भारतकोश
संग्रह पर लौटें

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

४४ हठयोगप्रदीपिका यतः पवनस्य प्रकोपतो विविधा रोगा भवन्त्यतः । युक्तं युक्तमिति । वायुं प्राणं युक्तं युक्तं त्यजेत् । रेचनकाले शनैःशनैरेव रेचयेन्न वेगत इत्यर्थः । युक्तं युक्तं च न चाल्पं नाधिकं च पूरयेत् । युक्तं युक्तं च जालंधरबन्धादियुक्तं बध्नीयात् कुम्भयेत् । एवमभ्यस्येच्चेत् सिद्धिं हठसिद्धिमवाप्नुयात् ॥ १८ ॥ यदा तु नाडीशुद्धिः स्यात् तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तदा जायेत निश्चितम् ॥ १९ ॥ युक्तं प्राणायाममभ्यस्यतो जायमानाया नाडीशुद्धेर्लक्षणमाह द्वाभ्याम्— यदात्विति । यदा तु यस्मिन् काले तु नाडीनां शुद्धिर्मलराहित्यं स्यात् तदा बाह्यतो बाह्यानि । सार्वविभक्तिकस्तसिः । चिह्नानि लक्षणानि, तथाशब्देना- न्तराण्यपि चिह्नानि भवन्तीत्यर्थः । तान्येवाह — कायस्येति । कायस्य देहस्य कृशता कार्श्यं कान्तिः सुरुचिर्निश्चितं जायेत ॥ १९ ॥ यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ २० ॥ वायोः प्राणस्य यथेष्टं बहुवारं धारणं कुम्भकेषु । अनलस्य जठराग्नेः प्रदीपनं प्रकृष्टता दीप्तिर्नादस्य ध्वनेरभिव्यक्तिः प्राकट्यमारोग्यमरोगता नाडिशोध- नाद् नाडीनां शोधनाद् मलराहित्याज्जायते ॥ २० ॥ मेदश्लेष्माधिकः पूर्वं षट् कर्माणि समाचरेत् । अन्यस्तु नाचरेत् तानि दोषाणां समभावतः ॥ २१ ॥ मेदाद्याधिक्ये उपायान्तरमाह—मेदश्लेष्माधिक इति । मेदश्च श्लेष्मा च मेदश्लेष्माणौ तावधिकौ यस्य स तादृशः पुरुषः । पूर्वं प्राणायामाभ्यासात् प्राङ् न तु प्राणायामाभ्यासकाले षट् कर्माणि वक्ष्यमाणानि समाचरेत्

हठयोगप्रदीपिका ४५ सम्यगाचरेत् । अन्यस्तु मेदश्लेष्माधिक्यरहितस्तु तानि षट् कर्माणि नाच- रेत् । तत्र हेतुमाह । दोषाणां वातपित्तकफानां समस्य भावः समभावः समत्वं तस्माद् दोषाणां समत्वादित्यर्थः ॥ २१ ॥ धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट् कर्माणि प्रचक्षते ॥ २२ ॥ षट्कर्माण्युपदिशति—धौतिरिति । स्पष्टम् ॥ २२ ॥ कर्मषट्कमिदं गोप्यं घटशोधनकारकम् । विचित्रगुणसंधायि पूज्यते योगिपुंगवैः ॥ २३ ॥ इदं रहस्यमित्याह—कर्मषट्कमिति । घटस्य शरीरस्य शोधनं मलापनयनं करोतीति घटशोधनकारकमिदमुद्दिष्टं कर्मणां षट्कं धौत्यादिकं गोप्यं गोपनीयम् । यतः । विचित्रगुणसंधायीति । विचित्रं विलक्षणं गुणं षट्कर्मरूपं संधातुं कर्तुं शीलमस्येति विचित्रगुणसंधायि योगिपुंगवैर्योगिश्रेष्ठैः पूज्यते सत्क्रियते । गोपscreenभावे तु षट्कर्मकमन्यैरपि विदितं स्यादिति योगिनः पूज्यत्वाभावः प्रसज्येतेति भावः । एतेनेदमेव कर्मषट्कस्य मुख्यं फलमिति सूचितम् । मेदश्लेष्मादिनाशस्य प्राणायामैरपि संभवात् । तदुक्तम्— ‘षट्कर्मयोगमाप्नोति पवनाभ्यासतत्परः’ इति पूर्वोत्तरग्रन्थस्याप्येवमेव स्वार- स्याच्च ॥ २३ ॥ तत्र धौतिः— चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥ २४ ॥

४६ हठयोगप्रदीपिका धौतिकर्माह—चतुरङ्गुलमिति । चतुर्णामङ्गुलानां समाहारश्चतुरङ्गुलं विस्तारो यस्य तादृशं हस्तानां पञ्चदशैरायतं दीर्घं सिक्तं जलार्द्रं किंचिदुष्णं वस्त्रं पटं तच्च सूक्ष्मं नूतनोष्णीषादेः खण्डं ग्राह्यम् । गुरुणोपदिष्टो यो मार्गो वस्त्रग्रसनप्रकारस्तेन शनैर्मन्दं मन्दं किंचित् किंचिद् ग्रसेत् । द्वितीये दिने हस्तद्वयं तृतीये दिने हस्तत्रयम् । एवं दिनवृद्ध्या हस्तमात्रमधिकं ग्रसेत् । तस्य प्रान्तं राजदन्तमध्ये दृढं संलग्नं कृत्वा नौलिकर्मणा (II. 33) उदरस्थवस्त्रं सम्यक् चालयित्वा । पुनः शनैः प्रत्याहरेच्च तद्वस्त्रमुद्गिरेन्निष्कासयेच्च । तद्धौतिकर्मोदितं कथितं सिद्धैः ॥ २४ ॥ कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥ २५ ॥ धौतिकर्मणः फलमाह—कासश्वासेति । कासश्च श्वासश्च प्लीहश्च कुष्ठं च । समाहारद्वन्द्वः । कासादयो रोगविशेषाः विंशतिसंख्याकाः कफरोगाश्च धौतिकर्मणः प्रभावेण गच्छन्त्येव न संशयः, निश्चितमेतदित्यर्थः ॥ २५ ॥ अथ वस्तिः— नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात् क्षालनं वस्तिकर्म तत् ॥ २६ ॥ अथ वस्तिकर्माह—नाभिदघ्नेति । नाभिपरिमाणं नाभिदघ्नम्, परिमाणे दघ्नच् प्रत्ययः । तस्मिन्नाभिदघ्ने नाभिपरिमाणे जले नद्यादितोये पायुर्गुदं तस्मिन् न्यस्तो नालो वंशनालो येन कनिष्ठिकाप्रवेशयोग्यरन्ध्रयुक्तं षडङ्गुलदीर्घं वंशनालं गृहीत्वा चतुरङ्गुलं पायौ प्रवेशयेत् । अङ्गुलिद्वयमितं बहिः स्थापयेत् । उत्कटमासनं यस्य स उत्कटासनः । पाष्णिद्वये स्फिचौ विन्यस्य पादाङ्गुलीभिः स्थितिरुत्कटासनम् । आधारस्याकुञ्चनं यथा जलमन्तः प्रविशेत्

हठयोगप्रदीपिका ४७ तथा संकोचनं कुर्यात् । अन्तः प्रविष्टं जलं नौलिकर्मणा चालयित्वा त्यजेत् । क्षालनं वस्तिकर्मोच्यते । धौतिवस्तिकर्मद्वयं भोजनात् प्रागेव कर्तव्यम् । तदनन्तरं भोजने विलम्बोऽपि न कार्यः । केचित्तु पूर्वं मूलाधारेण वायोरार्क- र्षणमभ्यस्य जले स्थित्वा पायौ नालप्रवेशनमन्तरेणैव वस्तिकर्माभ्यस्यन्ति । तथा करणे सर्वं जलं बहिर्नायाति । अतो नानारोगधातुक्षयादिसंभवाच्च तथा वस्तिकर्म नैव विधेयम् । किमन्यथा स्वात्मारामः पायौ न्यस्तनाल इति ब्रूयात् ॥ २६ ॥ गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । वस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥ २७ ॥ वस्तिकर्मगुणानाह द्वाभ्याम्—गुल्मप्लीहोदरमिति । गुल्मश्च प्लीहश्च रोगविशेषावुदरं जलोदरं च तेषां समाहारद्वन्द्वः । वातश्च पित्तं च कफश्च तेभ्य उद्भवा एकैकस्माद् द्वाभ्यां सर्वेभ्यो वा जाताः सकलाः सर्व आमया रोगा वस्तिकर्मणः प्रभावः सामर्थ्यं तेन क्षीयन्ते नश्यन्ति ॥ २७ ॥ धात्विन्द्रियान्तःकरणप्रसादं दद्याच्च कान्ति दहनप्रदीप्तिम् । अशेषदोषोपचयं निहन्यादभ्यस्यमानं जलवस्तिकर्म ॥ २८ ॥ धात्विति । अभ्यस्यमानमनुष्ठीयमानं जले वस्तिकर्म जलवस्तिकर्म कर्तृ दद्यादनुष्ठातुरिति शेषः । धातवो 'रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः' इत्युक्ताः (Vāgbhaṭa I. 13) । इन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि च, अन्तःकरणानि मनोबुद्धिचित्ताहंकाररूपाणि, तेषां परितापविक्षेपशोकमोहगौरवावरणदैन्यादिराजस- तामसधर्मविनिवर्तनेन सुखप्रकाशलाघवादिसात्त्विकधर्माविर्भावः प्रसादस्तं कान्ति

४८ हठयोगप्रदीपिका द्युतिं दहनस्य जठराग्नेः प्रदीप्तिं प्रकृष्टां दीप्तिं च । तथा । अशोषाः समस्ता ये दोषा वातपित्तकफास्तेषामुपचयम् । एतदपचयस्याप्युपलक्षणम् । उपचयापचयौ निहन्यान्नितरां हन्यात् । दोषसाम्यरूपमारोग्यं कुर्यादित्यर्थः ॥ २८ ॥ अथ नेतिः— सूत्रं वितस्ति सुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ २९ ॥ अथ नेतिकर्माह—सूत्रमिति । वितस्ति वितस्तिमितं वितस्तिरित्युपलक्षण- मधिकस्यापि । यावता सूत्रेण सम्यग् नेतिकर्म भवेत् तावद् ग्राह्यम् । सुस्निग्धं सुष्ठु स्निग्धं ग्रन्थादिरहितं सूत्रम् । तच्च नवधा दशधा पञ्चदशधा वा गुणितं सुदृढं ग्राह्यम् । नासा नासिका सैव नालः सच्छिद्रत्वात् तस्मिन् प्रवेशयेत् । मुखान्निर्गमयेद् निष्कासयेत् । तत्प्रकारस्त्वेवम् । सूत्रप्रान्तं नासानाले प्रवेश्येतरनासापुटमङ्गुल्या निरुध्य पूरकं कुर्यात् । पुनश्च मुखेन रेचयेत् । पुनः पुनरेवं कुर्वतो मुखे सूत्रप्रान्तमायाति । तत्सूत्रप्रान्तं नासाबहिःस्थसूत्रप्रान्तं च गृहीत्वा शनैश्चालयेदिति । चकारादेकस्मिन् नासानाले प्रवेश्येतरस्मिन्निर्गमयेदि- त्युक्तम् । तत्प्रकारस्त्वेकस्मिन् नासानाले सूत्रप्रान्तं प्रवेश्येतरनासापुटमङ्गुल्या निरुध्य पूरकं कुर्यात् पश्चादितरनासानालेन रेचयेत् । पुनःपुनरेवं कुर्वत इतरनासानाले सूत्रप्रान्तमायाति तस्य पूर्ववच्चालनं कुर्यादिति । अयं प्रकारस्तु बहुवारं कुर्वतः कदाचिद् भवति । एषोक्ता सिद्धैरणिमादिगुणसंपन्नैः । तदुक्तम्— ‘अवाप्ताष्टगुणैश्वर्याः सिद्धाः सद्भिर्निरूपिताः’ इति । नेतिर्निगद्यते नेतिरिति कथ्यते ॥ २९ ॥ कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥ ३० ॥

हठयोगप्रदीपिका ४९ नेतिगुणानह—कपालशोधनीति । कपालं शोधयति शुद्धं मलरहितं करोतीति कपालशोधनी । चकारान्नासाना लादीनामपि । एवशब्दोऽवधारणे । दिव्यां सूक्ष्मपदार्थग्राहिणीं दृष्टिं प्रकर्षेण दातुं शीलमस्या इति दिव्यदृष्टिप्रदा- यिनी । नेतिः नेतिक्रिया । जत्रुणोः स्कन्धसंध्योरूर्ध्वमुपरिभागे जातो जत्रूर्ध्वजातः स चासौ रोगाणामोधश्च तमाशु झटिति निहन्ति । चकारः पादपूरणे । 'स्कन्धो भुजशिरोऽसोऽस्त्री संधी तस्यैव जत्रुणी' इत्यमरः (II. 6. 78) ॥ ३० ॥ अथ त्राटकम्— निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसंपातपर्यन्तमाचार्यैस्त्राटकं स्मृतम् ॥ ३१ ॥ त्राटकमाह—निरीक्षे दिति । समाहितः एकाग्रचित्तः निश्चला चासौ दृक् च दृष्टिस्तया सूक्ष्मं च तल्लक्ष्यं च सूक्ष्मलक्ष्यमश्रूणां सम्यक् पातः पतनं तत्पर्यन्तम् । अनेन निरीक्षणस्यावधिरुक्तः । निरीक्षेत पश्येत । आचार्यैर्मत्स्येन्द्रा- दिभिरिदं त्राटकं त्राटककर्म स्मृतं कथितम् ॥ ३१ ॥ मोचनं नेत्ररोगाणां तन्द्रादीनां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥ ३२ ॥ त्राटकगुणानह—मोचनमिति । नेत्रस्य रोगा नेत्ररोगास्तेषां मोचनं नाशकं, तन्द्रा आदिर्येषामालस्यादीनां तेषां कपाटकं कपाटवदन्तर्धायकमभिभावक- मित्यर्थः । तन्द्रा तामसवृत्तिविशेषः । त्राटकं त्राटकाख्यं कर्म यत्नतः प्रयत्नतः प्रयत्नाद् गोप्यं गोपनीयम् । गोपने दृष्टान्तमाह—यथेति । हाटकस्य सुवर्णस्य पेटकं पेटी इति लोके प्रसिद्धं यथा येन प्रकारेण गोप्यते तद्वत् ॥ ३२ ॥ 4

५० हठयोगप्रदीपिका अथ नौलिः— अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ ३३ ॥ नौलिकर्माह—अमन्देति । नतौ नम्रीभूतावंसौ स्कन्धौ यस्य स नतांसः पुमानमन्दोऽतिशयितो य आवर्तस्तस्येव जलभ्रमस्येव वेगो जवस्तेन तुन्दमुदरम् । ‘पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ’ इत्यमरः (II. 6. 77) । सव्यं चापसव्यं च सव्यापसव्ये दक्षिणवामभागौ तयोः सव्यापसव्यतः । सप्तम्यर्थे तसिः । भ्रामयेद् भ्रमन्तं प्रेरयेत् । सिद्धैरेषा नौलिः प्रशस्यते कथ्यते ॥ ३३ ॥ मन्दाग्निसंदीपनपाचनादिसंधापिकानन्दकरी सदैव । अशेषदोषामयशोषणी च हठक्रियामौलिरियं च नौलिः ॥ ३४ ॥ : नौलिगुणानाह—मन्दामीति । मन्दश्चासावग्निर्जठराग्निस्तस्य संदीपनं सम्यग् दीपनं च पाचनं च भुक्तान्नपरिपाकश्च मन्दाग्निसंदीपनपाचने ते आदिनी यस्य तन्मन्दाग्निसंदीपनपाचनादि तस्य संधापिका विधात्री । आदिशब्देन मलशुद्ध्यादि । सदैव सर्वदैवानन्दकरी सुखकरी । अशेषाः समस्ताश्च ते दोषाश्च वातादय आमयाश्च रोगास्तेषां शोषणी शोषणकर्त्री हठस्य क्रियाणां धौत्यादीनां मौलिर्मौलिरिवोत्तमा धौतिवस्त्योर्नौलिसापेक्षत्वात् । इयमुक्ता नौलिः ॥ ३४ ॥ अथ कपालभातिः— भस्त्रावल्लोहकारस्य रेचपूरौ ससंभ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥ ३५ ॥ कपालभातिं तद्गुणं चाह—भस्त्रावदिति । लोहकारस्य भस्त्रा अग्नेर्धमन- साधनीभूतं चर्म तद्वत् संभ्रमेण सहवर्तमानौ ससंभ्रमावमन्दौ यौ रेचपूरौ रेचक-

हठयोगप्रदीपिका ५१ पूरकौ कपालभातिरिति विख्याता । कीदृशी ? कफदोषविशोषणी । कफस्य दोषा विंशतिभेदभिन्नाः । तदुक्तं निदाने—‘कफरोगाश्च विंशतिः' इति । तेषां विशोषणी विनाशनी ॥ ३५ ॥ षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ ३६ ॥ षट्कर्मणां प्राणायामोपकारकत्वमाह—षट्कर्मेति । षट्कर्मभिर्धौति- प्रभृतिभिर्निर्गताः स्थौल्यं स्थूलस्य भावः स्थूलत्वम् । कफदोषा विंशतिसंख्याकाः, मलादयश्च यस्य स तथा । ‘शेषाद्विभाषा’ (Pāṇ., V. 4. 154) इति कप्रत्ययः । आदिशब्देन पित्तादयः । प्राणायामं कुर्यात् । ततस्तस्मात् षट्कर्म- पूर्वकात् प्राणायामादनायासेनाश्रमेण सिद्ध्यति योग इति शेषः । षट्कर्माकरणे तु प्राणायामे श्रमाधिक्यं स्यादिति भावः ॥ ३६ ॥ प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत् कर्म न संमतम् ॥ ३७ ॥ मतभेदेन षट्कर्मणामनुपयोगमाह—प्राणायामैरिति । प्राणायामैरेव । एवशब्दः षट्कर्मव्यवच्छेदार्थः । सर्वे मलाः प्रशुष्यन्ति । मला इत्युपलक्षणं स्थौल्यकफपित्तादीनाम्, इति हेतोः केषांचिदाचार्याणां याज्ञवल्क्यादीनामन्यत् कर्म षट्कर्म न संमतं नाभिमतम् । आचार्यलक्षणमुक्तं वायुपुराणे— ‘आचिनोति च शास्त्रार्थमाचारे स्थापयेदपि । स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते ॥’ इति ॥ ३७ ॥

५२ हठयोगप्रदीपिका अथ गजकरणी- उदरगतपदार्थमुद्वमन्ति पवनमपानमुदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रा गजकरणीति निगद्यते हठज्ञैः ॥ गजकरणीमाह—उदरगतेति । अपानं पवनमपानवायुं कण्ठनाले कण्ठो नाल इव कण्ठनालस्तस्मिन्नुदीर्योत्क्षिप्योदरे गतः प्राप्तः स चासौ पदार्थश्च भुक्तपीतान्नजलादिस्तं पदार्थं वमन्त्युद्गिरन्ति यया, योगिन इत्यध्याहारः । क्रमेण यः परिचयोऽभ्यासस्तेन वश्यं स्वाधीनं नाडीनां चक्रं यस्यां सा तथा । सा क्रिया हठज्ञैर्हठयोगाद्यभिज्ञैर्गजकरणीति निगद्यते कथ्यते । 'क्रमपरिचयवश्यनाडिमार्गा' इति क्वचित् पाठः । तस्यायमर्थः । क्रमपरिचयेन वश्यो नाड्याः शङ्खिन्या मार्गः कण्ठपर्यन्तो यस्यां सा तथा ॥ ३८ ॥ ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नन्तकभयात् तस्मात् पवनमभ्यसेत् ॥ ३९ ॥ प्राणायामोऽवश्यमभ्यसनीयः सर्वोत्तमैरभ्यस्तत्वाद् महाफलत्वाच्चेति सूचय- न्नाह चतुर्भिः—ब्रह्मादय इति । ब्रह्मा आदिर्येषां ते ब्रह्मादयस्तेऽपि किमुतान्य इत्यर्थः । त्रिदशा देवाः, अन्तयतीत्यन्तकः कालस्तस्माद् भयमन्तकभयं तस्मात् पवनस्य प्राणवायोरभ्यासो रेचकपूरककुम्भकभेदभिन्नप्राणायामानुष्ठानरूपस्तस्मिन् तत्परा अवहिता अभूवन् आसन्। तस्मात् पवनमभ्यसेत् प्राणमभ्यस्येत् ॥ ३९ ॥ यावद् बद्धो मरुद् देहे यावच्चित्तं निराकुलम् । यावद् दृष्टिर्भ्रुवोर्मध्ये तावत् कालभयं कुतः ॥ ४० ॥ यावदिति । यावद् यावत्कालपर्यन्तं मरुत् प्राणानिलो देहे शरीरे बद्धः श्वासोच्छ्वासक्रियाशून्यः । यावच्चित्तमन्तःकरणं निराकुलमविक्षिप्तं समाहितम् ।

हठयोगप्रदीपिका ५३ यावद् भ्रुवोर्मध्ये दृष्टिरन्तःकरणवृत्तिः । दृशिरत्र ज्ञानसामान्यार्थः । तावत्काल- पर्यन्तं कलयतीति कालोऽन्तकस्तस्माद् भयं कुतः, न कुतोऽपीत्यर्थः । तथा च वक्ष्यति (IV. 108)— ‘ खाद्यते न च कालेन बाध्यते न च कर्मणा । साध्यते न स केनापि योगी युक्तः समाधिना ॥ ’ इति । स्वाधीनो भवतीत्यर्थः ॥ ४० ॥ विधिवत् प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्नावदनं भित्त्वा सुखाद् विशति मारुतः ॥ ४१ ॥ विधिवदिति । विधिवत् प्राणसंयामैरासनजालंधरबन्धादिविधियुक्त- प्राणायामैर्नाडीचक्रे नाडीनां चक्रं समूहस्तस्मिन् विशोधिते निर्मले सति मारुतो वायुः सुषुम्ना इडापिङ्गलयोर्मध्यस्था नाडी तस्या वदनं मुखं भित्त्वा सुखाद- नायासाद् विशति सुषुम्नान्तरिति शेषः ॥ ४१ ॥ मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥ ४२ ॥ मारुत इति । मध्ये सुषुम्नामध्ये संचारः सम्यक् चरणं गमनं मूर्धपर्यन्तं यस्य स मध्यसंचारस्तस्मिन् सति मनसः स्थैर्यं ध्येयाकारवृत्तिप्रवाहो जायते प्रादुर्भवति । यो मनसः सुस्थिरीभावः सुष्ठुस्थिरीभवनं सैव मनोन्मन्यवस्था । मनोन्मनीशब्द उन्मनीपर्यायः । तथाग्रे वक्ष्यति—‘ राजयोगः समाधिश्च ’ (IV. 3) इत्यादिना ॥ ४२ ॥ तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्ति कुम्भकान् । विचित्रकुम्भकाभ्यासाद् विचित्रां सिद्धिमाप्नुयात् ॥ ४३ ॥

५४ हठयोगप्रदीपिका विचित्रेषु कुम्भकेषु प्रवृत्तिं जनयितुं तेषां मुख्यफलमवान्तरफलं चाह— तत्सिद्धय इति। विधानं कुम्भकानुष्ठानप्रकारस्तज्जानन्तीति विधानज्ञास्तत्सिद्धये उन्मन्यवस्थासिद्धये चित्रान् सूर्यभेदनादिभेदेन नानाविधान् कुम्भकान् कुर्वन्ति॥ विचित्राश्च ते कुम्भकाश्च विचित्रकुम्भकास्तेषामभ्यासादनुष्ठानाद् विचित्रामणि- मादिभेदेन नानाविधां विलक्षणां वा जन्मौषधिमन्त्रतपोजातां सिद्धिम्। तदुक्तं भागवते (XI. 16. 34)— ‘जन्मौषधितपोमन्त्रैर्य्यावत्य इह सिद्धयः। योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ॥’ इति। आमुयात् प्रत्याहारादिपरंपरयेति भावः ॥ ४३ ॥ अथ कुम्भकभेदाः— सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा। भस्त्रिका भ्रामरी मूर्च्छा प्लाविनित्यष्ट कुम्भकाः ॥ ४४ ॥ अथाष्टकुम्भकान् नामभिर्निर्दिशति—सूर्यभेदनमिति। स्पष्टम् ॥ ४४ ॥ पूरकान्ते तु कर्तव्यो बन्धो जालंधराभिधः। कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ ४५ ॥ अथ हठसिद्धावनन्यसिद्धां पारमहंसीं सर्वकुम्भकसाधारणयुक्तिमाह त्रिभिः—पूरकान्त इति। जालंधर इत्यभिधा नाम यस्य स जालंधराभिधो बन्धः, बध्नाति प्राणवायुमिति बन्धः। कण्ठाकुञ्चनपूर्वकं चिबुकस्य हृदि स्थापनं जालंधर- बन्धः पूरकान्ते पूरकस्यान्ते पूरकानन्तरं झटिति कर्तव्यः। तुशब्दात् कुम्भकादौ। उड्डियानकस्तु कुम्भकान्ते कुम्भकस्यान्ते किंचित् कुम्भकशेषे रेचक-

हठयोगप्रदीपिका ५५ स्यादौ रेचकादौ रेचकात् पूर्वं कर्तव्यः । प्रयत्नविशेषेण नाभिप्रदेशस्य पृष्ठत आकर्षणमुड्डियानबन्धः ॥ ४५ ॥ अधस्तात् कुञ्चनेनाशु कण्ठसंकोचने कृते । मध्ये पश्चिमतानेन स्यात् प्राणो ब्रह्मनाडिगः ॥ ४६ ॥ अधस्तादिति । कण्ठस्य संकोचनं कण्ठसंकोचनं तस्मिन् कृते सति जालंधरबन्धे कृते सतीत्यर्थः । आश्वव्यवहितोत्तरमेवाधस्तादधःप्रदेशदाकुञ्चनेना- धाराकुञ्चनेन मूलबन्धेनेत्यर्थः । मध्ये नाभिप्रदेशे पश्चिमतः पृष्ठतस्तानं ताननमा- कर्षणं तेनोड्डियानबन्धेनेत्यर्थः । उक्तरीत्या कृतेन बन्धत्रयेण प्राणो वायुर्ब्रह्म- नाडिं सुषुम्नां गच्छतीति ब्रह्मनाडिगः सुषुम्नानाडिगामी स्यादित्यर्थः । अत्रेदं रहस्यम् । यदि श्रीगुरुमुखाज्जिह्वाबन्धः सम्यक् परिज्ञातस्तर्हि जिह्वाबन्धपूर्वकेन जालंधरबन्धेनैव प्राणायामः सिध्यति । वायुप्रकोपो नैव भवति । 'वपुःकृशत्वं वदने प्रसन्नता' (II. 78) इत्यादीनि सर्वाणि लक्षणानि जायन्त इति मूलबन्धोड्डियानबन्धौ नोपयुक्तौ । तयोर्जिह्वाबन्धपूर्वकेण जालंधरबन्धेनान्यथा सिद्धत्वात् । जिह्वाबन्धो न विदितश्चेद् 'अधस्तात् कुञ्चनेन' इति श्लोकोक्तरीत्या प्राणायामाः कर्तव्याः । त्रयोऽपि बन्धा गुरुमुखाज्ज्ञातव्याः । मूलबन्धस्तु सम्यगज्ञातो नानारोगोत्पादकः । तथा हि, यदि मूलबन्धे कृते धातुक्षयो विष्टम्भोऽग्निमान्द्यं नादमान्द्यं गुटिकासमूहाकारमजस्येव पुरीषं स्यात् तदा मूलबन्धः सम्यग् न ज्ञात इति बोध्यम् । यदि तु धातुपुष्टिः सम्यग् मलशुद्धिरग्निदीप्तिः सम्यग् नादाभिव्यक्तिश्च स्यात् तदा ज्ञेयं मूलबन्धः सम्यग् ज्ञात इति ॥ ४६ ॥ अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जरावियुक्तः सन् षोडशाब्दवया भवेत् ॥ ४७ ॥

५६ हठयोगप्रदीपिका अपानमिति । अपानमपानवायुमूर्ध्वमुत्थाप्याधाराकुञ्चनेन प्राणं प्राणवायुं कण्ठादधः अधोभागे नयेत् प्रापयेद् यः स योगी, योगोऽस्यास्ति अभ्यस्तत्वेनेति योगी योगाभ्यासी जरया वार्धकेन विमुक्तो विशेषेण मुक्तः सन् । षोड- शानामब्दानां समाहारः षोडशाब्दम्, षोडशाब्दं वयो यस्य स तादृशो भवेत् । यद्यपि 'पूरकान्ते तु कर्तव्यः' (V. 45) इत्यादिना त्रयाणां श्लोकानामेक एवार्थः पर्यवस्यति, तथापि पूरकान्ते तु कर्तव्य इत्यनेन बन्धानां काल उक्तः । अधस्तात् कुञ्चनेनेत्यनेन बन्धानां स्वरूपमुक्तम् । अपानमूर्ध्व- मुत्थाप्येत्यनेन बन्धानां फलमुक्तमिति विशेषः । जालंधरबन्धे मूलबन्धे च कृते नाभेरधोभाग आकर्षणाख्यो बन्ध उड्डियानबन्धो भवत्येवेत्यस्मिन् श्लोके नोक्तः । तथाचोक्तं ज्ञानेश्वरेण गीताषष्ठाध्यायव्याख्यायां—'मूलबन्धे जालंधरबन्धे च कृते नाभेरधोभाग आकर्षणाख्यो बन्धः स्वयमेव भवति' इति ॥ ४७ ॥ अथ सूर्यभेदनम्— आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ ४८ ॥ 'योगाभ्यासक्रमं वक्ष्ये योगिनां योगसिद्धये । उषःकाले समुत्थाय प्रातःकालेऽथ वा बुधः ॥ १ ॥ गुरुं संस्मृत्य शिरसि हृदये स्वेष्टदेवताम् । शौचं कृत्वा दन्तशुद्धिं विदध्याद् भस्मधारणम् ॥ २ ॥ शुचौ देशे मठे रम्ये प्रतिष्ठाप्यास नं मृदु । तत्रोपविश्य संस्मृत्य मनसा गुरुमीश्वरम् ॥ ३ ॥ देशकालौ च संकीर्त्य संकल्प्य विधिपूर्वकम् ।

हठयोगप्रदीपिका ५७ अद्येत्यादि श्रीपरमेश्वरप्रसादपूर्वकम् । समाधितत्फलसिद्ध्यर्थमासन- पूर्वकान् प्राणायामादीन् करिष्ये । अनन्तं प्रणमेद् देवं नागेशं पीठसिद्धये ॥ ४ ॥ मणिभ्राजत्फणसहस्रविधृतविश्वंभरामण्डलायानन्ताय नागराजाय नमः । ततोऽभ्यसेदासनानि श्रमे जाते शवासनम् । अन्ते समभ्यसेत् तत्तु श्रमाभावे तु नाभ्यसेत् ॥ ५ ॥ करणीं विपरीताख्यां कुम्भकात् पूर्वमभ्यसेत् । जालंधरप्रसादार्थं कुम्भकात् पूर्वयोगतः ॥ ६ ॥ विधायाचमनं कृत्वा कर्माङ्गं प्राणसंयमम् । योगीन्द्रादीन् नमस्कृत्य कौर्माच्च शिववाक्यतः ॥ ७ ॥' कूर्मपुराणे शिववाक्यम्— 'नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् । गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ ८ ॥ बद्ध्वाभ्यासे सिद्धपीठं कुम्भकाबन्धपूर्वकम् । प्रथमे दश कर्तव्याः पञ्चवृद्ध्या दिने दिने ॥ ९ ॥ कार्या अशीतिपर्यन्तं कुम्भकाः सुसमाहितैः । योगीन्द्रः प्रथमं कुर्यादभ्यासं चन्द्रसूर्ययोः ॥ १० ॥ अनुलोमविलोमाख्यमेतं प्राहुर्मनीषिणः । सूर्यभेदनमभ्यस्य बन्धपूर्वकमेकधीः ॥ ११ ॥ उज्जायिनं ततः कुर्यात् सीत्कारीं शीतलीं ततः । भस्त्रिकां च समभ्यस्य कुर्यादन्यान्न वा परान् ॥ १२ ॥ मुद्राः समभ्यसेद् बुद्ध्वा गुरुवक्त्राद् यथाक्रमम् ।

५८ हठयोगप्रदीपिका ततः पद्मासनं बद्ध्वा कुर्यान्नादानुचिन्तनम् ॥ १३ ॥ अभ्यासं सकलं कुर्यादीश्वरार्पणमादृतः । अभ्यासादुत्थितः स्नानं कुर्यादुष्णेन वारिणा ॥ १४ ॥ स्नात्वा समापयेन्नित्यं कर्म संक्षेपतः सुधीः । मध्याह्नेऽपि तथाभ्यस्य किंचिद् विश्रम्य भोजनम् ॥ १५ ॥ क्रियेत योगिना पथ्यमपथ्यं न कदाचन । एलां वापि लवङ्गं वा भोजनान्ते च भक्षयेत् ॥ १६ ॥ केचित् कर्पूरमिच्छन्ति ताम्बूलं शोभनं तथा । चूर्णेन रहितं शस्तं पवनाभ्यासयोगिनाम् ॥ १७ ॥ इति चिन्तामणेर्वाक्यं स्वारस्यं भजते न हि । केचित्पदेन यस्मात् तु तयोः शीतोष्णहेतुता ॥ १८ ॥ भोजनानन्तरं कुर्यान्मोक्षशास्त्रावलोकनम् । पुराणश्रवणं वापि नामसंकीर्तनं विभोः ॥ १९ ॥ सायंसंध्याविधिं कृत्वा योगं पूर्ववदभ्यसेत् । यदा त्रिघटिकाशेषो दिवसोऽभ्यासमांचरेत् ॥ २० ॥ अभ्यासानन्तरं कार्या सायंसंध्या सदा बुधैः । अर्धरात्रे हठाभ्यासं विदध्यात् पूर्ववद् यमी ॥ २१ ॥ विपरीतां तु करणीं सायंकालार्धरात्रयोः । नाभ्यसेद् भोजनादूर्ध्वं यतः सा न प्रशस्यते ॥ २२ ॥' अथोद्देशानुक्रमेण कुम्भकान् विवक्षुस्तत्र प्रथमोदितं सूर्यभेदनं तद्गुणांश्चाह त्रिभिः—आसन इति । सुखं ददातीति सुखदं तस्मिन् सुखदे । 'शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरं ॥' (B. G., VI. 11)

हठयोगप्रदीपिका ५९ इत्युक्तलक्षणे 'विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः' (Kaival. Up., 5) इति श्रुतेश्च चैलाजिनकुशोत्तर आसने । आस्तेऽस्मिन्नित्या- सनम्, आस्यतेऽनेनेति वा तस्मिन् योगी योगाभ्यासी । आसनं स्वस्तिकवीरसिद्ध- पद्माद्यन्यतमं मुख्यत्वात् सिद्धासनमेव वा बद्ध्वैव बन्धनेन संपाद्यैव कृत्वैवेत्यर्थः । तत आसनबन्धानन्तरं दक्षा दक्षिणभागस्था या नाडी पिङ्गला तया बहिःस्थं देहाद् बहिर्वर्तमानं पवनं वायुं शनैर्मन्दमन्दमाकृष्य पिङ्गलया मन्दमन्दं पूरकं कृत्वेत्यर्थः ॥ ४८ ॥ आ केशादा नखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत् पवनं शनैः ॥ ४९ ॥ आ केशादिति । केशान् मर्यादीकृत्य आ केशात्; नखाग्रान् मर्यादीकृत्या नखाग्रात्, निरोधस्य वायोरवरोधस्यावधिर्मर्यादा यस्मिन् कर्मणि तत्तथा कुम्भयेत् । केशपर्यन्तं नखाग्रपर्यन्तं च वायोनिरोधो यथा भवेत् तथातिप्रयत्नेन कुम्भकं कुर्यादित्यर्थः । ननु- 'हठान्निरुद्धः प्राणोऽयं रोमकूपेषु निःसरेत् । देहं विदारयत्येष कुष्ठादि जनयत्यपि ॥ ततः प्रत्यायितव्योऽसौ क्रमेणारण्यहस्तिवत् । वन्योगजो गजारिर्वा क्रमेण मृदुतामियात् ॥ करोति शास्तृनिर्देशान्न च तं परिलङ्घयेत् । तथा प्राणो हृदिस्थोऽयं योगिनां क्रमयोगतः ॥ गृहीतः सेव्यमानस्तु विश्रम्भमुपगच्छति ।' इति वाक्यविरुद्धमतिप्रयत्नेन कुम्भकं कुर्यादिति कत्थमुक्तमिति चेन्न । हठान्निरुद्धः प्राणोऽयमिति वाक्यस्य बलादचिरेण प्राणजयं करिष्यामीति

६० हठयोगप्रदीपिका बुध्यारम्भ एव । बह्वभ्यासासक्तपरत्वात् क्रमेणारण्यहस्तिवदिति दृष्टान्तस्वार- स्याच्च । अतएव सूर्याचन्द्रमसोरभ्यासे ‘धारयित्वा यथाशक्ति’ (III. 21) निधारयेदिति निरोधत इति चोक्तं संगच्छते । तस्मात् कुम्भकस्त्वतिप्रयत्नपूर्वकं कर्तव्यः । यथा यथातियत्नेन कुम्भकः क्रियते तथा तथा तस्मिन् गुणाधिक्यं भवेत् । यथा यथा च शिथिलः कुम्भकः स्यात् तथा तथा गुणालपत्वं स्यात् । अत्र योगिनामनुभवोऽपि मानम् । पूरकस्तु शनैः शनैः कार्यः, वेगाद्वा कर्तव्यः । वेगादपि कृते पूरके दोषाभावात् । रेचकस्तु शनैः शनैरेव कर्तव्यः । वेगात्कृते रेचके बलहानिप्रसङ्गात् । ततः शनैःशनैरेव रेचयेन्न तु वेगतः इत्याद्यनेकधा ग्रन्थकारोक्तेश्च । ततो निरोधावधि कुम्भकानन्तरं शनैश्शनैर्मन्दं मन्दं सव्ये वामभागे स्थिता नाडी सव्यनाडी तया सव्यनाड्या इडया पवनं वायुं रेचयेद् बहिर्निः- सारयेत् । पुनः शनैरित्युक्तिस्तु शनैरेव रेचयेदित्यवधारणार्था । तदुक्तम्— ‘ विस्मये च विषादे च दैन्ये चैवावधारणे । तथा प्रसादने हर्षे वाक्यमेकं द्विरुच्यते ॥ ४९ ॥’ इति । कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनमुत्तमम् ॥ ५० ॥ कपालशोधनमिति । कपालस्य मस्तकस्य शोधनं शुद्धिकरं वातजा दोषा वातदोषा अशीतिप्रकारास्तान् हन्तीति वातदोषघ्नं कृमीणामुदरे जातानां दोषो विकारस्तं हरतीति कृमिदोषहृत् । पुनःपुनर्भूयोभूयः कार्यम् । सूर्ये- णापूर्य कुम्भयित्वा चन्द्रेण रेचनमिति रीत्येदमुत्तममुत्कृष्टं सूर्यभेदनं सूर्यभेद- नाख्यमुक्तं योगिभिरिति शेषः ॥ ५० ॥ अथोज्जायी— मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः ।

यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ ५१ ॥ पूर्ववत् कुम्भयेत् प्राणं रेचयेदिडया तथा । उज्जयिनमाह सार्धेन—मुखमिति । मुखमास्यं संयतं कृत्वा मुद्रयित्वे- त्यर्थः । कंठात् तु कण्ठादारभ्य हृदयावधि हृदयमवधिर्यस्मिन् कर्मणि तत्तथा स्वनेन सहितं यथा स्यात् तथा । उभे क्रियाविशेषणे । लगति श्लिष्यति पवन इत्यर्थात् । तथा तेन प्रकारेण नाडीभ्यामिडापिङ्गलाभ्यां पवनं वायुं शनैर्मन्दमा- कृष्याकृष्टं कृत्वा पूरयित्वेत्यर्थः । प्राणं पूर्ववत् पूर्वेण सूर्यभेदनेन तुल्यं पूर्ववत् । आकेशादानखाग्राच्च निरोधावधि कुम्भयेदित्युक्तरीत्या कुम्भयेद् रोधयेत् । ततः कुम्भकानन्तरमिडया वामनाड्या रेचयेत् त्यजेत् ॥ ५१ ॥ श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥ ५२ ॥ नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम् ॥ ५३ ॥ उज्जायिगुणानाह सार्धश्लोकेन—श्लेष्मदोषहरमिति । कण्ठे कण्ठप्रदेशे श्लेष्मणो दोषाः श्लेष्मदोषाः कासादयस्तान् हरतीति श्लेष्मदोषहरस्तं देहानलस्य देहमध्यगतानलस्य जाठरस्य विवर्धनं विशेषेण वर्धनं दीपनमित्यर्थः ॥ ५२ ॥ नाडीति । नाडी शिरा जलं पीतमुदकमुदरं तुन्दमासमन्ताद् देहे वर्तमाना धातव आधातवः । एषामितरेतरद्वन्द्वः । तेषु गतः प्राप्तो यो दोषो विकारस्तं विशेषेण नाशयतीति नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता गमनं कुर्वता तिष्ठता स्थितेन वापि पुंसा उज्जाय्याख्यमुज्जायीत्याख्या यस्य तत् । तु इत्यनेनास्य वैशिष्ट्यं द्योतयति । कार्यं कर्तव्यम् । उज्जायीति क्वचित्पाठः । गच्छता तिष्ठता तु बन्धरहितः कर्तव्यः । कुम्भकशब्दस्त्रिलिङ्गः । पुल्लिङ्गपाठे तु विशेषणेष्वपि पुल्लिङ्गः पाठः कार्यः ॥ ५३ ॥

६२ हठयोगप्रदीपिका

अथ सीत्कारी— सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवमभ्यासयोगेन कामदेवो द्वितीयकः ॥ ५४ ॥ सीत्कारीकुम्भकमाह—सीत्कामिति । वक्त्रे मुखे सीत्कां सीदेव सीत्का सीदिति शब्दः सीत्कारस्तां कुर्यात् । ओष्ठयोरन्तरे संलग्नया जिह्वया सीत्कार- पूर्वकं मुखेन पूरकं कुर्यादित्यर्थः । घ्राणेनैव नासिकयैवेत्यनेनोभाभ्यां नासा- पुटाभ्यां रेचकः कार्य इत्युक्तम् । एवशब्देन वक्त्रस्य व्यवच्छेदः । वक्त्रेण वायोर्निःसारणं त्वभ्यासानन्तरमपि न कार्यम् । बलहानिकरत्वात् । विजृम्भिकां रेचकं कुर्यादित्यत्रापि संबध्यते । कुम्भकस्त्वनुक्तोऽपि सीत्कार्याः कुम्भकत्वादेवा- वगन्तव्यः । अथ सीत्कार्याः प्रशंसा । एवमुक्तप्रकारेणाभ्यासः पौनःपुन्येनानुष्ठानं स एव योगः योगसाधनत्वात् तेन द्वितीय एव द्वितीयकः कामदेवः कन्दर्पः । रूपलावण्यातिशयेन कामदेवसादृश्यात् ॥ ५४ ॥ योगिनीचक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ ५५ ॥ योगिनीनां चक्रं योगिनीचक्रं योगिनीसमूहः । तस्य संमान्यः संसेव्यः । सृष्टिः प्रपञ्चोत्पत्तिः संहारस्तल्लयः तयोः कारकः कर्ता । क्षुधा भोक्तुमिच्छा न । तृषा जलपानेच्छा न । निद्रा सुषुप्तिर्न । आलस्यं कायचित्तगौरवात् प्रवृत्त्यभावः । कायगौरवं कफादिना चित्तगौरवं तमोगुणेन । नैव प्रजायते नैव प्रादुर्भवति । एवमभ्यासयोगेनेति प्रजायत इति च प्रतिवाक्यं संबध्यते ॥ ५५ ॥ भवेत् सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥ ५६ ॥

हठयोगप्रदीपिका ६३ भवेदिति । देहस्य शरीरस्य सत्त्वं बलं च भवेत् । अनेनोक्तेन विधि- नाभ्यासविधिना योगीन्द्रो योगिनामिन्द्र इव योगीन्द्रो भूमिमण्डले सर्वैरुपद्रवैर्व- र्जितः सर्वोपद्रववर्जितो भवेत् सत्यम् । ‘ सर्वं वाक्यं सावधारणम् ’ इति न्यायात् । यदुक्तं फलं तत् सत्यमेवेत्यर्थः ॥ ५६ ॥ अथ शीतली— जिह्वया वायुमाकृष्य पूर्ववत् कुम्भसाधनम् । शनैर्घाणरन्ध्राभ्यां रेचयेत् पवनं सुधीः ॥ ५७ ॥ शीतलीकुम्भकमाह—जिह्वयेति । जिह्वया ओष्ठयोर्बहिर्निर्गतया विहङ्गमाध- रचञ्चुसदृशया वायुमाकृष्य शनैः पूरकं कृत्वेत्यर्थः । पूर्ववत् सूर्यभेदनवत् कुम्भस्य कुम्भकस्य साधनं विधानं कृत्वेत्यध्याहारः । सुधीः शोभना धीर्यस्य सः । घ्राणस्य रन्ध्रे ताभ्यां नासापुटविवराभ्यां शनकैः शनैरेव । ‘ अव्ययसर्वनाम्नाम्— ’ (Pāṇ., V. 3. 71) इत्यकच् । पवनं वायुं रेचयेत् ॥ ५७ ॥ गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ ५८ ॥ शीतलीगुणानाह—गुल्मश्च प्लीहश्च गुल्मप्लीहौ रोगविशेषावादी येषां- ते गुल्मप्लीहादिकास्तान्, रोगानामयान्, ज्वरं ज्वराख्यं रोगम्, पित्तं पित्तविका- रम्, क्षुधां भोक्तुमिच्छाम्, तृषां जलपानेच्छाम्, विषाणि सर्पादिविषजनित- विकारान् । शीतली नामेति प्रसिद्धार्थकमव्ययम् । इयमुक्ता कुम्भिका निहन्ति नितरां हन्ति । कुम्भशब्दः स्त्रीलिङ्गोऽपि । तथाच श्रीहर्षः—‘ उदस्य कुम्भीरथ शातकुम्भजाः’ (Nai., V. 19) इति ॥ ५८ ॥