भारतकोश
संग्रह पर लौटें

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

६३ शूद्रश्च राजन्यवैश्ययोः ॥ ५ ॥ मनसा भर्तुरतिचारे त्रिरात्रं यावकं क्षीरोदनं वा भुञ्जानाधः शयीतोर्ध्वं त्रिरात्रादप्सु निमग्नायाः सावित्र्याष्टशतेन शिरोभि- र्जुहुयात्पूता भवतीति विज्ञायते ॥ ६ ॥ वाक्संबन्ध एतदेव मासं चरित्वोर्ध्वं मासादप्सु निमग्नायाः सावित्र्याश्चतसृभिरष्टशतैः शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ॥ ७ ॥ व्यवाये तु संवत्सरं घृतपटं धारयेद्गोमयगर्ते कुशप्रस्तरे वा शयीतोर्ध्वं संवत्सरादप्सु निमग्नायाः सावित्र्यष्टशतेन शिरो- भिर्जुहुयात्पूता भवतीति विज्ञायते ॥ ८ ॥ व्यवाये तीर्थगमने धर्मेभ्यस्तु निवर्तते ॥ ९ ॥ चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥ १० ॥ या ब्राह्मणी च सुरापी न तां देवाः पतिलोकं नयन्तीहैव सा चरति क्षीणपुण्याप्सु लुम्भवति शुक्तिका वा ॥ ११ ॥ ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ १२ ॥ प्रतिलोमं चरेयुस्ताः कृच्छ्रं चान्द्रायणोत्तरम् ॥ १३ ॥ पतिव्रतानां गृहमेधिनीनां सत्यव्रतानां च शुचिव्रतानाम् । तासां तु लोकाः पतिभिः समाना गोमायुलोका व्यभिचारिणीनाम् ॥ १४ ॥ 9. व्यवायतीर्थगमनधर्मेभ्यः Colebrooke IV., Dig. LXXVI., 10. पतिघ्नि तु B. F. H. 11. शूकरी वा Colebrooke IV., Dig. CXIII, 12. ते नराः F. H. वासिष्ठधर्म ९.

६४ पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । पतितार्धशरीरस्य निष्कृतिर्न विधीयते ॥ १५ ॥ ब्राह्मणश्चेदप्रेक्षापूर्वं ब्राह्मणदारानभिगच्छेदनिवृत्तधर्मकर्मणः कृच्छ्रो निवृत्तधर्मकर्मणोऽतिकृच्छ्रः ॥ १६ ॥ एवं राजन्यवैश्ययोः ॥ १७ ॥ गां चेद्धन्यात्तस्याश्चर्मणार्द्रेण परिवेष्टितः षण्मासान्कृच्छ्रं तप्तकृच्छ्रं वातिष्ठेत् ॥ १८ ॥ तयोर्विधिः ॥ १९ ॥ त्र्यहं दिवा भुङ्क्ते नक्तमश्नाति वै त्र्यहमपि । त्र्यहमयाचितव्रतस्त्र्यहं न भुङ्गिति कृच्छ्रः ॥ २० ॥ त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत् । त्र्यहमुष्णं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥ इति तप्तकृच्छ्रः ॥ २१ ॥ ऋषभवेहतौ च दद्यात् ॥ २२ ॥ अथाप्युदाहरन्ति । त्रय एव पुरा रोगा ईर्ष्या अनशनं जरा । पृषद्वस्तवयं हत्वा अष्टानवतिमाहरेदिति ॥ २३ ॥ श्वमार्जारनकुलसर्पदर्दुरमूषकान्हत्वा कृच्छ्रं द्वादशरात्रं चरेत्किंचि- दद्यात् ॥ २४ ॥ अनस्थिमतां तु सत्त्वानां गोमात्रं राशिं हत्वा कृच्छ्रं द्वादशरात्रं चरेत्किंचिद्दद्यात् ॥ २५ ॥ अस्थिमतां त्वेकैकम् ॥ २६ ॥ 16. ब्राह्मणश्चेत्प्रेक्षापूर्वं F. H. 23. वृषद्वस्तनयं Bh. Ban. ed.; वृषद्ध- स्तनयं F. H. प्रबधस्तनयं F. 24. 25. चरेच्च किंचित् B. Ban. ed. H.

६५ योग्नीनपविध्येत्कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधानं कारयेत् ॥ २७ ॥ गुरोश्चालीकनिर्वन्धे सचैलं स्नातो गुरुं प्रसादयेत्प्रसादात्पूतो भवतीति विज्ञायते ॥ २८ ॥ नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन्नास्तिक्यात् ॥२९॥ नास्तिकवृत्तिस्त्वतिकृच्छ्रम् ॥ ३० ॥ एतेन सोमविक्रयी व्याख्यातः ॥ ३१ ॥ वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षे वर्धयेत् ॥ ३२ ॥ भिक्षुकैर्वानप्रस्थवत्सोमवृद्धिवर्धनं स्वशास्त्रसंस्कारश्च स्वशास्त्र- संस्कारश्चेति ॥ ३३ ॥ इति वासिष्ठधर्मशास्त्रे एकविंशोध्यायः ॥ २१ ॥ अथ खल्वयं पुरुषो मिथ्या व्याकरोत्ययाज्यं वा याजयत्यप्र- तिग्राह्यं वा प्रतिगृह्णात्यनन्नं वाश्नात्यनाचरणीयमेवाचरति ॥१॥ तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते ॥ २ ॥ न कुर्यादित्याहुः ॥ ३ ॥ न हि कर्म क्षीयत इति ॥ ४ ॥ कुर्यादित्येव तस्माच्छ्रुतिनिदर्शनात् ॥ ५ ॥ 27. चरित्वा विरमेन्नास्तिक्यात्पुनराधानं न कारयेत् F. विरमेन्नास्ति पुनराधानं Bh. E. H. न कारयेत् B. 28. गुरोश्चालीकं निवेद्य F. H. ॰निर्वन्धः B. Bh. perhaps it has to be read : अलीकं निवेद्य. 30. नास्तिक्यवृ॰ B. F. H. 33. वानप्रस्थवल्लोभवृद्धिवर्जनं F. H. XXII. 1. वाश्नात्यचरणीयेन वा चरति B. F. H. 5. दर्शनात् B. Bh. F. The text appears here to be corrupt. After Sūtra 5 Baudhā- yana III. 10, 6, and Gautama XIX. 7, read : पुनः स्तोमेन यजेत [ स्तोमेनेष्ट्वा Gaut. ] पुनः सवनमायान्तीति विज्ञायते, which Sūtra has

६६ तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योश्वमेधेन यजत इति ॥६॥ इति चाभिशस्तो गोसवेनाग्निष्टुता यजेत ॥ ७ ॥ तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ॥ ८ ॥ उपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दःसंहिता मधून्यघमर्षण- मथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे सामनी कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि ॥ ९ ॥ अथाप्युदाहरन्ति । वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च । सकृदृतौ प्रयुञ्जानः पुनाति दशपूरुषमिति ॥ १० ॥ उपवासन्यायेन पयोव्रतता फलभक्षता प्रसृतयावको हिरण्य- प्राशनं सोमपानमिति मेध्यानि ॥ ११ ॥ सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थान्यृषि- निवासगोष्ठपरिस्कन्धा इति देशाः ॥ १२ ॥ संवत्सरो मासश्चतुर्विंशत्यहो द्वादशाहः षडहस्त्र्यहोहोरात्रा इति कालाः ॥ १३ ॥ एतान्येवानादेशे विकल्पेन क्रियेरन् ॥ १४ ॥ एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ १५ ॥ been left out. This omission caused the insertion of the words तस्माच्छ्रुतिनिदर्शनान् at the end of Sūtra 5. The proof that the sixth Sūtra of Baudhāyana has been accidently omitted is furnished by the fact that B.Bh.E.and H.read Sūtra 6 योश्वमे- धेन यजत इति च. This च has no meaning, except if another Vedic passage preceded Sūtra 6. See Buhler, Transl., pg. 116. 6. भ्रूणहत्यां Bh. E. H. 8. निष्क्रमणानि Bh. E.H. 10. ऋतावृत्तौ H. सामावृत्तौ Bh. सकृज्जतौ E. F. सप्तपूरुषं E. 11. उपासन्त्यायेन B. E. H. उपासन्न्यायेन Bh. उपन्प्यायेन F. 12. पुण्या वरतास्तीर्थानि B. E. पुण्या नद्यस्तर्थानि F. गोष्ठपरिकन्धाः B. गोष्ठपरिकंक्षाः Bh. F. H. ऋषिनिवासाः B.H. 14. एतान्ये वानादेशविकल्पेन Bh. E. H.

कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तिः ⸢सर्वप्रायश्चित्ति- रिति ॥ १६ ॥ इति वासिष्ठधर्मशास्त्रे द्वाविंशोऽध्यायः ॥ २२ ॥ ब्रह्मचारी चेत्स्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽग्नौ रक्षोदैवतं गर्दभं पशुमालभेत ॥ १ ॥ नैर्ऋतं वा चरुं निर्वपेत् ॥ २ ॥ तस्य जुहुयात्कामाय स्वाहा कामकामाय स्वाहा नैर्ऋत्यै स्वाहा रक्षोदेवताभ्यः स्वाहेति ॥ ३ ॥ एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु वा समावर्त- नात् ॥ ४ ॥ तिर्यग्योनिन्यवाये शुक्लमृषभं दद्यात् ॥ ५ ॥ गां गत्वा शूद्रावधेन दोषो व्याख्यातः ॥ ६ ॥ ब्रह्मचारिणः शवकर्मणो व्रतान्निवृत्तिः ॥ ७ ॥ अन्यत्र मातापित्रोः ॥ ८ ॥ स चेन्नाधीयीत कामं गुरोरुच्छिष्टं भेषजार्थं सर्वं प्राश्नीयात् ॥ ९ ॥ गुरुप्रयुक्तश्चेन्म्रियेत त्रीन्कृच्छ्रांश्चरेद्गुरुः ॥ १० ॥ ब्रह्मचारी चेन्मांसमश्नीयादुच्छिष्टभोजनीयं कृच्छ्रं द्वादशरात्रं च- रित्वा व्रतशेषं समापयेत् ॥ ११ ॥ श्राद्धसूतकभोजनेषु चैवम् ॥ १२ ॥ XXIII. 1. आलभेत Bh. आलेभेत E. H. 2. निर्ऋतं E. H. 4. एव रक्षसः E. 5. After this Sūtra B. F. H. read: कृष्णलिङ्गं दद्यात. 6. शुक्ललिङ्गं गां गत्वा B. F. H. 11. अश्नीयाच्छिष्टभोजनीयं B. H, संमाचरेत् Bh. E. H. 12. चैवमव F. H.

६८ अकामतोपनतं मधु वाजसनेयके न दुष्यतीति विज्ञायते ॥ १३ ॥ य आत्मत्याग्यभिशस्तो भवति सपिण्डानां प्रेतकर्मच्छेदः ॥ १४ ॥ काष्ठजलोष्टपाषाणशस्त्रविषरज्जुभिर्य आत्मानमवसादयति स आत्महा भवति ॥ १५ ॥ अथाप्युदाहरन्ति । य आत्मत्यागिनः कुर्यात्स्नेहात्प्रेतक्रियां द्विजः । स तप्तकृच्छ्रसहितं चरेच्चान्द्रायणव्रतमिति ॥ १६ ॥ चान्द्रायणं परस्ताद्वक्ष्यामः ॥ १७ ॥ आत्महननाध्यवसाये त्रिरात्रम् ॥ १८ ॥ जीवन्नात्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत्त्रिरात्रं ह्युपवसेन्नित्यं क्लिन्नेन वाससा प्राणानात्मनि चायम्य त्रिः पठेद्घमर्षणमिति ॥ १९ ॥ अपि वैतेन कल्पेन गायत्रीं परिवर्तयेत् ॥ २० ॥ अपि वाग्निमुपसमाधाय कूष्माण्डैर्जुहुयाद्धृतम् ॥ २१ ॥ यच्चान्यन्महापातकेभ्यः सर्वमेतेन पूयत इति ॥ २२ ॥ अथाप्याचमेदग्निश्च मा मन्युश्चेति प्रातर्मनसा पापं ध्यात्वोंपूर्वाः सत्यान्ता व्याहृतीर्जपेदघमर्षणं वा पठेत् ॥ २३ ॥ मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचम् ॥ २४ ॥ अस्निग्धे त्वहोरात्रम् ॥ २५ ॥ शवानुगमने चैवम् ॥ २६ ॥ 13. अकामोपनतं K. कामापन्नं Bh. E. H. अकामतोपनं F. A gloss in B. refers to Śūlapāni's Prāyaśchittaviveka, 112. 20. चैतेन F. H. 21. चाग्नि B. F. H. 23. ध्यात्वा B. E. F. H.

६९ अधीयानानामन्तरागमनेहोरात्रमभोजनम् ॥ २७ ॥ त्रिरात्रमभिषेको विवासश्चान्योन्येन ॥ २८ ॥ श्वमार्जारनकुलशीघ्रगाणामहोरात्रम् ॥ २९ ॥ श्वकुकुक्कुटग्राम्यशूकरकङ्कगृध्रभासपारावतमानुषकाकोलूकमांसा- दने सप्तरात्रमुपवासो निष्पुरीषीभावो घृतप्राशः पुनः संस्कारश्च ॥ ३० ॥ ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य ततः शुचिरिति ॥ ३१ ॥ कालोऽग्निर्मनसः शुद्धिरुदकार्कावलोकनम् । अविज्ञातं च भूतानां षड्विधा शुद्धिरिष्यत इति ॥ ३२ ॥ श्वचाण्डालपतितोपस्पर्शनै सचैलं स्नातः सद्यः पूतो भवतीति विज्ञायते ॥ ३३ ॥ पतितचाण्डालारावश्रवणे त्रिरात्रं वाग्यता अनश्नन्त आसीरन् ॥ ३४ ॥ सहस्त्रपरमं वा तदभ्यसन्तः पूता भवन्तीति विज्ञायते ॥ ३५ ॥ एतेनैव गर्हिताध्यापकयाजका व्याख्याता दक्षिणात्यागाच्च पूता भवन्तीति विज्ञायते ॥ ३६ ॥ एतेनैवाभिशस्तो व्याख्यातः ॥ ३७ ॥ भ्रूणहत्यायां द्वादशरात्रमब्भक्षो द्वादशरात्रमुपवसेत् ॥ ३८ ॥ 27. आधीयानमन्तराग° F. H. 28. अभिषेख: B. अभिषेक्तो F. 30. °सूकर° B. Ban. ed. बङ्क instead of कङ्क B. Ban. ed. °भासवायसपां° B. Ban. ed. Bh. E. F. H. °काकोलूकानां सादने B. -Ban. ed. Bh. E. F. H. 32. °उदकाग्न्यवलेखनं B. F. उदक्यान्यत्र सेखनं H. 34. °चाण्डालाशववहने E. 35. वा नन्दभ्यः सन्तः F. H. तदभ्य स्यन्तः B. 38. अथापरं भ्रूण B. F. H.

७० ब्राह्मणमनृतेनाभिशंस्य पतनीयेनोपपतनीयेन वा मासमब्भक्षः शुद्धवतीरावर्तयेत् ॥ ३९ ॥ अश्वमेधावभृथं वा गच्छेत् ॥ ४० ॥ एतेनैव चाण्डालीव्यवायो व्याख्यातः ॥ ४१ ॥ अथापरः कृच्छ्रविधिः साधारणो व्यूढः ॥ ४२ ॥ अहः प्रातरहर्नक्तमहरेकमयाचितम् । अहः पराकं तन्त्रैकमेवं चतुरहौ परौ ॥ अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः । बालवृद्धातुरेष्वेवं शिशुकृच्छ्रमुवाच ह ॥ ४३ ॥ अथ चान्द्रायणविधिः ॥ ४४ ॥ मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश । ग्रासोपचयभोजी स्यात्पक्षशेषं समापयेत् ॥ एवं हि शुक्लपक्षादौ ग्रासमेकं तु भक्षयेत् । ग्रासापचयभोजी स्यात्पक्षशेषं समापयेत् ॥ ४५ ॥ अत्रैव गायेत्सामानि अपि वा व्याहतीर्जपेत् ॥ ४६ ॥ एष चान्द्रायणो मासः पवित्रमृषिसंस्तुतः । अनादिष्टेषु सर्वेषु प्रायश्चित्तं विधीयते ॥ विधीयत इति इति वासिष्ठधर्मशास्त्रे त्रयोविंशोऽध्यायः ॥ २३ ॥ अथातिकृच्छ्रः ॥ १ ॥ त्र्यहं प्रातस्तथा सायमायाचितं पराक इति कृच्छ्रो यावत्स- क्तुदाददीत तावदश्नीयात्पूर्ववत्सोतिकृच्छ्रः ॥ २ ॥ 43° वृद्धातुरैश्चैव E. 46. अथ वा E, XXIV. 1. अथातः कृच्छ्रः B. F, H.

[Page number] ७१

कृच्छ्रोन्मक्षः स कृच्छ्रातिकृच्छ्रः ॥ ३ ॥ कृच्छ्राणां व्रतरूपाणि ॥ ४ ॥ श्मश्रुकेशान्वापयेहूत्रोक्षिलोमशिखावर्जं नखानिकृत्यैकवासोनि- न्दितभोजी [ सकृद्भैक्षमनिन्दितं ] त्रिषवणमुदकोपस्पर्शी दण्डी कमण्डलुः स्त्रीशूद्रसंभाषणवर्जी स्थानासनशीलोऽहस्तिष्ठेद्रात्रावासी- त्याह भगवान्वसिष्ठः ॥ ५ ॥ स तद्यदेतद्धर्मशास्त्रं नापुत्राय नाशिष्याय नासंवत्सरोषिताय दद्यात् ॥ ६ ॥ सहस्रं दक्षिणा ऋषभैकादशा गुरुप्रसादो वा गुरुप्रसादो वेति ॥७॥ इति वासिष्ठधर्मशास्त्रे चतुर्विंशोऽध्यायः ॥ २४ ॥

अविख्यापितदोषाणां पापानां महतां तथा । सर्वेषां चोपपापानां शुद्धिं वक्ष्याम्यशेषतः ॥ १ ॥ आहिताग्नेर्विनीतस्य वृद्धस्य विदुषोपि वा । रहस्योक्तं प्रायश्चित्तं पूर्वोक्तमितरे जनाः ॥ २ ॥ प्राणायामैः पवित्रैश्च दानैर्होमैर्जपैस्तथा । नित्ययुक्ताः प्रमुच्यन्ते पातकेभ्यो न संशयः ॥ ३ ॥ प्राणायामान्पवित्राणि व्याहृतीः प्रणवं तथा । पवित्रपाणिरासीनो ब्रह्म नित्यकमभ्यसेत् ॥ ४ ॥

  1. ॰वांसानिन्दित॰ B. Ban. ed. H. कमण्डलुं B. Bh. E. H. F.; the text appears to be corrupt, the compound in brackets is undo- ubtedly a gloss. 6. सतत्यानुदेति धर्म॰ B. Bh. E. सतयानुदेत॰ धर्म H. यातपानुदेति F. सतपा नुदति Ban. ed., perhaps it has to be read सते or सता यत्तूदितं धर्म॰ compare Baudh. 4, 4, 9 तदेतद्धर्म॰. XXV. 1. प्रविख्यापित॰ F. H. 2. अहस्तु प्रायश्चित्तं तु F. 4. प्राणा॰ यामाः पवि॰ B. Ban. ed. F. H. वासिष्ठ धर्म १०.

४. अध्याय २२-३०: प्रायश्चित्त, कृच्छ्र-व्रत व उपसंहार

७३ आवर्तयन्सदा युक्तः प्राणायामान्पुनः पुनः । आ लोमाग्रान्नखाग्राच्च तपस्तप्यतु उत्तमम् ॥ ५ ॥ निरोधाज्जायते वायुर्वायोरग्निर्हि जायते । तापेनापोथ जायन्ते ततोन्तः शुध्यते त्रिभिः ॥ ६ ॥ न तां तीव्रेण तपसा न स्वाध्यायैर्न चेज्यया । गतिं गन्तुं द्विजाः शक्ता योगात्संप्राप्नुवन्ति याम् ॥ ७ ॥ योगात्संप्राप्यते ज्ञानं योगो धर्मस्य लक्षणम् । योगः परं तपो नित्यं तस्माद्युक्तः सदा भवेत् ॥ ८ ॥ प्रणवे नित्ययुक्तस्स्याद्व्याहृतीषु च सप्तसु । त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥ ९ ॥ प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः । वाङ्मयं प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् ॥ १० ॥ एकाक्षरं परं ब्रह्म पावनं परमं स्मृतम् ॥ ११ ॥ सर्वेषामेव पापानां सङ्करे समुपस्थिते । अभ्यासो दशसाहस्रः सावित्र्याः शोधनं महत् ॥ १२ ॥ सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ स उच्यत इति ॥ १३ ॥ इति वासिष्ठधर्मशास्त्रे पञ्चविंशोध्यायः ॥ २५ ॥ प्राणायामान्धारयेत्त्रीन्यो यथाविध्यतन्द्रितः । अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥ १ ॥ 5. आवर्तयेत् B. F. H. तपस्तप्यतमुत्तमं B. Bh. F. H. - तपस्तप्यातु 'उत्तमं Ban. ed. 7. चेष्टया F. H. 9. नित्ययुक्तस्य न भयं विद्यते B. Ban ed. F. H. 10. प्रणवाद्यास्तपः E. 11. पावमानं परं स्मृतं B. F.

७३ कर्मणा मनसा वाचा यदह्ना कृतमैनसम् । आसीनः पश्चिमां सन्ध्यां प्राणायामैर्व्यपोहति ॥ २ ॥ कर्मणा मनसा वाचा यद्रात्र्या कृतमैनसम् । उत्तिष्ठन्पूर्वसन्ध्यां तु प्राणायामैर्व्यपोहति ॥ ३ ॥ सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ ४ ॥ जप्त्वा कौत्समपेत्येतद्वासिष्ठं च त्रिचं प्रति । माहित्रं शुद्धवत्यश्च सुरापोपि विशुध्यति ॥ ५ ॥ सकृज्जप्त्वास्यवामीयं शिवसङ्कल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥ ६ ॥ हविष्यन्तीयमभ्यस्य न तमंह इति त्रिचं । सूक्तं च पौरुषं जप्त्वा मुच्यते गुरुतल्पगः ॥ ७ ॥ अपि वाप्सु निमज्जानस्त्रिर्जपेदघमर्षणम् । यथाश्वमेधावभृथस्तादृशं मनुरब्रवीत् ॥ ८ ॥ आरम्भयज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । (मनौ २।८५॥) तत्र विधि- उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ ९ ॥ यज्ञादिति पाठः। ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ १० ॥ (मनौ २।८६॥) जप्येनैव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यं न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ ११ ॥ (मनौ २।८७॥) XXVI. 2. यदह्नात् E. कृतमानसः F. H. कृतमानसां B. कृतमेनसां Ban. ed. प्रथमां सन्ध्यां E. F. H. 3. यद्रात्र्यात् E. After this Sūtra B. Bh. E. F. H. read.; प्राणायामैर्य आत्मानं संयम्यास्ते पुनः पुनः । सहस्रद्व्यधिके- र्वापि द्विगुणैर्वा परं तु यः ॥ शदशद्व्यं Bh. H. सन्दध्यान्धारि° E. सन्दध्याद्व्यं F. 5. च तृचं Bh. E. F. सावित्रं. B. F. 7. अभ्यसेन्न B. E. F. इतीति च. B. Bh. E. इतीत्यृचं F. H. 8. त्रिः पठत्° F. H. 9. विधियज्ञाज्जपयज्ञः Manu II., 85; Vishnu LV., 19. 11. जप्येनैव Bh. E. F. H. कुर्यादन्यत्र वा E. F.

७४ जापिनां होमिनां चैव ध्यायिनां तीर्थवासिनाम् । न परिवसन्ति पापानि ये च स्नाताः शिरोव्रतैः ॥ १२ ॥ यथाग्निर्वायुना धूतो हविषा चैव दीप्यते । एवं जाप्यपरो नित्यं ब्राह्मणः संप्रदीप्यते ॥ १३ ॥ स्वाध्यायाध्यायिनां नित्यं नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चापि विनिपातो न विद्यते ॥ १४ ॥ सहस्रपरमां देवीं शतमध्यां दशावराम् । शुद्धिकामः प्रयुञ्जीत सर्वपापेष्वपि स्थितः ॥ १५ ॥ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपैहोमैर्द्विजोत्तमः ॥ १६ ॥ यथाश्वा रथहीनाः स्यू रथो वाश्वैर्विना यथा । एवं तपस्त्वविद्यस्य विद्या चाप्यतपस्विनः ॥ १७ ॥ यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम् । एवं तपश्च विद्या च संयुक्तं भेषजं महत् ॥ १८ ॥ विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनैत्यकम् । सदापि पापकर्माणमेनो न प्रतियुज्यते ॥ एनो न प्रतियुज्यत इति ॥ १९ ॥ इति वासिष्ठधर्मशास्त्रे षड्विंशोध्यायः ॥ २६ ॥ ──────── यद्यकार्यशतं साग्रं कृतं वेदश्च धार्यते । सर्वं तत्तस्य वेदाग्निर्दहत्याग्निरिवेन्धनम् ॥ १ ॥ ──────── 13. यथाग्निर्वायुनोद्भूतः F. H. जाप्यपरः F. H. 14. चैव instead of चापि B. F. H. 16. जपहोमैः° B. F. H. 17. रथा वाश्वैर्यथा विना B. F. H. 18. चान्नेन F. H. भषज F. H. XXVII. 1. यद्यकार्यकृतं त्यागं E. सर्वं तु तस्य F,

७५ यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् । तथा दहति वेदाग्निः कर्मजं दोषमात्मनः ॥ २ ॥ हत्वापि स इमाँल्लोकान्भुञ्जानोपि यतस्ततः । ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन ॥ ३ ॥ न वेदबलमाश्रित्य पापकर्मरतिर्भवेत् । अज्ञानाच्च प्रमादाच्च दह्यते कर्म नेतरत् ॥ ४ ॥ तपस्तप्यति योरण्ये मुनिर्मूलफलाशनः । ऋचमेकां च योधीते तच्च तानि च तत्समम् ॥ ५ ॥ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ ६ ॥ वेदाभ्यासोन्वहं शक्त्या महायज्ञक्रियाक्रमः । नाशयत्याशु पापानि महापातकजान्यपि ॥ ७ ॥ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । तद्धि कुर्वन्यथाशक्त्या प्राप्नोति परमां गतिम् ॥ ८ ॥ याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात् । विप्रेषु न भवेद्दोषो ज्वलनार्कसमो हि सः ॥ ९ ॥ शङ्कास्थाने समुत्पन्ने अभोज्यभोज्यसंज्ञके । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ १० ॥ अक्षारलवणां रूक्षां पिबेद्ब्राह्मीं सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पीं च ब्राह्मणः पयसा सह ॥ ११ ॥ पलाशबिल्वपत्राणि कुशान्पद्मानुदुम्बरान् । क्वाथयित्वा पिबेदापस्त्रिरात्रेणैव शुध्यति ॥ १२ ॥ २. वातबलः F. वह्नेर्जः H. ३. नैनमाप्नोति. H. ४. नेतरम्. E. F. H. 5. ॰फलाशिनः E. H. 7. ॰क्रियाक्षमः B. F. H. 8. ॰यथाशक्ति F. H. 9. यजनाध्यापनांज्ञानात्तथैव B F. 10. अभोज्यमक्ष. H. 11. रूढां. F. H.

७६ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥ १३ ॥ गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा । पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ॥ १४ ॥ यवान्विधिनोपयुञ्जानः प्रत्यक्षेणैव शुध्यति । विशुद्धभावे शुद्धाः स्युरशुद्धे तु सराणिगः ॥ १५ ॥ हविष्यान्प्रातराशांस्त्रीन्सायमाशांस्तथैव च । अयाचितं तथैव स्यादुपवासत्रयं भवेत् ॥ १६ ॥ अथ चेच्चरते कर्तुं दिवसं मारुताशनः । रात्रौ जलाशये व्युष्टः प्राजापत्येन तत्समम् ॥ १७ ॥ सावित्र्यष्टसहस्रं तु जपं कृत्वोत्थिते रवौ । मुच्यते पातकैः सर्वैर्यदि न ब्रह्महा भवेत् ॥ १८ ॥ यो वै स्तेनः सुरापो वा भ्रूणहा गुरुतल्पगः । धर्मशास्त्रमधीत्यैव मुच्यते सर्वपातकैः ॥ १९ ॥ दुरितानां दुरिष्टानां पापानां महतां तथा । कृच्छ्रं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥ २० ॥ एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । अमावास्यां न भुञ्जीत एवं चान्द्रायणो विधिः ॥ एवं चान्द्रायणो विधिरिति ॥ २१ ॥ इति वासिष्ठधर्मशास्त्रे सप्तविंशोऽध्यायः ॥ २७ ॥ 13. शौचयत् H. 17. जलस्थितः B. F. H. 18. न भ्रूणहा. Bh. E. H, नो ब्रह्महा B. Ban. ed. नात्रभ्रंहा. F.

७७ न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा । नापो मूत्रपुरीषेण नाग्निर्दहनकर्मणा ॥ १ ॥ स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता । बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ॥ २ ॥ न त्याज्या दूषिता नारी नास्यास्त्यागो विधीयते । पुष्पकालमुपासीत ऋतुकालेन शुध्यति ॥ ३ ॥ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ४ ॥ पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः । गच्छन्ति मानुषान्पश्चान्नैता दुष्यन्ति धर्मतः ॥ ५ ॥ तासां सोमोददच्छौचं गन्धर्वः शिक्षितां गिरम् । अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥ ६ ॥ त्रीणि स्त्रियः पातकानि लोके धर्मविदो विदुः भर्तृवधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥ ७ ॥ वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने । स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥ ८ ॥ अजाश्वा मुखतो मेध्या गावो मेध्यास्तु सर्वतः ॥ ९ ॥ सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥ १० ॥ अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः । कूष्माण्डानि पावमान्यो दुर्गासावित्रिरेव च ॥ ११ ॥ XXVIII. 1. वारेण B. F. २. बलात्कारेण भुक्ता. E. H. चौर° F. H. 5. पश्चाच्च दुष्यन्ति F. H. 6. सर्वभक्षत्वं B. F. H. 7. भर्तृ- वैधः F. H. 8. फलशातने F. H. वत्सो मध्यावने मेध्यः H. 11. शुद्धवत्य- रतसमा. Bh. E. H.

अतीषङ्गाः पदस्तोभाः सामानि व्याहतीस्तथा । भारुण्डानि सामानि च गायत्रं रैवतं तथा ॥ १२ ॥ पुरुषव्रतं च भासं च तथा देवव्रतानि च । आब्लिङ्गं बार्हस्पत्यं तु वाक्सूक्तं मध्वृचस्तथा ॥ १३ ॥ शतरुद्रियमथर्वशिरस्त्रिसुपर्णं महाव्रतम् । गोसूक्तं चाश्वसूक्तं च शुद्धाशुद्धीये सामनी ॥ १४ ॥ त्रीणाज्यदोहानि रथन्तरं च अग्नेर्व्रतं वामदेव्यं बृहच्च । एतानि जप्तानि पुनन्ति जन्तू- ञ्जातिस्मरत्वं लभते यदीच्छेत् ॥ १५ ॥ अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः । तासामनन्तं फलमश्रुवीत यः काञ्चनं गां च महीं च दद्यात् ॥ १६ ॥ उपरुन्धन्ति दातारं गौरश्वः कनकं क्षितिः । अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृतेः ॥ १७ ॥ वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च वा । तिलान्क्षौद्रेण संयुक्तान्कृष्णान्वा यदि वेतरान् ॥ १८ ॥ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ १९ ॥ 12. अभिषङ्गाः B. Ban. ed. भारदण्डानि. B Ban. ed. भाडानि E. Bh . and F. omit this Sūtra and 13a. 13. चत्वासं च E. अत्तिवर्गं B. Ban. ed. अष्टलिङ्ग. F. अव्लिङ्गाः Bh. H. वाक्सूक्तमवृचस्तथा. E. वाक्सूक्तमरुचस्तथा H. 14. महापंथं व्रत H. शुद्धं शुद्धेन Bh. E. F. H. इन्द्रशुद्धे B. Ban. ed. चन्द्रसूक्ते and चन्द्रशुद्धे Vishṇu LV. 20. 15. रथाङ्करं B. F. 16. तासा मनन्यं F. H. 17. उपरुदन्ति दातारं. B. Ban. ed. E. उपरुन्दन्ति Bh. F. H. हस्तं दृष्ट्वा E. निवाकृताः Bh. F. H. 18. च instead of तु B. H.

७९ सुवर्णनाभं कृत्वा तु सखुरं कृष्णमार्गजम् । तिलैः प्रच्छाद्य यो दद्यात्तस्य पुण्यफलं शृणु ॥ २० ॥ ससुवर्णगुहा तेन सशैलवनकानना । चतुर्वक्त्रा भवेद्दत्ता पृथिवी नात्र संशयः ॥ २१ ॥ कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्वं तरति दुष्कृतमिति ॥ सर्वं तरति दुष्कृतमिति ॥ २२ ॥ इति वासिष्ठधर्मशास्त्रेष्टाविंशोध्यायः ॥ २८ ॥ दानेन सर्वान्कामानवाप्नोति ॥ १ ॥ चिरजीवित्वं ब्रह्मचारी रूपवान् ॥ २ ॥ अहिंस्युपपद्यते स्वर्गम् ॥ ३ ॥ अग्निप्रवेशाद्ब्रह्मलोकः ॥ ४ ॥ मौनात्सौभाग्यम् ॥ ५ ॥ नागाधिपतिरुदकवासात् ॥ ६ ॥ नी निरुजः क्षीणकोषः ॥ ७ ॥ तोयदः सर्वकामसमृद्धः ॥ ८ ॥ अन्नप्रदाता सुचक्षुः स्मृतिमान् ॥ ९ ॥ मेधावी सर्वतोभयदाता ॥ १० ॥ गोप्रयुक्ते सर्वतीर्थोपस्पर्शनम् ॥ ११ ॥ स्नान मित्यर्थः। शय्यासनदानादन्तःपुराधिपत्यम् ॥ १२ ॥ छत्रदानाद्गृहलाभः ॥ १३ ॥ 20. °मार्गणं F. H. 21. °गृहोपेता H. XXIX. 1. सर्वकामान् B. F. H. वासिष्ठ धर्म ११

गृहप्रदो नगरमाप्नोति ॥ १४ ॥ उपानत्प्रदाता यान्र्मासादयते ॥ १५ ॥ अथाप्युदाहरन्ति । यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः । अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ १६ ॥ विप्रायाचमनार्थं तु दद्यात्पूर्णकमण्डलुम् । प्रेत्य तृप्तिं परां प्राप्य सोमपो जायते पुनः ॥ १७ ॥ अनडुहां सहस्राणां दत्तानां धुर्यवाहिनाम्। सुपात्रे विधिवद्दानं कन्यादानेन तत्समम् ॥ १८ ॥ त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । अतिदानं हि दानानां विद्यादानं ततोधिकम् ॥ १९ ॥ आत्यन्तिकफलप्रदं मोक्षसंसारमोचनम् । योनसूयुरिमं विद्वानाचारमनुवर्तते ॥ २० ॥ श्रद्दधानः शुचिर्दान्तो धारयेच्छृणुयादपि । विहाय सर्वपापानि नाकपृष्ठे महीयत इति ॥ नाकपृष्ठे महीयत इति ॥ २१ ॥ इति वासिष्ठधर्मशास्त्रे एकोनत्रिंशोध्यायः॥ २९ ॥ धर्मं चरत माधर्मं सत्यं वदत नानृतम् । दीर्घं पश्यत मा ह्रस्वं परं पश्यत मापरम् ॥ १ ॥ ब्राह्मणो भवत्यग्निः ॥ २ ॥ 14. नगजं E. 18. दशानां H. विधिदत्तानां B. Ban. ed. F. H. 19. त्रीण्या- हुरिति दानानि E. आदिदानं हिरण्यानां F. 20. औत्पत्तिकफल°. H. योगिनां संपूर्त्तिं विद्वान् B. Ban. ed. योगिनां संमर्त E. योनसंयुरिम F. H.

८१ अग्निर्वै ब्राह्मण इति श्रुतेः ॥ ३ ॥ तच्च कथम् ॥ ४ ॥ तत्र सदो ब्राह्मणस्य शरीरं वेदिः संकल्पो यज्ञः पशुरात्मा रशना बुद्धिः सदो मुखमाहवनीयं नाभ्यामुदरोग्निर्गार्हपत्यः प्राणोऽध्वर्युरपानो होता व्यानो ब्रह्मा समान उद्गातात्मेन्द्रियाणि यज्ञपात्राणि य एवं विद्वानिनिन्द्रियैरिन्द्रियार्थ जुहोतीत्यपि च- काठके विज्ञायते ॥ ५ ॥ अथाप्युदाहरन्ति । पाति त्राति च दातारमात्मानं चैव किल्विषात् । वेदेन्धनसमृद्धेषु हुतं विप्रमुखाग्निषु ॥ ६ ॥ न स्कन्दते न व्यथते नैनमध्यापतेच्च यत् । वरिष्ठमग्निहोत्रात्तु ब्राह्मणस्य मुखे हुतम् ॥ ७ ॥ ध्यानाग्निः सत्योपचयनं क्षान्त्याहुतिः स्रुवं ह्रीः पुरोडाशमहिंसा संतोषो । यूपः कृच्छ्रं भूतेभ्योभयदाक्षिण्यमिति कृत्वा क्रतु मानसं याति क्षयं बुधः ॥ ८ ॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीवनाशा धनाशा च जीर्यतोपि न जीर्यति ॥ ९ ॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । यासौ प्राणान्तिको व्याधिस्तां तृष्णां त्यजतः सुखमिति ॥१०॥ XXX. 5. कावे विज्ञायते H. 6. याति E. 7. नैनमध्याचते च यः B. Ban. ed. न बिनश्यति कर्हिंचित् Manu VII., 84. नैवमभ्यापतेच्च यः F. 8. क्षान्त्यापुष्टि B. Ban. ed.

८२ नमोस्तु मित्रावरुणयोरुर्वश्यात्मजाय शतयातवे वसिष्ठाय वसिष्ठायेति ॥ ११ ॥ इति वासिष्ठधर्मशास्त्रे त्रिंशोध्यायः ॥ ३० ॥ ॥ समाप्तं चेयं श्रीवासिष्ठधर्मशास्त्रम् ॥