भारतकोश
संग्रह पर लौटें

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

६ रसार्णवे पारदो गदितो यश्च परार्थं साधकोत्तमैः ॥ ३५ ॥ सूतोऽयं¹ मत्समो देवि मम प्रत्यङ्गसम्भवः । मम देहरसो यस्मात् रसस्तेनायमुच्यते² ॥ ३६ ॥ दर्शनात् स्पर्शनात् तस्य भक्षणात् स्मरणादपि³ । पूजनाच्च प्रदानाच्च⁴ दृश्यते षड्‌विधं फलम् ॥ ३७ ॥ केदारादीनि लिङ्गानि पृथिव्यां यानि कानि च⁵ । तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ ३८ ॥ चन्दनागुरुकर्पूरकुङ्कुमान्तर्गतो रसः । मूर्च्छितः शिवपूजायां⁶ शिवसान्निध्यसिद्धये ॥ ३९ ॥ भक्षणात् परमेशानि हन्ति पापत्रयं रसः । तथा तापत्रयं हन्ति रोगान् दोषत्रयोद्भवान् ॥ ४० ॥ दुर्लभं ब्रह्मनिष्ठातैः⁷ प्राप्यतं परमं पदम् । हृद्व्योमकर्णिकान्तःस्थ-रसेन्द्रस्य महेश्वरि ॥ ४१ ॥⁸ स्मरणान्मुच्यते⁹ पापैः सद्यो जन्मान्तरार्जितैः ॥ ४२ ॥ स्वयंभूलिङ्गसाहस्रैः¹⁰ यत्फलं सम्यगर्च्यनात् । (1) स. द. सं. reads सुतोऽयम्. (2) K reads रसमेनं समुच्यते, which is gram. inc. We have adopted the variant in स. द. सं. (3) र. चि. reads स्मरणात् प्रिये. (4) स. द. सं. reads पूजनात् रसदानाच्च. This variant exactly agrees with that in र. चि. (5) स. द. सं. and र. चि. read कानिचित्. (6) शिवपूजा सा, a variant in र. चि. (7) र. चि. reads ब्रह्मविष्ण्वाद्यैः. (8) The reading in र. चि. is as follows :—तद्वोमकर्णिका- न्तःस्थं रसेन्द्रं परमेश्वरि. (9) स्मरन् विमुच्यते, a variant in र. चि. (10) K reads साहस्तैः,;which is inc.

प्रथमः पटलः ।

तत्फलं कोटिगुणितं रसलिङ्गार्च्चनाद्भवेत् ॥ ४३ ॥ अधमः खगवादस्तु¹ बिलवादस्तु मध्यमः । उत्तमो मन्त्रवादस्तु रसवादो महोत्तम² ॥ ४४ ॥ मन्त्रतन्त्रपरिज्ञाने रसयोगस्य³ दूषकाः⁴ । प्रयान्ति नरकं⁵ सर्व्वे कृत्वा सुकृतसञ्चयम् ॥ ४५ ॥ रसविद्या परा विद्या त्रैलोक्येऽपि सुदुर्लभा⁶ । भुक्तिमुक्तिकरी यस्मात् तस्माद्धेया गुणान्वितैः ॥ ४६ ॥ अस्तीति भाषते कश्चित् कश्चिन्नास्तीति भाषते । आस्तिके तु भवेत्सिद्धिः⁸ तस्य सिद्ध्यति भूतले ॥ ४७ ॥ नास्तिकेनानुभावेन⁹ नास्ति नास्तीति यो वदेत् । तस्य नास्ति प्रिये सिद्धिर्जन्मकोटिशतैरपि ॥ ४८ ॥ ब्रह्मज्ञानिन मुक्ताऽसौ पापी यो¹⁰ रसनिन्दकः ।


(1) M reads खन्यवादस्तु. रससार reads शून्यवाद in place of खगवाद, and क्षेत्रवाद in place of बिलवाद. (2) रसवादात्तमोत्तमः, a variant in M, which is gram. inc. (3) रसो योगस्य, a variant in K, which seems to be inc. M reads रसवादस्य. (4) K reads दूषकः, which is inc. M reads भूषकाः, which deteriorates the sense. (5) K reads रसकं, which has no sense here. (6) M reads च दुर्लभा, which agrees with र. चि. (7) मुक्ति- भुक्तिकरी यस्मात् तस्माज्ज्ञेया गुणान्विता is the reading in र. चि. (8) अस्तीति भाषते यंस्तु, a variant in M. (9) नास्तिकेन तु वादेन, a variant in M. (10) M reads पापीयान्. सोऽयुक्तो यः पापी, a variant in र. चि.

८ रसार्णवे नाहं त्राता भवे तस्य¹ जन्मकोटि²शतैरपि ॥ ४९ ॥ श्वानोऽयं जायते देवि यावत्³ जन्मसहस्रकम् । त्रिकोटिजन्मलक्षाणि मार्जारो जायते रसात् । रासभो लक्षजन्मानि लक्षजन्मानि वायसः ॥ ५० ॥⁴ कृमिको लक्षजन्मानि कुक्कुटो⁵ जन्मलक्षकम् । गृध्रको लक्षजन्मानि यः पापी रसनिन्दकः ॥ ५१ ॥ आलापं गात्रसंसर्गं यः कुर्याद्रसनिन्दकैः । यावज्जन्मसहस्रं तु स भवेद्दुःखपीडितः ॥ ५२ ॥⁶ रसवीर्यविपाके च सूतक⁷स्त्वमृतोपमः । तन जन्मजराव्याधीन्⁸ हरते सूतकः प्रिये ॥ ५३ ॥ गुरुमाराधयेत् पूर्वं विशुद्धेनान्तरात्मना⁹ । संप्रदायं प्रयच्छन्ति¹⁰ गुरौ तुष्टे मरीचयः ॥ ५४ ॥

(1) K reads भवेत्तस्य ; so also र.चि. M reads भवेत्तस्य. Both are gram. inc. The correct reading is either भवाम्यस्य or भवे तस्य. (2) K reads जन्मकोटी. (3) श्वान्यां जायते सोऽपि याति, a variant in M. (4) Slokas 50—52 are wanting in M. The sense of रसात् is not accurate. (5) कुकुटः, a variant in K, is palpably an error of the scribe. (6) The hemistich as quoted in र. चि. is as follows :—यावज्जन्मसहस्राणि स भवेत् पापपीडितः. (7) रसो वीर्यो विपाके चा पारद, a variant in M, which is gram. inc. (8) M reads जन्मजराव्याधीः. (9) This charaṇa is wanting in M. (10) M reads संप्रदायमपृच्छन्ति, which has no sense here.

ाणि-> wait, line 8 isरसकर्माणिorरसकर्म्माणि? Look at line 8: रसकर्म्माणि! It also has र्म्म! Wait, what about रसार्णवं? र्ण(r-ṇ). दुर्ल्लभम्->र्ल्ल`!

*   Let's check `मूढ़चेतनः`:
    Is it `मूढ़` (with ढ़) or `मूढ` (with ढ)?
    In the print: `मूढ़` has a dot under `ढ`? Yes, look at `मूढ़चेतनः`: there is a tiny nukta or it's `ढ`?
    Wait, in line 13: `मूढ़चेतसा`. It clearly has a dot under `ढ`: `ढ़`!
    Yes, in Hindi/Bengali presses, Vedic/Sanskrit texts often printed `ढ` as `ढ़` or `ढ`. Let's look at the letter: `मूढ़`. We can write `मूढ़` as printed.

*   Let's check line 5:
    `सिद्धोपायोपदेशोऽयमुभयोर्भोगमोक्षदः ।⁵`
    Wait, is there a danda before footnote 5? Yes: `।⁵`.

*   Line 6:
    `रसार्णवं महातन्वं⁶मिदं परमदुर्ल्लभम् ॥ ५७

१० रसार्णवे इति श्रीपार्व्वतीपरमेश्वरसंवादे¹ रसार्णवे रससंहितायां² तन्त्रावतारो नाम³ प्रथमः पटलः ॥१॥ — द्वितीयः पटलः । ❖ श्रीदेव्युवाच । रसोपदेशदाता च¹ कथं स्याद्वद मे² प्रभो । शिष्यश्चैव कथं³ देव रसानुष्ठानतत्परः ॥ १ ॥ श्रीभैरव उवाच । निस्पृहो निरहङ्कारो लोभमायाविवर्जितः । कुलमार्गरतो नित्यं गुरूपूजारतश्च यः ॥ २ ॥⁴


(1) श्रीपार्व्वतीपरमेश्वरसंवादे is wanting in M. (2) रससंहितायां is wan- ting in M. (3) B reads रसावतारो नाम. — (1) K reads रसोपरसदाता. We have adopted partly the reading in B and that in M. (2) कथं मम वद, a variant in B and M. (3) K reads रसं, which is senseless. (4) B reads षटकपूजा instead of गुरूपूजा. This śloka is wanting in M.

द्वितीयः पटलः । ११ दान्तः शिष्योपदेशज्ञः¹ शक्तिमान् गतमत्सरः² । धर्म्मज्ञः सत्यवाक् दक्षः शीलवान् गुणवान् शुचिः ॥ ३ ॥ अनेकरसशास्त्रज्ञो रसमण्डपकोविदः ।³ रसदोषाविधानज्ञो यन्त्रौषधि⁴महारसान् ॥ ४ ॥ रागसंख्यां⁵ वीजकलां द्वन्द्व⁶मेलापनं विड़म् । रञ्जनं⁷ सारणं तैलं⁸ दलानि क्रामणानि च⁹ ॥ ५ ॥ वर्णोत्कर्षं¹⁰ मृदुत्वञ्च जारणां बालवङ्गयोः¹¹ । खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्मतः¹² ॥ ६ ॥ देशकालक्रियाभिज्ज्ञो¹³ दयादाक्षिण्यसंयुतः । लोभमायाविनिर्मुक्तो मन्त्रानुष्ठानतत्परः ॥ ७ ॥ सामुद्रलक्षणोपेतो गम्भीरो गुरुवत्सलः ।

(1) शिष्योविशेषशः, a variant in B. शिष्योविनीतश्च, a variant in M. Both are inc. (2) K reads विमत्सरः, which breaks the metre. We have adopted the reading in M. (3) The portion from धर्म्मज्ञः to कोविदः is wanting in M. B reads शिलवान्, which is inc. (4) B reads द्विषा. K reads मन्त्रौषध. Both are inc. (5) रागसंख्यां, a variant in K. (6) B reads द्विजकलां, which is inc. K reads द्वन्द, which is a palpable mistake. (7) M reads रञ्जकं. (8) तैलञ्च, a variant in K. (9) K reads बलानिक्रुम- णानि च. दलानीकामणानि च, a variant in M, which seems to be inc. (10) K reads वयोत्कर्षं, which is gram. inc. (11) जारणाद्वलवङ्गयो, a variant in K. (12) B has खेचरिं, and भूचरिं, which are inc. खेचरीश्चैव यो वेत्ति भूचरौं स गुरुर्भवेत्, a variant in M. (13) देशकालक्रियाभिश्च, a variant in K, which cannot be reconciled without the word युक्तः to be understood.

१. पटल १-५: रसशाला निर्माण, यन्त्र, मूषा, कोष्ठिका एवं पारद-स्वरूप विचार

१२ रसार्णवे देवाग्नि¹योगिनीचक्र-कुलपूजारतः सदा । शिष्यो विनीतस्तन्त्रज्ञः सत्यवादी दृढव्रतः ॥ ८ ॥² ये नराः³ कुम्भकुद्दाल-ध्वजशंखादिलाञ्छितैः⁴ । करै⁵रधिष्ठिता देवि योज्यास्ते निधिसाधने⁶ ॥ ९ ॥ बलवन्तो महासत्त्वाः⁷ कृष्णरक्त⁸विलोचनाः । वक्रघोणाः⁹ सदा¹⁰ क्रूराः प्रशस्ता बिल¹¹साधने ॥ १० ॥ निर्मांस¹²मूर्द्धपिण्डोकान्¹³ रक्तकेशान् गतालसान्¹⁴ । कठिनानुष्णपादांश्च¹⁵ धातुवादे¹⁶ नियोजयेत् ॥ ११ ॥ आदौ परीक्षयेद्देवि साधकान्¹⁷ सुसमाहितान् । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चानुक्रमेण तु¹⁸ ॥ १२ ॥ जितेन्द्रियाः क्लेशसहा नित्योद्यमसमन्विताः ।


(1) K reads देवान्धौ, which is inc. (2) K reads सिद्धो instead of शिष्यो. The portion beginning from लोभमायाविनिर्मुक्तो and ending in सत्यवादी दृढव्रतः is not to be found in M. (3) K reads क्रूरा (without विसर्ग), which is absurd and inc. (4) B reads लाञ्छनैः. K reads लचणैः. (5) M reads नरैः, which is inappropriate. (6) निषिदर्शने, a variant in M. (7) K reads महासाधु, which is gram. inc. (8) B reads कृष्णारक्त. (9) K reads वक्रघोराः. (10) सवा, a variant in K, which is meaningless. (11) K reads किल, which is a mere expletive. (12) K reads निर्मीसा. (13) B reads मूर्द्धपिण्डोकं. M reads मूर्द्धफलिकान्. (14) K reads रक्तकेशाङ्गनासिकाः. (15) K reads कठिनात्युष्णपादाय. कठि- नानुष्ण...श्च, an incomplete variant in M. (16) K reads धातोर्वादे. (17) M reads साधवान्, which is gram. inc. (18) ब्राह्मणं क्षत्रियं वैश्यं शूद्र चानुक्रमेण तु, a variant in K. M has च instead of तु.

द्वितीयः पटलः । १३ शूराश्च कृतविद्याश्च प्रशस्ताः¹ साधकाः प्रिये ॥ १३ ॥ रसदीक्षाविहीना ये² प्रोक्तलक्षणवर्जिताः । विप्लावकाः पापरता³ वर्जयेत्तान्⁴ प्रयत्नतः ॥ १४ ॥ दुश्चारिणी दुराचारा निष्ठुरा कलहप्रिया । बह्वाशिनी⁵ च दुश्चित्ता कोटराक्षी च निर्दया । रसनिन्दाकरी या च तां नारीं परिवर्जयेत् ॥ १५ ॥ ईदृशीभिर्वरारोहे⁶ सम्पूर्णं क्षितिमण्डलम् ।⁷ न तादृशी⁸ भवेन्नारी यादृशी रसबन्धकी ॥ १६ ॥⁹ काकिणी कोकणी नारी तथैव काञ्चिकाचिनी ।¹⁰ कृष्णपक्षे ऋतुमती सा नारी काकिणी स्मृता ॥ १७ ॥ उभयपक्षे ऋतुमती सा नारी कोकणी मता¹¹ ॥ १८ ॥ शुक्लपक्षे ऋतुमती सा नारी¹² काञ्चिकाचिनी ॥ १६ ॥ (1) K reads विज्ञेयाः. The portion commencing from the 14th śloka and ending in the first hemistich of the 45th is wanting in M. (2) K reads नरा दीक्षाविहीनाश्च. (3) K reads अवैष्णवावान्यायरताः. (4) K reads वर्जये तान्, which is gram. inc. (5) B reads बकाशनी. (6) K reads इदृशी, which is palpably inc. (7) K has सम्पूर्णक्षितिमण्डले. (8) K reads तादृशी च. (9) Cf. रसरत्नसमुच्चय, Chap. VI. ślokas 34—38. (10) काकणी कांचिकाचीनि कोकणी, a variant in K, which we have not adopted for its deficiency in words and defect in metre. र. र. स. reads कालिनी in lieu of काकिणी. (11) उभयपक्षे ऋतुमतौ सा कौकणी, a variant in K, where some words are wanting. (12) This word is not found in K. The ślokas 17—19 are not found in B.

१४ रसार्णवे नवयौवनसम्पन्ना सुरूपा चारुहासिनी । सूक्ष्मकेशा तु या नारी चोत्पलाहारप्रिया सदा ॥ २० ॥ प्रियालापकरो¹ नित्यं शिवशास्त्रकथाप्रिया । पद्माकारं² मुखं यस्या दृष्टिरिन्दीवराकृतिः ॥ २१ ॥ दशना वज्रसदृशाः प्रवालसदृशोऽधरः³ । यस्याः पयोधरौ देवि तुङ्गपीनौ समावुभौ ॥ २२ ॥ अश्वत्थपत्रसदृशी योनो यस्या भगः समः ।⁴ यत्पादौ मांसलौ स्निग्धौ वर्तुलावर्त्तरौमकौ⁵ ॥ २३ ॥ श्यामा च मध्ये क्षामा च⁶ तन्वौ भक्तिपरा⁷ शिवे । पद्मिनी सा तु विज्ञेया प्रसन्ना⁸ मृगलोचना ॥ २४ ॥ पूर्णिमायाममायां वा पक्षे पक्षे रजस्वला । षड्भेदा काकिणी नाम्ना पूर्व्वप्रोक्ता रसप्रदा ॥ २५ ॥⁹ यस्य तुष्टो महादेवस्तस्य सिद्धो¹⁰ रसायने । तयैव¹¹ देवदेवेशि रसकर्माणि कारयेत् ॥ २६ ॥ (१) प्रियालापकरि, a variant in K, which is inc. (२) K has सदा कमलं. (३) B reads प्रवालसदृशाधरा. K has दशनं वज्रसदृशं प्रवालसदृशाधर, which seems to be inc. (४) अश्वत्थपत्रसदृशयोनिदेशसुशोभिता, a variant in र. र. स. (५) वर्तुलावेकरोमकौ, a variant in B. (६) मध्यसूक्ष्मा च, a variant in K. (७) भक्तीपरा, a variant in K, which is inc. (८) B reads सततं. (९) The 25th śloka is not found in B. (१०) B reads तस्य सिध्यति तादृशा. K reads सिद्धि, which is gram. inc. (११) K reads तथैव.

द्वितीयः पटलः । १५ तस्य हि निर्मला बुद्धिर्निश्चिता रससाधने । तस्माद्गुरुश्च शिष्यश्च पूर्वोक्तः सिद्धिभाग्भवेत् ॥ २७ ॥ श्रीदेव्युवाच । ईदृशैर्लक्षणैः¹ नारीं कुतः प्राप्नोति साधकः । यत्र रूपं महादेव लक्षणं नात्र विद्यते ॥ २८ ॥ लक्षणं विद्यते यत्र भावना नात्र विद्यते । अथवा रूपहीनाया रूपं केन प्रवर्त्तते ॥ २९ ॥ लक्षणत्रितयं² कुत्र त्वया दृष्टं महेश्वर । तदेतज्जायते येन तमुपायं वद प्रभो³ ॥ ३० ॥ श्रीभैरव उवाच । शृणु देवि परं गुह्यं यत्सुरैरपि दुर्लभम् । पितुः सदाशिवाज्जातं⁴ जन्म यच्चण्डिकोदरे ॥ ३१ ॥ तासां बुद्धिर्भवेद्देवि निर्मला रससाधने । दापयेत्त्वरितामन्त्रं जपेत्तं⁵ दर्पवर्जिता⁶ ॥ ३२ ॥ लक्षमन्त्रं⁷ जपेद्या तु जायते सा सुलक्षणा । बद्ध्वा तु खेचरीं मुद्रां जपेत् फेट्कारभैरवीम् ॥ ३३ ॥

(1) ईदृशीं लक्षणां, a variant in K, which is gram. untenable. [Here उपलक्षितां is to be understood.] (2) K reads लक्षण त्रितयं. (3) K reads तदुपायं वद मे प्रभो, where the word मे can be left out in order to keep up the metre. (4) The reading in K is gram. inc. : the text runs thus :—पितुः सदाशिवाच्चाद्य सन्तायाश्चण्डिकोदरे. (5) [Here सा is to be understood.] (6) तं जपेद्दर्पवर्जिता is the reading in B. (7) B reads लक्षमात्र.

" or "कं" or "तं"? It is "बं." (baṁ.) with a period.

Wait, look at (8): "(8) K reads" Next line: "ऽभयपरो," Wait! In the text, word 8 is "नयपरो⁸". K reads "ऽभयपरो,"!

Wait, look at (6) and (7): Line : "... (6) K reads यद्-" Line : "भावि. (7) Cf. र. र. स. Chap. VI. ślokas 12—66. (8) K reads" Line : "ऽभयपरो, (9) K reads माहित्यरास्तन प्रच्छन्नं बं."

Wait, let's check line : "hemistich in B :—रसदीक्षां विधायैवं तस्यात् कर्म समाचरेत् । We have rejec-" Wait, "तस्यात्" or "तस्मात्"? Let's look at the word: "तस्यात्" or "तस्मात्"? It is 'त', then 'स्मात्'? Wait, look at the letter: 'स्' + 'म' = 'स्म' or 'स्' + 'य' = 'स्य'? Look at 'तस्यात्': it has 'स्' and 'य': 'स्य'! Wait, or 'स्

द्वितीयः पटलः । १७ कारयेद्विजने स्थाने पशुर्यत्र न विद्यते । सुगुप्ते सुषमे स्थाने सर्व्वबाधाविवर्जिते ॥ ४० ॥ प्राकार¹परिखोपेते कपाटार्गलदक्षते । एकान्ते निर्मले हृद्ये नानापुष्पद्रुमान्विते ॥ ४१ ॥ हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते । दिव्यौषधिगणोपेते सजले श्यामशैलले² ॥ ४२ ॥ कुमुदोत्पलकह्लार कदलीषण्डमण्डिते । चित्रिते³ भवनोद्याने कारयेत् परमेश्वरि ॥ ४३ ॥ तन्मध्ये देवदेवेशि मत्तवारणसंयुतम्⁴ । वातायनसमोपेतमूर्द्धनिर्गमिधूमकम्⁵ ॥ ४४ ॥ रक्त⁶पताकासंयुक्तं सज्जोपकरणं तथा । प्रविभक्तौषधितुषा⁷काष्ठारख्योत्पलालयम्⁸ ॥ ४५ ॥ समालिखितदिग्देवं⁹ समर्चितविनायकम्¹⁰ । (1) K reads प्रकार, which seems to be an error of the scribe. (2) K reads स्यात् ससाशले, wherein the first word (स्यात्) is redundant. (3) B reads विम्भूते. (4) यन्त्रोद्धारं तु कारयेत्, a variant in K, which seems to be unconnected. (5) K reads निष्काम instead of निर्गामि. (6) B reads रक्ता. K reads रक्षा, which is inc. (7) K reads प्रविभक्तौषधीरुपं, wherein रुप has no meaning. (8) काष्ट बन्योत्पला- लयं, a variant in K, wherein the word काष्ट is an error of the scribe. काष्ठारख्योपलायन, a variant in M, wherein some of the terms are inc. (9) This śloka (46th) is wanting in B. K reads दिग्गवस्रं, which has no clear meaning. (10) M reads विनाकम्, which is a palpable error of the scribe. 3 Asiatic Society, Calcutta Acc. No. B2609 Date 19.6.86.

१८ रसार्णवे प्रतिष्ठितंसुमेशाभ्यां¹ लोकपालैश्च रक्षितम् ॥ ४६ ॥ निर्मापयेदेकतलं द्वितलं वापि मण्डपम्² । अथ पक्षे सिते देवि चन्द्रताराबलान्विते³ ॥ ४७ ॥ पुष्ये तिथौ मुहूर्ते च⁴ लग्ने सौम्यग्रहेक्षिते । स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥ ४८ ॥ मधुसर्पिर्दधिक्षीरतिलैः संपूज्य बालिकाः⁵ । कपिलागोमयालिप्ते हिरण्यकलसाहते ॥ ४९ ॥⁶ यवसिद्धार्थकास्तीर्णे⁷ गन्धमाल्योपशोभिते । तत्रेष्टिकाभिः रचिते⁸ करपीठे सुरेखरे⁹ ॥ ५० ॥ शिलापट्टं समुत्कीर्य्य शिलापट्टार्गलं प्रिये । न्यासं रसाङ्गुष्ठेनैव कृत्वाङ्गुलिहृदादिषु¹⁰ ॥ ५१ ॥ रसलिङ्गं न्यसेत्तत्र हेम्ना त्र¹¹ सहितं प्रिये । (१) प्रतिष्ठितोमामद्देश, a variant in M, which breaks the metre. (२) B reads मडलं. M reads मष्टपम्, which is an error of the scribe. (३) चन्द्रताराबले सति, a variant in B and K. We have adopted the reading in M. (४) पुष्यतीर्थे मुहूर्त्तं तु, a variant in K, which seems to be unconnected. (५) M reads पालकः. (६) The portion from स्नातः to कलसाहते is wanting in M. (७) B reads यष सिद्धार्यका- स्तीर्थे ; M reads यवसिद्धावकास्तीर्णे ; both the readings seem to be erroneous. (८) तत्रेष्टकाभिरवचिते, a reading in B. तत्रैष्टकाभिः खचिते, a reading in M. (९) K reads कारदिसु. करपीठे सुरंधरीम्, a variant in M, which has no clear sense. (१०) न्यासाङ्गनेव कर्त्तव्याः साङ्गुलीहृदयादिषु, a variant in K. कृताङ्गलिमुतादिषु, a reading in M, which seems to be erroneous. (११) K reads पार्श्वतो.

द्वितीयः पटलः । १८ ॐ क्रौं श्रीं¹ सूतराजस्य मूलमन्त्र उदाहृतः ॥ ५२ ॥ तस्मिन् रसाङ्कुशीं देवीं² मूलेनावाहयेत्प्रिये । चतुरस्रे तु दिक्पालान्³ पूजयित्वा बहिः क्रमात् ॥ ५३ ॥ नन्दिनञ्च महाकालं भृङ्गि्रीटं महाबलम्⁴ । कुम्भकर्णञ्च सुग्रीवं भृङ्गोकञ्च⁵ दृढायुधम्⁶ ॥ ५४ ॥ द्वारे चतुष्टये विन्यस्य पूजयेद्दक्षवामयोः । शक्रं पूर्वेऽभि⁷संपूज्य स्कन्दमाग्नेयगोचरे⁸ ॥ ५५ ॥ दक्षिणस्यां ततो रुद्रं⁹ पवनं नैर्ऋते तथा¹⁰ । शिवं पश्चिमभागे तु पावकं वायवे न्यसेत् । उमामुत्तरभागे तु व्यापकं चेशगोचरे¹¹ ॥ ५६ ॥ लेपिका क्षेपिका चैव चारिका.........जया तथा¹² । लोहटी बन्धकारी च भूचरी मृत्युनाशिनी¹³ ॥ ५७ ॥ विभूतिः खेचरी¹⁴ चैव दश दूत्यः क्रमेण च¹⁵ ।


(१) चौं यां क्रौं, a variant in M. (२) B reads रसाङ्गुशां. M reads रसाङ्गुशं देवी, which is grammatically inc. (३) चतुरः श्रेष्ठदिकपालान्, a variant in M. (४) M reads मनोबलं. (५) B reads भङ्गोकञ्च. M reads मृगादृञ्च. (६) K reads सुधायुधम्, which has no clear sense. (७) B reads पूर्वेऽभि. M reads युक्त पूर्वे च. (८) B reads ऽमाचरम्. (९) K reads भद्र. (१०) K reads यजेत्. (११) B reads चेत् समाचरेत्. (१२) B has क्रामिका रञ्जिका तथा. K has लेपिकां क्षेपिकां चैव रञ्जकां रन्धिनीं तथा. (१३) लोहटीं बन्धकारीं च भूतमृत्युविनाशिनीं, a variant in K. (१४) विभूतीं खेचरीं, a variant in K. (१५) दशदूत्यक्रमेण च, a reading in M, which is grammatically inc.

२० .रसार्णवे पूज्यास्त्वष्टदले¹ पद्मे जर्द्धाधस्तु दलेषु च² ॥ ५८ ॥ माक्षिको विमल:³ शैल⁴श्चपलो रसकस्तथा । सस्यको⁵ गन्धतालौ च पूर्व्वादिक्रमयोगतः ॥ ५९ ॥ अष्टादशभुजा रुद्रा:⁶ पञ्चवक्त्रास्त्रियम्बका:⁷ । चन्द्रार्द्धशोभिमुकुटा⁸ नीलग्रीवा वृषध्वजा:⁹ ॥ ६० ॥ स्वस्ववर्णधरा:¹⁰ सर्व्वेऽप्यष्टविद्येश्वरास्तथा¹¹ । पूजनीया महेशानि द्वितीयेऽष्टदलाम्बुजे¹² ॥ ६१ ॥ कर्णिकायान्तु पूर्वादिकूर्व्वं¹³ शक्तिचतुष्टयम् । मालिनी हेमशक्तिश्च परा शक्तिर्बला स्मृता¹⁴ । अपरा वज्रशक्तिश्च कान्तिश्चेत्यं परापरम्¹⁵ ॥ ६२ ॥ (१) पूज्या चाष्टदले is the reading in K, which is a palpable error. (२) पुर्व्वादिक्षु दलेषु च, a variant in B. ऊर्ध्व चाधःस्थलेषु च, a variant in M. (३) K reads माक्षिकां विमलां. (४) M reads चेलः, which seems to be erroneous. (५) सस्यक्षा is the reading in K, and सस्यके is that in M. Both are incorrect. (६) K reads भद्रा (without विसर्ग). (७) पञ्चवक्त्रा त्रियम्बिका (without विसर्ग), a variant in K. (८) M reads मकुटा. (९) K reads वृषध्वजा (without विसर्ग). (१०) The portion from the 61st to the first hemistich of the 94th is wanting in B. स्वस्व- कर्णवराः, a variant in K, which is absurd. (११) विद्येश्वरास्तु ते, a variant in K. विद्येश्वरस्तथा, a reading in M, which is inc. (१२) M reads महेशानी द्वितीयाष्टदलाम्बुजि. (१३) पूर्व्वं. यै पूर्व्वाः is the reading in M, which seems to be incorrect. (१४) K reads स्मृतं, which is incorrect. This charana and the next are wanting in M. (१५) कान्त्ये- श्चैव परापरम्, a variant in K.

द्वितीयः पटलः । २१ मध्ये तासाञ्च शक्तीनां सर्व्वज्ञं रसभैरवम् । शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रियम्बकम्¹ ॥ ६३ ॥ ज्वलत्पिङ्गोयनेत्रञ्च² ज्वलज्जिह्वाननं तथा । ज्वलद्रूपं³ ज्वलत्केशं दुःप्रेक्ष्यं⁴ प्रेतविष्टरम् ॥ ६४ ॥ जटामुकुटसंयुक्तं चन्द्रार्द्धकृतशेखरम्⁵ । व्याघ्रचर्म्मधरं नागोपवीतं वृषभध्वजम्⁶ ॥ ६५ ॥ अष्टादशभुजं देवमशेषप्रहसिताननम् । द्वात्रिंशार्णेन मनुना पूजयेत् सकलं शिवम् ॥ ६६ ॥ रसेश्वरस्य मन्त्रञ्च कथ्यमानं निबोध मे⁷ ॥ ६७ ॥ ॐ ह्रीं क्रों⁸ रसेश्वराय महाकालाय महाबलायाघोर- भैरवाय⁹ वज्रवोर¹⁰ क्रोधकङ्काल प्लौः स्रः¹¹ ॥ ६८ ॥ तस्योत्सङ्गे महादेवीं रत्नाभरणभूषणां¹² ।


(1) M reads त्राम्बकम्, which is the correct form of त्रियम्बकम्. (2) K reads ज्वलत्पिङ्गायनैत्रञ्च. (3) M reads ज्वलद्रूपं. (4) M reads दुष्प्रेक्षा, which is an alternative form of दुःप्रेक्षा. (5) M reads चन्द्राद्धींकृतशेखरम्. (6) M reads नाग उपवीत वृषध्वजम्, wherein the former is grammatically incorrect. (7) In lieu of this hemistich M has only रसेश्वरमन्त्रम्, which ought to be रसेश्वरमन्त्रः. (8) M reads ओम् डीम् प्रेम् प्रम्. (9) M reads भैरव. (10) ववधौर is the reading in M. The correct form would be वज्रघोराय and क्रोधकङ्कालाय. (11) M reads प्लो खः । After this, is added इति मनुः. This मनु con- tains 32 letters (द्वात्रिंशार्णेन), the last two (प्लौः स्रः) being excepted. (12) ॰रत्नाभरणभूषिताम्, a variant in K.

२२ रसार्णवे उत्तप्तहेमरुचिरां पीतवस्त्रां त्रिलोचनाम् ॥ ६९ ॥ श्वेतचामरयोर्मध्ये मुक्ताच्छत्रेण शोभिताम्¹ । अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः ॥ ७० ॥ पाशाभये च वामाभ्यां² चन्द्रार्द्धकृतशेखराम् । रसाङ्कुशीं³ महादेवीं नीलग्रीवां कृपामयीम् ॥ ७१ ॥ पूजयेद्रससिद्ध्यर्थं विद्यया पञ्चबीजया । वाग्भवं भुवनेशीञ्च⁴ श्रोबीजञ्च सुरेश्वरि ॥ ७२ ॥ मादनं⁵ शक्तिबीजञ्च—विद्या⁶ परमदुर्लभा । धूपदीपैस्तु नैवेद्यैः⁷ पुष्पताम्बूलचन्दनैः ॥ ७३ ॥ शान्तिपाठस्य निर्घोषैः⁸ स्तोत्रमङ्गलनिस्वनैः⁹ । घण्टाटङ्कारसंयुक्तैः पूजां कृत्वा यथाविधि ॥ ७४ ॥ अघोरेण बलिं दद्यात् सर्व्वविघ्नोपशान्तये¹⁰ ।


(1) K reads मुक्ताच्छत्रोपशोभितां, which is a palpable error of the scribe. (2) वरदाभयदण्डाढां, a variant in K. पाशभयी च वामाभ्यां, a variant in M, wherein the first term is grammatically incorrect. (3) रसाङ्कुशां, a reading in M. (4) K reads भुवनेशानीं. भुवनेशिञ्च, a variant in M, which ought to be भुवनेशीञ्च. (5) K reads मदनं. (6) K reads विद्यया, which is incorrect. This charaṇa “विद्या परमदुर्लभा” is the remark made by Śiva to draw special attention of his consort. This विद्या is to be communicated by the गुरु to his शिष्य (see śloka 82). (7) धूपदीपैः सुनैवेद्यैः, a variant in K. (8) K reads शान्तिपाठैश्च निर्घोषैः. M reads शास्त्रपाठस्य निर्घोषैः. We have adopted the above reading after collating all the texts. (9) K reads निःस्वनैः. (10) K reads सर्व्वविघ्नस्य शान्तये ।

वर्द्धन्याभ्युक्ष्य साधकम्¹¹ ॥ ८० ॥ शतमष्टोत्तरं चैवमर्घ्यपात्रोदकेन¹² तु ।

Footnotes:
(1) Both K and M read यक्षरक्षेभ्यः, which is grammatically in-
correct, the term being रक्षस् and not रक्ष. (2) M reads संयुक्तां,
which is incorrect. (3) सर्व्वकर्णाकरं, a variant in M, which is
meaningless. (4) K reads विघ्नोपद्रवनाशणम्, which is palpably an
error of the scribe. M adds here after the 76th śloka अघोरेभ्योऽथ घोर
इति मन्त्रं नमोऽन्तकम्, which we have rejected as it is redundant.
(5) K reads विद्योपविद्या विद्या तु, which has no clear sense. (6) योनि-
वक्त्रं, a variant in K. (7) पयःपूर्णफलाश्रितम्, a reading in M. (8)
K reads तथाष्टशत. (9) M reads कीर्णं. (10) K reads बलिपात्रञ्च.

Here is the complete, line-by-line transcription of the Sanskrit text and footnotes in Markdown format:

२४ रसार्णवे अभिषिच्य¹ विधानेन कुम्भतोयेन मन्त्रवित् ॥ ८१ ॥ विद्यामुपदिशेद्देवि पाठयेद्रससाधकम्² । कुमारोयोगिनोयोगि³साधकांश्च यथोचितैः⁴ ॥ ८२ ॥ तर्पयेदन्नपानैश्च⁵ जागरं तत्र कारयेत् । एवंविहितदीक्षस्तु⁶ साधकः सुरनायिके ॥ ८३ ॥ महाभूतमयीं तत्र⁷ वर्णपञ्चकसंयुताम्⁸ । पञ्चबीजात्मिकां⁹ विद्यां प्राणायामात्मसूत्रके¹⁰ ॥ ८४ ॥ मुद्रां रसाङ्कुशीं बध्वा लक्षमेकं जपेत्प्रिये । तस्य सिध्यति देवेशि निर्विघ्नं रसभैरवः ॥ ८५ ॥ प्रणवादि नमोऽन्तस्तु तर्पणान्ते जपः परः¹¹ । अहिंसा चन्दनं¹² सत्यं पुष्पमस्तेयधूपनम्¹³ ॥ ८६ ॥ ब्रह्मचर्यं महादीपम

द्वितीयः पटलः । २५ पायसान्नं¹ महेशानि सर्व्वभूतदयात्मकम्² ॥ ८७ ॥ संघटनादाराधयेद्देवीं³ स भवेत्सिद्धिभाजनम्⁴ । सहस्रं वा शतं वापि त्रिसन्ध्यं संजपेदिमाम्⁵ ॥ ८८ ॥ यस्या चाज्ञा⁶प्रसादेन जायते खेचरो रसः । दिब्यौषधयश्च तस्यैव सिध्यन्ति सुरवन्दिते ॥ ८९ ॥ अनङ्कुशं समारुह्य वने मत्तगजं यथा । तथाऽरसाङ्कुशाभिज्ञो⁷ रसेन्द्रं प्राप्य सीदति⁸ ॥ ९० ॥ विद्यया⁹ सह मन्तव्यं गुरोः¹⁰ सत्सम्प्रदायिनः । रसप्रयोगजातन्तु¹¹ सर्व्वतः सिद्धिमिच्छता ॥ ९१ ॥ अथ प्रश्नावताराय¹² पूर्व्वोक्तं रसभैरवम् । समाहितमनां ध्यायेत् तदालीन¹³ समाचरेत् ॥ ९२ ॥

(1) K reads पायसानि, which seems to be incorrect. (2) सर्व्व- भूतदयात्मकम्, a reading in M. (3) M reads देवि, which makes the sentence incomplete. (4) सम्भवेत is the reading in M. सिद्धि- भाजनः is the reading in K. (5) त्रिसन्ध्या सञ्जपेदिमाम्, a variant in M, wherein the first term is incorrect. (6) यस्याज्ञया is the reading in K, which is not correct. (7) रसाङ्कुशयुक्तं, a variant in K. In this reading no nominative to सीदति is to be found. (8) K reads सिध्यसि, which is absurd. (9) K reads मद्यया, which is senseless. (10) K reads गुरो (without विसर्ग), which is erroneous. (11) M reads रसप्रयोगजातास्तु, which is incorrect. [जात is neuter.] (12) -श्रावताराय is the reading in M, which is an evident error of the scribe. (13) M reads तानालीनं.