उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
५८ उत्तरगीतायां नितलं पादसंधिश्च सुतलं जङ्घमुच्यते ॥ २७ ॥ महातलं तु जानु स्या- दूरुदेशो रसातलम् । कटिस्तालतलं प्रोक्तं सप्त पातालसंज्ञया ॥ २८ ॥ पदः पादस्याधोदेशे अतललोकं विद्यात्; पादं तु वितलं लोकमिति विदुः योगिन इति शेषः; पादसंधि तु गुल्फ- स्थानं नितलं विद्यात्; जङ्घं सुतलमित्युच्यते; जानुदेशः महातलं स्यात्; ऊरुदेशः रसातलं विद्यात्; कटिदेशः तला- तलं प्रोक्तम्; एवं देहावयवाः सप्त पातालादिलोकसंज्ञया कल्पनीया इत्यर्थः ॥ किंच-- कालाग्निनरकं घोरं महापातालसंज्ञया । पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् ॥ २९ ॥
द्वितीयोऽध्यायः । ५९ वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसंज्ञकः । घोरं भयंकरं कालाग्निनरकं कालाग्निदेशवत् कालाग्न्या- कारा ह्यानरकदेशवत् भोगीन्द्रफणिमण्डलं भोगीन्द्राः सर्प- राजानः फणयः इतरे सर्पाः तेषां मण्डलं समूहवत् यत् पा- तालम्, तत् नाभ्यधोभागे नाभ्यधःप्रदेशे महापातालसंज्ञया ऽभिहितमिति विद्यात्; स जीवसंज्ञकः जीवसंज्ञावान् शेषः सर्वतः सर्वं वेष्टितः सन् बिभ्रन्सन् स्थितः कुण्डलाकारेणा- वृत्य वर्तत इत्यर्थः ॥ भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥ ३० ॥ हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः । हृदयं स्वर्गलोकं विद्यात्, तत्र सूर्यादिग्रहाः नक्षत्राणि च तिष्ठन्तीत्यर्थः । शेषं स्पष्टम् ॥ किंच— सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥ ३१ ॥
६० उत्तरगीतायां मन्दश्च सप्तमो ह्येष ध्रुवोऽन्तः स्वर्गलोकतः । सूर्यसोमेत्यादि सूर्यादिग्रहनक्षत्रमित्यस्य व्याख्यानम् । ध्रुवोऽन्तः स्वर्गलोकतः स्वर्गलोकस्यान्ते ध्रुवो वर्तत इत्यर्थः ॥ एवं कल्पनाफलमाह हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥ ३२ ॥ योगी हृदये एव सूर्यादिग्रहनक्षत्रादीनि कल्पयन् तस्मिन् हृदि कल्पनाविशेषेण सर्वसुखं लभेत्; तत्तल्लोकगतसुखानि प्राप्नोतीत्यर्थः ॥ किंच-- हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः । तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥ ३३ ॥ हृदयस्योपरीति शेषः । स्पष्टमन्यत् ॥
द्वितीयोऽध्यायः । ६१ एवं देहे एव सर्वलोककल्पनामुक्त्वा तल्लयप्रकारमाह-- ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते । अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥ ३४ ॥ आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च । बुद्ध्यहंकारचित्तं च क्षेत्रज्ञः परमात्मनि ॥ ३५ ॥ अत्र तामसाहंकारकार्याणां पृथिव्यादीनां सात्त्विकाहंका- रकार्ये मनसि क्रमेण लयकथनं मनोवृत्तिविषयत्वाधीनव्यव- हारगोचरत्वादुपचारात् इति मन्तव्यम् । तच्च मनो बुद्धौ बुद्धिरहंकारे अहंकारं चित्ते चित्तं क्षेत्रज्ञे क्षेत्रज्ञः, परमात्मनि एवं सर्वात्मनि प्रविलापयेदित्यर्थः ॥ एवं योगाभ्यासेन ब्रह्मैक्यानुसंधानवतः सकलदुरितनि- वृत्तिरित्याह-- U, 5
६२ उत्तरगीतायां अहं ब्रह्मेति मां ध्याये- देकाग्रमनसा सकृत् । सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥ ३६ ॥ स्पष्टोऽर्थः ॥ जीवस्य मुक्तिस्वरूपमाह-- घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥ ३७ ॥ घटे नीयमाने पूर्वदेशादन्यदेशं प्राप्यमाने घटे नष्टे च यथा घटाकाशं महाकाशे ऐक्यं प्राप्नोति, तद्वज्जीवः परमा- त्मनीत्यर्थः ॥ किंच-- घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥ ३८ ॥
द्वितीयोऽध्यायः । ६३ यः आत्मानं जीवं घटाकाशमिव परमात्मनि लयं गतं तत्त्वतः यथार्थतया वेत्ति, सः ज्ञानी निरालम्बं निःसंगं ज्ञानालोक्यं ब्रह्मप्रकाशात्मतत्त्वं गच्छति प्राप्नोति, न संशयः संदेहो नास्तीत्यर्थः ॥ एतस्य ज्ञानयोगस्य किमपि न तुल्यमित्याह-- तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ ३९ ॥ आलोच्य चतुरो वेदा- न्धर्मशास्त्राणि सर्वदा । यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥ ४० ॥ यथा खरश्चन्दनभारवाही ‘ सारस्य वाही न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य सारं त्वजानन्खरवद्वहेत्सः ॥ ४१ ॥
६४ उत्तरगीतायां चन्दनभारवाही श्रीचन्दनकाष्ठभारवाही खरः चन्दन- सारवाही न भवति तद्गन्धानुभववान्न भवति, एवं बहूनि शास्त्राण्यधीत्यापि सारं तु अजानन् ब्रह्म न जानन् खरवत् शोच्यः आक्रोश्य इत्यर्थः ॥ ब्रह्मज्ञानपर्यन्तं सर्वमनुष्ठेयम्, ज्ञाते तु सर्वं व्यर्थमित्याह-- अनन्तकर्म शौचं च जपो यज्ञस्तथैव च तीर्थयात्रादिगमनं यावत्तत्त्वं न विन्दति ॥ ४२ ॥ देहे भिन्नेऽप्यात्मैक्यं दृष्टान्तेनाह-- गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् । क्षीरवद्दृश्यते ज्ञानं देहिनां च गवां यथा ॥ ४३ ॥ अनेकवर्णानां शुक्लादिभिन्नभिन्नवर्णानां गवां क्षीरं यथा एकवर्णम्, मीमांसकमते गुणव्यक्तेरेकत्वादिति भावः; तथा भिन्नभिन्नानां देहिनां ज्ञानं ब्रह्म एकं दृश्यत इत्यर्थः ॥
द्वितीयोऽध्यायः । ६५ अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥ ४४ ॥ ममेति बध्यते जन्तु- र्न ममेति विमुच्यते ॥ ममेति ममताविषयत्वेन स्वीकृतं सर्वं बन्धाय भवति ; न ममेति ममत्वं विहाय त्यक्तं मोक्षायैवेत्यर्थः । स्पष्टम- न्यत् ॥ अहंकारत्यागकार्यमाह — मनसो ह्युन्मनीभावा- द्द्वैतं नैवोपलभ्यते । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ ४५ ॥ मनसः चित्तस्य उन्मनीभावात् अहंकारत्यागात् द्वैतं नैवो- पलभ्यते, अहंकारोपाधिकत्वाद्भेदस्येति भावः । तथा च यदा उन्मनीभावं मनो याति निष्कृष्टाहंकारचैतन्यं भवति, तदा तदेव परमं पदं मोक्ष इत्याभिधीयते ॥
६८ उत्तरगीतायां
तदुक्तम् ‘आलोड्य सर्वशास्त्राणि’ इत्यादि। उक्तं च हरि- वंशे — ‘असत्कीर्तनकान्तारपरिवर्तनपांसुभिः। वाचं हरि- कथालापगङ्गायैव पुनीमहे’ इति। तत्र दृष्टान्तमाह—हंसो यथा अम्बुमिश्रत्वेऽपि अम्ब्त्वंशं विहाय क्षीरमेवोपादत्ते तद्व- दिति भावः ॥
तस्मात्पाण्डित्यं निर्विद्येत्यादिश्रुत्या पाण्डित्यप्रकटनस्य ब्रह्मोपासनाप्रतिबन्धकत्वेन सर्वमपि पाण्डित्यं हेयमित्याह—
पुराणं भारतं वेद- शास्त्राणि विविधानि च। पुत्रदारादिसंसारो योगाभ्यासस्य विघ्नकृत् ॥ २ ॥
योगाभ्यासस्य आत्मैक्ययोगाभ्यासस्य। शेषं स्पष्टम् ॥ किं च आत्मविचारमन्तरेण इतरशास्त्राणि न विचारयि- तव्यानीत्याह--
इदं ज्ञानमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति। अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ ३ ॥
तृतीयोऽध्यायः । ६९ सहस्रवर्षपरिमितायुष्मानपि एकैकस्य शास्त्रस्य अन्त॑ पारं भावनिश्चयं वा नाधिगच्छति; किमुत वक्तव्यम् स- र्वाणि शास्त्राणि नाधिगच्छतीति भावः ॥ ३ ॥ तर्हि सर्वमपि विहाय अधिगन्तव्यं वा किमित्याश- ङ्क्याह— विज्ञेयोऽक्षरसन्मात्रं जीवितं चापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥ ४ ॥ अक्षरसन्मात्रं नाशरहितसत्तामात्रात्मक आत्मा विज्ञेयः । तत्र च वैराग्यार्थं जीवितमपि चञ्चलमिति विज्ञेयम् , ‘चर- मश्वासवेलायां यत्कृत्यं तत्सद्य कुरु’ इति न्यायात् । तस्मा- च्छास्त्रजालानि विहाय यत्सत्यं तदेवोपास्यतामिति ॥ इन्द्रियजये वैराग्यं स्वत एव जायत इत्याह— पृथिव्यां यानि भूतानि जिह्वोपस्थनिमित्तकम् । जिह्वोपस्थपरित्यागे पृथिव्यां किं प्रयोजनम् ॥ ५ ॥
७० उत्तरगीतायां जिह्वोपस्थनिमित्तकम् आहारव्यवायनिमित्तं सत् पृथिव्यां यानि भूतानि सन्ति, प्रायशः तत्परित्यागी चेत्, पृथिव्यां किं प्रयोजनम् , किमपि प्रयोजनं नास्तीत्यर्थः, 'जितं सर्वं जिते रसे' इति न्यायात् ॥ एवमात्मसमाधिनिष्ठस्य सर्वत्र ब्रह्मदर्शनमेव, नान्यद्दर्शन- मित्याह-- तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् । योगिनो न प्रपद्यन्ते आत्मध्यानपरायणाः ॥ ६ ॥ तीर्थस्नानादिना देवतापूजादिना च अध्यात्मसमाधौ सिद्धे पुनस्तेन किं प्रयोजनमिति भावः । स्पष्टमन्यत् ॥ योगिनः सर्वत्र ब्रह्मदर्शनमेवेत्येतत् अधिकारिभेदेनोप- पादयति-- अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनाम् ॥ ७ ॥
तृतीयोऽध्यायः । ७१ द्विजातीनां कर्मकाण्डरतानाम् अग्निर्देवतम् , मुनीनां मननशीलानां योगिनां हृदि हृत्कमलमध्यस्थिता परिच्छिन्न- मूर्तिर्देवतम् , स्वल्पबुद्धीनां प्राकृतानां तु मृत्पाषाणादिप्रति- मैव दैवतम् , समदर्शिनां तु आरूढानां सर्वत्र 'सर्वं खल्विदं ब्रह्म' इति श्रुत्या सर्वमपि दैवतमेवेत्यर्थः ॥ तस्मात् ज्ञानेनैव ज्ञातव्यम् , ज्ञानाभावे ब्रह्म न पश्यती- त्याह--- सर्वत्रावस्थितं शान्तं न प्रपश्येज्जनार्दनम् । ज्ञानचक्षुर्विहीनत्वा- दन्धः सूर्यमिवोदितम् ॥ ८ ॥ सर्वत्रावस्थितं सर्वत्र परिपूर्णमपि अज्ञः न पश्यति ; तत्र हेतुः ज्ञानचक्षुर्विहीनत्वात् ज्ञानाख्यचक्षूरहितत्वात् , तत्र दृष्टान्तमाह-- अन्ध इति । स्पष्टमन्यत् ॥ सर्वं ब्रह्मेत्येतदुपपादयति--- यत्र यत्र मनो याति तत्र तत्र परं पदम् ।
७४ उत्तरगीतायां र्वाणं मोक्षसुखात्मकं परमम् उत्कृष्टं विष्णुं व्यापकम् अव्य- यम् नाशरहितम् सर्वतोज्योतिराकाशं सर्वतः स्वयंप्रकाशं सर्वभूताधिवासिनं सर्वान्तर्नियामकं परमात्मानं खगाकारं हंसात्मकं विचिन्तयेत् ध्यायेदित्यर्थः ॥ एवं चिन्तयतः पापलेशोऽपि नास्तीत्याह-- अहं ब्रह्मेति यः सर्वं विजानाति नरः सदा । हन्यात्स्वयमिमान्कामा- न्सर्वाशी सर्वविक्रयी ॥ १३ ॥ सर्वं निषिद्धं कृत्वापि कर्मभिर्न स बध्यते इति, यः सदा सर्वं ब्रह्मेति विजानाति, सर्वाश्यपि सर्वनिषिद्धभक्ष्यपि सर्वविक्रयी सर्वनिषिद्धविक्रय्यपि इमान् कामान् अरिषड्- र्गान् हन्यात् जयेत्, सर्वनिषिद्धकर्म कृत्वापि तैर्निषिद्धक- र्मभिर्न बध्यते ॥ क्षणमात्रं वा ब्रह्मध्यानरतस्य नान्यसुखचिन्तेत्याह-- निमिषं निमिषार्धं वा शीताशीतनिवारणम् ।
तृतीयोऽध्यायः । ७५ अचला केशवे भक्ति- र्विभवैः किं प्रयोजनम् ॥ १४ ॥ शीताशीतनिवारणं यथा तथा शीतोष्णसुखदुःखादि- द्वन्द्वसहिष्णुतया निमिषं निमिषार्धं वा केशवे भक्तिर- चला चेत्, विभवैः भक्त्यतिरिक्तविषयसुखैः किं प्रयोजन- मिति ॥ एतादृशो योगी यदि मोक्षमपेक्षेत, तर्हि नान्यविषयचि- न्तां कुर्यादित्याह— भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् । अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥ १५ ॥ समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षते । योगी चिन्त्यं मोक्षं यदि अपेक्षेत, तर्हि देहरक्षणार्थमेव भिक्षान्नं चिन्तयेत्, न त्विन्द्रियप्रीत्यर्थमित्यर्थः; वस्त्रं च शी- तनिवारणार्थं चिन्तयेत्, न अलंकाराय; अश्मानं पाषाणं
७६ उत्तरगीतायां हिरण्यं सुवर्णं च शाकं बाल्योद्भूतं च हेयोपादेयवैषम्यरा- हित्येन चिन्तयेदित्यर्थः ॥ किं च— भूतवस्तुन्यशोचित्वे ... पुनर्जन्म न विद्यते ॥ १६ ॥ भूतवस्तुनि गतवस्तुनि अशोचित्वे गतमिति दुःखराहि- त्ये सिद्धे, उपलक्षणमेतत्, आगामिवस्तुमिरपेक्षत्वे सिद्धे, वर्तमानवस्तुनि लब्धे हर्षराहित्ये सिद्धे च पुनर्जन्म न विद्यते ॥ आत्मयोगमवोचद्यो ब्रह्मयोगशिरोमणिम् । तं वन्दे परमानन्दं कमलगर्भमीश्वरम् ॥ इति श्रीगौडपादाचार्यविरचितायाम् उत्तरगीताव्याख्यायाम् तृतीयोऽध्यायः ॥
प्रस्तुत पृष्ठ पूर्णतः रिक्त (खाली/blank) है, अतः इस पर कोई पाठ (text) उपलब्ध नहीं है।
THE RAMAKRISHNA MISSION INSTITUTE OF CULTURE LIBRARY CALCUTTA
इस पृष्ठ/छवि में कोई पाठ (text) दिखाई नहीं दे रहा है; यह पृष्ठ पूर्णतः रिक्त (blank) है।
THE RAMAKRISHNA MISSION INSTITUTE OF CULTURE LIBRARY CALCUTTA
इस पृष्ठ/चित्र में कोई पाठ (Text) उपलब्ध नहीं है। यह पूर्णतः रिक्त (blank) है।