हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
१७२ हठयोगप्रदीपिका ' प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् । वशीकृत्य ततः कुर्याच्चित्तस्थानं शुभाश्रये ॥' शुभाश्रये चित्तस्थापनं धारणेत्युक्तलक्षणा धारणा प्रोक्ता ॥ ९२ ॥ सर्वचिन्तां परित्यज्य सावधानेन चेतसा । नाद एवानुसंधेयो योगसाम्राज्यमिच्छता ॥ ९३ ॥ सर्वचिन्तामिति । सर्वेषां बाह्याभ्यन्तरविषयाणां या चिन्ता चिन्तनं तां परित्यज्य त्यक्त्वा सावधानेनैकाग्रेण चेतसा योगानां साम्राज्यं सम्राजो भावः । योगशब्दोऽर्श आद्यजन्तः । राजयोगित्वमिति यावत् । इच्छता वाञ्छता पुंसा नाद एवानाहतध्वनिरेवानुसंधेयोऽनुचिन्तनीयः । नादाकारवृत्तिप्रवाहः कर्तव्य इत्यर्थः । एतेन— ' तद्रूपप्रत्ययैकाग्र्यसंततिश्चान्यनिस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥' तत्र 'प्रत्ययैकतानता ध्यानम्' (Yo. Sū., III. 2) इत्युक्तलक्षणं ध्यानमुक्तम् ॥ ९३ ॥ नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते । अन्तरङ्गकुरङ्गस्य वधे व्याधायतेऽपि च ॥ ९४ ॥ नादोऽन्तरङ्गेति । नादः अन्तरङ्गं मन एव सारङ्गो मृगस्तस्य बन्धने चाञ्चल्यहरणे वागुरायते वागुरेवाचरति । वागुरा जालम् । यथा वागुरा बन्धनेन सारङ्गस्य चाञ्चल्यं हरति तथा नादोऽन्तरङ्गस्य स्वशक्त्या चाञ्चल्यं हरतीत्यर्थः । अन्तरङ्गं मन एव कुरङ्गो हरिणस्तस्य वधे नानावृत्त्युत्पादनापनयनमेव मनसो वधस्तस्मिन् व्याधायते व्याध इवाचरति । यथा व्याधो वागुराबद्धं मृगं हन्ति एवं नादोऽपि स्वासक्तं मनो हन्तीत्यर्थः ॥ ९४ ॥
हठयोगप्रदीपिका १७३ अन्तरङ्गस्य यमिनो वाजिनः परिघायते । नादोपास्तिरतो नित्यमवधार्या हि योगिना ॥ ९५ ॥ अन्तरङ्गस्येति । यमिनो योगिनोऽन्तरङ्गं मनस्तस्य चपलत्वाद् वाजि- नोऽश्वस्य परिघायते वाजिशालाद्वारपरिघ इवाचरति, नाद इति शेषः । यथा वाजिशालापरिघो वाजिनोऽन्यत्र गतिं रुणद्धि तथा नादोऽन्तरङ्गस्येत्यर्थः । अन्तःकरणाद् योगिना नादस्योपास्तिरुपासना नित्यं प्रत्यहमवधार्यावधारणीया । हीति निश्चयेऽव्ययम् ॥ ९५ ॥ बद्धं विमुक्तचाञ्चल्यं नादगन्धकजारणात् । मनःपारदमाप्नोति निरालम्बाख्यखेऽटनम् ॥ ९६ ॥ बद्धमिति । नाद एव गन्धक उपधातुविशेषस्तेन जारणं जारणीकरणं नादगन्धकसंबन्धेन चाञ्चल्यहरणं तस्माद्बद्धं नादैकासक्तं पक्षे गुटिकाकृतिं प्राप्तम् अत एव विमुक्तं त्यक्तं चाञ्चल्यमनेकविषयाकारपरिणामरूपं येन । पक्षे विमुक्तलौल्यं मनःपारदं मन एव पारदं चञ्चलं निरालम्बं ब्रह्म तदेवाख्या यस्य तन्निरालम्बाख्यं तदेव खमपरिच्छिन्नत्वात् तस्मिन्नटनं गमनं तदाकारवृत्ति- प्रवाहम् । पक्षे आकाशगमनं प्राप्नोति । यथा बद्धं पारदमाकाशगमनं करोति एवं बद्धं मनो ब्रह्माकारवृत्तिप्रवाहमविच्छिन्नं करोतीत्यर्थः ॥ ९६ ॥ नादश्रवणतः क्षिप्रमन्तरङ्गभुजङ्गमः । विस्मृत्य सर्वमेकाग्रः कुत्रचिन्नहि धावति ॥ ९७ ॥ नादेति । नादस्यानाहतस्वनस्य श्रवणतः श्रवणात् क्षिप्रं द्रुतमन्तरङ्गं मन एव भुजङ्गमः सर्पश्चपलत्वान्नादप्रियत्वाच्च भुजङ्गमेन रूपकं मनसः । सर्वं विश्वं विस्मृत्य विस्मृतिविषयं कृत्वैकाग्रो नादाकारवृत्तिप्रवाहवान् सन् कुत्रापि विषयान्तरे नहि धावति नैव धावनं करोति । ध्यानोत्तरैः श्लोकैः—
१७४ हठयोगप्रदीपिका ‘ तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥’ इति विष्णुपुराणोक्तलक्षणः (VI. 7. 92) ‘ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः’ (III. 3) इति पातञ्जलसूत्रोक्तलक्षणश्च संप्रज्ञातलक्षणः समाधि- रुक्तः ॥ ९७ ॥ काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति । नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ ९८ ॥ काष्ठ इति । काष्ठे दारुणि प्रवर्तितः प्रज्वालितो वह्निः काष्ठेन सह शाम्यति ज्वालारूपं परित्यज्य तन्मात्ररूपेणावतिष्ठते यथा तथा नादे प्रवर्तितं चित्तं नादेन सह लीयते । राजसतामसवृत्तिनाशात् सत्त्वमात्रावशेषं संस्कारशेषं च भवति । तत्र च मैत्रायणीयमन्त्रः (VI. 1)— ‘यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति । तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥’ इति ॥ ९८ ॥ घण्टादिनादसक्तस्तब्धान्तःकरणहरिणस्य । प्रहरणमपि सुकरं स्याच्छरसंधानप्रवीणश्चेत् ॥ ९९ ॥ घण्टादीति । घण्टा आदिर्येषां शङ्खमर्द्दलझर्झरदुन्दुभिजीमूतादीनां ते घण्टादयस्तेषां नादास्तेषु सक्तः । अत एव स्तब्धो निश्चलो योऽन्तःकरणमेव हरिणो मृगस्तस्य प्रहरणं नानावृत्तिप्रतिबन्धनमन्तःकरणपक्षे । हरिणपक्षे तु प्रहरणं हननमपि शरवद् द्रुतगामिनो वायोः संधानं सुषुम्नामार्गेण ब्रह्मरन्ध्रे निरोधनम् , पक्षे शरस्य बाणस्य संधानं धनुषि योजनं तस्मिन् प्रवीणः कुशलश्चेत् सुकरं सुखेन कर्तुं शक्यं स्यात् ॥ ९९ ॥
हठयोगप्रदीपिका १७५ अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते । ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः । मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ॥ १०० ॥ अनाहतस्येति । अनाहतस्य शब्दस्यानाहतस्वनस्य यो ध्वनिर्निर्ह्राद उपलभ्यते श्रूयते तस्य ध्वनेरन्तर्गतं ज्ञेयं ज्योतिः स्वप्रकाशचैतन्यं ज्ञेयस्यान्तर्गतं ज्ञेयाकारतामापन्नं मनोऽन्तःकरणं तत्र ज्ञेये मनो विलयं याति परवैराग्येण सकलवृत्तिशून्यं संस्कारशेषं भवति । तद्विष्णोर्विभोरात्मनः परममन्तःकरणवृत्त्यु- पाधिराहित्यान्निरुपाधिकं पद्यते गम्यते योगिभिरिति पदं स्वरूपम् ॥ १०० ॥ तावदाकाशसंकल्पो यावच्छब्दः प्रवर्तते । निःशब्दं तत्परं ब्रह्म परमात्मेति गीयते ॥ १०१ ॥ तावदिति । यावच्छब्दोऽनाहतध्वनिः प्रवर्तते श्रूयते तावदाकाशस्य सम्यक्कल्पनं भवति । शब्दस्याकाशगुणत्वाद् गुणगुणिनोरभेदाद्वा मनसा सह शब्दस्य विलयान्निःशब्दं शब्दरहितं यत्परं ब्रह्म परब्रह्मशब्दवाच्यं परात्मेति गीयते परमात्मशब्देन स उच्यते । सर्ववृत्तिविलये यः स्वरूपेणावस्थितः स एव परब्रह्मपरमात्मशब्दाभ्यामुच्यत इति भावः ॥ १०१ ॥ यत्किंचिन्नादरूपेण श्रूयते शक्तिरेव सा । यस्तत्त्वान्तो निराकारः स एव परमेश्वरः ॥ १०२ ॥ इति नादानुसंधानम् यत्किंचिदिति । नादरूपेणानाहतध्वनिरूपेण यत्किंचिच्छ्रूयते आकर्ण्यते सा शक्तिरेव यस्तत्त्वान्तस्तत्त्वानामान्तो लयो यस्मिन् सः तथा निराकार आकार- रहितः स एव परमेश्वरः सर्ववृत्तिक्षये स्वरूपावस्थितो यः स आत्मेत्यर्थः ।
१७६ हठयोगप्रदीपिका ‘काष्ठे प्रवर्तितो वह्निः’ (IV. 98) इत्यादिभिः श्लोकैः राजयोगापरपर्यायो- ऽसंप्रज्ञातः समाधिरुक्तः ॥ १०२ ॥ सर्वे हठलयोपाया राजयोगस्य सिद्धये । राजयोगसमारूढः पुरुषः कालवञ्चकः ॥ १०३ ॥ सर्व इति । हठश्च लयश्च हठलयौ तयोरुपाया हठलयोपाया हठोपाया आसनकुम्भकमुद्रारूपा लयोपाया नादानुसंधानशांभवीमुद्रादयः । राजयोगस्य मनसः सर्ववृत्तिनिरोधलक्षणस्य सिद्धये निष्पत्तये प्रोक्ता इति शेषः । राजयोगं समारूढः सम्यगारूढः प्राप्तवान् यः पुरुषः स कालवञ्चकः कालं मृत्युं वञ्चयति जयतीति तादृशः स्यादिति शेषः ॥ १०३ ॥ तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः । उन्मनी कल्पलतिका सद्य एव प्रवर्तते ॥ १०४ ॥ तत्त्वमिति । तत्त्वं चित्तं बीजं बीजवदुन्मन्यवस्थाङ्कुराकारेण परिणम- मानत्वात् । हठः प्राणापानयोरैक्यलक्षणः प्राणायामः क्षेत्रं क्षेत्र इव प्राणायामे उन्मनीकल्पलतिकोत्पत्तेः औदासीन्यं परवैराग्यं जलं तस्या उत्पत्तिकारणत्वात् । ‘परवैराग्यहेतुकः संस्कारविशेषश्चित्तस्यासंप्रज्ञातः’ इति तल्लक्षणात् । एतैस्त्रिभि- रुन्मन्यसंप्रज्ञातावस्था सैव कल्पलतिका सकलेष्टसाधनत्वात् सद्य एव शीघ्रमेव प्रवर्तते प्रवृत्ता भवति उत्पन्ना भवति ॥ १०४ ॥ सदा नादानुसंधानात् क्षीयन्ते पापसंचयाः । निरञ्जने विलीयेते निश्चितं चित्तमारुतौ ॥ १०५ ॥ सदेति । सदा सर्वदा नादानुसंधानान्नादानुचिन्तनात् पापसंचयाः पापसमूहाः क्षीयन्ते नश्यन्ति । निरञ्जने निर्गुणे चैतन्ये निश्चितं ध्रुवं चित्तमारुतौ मनःप्राणौ विलीयेते विलीनौ भवतः ॥ १०५ ॥
हठयोगप्रदीपिका १७७ शङ्खदुन्दुभिनावं च न शृणोति कदाचन । काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् ॥ १०६ ॥ उन्मन्यवस्थां प्राप्तस्य योगिनः स्थितिमाहाष्टभिः—शङ्खदुन्दुभीति । शङ्खो जलजो दुन्दुभिर्वाद्यविशेषस्तयोर्नादं घोषं कदाचन कस्मिंश्चिदपि समये न शृणोति । शङ्खदुन्दुभीत्युपलक्षणं नादमात्रस्य । उन्मन्यावस्थया देहो ध्रुवं काष्ठवज्जायते । निश्चेष्टत्वादित्यर्थः ॥ १०६ ॥ सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः । मृतवत् तिष्ठते योगी स मुक्तो नात्र संशयः ॥ १०७ ॥ जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणलक्षणाः पञ्च व्युत्थानावस्थास्ताभिर्विशेषेण मुक्तो रहितः सर्वा याश्चिन्ताः स्मृतयस्ताभिर्विवर्जितो विरहितो यः योगः सकलवृत्तिनिरोधोऽस्यास्तीति योगी तुर्यावस्थावान् स मुक्तो जीवन्नेव मुक्तः । सकलवृत्तिनिरोधे आत्मनः स्वरूपावस्थानात् । तदुक्तं पातञ्जले सूत्रे ‘तदा द्रष्टुः स्वरूपेऽवस्थानम्’ (1. 3) इति । स्पष्टमन्यत् ॥ १०७ ॥ खाद्यते न च कालेन बाध्यते न च कर्मणा । साध्यते न स केनापि योगी युक्तः समाधिना ॥ १०८ ॥ खाद्यत इति । समाधिना युक्तो योगी कालेन मृत्युना न खाद्यते न भक्ष्यते न हन्यत इत्यर्थः । कर्मणा कृतेन शुभेनाशुभेन वा न बाध्यते जन्ममरणादिजननेन न क्लेश्यते । तथा च समाधिप्रकरणे पातञ्जलसूत्रम्— ‘ततः क्लेशकर्मनिवृत्तिः’ (IV. 30) इति । केनापि पुरुषान्तरेण यन्त्रमन्त्रा- दिना वा न साध्यते साधयितुं न शक्यते ॥ १०८ ॥ 12
१७८ हठयोगप्रदीपिका न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम् । नात्मानं न परं वेत्ति योगी युक्तः समाधिना ॥ १०९ ॥ न गन्धमिति । समाधिना युक्तो योगी न गन्धं सुरभिमसुरभिं वा न रसं मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधं न रूपं शुक्लनीलपीतरक्तहरितकपि- शचित्रभेदात् सप्तविधं न स्पर्शं शीतमुष्णमनुष्णाशीतं वा न निःस्वनं शङ्खदुन्दुभिजलधिजीमूतादिनिनादं बाह्यमाभ्यन्तरं वा न आत्मानं देहं न परं पुरुषान्तरं वेत्तीति सर्वत्रान्वेति । 'आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि ' इति वैजयन्ती (p. 214, V. 6) ॥ १०९ ॥ चित्तं न सुप्तं नोजाग्रत्स्मृतिविस्मृतिवर्जितम् । न चास्तमेति नोदेति यस्यासौ मुक्त एव सः ॥ ११० ॥ चित्तमिति । यस्य योगिनश्चित्तमन्तःकरणं न सुप्तम् । आवरकस्य तमसोऽभावात् त्रिगुणेऽन्तःकरणे यदा सत्त्वरजसी अभिभूय समस्तकरणावरकं तम आविर्भवति तदान्तःकरणस्य विषयाकारपरिणामाभावात् तत्सुप्तमित्युच्यते । नो जाग्रद् इन्द्रियैरर्थग्रहणाभावात् । स्मृतिश्च विस्मृतिश्च स्मृतिविस्मृती ताभ्यां वर्जितम् । वृत्तिसामान्याभावादुद्बोधकाभावाच्च स्मृतिवर्जितम् । स्मृत्यनुकूल- संस्काराभावाद्वाद्धिस्मृतिवर्जितम् । न चास्तं नाशमेति प्राप्नोति । संस्कारशेषस्य चित्तस्य सत्त्वात् । नोदेत्युद्भवति । वृत्त्यनुत्पादनात् सोऽसौ मुक्त एव जीवन्मुक्त एव ॥ ११० ॥ न विजानाति शीतोष्णं न दुःखं न सुखं तथा । न मानं नापमानं च योगी युक्तः समाधिना ॥ १११ ॥ न विजानातीति । समाधिना युक्तो योगी शीतं च उष्णं च शीतोष्णम् । समाहारद्वन्द्वः । शीतमुष्णं वा पदार्थं न, दुःखं दुःखजनकं परकृतं
हठयोगप्रदीपिका १७९ ताडनादिकं न, सुखं सुखसाधनं सुरभिचन्दनाद्यनुलेपनादिकं न । तथा चार्थे। मानं परकृतं सत्कारं न अपमानमनादरं च न, विजानातीति क्रियापदं प्रतिवाक्यमन्वेति ॥ १११ ॥ स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते । निःश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः ॥ ११२ ॥ स्वस्थ इति । स्वस्थः प्रसन्नेन्द्रियान्तःकरणः । एतेन तन्द्रामूर्च्छादि- व्यावृत्तिः । जाग्रदवस्थायामित्यनेन स्वप्नसुषुप्त्योर्निवृत्तिः । सुप्तवत् सुप्तेन तुल्यं कायेन्द्रियव्यापारशून्यो यो योगी अवतिष्ठते स्थितो भवति । ‘समवप्रविभ्य स्थः (Pāṇ., 1. 3. 22) इत्यात्मनेपदम् । निश्वासोच्छ्वासहीनः बाह्यवायोः कोष्ठे ग्रहणं निश्वासः कोष्ठस्थितस्य वायोर्बहिर्निःसारणमुच्छ्वासस्ताभ्यां हीनश्चावतिष्ठत इत्यत्रापि संबध्यते । स निश्चितं निःसंदिग्धं मुक्त एव जीवन्मुक्त एव तत्स्वरूपमुक्तं दत्तात्रेयेण (Yogatat. Up., 105-6)— ‘निर्गुणध्यानसंपन्नः समाधिं च ततोऽभ्यसेत् । दिनद्वादशकेनैव समाधिं समवाप्नुयात् । वायुं निरुध्य मेधावी जीवन्मुक्तो भवेद् ध्रुवम् ॥’ इति ॥ ११२ ॥ अवध्यः सर्वशस्त्राणामशक्यः सर्वदेहिनाम् । अग्राद्यो मन्त्रयन्त्राणां योगी युक्तः समाधिना ॥ ११३ ॥ अवध्य इति । समाधिना युक्तो योगी । सर्वशस्त्राणामिति संबन्ध- सामान्ये षष्ठी । सर्वशस्त्रैरित्यर्थः । अवध्यो हन्तुमशक्य इत्यर्थः । सर्वदेहिनामि- त्यत्रापि संबन्धमात्रविवक्षायां षष्ठी । अशक्यः सर्वदेहिभिः बलेन शक्यो न भवतीत्यर्थः । मन्त्रयन्त्राणां वशीकरणमारणोच्चाटनादिफलैर्मन्त्रयन्त्रैरग्राह्यः
१८० हठयोगप्रदीपिका वशीकर्तुमशक्यः। एवं प्राप्तयोगस्य योगिनो विघ्ना बहवः समायान्ति। तन्निवारणार्थं तज्ज्ञानस्यापेक्षितत्वात् तेऽपि प्रदर्श्यन्ते। दत्तात्रेयः— ‘आलस्यं प्रथमो विघ्नो द्वितीयस्तु प्रकथ्यते। पूर्वोक्तधूर्तगोष्ठी च तृतीयो मन्त्रसाधनम्। चतुर्थो धातुवादः स्यादिति योगविदो विदुः॥’ इति। मार्कण्डेयपुराणे (40. 1-6)— ‘उपसर्गाः प्रवर्तन्ते दृष्टा ह्यात्मनि योगिनः। ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे॥ काम्याः क्रियास्तथा कामान् मनुष्यो योऽभिवाञ्छति। स्त्रियो दानफलं विद्यां मायां कुप्यं धनं वसु॥ देवत्वममरेशत्वं रसायनचयःक्रियाः। मरुप्रपतनं यज्ञं जलाग्न्यावेशनं तथा॥ श्राद्धानां सर्वदानानां फलानि नियमांस्तथा। तथोपवासात् पूर्तञ्च देवताभ्यर्चनादपि॥ तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति। चित्तमित्थं वर्तमानं यत्नाद् योगी निवर्तयेत्। ब्रह्मसङ्गि मनः कुर्वन्नुपसर्गात् प्रमुच्यते॥’ इति। स्कन्दपुराणे— ‘यदैभिरन्तरायैर्न क्षिप्यतेऽस्य हि मानसम्। तदाग्रे तमवाप्नोति परं ब्रह्मातिदुर्लभम्॥’ योगभास्करे— ‘सात्विकीं धृतिमालम्ब्य योगी सत्वेन सुस्थिरः। निर्गुणं मनसा ध्यायन्नुपसर्गैः प्रमुच्यते॥
हठयोगप्रदीपिका १८१ एवं योगमुपासीनः शक्रादिपदनिस्पृहः । सिद्ध्यादिवासनात्यागी जीवन्मुक्तो भवेन्मुनिः ॥' इति । 'विस्तरस्य भिया नोक्ताः सन्ति विघ्ना ह्यनेकशः । ध्यानेन विष्णुहरयोर्वारणीया हि योगिना ॥' इति ॥ ११३ ॥ यावन्नैव प्रविशति चरन्मारुतो मध्यमार्गे यावद् बिन्दुर्न भवति दृढः प्राणवातप्रबन्धात् । यावद् ध्याने सहजसदृशं जायते नैव तत्त्वं तावज्ज्ञानं वदति तदिदं दम्भमिथ्याप्रलापः ॥ ११४ ॥ इति श्रीसहजानन्दसंतानचिन्तामणिस्वात्मारामयोगीन्द्रविरचितायां हठयोगप्रदीपिकायां समाधिलक्षणं नाम चतुर्थोपदेशः अयोगिनां ज्ञानं निराकुर्वन् योगिनामेव ज्ञानं भवतीत्याह- यावदिति । मध्यमार्गे सुषुम्नायां चरन् गच्छन् मारुतः प्राणवायुः यावत् यावत्कालपर्यन्तं न प्रविशति प्रकर्षेण ब्रह्मरन्ध्रपर्यन्तं न विशति । ब्रह्मरन्ध्रे गतस्य स्थैर्याद् ब्रह्मरन्ध्रं गत्वा न स्थिरो भवतीत्यर्थः । सुषुम्नायामसंचरन् वायुरसिद्ध इत्युच्यते । तदुक्तममृतसिद्धौ- 'यावद्वि मार्गगो वायुर्निश्चलो नैव मध्यगः । असिद्धं तं विजानीयाद् वायुं कर्मवशानुगम् ॥' इति । प्राणयति जीवयतीति प्राणः स चासौ वातश्च प्राणवातः तस्य प्रबन्धात् कुम्भकेन स्थिरीकरणाद्विन्दुर्वीर्यं दृढः स्थिरो न भवति प्राणवातस्थैर्ये बिन्दुस्थैर्य- मुक्तमत्रैव प्राक् । 'मनःस्थैर्ये स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् ।' (IV. 28) इति । तदभावे त्वसिद्धत्वं योगिनः । उक्तममृतसिद्धौ-
१८२ हठयोगप्रदीपिका 'तावद् बद्धोऽप्यसिद्धोऽसौ नरः सांसारिको मतः । यावद् भवति देहस्थो रसेन्द्रो ब्रह्मरूपकः ॥ असिद्धं तं विजानीयान्नरमब्रह्मचारिणम् । जरामरणसंकीर्णं सर्वक्लेशसमाश्रयम् ॥' इति । यावत् तत्त्वं चित्तं ध्याने ध्येयचिन्तने सहजसदृशं स्वाभाविकध्येयाका- रवृत्तिप्रवाहवन्नैव जायते नैव भवति, प्राणवातप्रबन्धादिति देहलीदीपन्यायेनात्रापि संबध्यते । वायुस्थैर्ये चित्तस्थैर्यमुक्तममृतसिद्धौ— 'यदासौ श्रियते वायुर्मध्यमां मध्ययोगतः । तदा बिन्दुश्च चित्तं च म्रियते वायुना सह ॥' तदभावेऽह्यसिद्धत्वमुक्तममृतसिद्धौ— 'यावत् प्रस्यन्दते चित्तं बाह्याभ्यन्तरवस्तुषु । असिद्धं तद्विजानीयाच्चित्तं कर्मगुणान्वितम् ॥' इति । तावद्यज्ज्ञानं शाब्दं वदति कश्चित् तदिदं ज्ञानकथनं दम्भमिथ्याप्रलापः दम्भेन ज्ञानकथनेनाहं लोके पूज्यो भविष्यामीति धिया मिथ्याप्रलापो मिथ्या- भाषणं दम्भपूर्वकं मिथ्याभाषणमित्यर्थः । प्राणबिन्दुचित्तानां जयाभावे ज्ञानस्या- भावात् संसृतिर्दुर्धारा । तदुक्तममृतसिद्धौ— 'चलत्येष यदा वायुस्तदा बिन्दुश्चलः स्मृतः । बिन्दुश्चलति यस्याङ्गे चित्तं तस्यैव चञ्चलम् ॥ चले बिन्दौ चले चित्ते चले वायौ च सर्वदा । जायते म्रियते लोकः सत्यं सत्यमिदं वचः ॥'
इति। योगबीजेऽप्युक्तम्— 'चित्तं प्रनष्टं यदि भासते वै तत्र प्रतीतो मरुतोऽपि नाशः । न वा यदि स्यान्न तु तस्य शास्त्रं नात्मप्रतीतिर्न गुरुर्न मोक्षः ॥' इति। एतेन प्राणबिन्दुमनसां जये तु ज्ञानद्वारा योगिनो मुक्तिः स्यादेवेति सूचितम् । तदुक्तममृतसिद्धौ । 'यामवस्थां व्रजेद् वायुर्बिन्दुस्तामधिगच्छति । यथा हि साध्यते वायुस्तथा बिन्दुप्रसाधनम् ॥ मूर्च्छितो हरति व्याधिं वृद्धः खेचरतां नयेत् । सर्वसिद्धिकरो लीनो निश्चलो मुक्तिदायकः । यथावस्था भवेद् बिन्दोश्चित्तावस्था तथा तथा ॥' इति । ननु— 'योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥' (Bhāg., XI. 20. 6) इति भगवदुक्तास्त्रयो मोक्षोपायास्तेषु सत्सु कथं योग एव मोक्षोपायत्वेनोक्त इति चेन्न; तेषां योगाङ्गेष्वन्तर्भावात् । तथाहि—'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (Bṛh., II. 4. 5) इति श्रुत्या परम- पुरुषार्थसाधनात्मसाक्षात्कारहेतुतया श्रवणमनननिदिध्यासनान्युक्तानि । तत्र श्रवणमनने नियमान्तर्गते स्वाध्यायेऽन्तर्भवतः । स्वाध्यायश्च मोक्षशास्त्राणा- मध्ययनम् । स च तात्पर्यार्थनिर्णयपर्यवसायी ग्राह्यः । तात्पर्यार्थनिर्णयश्च श्रवणमननाभ्यां भवतीति श्रवणमननयोः स्वाध्यायेऽन्तर्भावः । नियमविवरणे
१८४ हठयोगप्रदीपिका याज्ञवल्क्येन—‘सिद्धान्तश्रवणं प्रोक्तं वेदान्तश्रवणं बुधैः’ (II. 8) इति स्पष्टमेव श्रवणस्य नियमान्तर्गतिरुक्ता । ‘अधीत्य वेदं सूत्रं वा पुराणं सेतिहासकम् । पदेष्वध्ययनं यच्च सदाभ्यासो जपः स्मृतः ॥’ (Yy., II. 13) इति युक्तिभिरनवरतमनुचिन्तनलक्षणस्य सदाभ्यासरूपस्य मननस्यापि निय- मान्तर्गतिरुक्ता । विजातीयप्रत्ययनिरोधपूर्वकसजातीयप्रत्ययप्रवाहरूपस्य निदि- ध्यासनस्य उक्तलक्षणे ध्यानेऽन्तर्भावः । तस्यापि तत्परिपाकरूपसमाधिनात्म- साक्षात्कारद्वारा मोक्षहेतुत्वमीश्वरार्पणबुद्ध्या निष्कामकर्मानुष्ठानलक्षणस्य कर्म- योगस्य ‘तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः’ (II. 1) इति पतञ्जलि- प्रोक्ते नियमान्तर्गते क्रियायोगेऽन्तर्भावः । तत्र तप उक्तमीश्वरगीतायाम्— ‘उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥’ इति । स्वाध्यायोऽपि तत्रोक्तः । ‘वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः । सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥’ इति । ईश्वरप्रणिधानं च तत्रोक्तम्— ‘स्तुतिस्मरणपूजाभिर्वाङ्मनःकायकर्मभिः । सुनिश्चला भवेद्भक्तिरेतदीश्वरपूजनम् ॥’ इति । क्रियायोगश्च परंपरया समाधिनात्मसाक्षात्कारद्वारैव मोक्षहेतुरिति समाधि- भावनार्थः । ‘क्लेशतनूकरणार्थश्च’ (II. 1) इत्युत्तरसूत्रेण स्पष्टीकृतं
हठयोगप्रदीपिका १८५ पतञ्जलिना । भज्यते सेव्यते भगवदाकारमन्तःकरणं क्रियतेऽनयेति भक्ति- रिति करणव्युत्पत्त्या ‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥’ (Bhāg., VII. 5. 23) इति नवधोक्ता साधनभक्तिरभिधीयते । तस्या ईश्वरप्रणिधानरूपे नियमे- ऽन्तर्भावः । तस्याश्च समाधिहेतुत्वं चोक्तं पतञ्जलिना । ‘ईश्वरप्रणिधानाद्वा’ (1. 23) इति । ईश्वरविषयकात् प्रणिधानाद् भक्तिविशेषात् समाधिलाभः समाधिफलं भवतीति सूत्रार्थः । भजनमन्तःकरणस्य भगवदाकारतारूपं भक्तिरिति भावव्युत्पत्त्या फलभूता भक्तिरभिधीयते । सैव प्रेमभक्तिरित्युच्यते । तल्लक्षणमुक्तं नारायणतीर्थैः—‘प्रेमभक्तियोगस्तु ईश्वरचरणारविन्दविषयकैकान्तिकात्यन्तिक- प्रेमप्रवाहोऽविच्छिन्नः’ इति । मधुसूदनसरस्वतीभिस्तु (Bh. Ra., p. 11) ‘द्रवीभावपूर्विका मनसो भगवदाकारतारूपा सविकल्पकवृत्तिर्भक्तिः’ इति । तस्यास्तु ‘श्रद्धाभक्तिध्यानयोगादवेहि’ (Kai. Up., 2) इति श्रुतेः । ‘भक्त्या मामभिजानाति’ (BG., XVIII. 55) इति स्मृतेश्च । आत्मसाक्षात्कारद्वारा मोक्षहेतुत्वम् । भक्तास्तु सुखस्यैव पुरुषार्थत्वाद् दुःखासंभिन्ननिरतिशयसुखधारा- रूपा प्रेमभक्तिरेव पुरुषार्थ इत्याहुः । तस्यास्तु संप्रज्ञातसमाधावन्तर्भावः । एवं च अष्टाङ्गयोगातिरिक्तं किमपि परमपुरुषार्थसाधनं नास्तीति सिद्धम् ॥ ११४ ॥ ‘ग्राह्यमेव विदुषां हितं यतो भाषणं मम यदप्यसंस्कृतम् । रक्ष गच्छति पयो ऽनलाहितं ह्यम्ब इत्यभिहितं शिशोर्यथा ॥’ १ ॥ ‘सदर्थद्योतनकरी तमस्तोमविनाशिनी । ब्रह्मानन्देन ज्योत्स्नेयं शिवाङ्घ्रियुगलेऽर्पिता ॥’ २ ॥ इति श्रीहठयोगप्रदीपिकाव्याख्यायां ब्रह्मानन्दकृतायां ज्योत्स्नाभिधायां समाधिनिरूपणं नाम चतुर्थोपदेशः
HAṬHAYOGAPRADĪPIKĀ ENGLISH TRANSLATION *1
HAṬHAYOGAPRADĪPIKĀ FIRST CHAPTER
- I SALUTE the primeval Lord [Śiva], who taught [Pārvatī] the Haṭhayoga-vidyā, which is as a stairway for those who wish to attain the lofty Rāja- yoga. Commentary Nearly every work on Yoga and the Tantra-s is in the form of an exposition by Śiva, the great Yogin, to his consort Pārvatī. The word haṭha is composed of the syllables ha and tha, meaning the Sun and the Moon, i.e. Prāṇa and Apāna. Their yoga or union, i.e. Prāṇāyāma, is called Haṭha-yoga. In this stanza and through- out the work, it is stated that Haṭha-yoga is only a means to Rāja-yoga. 'There can be no Rāja-yoga without Haṭha-yoga and vice versa' (II. 76 below).
- Svātmārāma Yogin, having saluted his Lord and Guru, teaches the Haṭha-vidyā solely for the attain- ment of Rāja-yoga. By using the word 'solely' it is made plain that the object of practising Haṭha-yoga is to prepare for Rāja-yoga, and not to obtain the siddhi-s (psychical powers). These powers are only incidental and secondary. The course of Haṭha-yoga is meant to give complete control over the bodily organs and the mind, so that the Yogin might keep good health and not be troubled during the ensuing course of Rāja-yoga, which will lead him to Kaivalya or final emancipation.
4 HAṬHAYOGAPRADĪPIKĀ 3. To those who wander in the darkness of conflicting doctrines, being ignorant of Rāja-yoga, the most compassionate Svātmārāma Yogin offers the light of Haṭha-vidyā. Here the author says that it is impossible to obtain Rāja- vidyā by any other means than the Haṭha-vidyā, that is through Mantra-yoga, Laya-yoga, contemplation on the images of the various deities, etc. The name of the author, Svātmārāma Yogin, is very suggestive. It means one who delights in communion with his higher Self. This represents the last of the seven stages of knowledge (jñāna): ‘The Brahmavariṣṭha is one who sports and delights in his higher Self.’ The seven stages are thus des- cribed in the Yoga-vāsiṣṭha, one of the most authoritative works on Yoga: One who has rightly distinguished between the per- manent and the impermanent; who has cultivated a feeling of dislike towards worldly pleasures; who, having acquired full mastery over his organs, physical and mental, feels a deep yearning to free himself from this cycle of existence, has attained the first stage: śubhecchā, or a longing for the Truth. He who has pondered over what he has read and heard and has realized it in his life has attained the second stage: vicāraṇā or Right Inquiry. When the mind, having abandoned the many, remains steadily fixed on the One, he has attained the third stage: tanumānasā or the attenuation of mental activities. Till now he is a sādhaka or practitioner. Having reduced his mind by the three previous stages to a state of pure sattva, when he cognizes directly in himself the truth, ‘I am Brahman’, he is on the fourth stage: sattvāpatti or attainment of the state of sattva. Here the Yogin is called knower of Brahman (brahmavid). Till now he was practising Samprajñāta Samādhi, or contemplation in which consciousness of duality still lingers. The three remaining stages form the Asamprajñāta Samādhi, i.e. having no consciousness of the triad: knower, knowledge and the known. When the Yogin is unaffected by the siddhi-s that manifest themselves at this stage, he attains the stage called asaṁsakti (being unaffected by anything). The
HAṬHAYOGAPRADĪPIKĀ 5 Yogin is now called brahmavidvara. Till now he goes about per- forming all the necessary duties of his own will. When he sees nothing but Brahman everywhere, that stage is called parārthā- bhāvinī, i.e. where the external things do not appear to exist. Here the Yogin performs his functions prompted by another. He is called brahmavariṣṭha when he has attained the seventh and last stage during which he neither performs his daily duties on his own or prompted by others, but remains in a state of perpetual Samādhi. The author of this work is said to have attained this stage as his name Svātmārāma shows. 4. Matsyendra, Gorakṣa and others knew well the Haṭha-vidyā. The Yogin Svātmārāma learnt it by their favour. 5-9. Śiva, Matsyendra, Śābara, Ānandabhairava, Cauraṅgī, Mīna, Gorakṣa, Virūpākṣa, Bileśaya, Man- thāna, Bhairava, Siddhi, Buddha, Kanthaḍi, Koraṇṭa- ka, Surānanda, Siddhapāda, Carpaṭi, Kāneri, Pūjya- pāda, Nityanātha, Nirañjana, Kapālin, Bindunātha, Kākacaṇḍīśvara, Allāma, Prabhudeva, Ghoḍācolin, Tiṇṭiṇi, Bhānukin, Nāradeva, Khaṇḍa, Kāpālika and many other great Siddha-s, having conquered time by the power of Haṭha-yoga move about the universe. 10. The Haṭha-yoga is a sheltering monastery for those scorched by all the [three] types of pain (tāpa). To those engaged in the practice of every kind of Yoga, Haṭha-yoga is like the tortoise that supports [the world]. The three types of pain are ādhyātmika, ādhidaivika and ādhi- bhautika. Ādhyātmika is of two kinds: bodily and mental; the ādhidaivika are those sufferings caused by planetary influences;
6 HAṬHAYOGAPRADĪPIKĀ and the ādhibhautika, those caused by creatures like tigers, serpents, etc. 11. The Yogin desirous of obtaining siddhi should keep the Haṭha-yoga very secret. For it is potent when kept secret and ineffective when [injudiciously] revealed. In this book, the author describes these processes in detail, but still he says that the Yogin should keep them secret. So it is plain that everything is not revealed and the most important processes are to be learnt direct from the Guru. It follows that he who begins to practise Haṭha-yoga after a theoretical study of it and without a Guru will come to harm. The adhikārin or candidate should have the following qualifications: He should perform his duties, and be free of personal motives and attach- ments. He should have perfected himself in Yama and Niyama, to be described later, and cultivated the intellect. He should have conquered anger. He should be entirely devoted to his Guru and the Brahmavidyā. No wonder that the Masters refuse to admit all candidates indiscriminately and say that an adept is the rare efflorescence of an age. Siddhi refers either to the eight siddhi-s or psychical powers, or to Kaivalya or Nirvāṇa, which is the attainment of spiritual perfection. The eight siddhi-s are: aṇiman, the power to assume a minute form; mahiman, the power to assume an extensive form; gariman, the power to become weighty; laghiman, the power to become light; prāpti, the power to reach the proximity of even distant objects; prākāmya, the power to obtain what is desired; īśitā, the power to shape anything as desired; and vaśitva, the power to control anything. 12. He who practises Haṭha-yoga should live alone in a small maṭha (monastery) situated in a place free from rocks, water and fire to the extent of a bow's
HAṬHAYOGAPRADĪPIKĀ 7 length and in a virtuous, well-ruled kingdom, which is prosperous and free of disturbances. 'Free from rocks, water and fire'—These are considerations not to be passed over lightly by anyone who wishes to pursue the arduous course of Yoga. By 'water' is meant here dampness or wetness. 13. The maṭha should have a small door, and should be without any windows; it should be level and without any holes; it should be neither too high, too low, nor too long. It should be very clean, being well smeared with cowdung and free from all insects. Outside, it should be attractive with a small hall (maṇḍapa), a raised seat and a well, and surrounded by a wall. These are the characteristics of a yoga-maṭha as laid down by the Siddha-s who have practised Haṭha-yoga. If it is very high there will be great difficulty in getting up; and if very long the eye will wander far. Nandikeśvara adds to this, 'The monastery should be surrounded by flower gardens and groves so that the eye of the Yogin resting upon them might become calm. On the walls of his room should be drawn pictures of the cycles of existence and the attendant miseries. There should be depicted a burning ground and the naraka-s, i.e. the hells or places of purification after death, so that the mind of the Yogin will conceive a dislike and distaste for worldly life.' 14. Living in such a monastery [the Yogin], being free in mind of all cares, should practise only Yoga all the time, in the way taught by his Guru. The necessity of having a Guru by one's side when practising Yoga is here strongly dwelt upon. The Yogabīja says: 'He who wants to practise Yoga should have a competent Guru with him.