भारतकोश
संग्रह पर लौटें

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

७६ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥ १३ ॥ गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा । पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ॥ १४ ॥ यवान्विधिनोपयुञ्जानः प्रत्यक्षेणैव शुध्यति । विशुद्धभावे शुद्धाः स्युरशुद्धे तु सराणिगः ॥ १५ ॥ हविष्यान्प्रातराशांस्त्रीन्सायमाशांस्तथैव च । अयाचितं तथैव स्यादुपवासत्रयं भवेत् ॥ १६ ॥ अथ चेच्चरते कर्तुं दिवसं मारुताशनः । रात्रौ जलाशये व्युष्टः प्राजापत्येन तत्समम् ॥ १७ ॥ सावित्र्यष्टसहस्रं तु जपं कृत्वोत्थिते रवौ । मुच्यते पातकैः सर्वैर्यदि न ब्रह्महा भवेत् ॥ १८ ॥ यो वै स्तेनः सुरापो वा भ्रूणहा गुरुतल्पगः । धर्मशास्त्रमधीत्यैव मुच्यते सर्वपातकैः ॥ १९ ॥ दुरितानां दुरिष्टानां पापानां महतां तथा । कृच्छ्रं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥ २० ॥ एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । अमावास्यां न भुञ्जीत एवं चान्द्रायणो विधिः ॥ एवं चान्द्रायणो विधिरिति ॥ २१ ॥ इति वासिष्ठधर्मशास्त्रे सप्तविंशोऽध्यायः ॥ २७ ॥ 13. शौचयत् H. 17. जलस्थितः B. F. H. 18. न भ्रूणहा. Bh. E. H, नो ब्रह्महा B. Ban. ed. नात्रभ्रंहा. F.

७७ न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा । नापो मूत्रपुरीषेण नाग्निर्दहनकर्मणा ॥ १ ॥ स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता । बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ॥ २ ॥ न त्याज्या दूषिता नारी नास्यास्त्यागो विधीयते । पुष्पकालमुपासीत ऋतुकालेन शुध्यति ॥ ३ ॥ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ४ ॥ पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः । गच्छन्ति मानुषान्पश्चान्नैता दुष्यन्ति धर्मतः ॥ ५ ॥ तासां सोमोददच्छौचं गन्धर्वः शिक्षितां गिरम् । अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥ ६ ॥ त्रीणि स्त्रियः पातकानि लोके धर्मविदो विदुः भर्तृवधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥ ७ ॥ वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने । स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥ ८ ॥ अजाश्वा मुखतो मेध्या गावो मेध्यास्तु सर्वतः ॥ ९ ॥ सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥ १० ॥ अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः । कूष्माण्डानि पावमान्यो दुर्गासावित्रिरेव च ॥ ११ ॥ XXVIII. 1. वारेण B. F. २. बलात्कारेण भुक्ता. E. H. चौर° F. H. 5. पश्चाच्च दुष्यन्ति F. H. 6. सर्वभक्षत्वं B. F. H. 7. भर्तृ- वैधः F. H. 8. फलशातने F. H. वत्सो मध्यावने मेध्यः H. 11. शुद्धवत्य- रतसमा. Bh. E. H.

अतीषङ्गाः पदस्तोभाः सामानि व्याहतीस्तथा । भारुण्डानि सामानि च गायत्रं रैवतं तथा ॥ १२ ॥ पुरुषव्रतं च भासं च तथा देवव्रतानि च । आब्लिङ्गं बार्हस्पत्यं तु वाक्सूक्तं मध्वृचस्तथा ॥ १३ ॥ शतरुद्रियमथर्वशिरस्त्रिसुपर्णं महाव्रतम् । गोसूक्तं चाश्वसूक्तं च शुद्धाशुद्धीये सामनी ॥ १४ ॥ त्रीणाज्यदोहानि रथन्तरं च अग्नेर्व्रतं वामदेव्यं बृहच्च । एतानि जप्तानि पुनन्ति जन्तू- ञ्जातिस्मरत्वं लभते यदीच्छेत् ॥ १५ ॥ अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः । तासामनन्तं फलमश्रुवीत यः काञ्चनं गां च महीं च दद्यात् ॥ १६ ॥ उपरुन्धन्ति दातारं गौरश्वः कनकं क्षितिः । अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृतेः ॥ १७ ॥ वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च वा । तिलान्क्षौद्रेण संयुक्तान्कृष्णान्वा यदि वेतरान् ॥ १८ ॥ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ १९ ॥ 12. अभिषङ्गाः B. Ban. ed. भारदण्डानि. B Ban. ed. भाडानि E. Bh . and F. omit this Sūtra and 13a. 13. चत्वासं च E. अत्तिवर्गं B. Ban. ed. अष्टलिङ्ग. F. अव्लिङ्गाः Bh. H. वाक्सूक्तमवृचस्तथा. E. वाक्सूक्तमरुचस्तथा H. 14. महापंथं व्रत H. शुद्धं शुद्धेन Bh. E. F. H. इन्द्रशुद्धे B. Ban. ed. चन्द्रसूक्ते and चन्द्रशुद्धे Vishṇu LV. 20. 15. रथाङ्करं B. F. 16. तासा मनन्यं F. H. 17. उपरुदन्ति दातारं. B. Ban. ed. E. उपरुन्दन्ति Bh. F. H. हस्तं दृष्ट्वा E. निवाकृताः Bh. F. H. 18. च instead of तु B. H.

७९ सुवर्णनाभं कृत्वा तु सखुरं कृष्णमार्गजम् । तिलैः प्रच्छाद्य यो दद्यात्तस्य पुण्यफलं शृणु ॥ २० ॥ ससुवर्णगुहा तेन सशैलवनकानना । चतुर्वक्त्रा भवेद्दत्ता पृथिवी नात्र संशयः ॥ २१ ॥ कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्वं तरति दुष्कृतमिति ॥ सर्वं तरति दुष्कृतमिति ॥ २२ ॥ इति वासिष्ठधर्मशास्त्रेष्टाविंशोध्यायः ॥ २८ ॥ दानेन सर्वान्कामानवाप्नोति ॥ १ ॥ चिरजीवित्वं ब्रह्मचारी रूपवान् ॥ २ ॥ अहिंस्युपपद्यते स्वर्गम् ॥ ३ ॥ अग्निप्रवेशाद्ब्रह्मलोकः ॥ ४ ॥ मौनात्सौभाग्यम् ॥ ५ ॥ नागाधिपतिरुदकवासात् ॥ ६ ॥ नी निरुजः क्षीणकोषः ॥ ७ ॥ तोयदः सर्वकामसमृद्धः ॥ ८ ॥ अन्नप्रदाता सुचक्षुः स्मृतिमान् ॥ ९ ॥ मेधावी सर्वतोभयदाता ॥ १० ॥ गोप्रयुक्ते सर्वतीर्थोपस्पर्शनम् ॥ ११ ॥ स्नान मित्यर्थः। शय्यासनदानादन्तःपुराधिपत्यम् ॥ १२ ॥ छत्रदानाद्गृहलाभः ॥ १३ ॥ 20. °मार्गणं F. H. 21. °गृहोपेता H. XXIX. 1. सर्वकामान् B. F. H. वासिष्ठ धर्म ११

गृहप्रदो नगरमाप्नोति ॥ १४ ॥ उपानत्प्रदाता यान्र्मासादयते ॥ १५ ॥ अथाप्युदाहरन्ति । यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः । अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ १६ ॥ विप्रायाचमनार्थं तु दद्यात्पूर्णकमण्डलुम् । प्रेत्य तृप्तिं परां प्राप्य सोमपो जायते पुनः ॥ १७ ॥ अनडुहां सहस्राणां दत्तानां धुर्यवाहिनाम्। सुपात्रे विधिवद्दानं कन्यादानेन तत्समम् ॥ १८ ॥ त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । अतिदानं हि दानानां विद्यादानं ततोधिकम् ॥ १९ ॥ आत्यन्तिकफलप्रदं मोक्षसंसारमोचनम् । योनसूयुरिमं विद्वानाचारमनुवर्तते ॥ २० ॥ श्रद्दधानः शुचिर्दान्तो धारयेच्छृणुयादपि । विहाय सर्वपापानि नाकपृष्ठे महीयत इति ॥ नाकपृष्ठे महीयत इति ॥ २१ ॥ इति वासिष्ठधर्मशास्त्रे एकोनत्रिंशोध्यायः॥ २९ ॥ धर्मं चरत माधर्मं सत्यं वदत नानृतम् । दीर्घं पश्यत मा ह्रस्वं परं पश्यत मापरम् ॥ १ ॥ ब्राह्मणो भवत्यग्निः ॥ २ ॥ 14. नगजं E. 18. दशानां H. विधिदत्तानां B. Ban. ed. F. H. 19. त्रीण्या- हुरिति दानानि E. आदिदानं हिरण्यानां F. 20. औत्पत्तिकफल°. H. योगिनां संपूर्त्तिं विद्वान् B. Ban. ed. योगिनां संमर्त E. योनसंयुरिम F. H.

८१ अग्निर्वै ब्राह्मण इति श्रुतेः ॥ ३ ॥ तच्च कथम् ॥ ४ ॥ तत्र सदो ब्राह्मणस्य शरीरं वेदिः संकल्पो यज्ञः पशुरात्मा रशना बुद्धिः सदो मुखमाहवनीयं नाभ्यामुदरोग्निर्गार्हपत्यः प्राणोऽध्वर्युरपानो होता व्यानो ब्रह्मा समान उद्गातात्मेन्द्रियाणि यज्ञपात्राणि य एवं विद्वानिनिन्द्रियैरिन्द्रियार्थ जुहोतीत्यपि च- काठके विज्ञायते ॥ ५ ॥ अथाप्युदाहरन्ति । पाति त्राति च दातारमात्मानं चैव किल्विषात् । वेदेन्धनसमृद्धेषु हुतं विप्रमुखाग्निषु ॥ ६ ॥ न स्कन्दते न व्यथते नैनमध्यापतेच्च यत् । वरिष्ठमग्निहोत्रात्तु ब्राह्मणस्य मुखे हुतम् ॥ ७ ॥ ध्यानाग्निः सत्योपचयनं क्षान्त्याहुतिः स्रुवं ह्रीः पुरोडाशमहिंसा संतोषो । यूपः कृच्छ्रं भूतेभ्योभयदाक्षिण्यमिति कृत्वा क्रतु मानसं याति क्षयं बुधः ॥ ८ ॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीवनाशा धनाशा च जीर्यतोपि न जीर्यति ॥ ९ ॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । यासौ प्राणान्तिको व्याधिस्तां तृष्णां त्यजतः सुखमिति ॥१०॥ XXX. 5. कावे विज्ञायते H. 6. याति E. 7. नैनमध्याचते च यः B. Ban. ed. न बिनश्यति कर्हिंचित् Manu VII., 84. नैवमभ्यापतेच्च यः F. 8. क्षान्त्यापुष्टि B. Ban. ed.

८२ नमोस्तु मित्रावरुणयोरुर्वश्यात्मजाय शतयातवे वसिष्ठाय वसिष्ठायेति ॥ ११ ॥ इति वासिष्ठधर्मशास्त्रे त्रिंशोध्यायः ॥ ३० ॥ ॥ समाप्तं चेयं श्रीवासिष्ठधर्मशास्त्रम् ॥

APPENDIX —————— This Appendix contains a complete collection of quotations from Vasiṣṭha's Dharmaśāstra found in Vijñāneśvara's Mitāksharā (Mit. ed. Bomb. śāka 1785), Aparārka's Yājña- valkīyadharmaśāstranibandha (Ap. MS.), Nandapaṇḍita's Vaijayantī (Vaij. MS.), Devāṇḍabhaṭṭa's Smṛitichandrikā (Sm. Ms.), Nīlakaṇṭha's Vyavahāramayūkha (May. ed. Bomb. A. D. 1880), Mitramiśra's Vīramitrodaya (Vīr. Khidirapura, śāke 1737), Mādhavāchārya's Parāśarasmṛtivyākhyā (Mādh. MS.), and Kamalākara's Vivādatāṇḍava (Kam. MS.) A. Quotations which occur in the present edition :-- अथ भ्रातॄणां दायविभागो याश्चानपत्याः स्त्रियस्तासामा पुत्रलाभात् ॥a अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥ b तृतीयः पुत्रिकैव ॥ c द्वितीयः पुत्रः पुत्रिकैव ॥ d पौनर्भवश्चतुर्थः ॥ e येन चैषां स्वयमुपार्जितं स्यात्स द्वयंशमेव हरेत् ॥ f अनंशास्त्वाश्रमन्तरगताः ॥ g अनंशास्त्वाश्रमन्तरगताः क्लीबोन्मत्तपतिताश्च । भरणं क्लीबोन्मत्तानाम् ॥ h अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ॥ i —————————————————————————————— (a) Vas. XVII., 40-41; Mit. ch. II., I. 52, p. 1; Vīr. I. 182, p. 2; May. 38, 6, 7; Mādh., Kam., Ap. (b) Vas. XVII., 17; Mit. II., 1. 55, p. 1; Vīr. I. 185, p. 1; May. 38, 25, 26; Kam. Vaij. (c) Vas. XVII., 15; Mit. ch. II., I. 55, p. 1; Ap. Vaij. May. 38, 27. (d) Vīr. I. 185. p. 2. (e) Vīr. 188. p. 1. Vaij. (f) Vas. XVII., 51. May. 47, 25; Vaij. (g) Vas. XVII., 52; Mit. II., 61, 2; Vīr. 221, 2; May, 64, 5; Kam. (h) Vas. XVII., 52-54; May. 64, 21; Ap. Vaij. Mit. II. 61, 2; Vīr. 221, 2, Kam. (i) Vas. III., 16; Mit. ch. II., 10, p. 2; Vīr. 6, 2. Vaij. Ap. May. 91, 7.

राजन्यश्चेदब्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येदेवं वैश्यो राजन्यायां मैथुनमाचरञ्छूद्रस्तु राजन्यवैश्ययोः ॥ 𝑗 B. Quotations which go by the name of Vasiṣṭha, but are not found in our MSS. सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्विषी ॥ १ ॥ समवेतैस्तु यद्दृष्टं वक्तव्यं तु तथैव तत् । विभिन्नैरेव यत्कार्यं वक्तव्यं तत्पृथक्पृथक् ॥ २ ॥ भिन्नकाले तु यत्कार्यं विज्ञातं यच्च साक्षिभिः । एकैकं वाद्येत्तत्र विधिरेषः प्रकीर्तितः ॥ ३ ॥ अथ चेदनृतं ब्रूयात्सर्वतो मिथ्यलक्षणम् । मृतो नरकमायाति तिर्यग्गच्छत्यसंशयम् ॥ ४ ॥ शूकरो दश वर्षाणि दश वर्षाणि गर्दभः । श्वा चैव दश वर्षाणि भासो वा निजाविंशतिम् ॥ ५ ॥ कृमिकीटपतङ्गेषु चत्वारिंशत्तथैव च । मृगस्तु दश वर्षाणि जायते मानवस्ततः ॥ ६ ॥ मानुष्यं तु यदाप्नोति मूकोऽन्धस्तु भवेद्धि सः । पामरो जायते पश्चात्स परिव्यक्तबान्धवः ॥ ७ ॥ पंग्वन्धबधिरो मूकः कुष्ठी नग्नः पिपासितः । बुभुक्षितः शत्रुगृहे भिक्षते भार्यया सह ॥ ८ ॥ ज्ञात्वैताननृते दोषान्कांश्चान्त्या सत्ये च सद्गुणान् । श्रेयस्करमिहान्यत्र सत्यं साक्ष्ये वदेदतः ॥ ९ ॥ लौकिकं राजकीयं च लेख्यं विद्याद्द्विलक्षणम् । राजकीयं चतुर्भेदंनष्टभेदं तु लौकिकम् ॥ १० ॥ चिरकं च स्वहस्तं च तथापगतसंज्ञितम् । आधिपत्रं चतुर्थं च पञ्चमं क्रयपत्रकम् ॥ ११ ॥ षष्ठं तु स्थितिपत्राख्यं सप्तमं सन्धिपत्रकम् । विशुद्धिपत्रकं चैवमष्टधा लौकिकं स्मृतम् ॥ १२ ॥ चिरकं नाम लिखितं पुराणैः पौरलेखकैः । अर्थिप्रत्यर्थिनिर्दिष्टैर्यथासंभवसंस्कृतैः ॥ १३ ॥


(𝑗) Vas. XXI., 3 ; Vaij. Kam. 10. May. 9, 24 ; Sm. Ap. Vīr.

  1. Vīr 37, 13; Ap. Vaij. Kam. 197. 2-3 Vīr. 168, 19 ; May. 15, 11-12. Vīr. 197, Sm. Ap. 25 ; Ap. Vaij. 13-14. Sm. Ap. Vaij. 4-9. Vīr. 170. 171 ; Sm. Ap.

स्वकीयैः पितृनामाद्यैरर्थिप्रत्यर्थिसाक्षिणाम् । प्रतिनामभिराक्रान्तमर्थिसाक्षिश्वहस्त्वत् । स्पष्टावगतसंयुक्तं यथास्मृत्युक्तलक्षणम् ॥ १४ ॥ राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥ १५ ॥ शासनं प्रथमं ज्ञेयं जयपत्रं तथापरम् । आज्ञाप्रज्ञापनपत्रे राजकीयं चतुर्विधम् ॥ १६ ॥ सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु वा । कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते ॥ १७ ॥ ऋत्विक्पुरोहिताचार्यमान्येष्वाभ्यर्हितेषु च । कार्यं निवेद्यते येन पत्रं प्रज्ञापनाय तत् ॥ १८ ॥ पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेषयेत् । पाण्डुलेखेन फलके ततः पत्रं विशोधयेत् ॥ १९ ॥ यथोपन्यस्तसाध्यार्थं संयुक्तं सोत्तरक्रियम् । सावधारणकं चैव जयपत्रकमुच्यते ॥ २० ॥ प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिने दद्याज्जायने जयपत्रकम् ॥ २१ ॥ सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथालिख्यं विधौ तद्वत्स्वहस्तं तत्र दापयेत् ॥ २२ ॥ कालं निवेश्य राजानं स्थानं निवसितं तथा । दायकं ग्राहकं चैव पितृनाम्नां च संयुतम् ॥ २३ ॥ जातिं स्वगोत्रं शाखां च द्रव्याधार्थी स संख्यकम् । वृद्धिं ग्राहकहस्तं च विदिताथ च साक्षिणौ ॥ २४ ॥ तुल्यकाले निसृष्टानां लेख्यानामाधिकर्मणि । येन भुक्तं भवेत्पूर्वं तस्याधिर्बलवत्तरः ॥ २५ ॥ यद्येकदिवसे तौ तु भोक्तुकामावुपगता । विभज्याधिः समस्तत्र भोक्तव्य इति निश्चयः ॥ २६ ॥ सामान्योयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । सर्वानितान्भाविनः पार्थिवेन्द्रान् भूयो भूयो याचते रामभद्रः ॥ २७ ॥ 15–18. May. 11, 10; Vīr. 196; 22. Mit. [I. 33; Sm. Ap. Sm. Ap. Vaij. 23-24. Vīr. 191; Sm. Ap. 19. Sm. Mādh. Ap. 25. May 67, 16 : Vīr. 311, Ap. 20–21. Vīr. 195, 1; Mit II., 26. May. 67; Vīr 96; Sm. 33; Sm. 27. Ap. Vaij Kam.

८४ रुणद्धि रोदसी चास्य यावत्कीर्तिस्तरस्विनी । तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥ २८ ॥ ताम्रायः कांस्यरीतीनां त्रगुणः सीसकस्य च । त्रिगुणा तिष्ठतो वृद्धिः कालाचिरकृतस्य तु ॥ २९ ॥ दन्तचर्मास्थिशृङ्गाणां मृन्मयानां तथैव च । अक्षया वृद्धिरितेषां पुष्पमूलफलस्य च ॥ ३० ॥ पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ ३१ ॥ ज्येष्ठस्यांशोधिको देयः कनिष्ठस्य वरः स्मृतः । समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा ॥ ३२ ॥ भ्रातृणामविभक्तानां यद्युत्थानं भवेत्सह । न तत्र विषमं भागं पिता दद्यात्कथं च न ॥ ३३ ॥ 28. Ap. Vaij. Kam. 29. Vīr. 299 ; Ap. 30. Vīr. 300 ; Ap. Vaij. 31. Vīr. 644 : Ap. Vaij. 32. Vīr. 561 ; Vaij. Kam. 33. Vīr. 562 ; Ap. Sm.

INDEX TO THE VEDIC MANTRAS Quoted in Vasiṣhṭha's Dharmaśāstra. [ This Index does not include short sacrificial formulas and invocations, and those mantras which are quoted by their names only, such as e. g. Aghamarshaṇa, Devakṛta, &c. See the references in Prof. Bühler's translation. ]

अकामतोपनतं मधु २३, १३. | निरुक्तं होतः कनीयो भवति २०, २१. अग्निगचार्यस्तव ७, ६. | पश्चात्सिन्धुर्विधारणी १, १५. अग्निर्वै ब्राह्मणः ३०, ३. | प्रजाभिरग्ने अमृतत्वमश्याम १७, ४. अञ्जनाभ्यञ्जनमेवास्या न ५, ९. | प्रत्तानां च स्त्रीणां ४, १८. अत्र ह्येष्यद्दम्पत्यं भवति २०, ३६. | प्रेत्य चाभ्युदयिकं १, ४६. अनग्निकानुदक्या वामृतं ५, २. | ब्रह्मपुरोहितं राष्ट्रमृध्नोति १९, ४. अनिर्दशाहे परशवे ४, ३२. | ब्राह्मणो आपद उद्धरति १, ४७. अनन्ताः पुत्रिणां लोकाः १७, २. | ब्राह्मणो वेदमाढ्यं करोति १, ४५. अप नः शोशुचदघं २६, ५. | ब्राह्मणोस्य मुखमासीत् ४, २. आपि नः श्वो विजनिष्यमाणाः १२, २४. | भक्ष्यो धेन्वनडुहो मेध्यो १४, ४६. अप्रजाः सन्त्वत्रिणः १७, ३. | मनसा भर्तुरावचारे २१, ६. अभिशस्तो गोसवेनाग्निष्टु तां २२, ७. | महाजं वा पचेद्देवमस्मा ४, ८. अविज्ञाता हि गर्भाः पुंमासो भवन्ति | या पत्युः क्रीता १, ३७. २०, २४. | यमेव विद्याः शुचिमप्रमत्तं २, ९. अवार्यवदपत्यं भवति १२, ३१. | राजन्यश्चेदब्राह्मणीमभिगच्छेच्छरपत्रैः अस्य वामस्य २६, ६. | २१, ३. आचमेदाग्निश्च मामन्युश्च २३, २३. | लाङ्गलं पवीरवत्सुशेवं २, ३४. इन्द्रस्त्रिशीर्षाणं त्वाष्ट्रं हत्वा ५, ८. | लोमानि मृत्योर्जुहोमि २०, २६. इष्टापूर्तस्य त षष्ठमंशं १, ४४. | वाक्संबन्ध एतदेव मांसं २१, ७. एकेन वह्नंश्चाग्ने १५, ८. | विद्या ह वै ब्राह्मणमाजगाम २, ८. गायत्र्या ब्राह्मणमसृजत ४, ३. | वैश्यश्चेदब्राह्मणीमभिगच्छेल्लोहितदर्भैः गुरुवद्गुरुपुत्रस्य वर्तितव्य १३, ५४. | २१, २. तन्न सद्यो ब्राह्मणस्य शरीरं ३०, ५. | वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो ११, १३ तराति सर्वं पाप्मानं २२, ६. | व्याव्ये तु संवत्सर २१, ८. तस्माद्दुहितृमतेधिरथं शतं १, ३६. | शुनःशेपो वै यूपे नियुक्तो १७, ३५. तस्माद्ब्राह्मणोनाद्यः १, ४५. | शूद्रश्चेदब्राह्मणीमभिगच्छेद्धीरणैः २१,१ त्रिभिर्ऋणैऋणवान्ब्राह्मणो ११, ४८. | सा नाञ्ज्यान्नाभ्यञ्ज्यान्नाप्सु ५, ७, त्रिराजितो वापराद्धः पूतो भवति २०,२८ | सोमोस्य राजा भवति १, ४५. त्रैविद्यवृद्धा यं १, १६. | सपिण्डत्वं साप्तपुरुषं ४, १७. द्वयम्र ह वै पुरुषस्य रेतो २, ५. | हरिश्चन्द्रो वै राजा १७, ३२. न तमंहः २६, ७. | हविष्यन्तमजरं २६, ७.

इस पृष्ठ पर कोई भी स्पष्ट या पठनीय पाठ (Text) उपलब्ध नहीं है (पृष्ठ रिक्त अथवा अत्यधिक धुंधला/मिटा हुआ है)।

इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ है।

This page is blank and contains no text.

इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है, यह एक खाली (blank) पृष्ठ है।

This page contains no text to transcribe.