मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ६ अ. २५ पान ७४ नमस्ते। अनंततीर्थप्रवराय नित्यं क्षेत्रे मयूरे तु समास्थिताय ॥११॥ वारांपतिस्थाय सरोवराय वापीस्थकूपाय नमो नमस्ते। यद्यज्जलं भानुघनस्थरूपं तन्नस्थकायैव नमो नमस्ते ॥१२॥ त्वया ततं सर्वमिदं विभाति चराचरस्थं च जलं परेश। कृपाकटाक्षामृतधारयाऽस्मान् रक्षस्व संदर्शय ते स्वरूपम् ॥१३॥ भृशुंड्युवाच। एवं संस्तुवतां तेषां पुरस्तेजोमयं जलम्। प्रादुर्बभूव तत् दृष्ट्वा प्रणेमुः ससुरर्षयः ॥१४॥ तानुवाच महातीर्थं हर्षयुक्तेन चेतसा। वरं वृणुत देवेशा मुनयस्तं ददाम्यहम् ॥१५॥ भवत्कृतमिदं पुण्यं स्तोत्रं मे प्रीतिवर्धनम्। भविष्यति न संदेहो भुक्तिमुक्तिप्रदायकम् ॥१६॥ पठते शृण्वते नित्यं मयि स्नानफलप्रदम्। सर्वाघनाशनं सद्यो भविष्यति विशेषतः ॥१७॥ सर्वतीर्थवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः। जगुः प्रणम्य देवेशाः प्रबद्धकरसंपुटाः ॥१८॥ देवर्षय ऊचुः। प्रसन्नं चेन् महातीर्थं तदा पितामहं परम्। शुद्धं कुरु तथा तस्य कमंडलौ स्थितिं स्थिराम् ॥१९॥ सर्वतीर्थं च ते नाम तथा ब्रह्मकमंडलुः। भवतु त्वत्प्रसादेन वर एव वृतः परः ॥२०॥ तथेति तानुवाचैव याचितं तीर्थमुत्तमम्। चकार देवविप्रैर्यत्तत् सर्वं कथितं मया ॥२१॥ देवेशा ऊचुः। श्रुतं सर्वं विशेषेण सर्वसंशयनाशनम्। तथापि न च तृप्यामः परं पीत्वा कथामृतम् ॥२२॥ माहात्म्यं कथितं विप्र तत्र सिद्धिं महाद्भुताम्। अलभन् के पुरा योगिन् वद तेषां चरित्रकम् ॥२३॥ भृशुंड्युवाच। पुरा कल्पे द्विजः कश्चिद्भरद्वाजकुलोद्भवः। मूर्खो बभूव देवेशा विद्यासंध्यादिवर्जितः ॥२४॥ तं गृह्य पितरौ तस्य स्थितं ब्रह्मकमंडलौ। ब्रह्माणं ययुतः प्रीत्या नदीमूलविराजितम् ॥२५॥ स्नात्वा नदीजले तत्र पूजयामासुरादरात्। विधिं कमंडलुस्थाने बभूवुर्भक्तिसंयुताः ॥२६॥ पुत्रस्तयोः सुबुद्ध्या वै युक्तो बभूव तत्क्षणात्। वेदादीन् कंठगान् देवा अवदत् प्रेमसंयुतः ॥२७॥ ततो हर्षयुतौ तस्य पितरौ गृह्य तं सुतम्। स्वस्थानं जग्मतुः प्रीत्या मुक्तिमंते प्रलेभिरे ॥२८॥ एवं नाना जनास्तत्र ज्ञानतोऽज्ञानतोऽपि वा। स्नानेन दर्शनेनैव ब्रह्मणः सिद्धिमाप्नुवन् ॥२९॥ अथान्यत् कथयिष्यामि क्षत्रियो रविवंशजः। सुरथो मालवे राजा बभूव परवीरहा ॥३०॥ स्वराज्यं धर्मसंयुक्तश्चकार सचिवैर्युतः। बहुकाले गते तत्र विदर्भाधिपतिर्ययौ ॥३१॥ दिग्जयार्थं ततस्तेन युयुधे बलसंयुतः। पराजितो विदर्भस्य राज्ञा राजा पपाल ह ॥३२॥ ततो यत्नं समास्थाय ह्यन्यराजसमन्वितः। संग्राममकरोद्धोरं पुनः पराजितोऽभवत् ॥३३॥ भूपालो ब्राह्मणान् पृष्ट्वा मयूरे चागतोऽभवत्। मध्यमेश्वरतीर्थे स स्नात्वा शिवं पुपूज ह ॥३४॥ तं नमस्कृत्य सेनाभिः संयुतो युयुधे पुनः। भूपः संजित्य वैदर्भं स्वराज्यं प्राप तत्क्षणात् ॥३५॥ अंते
यहाँ पृष्ठ का मूल पाठ दिया गया है:
शीर्षक (Header): खं. ६ अ. २५ | पान ७५
मुक्तिं जगामैव स्नानमाहात्म्यकारणात् । एवं तत्र ययुः सिद्धिं ज्ञानतोऽज्ञानतो जनाः ॥३६॥ अन्यच्च शृणुत प्राज्ञाश्चरितं पुण्यदं परम् । द्विजो गौतमवंशोऽभूत् स्वधर्माचारसंयुक्तः ॥३७॥ विद्याज्ञानादिसंयुक्तो न यशोऽप्यलभत् कदा । दीक्षादिषु प्रयत्नेनाभवत् कर्मसु तत्परः ॥३८॥ ब्राह्मणास्तत्कृतं कर्म दृष्ट्वा सविधि वैदिकम् । दोषयुक्तं विशेषेण दहशुः पापगौरवात् ॥३९॥ ततोऽतिखेदसंयुक्तो जगाम सर्वतीर्थिकाम् । अंते विचार्य तस्यां स स्नानं चकार भक्तितः ॥४०॥ हृषीकेशं प्रपूज्यैव नमस्कृत्य गृहं ययौ । ततः कर्म कृतं तेन दहशुः सविधि द्विजाः ॥४१॥ यद्यत्तेन कृतं देवा यशोयुक्तं बभूव ह । अंते मुक्तिं ययौ सोऽपि तीर्थसेवनपुण्यतः ॥४२॥ ज्ञानतोऽज्ञानतस्तत्र ययुः सिद्धिं विशेषतः । मया वक्तुं न शक्येत केनापि देवसत्तमाः ॥४३॥ अर्थान्यच्चरितं देवाः शृणुध्वं भावसंयुताः । दंडकारण्यदेशैकश्चांडालः पापकारकः ॥४४॥ वने गत्वा द्विजादींश्च मारयामास नित्यदा । परस्त्रियं स एकांतेऽयभत् दृष्ट्वा हठेन च ॥४५॥ एवं नानाविधं पापं चकार विषयप्रियः । एकदा धनसंयुक्तं वणिजं स ददर्श ह ॥४६॥ तमनु प्रययौ दुष्टः शस्त्रपाणिर्जिघांसया । तत्र मार्गे महेशाना ब्रह्मकमंडलू- द्भवाम् ॥४७॥ महानदीं स चांडालो ददर्श सन्निधौ गतः । जलस्पर्शादिकं तत्र न चकार सुदुर्मतिः ॥४८॥ ततो योजन- मात्रेण जघान वणिजं खलः । द्रव्यं तस्य प्रगृह्यैव स्वगृहं पुनरागमत् ॥४९॥ एवं कृत्वा ततः काले ममार नीचयोनिजः । यामास्तं गृह्य संताड्य ययुः संयमिनीं पुरीम् ॥५०॥ यमस्तान् प्रत्युवाचेदं वचनं धर्मलक्षणम् । महापापी भटा नूनमयं तदपि मुच्यताम् ॥५१॥ सर्वतीर्थस्य दूतेशा दर्शनं त्वभवत् पुरा । वणिजं हंतुकामस्य पापनाशकं महत् ॥५२॥ त्यज्यतां मानुषे देहेषु नरेनं विचक्षणाः । शुभाशुभं तत्र कृत्वा गमिष्यति पुनः पुरम् ॥५३॥ स कैवर्तोऽभवत्तत्र बंगाले देवसत्तमाः । एवं दर्शनमात्रेणेह कृतं दुरितं गतम् ॥५४॥ अन्यच्चजलबिंदोश्च स्पर्शजं कथयाम्यहम् । चरितं तस्य सर्वज्ञाः शृणुध्वं सिद्धिदं परम् ॥५५॥ व्याधः कश्चिद्वने संस्थो बभूवे तत्र देशजः । ब्रह्महत्यादिकं पापं चकार नित्यमादरात् ॥५६॥ ददर्श द्रव्यसंयुक्तं दुष्टधीरेकदा नरम् । खड्गमुद्यम्य निःकोशं तं हंतुं धावितोऽभवत् ॥५७॥ पपाल मानवो भीतः पृष्ठे व्याधस्तथा- गमत् । कमंडलूद्भवा गंगा प्राप्ता दैववशेन ह ॥५८॥ तामुल्लंघ्य पपालाऽसौ सोऽपि खड्गयुतस्तथा । व्याधः पपात दैवेनोल्लंघ्य तीरे दुरात्मवान् ॥५९॥ स तत्र जलबिंदूनां स्पर्शयुक्तो बभूव ह । नरो दूरं गतः सोऽपि निःश्वस्य स्वगृहं ययौ ॥६०॥ एवं पापसमाचारं मृतं काले सुदुर्मतिम् । व्याधं तं गृह्य देवेशा यमदूता यमं ययुः ॥६१॥ तं दृष्ट्वा धर्मराजस्तानुवाच प्रेमसंयुतः ।
अयं शुद्धो महाभागाः सर्वपापविवर्जितः ॥६२॥ कमंडलूद्भवातीरे पपात धावनाकुलः। तत्र तस्या जलस्पर्शो बभूवे चास्य दर्शनम् ॥६३॥ दर्शनेनेहजं पापं गतं सर्वं लयं किल। अनेकजन्मजं पापं तोयस्य स्पर्शनाद्गतम् ॥६४॥ ततः परं कृतं पापं यातनादं मतं यमाः। तथापि नैव योग्योऽयं यातनायां विशेषतः ॥६५॥ ब्रह्मकमंडलोर्यस्य दर्शनादिकमंजसा। भवेत्तस्य भटा नेदं यातनाजं भयं भवेत् ॥६६॥ काइमीरे स बभूवापि ब्राह्मणो वेदपारगः। एवं नाना जनास्तस्यां पापहीना बभूविरे ॥६७॥ अथेतिहासकं वक्ष्ये पुराकल्पभवं परम् । शूद्रः कश्चिद्बभूवाऽपि वंगदेशे महेश्वराः ॥६८॥ श्यामो नाम महापापी शिश्नोदरपरायणः । चौर्यकर्मपरो नित्यं नगरेषु वनेषु च ॥६९॥ बभ्राम शस्त्रसंयुक्तो मारयामास नित्यदा । जनान्नानाविधांश्चैव मद्यमांसपरोऽभवत् ॥७०॥ स कदाचिद्द्ने संस्थो ददर्श वणिगुत्तमान्। द्रव्ययुक्तांस्ततो दुष्टो मार्गसंस्थो बभूव तैः ॥७१॥ ते ययुर्दंडकारण्यं सोऽपि चौर्यार्थमाययौ। तत्रोष्ण- कामयोगेन जलहीनाश्च बभ्रमुः ॥७२॥ तृषायुक्ताः समायातास्तटे ब्रह्मकमंडलोः। तस्यां जलं पपुः सर्वे पुनर्ग्रामं समा- ययुः ॥७३॥ निशि सुप्तांश्च चौरेण हता मृत्युं ययुस्ततः। देवेंद्रनगरे सर्वे ययुः पुण्यप्रभावतः ॥७४॥ जलपानेन देवेशाः किल ब्रह्मकमंडलोः । इंद्रपुर्यां निवासं ते चक्रिरे वणिगुत्तमाः ॥७५॥ ततः काले मृतं चौरं गृहीतुं तं यमस्य च । दूता ययुर्यमं गृह्य दृष्ट्वा देवोऽब्रवीद्यमः ॥७६॥ धर्म उवाच । अयं शूद्रो महापापी तथाऽपि पुण्यवानभूत् । सर्वतीर्थमयीं दृष्ट्वा दुष्टकार्यवशात् किल ॥७७॥ जलपानं कृतं तस्यास्तत्र स्पर्शो जलस्य च । बभूव त्रिविधं पुण्यं तेषां वक्ष्यामि कारणम् ॥७८॥ इह जन्मकृतं पापं दर्शनेन लयं गतम्। कमंडलूद्भवायास्तु स्पर्शनानेकजन्मजम् ॥७९॥ पानेनेंद्रपदप्राप्तिसमं पुण्यं बभूव ह। बाह्यांतः पापहीनश्च पुण्ययुक्तोऽयमुच्यते ॥८०॥ अत एनं प्रगृह्य त्वं महेंद्रं दूतसत्तम। प्रापय तत्पुरे संस्थो भोगान् भोक्ष्यति निश्चितम् ॥८१॥ पुनः पतिष्यति प्राज्ञः पृथिव्यां नात्र संशयः। दूतस्तथा चकारैव प्रणनाम यमं पुनः ॥८२॥ एवं नाना नरा देवा ययुः सिद्धिं विशेषतः । तन्न शक्यं कथयितुं न भवति शतवर्षतः ॥८३॥ अन्यद्वः कथयिष्यामि चेति- हासं पुरा भवम् । संक्षेपेण महाभागा स्नानसिद्धिप्रकाशकम् ॥८४॥ धनप्रिय इति ख्यातो बंगाले कारुकोऽभवत् । पाप- निष्ठाः सदा पापं चकार दुर्मतिर्मुदा ॥८५॥ द्रव्यार्थं विषदानेन हतौ मातापिता स्वकौ । प्रणम्य ब्राह्मणादींश्च जघान विष- योगतः ॥८६॥ साधुभावप्रदर्शी स बाह्यंतस्तु दुरात्मवान् । तेन मोहयुताः सर्वे तदधीना बभूविरे ॥८७॥ ततो बहौ गते
खं. ६ अ. २५ पान ७७ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐 काले राज्ञा ज्ञातं दुरात्मनः । कर्म तं गृह्य तस्यैव द्रव्यं नीतं समग्रकम् ॥८८॥ स्वदेशात्तं बहिः कृत्य राजा धर्मपरायणः । पालयामास लोकान् स सदा नीत्या स्वदेशगान् ॥८९॥ ततोऽयं दंडकारण्य पुत्रदारैर्जगाम ह । तत्रैव रोचयामास वासार्थं ग्राममुत्तमम् ॥९०॥ तादृशीं वृत्तिमास्थाय पुनः पापं चकार ह । एकदा द्रव्यसंयुक्तं वणिजं स ददर्श ह ॥९१॥ अनु तं विषसंयुक्तो जगाम दुष्टधीः खलः । साधुलक्षणसंयुक्तो लोभनाय वणिक्सुतम् ॥९२॥ मार्गे महानदी प्राप्ता सर्वतीर्थमयी परा । तस्यां स्नानं चकारऽसौ वणिजेन समन्वितः ॥९३॥ प्रगच्छंतं ततो मार्गे द्वितीये दिवसे खलः । विषेणामोह्य वणिजं मारयामास तत्क्षणात् ॥९४॥ वणिक्स स्नानपुण्येन शुक्लगत्या महेश्वराः । कमंडलोर्महामोक्षं लेभे क्रमेण निश्चितम् ॥९५॥ धनप्रियो ममारैव कालेन स्वगृहे स्थितः । सोऽपि मोक्षं महादेवा लेभे स्नानप्रभावतः ॥९६॥ अधुनाऽन्यत् प्रवक्ष्यामि चरित्रं च कमंडलोः । स्मरणेन महेशाना महासिद्धिप्रदायकम् ॥९७॥ गुर्जरे वैश्यजः कश्चिद् बभूवे धर्मनामकः । स्वधर्मनिरतो नित्यं चकार कर्म चादरात् ॥९८॥ तेन स्कांदभवं तत्र माहात्म्यं संश्रुतं परम् । कमंडलुप्रभावेण युक्तं स्वयं सुविस्मितः ॥९९॥ मनसा धारयामास धन्येयं सरितांवरा । मया लभ्या यदा देवी तदा मे सफलं जनुः ॥१००॥ धर्मो नित्यं महेशानास्तां सस्मार महानदीम् । तत्र कोऽपि समायातः क्षत्रियो मार्गगः कदा ॥१॥ तेनाऽपि संश्रुतं नाम ब्रह्मकमंडलूद्भवम् । प्रातरुत्थाय स्वस्थानं जगाम क्षत्रियः खलः ॥२॥ ततो बहुौ गते काले धर्मसंज्ञो ममार ह । स्वर्गं गत्वा स विविधान् बुभुजे भोगकान् परान् ॥३॥ पुनश्च ब्राह्मणः सोऽपि बभूवात्रिकुलोद्भवः । शिवदत्त इति ख्यातः सर्व- तीर्थनदीतटे ॥४॥ स्वधर्मनिरतो विप्रो न मुमोच नदीतटम् । तत्र स्नानादिकं सर्वं जलकार्यं चकार ह ॥५॥ पूर्वपुण्यबलेनैवो- त्तमतीर्थस्य सेवनात् । योगी बभूव तत्राऽसौ ममार तु तटे स्थितः ॥६॥ ब्रह्मणि ब्रह्मभूतः स बभूवे देवसत्तमाः । एवं दूरस्थितस्याऽपि स्मरणेन गतिप्रदा ॥७॥ येन श्रुतं महन्नाम सर्वतीर्थस्य देवपाः । क्षत्रियः पापकर्मा स चकार पापमुल्बणम् ॥८॥ मृतं तं यमदूताः संगृह्य संताड्य भानुजम् । प्रणम्य नरके दुष्टं चिक्षिपूंश्च तदाज्ञया ॥९॥ पुनः श्वानो बभूवाऽपि क्षत्रियः पापकारकः । बभ्राम दंडकारण्य आजगाम महानदीम् ॥११०॥ तत्र कीटादिभिः श्वानो मक्षिकाभिः प्रपीडितः । स्नानं चक्रे महानद्यां पूर्वसंस्कारयोगतः ॥११॥ ममार तेन पुण्येन मोक्षं लेभे न संशयः । सकृन्नाम्नः श्रुतस्यैव पुण्येनेदं कृतं महत् ॥१२॥ धन्यास्ता वीरुधो वल्ल्यस्तृणानि वृक्षकादयः । ब्रह्मकमंडलोस्तीरे नान्यत्र राज्यसंयुतः ॥१३॥ 卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐卐
खं. ६ अ. २६ | पान ७८ यस्यास्तीरे मृतो जंतुः शुक्लगत्या गमिष्यति । ब्रह्म राजा मृतोऽन्यत्र जन्मयुक्तो भविष्यति ॥१४॥ एवं सर्वत्र देवेशा ब्रह्मकमंडलुद्भवा । शुभदा पूर्वगा प्रोक्ता मयूरेशपरायणा ॥१५॥ चतुर्मुखे मध्यमेशे हृषीकेशे विशेषदा । सर्वत्र दुर्लभा देवादीनां त्रिषु कमंडलुः ॥१६॥ कोटितीर्थानि मूलेऽस्याः स्थितानि मध्यमे तथा । अंते कोटिश्च सर्वत्र तीरे कोट्यर्थ- मंजसा ॥१७॥ संक्षेपेण मया तस्याश्चरितं कथितं परम् । श्रवणात् पठनाद्देवाः सर्वपापहरं भवेत् ॥१८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्मकमंडलुतीर्थचरितं नाम पंचविंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । अधुना यानि मायूरे कमंडलुतटेऽमराः । तीर्थानि तेषु मुख्यानि कथयामि समासतः ॥१॥ मुख्यं गणेशकुंडाख्यं तीर्थमेकं प्रकीर्तितम् । संक्षेपतश्चरितं तु कथितं तस्य देवपाः ॥२॥ अतः परं पंचतीर्थानि शृणुध्वं समासतः । गाणेशं मध्यभागे यद्धनुषां द्विशतात्मकम् ॥३॥ तत्र क्षेत्राणि तीर्थानि देवा मुनिनरादयः । स्नानं कुर्वंति सर्वेऽन्ये नित्यमेकं प्रयत्नतः ॥४॥ उभयोस्तीरगं प्रोक्तं परं ब्रह्म कमंडलोः । तत्र स्नानेन गाणेशा भवंति जंतवः सदा ॥५॥ ततः परं महातीर्थं कापिलं तादृशं मतम् । कमलासुरनाशाय गणेशः कपिलोऽभवन् ॥६॥ हत्वाऽसुरं महावीर्यमजेयं शंकरादिभिः । तन्मस्तकं समाश्रित्य मयूरे संस्थितोऽभवत् ॥७॥ तत्राभिषेकमकरोद्ब्रह्मा मुनिगणान्वितः । कपिलाय गणेशस्य सूक्तै- र्हर्षसमन्वितः ॥८॥ तत्र पंचामृतं नाम बभूव किल पूजनात् । नयास्तेषां च योगेन तत्तीर्थं परमं मतम् ॥९॥ स्नानेन कापिलं तत्र ज्ञानं सांख्यात्मकं लभेत् । कपिलो विष्णुराख्यातोऽभवत्तत्रैव संस्थितः ॥१०॥ ततः परं व्यासतीर्थं सर्वा- ज्ञानविनाशनम् । तावता मानयोगेन ज्ञातव्यं विबुधैः परम् ॥११॥ व्यासेन तत्र देवेशास्तपस्तप्तं सुदारुणम् । शतवर्षे गते चाद्यं ददौ वरं गणेश्वरः ॥१२॥ तेन भारतकं धर्माऽधर्मयुक्तं चकार ह । शास्त्रं ब्रह्मपदं तच्च तयोरैक्ये महेश्वराः ॥१३॥ तत्र स्नानेनैव सद्यो जाड्यभावविवर्जितः । धर्माऽधर्मव्यवस्थां स ज्ञात्वा बोधयुतो भवेत् ॥१४॥ गणेशतीर्थादथ तु पूर्व- भागे समास्थितम् । भीमकुंडं महेशाना भीमेशेन विनिर्मितम् ॥१५॥ तत्र स्थित्वा तपश्चक्रे भीमेशो गणपस्य च ।
खं. ६ अ. २६ पान ७९ वरदानप्रभावेण भीमासुरं जघान सः ॥१६॥ भीमेशतीर्थं मुख्यं वै महदैश्वर्यदायकम् । तत्र स्नानेनैव सद्यस्तावन्मान- युतं बभौ ॥१७॥ कदाचिदुष्णकाले तज्जलहीनं बभूव ह । तीर्थं तत्रागतो भीमः पांडुपुत्रः प्रतापवान् ॥१८॥ गदा प्रहारेण तेन खातं तीर्थमनुत्तमम् । जलं तत्र स निःष्कास्य स्नानं चक्रेऽतिभक्तितः ॥१९॥ बलात्मकं तेन तत्रैश्वर्यं प्राप्तं महाद्भुतम् । धृतराष्ट्रसुतान् सर्वान् जघानैश्वर्यसंयुतः ॥२०॥ ततः परम्पृषीणां च तीर्थं स्वधर्मदायकम् । तावन्मानेन तत्रैव तपः सामर्थ्यदायकम् ॥२१॥ अष्टाशीति सहस्राणि मुनयो ब्रह्म तत्पराः । प्रार्थ्यर्थं ब्राह्मणत्वस्य तपश्चेरुश्च तत्र ते ॥२२॥ ब्रह्मभूता बभूवुस्ते स्थितास्तत्र विशेषतः । जीवन्मुक्तस्वभावेनाभजल्लंबोदरं परम् ॥२३॥ पंचतीर्थी समाख्याता- ऽमराः क्षेत्रे मयूरके । पंचसु स्नानमात्रेण ब्रह्मभूतो नरो भवेत् ॥२४॥ आदौ स्नायात् स गाणेशे भैमे चार्षे ततः परम् । व्यासतीर्थे कापिले च गाणेशेऽन्ते क्रमं चरेत् ॥२५॥ गणेशतीर्थात् पूर्वस्मात् क्षेत्रांते तीर्थमुत्तमम् । षट्त्रिंशत्तु शतान्येव धनुषां पापनाशनम् ॥२६॥ दक्षिणतीरगस्तत्र शिवः शक्तिसमन्वितः । संस्थितस्तीर्थमाश्रित्य सर्वार्थानां प्रवर्तकः ॥२७॥ उत्तरं तीरमाश्रित्य रमया केशवः स्थितः । सर्वधर्मप्रदाता तु क्षेत्रांते क्षेत्रधारकः ॥२८॥ सर्वाघघ्नमिति ख्यातं तीर्थं स्नानेन देवपाः । षष्ठं सर्वत्र विख्यातं दुःखनाशकरं भवेत् ॥२९॥ गणेशतीर्थकाद्देवाः प्रतीच्यां तीर्थमुत्तमम् । क्षेत्रांते संस्थितं नाम्ना सर्वपुण्यप्रदायकम् ॥३०॥ तीर्थस्योत्तरतीरस्थो भानुः संज्ञासमन्वितः । दक्षिणतीरसंस्थौ च परौ प्रकृतिपुरुषौ ॥३१॥ तत्र स्नानेनैव सद्यः पुण्यराशिर्भवेन्नरः । यद्यदिच्छेच्छुभं तत्तत् स लभेन्नात्र संशयः ॥३२॥ सप्तमं तीर्थमुख्यं तु पूर्वे दूरे चतुर्गुणम् । सप्ततीर्थेषु यः स्नायात् स वै सर्वं लभेच्छुभम् ॥३३॥ आदौ गाणेशके स्नायाद्वैमे चार्षे ह्यघघ्नके । पुण्यदेव्या स तीर्थे स कापिले गाणपे पुनः ॥३४॥ एवं मुख्यानि सप्तैव कथितानि समासतः । श्रवणात् पापनाशं तु कुर्वंति पठनान्नृणाम् ॥३५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते सप्ततीर्थवर्णनं नाम षड्विंशतितमोऽध्यायः ॥
[Header] खं. ६ अ. २७ | पान ८०
॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । गणेशतीर्थमध्ये तु गणेशः संश्रितोऽभवत् । वामे सिद्धेः समाख्यातं तीर्थं स्नानेन सिद्धिदम् ॥१॥ दक्षिणे बुद्धितीर्थं तु स्नानेन बुद्धिदायकम् । लक्षतीर्थं ततः सिद्धेः समीपे ध्यानदायकम् ॥२॥ बुद्धेर्लाभस्यतीर्थं तु समीपे लाभदं परम् । लाभस्य संनिधाने तु मयूरस्य प्रकीर्तितम् ॥३॥ स्नानेन विविधो मोहो नश्येत्तत्र विनिश्चितम् । लक्ष्यस्य मौषकं तीर्थं समीपे स्नानमात्रतः ॥४॥ अहंभावहरं प्रोक्तं नराणां देवसत्तमाः । ततश्च मौद्गलं तीर्थं ततो गार्त्समदं स्मृतम् ॥५॥ ततश्च शुकतीर्थं तु दत्तात्रेयस्य तत्परम् । अन्यानि गाणपत्यानां तीर्थानि विविधानि तु ॥६॥ तत्र मानं प्रवक्ष्यामि समासेन विचक्षणाः । धनुर्दशकमानं तु गाणेशं परिकीर्तितम् ॥७॥ तदर्धं सिद्धिवुद्ध्योश्चान्येषां धनुः प्रमाणकम् । तेषां शिष्यादिकानां तु यवमात्रं प्रकीर्तितम् ॥८॥ मयूराख्यपुरोभागे तीर्थं ब्रह्मप्रियस्य च । प्रमोदस्य तथा मोदस्य योग- प्रियकस्य च ॥९॥ गणानां तीर्थमुख्यानि तत्रैव संस्थितान्यपि । एतद्गणेशतीर्थस्यतीर्थानि कथितानि तु ॥१०॥ दक्षिणोत्तर- गान्येव तीर्थानि द्विधनूंषि च । वक्रतुंडादिकानां चाष्टानां देवेंद्रसत्तमाः ॥११॥ अन्ये नानावताराश्च गणेशस्य महात्मनः । तेषां तत्रैव तीर्थानि गाणपत्यप्रदानि तु ॥१२॥ तत्र क्रमं प्रवक्ष्यामि पूर्वभागे गणेश्वराः । संस्थितास्तीर्थगास्तान् वै शृणुध्वं देवसत्तमाः ॥१३॥ वक्रतुंडश्चैकदंतो महोदरो गजाननः । बल्लाळश्चैव हेरंबो विघ्नेशो भालचंद्रकः ॥१४॥ ज्ञानेशः शूर्पकर्णश्च चिंतामणिविनायकः । एते द्वादश मुख्याश्च कथितास्तेषु विघ्नपाः ॥१५॥ संस्थांस्तु पश्चिमे भागे कथयामि समासतः । लंबोदरोऽथ विकटो विघ्नेशो धूम्रवर्णकः ॥१६॥ महागणापतिश्चैव तथा सिद्धिविनायकः । विघ्नहारश्च ढुंढीशो लक्ष्य आशाप्रपूरकः ॥१७॥ वरदो देवदेवेशा मदोत्कट इति श्रुतः । एते द्वादश विघ्नेशाः संस्थितास्तीर्थगाः पराः ॥१८॥ अन्ये नानावतारांश्चांगुष्ठपर्वसमाश्रिताः । तीर्थं मया समाख्यातं गाणेशं गणपप्रियम् ॥१९॥ एतादृशानि चान्यानि कथयितुं न शक्यते । तथापि प्रब्रवीम्येव भवतां भक्तियंत्रितः ॥२०॥ ऋषितीर्थाच्चतुर्थ्याश्च तीर्थं कार्ष्णं च शौक्लकम् । चतुर्थ्यां स्नानमात्रेण चतुर्विधफलं भवेत् ॥२१॥ ततः शम्याश्च मंदारस्य ततस्तीर्थमुत्तमम् । दूर्वाया धनुषां पंच प्रमाणेन व्यवस्थितम् ॥२२॥ तेषु स्नानेन देवेशा ईप्सितं सर्वमाप्नुयात् । संस्थमुत्तरत्तीरे यत्तीर्थं तद्भैरवप्रियम् ॥२३॥ नग्नभैरवदेवेशः स्थितस्तत्र बभूव ह । नग्नभैरवतीर्थे तु यः स्नायाद्भावसंयुतः ॥२४॥ यातनासंभवं दुःखं प्राप्नुयान्न नरोत्तमः । तत्पुरो द्वारकातीर्थं तत्र स्नानेन मोक्षदम् ॥२५॥ ततोऽयोध्याश्रितं तीर्थं मथुरासंश्रितं ततः । स्नानेन मुक्तिदं तत्र नराणामीप्सितं भवेत् ॥२६॥
खं. ६ अ. २७ पान ८१
संस्थमुत्तरतीरे च प्रभासं रोगनाशनम् । तत्र स्नानेन देवेशाः सद्यो वै सुखदं भवेत् ॥२७॥ ततः पुष्करतीर्थं च स्नानातः पापनाशकम् । ततः कावेरिकायाश्च तीर्थं स्नानेन मुक्तिदम् ॥२८॥ चतुर्विंशतिकानां च ततो विष्णोः कलात्मनाम् । तीर्थानि पापसंघानां दाहकानि स्थितान्यपि ॥२९॥ तत उत्तरतीरस्थः स्वयं विष्णुः प्रतिष्ठितः । एतेषु स्नानमात्रेण स लभेद्वैष्णवं पदम् ॥३०॥ भृगुतीर्थं ततः पश्चात् पुलहस्य प्रकीर्तितम् । ततः क्रतोः समाख्यातं तीर्थं पापहरं परम् ॥३१॥ ततो मुनिगणानां च तीर्थानि संस्थितान्यपि । तत्र मानं प्रवक्ष्यामि शृणुध्वं ह्येकचेतसः ॥३२॥ वैष्णवानि च तीर्थानि स्नानतो देवसत्तमाः । विष्णुलोकप्रदान्येव ज्ञातव्यानि विशेषतः ॥३३॥ येषां देवोऽपदेवानांऋषीणां तीर्थकानि तु । तत्तल्लोक- प्रदान्येव स्नानेन स्नानकारिणाम् ॥३४॥ शुक्रगत्या लये तेषां मुक्तिं गच्छंति मानवाः । मयूरक्षेत्रमाहात्म्यात् स्नानेनैव कमंडलोः ॥३५॥ एकैकं धनुराख्यातं मानं मुख्यात्मनां परम् । तीर्थं सर्वत्र माहात्म्ये मयूरे कथितं मया ॥३६॥ अन्यमुनिगणादीनां तीर्थानि कथितानि च । अंगुष्ठपर्वमात्राणि ज्ञातव्यानि विशेषतः ॥३७॥ आदौ सृष्टिसमारंभे स्रष्टा देवालयः किल । मुनयः क्षेत्रतीर्थानि तपस्तेपुः स्वसिद्धये ॥३८॥ मयूरे तपसा सिद्धाः स्वस्थाने संगता बभुः । कलया मुख्यभावेन मयूरेशं समाययुः ॥३९॥ अतो वक्तुमशक्तं तत्तेषां स्थानादिकं परम् । मानं तीर्थं च तद्वच्च ज्ञातव्यं सूक्ष्मचक्षुषा ॥४०॥ अवंतीतीर्थमाख्यातं दक्षिणे च तटे स्थितम् । शुक्रतीर्थमगस्त्यस्य तीर्थं सोमेश्वरस्य च ॥४१॥ पिशाचानां तथा तीर्थं तीर्थमेव यमस्य च । नैर्ऋतस्य तथा तीर्थं हंसतीर्थं ततः परम् ॥४२॥ भैरवाणां महातीर्थं रुद्राणां तीर्थकानि तु । रामेश्वरस्य तीर्थं तु मल्लिकार्जुनकस्य च ॥४३॥ अधुनोत्तरतीर्थस्य सीमां वः कथयाम्यहम् । विष्णववतार- तीर्थेभ्योऽप्सरसतीर्थं प्रकीर्तितम् ॥४४॥ देवतीर्थं ततः पश्चात्त्ततो गंधर्वतीर्थकम् । इंद्रस्याग्रेस्ततस्तीर्थे विष्णुतीर्थं तदंतगम् ॥४५॥ दक्षिणतीरगं तीर्थमत्रेः पापहरं परम् । एकद्वित्रितादीनां तीर्थानि गणपात्मनाम् ॥४६॥ ततः शंभोर्महातीर्थं सीमासंस्थं महेश्वराः । गाणेशात्पूर्वभागे च तीर्थानि कथितानि वै ॥४७॥ अथ पश्चिमदिग्भागे तीर्थानि कथयाम्यहम् । संक्षेपेण सुरश्रेष्ठाः शृणुध्वं विधिपूर्वकम् ॥४८॥ व्यासतीर्थात् परं तीर्थं काश्याश्चैव ततः परम् । मायापुर्याः समाख्यातं ततो विरजकं मतम् ॥४९॥ कृत्तिवस्त्रत्र्यंबकेशाशिवानां च ततः परम् । वैद्यनाथादिकानां च तीर्थानि संस्थितानि च ॥५०॥ ततः कैलास- नाथस्य तीर्थं पापहरं परम् । ततो द्वादश मासानां तीर्थानि संस्थितानि च ॥५१॥ मलमासस्य तीर्थं तु गाणेशं नात्र संशयः ।
खं. ६ अ. २७ पान ८२ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ देवो गणेश्वरस्तेन कृतश्च तपसा पुरा ॥५२॥ मलमासे गणेशस्य पूजनं सेवनं मतम् । सर्वार्थसाधकं तच्च भविष्यति महेश्वराः ॥५३॥ ततः शिवस्य शैवानि तीर्थानि संस्थितानि च । लक्ष्मीतीर्थं ततः पश्चात्ततः सरस्वतीकृतम् ॥५४॥ विष्णुकांच्चास्ततस्तीर्थं कौमार्याश्च ततः परम् । वाराह्यास्तीर्थमुख्यं तु तत ऐंद्र्याः प्रकीर्तितम् ॥५५॥ वैष्णव्याश्च ततस्तीर्थं माहेश्वर्यास्ततः परम् । ब्राह्मास्तीर्थं ततो रक्तदंतायाश्च प्रकीर्तितम् ॥५६॥ ततो वसिष्ठतीर्थं तु पौलस्त्यं तीर्थमुत्तमम् । ततश्चांगिरसस्तीर्थं कण्वतीर्थं ततः परम् ॥५७॥ जैमिनेस्तीर्थमुख्यं च ततो मेधातिथेः स्मृतम्। कार्तवीर्यस्य तीर्थं तु मांधातुश्च ततः परम् ॥५८॥ ययातेर्नहुषस्यैव ध्रुवस्य च ततः परम् । भरद्वाजस्य तीर्थं तु जमदग्नेस्ततः परम् ॥५९॥ गौतमस्य ततस्तीर्थं पांडवैश्च ततः कृतम् । ततो वरुणतीर्थं तु मरुतश्च ततः परम् ॥६०॥ पितृतीर्थं ततः प्रोक्तं गयातीर्थं ततः परम् । तत्रैव संस्थिता देवी गयागदाधरादिभिः ॥६१॥ उभयोस्तीरयोः सेवि नराणां ब्रह्मदायिनी । तत्र पिंडप्रदानेन ब्रह्मभूताः पितामहाः ॥६२॥ पितरश्च तथाऽन्ये वै भवंति क्षेत्रकारणात् । ऋणैः सर्वैर्विनिर्मुक्तः स वै गच्छेत्ततः परम् ॥६३॥ ततः परं मुनीनां तु तीर्थानि विविधानि च । कथयितुं न शक्यानि मया केनापि निश्चितम् ॥६४॥ भैरवाणां ततस्तीर्थं स्कंदस्य च ततः परम् । नागेशस्य ततः प्रोक्तं रुद्राणां च ततः परम् ॥६५॥ वसूनां स्थानसंयुक्तं तीर्थं प्रत्येकमेव च। पार्वत्याश्च ततः प्रोक्तं ततो धनपकस्य च ॥६६॥ साध्यानां तीर्थमुख्यं तु ततः शक्तेश्च तीर्थकम्। सीमाभूतं महेशानास्तटे दक्षिणगे परम् ॥६७॥ अधुनोत्तरगे तीरे व्यासतीर्थान् महेश्वराः। तीर्थानि संस्थितान्येव तान्यहं प्रवदामि तु ॥६८॥ व्यासतीर्थात् स्वयं ब्रह्मा प्रयाग- संयुतः स्थितः । तस्य तीर्थं महत्तत्र सर्वपापप्रणाशनम् ॥६९॥ कर्मतीर्थं ततः पश्चात्ततोऽग्रेस्तीर्थमुत्तमम् । द्वादशादित्यकानां च तीर्थानि च ततः परम् ॥७०॥ शिवकांच्चास्ततस्तीर्थं ततः सूर्यस्य तीर्थकम् । पूर्णस्य पूर्णभावाख्यं सर्वरोगनिकृंतनम् ॥७१॥ ततो ग्रहाणां तीर्थानि दिक्पालाश्चावशेषिताः । तेषां तीर्थानि देवेशा देवानां यक्षरक्षसाम् ॥७२॥ महाकाल्यास्ततस्तीर्थं नारसिंहास्ततः परम्। शाकंभर्यास्ततः प्रोक्तं चामुंडायास्ततः परम् ॥७३॥ त्रिपुरायास्तनस्तीर्थं ततस्तीर्थानि देवपाः। महामाया- युतानां वै शक्तीनां विविधानि च ॥७४॥ चतुःषष्टिमितानां च योगिनीनां मतानि वै। तीर्थानि योगादान्येव परदेहजकानि च ॥७५॥ ततश्च नैध्रुवं तीर्थं देवलस्य ततः परम् । मार्कंडेयस्य तीर्थं तु भैरवाणां ततः परम् ॥७६॥ कालभैरवतीर्थं तु ततः ऋतुमुखाः परम् । तेषां प्रजापतीनां तु तीर्थानि संस्थितानि तु ॥७७॥ ततो रैवतकं तीर्थं ततो योगमयं परम् । जडभरततीर्थं ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
खं. ६ अ. २७ पान ८३ च योगसिद्धिप्रदायकम् ॥७८॥ ओंकारगणनाथस्य ततस्तीर्थं प्रकीर्तितम् । विद्याधराणां तीर्थं च ततः पैशाचमोचनम् ॥७९॥ ततो धर्मस्य तीर्थं त्वश्विनोस्तीर्थं ततः परम् । नागानां शेषादीनां ततस्तीर्थशतानि च ॥८०॥ ततो गवां महातीर्थं सनकादेस्ततः परम् । चतुर्दश मनूनां च तीर्थानि च ततः परम् ॥८१॥ महाशक्तेस्ततस्तीर्थमसितस्य ततः परम् । दक्षादीनां च तीर्थानि ततो मातृगणाः स्मृताः ॥८२॥ तेषां तीर्थानि देवेशाः षष्टिर्दक्षस्य कन्यकाः । तासां तीर्थानि तत्पश्चाद्गंधर्वाणां ततः परम् ॥८३॥ गुह्यकानां तु तीर्थानि ततो बिभीषणस्य च । रावणस्य ततस्तीर्थं श्वेतकेतोस्ततः परम् ॥८४॥ उद्दालकस्य तीर्थं तु रक्षसां च ततः स्मृतम् । अष्टावक्रस्य तीर्थं तु वैश्वदेवं ततः परम् ॥८५॥ तीर्थानि चैव तेषां तु ततो दक्षस्य धीमतः । पुत्री संतान- कादीनां तीर्थानि विविधानि च ॥८६॥ मारीचमौद्गलादीनां विप्राणां च ततः परम् । तीर्थानि पांडवेशस्य तीर्थं दुर्वाससः परम् ॥८७॥ दत्तस्य तीर्थकं प्रोक्तं निदाघस्य ततः परम् । हनूमतस्ततस्तीर्थं सुग्रीवस्य ततः परम् ॥८८॥ तीर्थं जांबवतः प्रोक्तं बलेस्तीर्थं ततः परम् । ततश्च वालखिल्यानां गालवस्य ततः परम् ॥८९॥ विश्वामित्रस्य तीर्थं तु तीर्थं त्रिशिरसस्ततः । मृकंडस्य ततस्तीर्थं दधीचेश्च ततः परम् ॥९०॥ किंनराणां ततस्तीर्थं साध्यानां च ततः परम् । कामधेनुमुखीनां च गवां तीर्थं ततः परम् ॥९१॥ असितस्य ततस्तीर्थमिक्ष्वाकोश्च ततः परम् । गार्ग्याणां च ततस्तीर्थं मांडूकानां ततः परम् ॥९२॥ धौम्यस्य चैव वाल्मीकेस्ततस्तीर्थं च जैमिनेः । वाचक्रवेस्ततस्तीर्थं ततो मंकणकस्य च ॥९३॥ प्रह्लादस्य ततस्तीर्थं दधीचेश्च ततः परम् । उपमन्योस्ततस्तीर्थं वैशंपायनकस्य च ॥९४॥ जाजलेः पर्वतस्यैव पैलस्य च ततः परम् । लोमशस्य विभांडस्य ऋष्यशृंगस्य ततः परम् ॥९५॥ ततो मुनिगणानां च तीर्थानि विविधानि तु । अश्वत्थाम्नस्ततस्तीर्थं कृपस्य च ततः परम् ॥९६॥ ततो वराहतीर्थं तु भूम्यास्तीर्थं ततः परम् । प्रकृतेः पुरुषस्यैका महामाया प्रकीर्तिता ॥९७॥ तस्यास्तीर्थं समाख्यातं सीमासंस्थं महेश्वराः । एतानि तीर्थमुख्यानि कथितानि समासतः ॥९८॥ स्वस्वमुख्यदिनेष्वेव सेवनीयानि मानवैः । मयूरवासिभिः स्वस्वसिद्धिदानि भवंति हि ॥९९॥ मयूरेऽपारतीर्थानि तेषां मानं वदाम्यहम् । अंगुष्ठपर्वमात्राणि तीर्थानि तीर्थसेविनाम् ॥१००॥ यवमात्रस्वरूपेण संस्थितास्तीर्थसेविनः । त्रैलोक्ये यानि तीर्थानि नानाभेदधराणि च ॥१॥ मयूरे तानि सर्वाणि संस्थितानि विशेषतः । अणुमात्रस्वरूपैस्तु ज्ञातव्यानि मनीषिभिः ॥२॥ मयूरे यानि तीर्थानि न गच्छंति तु
पान ८४
कुत्रचित् । स्वस्वस्थानं समाश्रित्य सेवंते द्विरदाननम् ॥३॥ गणेशक्षेत्रभूतेषु देवास्तीर्थसमन्विताः । संस्थितास्ते तु गच्छंति मयूरे दर्शनार्थिनः ॥४॥ एतत् संक्षेपतः प्रोक्तं तीर्थानां तु चरित्रकम् । श्रवणात् पठनात् नृभ्यो भुक्तिमुक्तिप्रदं भवेत् ॥१०५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते ब्रह्मकमंडलुस्यतीर्थवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ देवेशा ऊचुः । एतेषु तीर्थमुख्येषु के के सिद्धिं समाययुः । तेषां समासतः स्वामिंश्चरित्रं वद सौख्यदम् ॥१॥ भृशुंडयुवाच । गच्छध्वं देवदेवेशा मयूरेशं मदाज्ञया । तत्र सिद्धा भविष्यंतः सर्वं ज्ञास्यथ सिद्धिदम् ॥२॥ स्कांदे विस्तरतः सर्वं प्रोक्तं चैव न संशयः । समासतः समाख्यातं मया क्षेत्रचरित्रकम् ॥३॥ देवेशा ऊचुः । नित्ययात्रां वद स्वामिंस्तथा क्षेत्र- प्रदक्षिणाम् । यात्रामन्यनराणां तु सर्वसिद्धिप्रदां वद ॥४॥ पापयुक्तः स्वभावेन मयूरे संस्थितोऽभवत् । चकार नगराद्वाह्यं कथं तं नग्नभैरवः ॥५॥ संस्कारेण समायुक्तं गाणपत्यं तथा प्रभुः । कथं स मानयत् क्षेत्रे तद्वदस्व समासतः ॥६॥ भृशुंडयुवाच । बंगाले ब्राह्मणः कश्चिद्गाणपत्यपरायणः । विश्वामित्रकुले जातो नाम्ना शंभुर्महायशाः ॥७॥ हृदि तस्य समाश्रित्य नग्नो भैरवनायकः । बुद्धिभेदं चकाराऽसौ तेन संव्यथितो द्विजः ॥८॥ मयूरेशं तु द्रक्ष्यामि कदाऽहं देहधारकः । क्षणभंगुरदेहस्थः किं करोमि त्वरायुतः ॥९॥ ततः सपुत्रदारादिसंयुक्तो निःसृतो गृहात् । भिक्षाशनश्च देवेशा द्रव्यहीनतयाऽभवत् ॥१०॥ द्वाभ्यां समागतः सोऽपि मासाभ्यां लंघ्य मार्गक्रम् । गणेशतीर्थगो विप्रो ननंद हर्षयन् स्वकान् ॥११॥ मयूरेशं प्रपूज्यादौ यात्रां कृत्वा विधानवित् । क्षेत्रसंन्यासभावेनाऽभजत्तं द्विरदाननम् ॥१२॥ अंते स्वानंदगो भूत्वा भजते गणनायकम् । हृदि प्रभुः समाश्रित्य नरमेवं समानयत् ॥१३॥ अथ पापपरा ये च तेषां वदामि देवपाः । क्षेत्रत्यागभवं चित्रं चरित्रं शृणुत प्रियाः ॥१४॥ मयूरे ब्राह्मणः कश्चिद्वासिष्ठे जनितोऽभवत् । जन्मारभ्य महापापी पापनिष्ठो बभूव ह ॥१५॥ न वेदाध्ययनं चक्रे बाल्ये चौर्यपरोऽभवत् । यौवने मद्यमांसादि सिषेवे स परस्त्रियम् ॥१६॥ तस्य बुद्धिविभेदं स चकार नग्नभैरवः । परस्त्रियं समागृह्य विदर्भे प्रययौ खलः ॥१७॥ एवं नानाविधं देवो नग्नो भैरवनायकः । चकार चाधिपत्यं स मयूरे
दंडधारकः ॥१८॥ अन्यच्च कथयिष्यामि चरित्रं पापकारिणाम् । मयूरे ये मतिं कृत्वा न प्रापुस्तं मयूरकम् ॥१९॥ द्राविडे वैश्यजातिस्था बभूवुः पापकारकाः । विषादिना जनान् जघ्नुर्द्रव्ययुक्तान्निरंतरम् ॥२०॥ शंभुश्च सोमकः कुब्जः कंबलश्चैव मित्रकाः । चत्वारो मद्यमांसादिवभक्षुर्नित्यमादरात् ॥२१॥ परस्त्रीलालसाः सर्वे शिश्नोदरपरायणाः । न चक्रुः पुण्यलेशं ते न स्वधर्मादिकं कदा ॥२२॥ तत्रैव नगरे कश्चिद्वैश्यः श्यामलसंज्ञितः । द्रव्ययुक्तो महापापी ममार दैवयोगतः ॥२३॥ श्यालकस्तस्य तत्रस्थः स्वधर्मस्थो बभूव ह । नाम्ना शंकर आख्यातः पुण्यकर्मपरायणः ॥२४॥ तेनास्थिसंचयस्तस्य कृत उद्धारकारणात् । गते मासे महापापा वैश्याश्चत्वार एव ये ॥२५॥ दंडकारण्यदेशे तु जग्मुर्विक्रयकारणात् । श्यामलास्थि ददौ तेभ्यः शंकरो विनयान्वितः ॥२६॥ जगाद तान् महाभागो मयूरेऽस्थि प्रगृह्य तु । त्यज्यतां गणनाथास्य तीर्थे ब्रह्मसुखप्रदे ॥२७॥ तथेति गृह्य तस्यास्थि समाजग्मुर्मयूरकम् । तत्र विघ्नं चकाराऽसौ नग्नो भैरवनायकः ॥२८॥ चौरैस्तेषां हृतं सर्वं गतस्तत्रास्थिसंचयः । ते पुनः स्वगृहं जग्मुः किंचिद् द्रव्ययुताः खलाः ॥२९॥ मयूरेशस्य चक्रुर्न यात्रां पापपरायणाः । निश्चितामपि देवेशा बुद्धिभेदबलाश्रयात् ॥३०॥ एवं महाबलः सोऽपि भैरवो हृदि संस्थितः । गणेशाज्ञावशो भूत्वा रक्षति क्षेत्रमुत्तमम् ॥३१॥ एतद्भैरवनाथस्य चरित्रं यः शृणोति चेत् । तस्य सर्वं मयूरे तु शुभरूपं भविष्यति ॥३२॥ देवेशा ऊचुः । एतादृशो महाभागो नग्नो भैरवनायकः । स्तोत्रं तस्य वद स्वामिन् संस्तुमस्तं निरंतरम् ॥३३॥ बुद्धिभेदात् स नः क्रुद्धः करिष्यति विशेषतः । क्षेत्रप्रवेशहीनांश्चेदतस्तं सेवयामहे ॥३४॥ भृशुंड्युवाच । सर्वमायाविहीनाय सर्वमायाप्रचालक । सर्वान्तर्यामिणे नित्यं नग्नभैरव ते नमः ॥३५॥ मयूरेशपरायैव मयूरपुरपालक । धर्मिष्ठानां सुपालाय नग्नभैरव ते नमः ॥३६॥ अधर्मनिरतांश्चैव बहिःकाराय देवप । सदा स्वानंदनिष्ठाय नग्नभैरव ते नमः ॥३७॥ संस्कारयुक्तभावेन पापकर्मपरात्मनाम् । मयूरे दंडकर्त्रे वै नग्नभैरव ते नमः ॥३८॥ महाबलधरायैव ब्रह्मादीनां प्रचालक । अमेयशक्तये देव नग्नभैरव ते नमः ॥३९॥ भुक्तिमुक्तिप्रदात्रे च धनधान्यविवर्धन । गाणेशानां प्रपालाय नग्नभैरव ते नमः ॥४०॥ प्रलये शूलमुद्यम्य ब्रह्माण्डभयकारक । शूलप्रोतमहांडाय नग्नभैरव ते नमः ॥४१॥ अट्टहासेन देवेंद्रांस्तथा संत्रास्य चासुरान् । नृत्यसे गणनाथाग्रे नग्नभैरव ते नमः ॥४२॥ विश्वं ततं सर्वमिदं त्वयेश आद्यंतमध्येषु महानुभाव । संरक्ष देवेश मयूरसंस्थानस्मान् कुरुष्व त्वमनन्य- भावान् ॥४३॥ शूलिन्नमस्तेऽखिलकारणाय त्वद्गीतिभावेन जगतप्रवृत्तिः । व्यापारयुक्तं विविधेषु नित्यं स्वस्वप्रकार्यं प्रकरोति
[Header] खं. ६ अ. २९ पान ८६ [Border]
चात्मन् ॥४४॥ अतस्त्वदाधारमयं परेश सुरक्ष ते भक्तियुतं कुरुष्व । गणेशक्षेत्रं त्वदधीनगं तु गणेशसंस्थं कुरु ते नमो वै ॥४५॥ इदं स्तोत्रं महेशाना नग्नभैरवकस्य च । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्रलभेच्छुभम् ॥४६॥ धनधान्यादिकं सर्वं भुक्तिमुक्तिसमन्वितम् । लभेदनेन देवेशास्तुविधवं नग्नभैरवम् ॥४७॥ मयूरक्षेत्रत्यागश्च कदापि न भवेन्नृणाम् । स्तोत्रेण स्तुवतां नित्यं न किंचिद् दुर्लभं भवेत् ॥४८॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते नग्नभैरवप्रशंसा नामाष्टाविंशतितमोऽध्यायः ॥
[Decorative Divider]
॥ श्रीगणेशाय नमः॥ भृशुंड्युवाच । द्वारयात्रा समाख्याता सैव क्षेत्रप्रदक्षिणा । ज्ञातव्या देवदेवेशाः कुरुध्वं यत्नसंयुताः ॥१॥ पुण्यकर्म नरः कुर्यात्तदा पापानि मानवम् । छलयंति विशेषेण तस्माद्यत्नपरो भवेत् ॥२॥ नित्ययात्रां प्रवक्ष्यामि मयूरक्षेत्र- वासिनाम् । अन्येषां सर्वदां पूर्णां शृणुध्वं सुसमाहिताः ॥३॥ मयूरेशं समभ्यर्च्य परिवारसमन्वितम् । ततोऽष्टगणपान् क्षेत्रं कुंडं नदीं प्रपूजयेत् ॥४॥ शमीं मंदारकं दूर्वां चतुर्थीं च ततः परम् । मुद्गलं शुकयोगीशं ततो मंडपगो भवेत् ॥५॥ चतुर्देवांश्च पूर्वाविक्रमतः संस्थितो नरः । तत्र धर्मादिकान् श्रुत्वा यथावकाशमानतः ॥६॥ पुनर्गणेश्वरं नत्वा गच्छेत् स्वगृहकं ततः । एवं कुर्यान्नित्ययात्रां स गणेशप्रियो भवेत् ॥७॥ नित्ययात्रां नरो यस्तु न कुर्याद्यदि देवपाः । क्षेत्रवासफलं तस्य न भवेत् पूर्णमंजसा ॥८॥ यातनां स लभेदंते संपूर्णां भैरवीं पराम् । अतो यात्रां समाकुर्यात् क्षेत्रस्थो नियमेन तु ॥९॥ अधुना गणप्रीत्यै यात्रामन्यां वदाम्यहम् । संपूर्णभक्तिदात्रीं च गाणेशीं गणप्रियाः ॥१०॥ गर्भागारे चतुर्दिक्षु स्थिता विघ्नेश्वराः पराः । षट्पंचाशच्च ते तेषु मुख्याः पूज्या विशेषतः ॥११॥ दिक्पालानां महास्त्राणि तेभ्यः पंच धनुः पुरः । सर्वत्र संस्थिताः सर्वे गणेशा गणपे रताः ॥१२॥ चतुर्दशप्रमाणेन प्रत्येकं दिक्षु संस्थितान् । गणपान् पूजयेद्यस्तु गाणपत्यो भवेन्नरः ॥१३॥ बल्लाळः कपिलो ढुंढिर्वक्रतुंडो महोदरः । हेरंबो गणनाथस्तु विघ्नेशो विघ्नहारकः ॥१४॥ भालचंद्रः शूर्पकर्णो ज्येष्ठराजो गजाननः । महोत्कटश्च देवेशा अभवन् पूर्वदिक् स्थिताः ॥१५॥ एकैकस्मात् क्रमेणैव [Border]
खं. ६ अ. २९ | पान ८७
धनुषां पंचविंशतिम् । दूरे संस्था गणेशाना ज्ञातव्या भक्तिकारिभिः ॥१६॥ तस्माद् द्विगुणमानेन दक्षिणे संस्थिताः पराः । तस्माच्चतुर्गुणेनैव पश्चिमे गणपा बभुः ॥ १७ ॥ तस्मात् पादविहीनेन गणपा उत्तरे भवन् । एवं क्रमेण पूज्यास्ते सर्व- सिद्धिप्रदायकाः ॥१८॥ अथ दक्षिणसंस्थांस्तु कथयामि गणेश्वरान् । ज्ञानेशः कर्मपश्चैव योगेशः सिद्धिविघ्नपः ॥१९॥ चिंतामणिश्च बुद्धीशो महागणपतिस्तथा । पूर्णानंदश्च लक्ष्येशः सहजेशैकदंतकौ ॥२०॥ लंबोदरो धूम्रवर्णस्तथा क्षिप्र- प्रसादनः । एते दक्षिणगाः प्रोक्ता गर्भागारे महेश्वराः ॥२१॥ विनायकश्च विकट आशापूरक संज्ञितः । धूम्रकेतुः प्रमोदश्च मोदः सुमुखदुर्मुखौ ॥२२॥ पाशपाणिः परेशश्च लाभेशो धरणीधरः । मंगलेशश्च मूषकध्वज एते प्रकीर्तिताः ॥२३॥ पश्चिमे देवदेवेशाः पूजनीया विधानतः । अथोत्तरगतान् वक्ष्ये गणेशान् भक्तपालकान् ॥२४॥ मयूरध्वजसंज्ञश्च राजेशो विद्रुमेश्वरः । ओंकारेशो गुणेशश्च वरदः सिद्धिवृद्धिपः ॥२५॥ गणेशश्च चतुर्बाहुस्त्रिनेत्रो गजमस्तकः । निधिपो गजकर्णश्च चिंतामणिविभूषणः ॥२६॥ एते गणेश्वराः प्रोक्ताः पूजनीया महेश्वराः । यात्राकारिण एवैते ददति स्वेप्सितं फलम् ॥२७॥ अथ देवालये देवाः स्थितां यात्रां वदाम्यहम् । मुख्यां सर्वार्थदां पूर्णां यात्राकारिजनस्य च ॥२८॥ अयोध्या मथुरा चैव द्वारका पूर्वमंदिरे । महाविष्णुस्ततो देवाः पूजनीयो विशेषतः ॥२९॥ काशी माया ह्यवंती च शिवः कैलासगस्ततः । गौरी स्कंदो जनैः पूज्या दक्षिणे मुख्यभावतः ॥३०॥ महाकाली महालक्ष्मीर्महासरस्वती परा । आदिशक्तिर्जनैः पूज्या पश्चिमे विष्णुकांचिका ॥३१॥ विधाताग्निः कर्मजडभरतोऽथ दिवाकरः । शिवकांची जनैः पूज्या उत्तरे देवमंदिरे ॥ ३२ ॥ देवागारस्य देवेशा रहस्यं संप्रकाशितम् । यात्रां कुर्यान्नरस्तेषां सर्वसिद्धिप्रदा भवेत् ॥३३॥ अथो मयूरसंस्थानां रहस्यं कथयाम्यहम् । पुलहं च भृगुं देवाः क्रतुं संपूजयेन्नरः ॥३४॥ पूर्वभागे तथा याम्ये वसिष्ठात्री पुलस्त्यकम् । पश्चिमे दक्षमवेवं तु मरीचांगिरसौ तथा ॥३५॥ उत्तरे वसवोऽष्टौ च कामधेनुश्च देवलः । असितः पूजनी- यास्ते जनैः सर्वार्थसिद्धये ॥३६॥ एतद्यात्राविधानं तु संक्षेपेण निरूपितम् । सर्वसिद्धिप्रदं देवा जनेभ्यो यात्रया भवेत् ॥३७॥ गच्छध्वं तत्र देवेशा मयूरे भक्तिसंयुताः । भजिष्यथ गणेशानं ततः सर्वमवाप्स्यथ ॥३८॥ आदिशक्तिरुवाच । एवमुक्त्वा महायोगी भ्रशुंडी विरराम ह । तस्मादेकाक्षरं गृह्य विधियुक्तं महामनुम् ॥३९॥ प्रणम्यापूज्य योगीशं ततः कृत्वा प्रदक्षिणम् । ययुर्हर्षयुताः सर्वे देवेंद्राः पंच मुख्यकाः ॥४०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते भ्रशुंडिदेवेंद्रसंवादसमाप्तिवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः ॥
खं. ६ अ. ३० | पान ८८ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । ततो भ्रांता महेशान! ददृशुर्न मयूरकम् । स्वानंदस्वरूपं ब्रह्म सस्मरुर्गणनायकम् ॥१॥ भ्रूशुंडिनं हृदि ध्यात्वा पुपूजुर्गणपप्रियम् । ततो गणेश्वरं पूज्य प्रार्थयामासुरादरात् ॥२॥ देवेशा ऊचुः । मयूरं दर्शयस्वाद्य न जानीमो वयं परम् । अज्ञानावरणैर्युक्तान् रक्ष नस्ते पदार्थिनः ॥३॥ अकस्माद् वेदमुख्याश्च बभुः सांगाः समागताः । गणेश- श्वाससंभूता देवेशान् ज्ञानदायिनः ॥४॥ तान् दृष्ट्वा तेजसां पुंजयुक्तांस्ते देवसत्तमाः । प्रणम्य वेदान् पप्रच्छुः के यूयं वदत प्रियाः ॥५॥ अज्ञानावरणैर्युक्ता गणेशस्मरणे रताः । वयं तत्र भवन्तोऽपि प्रेषिता गणपेन किम् ॥६॥ वेदा ऊचुः । वेदा वयं महेशानाः सांगा अत्र समागताः । किमर्थं दुःखसंयुक्ता भवंतो वदत प्रियाः ॥७॥ ततः सर्वं जगुर्देवा वृत्तांतं पूर्वसंभवम् । तच्छ्रुत्वा वेदमुख्यास्तान् मयूरं तददर्शयन् ॥८॥ ततो ब्रह्ममयं क्षेत्रं दृष्ट्वा ज्योतिर्मयं परम् । प्रणेमुस्ते ततः सर्वे प्रवेशं चक्रुरादरात् ॥९॥ विधियुक्तं प्रचक्रुस्ते देवेशा वेदसंयुताः । ततो वेदाज्ञया हृष्टाः स्थापयंति स्म मूर्तिकाम् ॥१०॥ संपूज्य ध्याननिष्ठास्ते जेपुर्मंत्रं विधानतः । निराहारेण विघ्नेशं तोषयंति स्म देवपाः ॥११॥ यस्मिन् काले च देवेशैः स्थापिता मूर्तिरुत्तमा । भाद्रशुक्लचतुर्थी सा तदा माध्याह्नगाऽभवत् ॥१२॥ सोमवासरसंयोगः स्वातीनक्षत्रकं महत् । दैवयोगेन कालश्च संप्राप्तः शक्तयः परः ॥१३॥ शक्तय ऊचुः । सृष्टिहीनं तदा देवि कथं मासादिकं बभौ । एतत् कुतूहलं ब्रूहि संशय- च्छेदनाय नः ॥१४॥ आदिशक्तिरुवाच । दृश्यभावात्मकः कालो नश्यति स्म युगे युगे । सदैव ब्रह्मणि सर्वं ब्रह्माकारं प्रवर्तते ॥१५॥ कालमानेन विघ्नेशो योगनिद्रापरोऽभवत् । तथा निद्राविहीनः स चकार सृष्टिमुत्तमाम् ॥१६॥ ब्रह्मणि ब्रह्मरूपः स कालस्तत्र समास्थितः । अज्ञानेन जनानां चेत्तस्य संसेवनं भवेत् ॥१७॥ तेन सिद्धियुताः सर्वे भवंति स्म न संशयः । ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् ॥१८॥ माघे शुक्लचतुर्थ्यां स गणेशो वरदोऽभवत् । अंगारकयुतायां तु मूर्तिमध्याद्विनिर्ययौ ॥१९॥ दृष्ट्वा चतुर्भुजं ढुंढिं मयूरोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं भालचंद्रं महोदरम् ॥२०॥ त्रिनेत्रं शेषनाभिं च चिंतामणिधरं परम् । शूर्पकर्णं गजास्यं च एकदंतविराजितम् ॥२१॥ पाशांकुशरदैर्युक्तमभयं दधतं प्रभुम् । भूषणैर्भूषितं वस्त्रै राजितं ददृशुः परम् ॥२२॥ तत उत्थाय देवेशा मया युक्ताः प्रणम्य तम् । पुपूजुस्तुष्टुवुश्चैव प्रहृष्टमनसोऽभवन् ॥२३॥ ब्रह्माद्या ऊचुः । अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् । मनोवचोहीनमनोवचःस्थं नमामहे तं गणनायमीड्यम् ॥२४॥ अजं पुराणं सकलादिपूज्यं परेशमानंदप्रदं हृदिस्थम् । चतुःप्रचालं परमार्थभूतं नमामहे
[खं. ६ अ. २०] [पान ८९]
तं गणनाथमीड्यम् ॥२५॥ जगत् खकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् । विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥२६॥ तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं स्वधीस्थम् । अयोगरूपेण निवृत्तिसंस्थं नमामहे तं गणनाथमीड्यम् ॥२७॥ प्रभुं स्वभक्तस्य सुशांतिकारं सुशांतिगं यं गजवक्त्रधारम् । चतुर्भुजं ह्येकरदं त्रिनेत्रं नमामहे तं गणनाथमीड्यम् ॥२८॥ महोदरं पाशधरं सुसिद्धिप्रदं विभुं बीजममोघवीर्यम् । परात्परं शूर्पश्रुतिं गणेशं नमामहे तं गणनाथमीड्यम् ॥२९॥ नमस्ते सृष्टिकर्त्रे ते ब्रह्मणे पालकाय च । विष्णवे शंभवे तुभ्यं संहर्त्रे वै नमो नमः ॥३०॥ अनाथानां प्रणाथाय शक्तये मोहधारिणे । कर्मणे भानवे चैव हेरंबाय नमो नमः ॥३१॥ मयूरेशाय देवाय मयूरध्वजधारिणे । विघ्नेशाय महाविघ्नचालकाय नमो नमः ॥३२॥ किं स्तुमस्त्वां गणेशान ब्रह्मण्यं ब्रह्मरूपिणम् । यत्र देवादयः शांतिं गच्छंति स्म निरंतरम् ॥३३॥ अतो नमामहे नाथ तेन तुष्टो भवस्व च । भक्तान् रक्ष महाभक्तिप्रिय विघ्नेश आदरात् ॥३४॥ एवमुक्त्वा प्रणेमुस्ते गणेशं भक्तिसंयुताः । साश्रुनेत्राः सरोमांचास्तानुत्थाप्य जगाद सः ॥३५॥ श्रीगणेश उवाच । भवत्कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । पठतां शृण्वतां देवा सर्वं दास्यामि वाञ्छितम् ॥३६॥ वरं ब्रूत विशेषेण दास्यामि मनसी- प् सितम् । तपसा स्थापनेनैव ह्यहं स्तोत्रेण तोषितः ॥३७॥ देवेशा ऊचुः । यदि विघ्नेश संतुष्टो वरं दास्यसि वाञ्छितम् । तदा ते पादपद्मे नो भक्तिरस्तु निरंतरम् ॥३८॥ अन्यच्चास्माभिरानंदात् करणीयं किमप्यहो । कार्यं ब्रूहि गणाधीश करिष्यामो जपान्विताः ॥३९॥ श्रीगणेश उवाच । चतुर्मुख रजोयुक्तः सृष्टिं कुरु मदाज्ञया । ब्रह्मा नाम्ना भवस्व त्वं मां स्मृत्वाऽहं- विवर्जितः ॥४०॥ विष्णुश्चतुर्भुजः सत्वयुक्तोऽसि कुरु पालनम् । नानावतारभृन्नित्यं मां स्मृत्वा सिद्धिमेष्यसि ॥४१॥ तमोयुक्तः पंचमुख तेन त्वं संहरस्व च । मां स्मृत्वा बंधहीनश्च भविष्यसि हरो भव ॥४२॥ चतुर्भुजे क्रियायुक्ता त्वं ततो मोहयस्व च । नानाभेदविभागेन मां स्मृत्वा सिद्धिमेष्यसि ॥४३॥ नाम्ना शक्तिर्भवस्व त्वं सर्वशक्तियुतेऽनघे । सहस्रकर- सूर्यस्त्वं भव नाम्ना महामते ॥४४॥ कर्माधारस्वरूपेण धारयस्व चराचरम् । मां स्मृत्वा बंधहीनोऽपि भविष्यसि न संशयः ॥४५॥ एवमुक्त्वा गणाधीशो ददौ तेभ्यो विशेषतः । संकल्पसिद्धिदं देव्यः सामर्थ्यं विविधं तथा ॥४६॥ शक्तयो नगराण्येवायुधानि वहनादिकम् । निर्मायाऽंतर्दधे सद्यो मूर्तिसंस्थो बभूव ह ॥४७॥ देवाः स्वस्वपदे गत्वा चक्रुः सर्वं जगत्ततः । चराचरं यथाभागमाश्रित्य किल रेमिरे ॥४८॥ तत्र ये मुख्यरूपाश्च प्रजापतिमुखोद्भवाः । अप्रेषयन् महेशास्तान् मयूरेश-
[Header] खं. ६ अ. ३० | पान ९०
हिताय च ॥४९॥ ते गणेशं समाराध्य मयूरे वरसंयुताः । स्वस्वव्यापारसंयुक्ता बभूवुः स्वपदे रताः ॥५०॥ एवं क्रमेण सर्वे तु चराचरमया सुखाः । मयूरेशं समाराध्य सत्तायुक्ता बभूविरे ॥५१॥ ततः सर्वांशभावेन मयूरेशं निषेविरे । क्षेत्रवासपरा देव्यः कथितं सर्वमंजसा ॥५२॥ शंकरेण तपस्तप्तं पुनस्तत्र मयूरके । गणेशवरदानेन महादेवो बभूव ह ॥५३॥ इदं मयूर- क्षेत्रस्य माहात्म्यं कथितं मया । संक्षेपेण महादेव्यः सर्वसिद्धिप्रदायकम् ॥५४॥ शृणुयाद्यो नरो भक्त्या श्रावयेद्यः पठेत्तथा । धर्मार्थकाममोक्षांश्च भुक्त्वा ब्रह्ममयो भवेत् ॥५५॥ नानेन सदृशं किंचित् पावनं त्रिषु वर्तते । वेदशास्त्रपुराणेषु सारात् सारतमं मतम् ॥५६॥ पुत्रपौत्रयुतश्चात्र धनधान्यसमन्वितः । सुहृद्भिः संयुतः सोऽपि मोदते सुखदायकः ॥५७॥ अंते स्वानंदवासी तु भूत्वा ब्रह्ममयो भवेत् । अस्य श्रवणमात्रेण नरः सर्वमवाप्नुयात् ॥५८॥ अपुत्रो यो लभेत् पुत्रान् गुणयुक्तांस्तु शक्तयः । मयूरस्यैव श्रवणात् दुर्लभं न भविष्यति ॥५९॥ व्रतानि सर्वभावेन यः करोति नरोत्तमः । तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥६०॥ तीर्थानि क्षेत्रमुख्यानि सेवंते धर्मसंयुताः । तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥६१॥ दानानि सर्वयज्ञांश्च यः करोति विधानतः । तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥६२॥ वेदशास्त्रपुराणानि श्रुत्वा यत् प्राप्नुयात् फलम् । तस्माच्छताधिकं पुण्यमस्य श्रवणतो लभेत् ॥६३॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं परम् । किंचित् साधनकं प्रोक्तं सत्यं सत्यं वदाम्यहम् ॥६४॥ यत्र ब्रह्मपतिः साक्षात् क्षेत्रं स्वानंदवाचकम् । कमंडलुर्नदी तस्य साम्यं किं भवतीत्यहो ॥६५॥ ब्रह्मभूयकरं प्रोक्तं वेदादिषु इदं किल । तेन किं शक्तयः कुत्र समतां लभते परम् ॥६६॥ नित्यं भक्तियुतो जंतुर्माहात्म्यं यः पठिष्यति । स गणेशो न संदेहो दर्शनाद् दुःखहारकः ॥६७॥ अथवा शुक्लकृष्णायां चतुर्थ्यां नियतः पठेत् । सोऽपि दर्शनमात्रेण पवित्रान् कुरुते नरान् ॥६८॥ संस्कारहीनभावेन नरो नेदं कदाचन । शृणुयाच्च पठेद्वाऽपि सदा पापैः स वंचितः ॥६९॥ नहि श्रावयितव्यं तद् भक्तिहीनाय विद्विषे । शठाय पापयुक्ताय पाखंडनिरताय च ॥७०॥ यदि विघ्नेश्वरं सर्वे भावयुक्ता भजंति चेत् । तदा जन्मधराः के वै भवंते विघ्नसंयुताः ॥७१॥ अतः पात्रं प्रहृश्य श्रावयितव्यं विशेषतः । भक्तियुक्तः स निंदां तु न करिष्यति सेवितुम् ॥७२॥ सर्वसारं मया प्रोक्तं देव्यः सर्वपदं परम् । तत्र गत्वा गणेशानं सेवध्वं भक्तिसंयुताः ॥७३॥ देहधारणकस्यैव सार्थकं वस्तदा भवेत् । नो चेत् पतिततुल्यश्च देहो वश्च न संशयः ॥७४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते मयूरेशक्षेत्रमाहात्म्यसमाप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यंतरण दिया गया है:
॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो भाग्यबलेनैव संश्रुतं जगदंबिके । मयूरक्षेत्रमाहात्म्यं सर्वसिद्धिप्रदायकम् ॥१॥ अधुना वद देवेशि मुद्गलेनोपदेशिताः । शिवायाः किं समाचक्रुः कामासुरभयार्दिताः ॥२॥ आदिशक्तिरुवाच । गते मुनौ महाभागे मुद्गले योगिनां गुरौ । तं प्रणम्य शिवायास्ते ययुः क्षेत्रं मयूरकम् ॥३॥ यथाशास्त्रं विधानेन यात्रां चक्रुः सुरर्षयः । ततस्तपोयुताः सर्वे गणेशमभजन् पुरा ॥४॥ एकाक्षरविधानेनातोषयंस्ते विनायकम् । ततस्तान् वरदो ढुंढि- वेषेणैव समाययौ ॥५॥ मयूरोपरिसंस्थं तं दृष्ट्वा विघ्नेश्वरं पुरः । देवर्षयः समुत्थाय प्रणेमुर्हर्षसंयुताः ॥६॥ प्रणम्य परया भक्त्या पुपूजुर्विघ्नपं पुनः । तुष्टुवुर्विष्णुमुख्यास्तं कृतांजलिपुटाऽमराः ॥७॥ देवर्षय ऊचुः । नमस्तेऽस्तु मयूरेश सर्वसिद्धि- प्रदायक । ज्ञानदात्रे स्वभक्तेभ्यः पालकाय नमो नमः ॥८॥ स्वानंदवासिने तुभ्यं परात्परतराय च । ढुंढिराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥९॥ अनादये च सर्वेषां पूज्याय परमात्मने । अनंताननधारायानंतरूपाय ते नमः ॥१०॥ सिद्धि- बुद्धिप्रदात्रे ते सिद्धिवुद्धिवराय च । ज्येष्ठराजाय ज्येष्ठेभ्यो वरदाय नमो नमः ॥११॥ त्रिनेत्राय चतुर्बाहुधराय कंजपाणये । महोदराय सर्पेशानाभये ते नमो नमः ॥१२॥ मायाश्रयाय मायायाश्चालकाय विलासिने । ब्रह्मणां ब्रह्मरूपाय गणेशाय नमो नमः ॥१३॥ एकदंताय सर्वादिपूज्याय सर्वमूर्तये । शूर्पकर्णाय योगाय शांतिदाय नमो नमः ॥१४॥ पूर्वांगे विष्णु- रूपाय दक्षिणे शंकरात्मने । पश्चिमे शक्तिदेहायोत्तरे ते भानवे नमः ॥१५॥ किं स्तुवीमो मयूरेशं यत्र वेदाश्च योगिनः । शांतिं प्राप्ता विशेषेण देवदेवेश ते नमः ॥१६॥ चित्तं पंचविधं देव तत्र माया भ्रमात्मिका । चित्रा मयूरसंज्ञा च नमस्तत् स्वामिने नमः ॥१७॥ माया मयूरवाच्या तु तत्र खेलकरो भवान् । मयूरेश इति ख्यातः साक्षाद् दृष्टो न संशयः ॥१८॥ जन्म धन्यं वयो विद्या तपो ज्ञानादिकं परम् । तवांधिदर्शनान्नाथ कृतकृत्या भवामहे ॥१९॥ एवं तं ननृतुः स्तुत्वा भक्त्या साश्रुविलोचनाः । सरोमांचा मयूरेश जयेति ह्यब्रुवन् प्रभुम् ॥२०॥ जगाद गणनांथश्च ततस्तान् भक्तिभावितः । वरान् वृणुत दास्यामि देवेशा भक्तियंत्रितः ॥२१॥ भवद्भैर्यत् कृतं स्तोत्रं मदीयं सर्वसिद्धिदम् । भविष्यति सदा भक्तिदायकं पठते परम् ॥२२॥ यं यमिच्छति तं तं तु दास्यामि हर्षसंयुतः । पठेद्वा शृणुयाच्चेद्वा मत्प्रियः स नरो भवेत् ॥२३॥ देवेशाद्या ऊचुः । प्रसन्नोऽसि गणाध्यक्ष तदा भक्तिं त्वदीयिकाम् । देहि कामासुरं नाथ जहि सर्वभयं- करम् ॥२४॥ स्थानभ्रष्टाः सुरश्रेष्ठाः कर्मभ्रष्टा मुनीश्वराः । कृतास्तेनासुरेणैवातस्तं जहि गजानन ॥२५॥ तथेति गणनाथा-
स्तानुक्त्वाऽन्तर्धानमाकरोत् । देवा हर्षयुताः सर्वे जग्मुर्गिरिगुहांतरे ॥२६॥ गणेशं भजमानास्ते मुनयो देवनायकाः । कालाकांक्षिण आनंदाद्बभूवुः शक्तिमुख्यकाः ॥२७॥ अथ कामासुरः क्वापि सभायां संस्थितोऽभवत् । तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥२८॥ देवैः संप्राथितं ब्रह्म मयूरेश्वरसंज्ञितम् । हत्वा त्वामखिलं विश्वं सुखयुक्तं करि- ष्यति ॥२९॥ ततो मुमूर्च्छ तस्मात् स कामासुरो भयातुरः । श्रुत्वा वाचं महाक्रूरां दैत्येशास्तं समाययुः ॥३०॥ महा- यत्नेन दैत्येशाः सावधानं महासुरम् । चक्रुः स तानुवाचेदं वचनं खसमुद्भवम् ॥३१॥ तच्छ्रुत्वा क्रोधसंयुक्ता दैत्येशास्त- मथाऽब्रुवन् । देवाः शत्रव आद्याश्चास्माकं नित्यं श्रुतेर्मुखात् ॥३२॥ अस्माभिः कथितं स्वामिन् जहि देवान् महामते । मुक्तेस्त्वया सुरेशानैस्तैरिदं दारुणं कृतम् ॥३३॥ उत्पत्तिस्थितिसंहारकारकेभ्यो महाप्रभो । तद्भवेभ्यो भयं ते न किं करिष्यति देवपः ॥३४॥ आज्ञापय महाभागास्मान् देवहननाय वै । मृता देवा यदा नाथ निःसपत्रा वयं तदा ॥३५॥ ततः कामासुरस्तानाज्ञापयद्देवकंदने । कुंभकर्णादयो जग्मुर्गिरिकंदरकानने ॥३६॥ ततो मेरुगुहासंस्थान् दृष्ट्वा देवर्षि- सत्तमान् । शस्त्राणि दैत्यास्तान् हंतुं तत्यजुर्दैत्यनायकाः ॥३७॥ शिवमुख्या मयूरेशं सस्मरुर्भयसंकुलाः । एहि नाथ दया- सिंधो रक्ष नो भयसंयुतान् ॥३८॥ स्मृतिमात्रेण हेरंबस्तान् ययौ मूषकध्वजः । मयूरोपरिसंस्थश्च शस्त्रधारक आदरात् ॥३९॥ तेजोरशिमयं रूपं दृष्ट्वा देवा विसिस्मिरे । तुष्टुवुस्तं महेशाना नानास्तोत्रैर्गजाननम् ॥४०॥ ततस्तेजोमयं रूपं तान् जगाद सुरर्षिकान् । विकटोऽहं महाभागास्तथा भजत मा चिरम् ॥४१॥ कामयुक्ता मया माया मयूरा विविधात्मिका । कामहीनोऽयमेवाहं भजध्वं कामहानतः ॥४२॥ मायासुखाच्च देवेशा विकटा भवत प्रियाः । तदा मे रूपकं द्रष्टुं भविष्यथ समर्थकाः ॥४३॥ तस्य तद्वचनं श्रुत्वा शोकयुक्ताः सुरर्षयः । बलेन चित्तमागृह्य निःकामं चक्रुरादरात् ॥४४॥ ततो गणेश्वरं देवा मुनयो ददृशुश्च ते । तं प्रणम्य स्थिताः सर्वे दैत्यशस्त्रैः प्रपीडिताः ॥४५॥ ततोऽतिक्रोधसंयुक्तो विकटस्ता- नुवाच ह । भयहीना मदीयेन दर्शनेन भवेत वै ॥४६॥ अधुना शस्त्रसंयुक्ता युध्यध्वं मे ह्यनुग्रहात् । कामासुरं हनि- ष्यामि आगतं तं महेश्वराः ॥४७॥ ततस्ते क्रोधसंयुक्ता देवेंद्राः शस्त्रपाणयः । युयुधुर्दैत्यमुख्यैश्च तेजोयुक्ता विशेषतः ॥४८॥ इंद्रेण सहसाऽऽगत्य वज्रेण निहतोऽपतत् । कुंभकर्णस्ततो दैत्या प्रपेलुर्भयसंकुलाः ॥४९॥ द्विमुहूर्ते गते दैत्यो
खं. ६ अ. ३२ पान ९३ राक्षसेशः प्रतापवान् । सावधानो बभूवाऽपि पपाल भयसंकुलः ॥५०॥ जययुक्ता महेशानाः प्रणेमुर्विकटं ततः । जयशब्देन सर्वेशं तुष्टुवुर्हर्षसंयुताः ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते विकटप्रादुर्भावो नाम एकत्रिशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । कामासुरवधार्थाय भक्तियुक्ता गजाननम् । देवर्षयः प्रार्थयंतो निःकामाः कथमप्यहो ॥१॥ आदिशक्तिरुवाच । अथो सकामनिःकाममार्गं वक्ष्यामि शक्तयः । शृणुध्वं भावसंयुक्ताः संशयच्छेदनाय तम् ॥२॥ स्वदेह- पोषणार्थं यशोर्थं भावसंयुताः । भजंते कामसंयुक्ता देवं जानीत तान्नरान् ॥३॥ स्वधर्मप्रसिद्ध्यर्थं देवसेवार्थमेव ये । निःकामास्ते भजंते तं देवं भावसमन्विताः ॥४॥ निःकामिका कृता भक्तिर्देवैशैः शृणुत प्रियाः । तस्याश्चिह्नं प्रवक्ष्यामि भवती हितकाम्यया ॥५॥ सृष्टिस्थितिलयाद्यर्थं निर्मिता विधिमुख्यकाः । वयं तदेव सेवा ते खेलसि त्वं गजानन ॥६॥ हृदि स्थित्वा च सर्वेषां भोगांस्त्वं दोषवर्जितः । भुंक्षे तेन गणेशान सेवा ते देहपोषिका ॥७॥ तव प्रीत्यर्थमानंदात् प्रकुर्मः स्वधर्मजाम् । क्रियां सृष्ट्यादिकां नाथ तदर्थं प्रार्थयामहे ॥८॥ अधुना दैत्यमुख्येन सेवा ते खंडिता परा । असमर्थांश्च तां कर्तुं रक्ष नः सेवनोत्सुकान् ॥९॥ एवं संप्रार्थितो देवैर्विकटो नात्र संशयः । देहभोगादिभावेषु यशः स्वप्य स्पृहात्मभिः ॥१०॥ स्वधर्मसंयुक्तैः सर्वैः स्वस्वव्यापारजा क्रिया । कर्तव्या ढुंढिप्रीत्यर्थं निःकामा सा मता किल ॥११॥ अधुना प्रकृतं देव्यो महच्छृणुत चेष्टितम् । विकटस्य विशेषेण येन भक्तिः प्रलभ्यते ॥१२॥ कुंभकर्णादयः सर्वे जग्मुर्भयसमन्विताः । कामा- सुरं महावीर्यं वृत्तांतं तं न्यवेदयन् ॥१३॥ मयूरेशः समायातो विकटश्चेति कथ्यते । देवैः संप्रार्थितो नाथ हनिष्यति महासुरान् ॥१४॥ तस्य दृष्टिनिपातेन देवास्तेजोयुताः कृताः । वयं तेजोविहीनाश्च पश्याश्चर्यं महामते ॥१५॥ शरणं विकटं चैव शुभदं ते भविष्यति । अन्यथाऽसुरसंघानां विनाशो निश्चितोऽधुना ॥१६॥ कुंभकर्णवचः श्रुत्वा क्रोधयुक्तो बलिश्च तम् । निर्भर्त्स्य प्रत्युवाचेदं वचनं सर्वसन्निधौ ॥१७॥ बलिरुवाच । किं भ्रांतोऽसि विशेषेण वदसे विकलो यथा । कामा-