृतः । चारयेज्जारयेच्चं च महासिद्धिप्रदो भवेत् ॥ १ ॥ लोहखल्वे चतुष्पादे रसं तत्र विनिक्षिपेत् । क्षाराम्लवेतसं काङ्क्षी विडं द्वात्रिंशदंशकम् ॥ २ ॥ चतुःषष्ठ्यंशकं व्योम ग्रासं दत्त्वा रसस्य तु । टङ्कणं हयलाला च लशुनार्द्रकचित्रकम् ॥ ३ ॥ मधुनिम्बरसं दत्त्वा यामयुग्मं विमर्दयेत् । सोष्णखल्वे चरेद्ग्रासं गर्मद्रुतिमवाप्नुयात् ॥ ४ ॥ नष्टपिष्टं परिज्ञाय यत्नेन क्षालयेद्रसम् । सोमांनलस्य यन्त्रस्य नाभिमध्ये रसं क्षिपेत् ॥ ५ ॥ दत्त्वाऽष्टांशं विडं नाभिं किञ्चिदम्लेन पूरयेत् । क्षाराम्लं त्र्यूषणं मूत्रं राजिकाशिग्रुचित्रकम् ॥ ६ ॥ ( पटलः १२ ) १ 'चारयेन्मारयेच्चक्रे' ग. । २ 'नालिमघ्ये' ग. ।