भारतकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

[अ०५८-५९श्लो०११०-१२६-१-२] वायुपुराणम् १९९

(ऋषिलक्षणम्)

* तथा कार्त्तयुगानां तु कलिङ्गेष्विह संभवः । एवं युगाद्युगस्येह संतानस्तु परस्परम् ॥
वर्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ॥ ११०
सखमायुर्बलं रूपं धर्मार्थौ काम एव च । युगेष्वेतानि हीयन्ते त्रीणि पादक्रमेण तु ॥ १११
ससंध्यांशेषु हीयन्ते युगानां धर्मसिद्धयः । इत्येष प्रतिसंधिर्वः कीर्तितस्तु मया द्विजाः ॥ ११२
चतुर्युगाना(णां) सर्वेषामेतेनैव प्रसाधनम् । एषां चतुर्युगावृत्तिरासहस्रात्प्रवर्तते ॥ ११३
ब्रह्मणस्तदहः प्रोक्तं रात्रिश्च तावती स्मृता । अत्राऽऽर्जवं जडीभावो भूतानामायुगक्षयात् ॥ ११४
एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् । एषां चतुर्युगानां (णां) तु गणना ह्येकसप्ततिः ॥
क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते ॥ ११५
चतुर्युगे तथैकस्मिन्भवतीह यथाश्रुतम् । तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् ॥ ११६
सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु । पञ्चविंशत्परिमिता न न्यूना नाधिकास्तथा ॥ ११७
तथा कल्पयुगैः सार्धं भवन्ति समलक्षणाः । मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ॥ ११८
तथा युगानां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् ।
तथा न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥ ११९
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः । अतीतानतीतानां वै सर्वमन्वन्तरेष्विह ॥ १२०
अनागतेषु तद्वच्च तर्कः कार्यो विजानता । मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥ १२१
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि विजानीध्वं कल्पे कल्पेन चैव हि ॥ १२२
अस्याभिमानिनः सर्वे नामरूपैर्मवन्त्युत । देवा ह्यष्टविधा ये च इह मन्वन्तरेश्वराः ॥ १२३
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः । एवं वर्णाश्रमाणां तु प्रविभागे युगे युगे ॥ १२४
युगस्वभावाच्च तथा विधत्ते वै सदा प्रभुः । वर्णाश्रमविभागश्च युगानि युगसिद्धये ॥ १२५
अनुषङ्गः समाख्यातः सृष्टिसर्गं निबोधत । विस्तरेणाऽनुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ॥ १२६

इति श्रीमहापुराणे वायुप्रोक्ते चतुर्युगाख्यानं नामाष्टपञ्चाशोऽध्यायः ॥ ५८ ॥

आदितः श्लोकानां समष्ट्यङ्काः-- ४६८३


अथोनषष्ट्यध्यायः ।

ऋषिलक्षणम् ।

सूत उवाच—
युगेषु यास्तु जायन्ते प्रजास्ता वै निबोधत । आसुरी सर्पगोपक्षिपैशाची यक्षराक्षसी ॥
यास्मिन्युगे च संभूतिस्तासां यावत्तु जीवितम् ॥ १
पिशाचासुरगन्धर्वा यक्षराक्षसपन्नगाः । युगमात्रं तु जीवन्ति ऋते मृत्युं वधेन ते ॥ २


* इदमर्धं नास्ति ङ. पुस्तके ।

२०० श्रीमद्वैपायनमुनिप्रणीतम्- -[अ० ५९ श्लो० ३-२९] (ऋषिलक्षणम्)

मनुष्याणां पशूनां च पक्षिणां स्थावरैः सह । तेषामायुः परिक्रान्तं युगधर्मेषु सर्वशः ॥ ३
अस्थितिस्तु कलौ दृष्टा भूतानामायुषस्तु च । परमायुः शतं त्वेतन्मनुष्याणां कलौ स्मृतम् ॥ ४
देवासुरप्रमाणात्तु सप्तसप्ताङ्गुलं हसत् । अङ्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ॥ ५
देवासुरप्रमाणं तदुच्छ्रायं कलिजैः स्मृतम् । चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतम् ॥ ६
स्वेनाङ्गुलप्रमाणेण ऊर्ध्वमापादमस्तकम् । इत्येष मानुषोत्सेधो हसतहि युगान्तिके ॥ ७
सर्वेषु युगकालेषु अतीतानागतेष्विह । स्वेनाङ्गुलप्रमाणेण अष्टतालः स्मृतो नरः ॥ ८
आपादतो मस्तकं तु नवतालो भवेत्तु यः । संहताजानुबाहुस्तु स सुरैरपि पूज्यते ॥ ९
गवाश्वहस्तिनां चैव महिषस्थावरात्मनाम् । क्रमेणैतेन योगेन हासवृद्धी युगे युगे ॥ १०
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै । अङ्गुलाष्टशतं पूर्णमुत्सेधः कारिणां स्मृतः ॥ ११
अङ्गुलानां सहस्रं चत्वारिंशाङ्गुलं विना । पञ्चाशतं हयानां च उत्सेधः शाखिनां स्मृतः ॥ १२
मानुषस्य शरीरस्य संनिवेशस्तु यादृशः । तल्लक्षणस्तु देवानां पक्षिणां दृश्यते तत्त्वदर्शनात् ॥ १३
बुद्ध्याऽतिशययुक्तं च देवानां कायमुच्यते । देवानातिशयं चैव मानुषं कायमुच्यते ॥ १४
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः । पशूनां पक्षिणां चैव स्थावराणां निबोधत ॥ १५
गावो ह्यजा महिष्योऽश्वा हस्तिनः पक्षिणो नगाः । उपयुक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ॥ १६
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः । यथाशयोपभोगास्तु देवानां शुभमूर्तयः ॥ १७
तेषां रूपानुरूपैस्तैः प्रमाणैः स्थाणुजङ्गमैः । मनोज्ञैस्तत्त्वभावज्ञैः सुखिनो ह्युपपेदिरे ॥ १८
अतः शिष्टान्मवक्ष्यामि सतः साधूंस्तथैव च । सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत ॥
सायुज्यं ब्रह्मणोऽत्यन्तं तेन सन्तः प्रचक्षते ॥ १९
दशात्मके ये विषये कारणे चाष्टलक्षणे । न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः ॥ २०
सामान्येषु च धर्मेषु तथा वैशेषिकेषु च । ब्रह्मक्षत्रविशो युक्ता यस्मात्तस्माद्द्विजातयः ॥ २१
वर्णाश्रमेषु युक्तस्य स्वर्गगोमुखचारिणः । श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मः स उच्यते ॥ २२
विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः । क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ॥ २३
साधनातपसोऽरण्ये साधुर्वैखानसः स्मृतः । यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥ २४
एवमाश्रमधर्माणां साधनात्साधवः स्मृता । गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ॥ २५
न च देवा न पितरो मुनयो न च मानवाः । अयं धर्मो ह्ययं नेति ब्रुवते भिन्नदर्शनाः ॥ २६
धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ । कुशलाकुशलं कर्म धर्माधर्माविति स्मृतौ ॥ २७
[+ धारणा धृतिरित्यार्थाद्धातोर्धर्मः प्रकीर्तितः । अधारणेऽमहत्त्वे च अधर्म इति चोच्यते ॥ २८
अत्रेष्टमापको धर्म आचार्यैरुपदिश्यते ] वृद्धा ह्यलोलुपाश्चैव आत्मवन्तो ह्यदम्भकाः ॥
सम्यग्विनीता ऋजवस्तानाचार्यान्प्रचक्षते ॥ २९


+ धनुश्चिह्नान्तरग्रन्थो ग पुस्तके नास्ति ।

मन्वन्तरस्यातितस्य स्मृताऽऽचारं पुनर्जगौ । तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥ ३२

[अ० ५९ श्लो० ३०-५४] वायुपुराणम् । २०१

(ऋषिलक्षणम्:)

स्वयमाचरते यस्मादाचारं स्थापयत्यपि । आचिनोति च शास्त्रार्थानियमैः संनियमैर्युतः ॥ ३०
पूर्वेभ्यो वेद्यित्वेह श्रौतं सप्तर्षयोऽब्रुवन् । ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि च श्रुतिः ॥ ३१
मन्वन्तरस्यातितस्य स्मृताऽऽचारं पुनर्जगौ । तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥ ३२
स एष द्विविधो धर्मः शिष्टाचार इहोच्यते । शेषशब्दाच्छिष्ट इति शिष्टाचारः प्रचक्ष्यते ॥ ३३
मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः । मनुः सप्तर्षयश्चैव लोकसंतानकारणात् ॥
धर्मार्थं ये च शिष्टा वै याथातथ्यं प्रचक्षते ॥ ३४
मन्वादयश्च ये शिष्टा ये मया प्रागुदीरिताः । तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ॥ ३५
त्रयी वार्ता दण्डनीतिरिज्या वर्णाश्रमस्तथा । शिष्टैराचार्यते यस्मान्मनुना च पुनः पुनः ॥
पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स शाश्वतः ॥ ३६
दानं सत्यं तपोऽलोभो विद्येज्याप्रजनौ दया । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥ ३७
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च वै । मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥ ३८
विज्ञेयः श्रवणाम्छ्रौतः स्मरणात्स्मार्त उच्यते । इज्यावेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः ३९
प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ॥ ४०
दृष्ट्वा प्रभूतमर्थं यः पृष्टो वै न निगूहति । यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥ ४१
ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च । इत्येतत्तपसो मूलं सुघोरं तद्दुरासदम् ॥ ४२
पशूनां द्रव्यहविषामृक्सामयजुषां तथा । ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ॥ ४३
आत्मवत्सर्वभूतेषु या हितायाहिताय च । समा प्रवर्तते दृष्टिः कृत्स्ना ह्येषा दया स्मृता ॥ ४४
आक्रुष्टोऽभिहतो वाऽपि नाऽऽक्रोशेद्यो न हन्ति वा । वाङ्मनःकर्मभिः क्षान्तिस्तितिक्षैषा क्षमा स्मृता ॥ ४५
स्वामिनाऽरक्ष्यमाणानामुत्सृष्टानां च सत्सु च । परस्वानामनादानमलोभ इह कीर्त्यते ॥ ४६
मैथुनस्यासमाचारो ह्यचिन्तनमकल्पनम् । निवृत्तिर्ब्रह्मचर्यं तदाच्छिद्रं दम उच्यते ॥ ४७
आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै । न मिथ्या संप्रवर्तन्ते शमस्यैतत्तु लक्षणम् ॥ ४८
दशात्मके यो विषये कारणे चाष्टलक्षणे । न क्रुध्येत्तु प्रतिहतः स जितात्मा विभाव्यते ॥ ४९
यद्यदिष्टतमं द्रव्यं न्यायेनोपागतं च यत् । तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥
दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् । तत्र नैःश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये ॥
कारुण्यात्सर्वभूतेभ्यः सुविभागस्तु बन्धुषु ॥ ५०
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः । शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसङ्गतः ॥ ५१
अपद्वेषो ह्यनिष्टेषु तथेष्टानभिनन्दनम् । प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ॥ ५२
संन्यासः कर्मणो न्यासः कृतानामकृतैः सह । कुशलाकुशलानां च प्रहाणं त्याग उच्यते ॥ ५३
अव्यक्ताद्योऽविशेषाच्च विकाराऽस्मिन्नचेतने । चेतनाऽचेतनान्यत्वविज्ञानं ज्ञानमुच्यते ॥ ॥ ५४

२६

२०२ श्रीमद्द्वैपायनमुनिप्रणीतम्— [अ०५९–श्लो० ५५–७७] (ऋषिलक्षणम् )

प्रत्यङ्गानां तु धर्मस्य इत्येतल्लक्षणं स्मृतम् । ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वे स्वायंभुवेऽन्तरे ॥ ५५
अत्र वो वर्तयिष्यामि विधिर्मन्वन्तरस्य यः । इतरेतरवर्णस्य च तुर्वर्णस्य चैव हि ॥
प्रतिमन्वन्तरं चैव श्रुतिरन्या विधीयते ॥ ५६
ऋचो यजूंषि सामानि यथावत्प्रतिदैवतम् । आभूतसंप्लवस्थायि वर्ज्यैकं शतरुद्रियम् ॥ ५७
विधिर्होत्रं तथा स्तोत्रं पूर्ववत्संप्रवर्तते । द्रव्यं स्तोत्रं गुणस्तोत्रं कर्मस्तोत्रं तथैव च ॥
चतुर्थमाभिजनिकं स्तोत्रमेतच्चतुर्विधम् ॥ ५८
मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये । प्रवर्तयति तेषां वै ब्रह्मा स्तोत्रं चतुर्विधम् ॥
एवं मन्त्रगुणानां च समुत्पत्तिश्चतुर्विधा ॥ ५९
अथर्वयजुषां साम्नां वेदेष्विह पृथक्पृथक् । ऋषीणां तप्यतामुग्रं तपः परमदुश्चरम् ॥ ६०
मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह । परितोषाद्भयाद्वाद्दुःखात्सुखाच्छोकाच्च पञ्चधा ॥ ६१
ऋषीणां तपः कात्स्न्र्येन दर्शनेन यदृच्छया । ऋषीणां यदृषित्वं दि तद्वक्ष्यामीह लक्षणैः ॥ ६२
अतीतानागतानां तु पञ्चधा ऋषिरुच्यते । अतस्त्वृषीणां वक्ष्यामि ह्यार्षस्य स समुद्भवम् ॥ ६३
गुणसाम्ये वर्तमाने सर्वसंप्लये तदा । अतिचारे तु देवानामविद्देशे तयोर्यथा ॥ ६४
अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते । तेन ह्यबुद्धिपूर्वं तच्चेतनेन ह्यधिष्ठितम् ॥ ६५
वर्तने च यथा तौ तु यथा मत्स्योदके उभौ । चेतनाधिष्ठिते तत्त्वं प्रवर्तति गुणात्मना ॥ ६६
कारणत्वात्तथा कार्यं तदा तस्य प्रवर्तते । विषयं विषयित्वाच्च ह्यर्थेऽर्थित्वात्तथैव च ॥ ६७
कालेन पापणीयेन भेदास्तु कारणात्मकाः । संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः ॥ ६८
महतश्चाप्यहंकारस्तस्माद्भूतेन्द्रियाणि च । भूतभेदास्तु भेदेभ्यो जज्ञिरे ते परस्परम् ॥
सांसिद्धिकारणं कार्यं सद्य एव विवर्तते ॥ ६९
यथोलमुकस्फुटदूर्ध्वमेककालं प्रवर्तते । तथा विवृत्तः क्षेत्रज्ञः कालेनैकेन कर्मणा ॥ ७०
यथान्धकारे खद्योतः सहसा संप्रदृश्यते । तथा विवृत्तो ह्यव्यक्तात्खद्योत इव चालवणः ७१
स महान्सशरीरस्तु यत्रैवाग्रे व्यवस्थितः । तत्रैव संस्थितो विद्वान्द्वारशालामुखे स्थितः ॥ ७२
महांस्तु तमसः पारे वैलक्षण्याद्विभाष्यते । तत्रैव संस्थितो विद्वांस्तमसाऽन्त इति श्रुतिः ॥ ७३
बुद्धिविर्वर्तमानस्य प्रादुर्भूता चतुर्विधा । ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ॥ ७४
सांसिद्धिकान्यथैतानि सुप्रतीकानि तस्य वै । महतः सशरीरस्य वैवत्यात्सिद्धिरुच्यते ॥ ७५
अत्र शेते च यत्पुर्यां क्षेत्रज्ञानमथापि वा । पुरीशत्वाच्च पुरुषः क्षेत्रज्ञानात्समुच्यते ॥ ७६
क्षेत्रज्ञः क्षेत्रविज्ञानाद्भगवान्मतिरुच्यते । यस्माद्बुबुद्धाऽनु शेते ह तस्माद्बोधात्मकः स वै ॥
संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ॥ ७७

[अ० ५९ श्लो० ७८-९७] वायुपुराणम् । २०३

( ऋषिलक्षणम् )

एवं निवृत्तिः क्षेत्रज्ञा क्षेत्रज्ञेनाभिसंहिता । क्षेत्रज्ञेन परिज्ञातो भोग्योऽयं विषयस्त्विति ॥ ७८ ऋषीत्येष गतौ धातुः श्रुतौ सत्ये तपस्यथ । एतत्संनियतस्तस्मिन्ब्रह्मणा स ऋषिः स्मृतः ॥ ७९ निवृत्तिसमकालं तु बुद्ध्याऽऽव्यक्तमृषिः स्वयम् । परं हि ऋषते यस्मात्परमर्षिस्ततः स्मृतः ॥ ८० गत्यर्थादृषतेर्द्धातोर्नामानिर्वृत्तिरादितः । यस्मादेष स्वयंभूतस्तस्माच्च ऋषिता स्मृता ॥ ईश्वराः स्वयमुद्भूता मानसा ब्रह्मणः सुताः ॥ ८१ यस्मान्न हन्यते मानैर्महान्परिगतः पुरः । [* यस्माऽदृषन्ति ये धीरा महान्तं सर्वतो गुणैः ॥ तस्मान्महर्षयः प्रोक्ता बुद्धेः परमदर्शिनः :] ॥ ८२ ईश्वराणां शुभास्तेषां मानसा औरसाश्च ते । अहंकारं तपश्चैव त्यक्त्वा च ऋषितां गताः ॥ ८३ तस्मात्तु ऋषयस्ते वै भूतादौ तत्त्वदर्शनाः । ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसंभवाः ॥ ८४ तन्मात्राणि च सत्यं च ऋषन्ते ते महौजसः । सप्तर्षयस्ततस्ते वै परमाः सत्यदर्शनाः ॥ ८५ ऋषीणां च सुतास्ते तु विज्ञेया ऋषिपुत्रकाः । ऋषन्ति वै श्रुतं यस्माद्विशेषां चैव तत्त्वतः ॥ तस्माच्छ्रुतर्षयस्तेपि श्रुतस्य परिदर्शनात् ॥ ८६ अव्यक्तात्मा महात्मा चाहंकारात्मा तथैव च । भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते ॥ इत्येता ऋषिजातिस्तु नामाभिः पञ्च वै शृणुः ॥ ८७ भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः । मनुर्दक्षो वशिष्ठश्च पुलस्त्यश्चेति ते दश ॥ ब्रह्मणो मानसा ह्येत उद्भूताः स्वयमीश्वराः ॥ ८८ प्रवर्तत ऋषेर्यस्मान्महांस्तस्मान्महर्षयः । ईश्वराणां सुतस्त्वेव ऋषयस्तान्निबोधत ॥ ८९ काव्यो बृहस्पतिश्चैव कश्यपश्चोशनास्तथा । उतथ्यो वामदेवश्च अयोज्यश्चौशिजस्तथा ॥ ९० कर्दमो विश्रवाः शक्तिर्वालखिल्यस्तथा धराः । इत्येत ऋषयः प्रोक्ता ज्ञानतो ऋषितां गताः ॥ ९१ ऋषिपुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत । वत्सरो नग्रहश्चैव भारद्वाजस्तथैव च ॥ ९२ बृहदुक्थः शारद्वतश्च अगस्त्यश्चौशिजस्तथा । ऋषिर्दीर्घतमाश्चैव बृहदुक्थ शरद्वतः ॥ ९३ वाजश्रवाः सुवित्तश्च सुवाग्वेषपरायणः । दधीचः शङ्खमांश्चैव राजा वैश्रवणस्तथा ॥ इत्येत ऋषिकाः प्रोक्तास्ते सत्यादृषितां गताः ॥ ९४ ईश्वरा ऋषिकाश्चैव ये चान्ये वै तथा स्मृता । एते मन्त्रकृतः सर्वे कृत्स्नशस्तान्निबोधत ॥ ९५ भृगुः काव्यः प्रचेतास्तु दधीचो ह्यात्मवानपि । और्वोऽथ जमदग्निश्च विदः सारस्वतस्तथा ॥ ९६ अद्रिषेणो ह्यरूपश्च वीतहव्यः सुमेधसः । वैन्यः पृथुर्दिवोदासः पश्चास्योगृत्समत्प्रभः ॥ एकोनविंशदित्येत ऋषयो मन्त्रवादिनः ॥ ९७


  • धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

२०४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५९, श्लो० ९८--१२२] (ऋषिलक्षणम्)

अङ्गिरा वेधसश्चैव भारद्वाजोऽथ बाष्कलिः । तथाऽमृतस्तथा गार्ग्यः शेनी संहतिरेव च ॥ ९८ पुरुकुत्सोऽथ मांधाता अम्बरीषस्तथैव च । युवनाश्वः पौरुकुत्सस्त्रसदस्यूः सदस्युमान् ॥ ९९ आहार्योऽथाजमीढश्च ऋषभो बलिरेव च । पृषदश्वो विरूपश्च कण्वश्चैवाथ मुद्गलः ॥ १०० उतथ्यश्च भरद्वाजस्तथा वाजश्रवा अपि । आयाप्यश्च सुवित्तिश्च वामदेवस्तथैव च ॥ १०१ औगजो बृहदुक्थश्च ऋषिर्दीर्घतपस्तथा । कक्षीवांश्च त्रयस्त्रिंशत्स्मृता अङ्गिरसो वराः ॥ एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत ॥ १०२ कश्यपश्चैव वत्सारो विभ्रमो रैभ्य एव च । असितो देवलश्चैव षडेते ब्रह्मवादिनः॥ १०३ अत्रिरर्चिसनश्चैव श्यामावांश्चाथ निष्ठुरः । वल्गूतको मुनिर्धीमांस्तथा पूर्वातिथिश्थ यः ॥ इत्येते चात्रयः प्रोक्ता मन्त्रकारा महर्षयः ॥ १०४ वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः । चतुर्थ इन्द्रप्रमतिः पञ्चमस्तु भरद्वसुः ॥ १०५ षष्ठस्तु मैत्रावरुणः कुण्डिनः सप्तमस्तथा । * एते सप्तर्षयो विप्रा ब्रह्मक्षेत्रनिवासिनः ॥ १०६ ब्रह्मक्षेत्रं महातीर्थं ब्रह्मणा निर्मितं पुरा । + कुरुक्षेत्रे पुण्यतमे पितामहनिषेविते ॥ १०७ देवानां च ऋषीणां च मुनीनां तत्र सङ्गमः । ब्रह्मणा च कृतं प्रश्नं क दृष्टा वायुदेवता ॥ १०८ ऋषिगणैस्तदा प्रोक्तं न दृष्टा (ष्टा) वायुदेवता । इति चिन्तयतां तेषामणुमात्रस्तु दृष्टवान् ॥ १०९ दृष्टं पुरं च तत्राऽऽसीद्वायोर्नाम्ना पुरं परम् । [× अष्टादशसहस्राणि द्विजाः संस्थापितास्तदा ॥ ११० शूद्रास्ताद्विगुणास्तत्र स्थापिता मातरिश्वना । तानुवाच ततो देवो मातरिश्वा महाविभुः ॥ १११ यूयं मद्द्भक्तिकर्तारो मन्नाम्ना ख्यातिमाप्नुथ । द्वयं दूतं नु प्रत्येकं द्विजान्भजत भो द्विजाः ॥ ११२ भवतां तु भविष्यन्ति गोत्रा ह्ये (ण्ये) कादशैव हि । विवाहकालोऽभिमतश्चत्वरस्नपनादरः ॥ ११३ तत्राकोत्सासिहस्तास्तु रक्ष्याः सुबलिनो नराः । तत्र स्नानं न पश्यन्ति यथाऽन्ये स विधिः शुभः ॥ गोत्रजायाश्च नैवेद्यं तथाकार्यं पृथक्पृथक् । चतस्रः सुभगास्तत्र कुर्युः कुण्डनमादरात् ॥ ११५ एवमेष कुलाचारो भवतां कथितः कियान् । मर्जुनेन च वापीयं भवज्वरविनाशिनी ॥ ११६ अस्यां नान्याधिकारोऽस्ति मर्जुने मर्त्यपुङ्गवाः । षट् स्थानानि च मन्नाम्ना दृष्ट्वा पूतो भवेन्नरः । ) तत्तीर्थं भुवि विख्यातं हनूमान्यत्र जीवितः । तत्र वै स्थापिता विप्रा वायुना ब्रह्मवादिना ॥ ११८ देवत्रयाणामादेशाद्धर्मसंरक्षणाय च । यत्र रुद्रः स्थिरस्त्वाऽऽसीद्दिक्षु सर्वासु मूर्त्तिमान् ॥ ११९ वाडादित्यश्च देवेशः स्थापितो वायुना तदा । कामदः सर्वदः सूर्यो प्रभुरीशः प्रतापवान् ॥ १२० सहस्रकरसंयुक्तः सर्वायुधविभूषितः । रत्नादेवीयुतः श्रीमांस्त्रयाधःरत्नयीमयः ॥ १२१ सूर्यकुण्डं च तत्राऽऽसीद्ब्रह्मकुण्डमतः परम् । रुद्रकुण्डं हरेः कुण्डमेतत्कुण्डचतुष्टयम् ॥ १२२


* एते सप्तर्षय इत्यारभ्य विधेया ब्राह्मणस्य त्वित्यन्तग्रन्थः क. ग. ङ. पुस्तकेषु नास्ति ।
+ इदमर्धं नास्ति घ. पुस्तके । × धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।

[अ० ५९।६० श्लो १२३-१४२।१-२] वायुपुराणम् । २०५

( महास्थानतीर्थवर्णनम् )

( * नव दुर्गाः स्थितास्तत्र क्षेत्रसंरक्षणाय च । वह्निद्वयं त्रिगुण्येशं तथा यज्ञचतुष्टयम् ) ॥ १२३
विवाहव्रतचूडासु करं तेषां प्रदीयते । आचारा विविधाः प्रोक्ता वाडवानां प्रयत्नतः ॥ १२४
तावन्तो द्विगुणाः शूद्रा यावन्तो ब्राह्मणाः स्मृताः । कुशरूपा द्विजाः पूर्वं मूर्तिमन्तस्ततः स्थिताः
मन्त्रैर्मन्त्रविदां श्रेष्ठैः कृता वै शास्त्रकोविदैः । वापीकूपतडागानि देवायतनानि च ॥ १२६
धर्मशालाऽपि बहुला वायुस्थाने महापुरे । रत्नावती स्वर्णमयी गङ्गा चामृतवाहिनी ॥ १२७
कलौ दृषद्वती नाम महापातकनाशिनी । वायुना स्थापितं ह्येतच्छासनं पापनाशनम् ॥ १२८
सुबन्दनं वनं तत्र रम्यं राजर्षिसेवितम् । एतत्स्थानं मया प्रोक्तं सर्वेषां च समासतः ॥ १२९
निरू(रु)पमाश्च ते विप्रा वायुना स्थापिताश्च ये । उपमा चैव देवेशि विधेया ब्राह्मणस्य तु॥ ]
( + सुद्युम्नाश्चाष्टमश्चैव नवमोऽथ बृहस्पतिः । दशमस्तु भरद्वाजो मन्त्रब्राह्मणकारकाः ॥ १३१
एते चैव हि कर्तारो विधर्मध्वंसकारिणः ) । लक्षणं ब्रह्मणश्चैतद्विहितं सर्वशाधिनाम् ॥ १३२
हेतुर्हितेः स्मृतो धातोर्यन्निहन्त्युदितं परैः । अथ वार्थपरिप्रोतेर्हिनोतेर्गतिकर्मणः ॥ १३३
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् । निन्दां तामाहुराचार्या यद्दोषानिन्द्यते वचः ॥ १३४
प्रपूर्वाच्छंसतेर्धातोः प्रशंसा गुणवत्तया । इदं त्विदमिदं नेदमित्यानिश्चित्य संशयः ॥ १३५
इदमेव विधातव्यमितीयं विधिरुच्यते । अन्यस्यान्यस्य चोक्तत्वाद्बुधाः परकृतिः स्मृता ॥ १३६
यो ह्यत्यन्तपरोक्षश्च पुराकल्पः स उच्यते । पुरा विक्रान्तवाचित्वात्पुराकल्पस्य कल्पना ॥ १३७
मन्त्रब्राह्मणकल्पैस्तु निगमैः शुद्धविस्तरैः । अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ॥ १३८
यथा हीदं तथा तद्वै इदं वापि तथैव तत् । इत्येष ह्युपदेशोऽयं दशमो ब्राह्मणस्य तु ॥ १३९
इत्येतद्ब्राह्मणस्याऽदौ विहितं लक्षणं बुधैः । तस्य तद्वृत्तिरुद्दिष्टा व्याख्याऽप्यनुपदं द्विजैः ॥ १४०
मन्त्राणां कल्पनं चैव विधिदृष्टेषु कर्मसु । मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽवनात् ॥ १४१
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ १४२

इति श्रीमहापुराणे वायुप्रोक्ते ऋषिलक्षणं नामोनषष्ट्यध्यायः ॥ ५९ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४८२५


अथ षष्ट्यध्यायः ।

महास्थानतीर्थवर्णनम्

ऋषय ऊचुः--
ऋषयस्तद्वचः श्रुत्वा सूतमाहुः सुदुस्तरम् । कथं वेदाः पुरा व्यस्तास्तन्नो ब्रूहि महामते ॥ १

सूत उवाच--
द्वापरे तु परावृत्ते मनोः स्वायंभुवेऽन्तरे । ब्रह्मा मनुमुवाचेदं तद्गादिष्ये महामते ॥ २


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थः ख. ग. घ. ङ. पुस्तकेषु नास्ति ।

भ्रश्यमानं युगवशादल्पशिष्टं हि दृश्यते । दशसाहस्रभागेन ह्यवशिष्टं कृतादिदम् ॥ ४

२०६श्रीमद्द्वैपायनमुनिप्रणीतम्–[अ० ६० श्लो० ३–२८]<br>( महास्थानतीर्थवर्णनम् )

परिवृत्ते युगे तात स्वल्पवीर्या द्विजातयः । संवृत्ता युगदोषेण सर्वे चैव यथाक्रमम् ॥ ३
भ्रश्यमानं युगवशादल्पशिष्टं हि दृश्यते । दशसाहस्रभागेन ह्यवशिष्टं कृतादिदम् ॥ ४
वीर्यं तेजो बलं वाक्यं सर्वं चैव प्रणश्यति । वेदवेदा हि कार्याः स्युर्माभूद्वेदविनाशनम् ॥ ५
वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति । यज्ञे नष्टे देवनाशस्ततः सर्वं प्रणश्यति ॥ ६
आद्यो वेदचतुष्पादः शतसाहस्रसंज्ञितः । पुनर्दशगुणः कृत्स्नो यज्ञो वै सर्वकामधुक् ॥ ७
एवमुक्तस्तथेत्युक्त्वा मनुर्लोकहिते रतः । वेदमेकं चतुष्पादं चतुर्था व्यभजत्प्रभुः ॥ ८
ब्रह्मणो वचनात्तात लोकानां हितकाम्यया । तदिदं वर्तमानेन युष्माकं वेदकल्पनम् ॥ ९
मन्वन्तरेण वक्ष्यामि व्यतीतानां प्रकल्पनम् । प्रत्यक्षेण परोक्षं वै तन्निबोधत सत्तमाः ॥ १०
अस्मिन्युगे कृतो व्यासः पाराशर्यः परंतपः । द्वैपायन इति ख्यातो विष्णोरंशः प्रकीर्तितः ॥ ११
ब्रह्मणा चोदितः सोऽस्मिन्वेदं व्यस्तुं प्रचक्रमे । अथ शिष्यान्स जग्राह चतुरो वेदकारणात् ॥ १२
जैमिनिं च सुमन्तुं च वैशम्पायनमेव च । पैलं तेषां चतुर्थं तु पञ्चमं लोमहर्षणम् ॥ १३
ऋग्वेदश्रावकं पैलं जग्राह विधिवद्द्विजम् । यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥ १४
जैमिनिं सामवेदार्थश्रावकं सोऽन्वपद्यत । तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ॥ १५
इतिहासपुराणस्य वक्तारं सम्यगेव हि । मां चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ॥ १६
एक आसीद्यजुर्वेदस्तं चतुर्था व्यकल्पत् । चतुर्होत्रमभूतस्मिंस्तेन यज्ञमकल्पयत् ॥ १७
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च । उद्गात्रं सामाभिश्चक्रे ब्रह्मत्वं चाप्यथर्वाभिः ॥
ब्रह्मत्वमकरोद्यज्ञे वेदेनाथर्वणेन तु ॥ १८
ततः स ऋतमुद्धृत्य ऋग्वेदं समकल्पयत् । होत्रकं कल्प्यते तेन यज्ञवाहं जगद्धितम् ॥ १९
सामाभिः सामवेदं च तेनोद्गात्रमरोचयत् । राज्ञस्त्वथर्ववेदेन सर्वकर्माण्यकारयत् ॥ २०
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कुलकर्मभिः । पुराणसंहितां चक्रे पुराणार्थविशारदः ॥ २१
याच्छिष्टं तु यजुर्वेदं तेन यज्ञमथायुजत् । युञ्जानः स यजुर्वेद इति शास्त्रविनिश्चयः ॥ २२
पदानामुद्धृतत्वाच्च यजूंषि विषमाणि वै । स तेनोद्धृतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः ॥
प्रयुज्यते ह्यश्वमेधस्तेन वा युज्यते तु सः ॥ २३
ऋचो गृहीत्वा पैलस्तु व्यभजत्तद्विधा पुनः । द्विः कृत्वा संयुगे चैव शिष्याभ्यामददात्प्रभुः ॥ २४
इन्द्रप्रमतये चैकां द्वितीयां बाष्कलाय च । चतस्रः संहिताः कृत्वा बाष्कलिर्द्विजसत्तमः ॥
शिष्यानध्यापयामास शुश्रूषाभिरतान्हितान् ॥ २५
बोध्यं तु प्रथमां शाखां द्वितीयामभिमांढरम् । पराशरं तृतीयां तु याज्ञवल्क्यमथापराम् ॥ २६
इन्द्रप्रमतिरेकां तु संहितां द्विजसत्तमः । अध्यापयन्महाभागं मार्कण्डेयं यशस्विनम् ॥ २७
सत्यश्रवसमग्यं तु पुत्रं स तु महायशाः । सत्याश्रवाः सत्यहितं पुनरध्यापयद्विजः ॥ २८

[अ० ६० श्लो २९-४७] वायुपुराणम् । २०७ ( महास्थानतीर्थवर्णनम् ) सोऽपि सत्यतरं पुत्रं ु नरध्यापयद्विभुः । सत्यश्रियं महात्मानं सत्यधर्मपरायणम् ॥ २९ अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः । सत्यश्रियस्तु विद्वांसः शास्त्रग्रहणतत्पराः ॥ ३० शाकल्यः प्रथमस्तेषां तस्मादन्यो रथान्तरः । बाष्कालिश्च भरद्वाज इति शाखाप्रवर्तकाः ॥ ३१ देवमित्रस्तु शाकल्यो ज्ञानाहंकारगर्वितः । जनकस्य स यज्ञे वै विनाशमगमद्द्विजः ॥ ३२

शांशपायन उवाच-- कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः । जनकस्याश्वमेधेन कथं वादो बभूव ह ॥ ३३ किमर्थं चाभवद्वादः केन सार्धमथापि वा । सर्वमेतद्यथावृत्तमाचक्ष्व विदितं तव ॥ ऋषीणां तु वचः श्रुत्वा तदुत्तरमथाब्रवीत् ॥ ३४

सूत उवाच-- जनकस्याश्वमेधे तु महानासीत्समागमः । ऋषीणां तु सहस्राणि तत्राऽऽजग्मुरनेकंशः ॥ राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षव ॥ ३५ आगतान्ब्राह्मणान्दृष्ट्वा जिज्ञासाऽस्याभवत्ततः । को न्वेषां ब्राह्मणः श्रेष्ठः कथं मे निश्चयो भवेत् ॥ इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः ॥ ३६ गवां सहस्रमादाय सुवर्णमधिकं ततः । ग्रामान्रत्नानि दासांश्च मुनीन्प्राह नराधिपः ॥ ३७ सर्वांनहं प्रसन्नोऽस्मि शिरसा श्रेष्ठभागिनः ॥ ३८ यदेदाहृतं वित्तं यो वः श्रेष्ठतमो भवेत् । तस्मै तदुपनीतं हि विद्यावित्तं द्विजोत्तमाः ॥ जनकस्य वचः श्रुत्वा मुनयस्ते श्रुतिक्षमाः । दृष्ट्वा धनं महासारं धनवृद्ध्या जिघृक्षवः ॥ ३९ आह्वयांचकुरन्योन्यं वेदज्ञानमदोल्वणाः ॥ मनसा गतचित्तास्ते ममेदं धनमित्युत । ममैवैतन्नचेतन्यन्यो ब्रूहि किं वा विकल्प्यते ॥ इत्येव धनदोषेण वादांश्चकुरनेकंशः ॥ ४० तथाऽन्यस्तत्र वै विद्वान्ब्रह्मवाहसुतः कविः । याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः ॥ ४१ ब्रह्मणोऽङ्गात्समुत्पन्नो वाक्यं प्रोवाच सुस्वरम् । शिष्यं ब्रह्मविदां श्रेष्ठो धनमेतद्गृहाण भोः ॥ ४२ नयस्व च गृहंत्वत्स ममैतन्नात्र संशयः । सर्ववेदेष्वहं वक्ता नान्यः कश्चित्तु मत्समः ॥ यो वा न मीयते विप्रः स मे ह्वयतु मा चिरम् ॥ ४३ ततो ब्रह्मार्णवः क्षुब्धः समुद्र इव संप्लवे । तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव ॥ ४४ क्रोधं मा कार्षुविद्वांसो भवन्तः सत्यवादिनः । वदामहे यथायुक्तं जिज्ञासन्तः परस्परम् ॥ ४५ ततोऽभ्युपागमंस्तेषां वादा जग्मुरनेकंशः । सहस्रधा शुभैरर्थैः सूक्ष्मदर्शनसंभवैः ॥ ४६ लोके वेदे तथाऽध्यात्म विद्यास्थानैरंलकृताः । शापोत्तमगुणैर्युक्ता नृपोधपरिर्वरजनाः ॥ वादाः समभवंस्तत्र धनेहेतोर्महात्मनाम् ॥ ४७

२०८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ६० श्लो० ४८-६९] ( महास्थानतीर्थवर्णनम् )

ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः । सर्वे ते मुनवस्तेन याज्ञवल्क्येन धीमता ॥ ऐकैकशतस्तः पृष्टा नैवोत्तरमथाब्रुवन् ॥ ४८ तान्विजित्य मुनीन्सर्वान्ब्रह्मराशिर्महाद्युतिः । शाकल्यामिति होवाच वादकर्तारमञ्जसा ॥ ४९ शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्ठसे । पूर्णस्त्वं जडमानेन वाताध्मातो यथा दृतिः ॥ ५० एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः । प्रोवाच याज्ञवल्क्यं तं परुषं मुनिसंनिधौ ॥ ५१ त्वमस्मांस्तृणवत्कृत्वा तथैवेमान्द्विजोत्तमान् । विद्याधनं महासारं स्वयंग्राहं जिघृक्षसि ॥ ५२ शाकल्येनैवमुक्तः स याज्ञवल्क्यः समब्रवीत् । बलिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम् ॥ ५३ कामश्चार्थेन संबद्धस्तेनार्थं कामयामहे । कामप्रश्नेधना विप्राः कामप्रश्नान्वदामहे ॥ ५४ पणश्चैषोऽस्य राजर्षेस्तस्मान्नीतं धनं मया । एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः ॥ याज्ञवल्क्यमथोवाच कामप्रश्नार्थवद्वचः ॥ ५५ ब्रूहीदानीं मयोद्दिष्टान्कामप्रश्नान्यथार्थतः । ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् ॥ ५६ साग्रं प्रश्नसहस्रं तु शाकल्यस्तमचूचुदत् । याज्ञवल्क्योऽब्रवीत्सर्वानृषीणां शृण्वतां तदा ॥ ५७ शाकल्ये चापि निर्वीदे याज्ञवल्क्यस्तमब्रवीत् । प्रश्नमेकं ममापि त्वं वद शाकल्य कामिकम् ॥ शापः पणोऽस्य वादस्य अब्रुवन्मृत्युमाव्रजेत् ॥ ५८ अथो सन्नोदितं प्रश्नं याज्ञवल्क्येन धीमता । शाकल्यस्तमविज्ञाय सद्यो मृत्युमवामुयात् ॥ ५९ एवं स्मृतः स शाकल्यः प्रश्नव्याख्यानपीडितः । एवं वादश्च सुमहानासीत्तेषां धनार्थिनाम् ॥ ऋषीणां मुनिभिः सार्धं याज्ञवल्क्यस्य चैव हि ॥ ६० सर्वैः पृष्टांस्तु संप्रश्नाञ्शतशोऽथ सहस्रशः । व्याख्यायं वै मुने तेषां प्रश्नसारं महागतिः ॥ ६१ याज्ञवल्क्यो धनं गृह्य यशो विख्याप्य चाऽऽत्मनः । जगाम वै गृहं स्वस्थः शिष्यैः परिवृतो वशी देवमित्रस्तु शाकल्यो महात्मा द्विजसत्तमः । चकार संहिताः पञ्च बुद्धिमान्पदवित्तमः ॥ ६३ तच्छिष्या अभवन्पञ्च मुद्गलो गोलकस्तथा । खलीयश्च तथा मत्स्यः शैशरेयस्तु पञ्चमः ॥ ६४ प्रोवाच संहितास्तिस्रः शाकपूर्णरथीतरः । निरुक्तं च पुनश्चक्रे चतुर्थं द्विजसत्तमः ॥ ६५ तस्य शिष्यास्तु चत्वारः केतवो दालाकिस्तथा । * धर्मशर्मा देवशर्मा सर्वे व्रतधरा द्विजाः ॥ ६६ शाकल्ये तु मृते सर्वे ब्रह्मघ्नास्ते बभूविरे । तदा चिन्तां परां प्राप्य गतास्ते ब्रह्मणोऽन्तिकम् ॥ ६७ ताञ्ज्ञात्वा चेतसा ब्रह्मा प्रेषितः पवने पुरे । तत्र गच्छत यूयं वः सद्यः पापं प्रणश्यति ॥ ६८ द्वादशार्कं नमस्कृत्य तथा वै वालुकेश्वरम् । एकादश तथा रुद्रान्वायुपुत्रं विशेषतः ॥ कुण्डे चतुष्टये स्नात्वा ब्रह्महत्यां तरिष्यथ ॥ ६९


* धनुश्चिह्नान्तर्गतग्रन्थो ग. ङ. पुस्तकेयोर्नास्ति ।

[अ० ६०-६१ श्लो० ७०-७५।१-११] वायुपुराणम् । २०९

( प्रजापतिवंशानुकीर्तनम् )

सर्वे शीघ्रतरा भूत्वा तत्पुरं समुपागताः । स्नानं कृतं विधानेन देवानां दर्शनं कृतम् ॥ ७०
उत्तरेश्वरं नमस्कृत्य वाडवानां प्रसादतः । सर्वे पापविनिर्मुक्ता गतास्ते सूर्यमण्डलम् ॥ ७१
तदा प्रभृति तत्तीर्थं जातं पातकनाशनम् । वायोः पुरं पवित्रं च वायुना निर्मितं पुरा ॥ ७२
अञ्जनीगर्भसंभूतो हनुमान्पवनात्मजः । यदा जातो महादेव हनुमान्सत्यविक्रमः ॥
तदैव निर्मितं तीर्थं वायुना ब्रह्मयोनिना ॥ ७३
उर्व्यां जातास्तु ये शूद्रा ब्राह्मणानां निवेदिताः । वृत्यथं ब्रह्मयज्ञार्थं करस्तेषु कृतो महान ॥ ७४
अनेन विधिना जातं विप्राणां शासनं महत् । गोघ्नो वापि कृतघ्नो वा सुरापी गुंरुतल्पगः
वाडादित्यं नमस्कृत्य सर्वपापैः प्रमुच्यते ॥ ७५
इति श्रीमद्भापुराणे वायुप्रोक्ते महास्थानतीर्थवेदशाखाप्रणयवर्णनं नाम षष्ठ्याऽध्यायः ॥
आदितः श्लोकानां समष्टयङ्काः-४९००


अथैकषष्टयऽध्यायः ।

प्रजापतिवंशानुकीर्तनम् ।

ऋषय ऊचुः--
भारद्वाजो याज्ञवल्क्यो गालाकिः सालाकिस्तथा ] धीमाञ्शतवलाकश्र्च नैगमश्च द्विजोत्तमः ॥ १
बाष्कलिश्च भरद्वाजस्तिस्रः प्रोवाच संहिताः । रथींतरो निरुक्तं च पुनश्चक्रे चतुर्थकम् ॥ २
त्रयस्तस्याभवञ्छिष्या महात्मानो गुणान्विताः । श्रीमान्बन्दायनीयश्च पन्नगारिश्च बुद्धिमान् ॥
तृतीयश्चाऽऽर्यवस्ते च तपसा संशितव्रताः ॥ ३
वीतरागा * महातेजाः संहिताज्ञानपारगाः । इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥ ४
वैशम्पायनगोत्रोऽसौ यजुर्वेदं व्यकल्पयत् । षडशीतिस्तु येनोक्ताः संहिता यजुषां शुभाः ॥ ५
शिष्येभ्यः प्रददौ ताश्च जगृहुस्ते विधानतः । एकस्तत्र परित्यक्तो याज्ञवल्क्यो महातपाः ॥
षडशीतिश्च तस्यापि संहितानां विकल्पकाः । ६
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्तिताः । त्रिधा भेदास्तु ते प्रोक्ता भेदेऽस्मिन्नवमे शुभे ॥ ७
उदीच्या मध्यदेशाश्च प्राच्याश्चैव पृथग्विधाः । श्यामायर्निरुदीच्यानां प्रधानः संबभूव ह ॥ ८
मध्यदेशप्रतिष्ठानामारुणिः प्रथमः स्मृतः । आलम्बिरादिः प्राच्यानां त्रयोदश्यादयस्तु ते ॥ ९
इत्येते चरकाः प्रोक्ताः संहितावादिनो द्विजाः । ऋषयस्तद्वचः श्रुत्वा सूतं जिज्ञासवोऽब्रुवन् ॥ १०
चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः । किं चीर्णं कस्य हेतोश्च चरकत्वं च भेजिरे ॥
इत्युक्तः प्राह तेषां स चरकत्वमभूद्यथा ॥ ११


* आर्षत्वादेकवचनम् ।

२७

२१० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६१ श्लो० १२-३३] ( प्रजापतिवंशानुकीर्तनम् )

सूत उवाच-- कार्यमासीदृषीणां च किंचिद्ब्राह्मणसत्तमाः । येरुष्टं मेस्तदा त्विति मन्त्रितम् ॥ १२ यो नोऽत्र सप्तरात्रेण नाऽगच्छेद्द्विजसत्तमाः । स कुर्याद्ब्रह्मवध्यां वै समयो नः प्रकीर्तितः ॥ १३ ततस्ते सगणाः सर्वे वैशम्पायनवज्जिताः । प्रययुः सप्तरात्रेण यत्र संधिः कृतोऽभवत् ॥ १४ ब्राह्मणानां तु वचनाद्ब्रह्मवध्यां चकार सः । शिष्यानथ समानीय स वैशम्पायनोऽब्रवीत् ॥ १५ ब्रह्मवध्यां चरध्वं वै मत्कृते द्विजसत्तमाः । सर्वे यूयं समागम्य ब्रूत मैतद्धितं वचः ॥ १६

याज्ञवल्क्य उवाच-- अहमेव चरिष्यामि तिष्ठन्तु मुनयास्त्विमे । बलं चोत्थापयिष्यामि तपसा स्वेन भावितः ॥ १७ एवमुक्तस्ततः क्रुद्धो याज्ञवल्क्यमथाब्रवीत् । उवाच यत्त्वयाऽधीतं सर्वं प्रत्यर्पयस्व मे ॥ १८ एवमुक्तः स रूपाणि यजूंषि प्रददौ गुरोः । रुधिरेण तथाक्तानि छर्दित्वा ब्रह्मवित्तमः ॥ १९ ततः स ध्यानमास्थाय सूर्यमाराधयद्विजाः । सूर्यब्रह्म यदुच्छिन्नं खं गत्वा प्रतितिष्ठति ॥ २० ततो यानि गतान्यूर्ध्वं यजूंष्यादित्यमण्डलम् । तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये ॥ अश्वरूपाय मार्तण्डो याज्ञवल्क्याय धीमते ॥ २१ यजूंष्यधीयन्ते यानि ब्राह्मणा येन केन च । अश्वरूपाय दत्तानि ततस्ते वाजिनोऽभवन् ॥ २२ ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः । वैशम्पायनशिष्यास्ते चरकाः समुदाहृताः ॥ २३ इत्येते चरकाः प्रोक्ता वाजिनस्तान्निबोधत । याज्ञवल्क्यस्य शिष्यास्ते कण्ववैधेयशालिनः ॥ २४ मध्यन्दिनश्च शापेयी विदिग्धश्चाप्य उद्दलः । ताम्रायणश्च वात्स्यश्च तथा गालवशौषिरी ॥ आटवी च तथा पर्णी वीरणी सपरायणः ॥ २५ इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः । शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥ २६ पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः । सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्प्रभुः ॥

  • सुकर्माणं सुतं सुत्वा पुत्रमध्यापयत्प्रभुः । २७ स सहस्रमधीत्याऽऽशु सुकर्माऽप्यथ संहिताः । प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ॥ २८ अनध्यायेष्वधीयानांस्ताञ्घान शतक्रतुः । प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारणात् ॥ २९ क्रुद्धं दृष्ट्वा ततः शक्रो वरमस्मै ददौ पुनः । भाविनौ ते महावीर्यौ शिष्यावनलवर्चसौ ॥ ३० शधीयानौ महाप्राज्ञौ सहस्रं संहितावभौ । एतौ सुरौ महाभागौ मा क्रुध्य द्विजसत्तम ॥ ३१ इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम् । शान्तक्रोधं द्विजं दृष्ट्वा तत्रैवान्तरधीयत ॥ ३२ तस्य शिष्यो भवद्धीमान्पौष्यञ्जि द्विजसत्तमः । हिरण्यनाभः कौशल्यो द्वितीयोऽभून्नराधिपः ॥ ३३ .

  • इदमर्धं नास्ति ख. घ. पुस्तकयोः ।

[ अ० ६१ - श्लो० ३४-५५ ]
वायुपुराणम् ।
३११
( प्रजापतिवंशानुकीर्तनम् )

अध्यापयत्तु पौष्यञ्जी सहस्रार्थं तु संहिताः । ते नाम्नोदीच्यसामान्याः शिष्याः पौष्यञ्जिनः शुभाः
शतानि पञ्च कौशिल्यः संहितानां च वीर्यवान् । शिष्या हिरण्यनाभस्य स्मृतास्ते प्राच्यसामगाः ॥
लोकाक्षी कुथुमिश्चैव कुशीती लाङ्गलिस्तथा । पौष्यञ्जिशिष्याश्चत्वारस्तेषां भेदान्निबोधत ॥ ३६

राणायनीयः सहितण्डितपुत्रस्तस्मादन्यो मूलचारी सुविद्वान् ।
सकैतिपुत्रः सहसात्यपुत्र एतान्भेदान्वित्त लोकाक्षिणस्तु ॥ ३७

त्रयस्तु कुथुमेः पुत्रा औरसो रसपासरः । भागवित्तिक्ष तेजस्वी त्रिविधाः कौथुमाः स्मृताः ॥ ३८
शौरिद्युः शृङ्गिपुत्रश्च द्वावेतौ चरितव्रतौ । राणायनीयः सौमित्रिः सामवेदविशारदौ ॥ ३९
प्रोवाच संहितास्तिस्रः शृङ्गिपुत्रो महातपाः । चैलः प्राचीनयोगश्च सुरालश्च द्विजोत्तमाः ॥ ४०
प्रोवाच संहिताः षट् तु पाराशर्य्यस्तु कौथुमः । आसुरायणवैशाख्यौ वेदवृद्धपरायणौ ॥ ४१
प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः । कौथुमस्य तु भेदास्ते पाराशर्यस्य षट् स्मृताः ॥ ४२
लाङ्गलिः शालिहोत्रश्च षट्षट् प्रोवाच संहिताः ॥
भालुकिः कामहानिश्च जैमिनिर्लोमगायिनिः । कण्डुश्च कीहलश्चैव षडेते लाङ्गलाः स्मृताः ॥ ४३
एते लाङ्गलिनः शिष्याः संहिता यैः प्रसाधिताः ॥
ततो हिरण्यनाभस्य कृतशिष्यो नृपात्मजः । सोऽकरोच्च चतुर्विंशत्संहिता द्विपदां वरः ॥ ४४
प्रोवाच चैव शिष्येभ्यो येभ्यस्तांश्च निबोधत ॥
राडश्च महवीर्यश्च पञ्चमो वाहनस्तथा । तालकः पाण्डकश्चैव कालिको राजिकस्तथा ॥ ४५
गौतमश्चाजबस्तश्च सोमराजाऽपतत्ततः ॥
पृष्टघ्नः परिकृष्टश्च उलूखलक एव च । यवीयसश्च वैशालो अङ्गुलीयश्च कौशिकः ॥ ४६
सालिमञ्जरिसत्यश्च कापीयः कानिकश्च यः । पराशरश्च धर्मात्मा इति क्रान्तास्तु सामगाः ॥ ४७
सामगानां तु सर्वेषां श्रेष्ठौ द्वौ तु प्रकीर्तितौ । पौष्यञ्जिश्च कृतिश्चैव संहितानां विकल्पकौ ॥ ४८
अथर्वाणं द्विधा कृत्वा सुमन्तुरददान्द्विजाः । कबन्धाय गुरुः कृत्स्नं स च विद्याद्यथाक्रमम् ॥ ४९
कबन्धस्तु द्विधा कृत्वा पथ्यायैकां पुनर्ददौ । द्वितीयं वेदस्पर्शाय स चतुर्धाऽकरोत्पुनः ॥ ५०
मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च । शौष्कायनिश्च धर्मज्ञश्चतुर्थस्तपनः स्मृतः ॥ ५१
वेदस्पर्शस्य चत्वारः शिष्यास्त्वेते दृढव्रताः ॥
पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम् । जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ॥ ५२
शौनकस्तु द्विधा कृत्वा ददावेकं तु बभ्रवे । द्वितीयां संहितां धीमान्सैन्धवायनासञ्जिते ॥ ५३
सैन्धवो मुञ्जकेशाय भिन्ना सा च द्विधा पुनः । नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ॥ ५४
चतुर्थोऽङ्गिरसः कल्पः शान्तिकल्पश्च पञ्चमः ॥
श्रेष्ठास्त्वथर्वणो ह्येते संहितानां विकल्पनाः । षट्शः कृत्वा मयाऽप्युक्तं पुराणमृषिसत्तमाः ॥ ५५

२१२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६१श्लो०५६-७९] ( प्रजापतिवंशानुकीर्तनम् )

आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः । भारद्वाजोऽग्निवर्चाश्च वसिष्ठो मित्रयुश्च यः ॥ सावार्णिः सौमदत्तिस्तु सुशर्मा शांशपायनः ॥ ५६ एते शिष्या मम ब्रह्मन्पुराणेषु दृढव्रताः । त्रिभिस्तिस्रः कृतास्तिस्रः संहिताः पुनरेव हि ॥ ५७ काश्यपः संहिताकर्ता सावर्णिः शांशपायनः । सामिका च चतुर्थी स्यात्सा चैषा पूर्वसंहिता ॥ ५८ सर्वास्ता हि चतुष्पादाः सर्वार्थैकार्थवाचिकाः । पाठान्तरे पृथग्भूता वेदशाखा यथा तथा ॥ चतुःसाहस्रिकाः सर्वाः शांशपायनिकामृते ॥ ५९ लोमहर्षणिका मूलास्ततः काश्यपिकाः पराः । सावर्णिकास्तृतीयास्ता यजूर्वाक्यार्थपण्डिताः ॥ ६० शांशपायनिकाश्चान्या नोदनार्थाविभूषिताः । सहस्राणि ऋचामष्टौ षट् शतानि तथैव च ॥ ६१ एताः पञ्चदशाम्याश्च दशान्या दशभिस्तथा । वालखिल्याः सहैषाः ससावर्णाः प्रकीर्तिताः ॥ ६२ अष्टौ साम सहस्राणि सामानि च चतुर्दश । आरण्यकं सहोमं च एतद्गायन्ति सामगाः ॥ ६३ द्वादशैव सहस्राणि छन्द आध्वर्यवं स्मृतम् । यजुषां ब्राह्मणानां च तथा व्यासो व्यकल्पयत् ॥ ६४ सग्राम्यारण्यकं तत्स्यात्समन्त्रकरणं तथा । अतः परं कथानां तु पूर्वा इति विशेषणम् ॥ ६५ ग्राम्यारण्यं समन्त्रं च ऋग्ब्राह्मणयजुः स्मृतम् । तथा हारिद्रवीयाणां खिलान्युपखिलानि च ॥ तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम् ॥ ६६ द्वे सहस्रे शतेन्यूने वेदे वाजसनेयके । ऋग्गणः परिसंख्यातो ब्राह्मणं तु चतुर्गुणम् ॥ ६७ अष्टौ सहस्राणि शतानि चाष्टावशीतिरन्यान्यधिकश्च पादः ॥ एतत्प्रमाणं यजुषामृचां च सशुकियं साखिलयाज्ञवल्क्यम् ॥ ६८ तथा चरणविद्याणां प्रमाणं संहितां शृणु । षत्साहस्रमृचामुक्तमृचः षड्विंशतिः पुनः ॥ एतावदधिकं तेषां यजुः कामं विवक्ष्यति ॥ ६९ एकादश सहस्राणि दश चान्या दशोत्तराः । ऋचां दश सहस्राणि अशीतिस्त्रिशतानि च ॥ ७० सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः । एतावद्भृगुविस्तारमन्यच्चाथर्विकं बहु ॥ ७१ ऋचामथर्वणां पञ्च सहस्राणि विनिश्चयः । सहस्रमन्यद्विज्ञेयमृषिभिर्विंशतिं विना ॥ ७२ एतदङ्गिरसा प्रोक्तं तेषामारण्यकं पुनः । इति संख्या प्रसंख्याता शाखाभेदास्तथैव च ॥ ७३ कर्तारश्चैव शाखानां भेदे हेतुस्तथैव च । सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाः स्मृताः ॥ ७४ प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः । अनित्यभावाद्वेदानां मन्त्रोत्पत्तिः पुनः पुनः ॥ ७५ मन्वन्तराणां क्रियते सुराणां नामनिश्चयः । द्वापरेषु पुनर्भेदः श्रुतीनां परिकीर्तितः ॥ ७६ एवं वेदं तदा न्यस्य भगवानृषिसत्तमः । शिष्येभ्यश्च पुनर्ह्यत्वा तपस्तप्तुं गतो वनम् ॥ तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः ॥ ७७ अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्यास्त्वेताश्चतुर्दश ॥ ७८ आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः । अर्थशास्त्रं चतुर्थं तु विद्यास्त्वष्टादशैव तु ॥ ७९

[अ०६१श्लो०८०-१०३] वायुपुराणम् । २१३ (प्रजापतिवंशानुकीर्तनम )

ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः । राजर्षयः पुनस्तेभ्य ऋषिकल्पतयस्त्रयः ॥ तेभ्य ऋषिकल्पतयो मुनिभिः संशितव्रतैः ॥ ८० कश्यपेषु तथा भृग्वङ्गिरोऽत्रिषु । पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः ॥ यस्मादृषन्ति ब्रह्माणं तेन ब्रह्मर्षयः स्मृताः ॥ ८१ धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च । प्रत्यूषस्य प्रभासस्य कश्यपस्य तथा पुनः ॥ ८२ देवर्षयः सुतास्तेषां नामतस्तान्निबोधत । देवर्षी धर्मपुत्रौ तु नरनारायणावुभौ ॥ ८३ वालखिल्यः क्रतोः पुत्राः कर्दमः पुलहस्य तु । कुबेरश्चैव पौलस्त्यः प्रत्यूषस्याचलः स्मृतः ॥ ८४ पर्वतो नारदश्चैव कश्यपस्यात्मजावुभौ । ऋषन्ति देवान्यस्मात्ते तस्माद्देवर्षयः स्मृताः ॥ ८५ मानवे वैष्ये वंशे ऐडवंशे च ये नृपाः । ऐडा ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते ॥ ८६ ऋषन्ति रञ्जनाद्यस्मात्प्रजा राजर्षयस्ततः । ब्रह्मलोकप्रतिष्ठास्तु स्मृता ब्रह्मर्षयो मताः ॥ ८७ देवलोकप्रतिष्ठाश्च ज्ञेया देवर्षयः शुभाः । इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः ॥ ८८ अभिजात्या च तपसा मन्त्रव्याहरणैस्तथा । एवं ब्रह्मर्षयः प्रोक्ता दिव्या राजर्षयस्तु ये ॥ ८९ वेवर्षयस्तथाऽन्ये च तेषां वक्ष्यामि लक्षणम् । भूतभव्यभवज्ज्ञानं सत्याभिव्याहृतं तथा ॥ ९० संबुद्धास्तु स्वयं ये तु संबद्धा ये च वै स्वयम् । तपसेह प्रसिद्धा ये गर्भे यैश्च प्रनो[णो]दितम् ॥ ९१ मन्त्रव्याहारिणो ये च ऐश्वर्यात्सप्तगाश्च ये । इत्येत ऋषिभिर्युक्ता देवद्विजनृपास्तु ये ॥ ९२ एतान्भावानधीयाना ये चैत ऋषयो मताः । सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ॥ ९३ दीर्घायुषो मन्त्रकृत ईश्वरा दिव्यचक्षुषः । बुद्धाः प्रत्यक्षधर्माणो गोत्रप्रावर्तकाश्च ये ॥ ९४ षट्कर्माभिरता नित्यं शालिनो गृहमेधिनः । तुल्यैर्व्यवहरन्ति स्म अदृष्टैः कर्महेतुभिः ॥ ९५ अग्राम्यैर्वर्तयन्ति स्म रसैश्चैव स्वयंकृतैः । कुटुम्बिन ऋद्धिमन्तो बाह्यान्तरनिवासिनः ॥ ९६ कृतादिषु युगारूयेषु सर्वेष्वेव पुनः पुनः । वर्णाश्रमव्यवस्थानं क्रियन्ते प्रथमं तु वै ॥ ९७ प्राप्ते त्रेतायुगमुखे पुनः सप्तर्षयास्विह । प्रवर्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः ॥ तेषामेवान्वये वीरा उत्पद्यन्ते पुनः पुनः ॥ ९८ जायमाने पिता पुत्रे पुत्रः पितरि चैव हि । एवं समेत्याविच्छेदाद्वर्तयन्त्यायुगक्षयात् ॥ अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम् ॥ ९९ अर्यम्णो दक्षिणा ये तु पितृयाणं समाश्रिताः । दाराग्निहोत्रिणस्ते वै ये प्रजाहेतवः स्मृताः ॥ १०० गृहमेधिनां च संख्येयाः श्मशानान्याश्रयन्ति ते । अष्टाशीतिसहस्राणि निहिता उत्तरायणे ॥ १०१ ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्ध्वरेतसः । मन्त्रब्राह्मणकर्तारो जायन्ते ह युगक्षये ॥ १०२ एवमावर्तमानस्ते द्वापरेषु पुनः पुनः । कल्पनां भाष्यविद्यानां नानाशास्त्रकृतः क्षये ॥

  • क्रियते तैर्विवरणं त्रेतादौ संयुगे प्रभुः ॥ १०३

+ इदमर्धं नास्ति क. घ. पुस्तकयो ।

२१४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ६१।श्लो० १०४-१२४] (प्रजापतिवंशानुकीर्तनम्)

भविष्ये द्वापरे चैव द्रौणिर्द्वैपायनः पुनः। वेदव्यासो ह्यतीतेऽस्मिन्भविता सुमहातपाः॥ १०४ भविष्यन्ति भविष्येषु शाखाप्रणयनानि तु। तस्मै तद्ब्रह्मणा ब्रह्म तपसा व्याप्तमव्ययम्॥ १०५ तपसा कर्म संप्राप्तं कर्मणा हि ततो यशः। यशसा प्राप्य सत्यं हि सत्येनाप्तो हि चाव्ययः॥ १०६ अव्ययादमृतं शुक्रममृतात्सर्वमेव हि। ध्रुवमेकाक्षरमिदं स्वात्मन्येव व्यवस्थितम्॥ बृहत्त्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते॥ १०७ प्रणवावास्थितं भूयो भूर्भुवः स्वरिति स्मृतम्। ऋग्यजुः सामाथर्वाणं यत्तस्मै ब्रह्मणे नमः॥ १०८

  • जगतः प्रणयोत्पत्तौ यत्तत्कारणसंज्ञितम्। महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः॥ १०९ अगाधपारमक्षय्यं जगत्संमोहनालयम्। सप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्॥ ११० सांख्यज्ञानवतां निष्ठा गतिः संगद्मात्मनः। यत्तदव्यक्तममृतं प्रकृतिर्ब्रह्म शाश्वतम्॥ १११ प्रधानमात्मयोनिश्च गुह्यं सत्त्वं च शब्द्यते। अविभागस्तथा शुक्रमक्षरं बहुवाचकम्॥ परमब्रह्मणे तस्मै नित्यमेव नमो नमः॥ ११२ कृते पुनः क्रिया नास्ति कृत एवाकृताक्रिया। सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम्॥ ११३ श्रोतव्यं वै श्रुतं वाऽपि तथैवासाधुसाधुताम्। ज्ञातव्यं चाथ मन्तव्यं स्पृष्टव्यं भोज्यमेव च॥ द्रष्टव्यं चाथ श्रोतव्यं ज्ञातव्यं वाऽथ किंचन॥ ११४ दर्शितं यदनेनैव ज्ञानं तद्वै सुरर्षिणाम्। यद्वै दर्शितवानेष कस्तदन्वेष्टुमर्हति॥ सर्वाणि सर्वान्सर्वांश्च भगवानैव सोऽब्रवीत्॥ ११५ यदा यत्क्रियते येन तदा तत्सोऽभिमन्यते। * येनेदं क्रियते पूर्वं तदन्येन विभावितम्॥ ११६ यदा तु क्रियते किंचित्केन चिद्वाङ्‌मयं क्वचित्। तेनैव तत्कृतं पूर्वं कर्तॄणां प्रतिभाति वै॥ ११७ विरक्तं चातिरिक्तं च ज्ञानाज्ञाने प्रियाप्रिये। धर्माधर्मौ सुखं दुःखं मृत्युश्चामृतमेव च॥ ऊर्ध्वं तिर्यगधोभागस्तस्यैवादृष्टकारणम्॥ ११८ स्वायंभुवोऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः। प्रत्येकविधं भवति त्रेतास्विह पुनः पुनः॥ ११९ व्यस्यते ह्येकविद्यं तद्द्वापरेषु पुनः पुनः। ब्रह्मा चैतदुवाचाऽऽदौ तस्मिन्वैवस्वतेऽन्तरे॥ १२० आवर्तमाना ऋषयो युगाख्यासु पुनः पुनः। कुर्वन्ति संहिता ह्येते जायमानाः परस्परम्॥ १२१ अष्टाशीतिसहस्त्राणि श्रुतर्षीणां स्मृतानि वै। ता एव संहिता ह्येत आवर्तन्ते पुनः पुनः॥ १२२ श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे। युगे युगे तु ताः शाखा व्यस्यन्ते तैः पुनः वुनः॥१२३ द्वापरेष्विह सर्वेषु संहिताश्च श्रुतर्षिभिः। तेषां गोत्रेष्विमाः शाखा भवन्तीह पुनः पुनः॥ ताः शाखास्तत्र कर्तारो भवन्तीह युगक्षयात्॥ १२४

  • नास्त्ययं श्लोकः ख. घ. पुस्तकयोः। * इदमर्धस्थाने भयेदं क्रियते पूर्वं नैतदन्येन भाषित- मिति ख. घ. ङ. पुस्तकेषु॥

[अ० ६१ श्लो० १२५-१४९] वायुराणम् । ११५

( प्रजापतिवंशानुकीर्तनम् )

एवमेव तु विज्ञेयं व्यतीतानागतेष्विह । मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ॥ १२५ अतीतेषु अतीतानि वर्तन्ते सांप्रतेषु च । भविष्याणि च यानि स्युर्वर्ण्यन्तेऽनागतेष्वपि ॥ १२६ पूर्वेण पश्चिमं ज्ञेयं वर्तमानेन चोभयम् । एतेन क्रमयोगेन(ण)मन्वन्तरविनिश्चयः ॥ १२७ एवं देवाश्च पितर ऋषयो मनवश्च ये । मन्त्रैः सहोर्ध्वं गच्छन्ति ह्यावर्तन्ते च तैः सह ॥ १२८ जनलोकात्सुराः सर्वे पद्मकल्पात्पुनः पुनः । पर्याप्तिकाले संप्राप्ते संभूता नैव[ ध ]नस्य तु ॥ १२९ अवश्यंभाविनाऽर्थेन संबध्यन्ते तदा तु ते । ततस्ते दोषवज्जन्म पश्यन्ते रागपूर्वकम् ॥ १३० निवर्तते तदा वृत्तिस्तेषामादोषदर्शनात् । एवं देवयुगानीह दश कृत्वा विवर्तते ॥ १३१ जनलोकात्तपोलोकं गच्छन्तीहानिवर्तनम् । एवं देवयुगानीह व्यतीतानि सहस्रशः ॥ निधनं ब्रह्मलोके वै गतानि मुनिभिः सह ॥ १३२ न शक्यमानुपूर्वेण तेषां वक्तुं सविस्तरम् । अनादित्वाच्च कालस्य असंख्यानाच्च सर्वशः ॥ १३३ मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह । पितृभिर्मुनिभिर्देवैः सार्धं सप्तर्षिभिश्च वै ॥ कालेन प्रतिसृष्टानां युगानां च निवर्तनम् ॥ १३४ एतेन क्रमयोगेन( ण )कल्पमन्वन्तराणि तु । सप्तजानि व्यतीतानि शतशोऽथ सहस्रशः ॥ १३५ मन्वन्तरान्ते संहारः संहारान्ते च संभवः । देवतानामृषीणां च मनोः पितृगणस्य च ॥ १३६ न शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि । विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः ॥ मन्वन्तरस्य संख्या तु मानुषेण निबोधत ॥ १३७ देवतानामृषीणां च संख्यानार्थविशारदैः । त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विजैः सप्तषष्टिश्चान्यानि नियुतानि च संख्यया । विंशतिश्च सहस्राणि कालोऽयं सांधिकाद्दिना ॥ मन्वन्तरस्य संख्यैषा मानुषेण प्रकीर्तिता । वत्सरेणैव दिव्येन प्रवक्ष्याम्यन्तरं मनोः ॥ १४० अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् । द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ १४१ चतुर्दशगुणो ह्येष काल आभूतसंप्लवः । पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ॥ १४२ तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः । ब्राह्मणमग्रतः कृत्वा सह देवर्षिदानवैः ॥ प्रविशन्ति सुरश्रेष्ठं देवदेवं महेश्वरम् ॥ १४३ स स्रष्टा सर्वभूतानि कल्पादिषु पुनः पुनः । इत्येष स्थितिकालो वै मनोर्देवर्षिभिः सह ॥ १४४ सर्वमन्वन्तराणां वै प्रतिसंधिं निबोधत । युगाख्या या समुद्दिष्टा प्रागेवास्मिन्मयाऽनघाः ॥ १४५ कृतत्रेतादिसंयुक्तं चतुर्युगमिति स्मृतम् । तदेकसप्ततिगुणं परिवृत्तं तु साधिकम् ॥ मनोरेतमधीकारं प्रोवाच भगवान्प्रभुः ॥ १४६ एवं मन्वन्तराणां तु सर्वेषामेव लक्षणम् । अतीतानागतानां वै वर्तमानेन कीर्तितम् ॥ १४७ इत्येष कीर्तितः सर्गो मनोः स्वायंभुवस्य ह । प्रतिसंधिं तु वक्ष्यामि तस्य चैवापरस्य तु ॥ १४८ मन्वन्तरं यथा पूर्वमृषिभिर्देवैः सह । अवश्यंभाविनाऽर्थेन यथा तद्वै निवर्तते ॥ १४९

२१६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०६१ श्लो० १५०-१७५] ( प्रजापतिवंशानुकीर्तनम् )

अस्मिन्मन्वन्तरे पूर्वं त्रैलोक्यस्येश्वरास्तु ये। सप्तर्षयश्च देवास्ते पितरो मनवस्तथा ॥ मन्वन्तरस्य काले तु संपूर्णे साधकास्तथा ॥ १५० क्षीणाधिकाराः संवृत्ता बुद्ध्वा पर्यायमात्मनः। महर्लोकाय ते सर्वे उन्मुखा दधिरे गतिम् ॥ १५१ ततो मन्वन्तरे तस्मिन्प्रक्षीणा देवतास्तु ताः। संपूर्णे स्थितिकाले तु तिष्ठन्त्येकं कृतं युगम् ॥ १५२ उत्पद्यन्ते भविष्याश्च यावन्मन्वन्तरेश्वराः। देवताः पितरश्चैव ऋषयो मनुरेव च ॥ १५३ मन्वन्तरे तु संपूर्णे यद्यन्यद्वै कलौ युगे। संपद्यते कृतं तेषु कलिशिष्टेषु वै तदा ॥ १५४ यथा कृतस्य संतानः कलिपूर्वः स्मृतो बुधैः। तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च ॥ १५५ क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः। मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा ॥ १५६ सप्तर्षयो मनुश्चैव कालावेक्षास्तु ये स्थिताः। मन्वन्तरं प्रतीक्षन्ते क्षीयन्ते तपसि स्थिताः ॥ १५७ मन्वन्तरव्यवस्थार्थं संतत्यर्थं च सर्वशः। पूर्ववत्संप्रवर्तन्ते प्रवृत्ते वृष्टिसर्जने ॥ १५८ द्वन्द्वेषु संप्रवृत्तेषु उत्पन्नास्वोषधीषु च। प्रजासु च निकेतासु संस्थितासु क्वचित्क्वचित् ॥ १५९ वार्तायां तु प्रवृत्तायां सद्धर्म ऋषिभाविते। निरानन्दे गते लोके नष्टे स्थावरजङ्गमे ॥ १६० अग्रामनगरे चैव वर्णाश्रमविवर्जिते। पूर्वमन्वन्तरे शिष्टे ये भवन्तीह धार्मिकाः ॥ सप्तर्षयो मनुश्चैव संतानार्थं व्यवस्थिताः ॥ १६१ प्रजार्थं तपसां तेषां तपः परमदुष्करम्। उत्पद्यन्तीह सर्वेषां निधनेष्विह सर्वशः ॥ १६२ देवासुराः पितृगणा मुनयो मनवस्तथा। सर्पा भूताः पिशाचाश्च गन्धर्वा यक्षराक्षसाः ॥ १६३ ततस्तेषां तु ये शिष्टाः शिष्टाचारात्प्रचक्षते। सप्तर्षयो मनुश्चैव आदौ मन्वन्तरस्य ह ॥ प्रारभन्ते च कर्माणि मनुष्या दैवतैः सह ॥ १६४ मन्वन्तरादौ प्रागेव त्रेतायुगमुखे ततः। पूर्वं देवास्ततस्ते वै स्थिते धर्मे तु सर्वशः ॥ १६५ ऋषीणां ब्रह्मचर्येण गत्वाऽनृण्यं तु वै ततः। पितॄणां प्रजया चैव देवानामिज्यया तथा ॥ १६६ शतं वर्षसहस्राणि धर्मे वर्णात्मके स्थिताः। त्रयीं वार्त्तां दण्डनीतिं धर्मान्वर्णाश्रमांस्तथा ॥ स्थापयित्वाऽऽश्रमांश्चैव स्वर्गाय दधिरे मतीः ॥ १६७ पूर्वं देवेषु तेष्वेव स्वर्गाय प्रमुखेषु च। पूर्वं देवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ॥ १६८ मन्वन्तरे परावृत्ते स्थानान्युत्सृज्य सर्वशः। मन्त्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयम् ॥ १६९ विनिवृत्तविकारास्ते मानसीं सिद्धिमास्थिताः। अवेक्ष्यमाणा वशिनस्तिष्ठन्त्याभूतसंप्लवम् ॥ १७० ततस्तेषु व्यतीतेषु सर्वेष्वेतेषु सर्वदा। शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः ॥ उपस्थिता इहैवान्ये देवा ये स्वर्गवासिनः ॥ १७१ ततस्ते तपसा युक्ता स्थानान्यापूरयन्ति वै। सत्येन ब्रह्मचर्येण श्रुतेन च समन्विताः ॥ १७२ सप्तर्षीणां मनोश्चैव देवानां पितृभिः सह। निधनानीह सर्वेषामादिना च भविष्यताम् ॥ १७३ तेषामत्यन्तविच्छेद इह मन्वन्तरक्षयात्। एवं पूर्वानुपूर्वेण स्थितिरैषोऽनवस्थिता ॥ मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥ १७४ एवं मन्वन्तराणां तु प्रतिसंधानलक्षणम्। अतीतानागतानां तु प्रोक्तं स्वायंभुवेन तु ॥ १७५

[अ० ६१-६२ श्लो० १७६-१८६-१-३] वायुपुराणम् । २१७

( पृथिवीदोहनम )

मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनम् । एवमत्यन्तविच्छिन्नं भवत्याभूतसंप्लवात् ॥ १७६ मन्वन्तराणां परिवर्तनानि एकान्ततस्तानि महर्गतानि ॥ महर्जनं चैव जनं तपश्च एकान्तगानि स्म भवन्ति सत्ये ॥ १७७ तद्भाविनां तत्र तु दर्शनेन नानावदृष्टेन च प्रत्ययेन ॥ सत्ये स्थितानीह तदा तु तानि प्राप्ते विकारे प्रतिसर्गकाले ॥ १७८ मन्वन्तराणां परिवर्तनानि मुञ्चन्ति सत्यं तु ततोऽपरान्ते ॥ ततोऽभियोग।द्विषमप्रमाणं विशन्ति नारायणमेव देवम् ॥ १७९ मन्वन्तराणां परिवर्तनेषु चिरप्रवृत्तेषु विधिस्वभावात् ॥ क्षणं रसं तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवन्दमानः ॥ १८० इत्युत्तराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम् ॥ वायुप्रणीतान्युपलभ्य दृश्यं दिव्यौजसा व्याससमासयोगैः ॥ १८१ सर्वाणि राजर्षिसुरर्षिमन्ति ब्रह्मर्षिदेवोरगवन्ति चैव ॥ सुरेशसप्तर्षिपितृप्रजेशैर्यूक्तानि सम्यक्परिवर्तनानि ॥ १८२ उदारवंशाभिजनद्युतीनां प्रकृष्टमेधाभिसमेधितानां ॥ कीर्तिद्युतिख्यातिभिरन्वितानां पुण्यं हि विख्यापनमीश्वराणाम् ॥ १८३ स्वर्ग्यमेतत्परमं पवित्रं पुत्रीयमेतच्च परं रहस्यम् ॥ जप्यं महत्पर्वसु चैतदग्र्यं दुःस्वप्नशान्तिः परमायुषेयम् ॥ १८४ प्रजेशदेवर्षिमनुप्रधानां पुण्यप्रसूतिं प्रथितामजस्य ॥ ममापि विख्यापनसंयमाय सिद्धिं जुषध्वं सुमहेशतत्त्वम् ॥ १८५ इत्येतदन्तरं प्रोक्तं मनोः स्वायंभुवस्य तु । विस्तरेणाऽऽनुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ १८६ इति श्रीमहापुराणे वायुप्रोक्ते प्रजापतिवंशानुकीर्तनं नामैकषष्ट्यध्यायः ॥ ६१ ॥ आदितः श्लोकानां समष्ट्यङ्काः- ५०८६

अथ द्विषष्ट्यध्यायः ।

पृथिवीदोहनम् ।

शांशपायन उवाच-
क्रमं मन्वन्तराणां तु ज्ञातुमिच्छामि तत्त्वतः । दैवतानां च सर्वेषां ये च यस्यान्तरे मनोः ॥ १
सूत उवाच-
मन्वन्तराणि यानि स्युरतीतानागतानि ह । समासाद्विस्तराच्चैव ब्रुवतो वै निबोधत ॥ २
स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस्तया । औत्तमस्तामसश्चैव तथा रैवतचाक्षुषौ ॥
षडेते मनवोऽतीता वक्ष्याम्यष्टावनागतान् ॥ ३

२८

२१८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६२श्लो०४-२७] (पृथिवीदोहनम्)

सावर्णाः पञ्चरौच्यश्च भौत्यो वैवस्वतस्तथा। वक्ष्याम्येतान्पुरस्तात्तु मनोर्वैवस्वतस्य ह ॥ ४
मनवः पञ्च येऽतीता मानवांस्तान्निबोधत। मन्वन्तरं मया चोक्तं क्रान्तं स्वायंभुवस्य ह ॥ ५
अत ऊर्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य च। प्रजासर्गं समासेन द्वितीयस्य महात्मनः ॥ ६
*आसन्वं तुषिता देवा मनुस्वारोचिषेऽन्तरे। पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ ॥ ७
तुषितायां समुत्पन्नः क्रतोः पुत्राः स्वरोचिषः। पारावताश्च शिष्टाश्च द्वादशौ तौ गणौ स्मृतौ ॥
छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः ॥ ८
धैवस्य शोऽथ वामान्यो गोपा देवायतस्तथा। अजश्च भगवांदेवा दुरोणश्च महाबलः ॥ ९
आपश्चापि महाबाहुर्महौजाश्चापि वीर्यवान्। चिकित्वान्निभृतो यश्च अंशो यश्चैव पठ्यते ॥ १०
×अजश्च द्वादशस्तेषां तुषिताः परिकीर्तिताः। इत्येते क्रतुपुत्रास्तु तदाऽऽसन्सोमपायिनः ॥ ११
प्रचेताश्चैव यो देवो विश्वदेवास्तथैव च। समज्ञो विश्रुतो यश्च अजिह्मश्चा रिमर्दनः ॥ १२
अजिह्लानमहायानौ विद्यावन्तौ तथैव च। अजोषौ च महाभागौ यवीयश्च महाबलः ॥ १३
होता यज्वा च इत्येते पराक्रान्ताः परावताः। इत्येता देवता ह्यासनमनुस्वारोचिषेऽन्तरे ॥ १४
सोमपास्तु तदा ह्येताश्चतुर्विंशतिदेवताः। तेषामिन्द्रस्तदा ह्यासीद्वैधश्च लोकविश्रुतः ॥ १५
ऊर्जो वसिष्ठपुत्रस्तु स्तम्भः काश्यप एव च। भार्गवश्च तदा द्रोणो ऋषभोगङ्गिरसस्तथा ॥ १६
[÷पौलस्त्यश्चैव दत्तात्रिरात्रेया निश्चलस्तथा। पौलहस्य च धावांस्तु एते सप्तर्षयः स्मृताः ] ॥ १७
चैत्रः कविरुतश्चैव कृतान्तो विभुतो रविः। बृहद्गुणो नवश्चैव शुभाश्चैते नव स्मृताः ॥ १८
मनोः स्वारोचिषस्यैते पुत्रा वंशकराः स्मृताः। पुराणे परिसंख्याता द्वितीयं चैतदन्तरम् ॥ १९
सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम्। मूलं मन्वन्तरस्यैते तेषां चैवान्तरे प्रजाः ॥ २०
ऋषीणां देवताः पुत्राः पितरो देवसूनवः। ऋषयो देवपुत्र अ इति शास्त्रविनिश्चयः ॥ २१
मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजातयः। एतन्मन्वन्तरं प्रोक्तं समासान्न तु विस्तरात् ॥ २२
स्वायंभुवेन विस्तारा ज्ञेयः स्वारोचिषस्य तु। न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि ॥
पुनरुक्तबहुत्वात्तु प्रजानां वै कुले कुले ॥ २३
तृतीयस्त्वथ पर्याय औत्तमस्यान्तरे मनोः। पञ्च देवगणाः प्रोक्तास्तान्वक्ष्यामि निबोधत ॥
सुधामानश्च देवाश्च ये चान्ये वशवर्तिनः। प्रतर्दनाः शिवाः सत्या गणा द्वादश वै स्मृताः ॥ २४
सत्यो धृतिर्दमो दान्तः क्षमः क्षामो धृतिः शचिः। ईषोर्जाश्च तथा ज्येष्ठो वपुष्मांश्चैव द्वादश ॥
इत्येते नामाभिः क्रान्ताः सुधामानस्तु द्वादश ॥ २५
सहस्रधारो विश्वात्मा शमितारौ बृहद्वसुः। विश्वधा विश्वकर्मा च मनस्वन्तो विराड्चशाः ॥ २६
ज्योतिश्चैव विभाव्यश्च कीर्तिमान्वंशकारिणः। अन्यानाराधितो देवो वसुधिष्णो विवस्वसुः ॥ २७


*इदमर्धं नास्ति घ. पुस्तके। ×इदमर्धं नास्ति क. पुस्तके। ÷धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति।