भारतकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे ।
निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१४॥

साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा ।
केवलं ब्रह्मभावत्वात् इत्येवं ब्रह्मतर्पणम् ॥ १०.१५॥

अहमेवाविशेषोऽहमहमेव हि नाम कम् ।
अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ १०.१६॥

इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् ।
बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ १०.१७॥

सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् ।
नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१८॥

वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन ।
चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१९॥

सर्वत्र पूर्णावरूपोऽहं सर्वत्र सुखमस्म्यहम् ।
सर्वत्राचिन्त्यरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२०॥

सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् ।
सर्वशून्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२१॥

सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् ।
एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२२॥

मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् ।
सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२३॥

सर्वदा सत्यरूपोऽहं सर्वदा तुर्यवानहम् ।
तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२४॥

सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।
निर्विकल्पस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२५॥

सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः ।
ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२६॥

ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया ।
यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ १०.२७॥

नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् ।
सर्वशास्त्रार्थमद्वैतं सावधानमनाः शृणु ॥ १०.२८॥

अहं ब्रह्मोऽस्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।
ओंकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.२९॥

परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३०॥

नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् ।
चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ १०.३१॥

न हि किञ्चित् स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ।
निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३२॥

निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ।
न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ १०.३३॥

न देहादिस्वरूपोऽस्मि त्रयादिपरिवर्जितः ।
न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३४॥

श्रवणं मननं नास्ति निदिध्यासनमेव हि ।
स्वगतं च न मे किञ्चिद् एवं होमं सुदुर्लभम् ॥ १०.३५॥

असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् ।
अहंकारमसद्विद्धि कालत्रयमprimary-असत् सदा ॥ १०.३६॥

गुणत्रयमद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३७॥

श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत् सदा ।
सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३८॥

नानारूपमसद्विद्धि नानावर्णमसत् सदा ।
नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३९॥

शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् ।
सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४०॥

गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत् ततः ।
यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४१॥

सर्वान् भोगानसद्विद्धि यच्चिन्त्यं तदसत् सदा ।
यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४२॥

सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत् त्विति ।
सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४३॥

जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि । मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४४॥

दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि । कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४५॥

दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि । सर्वकार्याण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४६॥

सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत् परे । सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४७॥

यथाधर्ममसद्विद्धि पुण्यापुण्यमसत् सदा । लाभालाभमसद्विद्धि सदा देहमसत् सदा ॥ १०.४८॥

सदा जयमसद्विद्धि सदा गर्वमसत् सदा । मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ १०.४९॥

शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत् सदा । रूपं सर्वमसद्विद्धि रसं सर्वमसत् सदा ॥ १०.५०॥

गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत् सदा । भूतं भव्यमसद्विद्धि असत् प्रकृतिरुच्यते ॥ १०.५१॥

असदेव सदा सर्वमसदेव भवोद्भवम् । असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ १०.५२॥

शशशृङ्गवदेव त्वं शशशृङ्गवदस्म्यहम् । शशशृङ्गवदेवेदं शशशृङ्गवदन्तरम् ॥ १०.५३॥

इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ १०.५४॥

स्कन्दः –

यस्मिन् संच विचेति विश्वमखिलं द्योतन्ति सूर्येन्दवो विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् । भूतं चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जगत् जातं चापि जनिष्यति प्रतिभवं देवासुरैर्निर्भपैः । तन्मेऽहोस्ति न किंचिदत्र भगवद्ध्यानान्न किंचित् प्रियम् ॥ १०.५५॥

यः प्राणापानभेदैर्घननधिया धारणापञ्चकाद्यैः मध्ये विश्वजनस्य सन्निपि शिवो नो दृश्यते सूक्ष्मया ।

बुद्ध्याऽऽदध्यात्तयाऽपि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या
योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत् तथा ॥ 10.56॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मतर्पणात्महोमाख्य
प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः ॥

॥ एकादशोऽध्यायः ॥

ऋभुः -

ब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् । आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.१॥

अहं ब्रह्मवदेवेदमहमात्मा न संशयः । चैतन्यात्मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.२॥

चिदात्माऽहं परात्माऽहं निर्गुणोऽहं परात्परः । इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥ ११.३॥

देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११.४॥

आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् । यश्चिदेवं परानन्दं स जीवन्मुक्त उच्यते ॥ ११.५॥

यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ११.६॥

यस्य किंचिदहं नास्ति चिन्मात्रेणावतिष्ठते । परानन्दो मुदानन्दः स जीवन्मुक्त उच्यते ॥ ११.७॥

चैतन्यमात्रं यस्यान्तश्चिन्मात्रैकस्वरूपवान् । न स्मरत्यन्यकलनं स जीवन्मुक्त उच्यते ॥ ११.८॥

सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः । सर्वत्र नित्यपूर्णात्मा स जीवन्मुक्त उच्यते ॥ ११.९॥

परमात्मपरा नित्यं परमात्मेति निश्चितः । आनन्दाकृतिरव्यक्तः स जीवन्मुक्त उच्यते ॥ ११.१०॥

शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः । नित्यानन्दप्रसन्नात्मा स जीवन्मुक्त उच्यते ॥ ११.११॥

एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः । किंचिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ॥ ११.१२॥

न मे चित्तं न मे बुद्धिर्नाहंकारो न चेन्द्रियः । केवलं ब्रह्ममात्रत्वात् स जीवन्मुक्त उच्यते ॥ ११.१३॥

न मे दोषो न मे देहो न मे प्राणो न मे क्वचित् । दृढनिश्चयवान् योऽन्तः स जीवन्मुक्त उच्यते ॥ 11.14॥

न मे माया न मे कामो न मे क्रोधोऽपरोऽस्म्यहं । न मे किञ्चिदिदं वापि स जीवन्मुक्त उच्यते ॥ 11.15॥

न मे दोषो न मे लिङ्गं न मे बन्धः क्वचिज्जगत् । यस्तु नित्यं सदानन्दः स जीवन्मुक्त उच्यते ॥ 11.16॥

न मे श्रोत्रं न मे नासा न मे चक्षुर्न मे मनः । न मे जिह्वेति यस्यान्तः स जीवन्मुक्त उच्यते ॥ 11.17॥

न मे देहो न मे लिङ्गं न मे कारणमेव च । न मे तुर्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.18॥

इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् । ब्रह्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ 11.19॥

न मे किञ्चिन्न मे कश्चिन्न मे कश्चित् क्वचिज्जगत् । अहमेवेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ 11.20॥

न मे कालो न मे देशो न मे वस्तु न मे स्थितिः । न मे स्नानं न मे प्रासः स जीवन्मुक्त उच्यते ॥ 11.21॥

न मे तीर्थं न मे सेवा न मे देवो न मे स्थलं । न क्वचिद्भेदहीनोऽयं स जीवन्मुक्त उच्यते ॥ 11.22॥

न मे बन्धं न मे जन्म न मे ज्ञानं न मे पदं । न मे वाक्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.23॥

न मे पुण्यं न मे पापं न मे कायं न मे शुभं । न मे दृश्यमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ 11.24॥

न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः । न मे जीव इति ज्ञात्वा स जीवन्मुक्त उच्यते ॥ 11.25॥

न मे सर्वं न मे किञ्चित् न मे जीवं न मे क्वचित् । न मे भावं न मे वस्तु स जीवन्मुक्त उच्यते ॥ 11.26॥

न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः । न मे दूरमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.27॥

न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः । न मे श्रेष्ठं क्वचिद्यस्तु स जीवन्मुक्त उच्यते ॥ 11.28॥

न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः । न मे कर्म क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ 11.29॥

न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् । न मे कार्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.30॥

न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलं । न मे विद्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.31॥

न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः । न मे ध्यानमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.32॥

न मे शीतं न मे चोष्णं न मे मोहो न मे जपः । न मे संध्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.33॥

न मे जपो न मे मन्त्रो न मे होमो न मे निशा । न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.34॥

न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा । न मे चात्मेति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.35॥

न मे पूर्वं न मे पश्चात् न मे चोर्ध्वं न मे दिशः । न चित्तमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.36॥

न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि । न मे मन्तव्यमीषद्वा स जीवन्मुक्त उच्यते ॥ 11.37॥

न मे भोक्तव्यमीषद्वा न मे ध्यातव्यमण्वपि । न मे स्मर्तव्यमेवायं स जीवन्मुक्त उच्यते ॥ 11.38॥

न मे भोगो न मे रोगो न मे योगो न मे लयः । न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.39॥

न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः । अध्यारोपो न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.40॥

अध्यारोप्यं न मे किंचिदपवादो न मे क्वचित् । न मे किंचिदहं यत्तु स जीवन्मुक्त उच्यते ॥ 11.41॥

न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु । न मे भूतं न मे कार्यं स जीवन्मुक्त उच्यते ॥ 11.42॥

न मे कोऽहं न मे चेदं न मे नान्यं न मे स्वयं । न मे कश्चिन्न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.43॥

न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् । न मे कृपा न मेऽस्तीति स जीवन्मुक्त उच्यते ॥ 11.44॥

न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् । न मे स्वस्थः स्वयं यो वा स जीवन्मुक्त उच्यते ॥ 11.45॥

न मे तापं न मे लोभो न मे गौण न मे यशः । ने मे तत्त्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.46॥

न मे भ्रांतिर्न मे ज्ञानं न मे गुह्यं न मे कुलं । न मे किंचिदिति ध्यायन् स जीवन्मुक्त उच्यते ॥ 11.47॥

न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः । न मे दैवमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ 11.48॥

न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखं । न मे न्यूनं क्वचिद्यस्तु स जीवन्मुक्त उच्यते ॥ 11.49॥

न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयं । न मे सर्वमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ 11.50॥

न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहं । न मे गुरुर्न मे यस्तु स जीवन्मुक्त उच्यते ॥ 11.51॥

न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभं । न मे न मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ 11.52॥

न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा । न मे किंचिदिति ध्यायी स जीवन्मुक्त उच्यते ॥ 11.53॥

न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलं । न मे दूष्यं क्वचिद्यस्तु स जीवन्मुक्त उच्यते ॥ 11.54॥

न मेऽभ्यासो न मे विद्या न मे शांतिर्न मे दमः । न मे पुरमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ 11.55॥

न मे शल्यं न मे शंका न मे सुप्तिर्न मे मनः । न मे विकल्प इत्याप्तः स जीवन्मुक्त उच्यते ॥ 11.56॥

न मे जरा न मे बाल्यं न मे यौवनमण्यपि । न मे मृतिर्न मे ध्वान्तं स जीवन्मुक्त उच्यते ॥ 11.57॥

न मे लोकं न मे भोगं न मे सर्वमिति स्मृतः । न मे मौनमिति प्राप्तं स जीवन्मुक्त उच्यते ॥ 11.58॥

अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः । चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ११.५९॥

ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः । स्वयमेव स्वयं ज्योतिः स जीवन्मुक्त उच्यते ॥ ११.६०॥

स्वयमेव स्वयं पश्येत् स्वयमेव स्वयं स्थितः । स्वात्मन्येव स्वयं भूतः स जीवन्मुक्त उच्यते ॥ ११.६१॥

स्वात्मानन्दं स्वयं भुङ्क्त्वे स्वात्मराज्ये स्वयं वसे । स्वात्मराज्ये स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६२॥

स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः । स्वस्वरूपः स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६३॥

जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् । यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयं ॥ ११.६४॥

ये वेदवादविधिकल्पितभेदबुद्ध्या पुण्याभिसन्धितधिया परिकर्मयन्तः । देहं स्वकीयमतिदुःखपरं पराभि- स्तेषां सुखाय न तु जातु तवेश पादात् ॥ ११.६५॥

कः सन्तरेत भवसागरमेतदुद्य- त्तरङ्गसदृशं जनिमृत्यु रूपम् । ईशार्चनाविधिसुबोधितभेदहीन- ज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ११.६६॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे जीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः ॥

॥ द्वादशोऽध्यायः ॥

ऋभुः -

देहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् । त्यक्तात्त्यक्तं न स्मरति विदेहोन्मुक्त एव सः ॥ १२.१॥

ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी । स्वस्वरूपो महामौनी विदेहोन्मुक्त एव सः ॥ १२.२॥

सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः । एकात्ववर्जितः साक्षी विदेहोन्मुक्त एव सः ॥ १२.३॥

लक्ष्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः । तूष्णीमात्मा स्वभावात्मा विदेहोन्मुक्त एव सः ॥ १२.४॥

शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः । अजात्मा चामृतात्मा हि विदेहोन्मुक्त एव सः ॥ १२.५॥

आनन्दात्मा प्रियः स्वात्मा मोक्षात्मा कोऽपि निर्णयः । इत्येवमिति निध्यायी विदेहोन्मुक्त एव सः ॥ १२.६॥

ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते । चिन्मात्रेणैव यस्तिष्ठेद्विदेहोन्मुक्त एव सः ॥ १२.७॥

निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः । आनन्दभूरिदेहास्तु विदेहोन्मुक्त एव सः ॥ १२.८॥

सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति । अहं ब्रह्मास्मि नान्योऽस्मि विदेहोन्मुक्त एव सः ॥ १२.९॥

किंचित् क्वचित् कदाचिच्च आत्मानं न स्मरत्यसौ । स्वस्वभावेन यस्तिष्ठेत् विदेहोन्मुक्त एव सः ॥ १२.१०॥

अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते । स्थास्यामीत्यपि यो युक्तो विदेहोन्मुक्त एव सः ॥ १२.११॥

तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किंचन । अहमर्थपरित्यक्तो विदेहोन्मुक्त एव सः ॥ १२.१२॥

परमात्मा गुणातीतः सर्वात्मापि न संमतः । सर्वभावान्महात्मा यो विदेहोन्मुक्त एव सः ॥ १२.१३॥

कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् । किञ्चिद्भेदं न यस्यास्ति विदेहमुक्त एव सः ॥ १२.१४ ॥

अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते । अत्यन्तसुखमात्रोऽहं विदेहमुक्त एव सः ॥ १२.१५ ॥

निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः । शून्यात्मा सूक्ष्मरूपो यो विदेहमुक्त एव सः ॥ १२.१६ ॥

विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः । देवात्मा देवहीनो यो विदेहमुक्त एव सः ॥ १२.१७ ॥

मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः । केवलात्मा परात्मा च विदेहमुक्त एव सः ॥ १२.१८ ॥

सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः । सर्वेषामिति युक्तोक्ति विदेहमुक्त एव सः ॥ १२.१९ ॥

सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः । स्थास्यामीति न यस्यान्तो विदेहमुक्त एव सः ॥ १२.२० ॥

सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा । प्रबुद्धो नास्ति यस्यान्तो विदेहमुक्त एव सः ॥ १२.२१ ॥

केवलं परमात्मा यः केवलं ज्ञानविग्रहः । सत्तामात्रस्वरूपो यो विदेहमुक्त एव सः ॥ १२.२२ ॥

जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति । ब्रह्मैवेति न यस्यान्तो विदेहमुक्त एव सः ॥ १२.२३ ॥

ब्रह्मैव सर्वमेवाहं नान्यत् किञ्चिज्जगद्भवेत् । इत्येवं निश्चयो भावः विदेहमुक्त एव सः ॥ १२.२४ ॥

इदं चैतन्यमेवेति अहं चैतन्यमेव हि । इति निश्चयशून्यो यो विदेहमुक्त एव सः ॥ १२.२५ ॥

चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः । सुखमात्रान्तरङ्गो यो विदेहमुक्त एव सः ॥ १२.२६ ॥

अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः । तुर्यातीतः परानन्दो विदेहमुक्त एव सः ॥ १२.२७ ॥

नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः । परब्रह्मस्वरूपात्मा विदेहमुक्त एव सः ॥ १२.२८ ॥

तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः । अशुभाशुभशान्तात्मा विदेहोन्मुक्त एव सः ॥ १२.२९॥

बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः । प्रपञ्चात्मा परो ह्यात्मा विदेहोन्मुक्त एव सः ॥ १२.३०॥

सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः । अन्तरात्मा ह्यनन्तात्मा विदेहोन्मुक्त एव सः ॥ १२.३१॥

अबोधबोधहीनात्मा अजडो जडवर्जितः । अतत्त्वातत्त्वसर्वात्मा विदेहोन्मुक्त एव सः ॥ १२.३२॥

असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः । अभूतो भूत एवात्मा विदेहोन्मुक्त एव सः ॥ १२.३३॥

चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदम्बरः । चिन्मात्ररूप एवात्मा विदेहोन्मुक्त एव सः ॥ १२.३४॥

सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः । सच्चिदानन्दपूर्णात्मा विदेहोन्मुक्त एव सः ॥ १२.३५॥

सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः । सदाऽखण्डैकरूपात्मा विदेहोन्मुक्त एव सः ॥ १२.३६॥

प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः । नित्यज्ञानपरानन्दो विदेहोन्मुक्त एव सः ॥ १२.३७॥

यस्य देहः क्वचिन्नास्ति यस्य किञ्चित् स्मृतिश्च न । सदात्मा ह्यात्मनि स्वस्थो विदेहोन्मुक्त एव सः ॥ १२.३८॥

यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः । योगात्मा योगयुक्तात्मा विदेहोन्मुक्त एव सः ॥ १२.३९॥

चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि । गुणागुणविकारान्तो विदेहोन्मुक्त एव सः ॥ १२.४०॥

कालदेशादि नास्त्यन्तो न ग्राह्यो नास्यतिः परः । निश्चयं च परित्यक्तो विदेहोन्मुक्त एव सः ॥ १२.४१॥

भूमानन्दापरानन्दो भोगानन्दविवर्जितः । साक्षी च साक्षीहीनश्च विदेहोन्मुक्त एव सः ॥ १२.४२॥

सोऽपि कोऽपि न सो कोऽपि किञ्चित् किञ्चिन्न किञ्चन । आत्मानात्मा चिदात्मा च चिदचिच्छाहमेव च ॥ १२.४३॥

यस्य प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न ।
स्वस्वरूपः स्वयंज्योतिर्विदेहन्मुक्त एव सः ॥ १२.४४॥

वाचामगोचरानन्दः सर्वेन्द्रियविवर्जितः ।
अतीतातीतभावो यो विदेहन्मुक्त एव सः ॥ १२.४५॥

चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः ।
सर्ववृत्तिविहीनो यो विदेहन्मुक्त एव सः ॥ १२.४६॥

तस्मिन् काले विदेहो यो देहस्मरणवर्जितः ।
न स्थूलो न कृशो वापि विदेहन्मुक्त एव सः ॥ १२.४७॥

ईषण्मात्रस्थितो यो वै सदा सर्वविवर्जितः ।
ब्रह्ममात्रेण यस्तिष्ठेत् विदेहन्मुक्त एव सः ॥ १२.४८॥

परं ब्रह्म परानन्दः परमात्मा परात्परः ।
परैरदृष्टबाह्यान्तो विदेहन्मुक्त एव सः ॥ १२.४९॥

शुद्धवेदान्तसारोऽयं शुद्धसत्त्वात्मनि स्थितः ।
तद्भेदमपि यस्त्यक्तो विदेहन्मुक्त एव सः ॥ १२.५०॥

ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् ।
ब्रह्मामृतरसे मग्नो विदेहन्मुक्त एव सः ॥ १२.५१॥

ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयं ।
ब्रह्मामृतरसे तृप्तो विदेहन्मुक्त एव सः ॥ १२.५२॥

ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः ।
ब्रह्मानन्दपरंज्योतिर्विदेहन्मुक्त एव सः ॥ १२.५३॥

ब्रह्मानन्दरसानन्दो ब्रह्मामृतनिरन्तरम् ।
ब्रह्मानन्दः सदानन्दो विदेहन्मुक्त एव सः ॥ १२.५४॥

ब्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् ।
ब्रह्मानन्दरसप्रीतो विदेहन्मुक्त एव सः ॥ १२.५५॥

ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः ।
ब्रह्मानन्दजनैर्युक्तो विदेहन्मुक्त एव सः ॥ १२.५६॥

ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः ।
ब्रह्मामृतजपो यस्य विदेहन्मुक्त एव सः ॥ १२.५७॥

ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्वचित् ।
ब्रह्मामृतमयी विद्या विदेहन्मुक्त एव सः ॥ १२.५८॥

ब्रह्मानन्दमदोन्मत्तो ब्रह्मामृतरसम्भरः ।
ब्रह्मात्मनि सदा स्वस्थो विदेहोन्मुक्त एव सः ॥ १२.५९॥

देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
मयोक्तं ते महायोगिन् विदेहः श्रवणाद्भवेत् ॥ १२.६०॥

स्कन्दः –

अनाथ नाथ ते पदं भजाम्युमासनाथ स-
न्निशीथनाथमौलिसंस्फुटल्ललाटसङ्ग(-)ज-
स्फुलिङ्गदग्धमन्मथं प्रमाथनाथ पाहि माम् ॥ १२.६१॥

विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात्
मनःसरोरुहं क्षणं तधेक्षणेन मे सदा ।
प्रबन्धसंसृतिभ्रमद्यमज्जनौघसन्ततौ
न वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥ १२.६२॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे देहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः ॥

॥ त्रयोदशोऽध्यायः ॥

ऋभुः -

शृणुष्व दुर्लभं लोके सारात् सारतरं परम् ।
आत्मरूपमिदं सर्वमात्मनोऽन्यन्न किंचन ॥ १३.१॥

सर्वमात्मास्ति परमा परमात्मा परात्मकः ।
नित्यानन्दस्वरूपात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.२॥

पूर्णरूपो महानात्मा पूतात्मा शाश्वतात्मकः ।
निर्विकारस्वरूपात्मा निर्मलात्मा निरात्मकः ॥ १३.३॥

शान्ताशान्तस्वरूपात्मा ह्यात्मनोऽन्यन्न किंचन ।
जीवात्मा परमात्मा हि चित्ताचित्तात्मचिन्मयः ।
एकात्मा एकरूपात्मा नैकात्मत्वविवर्जितः ॥ १३.४॥

मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ।
मोक्षरूपस्वरूपात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.५॥

द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ।
सर्ववर्जितसर्वात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.६॥

मुदामुदस्वरूपात्मा मोक्षात्मा देवतात्मकः ।
संकल्पहीनसारात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.७॥

निष्कळात्मा निर्मलात्मा बुद्ध्यात्मा पुरुषात्मकः ।
आनन्दात्मा ह्यजाता च ह्यात्मनोऽन्यन्न किंचन ॥ १३.८॥

अगण्यात्मा गण्यात्मा च अमृतात्मामृतान्तरः ।
भूतभव्यभविष्यात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.९॥

अखिलात्माऽनुमन्यात्मा मानात्मा भावभावनः ।
तुर्यरूपप्रसन्नात्मा आत्मनोऽन्यन्न किंचन ॥ १३.१०॥

नित्यं प्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ।
अन्यहीनस्वभावात्मा आत्मनोऽन्यन्न किंचन ॥ १३.११॥

असदीनस्वभावात्मा अन्यहीनः स्वयं प्रभुः ।
विद्याविद्यान्यशुद्धात्मा मानामानविहीनकः ॥ १३.१२॥

नित्यानित्यविहीनात्मा इहाऽमुत्रफलान्तरः ।
शमादिषट्कशून्यात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.१३॥

मुमुक्षुत्वं च हीनात्मा शब्दात्मा दमनात्मकः । नित्योपरतरूपात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.१४॥

सर्वकालतितिक्षात्मा समाधानात्मनि स्थितः । शुद्धात्मा स्वात्मनि स्वात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.१५॥

अन्नकोशविहीनात्मा प्राणकोशविवर्जितः । मनःकोशविहीनात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.१६॥

विज्ञानकोशहीनात्मा आनन्दादिविवर्जितः । पञ्चकोशविहीनात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.१७॥

निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः । शब्दानुविद्धहीनात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.१८॥

स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिविहीनात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.१९॥

दृश्यानुविद्धशून्यात्मा हृदिमध्यान्तवर्जितः । शान्ता समाधिशून्यात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.२०॥

प्रज्ञानवाक्यहीनात्मा अहं ब्रह्मास्मिवर्जितः । तत्त्वमस्यादिवाक्यात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.२१॥

अयमात्मेत्यभावात्मा सर्वात्मा वाक्यवर्जितः । ओंकारात्मा गुणात्मा च ह्यात्मनोऽन्यन्न किंचन ॥ १३.२२॥

जाग्रद्दीनस्वरूपात्मा स्वप्नावस्थाविवर्जितः । आनन्दरूपपूर्णात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.२३॥

भूतात्मा च भविष्यात्मा ह्यक्षरात्मा चिदात्मकः । अनादिमध्यरूपात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.२४॥

सर्वसंकल्पहीनात्मा स्वच्छचिन्मात्रमक्षयः । ज्ञातृज्ञेयादिहीनात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.२५॥

एकात्मा एकहीनात्मा द्वैताद्वैतविवर्जितः । स्वयमात्मा स्वभावात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.२६॥

तुर्यात्मा नित्यमात्मा च यत्किंचिदिदमात्मकः । भानात्मा मानहीनात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.२७॥

वाचावधिरनेकात्मा वाच्यानन्दात्मनन्दकः । सर्वहीनात्मसर्वात्मा ह्यात्मनोऽन्यन्न किंचन ॥ १३.२८॥

आत्मानमेव वीक्ष्यस्व आत्मानं भावय स्वकम् ।
स्वात्मानं स्वयं भुङ्क्ष्व ह्यात्मनोऽन्यन्न किंचन ॥ १३.२९॥

स्वात्मानमेव संतुष्य आत्मानं स्वयमेव हि ।
स्वात्मानं स्वयं पश्येत् स्वमात्मानं स्वयं श्रुतम् ॥ १३.३०॥

स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयंभरः ।
स्वमात्मानं स्वयं भस्म ह्यात्मनोऽन्यन्न किंचन ॥ १३.३१॥

स्वमात्मानं स्वयं मोदं स्वमात्मानं स्वयं प्रियम् ।
स्वमात्मानमेव मन्तव्यं ह्यात्मनोऽन्यन्न किंचन ॥ १३.३२॥

आत्मानमेव श्रोतव्यं आत्मानं श्रवणं भव ।
आत्मानं कामयेन्नित्यं आत्मानं नित्यमर्चय ॥ १३.३३॥

आत्मानं श्लाघयेन्नित्यमात्मानं परिपालय ।
आत्मानं कामयेन्नित्यं आत्मनोऽन्यन्न किंचन ॥ १३.३४॥

आत्मैवयमियं भूमिः आत्मैवेदमित्थं जलम् ।
आत्मैवेदमित्थं ज्योतिरात्मनोऽन्यन्न किंचन ॥ १३.३५॥

आत्मैवायमयं वायुरात्मैवेदमित्थं वियत् ।
आत्मैवायमहङ्कारः आत्मनोऽन्यन्न किंचन ॥ १३.३६॥

आत्मैवेदमित्थं चित्तं आत्मैवेदमित्थं मनः ।
आत्मैवेयमियं बुद्धिरात्मनोऽन्यन्न किंचन ॥ १३.३७॥

आत्मैवायमयं देहः आत्मैवायमयं गुणः ।
आत्मैवेदमित्थं तत्त्वं आत्मनोऽन्यन्न किंचन ॥ १३.३८॥

आत्मैवायमयं मन्त्रः आत्मैवायमयं जपः ।
आत्मैवायमयं लोकः आत्मनोऽन्यन्न किंचन ॥ १३.३९॥

आत्मैवायमयं शब्दः आत्मैवायमयं रसः ।
आत्मैवायमयं स्पर्शः आत्मनोऽन्यन्न किंचन ॥ १३.४०॥

आत्मैवायमयं गन्धः आत्मैवायमयं शमः ।
आत्मैवेदमित्थं दुःखं आत्मैवेदमित्थं सुखम् ॥ १३.४१॥

आत्मीयमेवेदं जगत् आत्मीयः स्वप्न एव हि ।
सुषुप्तं चाप्याथात्मीयं आत्मनोऽन्यन्न किंचन ॥ १३.४२॥

आत्मैव कार्यमात्मैव प्रायो ह्यात्मैवमद्वयम् ।
आत्मीयमेवमद्वैतं आत्मनोऽन्यन्न किंचन ॥ १३.४३॥

आत्मैवायमयं कोऽपि आत्मैवेदमिदं क्वचित् । आत्मैवायमयं लोकः आत्मनोऽन्यन्न किंचन ॥ १३.४४॥

आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः । आत्मैवेदमिदं सर्वं आत्मनोऽन्यन्न किंचन ॥ १३.४५॥

आत्मैवायमयं शंभुः आत्मैवेदमिदं जगत् । आत्मैवायमयं ब्रह्म आत्मनोऽन्यन्न किंचन ॥ १३.४६॥

आत्मैवायमयं सूर्य आत्मैवेदमिदं जडं । आत्मैवेदमिदं ध्यानं आत्मैवेदमिदं फलं ॥ १३.४७॥

आत्मैवायमयं योगः सर्वमात्ममयं जगत् । सर्वमात्ममयं भूतं आत्मनोऽन्यन्न किंचन ॥ १३.४८॥

सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः । सर्वमात्ममयं शिष्य आत्मनोऽन्यन्न किंचन ॥ १३.४९॥

सर्वमात्ममयं देवः सर्वमात्ममयं फलं । सर्वमात्ममयं लक्ष्यं आत्मनोऽन्यन्न किंचन ॥ १३.५०॥

सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयं । सर्वमात्ममयं मोक्षं आत्मनोऽन्यन्न किंचन ॥ १३.५१॥

सर्वमात्ममयं कामం सर्वमात्ममयं क्रिया । सर्वमात्ममयं क्रोधः आत्मनोऽन्यन्न किंचन ॥ १३.५२॥

सर्वमात्ममयं विद्या सर्वमात्ममयं दिशः । सर्वमात्ममयं लोभः आत्मनोऽन्यन्न किंचन ॥ १३.५३॥

सर्वमात्ममयं मोहः सर्वमात्ममयं भयं । सर्वमात्ममयं चिंता आत्मनोऽन्यन्न किंचन ॥ १३.५४॥

सर्वमात्ममयं धैर्यं सर्वमात्ममयं ध्रुवं । सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किंचन ॥ १३.५५॥

सर्वमात्ममयं बोधं सर्वमात्ममयं दृढं । सर्वमात्ममयं मेयं आत्मनोऽन्यन्न किंचन ॥ १३.५६॥

सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभं । सर्वमात्ममयं शुद्धं आत्मनोऽन्यन्न किंचन ॥ १३.५७॥

सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः । पूर्णमात्मा क्षयं चात्मा परमात्मा परात्परः ॥ १३.५८॥

इतोऽप्यात्मा ततोऽप्यात्मा ह्येतैवात्मा ततस्ततः ।
सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किंचन ॥ १३.५९॥

सर्वमात्मस्वरूपं हि दृश्यादृश्यं चराचरं ।
सर्वमात्ममयं श्रुत्वा मुक्तिमाप्नोति मानवः ॥ १३.६०॥

स्वतंत्रशक्तिर्भगवानुमाधवो
विचित्रकायात्मकजाग्रतस्य ।
सुकारणं कार्यपरंपराभिः
स एव मायाविततोऽव्ययात्मा ॥ १३.६१॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः ॥

॥ चतुर्दशोऽध्यायः ॥

ऋभुः –

शृणुष्व सर्वं ब्रह्मैव सत्यं सत्यं शिवं शपे ।
निश्चयेनात्मयोगीन्द्र अन्यत् किंचिन्न किंचन ॥ 14.1॥

अणुमात्रमसद्रूपं अणुमात्रमिदं ध्रुवं ।
अणुमात्रशरीरं च अन्यत् किंचिन्न किंचन ॥ 14.2॥

सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयं ।
नित्यनिर्मलशुद्धात्मा अन्यत् किंचिन्न किंचन ॥ 14.3॥

अणुमात्रे विचिंत्यात्मा सर्वं न ह्यणुमात्रकं ।
अणुमात्रमसंकल्पो अन्यत् किंचिन्न किंचन ॥ 14.4॥

चैतन्यमात्रं संकल्पं चैतन्यं परमं पदं ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.5॥

चैतन्यमात्रमोंकारः चैतन्यं सकलं स्वयं ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.6॥

आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.7॥

अहमेव हि गुप्तात्मा अहमेव निरंतरं ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.8॥

अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.9॥

अहमेवाखिलाधार अहमेव सुखात् सुखं ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.10॥

अहमेव परं ज्योतिरहमेवाखिलात्मकः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.11॥

अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.12॥

अहमेव हि पूर्णात्मा अहमेव पुरातनः ।
आनन्दं परमं मानं इदं दृश्यं न किंचन ॥ 14.13॥