वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
PREFACE. Ever since the first edition of Vasiṣṭha's Dharmaśā'stra appeared in 1883, I have tried in vain to obtain some new and still more reliable Mss., being quite independent of those already known, or some old commentary on this difficult lawbook. During my Archæological tour through Râjputâna in 1892-93 I came across in the library of Śâstri Śrīnivâsj₁ Keśavadevjī at Kotah an old manuscript (named K. in the present edition), dated Saṃvat 1410. which offers a few better, well-marked and widely varying readings, thus furnishing new materials for settling some of the much debated points of the established text. I am, however, painfully conscious of the many corrupt passages still remaining and awaiting further elucidation; but I offer the carefully revised text to Oriental scholars as an honest attempt to enable the student to read a difficult Sanskrit work which will well repay the trouble of mastering it. As long as no new information can be furnished regarding the school of the Ṛigveda, to which the Vāsiṣṭhadharmaśāstra belongs, and referring to the us- age of language prevailing at that school, it would be most hazardous to venture on the introduction of any emendations in the text. BĀLE (SUISSE), the 10th June 1914. A. A. F.
(इस पृष्ठ पर कोई मुद्रित पाठ नहीं है / यह पृष्ठ रिक्त है)
॥ अथ श्रीवासिष्ठधर्मशास्त्रानुक्रमणिका ॥ प्रकरणम् । पृष्ठाङ्कः । अथ प्रथमाध्याय उपोद्घातप्रकरणम् .... .... १ द्वितीयाध्याये वर्णाश्रमधर्माः कर्माणि च .... ... ५ तृतीयाध्यायेऽध्ययनधर्मा आह्निकाचाराश्च .... .... ९ चतुर्थ आशौचनिर्णयो द्रव्यशुद्धिश्च .... .... १५ पञ्चमे स्त्रीधर्माः .... .... .... .... १७ षष्ठ आचारादर्शः .... .... .... .... १९ सप्तमे ब्रह्मचारिधर्माः .... .... .... .... २३ अष्टमे गृहाश्रमिधर्माः.... .... .... .... २४ नवमे वानप्रस्थधर्माः .... .... .... .... २५ दशमे संन्यासिधर्माः .... .... .... .... २६ एकादश आतिथ्यसत्कारः श्राद्धोपकरणानि च .... .... २८ द्वादशे स्नातकधर्माः ... .... ... .... ३४ त्रयोदश आचार्यलक्षणम् .... .... .... ३६ चतुर्दशे भोजनविधिनिषेधाः .... .... .... ४० पञ्चदशे दत्तकपुत्रनिर्णयः .... .... .... ४४ षोडशेष्टादशपदेषु दण्डः .... .... .... ४५ सप्तदशे धनविभागः .... .... .... .... ४८ अष्टादशे विविधोत्पत्तिः .... .... .... ५४ एकोनविंशे राजधर्माः.... .... .... ... ५५ विंशे कृच्छ्राणि .... .... .... .... ५८ एकविंशे चान्द्रायणलक्षणम् .... ... .... ६२
१० प्रकरणम् पृष्ठाङ्कः। द्वाविंशे ब्रह्महत्याप्रायश्चित्तम् .... .... .... ६५ त्रयोविंशे सुरापानप्रायश्चित्तम् .... .... .... ६७ चतुर्विंशे सुवर्णस्तेयप्रायश्चित्तम् .... .... .... ७० पञ्चविंशे संसर्गप्रायश्चित्तम् .... ... .... ७१ षड्विंशे रहस्यप्रायश्चित्तम् .... .... .... ७२ सप्तविंशे सूक्तादीनि .... .... .... .... ७४ अष्टाविंशे प्रकीर्णकदानानि.... .... .... .... ७७ एकोनत्रिंशे कूपारामतडागादिदानम् .... .... .... ७९ त्रिंश एतच्छास्त्राध्ययनफलम् .... .... .... ८०
॥ अथ श्रीवासिष्ठधर्मशास्त्रं प्रारभ्यते ॥ अथातः पुरुषनिःश्रेयसार्थं धर्मजिज्ञासा ॥ १ ॥ ज्ञात्वा चानुतिष्ठन्धार्मिकः ॥ २ ॥ प्रशस्यतमो भवति लोके प्रेत्य च स्वर्गलोकं समश्नुते ॥ ३ ॥ श्रुतिस्मृतिविहितो धर्मः ॥ ४ ॥ तदलाभे शिष्टाचारः प्रमाणम् ॥ ५ ॥ शिष्टः पुनरकामात्मा ॥ ६ ॥ अगृह्यमाणकारणो धर्मः ॥ ७ ॥ आर्यावर्तः प्रागादर्शात्प्रत्यक्कालकवनादुदक्पारियात्राद्दक्षिणेन हि- मवतः ॥ ८ ॥ उत्तरेण च विन्ध्यस्य ॥ ९ ॥ तस्मिन्देशे ये धर्मा ये चाचारास्ते सर्वत्र प्रत्येेतव्याः ॥ १० ॥ न त्वन्ये प्रतिलोमकधर्माणाम् ॥ ११ ॥ I. २. ज्ञात्वानुतिष्ठन्ध° B. ज्ञात्वानुष्ठानेन ध° Bh. 7. thus B. Bh. E. F; but Ban. ed. अगृह्यमाणकारणोऽधर्मः 8. Bh. E. F. and Ban. ed. read प्रागादर्शनात् instead of प्रागदर्शनात् as rendered by Prof. Bühler in his translation of this passage. B.reads प्रागादर्शात् as Patañjali on Pāṇini II. 4. 10. °कालकाद्वनादु° B. Baudhāyana's Dharmasūtra I., 1, 2, 9. quotes the following definition of the Āryāvarta: प्राग्विनशनात्प्रत्यक्कालकाद्वनाद्दक्षिणेन हिमवन्तमुदक्पारियात्रमेतदार्यावर्तम् ॥ 11. न ह्यन्ये प्रतिलोमकक्षधर्माणः Bh. E. प्रतिलोमकल्पधर्माणः F. H. प्रतिलोम- कल्पधर्माः Calc. ed.
१. अध्याय १-६: आचार, संस्कार व ब्रह्मचर्य-गृहस्थ
२
गङ्गायमुनयोरन्तरेप्येके ॥ १२ ॥ यावद्वा कृष्णमृगो विचरति तावद्ब्रह्मवर्चसमित्यन्ये ॥ १३ ॥ अथापि भाल्लविनो निदाने गाथामुदाहरन्ति ॥ १४ ॥ पश्चात्सिन्धुर्विधारणी सूर्यस्योदयनं पुरः । यावत्कृष्णोभिधावति तावद्वै ब्रह्मवर्चसमिति ॥ १५ ॥ त्रैविद्यवृद्धा यं ब्रूयुर्धर्मं धर्मविदो जनाः । पवने पावने चैव स धर्मो नात्र संशय इति ॥ १६ ॥ देशधर्मजातिधर्मकुलधर्माञ्श्रुत्यभावादब्रवीन्मनुः ॥ १७ ॥ सूर्याभ्युदितः सूर्याभिनिर्मुक्तः कुनखी श्यावदन्तः परिवित्तिः परि- वेत्ताग्रेदिधिषूर्दिधिषूपतिर्वीरहा ब्रह्मोञ्झ इत्येनस्विनः ॥१८॥ पञ्च महापातकान्याचक्षते ॥ १९ ॥ गुरुतल्पं सुरापानं भ्रूणहत्या ब्राह्मणसुवर्णापहरणं पतितसंयो- गश्च ॥ २० ॥ ब्राह्मेण वा यौनेन वा ॥ २१ ॥
- B. and Ban. ed. read this Sūtra: एतदार्यावर्तमित्याचक्षते गङ्गा- यमुनयोरन्तरेप्येके। Bh. joins the first four words with Sūtra 11. Most likely the words एतदार्यावर्तमित्याचक्षते belong originally to Sūtra 8 according to the above-mentioned reading of Baudhā- yana, and are here a mistake of the copyists. Therefore Sūtra 8 ought probably to be corrected thus: प्रागादर्शात् [or प्राग्दर्शनात्] प्रत्यक्कालकवनादुदक्पारियात्राद्दक्षिणेन हिमवत एतदार्यावर्तमित्याचक्षते ॥ 13. ॰ब्रह्मावर्तम् B. Bh. E. 14. भाल्लुविभो Bh. 15. ॰विधरणी॰ B. Bh. H. ॰विहारिणी F. पुरा F. H. पुनः E. यावत्कृष्णमृगो धावति तावद्ब्रह्मवर्चसमिति । B. Bh. H. 16. ऐतेन पावने Bh. यजने पावने E, F. पवनं पावनं चैव K. 18. सूर्याभ्युदयितः B. H. ॰बीजहा ब्रह्मघ्नः Calc. ed. 20. सुवर्णहरणम् E. F. सुवर्णापहरणम् Ban. ed. ॰संप्रयोगश्च E.
३ अथाप्युदाहरन्ति । संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाद्भानादिति ॥ २२ ॥ योग्नीनपविध्येद्गुरुं च यः प्रतिदह्युयान्नास्तिको नास्तिकवृत्तिः सोमं च विक्रीणीयादित्यपपातकानि ॥ २३ ॥ तिस्रो ब्राह्मणस्य भार्या वर्णानुपूर्वेण द्वे राजन्यस्य एकैका वैश्य- शूद्रयोः ॥ २४ ॥ शूद्रामप्येके मन्त्रवर्जं तद्वत् ॥ २५ ॥ तथा न कुर्यात् ॥ २६ ॥ अतो हि ध्रुवः कुलापकर्षः प्रेत्य चास्वर्गः ॥ २७ ॥ षड्विवाहाः ॥ २८ ॥ ब्राह्मो दैव आर्षो गान्धर्वः क्षात्रो मानुषश्चेति ॥ २९ ॥ इच्छत उदकपूर्वं यां दद्यात्स ब्राह्मः ॥ ३० ॥ यज्ञतन्त्रे वितत ऋत्विजे कर्म कुर्वते कन्यां दद्यादलंस्कृत्य तं दैवमित्याचक्षते ॥ ३१ ॥ गोमिथुनेन चार्षः ॥ ३२ ॥ सकामां कामयमानः सदृशीं योनिमुह्यात्स गान्धर्वः ॥ ३३ ॥ यां [ बलेन सहसा प्रमथ्य ] हरन्ति स क्षात्रः ॥ ३४ ॥ [ पणित्वा धनक्रीतां ] स मानुषः ॥ ३५ ॥ तस्माद्दुहितृमतेधिरथं शतं देयमितीह क्रयो विज्ञायते ॥ ३६ ॥ 22. अथाभ्युदाहरन्ति. F. पानाशनादिति B. यानासनादिति Ban. ed. यानाशनादिति Bh. H. ॰यौनादन्नपानासनादपि Calc. ed. Compare Viṣṇu- smṛti. xxxv, 3.-5. and Baudhāyana II,2,35.23. प्रतिजह्युयात् B. Bh. F., प्रतिजॊहुयात् K. नास्तिक्यवृत्तिः। Bh. H. 24.Bh. omits वर्णानुपूर्वे until न कुर्यात्। 25. तद्वत्तथा. Ban. ed. 26. तथाऽनुकुर्यात् E. 27. अस्वर्ग्यः Bh F. H. 30. पूर्वो Bh. स च B. 31. यं B. Bh. 32. चार्यः Bh. 34.and 35. the passages in brackets are probably glosses. 35. धनीक्रीताम् Bh.H
४ या पत्युः क्रीता सत्यथान्यैश्चरतीति ह चातुर्मास्येषु ॥ ३७ ॥ अथाप्युदाहरन्ति । विद्या प्रनष्टा पुनरभ्युपैति कुलप्रणाशे त्विह सर्वनाशः । कुलापदेशेन हयोपि पूज्य- स्तस्मात्कुलीनां स्त्रियमुद्वहन्तीति ॥ ३८ ॥ त्रयो वर्णा ब्राह्मणस्य निर्देशेन वर्तेरन् ॥ ३९ ॥ ब्राह्मणो धर्मान्प्रब्रूयात् ॥ ४० ॥ राजा चानुशिष्यात् ॥ ४१ ॥ राजा तु धर्मेणानुशासन्षष्ठं धनस्य हरेत् ॥ ४२ ॥ अन्यत्र ब्राह्मणात् ॥ ४३ ॥ इष्टापूर्तस्य तु षष्ठमंशं भजतीति ह ॥ ४४ ॥ ब्राह्मणो वेदमाढ्यं करोति ब्राह्मणो आपद् उद्धरति तस्माद्ब्राह्मणो- नाद्यः । सोमोस्य राजा भवतीति ह ॥ ४५ ॥ प्रेत्य चाभ्युदयिकमिति ह विज्ञायते ह विज्ञायत इति ॥ ४६ ॥ ॥ इति वासिष्ठधर्मशास्त्रे प्रथमोध्यायः ॥ १ ॥ 37. चातुर्मास्येष्वथाप्युदाहरन्ति Ban. ed. Maitrāyaṇīyasaṁhitā I., 10, 11 and Kāṭhaka xxxvi., 5 read: अनृतं वा एषा करोति या पत्युः क्रीता सत्यथान्यैश्चरति s. Bühler's Transl. 38. विद्याविनाशे Calc. ed. जातिप्रणाशे E. F. Calc. ed. हया अपि पूज्याः Bh. H. °उद्वहोदिति Bh. H 39. वशे instead of निर्देशेन E. F. Calc. ed. 40 तेषां ब्राह्मणो E. F. 41. अनुतिष्ठेत E. 42. All MSS. read अनुशासन् । षष्ठं षष्ठं धनस्य E. 43. अन्यद्ब्राह्मणात् E. F. 44. अंशं हरति E. F. 45. Ban. ed divides this Sūtra into four, but wrongly. तस्माद्ब्राह्मणो रायः B. E. H. भेद्माद्यं करोति Bh. E F. H.
५
चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः ॥ १ ॥
त्रयो वर्णा द्विजातयो ब्राह्मणक्षत्रियवैश्याः ॥ २ ॥
तेषाम् ऽ द्विजननमिति मानवे पाठः ।
मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धने । क्वचनादिति मानवे पाठः
अत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ ३ ॥
वेदप्रदानात्पितेत्याचार्यमाचक्षते ॥ ४ ॥
तथाप्युदाहरन्ति ।
द्वयमुह वै पुरुषस्य रेतो ब्राह्मणस्योर्ध्वं नाभेरधस्तादवाचीनमन्यत्-
यदूर्ध्वं नाभेस्तेन हैतत्प्रजा जायते यद्ब्राह्मणानुपनेयति यदध्यापयति
यद्याजयति यत्साधुकरोति । अथ यदवाचीनं नाभेस्तेनेहास्यौरसी
प्रजा जायते । तस्माच्छ्रोत्रियमनूचानमप्रजोसीति न वदन्तीति ॥५॥
हारीतोप्युदाहरति ।
न ह्यस्मिन्विद्यते कर्म किंचिदा मौञ्जिबन्धनात् । युज्यते इति तु मानवे ।
वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायत इति ॥ ६ ॥
अन्यत्रोदककर्मस्वधापितृसंयुक्तेभ्यः ॥ ७ ॥
विद्या ह वै ब्राह्मणमाजगाम
गोपाय मां शेवधिस्तेहमस्मि ।
असूयकायानुजवेयताय
न मां ब्रूया वीर्यवती तथा स्याम् ॥ ८ ॥
II. 3. मातुरग्रेधिजननम् E. F. तेषां मातुरग्रे जन्म Bh. तत्रास्य E. F. 5.
°उदाहरति Ban. ed. अथाप्युदाहरति E. F; द्वयंमिह C. ed. B. gives of
पुरुषस्य the marginal gloss सुश्रवसोऽनूचानस्य । °अर्वाचीनं C.ed.6. °समो
ज्ञेयो E. F. यावद्वेदो Ban. ed. 7. अन्यदैवोदक° E. F. 8. सेवधिः Bh.
॰अनृजवेव्रताय C. ed. comp., Nir. 24: Viṣṇus. 29. 9; Saṁhitopan.
29, 8 ff.
६
यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । यस्ते न द्रुह्येत्कतमच्चनाहस्तस्मै मां ब्रूया निधिपाय ब्रह्मन् ॥ ९ ॥ य आतृणत्त्यवितथेन कर्णा- वदुःखं कुर्वन्नमृतं संप्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमच्चनाहः ॥ १० ॥ अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा । यथैव ते न गुरोर्भोजनीया- स्तथैव तान्न भुनक्ति श्रुतं तत् ॥ ११ ॥ दहत्यग्निर्र्यथा कक्षं ब्रह्म पृष्टमनादृतम् । न ब्रह्म तस्मै प्रब्रूयाच्छक्यं मानमकुर्वत इति ॥ १२ ॥ षट् कर्माणि ब्राह्मणस्य ॥ १३ ॥ स्वाध्यायाध्ययनमध्यापनं यज्ञो यजनं दानं प्रतिग्रहश्चेति ॥ १४ ॥ त्रीणि राजन्यस्य ॥ १६ ॥ अध्ययनं यज्ञो दानं च ॥ १६ ॥ शस्त्रेण च प्रजापालनं स्वधर्मस्तेन जीवेत् ॥ १७ ॥
- भ्रमतं instead of अप्रमत्तम् | 35, 10 ff; Ṛigveda 10, 168, 3. Ban. ed. | and 10, 128, 4, A. v. 5, 3,4; Av.
- य आवृणोत्यवितथेन... | 9, 2, 10. Śat. Br. 11, 1, 6, .................. । | 10. Āpastamba 1, 1, 14. 12. तं वै मन्येत्पितरं मातरं च | त्वङ्ग्मनादृतं C. ed. 13. Ban. ed. तस्मै न द्रुह्येत्कतमस्य जानन् ॥ | connects wrongly ब्राह्मणस्य with Viṣṇusmṛti 30, 47 (ed. by J. | Sūtra 14. याजनं instead of यज्ञो Jolly, Calc. 1881). Comp. also | F. दानं omits by mistake Ban. Nir. 2,4; Saṁhitopan. 32, 1. ff. | ed. 16. यजनं instead of यज्ञो. F
७ एतान्येव वैश्यस्य ॥ १८ ॥ कृषिर्वाणिज्यं पाशुपाल्यं कुसीदं च ॥ १९ ॥ तेषां परिचर्या शूद्रस्य नियता च वृत्तिः ॥ २० ॥ नियतकेशवेशाः सर्वे वा मुक्तकेशाः शिखावर्जम् ॥ २१ ॥ अजीवन्तः स्वधर्मेणानन्तरां यवीयसीं वृत्तिमातिष्ठेरन् ॥ २२ ॥ न तु कदाचिज्ज्यायसीम् ॥ २३ ॥ वैश्यजीविकामास्थाय पण्येन जीवतोश्मलवणमणिशाणकौशेयक्षौ- माजिनानि च ॥ २४ ॥ तान्तवं रक्तं सर्वं च ॥ २५ ॥ कृतान्नं पुष्पफलमूलानि गन्धरसा उदकं चौषधीनां रसः सोमश्च शस्त्रं विषं मांसं च क्षीरं च सविकारमयस्त्रपु जतु सीसं च ॥२६॥ अथाप्युदाहरन्ति । सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयादिति ॥ २७ ॥ ग्रामपशूनामेकशफाः केशिनश्च सर्वे चारण्याः पशवो वयांसि दंष्ट्रि- णश्च ॥ २८ ॥ धान्यानां तिलानाहुः ॥ २९ ॥ अथाप्युदाहरन्ति । भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः । कृमिर्भूतः श्वविष्ठायां पितृभिः सह मज्जतीति ॥ ३० ॥ 18 एतान्येव त्रीणि B. F. H. 20. तेषां च B. Ban. ed. 21. °वेशाः E. F. H. च मुक्तकेशाः F. चामुक्तकेशः E. 22. पापीयसीं F. 23. न कदाचित् B. Ban. ed. H. 24. K. reads अपण्यं instead of अश्म; comp. also Baudhāyana II, 4, 21. 26. पुष्पमूलफलानि च F. पुष्पमूलफलगन्धरसाः Bh. वौषधीनां F. क्षीरं सविकारम्° Bh. 28. चारण्याः B. F. 29. Ban. ed. wrongly connects this Sūtra with the preceding one. 30. °दानादन्यद्यत्कुरुते B. Ban. ed. मज्जत इति B. Ban. ed. H., compare also Baudh. II, 2, 29 and Manu. 10, 91. वासिष्ठधर्म. २
८ कामं वा स्वयं कृष्योत्पाद्य तिलान्विक्रीणीरन् ॥ ३१ ॥ तस्मात्साण्डाभ्यामनस्योताभ्यां प्राक्प्रातराशात्कर्षी स्यात् ॥ ३२॥ निदाघेपः प्रयच्छेत् ॥ ३३ ॥ लाङ्गलं पवीरवत्सुशेव ৺ सोमपित्सरु। तदुद्वपति गामविं प्रफव्यं च पीवरीं प्रस्थावद्रथवाहनमिति ॥ ३४ ॥ [ लाङ्गलं पवीरवद्धीरवत्सुमनुष्यवदनडुद्वत्सुशेवं कल्याणनासिकं कल्याणी ह्यस्य नासिका नासिकथोद्वपति दूरेपविष्यति सोमपि- त्सरु सोमो ह्यस्य ग्रामोति तत्सरु तदुद्वपति गां चाविं चाजा- नश्वानश्वतरखरोष्ट्रांश्च प्रफव्यं च पीवरीं दर्शनीयां कल्याणीं च प्रथमयुवतीम् ॥ ३५ ॥ ] कथं हि लाङ्गलमुद्धपेदन्यत्र धान्यविक्रयात् ॥ ३६ ॥ रसा रसैर्महतो हीनतो वा विमातव्याः ॥ ३७ ॥ विभातव्या इति न त्वेव लवणं रसैः ॥ ३८ ॥ पाठः स्यात् तिलतण्डुलपक्वानं विद्या मानुष्याश्च विहिताः परिवर्तकेन ॥ ३९ ॥ ब्राह्मणराजन्यौ वार्धुषी न दद्याताम् ॥ ४० ॥ अथाप्युदाहरन्ति । समर्घं धान्यमुद्धृत्य महार्घं यः प्रयच्छति । स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥ ४१ ॥ ब्रह्महत्यां च वृद्धिं च तुलया समतोलयत् । अतिष्ठद्भ्रूणहा कोट्यां वार्धुषिः समकम्पत इति ॥ ४२ ॥ 31. Ban.ed.omits स्वयम् । 32. तस्माच्छण्डाभ्यां Bh.तस्माद्भाण्डाभ्याम- नत्यूताभ्यां B. E. Comp. Baudh. II, 4, 21. 33. प्रयच्छेन्नातिपीडयन् E F. 34.प्रवीरवत् गामवीं F. 35. This Sūtra explaining the preced- ing Vedic verses seems to be an interpolation 39.मानुपाश्व Ban. ed, मनुष्याश्व F. 40. वार्धुषीं B. Ban. ed. F. 42. भ्रूणहत्यां B. Ban. ed.H.
कामं वा परिलुप्तकृत्याय पापीयसे दद्याताम् ॥ ४३ ॥ द्विगुणं हिरण्यं त्रिगुणं धान्यम् ॥ ४४ ॥ धान्येनैव रसा व्याख्याताः ॥ ४५ ॥ पुष्पमूलफलानि च ॥ ४६ ॥ तुलाधृतमष्टगुणम् ॥ ४७ ॥ अथाप्युदाहरन्ति । द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं स्मृतम् । मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ ४८ ॥ राजा तु मृतभावेन द्रव्यवृद्धिं विनाशयेत् । पुनराजाभिषेकेण द्रव्यमूलं च वर्धते ॥ ४९ ॥ वसिष्ठवचनप्रोक्तां वृद्धिं वार्धुषिके शृणु । पञ्च माषास्तु विंशत्या एवं धर्मो न हीयत इति ॥ न हीयत इति ॥ ५० ॥ ॥ इति वासिष्ठधर्मशास्त्रे द्वितीयोध्यायः ॥ २ ॥ अश्रोत्रिया अननुवाक्या अनग्नयो वा शूद्रसधर्माणो भवन्ति ॥ १॥ मानवं चात्र श्लोकमुदाहरन्ति योनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २ ॥ नानुग्ब्राह्मणो भवति न वणिङ्न कुशीलवः । न शूद्रप्रेषणं कुर्वन्न स्तेनो न चिकित्सकः ॥ ३ ॥ 43. परिलुप्ताल्पाय F. 48. ˚आनुपूर्वशः B. Bh. E. 49. भृतिभावेन B. Ban. ed. विभाजयेत् F. ˚अभिविकेण B. अभीषिकेण Ban. ed. तु instead of च B. III. 1. शूद्रकर्माणः B. Ban. ed वा omit F, H. 3. ˚प्रेष्यां E. F,
१० अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चौरभक्तप्रदो हि सः ॥ ४ ॥ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्त्रशः समेतानां परिषत्त्वं न विद्यते ॥ ५ ॥ यद्वदन्ति तमोमूढा मूर्खा धर्ममजानतः । तत्पापं शतधा भूत्वा तद्वक्तॄनधिगच्छति ॥ ६ ॥ चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः । स धर्म इति विज्ञेयो नेतरेषां सहस्त्रशः ॥ ७ ॥ श्रोत्रियाय च देयानि हव्यकव्यानि नित्यशः । अश्रोत्रियाय दत्तं हि पितॄन्नैति न देवताः ॥ ८ ॥ यस्य चैकगृहे मूर्खो दूरे वापि बहुश्रुतः । बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ ९ ॥ ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ १० ॥ यश्च काष्ठमयो हस्ती यश्च चर्ममयो मृगः । यश्च विप्रोनधीयानस्त्रयस्ते नामधारकाः ॥ ११ ॥ विद्वद्भोज्यान्यविद्वांसो येषु राष्ट्रेषु भुञ्जते । तान्यनावृष्टिमृच्छन्ति महद्वा जायते भयमिति ॥ १२ ॥ अप्रज्ञायमानं वित्तं योधिगच्छेद्राजा तद्धरेदधिगन्त्रे षष्ठमंशं प्रदाय १३ ब्राह्मणश्चेदधिगच्छेत्षट्सु कर्मसु वर्त्तमानो न राजा हरेत् ॥ १४ ॥ 4. अत्रात्या F. चोरेभक्त° E. 6. धर्ममतद्विदुः F. H. अनुगच्छति B. E. H. तद्वक्तृं न तु गच्छति F. अजानन्तः F. K. 7. चत्वारोपि F. नेतरेषां कदाचन F. 8. श्रोत्रियायेव F. H. 9. चैव गृहे F. 9. and 10., comp. Baudh. I. 10. 27, 11, यथा instead of यश्च B,
११ आततायिनं हत्वा नात्र प्राणच्छेदतुः किञ्चित्किल्विषमाहुः ॥ १५ ॥ अथाप्युदाहरन्ति । अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ॥ १६ ॥ आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ १७ ॥ स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् । न तेन भ्रूणहा स स्यान्मन्युस्तन्मन्युमृच्छतीति ॥ १८ ॥ त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णश्चतुर्मेधा वाजसनेयी षडङ्गविद्ब्रह्म- देयानुसन्तानश्छन्दोगो ज्येष्ठसामगो मन्त्रब्राह्मणविद्यश्च धर्मा- नधीते यस्य च दशपुरुषं मातृपितृवंशः श्रोत्रियो विज्ञायते विद्वांसः स्नातकाश्चैते पङ्क्तिपावना भवन्ति ॥ १९ ॥ चातुर्विद्यं विकल्पी च अङ्गविद्धर्मपाठकः । आश्रमस्थास्त्रयो मुख्याः पर्षदैषां दशावरा ॥ २० ॥ उपनीय कृत्स्नं वेदमध्यापयेत्स आचार्यः ॥ २१ ॥ यस्त्वेकदेशं स उपाध्यायः ॥ २२ ॥ यश्च वेदाङ्गानि ॥ २३ ॥ आत्मत्राणे वर्णसंवर्गे ब्राह्मणवैश्यौ शस्त्रमाददीयाताम् ॥ २४ ॥ क्षत्रियस्य तु तन्नित्यमेव रक्षणाधिकारात् ॥ २५ ॥ 15. After that Sūtra F. only reads षड्विधा ह्याततायिनः 17 वेदान्तगं रणे B. Ban ed. वेदान्तिगं रणे Vīr. p. 6; comp. also Mahābhāratam XII, 34, 17. 18. न तेन भ्रूणहा भवति मन्युस्तन्मन्युमृच्छति B. H. 19. त्रिना- चिकेतः B. H. 20. चातुर्विद्यस्त्रिकल्पी च Ban. ed. चातुर्वैद्यं विकल्पी च Baudhāyana I. 1. 8. विकल्पे च Bh. दशावरेति B. H. 21. उपनीय यः B. Bh. H. उपनीय तु यः F. 24. वर्णसंवर्गे वा B. धर्मसंवर्गे E. H. वर्णसङ्करे वा F.
१२ प्रक्षाल्य पादौ पाणी चा मणिबन्धात्प्राग्वोदग्वासीनोऽङ्गुष्ठमूलस्यो- त्तररेखा ब्राह्मं तीर्थं तेन त्रिराचामेदशब्दवत् ॥ २६ ॥ द्विः परिमृजीत ॥ २७ ॥ खान्यद्भिः संस्पृशेत् ॥ २८ ॥ मूर्धन्यपो निनयेत्सव्ये च पाणौ ॥ २९ ॥ व्रजंस्तिष्ठञ्छयानः प्रणतो वा नाचामेत् ॥ ३० ॥ हृदयङ्गमाभिरद्भिर्बुद्बुदाभिरफेनाभिर्ब्राह्मणः ॥ ३१ ॥ कण्ठगाभिस्तु क्षत्रियः ॥ ३२ ॥ वैश्योद्भिः प्राशिताभिः ॥ ३३ ॥ स्त्रीशूद्रं स्पृष्टाभिरेव च ॥ ३४ ॥ अ्रदरादपि या गोस्तर्पणसमर्थाः स्युः ॥ ३५ ॥ न वर्णगन्धरसदुष्टाभिर्याश्च स्युरशुभागमाः ॥ ३६ ॥ न मुख्या विप्रुष उच्छिष्टं कुर्वन्त्यनङ्गस्पृष्टाः ॥ ३७ ॥ सुप्त्वा भुक्त्वा क्षुत्वा पीत्वा रुदित्वा स्नात्वा चान्तः पुनराचामे- द्वासश्च परिधाय ॥ ३८ ॥ ओष्ठौ संस्पृश्य यन्नालोमकौ ॥ ३९ ॥ न श्मश्रुगतो लेपः ॥ ४० ॥ दन्तवद्दन्तसक्तेषु यच्चान्तर्मुखे भवेन्निगिरेच्च तच्छुचिरिति ॥ ४१ ॥ परानप्याचामयतः पादौ या विप्रुषो गताः । ताभिर्नोच्छिष्टतां यान्ति भूम्यास्तास्तु समाः स्मृताः ॥ ४२ ॥ 26. ॰उत्तरतो रेखा B. F. H. ब्राह्मं E. विराचामेत° Ban. ed. M st probably it has to be read आसीनो ब्राह्मतीर्थेन त्रि° as the nominatives अङ्गुष्ठमूलस्योत्तररेखा are undoubtedly added by interpolation. 27 परिसृज्यात् F. 28. खान्यद्भिरद्भिः B. H. 32. क्षत्रियः शुचिः F. H. 33. प्राशिताभिस्तु. B. F. H. 34. एव तु B. H. 35. यो गोस्तर्पणा. Bh. E. H. 38. चास्वान्तः F. 39: अलोमकौ. Bh. E. 4.. यच्चाप्यन्तर्मुखे B. H. अन्तर्मुखी Bh. भवेदाचान्तस्यानिगिरंश्चैव तच्छुचिः F. 42. परानन्यानाचामयत B. ed, भूम्यास्ताश्च. F. H.
१३ चरन्नभ्यवहारेषु उच्छिष्टं यदि संस्पृशेत् । भूमौ निधाय तद्द्रव्यमाचम्य प्रचरेत्पुनः ॥ ४३ ॥ यद्यन्मीमांस्यं स्यादद्भिः संस्पृशेत् ॥ ४४ ॥ श्वहताश्च मृगा वन्याः पातितं च खगैः फलम् । बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् ॥ ४५ ॥ प्रसारितं च यत्पण्यं ये दोषाः स्त्रीमुखेषु च ॥ ४६ ॥ मशकैर्मक्षिकाभिश्च निलीनैर्नोपहन्यते । क्षितिस्थाश्चैव या आपो गवां तृप्तिकराश्च याः । तृप्तिकर्य इति पाठे परिसंख्याय तान्सर्वाञ्शुचीनाह प्रजापतिरिति ॥ ४७ ॥ लेपगन्धापकर्षणे शौचममेध्यलिप्तस्याद्भिर्मृदा च ॥ ४८ ॥ तैजसमृन्मयदारवतान्तवानां भस्मपरिमार्जनप्रदाहनतक्षणधाव- नानि ॥ ४९ ॥ तैजसवदुपलमणीनाम् ॥ ५० ॥ मणिवच्छङ्खशुक्तीनाम् ॥ ५१ ॥ दारुवदस्थ्नाम् ॥ ५२ ॥ रज्जुविदलचर्मणाञ्चैलवच्छौचम् ॥ ५३ ॥ गोवालैः फलमयानाम् ॥ ५४ ॥ गौरसर्षपकल्केन क्षौमजानाम् ॥ ५५ ॥ भूमेस्तु संमार्जनोपलेपनोल्लेखनप्रोक्षणोपकरणैर्यथास्थानं दोषविशे- षात्प्रायत्यमुपैति ॥ ५६ ॥ अथाप्युदाहरन्ति । खननाद्दहनाद्वर्षाद्गोभिराक्रमणादपि । चतुर्भिः शुध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥ ५७ ॥ 43. प्रच° H. प्रचरन्त्यवहारे॑षु F. 44. स्यात्तदद्भिः B. E. 46. निलीनं F. निलन्तं E. H. 49. ॰रवतां नवानां H, ॰प्रदाहतक्ष° B. F. ॰प्रदाहलक्ष॰. H. 51. शुक्लीनां. H. 56. भूमिं तु F. H. 57. वर्षात् F. H. ॰गोमिभिराक्रं H.
रजसा शुध्यते नारी नदी वेगेन शुध्यते । भस्मना शुध्यते कांस्यं पुनःपाकेन मृन्मयम् ॥ ५८ ॥ मद्यैर्मूत्रैः पुरीषैर्वा श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ ५९ ॥ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यतीति ॥ ६० ॥ अद्भिरेव काञ्चनं पूयते ॥ ६१ ॥ तथा रजतम् ॥ ६२ ॥ ताम्रमम्लेन शुध्यति ॥ ६३ ॥ अङ्गुलिकनिष्ठिकामूले दैवं तीर्थम् ॥ ६४ ॥ अङ्गुल्यमृषीणाम् ॥ ६५ ॥ अङ्गुल्यग्रेषु मानुषम् ॥ ६६ ॥ पाणिमध्य आग्नेयम् ॥ ६७ ॥ प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यम् ॥ ६८ ॥ रोचत इति सायंप्रातरशनान्यभिपूजयेत् ॥ ६९ ॥ स्वादितमिति पित्र्ये ॥ ७० ॥ सम्पन्नमित्याभ्युदयिकेष्व्वाभ्युदयिकेष्वेति ॥ ७१ ॥ इति वासिष्ठधर्मशास्त्रे तृतीयोध्यायः ॥ ३ ॥ 58. °कांस्यं ताम्राम्लेन शुध्यति. F. 59. पुरीषैश्च B. H. 68. प्रादेशिनि° P. H. 69. प्रातरशन्यभि°. F. 70. पित्र्येषु. F.
१५ प्रकृतिविशिष्टं चातुर्वर्ण्यं संस्कारविशेषाच्च ॥१॥ ब्राह्मणोस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत । इत्यपि निगमो भवति ॥२॥ गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यं न केनचि- च्छन्दसा शूद्रमित्यसंस्कार्यो विज्ञायते ॥३॥ सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं च ॥४॥ पितृदेवतातिथिपूजायामप्येवं पशुं हिंस्यादिति मानवम् ॥५॥ मधुपर्के च यज्ञे च पितृदैवतकर्मणि । अत्रैव च पशुं हिंस्यान्नान्यथेत्यब्रवीन्मनुः ॥६॥ (मनु० ५।४१।।) नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्माद्यागे वधोऽवधः ॥७॥ तस्माद्यज्ञे वधोऽवध इत्ये- अथापि ब्राह्मणाय वा राजन्याय वाभ्यागताय महोक्षाणं वा महाजं (२।३८) वा पचेदेवमस्मा आतिथ्यं कुर्वन्तीति ॥८॥ इत्यत्र । उदकक्रियाशौचं च द्विवर्ष प्रभृति ॥९॥ आ दन्तजननादित्येके ॥ १० ॥ शरीरमग्निना संयोज्यानवेक्षमाणा अपोऽभ्यवयन्ति ॥ ११ ॥ सव्येतराभ्यां पाणिभ्यामुदकक्रियां कुर्वीरन्नयुग्मासु दक्षिणामुखाः ॥ १२ ॥ पितॄणां वा एषा दिग्या दक्षिणा ॥ १३ ॥ गृहान्प्रव्रजित्वा प्रस्तरे त्र्यहमनश्नन्त आसीरन् ॥ १४ ॥ IV. 3. असंस्कारो H. 4. प्रजनं च. F. H. 5. °देवाति° H. 8. यवेदे° H. °आदित्यं. H. 9. द्विवर्षात्प्रभृति. F. 11. अपो नयन्ति F. अनपेक्ष्यमाणाः E. H. 12. सव्योत्तराभ्यां B. F. H. कुर्वन्त्ययुग्मा दक्षि° F. कुर्वीरन्नयुग्मा दक्षिणा मुख्यः H. 14. प्रस्तारे E. H. वासिष्ठधर्म. ३
१६ अशक्तौ क्रीतोत्पन्नेन वर्तेरन् ॥ १५ ॥ दशाहं शावमाशौचं सपिण्डेषु विधीयते ॥ १६ ॥ सपिण्डत्वं साप्तपुरुषं विज्ञायते ॥ १७ ॥ प्रत्तानां च स्त्रीणां त्रिपुरुषं विज्ञायते ॥ १८ ॥ प्रत्तानामितरे कुर्वीरंस्ताश्च तेषाम् ॥ १९ ॥ जननेप्येवमेव स्यान्निपुणां शुद्धिमिच्छताम् ॥ २० ॥ मातापित्रोर्वा ॥ २१ ॥ तन्निमित्तत्वान्मातुरित्येके ॥ २२ ॥ अथाप्युदाहरन्ति । नाशौचं सूतके पुंसः संसर्गं चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यत इति ॥ २३ ॥ तच्चेदन्तः पुनरापतेच्छेषेण शुध्येरन् ॥ २४ ॥ रात्रिशेषे द्वाभ्याम् ॥ २५ ॥ प्रभाते तिसृभिः ॥ २६ ॥ ब्राह्मणो दशरात्रेण ॥ २७ ॥ पञ्चदशरात्रेण राजन्यः ॥ २८ ॥ विंशतिरात्रेण वैश्यः ॥ २९ ॥ शूद्रो मासेन शुध्यति ॥ ३० ॥ अथाप्युदाहरन्ति । अशौचे यस्तु शूद्रस्य सूतके वापि भुक्तवान् । स गच्छेन्नरकं घोरं तिर्यग्योन्यां च जायते ॥ ३१ ॥ 17. सपिण्डः सप्तपुरुषं. F. H. 18. अप्रत्तानां B. H. 19. B. ed. omits ताश्च तेषां which Sūtra all my MSS. have. 20. जननेप्येवमेव निपुणां F. 23. संसर्ग नैव F. अशुभिर्भवति तच्च पुंसि न H. Bh. 28. भूमिपः F. 31. जायत इति. F. H.