वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
२९० श्रीमद्वैपायनमुनिप्रणीतम्-[अ० ७७-७८ श्लो० १२५-१३५।१-१०] ( श्राद्धकल्पः )
तीर्थान्यनुसरन्धीरः श्रद्दधानो जितेन्द्रियः । कृतपापश्च शुध्येत किं पुनः शुभकर्मकृत् ॥ १२५ तिर्यग्योनिं न गच्छेच्च कुदेशे न च जायते । स्वर्गी भवति वै विप्रो मोक्षोपायं च विन्दति ॥ १२६ अश्रद्दधानाः पाप्मानो नास्तिकाः स्थितसंशयाः । हेतुद्रष्टा च पञ्चैते न तीर्थफलमश्नुते ॥ १२७ गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम् । ध्यानं तीर्थपरं तस्माद्ब्रह्मतीर्थं सनातनम् ॥ १२८ उपवासात्परं ध्यानमिन्द्रियाणां निवर्तनम् । उपवासनिवद्धा हि प्राणैरिह पुनः पुनः ॥ १२९ प्राणापानौ समौ कृत्वा विषयाणीन्द्रियाणि च । बुद्धिं मनासि संयम्य सर्वेषां तु निवर्तनम् ॥ १३० प्रत्याहारं पुनर्विद्धि मोक्षोपायमसंशयम् । इन्द्रियाणां मनो घोरं बुद्ध्यादीनां प्रवर्त्तनम् ॥ १३१ अनाहारात्क्षयं याति विद्यादनशनं तपः । निग्रहाद्बुद्धिमनसो रम्या बुद्धिस्तु जायते ॥ १३२ क्षीणेपु सर्वपापेषु क्षीणेष्वेवेन्द्रियेषु च । परिनिर्वाति शुद्धात्मा यथा वह्निर्निरिन्धनः ॥ १३३ कारणेभ्यो गुणेभ्योऽथ व्यक्ताव्यक्तस्य कृत्स्नशः । वियोजयति क्षेत्रज्ञं तेभ्यो योगेन योगवित् ॥ १३४ तस्य नास्ति गतिस्थानं व्यक्ताव्यक्तं न संशयः । *नासन्न सदसच्चैव नैव किंचित्स्थितेरिति ॥ १३५
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे तीर्थयात्रा नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
आदितः श्लोकानां समष्ट्यङ्काः--७०८६
अथाष्टसप्ततितमोऽध्यायः ।
श्राद्धकल्पः ।
बृहस्पतिरुवाच-- अतः परं प्रवक्ष्यामि दानानि च फलानि च । श्राद्धकर्मणि मेध्यानि वर्जनीयानि यानि च ॥ १ हिमप्रपतने कुर्यादाहरेद्वा हिमं ततः । अग्निहोत्रमतः पुण्यं परमं हि ततः स्मृतम् ॥ २ नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् । सर्वस्वेनापि कर्तव्यं क्षिप्रं वै राहुदर्शने ॥ ३ उपरागे न कुर्याद्यः पङ्के गौरिव सीदति । कुर्वाणस्तुद्धरेत्पापान्मज्जनेरिव सागरे ॥ ४ विश्वदेवं च सौम्यं च बहुमांसपरं हविः । विषाणं वर्जयेत्खड्गमसूयानाशनार्य वै ॥ ५ त्वष्टा वै वार्यमाणस्तु देवेशेन महात्मना । पिवञ्शचीपतेः सोमं पृथिव्यामपतत्पुरा ॥ ६ श्यामाकास्तु तथोत्पन्नाः पित्रर्थमपि पूजिताः । विमुष्वस्तस्य नासाभ्यामसक्ताभ्यां तथेश्ववः ॥ ७ श्लेष्माणः शीतला हृद्या मधुराश्च तथेश्ववः । श्यामाकैरिक्षुभिर्भैव पितॄणां सार्वकामिकम् ॥ कुर्यादाग्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् ॥ ८ श्यामाका हस्तिनामा च पटोलं बृहतीफलम् । अगस्त्यस्य शिखा तीव्रा कषायाः सर्व एव च ॥ ९ एवमादीनि चान्यानि स्वादूनि मधुराणि च । नागरं चात्र वै देयं दीर्घमूलकमेव च ॥ १०
* एतदर्धस्थाने 'आसन्नः सदसन्नैव किंचित्स्थितः' इति क. पुस्तके ।
[अ० ७८ श्लो० ११-३४] वायुपुराणम् । २९१
( श्राद्धकल्पः )
वंशीकरीराः सुरसाः सर्जकं भूस्तृणानि च। वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥ ११ [ + लशुनं गृञ्जनं चैव पलाण्डुः पिण्डमूलकम् । करम्भाद्यानि चान्यानि हीनानि रसगन्धतः ॥ १२ श्राद्धकर्माणि वर्ज्यानि कारणं चात्र वक्ष्यते । पुरा दे (दै) वासुरे युद्धे निर्जितस्य बलेः सुरैः ॥ १३ व्रणेभ्यो विस्फुरन्तो वै पतिता रक्तबिन्दवः । तत एतानि वर्ज्यानि श्राद्धकर्मणि नित्यशः ] ॥ १४ अथ वेदोक्तनिर्यासाँल्लवणान्यूषणानि च । श्राद्धकर्माणि वर्ज्यानि याश्च नार्यो रजस्वलाः ॥ १५ दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम् । न लभ्येत्र गौस्तृप्तिं नक्तं यच्चैव गृह्यते ॥ १६ आविकं मार्यनौष्ट्रं च सर्वमेकशफं च यत् । माहिषं चामरं चैव पयो वर्ज्यं विजानता ॥ १७ अतः परं प्रवक्ष्यामि वर्ज्यान्देशान्प्रयत्नतः । न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः ॥ १८ वन्यमूलफलाहारैः श्राद्धं कुर्यात्तु श्रद्धया । राष्ट्रमिष्टमवाप्नोति स्वर्गं मोक्षं यशस्करम् ॥ १९ अनिष्टशब्दसंकीर्णं जन्तुव्याप्रमथापि वा । पूतिगन्धां तथा भूमिं श्राद्धकर्माणि वर्जयेत् ॥ २० नद्यः सागरपर्यन्ता द्वारं दक्षिणपूर्वतः । त्रिशङ्कं वर्जयेद्देशं सर्वं द्वादशयोजनम् ॥ २१ उत्तरेण महानद्या दक्षिणेन च कैकटात् । देशश्चैवाङ्गवो नाम वर्जितः श्राद्धकर्मणि ॥ २२ कारस्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च । प्रनष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः ॥ २३ नग्नादयो न पश्येयुः श्राद्धमेवं व्यवस्थितम्। गच्छन्ति तैस्तैर्दृष्टानि न पितॄन् पितामहान् ॥ २४
शंयुरुवाच--
नग्नादीन्भगवात्सम्यङ्ङममाद्य परिपृच्छतः । कथय द्विजमुख्याग्र्य विस्तरेण यथातथम् ॥ २५ एवमुक्तो महातेजा बृहस्पतिरुवाच तम् । सर्वेषामेव भूतानां त्रयी संवरणं स्मृतम् ॥ २६ परित्यजति यो मोहात्ते वै नग्नादयो जनाः । प्रलीयते नरो यस्मान्निरालम्बश्च यो वृषः ॥ २७ वृषं यश्च परित्यज्य मोक्षमन्यत्र मार्गति । वृथा वेदाश्रमास्तस्मिन्यो वै सम्यङ्न पश्यति ॥ २८ ब्राह्मणाः क्षत्रिया वैश्या वृषलाश्चैव सर्वशः । पुरा दे ( दै ) वासुरे युद्धे निर्जितैरसुरैस्तदा ॥ २९ पाषण्डवैकृतास्तात नैषा सृष्टिः स्वयंभुवः । *यद्विश्राद्धकनिर्गन्थाः शक्त्या जीवन्ति कर्पटाः ॥ ३० ये धर्मं नानुवर्तन्ते ते वै नग्नादयो जनाः । वृथाजटी वृथामुण्डी वृथानग्नश्च यो द्विजः ॥ ३१ वृथाव्रती वृथाजापी ते वै नग्नादयो जनाः । कुलंधमा निकाशाश्च तथा पुष्टिकलेशकाः ॥ ३२ कृतकर्माक्षितास्त्वेते कुपथाः परिकीर्तिताः । एभिर्निर्वृत्तं वा श्राद्धं वृथा गच्छति मानवान् ॥ ३३ ब्रह्मघ्नश्च कृतघ्नश्च नास्तिका गुरुतल्पगाः । दस्यवश्च नृशंसाश्च दर्शनेनैव वर्जिताः ॥ ३४
- धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । *एतदर्धस्थानेऽयं पाठः- 'द्विश्राद्धकश्च निर्ग्रन्थाः शक्त्या पुष्टिकलेशकाः ' इति क. पुस्तके ।
२९२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ७८ श्लो० ३५–५९] ( श्राद्धकल्पः )
ये चान्ये पापकम्माणः सर्व्वास्तान्परिवर्जयेत् । देवदेवर्षिनिंदायां रताश्चैव विशेषतः ॥ ३५ असुरान्यातुधानांश्च दृष्ट्मेभिर्व्रजन्त्युत । ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रिय स्मृतम् ॥ वेश्यं द्वापारमित्याहुः शूद्रं कलियुगं स्मृतम् ॥ ३६
पितर ऊचुः–
वैदाः कृतयुगे पूज्यास्त्रेतायां तु सुरास्तथा । युद्धानि द्वापरे नित्यं पाषण्डाश्च कलौ युगे ॥ ३७ अपमानापवित्रश्च कुक्कुटो ग्रामसूकरः । श्वा चैव दर्शनादेव हन्ति श्राद्धं न संशयः ॥ ३८ शावसूतकसंस्पृष्टो दीर्घरोगिभिरेव च । मलिनैः पतितैश्चैव न द्रष्टव्यं कथंचन ॥ ३९ अन्नं पश्येयुरेते वै नैतस्याद्धव्यकव्ययोः । तत्संस्पृष्टं प्रधानार्थं संस्कारश्चापदो भवेत् ॥ ४० हविषां संहतानां तु पूर्वमेव विवर्जनम् । मृत्संयुक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ॥ ४१ सिद्धार्थकैः कृष्णतिलैः कार्यं वाऽप्यवकीरणम् । गुरुसूर्याग्निवस्तूनां दर्शनं वाऽपि यत्नतः ॥ ४२ आसनारूढमानेषु पादोपहतमेव च । अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ॥ ४३ अशितं परिदुष्टं च तथैवाग्रावलेहितम् । शर्कराकेशपाषाणैः कीटैर्यच्चाप्युपद्रुतम् ॥ ४४ पिण्याकथथितं चैव तथा तिलमवादिषु । सिद्धाक्षताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥ ४५ वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि । सन्ति वेदविरोधिन केचिद्विज्ञानमानिनः ॥ ४६ अयज्ञपतयो नाम ते श्राद्धस्य यथा रजः । दधि शोकं तथाऽभक्ष्याः शुक्लं चौषं विवर्जितम् ॥ ४७ वार्ताकं वर्जयेद्यात्सर्वानिभिषवानपि । सैन्धवं लवणं यच्च तथा मानससंभवम् ॥ ४८ पवित्रं परमं ह्येतत्प्रत्यक्षमपि वर्तते । अग्नौ निक्षिप्य गृह्णीयाद्धस्तौ प्रक्षिप्य यत्नतः ॥ ४९ गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम् । द्रव्याणां प्रोक्षणं कार्यं तथैवाऽऽवपनं पुनः ॥ ५० निधाय चाद्भिः सिञ्चेत तथैवाप्सु निवेशनम् । अरिष्टतुमुले बिल्वं विङ्गुद्दश्वदनान्यपि ॥ ५१ विदलानां च सर्वेषां चर्मवच्छौचमिष्यते । तथा दन्तास्थिदारूणां शृङ्गाणां चावेलेखनम् ॥ ५२ सर्वेषां मृन्मयानां तु पुनर्दाह उदाहृतः । मणिवज्रप्रवालानां मुक्ताशङ्खमणेस्तथा ॥ ५३ सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । स्याच्छौचं सर्वबालानामाविकानां च सर्वशः ॥ ५४ आविकानां च सर्वेषां मृद्भिरद्भिर्विधीयते । आद्यन्तयोस्तु शौचानामाद्भिः प्रक्षालनं पुनः ॥ ५५ तथा कार्पासिकानां च भस्माना समुदाहृतम् । फलपुष्पशलाकानां प्लावनं चाद्भिरिष्यते ॥ ५६ संमार्जनं प्रोक्षणं च भूमेश्चैवावलेपनम् । निष्क्रम्य बाह्यतो ग्रामाद्वायुपूता वसुंधरा ॥ ५७ धनुष्मत्पक्षिणां चैव मृद्भिः शौचं विधीयते । एवमेष समुद्दिष्टः शौचानां विधिरुत्तमः ॥ अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ५८ पातर्गृहात्पाश्चिमदक्षिणेन इषुक्षेपं चाक्षमात्रं पदं च । कुर्यात्पुरीषं च शिरोऽवगुण्ठच न च स्पृशेत्तत्र शिरः करेण ॥ ५९
[अ० ७८-७९ श्लो० ६०-७८ । १-३] वायुपुराणम् । २९३
(श्राद्धकल्पः) शुष्कैस्तृणैर्वा काष्ठैर्वा पत्रैर्वेणुदलेन वा । मृन्मयैर्भार्जनैर्वाऽपि तिरोधाय वसुंधराम् ॥ ६० उद्धृतोदकमादाय मृत्तिकां चैव वाग्यतः । दिवा उदङ्मुखः कुर्याद्रात्रौ वै दक्षिणामुखः ॥ ६१ दक्षिणेन च हस्तेन गृह्णीयाद्वै कमण्डलुम् । शौचं च वामहस्तेन गुदे तिस्रस्तु मृत्तिकाः ॥ ६२ दश चापि पुनर्द्दद्याद्वामहस्तक्रमेण तु । द्वाभ्यां वाऽपि पुनर्द्दद्याद्धस्तानां पञ्च मृत्तिकाः ॥ ६३ मृदा प्रक्षाल्य पादौ च आचम्य च यथाविधि । आपस्त्याज्यास्त्रयश्चैव सूर्याभिपवनाम्भसाम् ॥ ६४ कुर्यात्संनिहितं नित्यं प्राङ्मुखस्तीर्थे कमण्डलुम् । असत्कार्यं कार्यमेतैैर्यथावत्पादधावनम् ॥ ६५ आचमनं द्वितीयेन देवकार्यं ततः परम् । उपवासास्त्रिरात्रं तु दुष्टहस्ते ह्युदाहृतः ॥ ६६ विप्रकृष्टेन कृच्छ्रेण प्रायश्चित्तमुदाहृतम् । स्पृष्ट्वा श्वानं श्वपाकं वा तप्तकृच्छ्रं समाचरेत् ॥ ६७ मानुषास्थीनि संस्पृश्य उपोष्यं शुद्धिकारणम् । त्रिरात्रमुक्तं संश्लेषमेकरात्रमतोऽन्यथा ॥ ६८ कारस्कराः पुलिन्दाश्च तथाऽन्ध्राशबरादयः । पीत्वा चापो भूतितये गत्वा चैव युगंधराम् ॥ ६९ सिन्धोरुत्तरपर्यन्तं तथा दिव्यन्तरे शतम् । पापदेशाश्च ये केचित्पापैैरध्युषिता जनैः ॥ ७० शिष्टैश्च वर्जिता ये च ब्राह्मणैर्वेदपारगैः । गत्वा देशानपुण्यांस्तु कृत्स्नं पापं समश्नुते ॥ ७१ मनोव्यकिरथामिश्र काले चैवावलेपनम् । विरूपापनं च शौचानां नित्यमज्ञानमेव च ॥ ७२ अतोऽन्यथा तु यः कुर्यान्मोहाच्छौचस्य संकरम् । पिशाचान्यातुधानांश्च फलं गच्छत्यसंशयम् ७३ शौचमश्रद्दधानस्य म्लेच्छजातिषु जायते । अयज्ञाश्चैव पापो वा तिर्यग्योनिगतोऽपि वा ॥ ७४ शौचेन मोक्षं कुर्वाणः स्वर्गवासी भवेन्नरः । शुचिकामा हि देवा वै देवैरेतदुदाहृतम् ॥ ७५ बीभत्समशुचिं चैव वर्जयन्ति सुरा सदा । त्रीणि शौचानि कुर्वन्ति न्यायतः शुभकर्मणः ॥ ७६ ब्राह्मणायाऽऽतिथेयाय शौचायुकाय धीमते । पितृभक्ताय दान्ताय सानुक्रोशाय च द्विजाः ॥ ७७ तैस्तैः प्रीताः प्रयच्छन्ति पितरो योगवर्धनाः । मनसा काङ्क्षितान्कामांस्त्रैलोक्यप्रभवानिति ॥ ७८
इति महापुराणे वायुप्रोक्ते श्राद्धकल्पे नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥
आदितः श्लोकानां समष्ट्यङ्काः--७१६४
अथ नवसप्ततितमोऽध्यायः ।
श्राद्धकल्पः ।
ऋषय ऊचुः-- अहो धर्मस्त्वया सूत श्राद्धकल्पस्तु कीर्तितः । श्रुतो नः श्राद्धकल्पो वै ऋषिभिः परिकीर्तितः ॥ १ अतीव विस्तरो यस्य विशेषेण प्रकीर्तितः । वद शेषं महाप्राज्ञ ऋषेस्तस्य यथामतम् ॥ २
सूत उवाच-- कीर्तयिष्यामि ते विप्रा ऋषेस्तस्य मतं तु यत् । श्राद्धं प्रति महाभागास्तन्मे शृणुत विस्तरात् ॥ ३
२९४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ७९ श्लो० ४--३२]
( श्राद्धकल्पः )
उक्तं श्राद्धं मया पूर्वं विविधं श्राद्धकर्मणि । परिशिष्टं प्रवक्ष्यामि ब्राह्मणानां यथाक्रमम् ॥ ४
न मीमांस्याः सदा विप्राः ( *पवित्रं ह्येतदुत्तमम् । दैवे पित्र्ये च सततं श्रूयते वै परीक्षणम् ॥ ५
यस्मिन्दोषाः प्रपश्येरन्सद्भिर्वा वर्जितस्तु यः । जानियाद्वापि संवासाद्वर्जयेत्तं प्रयत्नतः ॥ ६
अविज्ञातं द्विजं श्राद्धे परीक्षेत सदा बुधः । सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ॥ ७
तस्मादातिथिमायान्तमभिगच्छेत्कृताञ्जलिः ) । पूजयेच्चापि पाद्येन पादाभ्यञ्जनभोजनैः ॥ ८
उर्वी सागरपर्यन्तां देवा योगेश्वरास्तथा । नानारूपैश्चरन्त्येते प्रजा धर्मेण पालयन् ॥ ९
अर्चयित्वा ततो दद्याद्विप्रायातिथये नरः । व्यञ्जनानि च भक्ष्याणि फलं तेषां तथैव च ॥ १०
आग्निष्टोमं तु पयसा प्राप्नुयाद्वै तथा श्रुतम् । सर्पिषा तु शुभं चक्षुः षोडशाहफलं लभेत् ॥
मधुना त्वतिरात्रस्य फलं च समवाप्नुयात् ॥ ११
तत्प्राप्नुयाच्छ्रद्दधानो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान् ।
सर्वार्थदः सर्वविपातिथेयः फलं भुङ्क्ते सर्वमेधस्य नित्यम् ॥ १२
यस्तु श्राद्धेऽतिथिं प्राप्य दैवे वाऽप्यवमन्यते । तं वै देवा निरस्यंति होता यद्वत्परां वसुम्(?) ॥ १३
देवाश्च पितरश्चैव वह्निश्चैव हि तान्द्विजान् । आविश्य भुञ्जते तद्वै लोकानुग्रहकारणात् ॥ १४
अपूजिता दहन्त्येते दद्युः कामांश्च पूजिताः । सर्वस्वेनापि तस्माद्वै पूजयेदातिथीन्सदा ॥ १५
वानप्रस्थो गृहस्थश्च गृहमभ्यागतोऽथवा । बालाः खिन्ना यतिश्चैव जानीयादतिथीन्सदा ॥ १६
अभ्यागतो याचकः स्यादातिथिः स्यादायाचकः । अतिथेरातिथिः श्रेष्ठः सोऽतिथियोगं उच्यते ॥ १७
न घोरो नापि संकीर्णो नाविद्यो न विशेषवित् । न च संतानसमृद्धो न सेवी नाचरोऽतिथिः ॥ १८
पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते । तस्मै सत्कृत्य दातव्यं यज्ञस्य फलमिच्छता ॥ १९
आरुह्य भृगुतुङ्गे तु गत्वा पुण्यां सरस्वतीम् । आपगां तु नदीं पुण्यां गङ्गां देवीं महानदीम् ॥ २०
हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूर्जिताः । +सरस्वतीर्थामिसंवेद्या नदी नववहास्तथा ॥ २१
गर्वैतान्मुच्यते पापैः स्वर्गे नित्यं महीयते । दशरात्रमशौचं तु प्रोक्तं वै मृतसूतके ॥ २२
ब्राह्मणस्य विशेषेण क्षत्रिये द्वादशं स्मृतम् । अर्धमासं तु वैश्यस्य मासाच्छूद्रस्तु शुध्यति ॥ २३
उदक्या सर्ववर्णानां त्रिरात्रेण तु शुध्यति । उदक्यां सूतिकां चैव श्वानमन्त्यावसायिनम् ॥ २४
नग्नादीन्मृतहारांश्च स्पृष्ट्वाऽशौचं विधीयते । स्नात्वा सचैलो मृद्भिश्च द्वादशभिस्तु शुध्यति ॥ २५
एतदेव भवेच्छौचं मैथुने वमने तथा । मृदा प्रक्षाल्य हस्तौ तु कुर्याच्छौचविधौ नरः ॥ २६
प्रक्षाल्य चाङ्घ्रिहस्तौ च स्नात्वा चैव मृदा पुनः । मृदं गुह्ये ततो दित्सु पुनरेव मृदं बुधः ॥ २७
एवं शौचविधिर्दृष्टः सर्ववर्णेषु नित्यदा । परिदद्यान्मृदस्तिस्रो हस्तपादावसेचनम् ॥ २९
आरण्यं शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम् । मृदस्तित्रसः पादयोस्तु हस्तयोस्तिस्र एव च ॥ ३०
मृदः पञ्चदशामेध्ये हस्तादीनां विभागशः । अनिर्णिन्के मृदं दद्यान्मृदन्ते त्वद्भिरेव तु ॥ ३१
कण्ठं शिरो वा प्रावृत्य रथ्यापादगतस्तु वा । अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ॥
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + नास्तिदमर्धं घ. पुस्तके ।
[अ० ७९ श्लो० ३३-६१] वायुपुराणम् । २९५
(श्राद्धकल्पः) प्रक्षाल्य पात्रं निक्षिप्य आचम्याभ्युक्षणं पुनः । द्रव्यस्यान्यस्य तु तथा कुर्यादभ्युक्षणं पुनः ॥ ३३ पुष्पादीनां तृणानां च प्रोक्षणं हविषां तथा । पराहतानां द्रव्याणां निधायाभ्युक्षणं तथा ॥ ३४ नापोक्षितं हरेत्किंचिच्छ्राद्धे दैवे तथा पुनः । उत्तराणाऽऽहरेद्वेद्यां दक्षिणेन विसर्जयेत् ॥ ३५ *विच्छिन्नं स्याद्विपर्यासे दैवे पित्र्ये तथैव च । दक्षिणेन तु हस्तेन दक्षिणां वेदिमालिखेत् ॥ ३६ कराभ्यामेव देवानां पितॄणां विकरं (?)शुभम् । क्षुभितस्वमयोश्चैव तथा मूत्रपुरीषयोः ॥ ३७ निष्ठोविते तथा व्यक्ते भुक्त्वा विपरिधाय च । उच्छिष्टस्य च संस्पर्शे तथा पदावसेचने ॥ ३८ उत्सृष्टस्य सुसंभाषे ह्यशुचिं (?)प्रयतस्य च । संदेहेषु च सर्वेषु शिखां मुक्त्वा तथैव च ॥ ३९ विना यज्ञोपवीतेन मोहात्तु यदुपस्पृशेत् । ओष्ठस्य दन्तसंस्पर्शे दर्शने चान्त्यवासिनाम् ॥ ४० जिह्वया चैव संस्पृश्य दन्तासक्तं तथैव च । सशब्दमङ्गुलीभिश्च प्रणतश्चावलोकयन् ॥ ४१ यश्चाधर्मे स्थितो मोहादाचान्तोऽप्यशुचिर्भवेत् । उपविश्य शुचौ देशे प्रणतः प्रागुदङ्मुखः ॥ ४२ पादौ प्रक्षाल्य हस्तौ तु अन्तर्जानुरुपस्पृशेत् । प्रसन्नाद्भिः पिबेच्चापः प्रयतः सुसमाहितः ॥ ४३ द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः । खानि मूर्धानमात्मानं हस्तौ पादौ तथैव च ॥ ४४ अभ्युक्षणं तथा तस्य यद्यमीमांसितं भवेत् । एवमाचमनं तस्य वेदा यज्ञास्तपांसि च ॥ ४५ दानानि ब्रह्मचर्यं च भवन्ति सफलास्तथा । क्रियां यः कुरुते मोहादनाचम्यैव नास्तिकः ॥ ४६ भवन्ति च वृथा तस्य क्रिया हेता न संशयः । वाग्भावशुद्धन्निर्णिक्तमदुष्टं वाऽप्यनिन्दितम् ॥ ४७ मेध्यान्येतानि ज्ञेयानि दुष्टेभ्यो विपर्ययः । न वक्तव्यः सदा विप्रः क्षुधितो नास्ति किंचन ॥ ४८ तस्मै सत्कृत्य यो दद्याद्यूपो यज्ञ उच्यते । अप्लुष्टान्नं शृतानं तु कृशवृत्तिंमयाचकम् ॥ ४९ एकान्तशीलं ह्रीमन्तं सदा श्राद्धेषु भोजयेत् । यो ददात्यन्तिमेभ्यश्च स ब्रह्मघ्नो दुरात्मवान् ॥ ५० अपि जातिशतं गत्वा न स मुच्येत किल्बिषात् । विषमं भोजयेद्विप्रानेक ङ्क्त्यां च यो नरः ॥ ५१ नियुक्तो वाऽनियुक्तो वा पङ्क्त्या हरति दुष्कृतम् । पापेन गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति ॥ ५२ यतिस्तु सर्वविप्राणां सर्वेषामग्र्य उत्सवे । इतिहासपञ्चमान्वेदान्यः पठेत्तु द्विजोत्तमः ॥ ५३ अनन्तरं यथायोग्यं नियोक्तव्यो विजानता । त्रिवेदोऽनन्तरस्तस्य द्विवेदस्तदनन्तरः ॥ ५४ एकवेदस्तथा पश्चान्न्यायाध्यायी ततः परम् । पावना ये च पङ्क्त्या वै तान्प्रवक्ष्ये निबोधत ॥ ५५ य एते पूर्वनिर्दिष्टा : सर्वे ते ह्यनुपूर्वशः । षडङ्गी विनयी योगी सर्वतन्त्रस्तथैव च ॥ ५६ यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः । अष्टादशानां विद्यानामेकः स्यात्पारगोऽपि यः ॥ ५७ यथावद्वर्तमानश्च सर्वे ते पङ्क्तिपावनाः । त्रिणाचिकेतस्त्रैविद्यो यश्च धर्मानपठेत्द्विजः ॥ ५८ बार्हस्पत्ये तथा शास्त्रे पारं यश्च द्विजो गतः । सर्वे ते पावना विप्राः पङ्क्तीनां समुदाहृताः ॥ ५९ आमान्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः । पितरस्तस्य तं मासं तस्य रेतसि शेरते ॥ ६० श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं यो निषेवते । पितरस्तस्य तं मासं रेतःस्था नात्र संशयः ॥ ६१
* इदमर्धं नास्ति ख. ग. पुस्तकयोः ।
२९६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ७९ श्लो० ६२-८९] ( श्राद्धकल्पः )
तस्मादतिथये देयं भोजयेद्ब्रह्मचारिणम् । ध्याननिष्ठाय दातव्यं सानुक्रोशाय धार्मिकम् ॥ ६२ यतिं वा वालखिल्यान्वा भोजयेच्छाद्धकर्मणि । वानप्रस्थोपकुर्वाणः पूजामात्रेण तोषितः ॥ ६३ गृहस्थं भोजयेद्यस्तु विश्वे देवास्तु पूजिताः । वानप्रस्थेन ऋषयो बालखिल्यैः पुरंदरः ॥ ६४ यतीनां पूजने चापि साक्षाद्ब्रह्मा तु पूजितः । आश्रमाः पावनाः पञ्च उपधाभिरनाश्रमाः ॥ ६५ चत्वार आश्रमाः पूज्याः श्राद्धे दैवे तथैव च । चतुराश्रमवाह्येभ्यः श्राद्धं नैव प्रदापयेत् ॥ ६६ स तिष्ठेद्वा बुभुक्षुस्तु चतुराश्रमबाह्यतः । अयतिर्मोक्षवादी च उभौ तौ पङ्क्तिदूषकौ ॥ ६७ वृथामुण्डाश्च जटिलाः सर्वे कार्पटिकास्तथा । निर्गुणाम्भिन्नवृत्तांश्च सर्वभक्षान्विवर्जयेत् ॥ ६८ कारुकादीननाचारान्सर्ववेदबहिष्कृतान् । गायनान्देवनृत्तांश्च हव्यकव्येषु वर्जयेत् ॥ ६९ * द्विजेष्वपि कृतं नित्यं श्राद्धकर्माणि वर्जयेत् । एतेषु वर्तते यश्च कृष्णवर्णं स गच्छति ॥ योऽश्नाति सह शूद्रेण सर्वे ते पङ्क्तिदूषकाः ॥ ७० व्यापादनं शक्तिनिबर्हणं कृषिवार्णिज्यकार्यं पशुपालनं च । शुश्रूषणं वाऽप्यगुरोरहो वा कार्यं नैतद्विद्यते ब्राह्मणस्य ॥ ७१ ये तु विप्राः स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा । मिथ्यासंकल्पिनः सर्वे दुर्वृत्ता वा दिनात्ययः मिथ्यातत्त्वविदो वर्ज्यास्तथा दाम्भिकसूचकाः । उपपातकसंयुक्ताः पातकैश्च विशेषतः ॥ ७३ वेदे नियोगदातारो लोभमोहफलार्थिनः । ब्रह्मविक्रयिणश्चैव श्राद्धकर्मणि वर्जिताः ॥ ७४ न नियोगोऽस्ति वेदानां यो नियुङ्क्ते स पापकृत् । भोक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा ॥ ७५ भृतोऽध्यापयते यस्तु भृतकाध्यापितस्त यः । नार्हतस्तावपि श्राद्धं ब्राह्मणः क्रयविक्रयी । ७६ क्रयविक्रयिणौ चैव जीवितार्थं विगर्हितौ । वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् ॥ ७७ प्राहुर्वेदान्वेदविदो वेदान्यश्चोपजीवति । उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च ॥ ७८ वृथा दारांश्च यो गच्छेद्यो यजेत वृथाऽध्वरे । नार्हतस्तावपि श्राद्धं द्विजो यश्चैव नास्तिकः ॥ ७९ आत्मार्थं यः पचेदन्नं न देवातिथिकारकम् । नार्हतस्तावपि श्राद्धं पतितौ ब्रह्मराक्षसौ ॥ ८० स्त्रियो नक्तंपरा येषां परदाररताश्च ये । अर्थकामरताश्चैव न ताञ्श्राद्धेषु भोजयेत् ॥ ८१ वर्णाश्रमाणां धर्मेषु विरुद्धाः श्राद्धकर्माणि । स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः ॥ ८२ यश्च शूकरवद्भुङ्क्ते यश्च पाणितले द्विजः । न तदश्नन्ति पितरो यश्च वामं समश्नुते ॥ ८३ स्त्रीशूद्रायानुपेताय श्राद्धोच्छिष्टं न दापयेत् । यो दद्याद्रागमोहात्तु न तद्गच्छेत्पितॄन्सदा ॥ ८४ तस्मान्न देयमुच्छिष्टमन्नाद्यं श्राद्धकर्मणि । अन्यत्र दधिसर्पिभ्यां शिष्ये पुत्राय नान्यथा ॥ ८५ अनुच्छिष्टं तु दातव्यं अन्नाद्यं वै विशेषतः । पुष्पमूलफलैर्वाऽपि तृप्तिं गच्छन्ति चान्नतः ॥ ८६ यावन्त्यन्नानि पूतानि यावदुष्णं न मुञ्चति । तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः ॥ ८७ दानं प्रतिग्रहो होमो भोजनं बलिरेव च । साङ्गुष्ठेन तथा कार्यं नासुरेभ्यो यथा भवेत् ॥ ८८ एतान्येव च सर्वाणि दानादीनि विशेषतः । अन्तर्जान्वाविशेषेण तद्वदाचमनं भवेत् ॥ ८९
* इदमर्धं नास्ति ख. घ. पुस्तकेषु ।
[अ० ७९-८० श्लो० ९०-९५। १-१६] वायुपुराणम् । २९७
(श्राद्धकल्पः)
मुण्डाञ्जटिलकाषायाञ्श्राद्धकालेऽपि वर्जयेत् । शिखिभ्यो वा त्रिदाण्डिभ्यः श्राद्धं यत्नात्प्रदापयेत् ॥
ये तु व्रते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा । देवभक्ता महात्मानः पुनीयुर्दर्शनादपि ॥ ९१
सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं वै निरन्तरम् । तस्मात्पश्यन्ति ते सर्वं यत्किञ्चिज्जगतोगतम् ॥ ९२
व्यक्ताव्यक्तं वशीकृत्य सर्वस्यापि च यत्परम् । सदसच्चेति यैर्दृष्टं सदसच्च महात्मनाम् ॥ ९३
सर्वज्ञानानि दृष्टानि मोक्षादीनि महात्मनाम् । तस्मात्तेषु सदा सक्तः प्राप्नोत्यनुपमं शुभम् ॥ ९४
ऋचो हि यो वेद स वेद वेदान्यजूंषि यो वेद स वेद यज्ञम् ।
सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम् ॥ ९५ ॥
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे ब्राह्मणपरीक्षणं नाम नवसप्ततितमोऽध्यायः ॥ ७९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७२५९
अथाशीतितमोऽध्यायः ।
श्राद्धकल्पे दानफलम् ।
बृहस्पतिरुवाच-
अतः परं प्रवक्ष्यामि दानानि च फलानि च । तारणं सर्वभूतानां स्वर्गमार्गं सुखावहम् ॥ १
लोके श्रेष्ठतमं स्वर्ग्यमात्मनश्चापि यत्प्रियम् । सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ॥ २
जाम्बूनदमयं दिव्यं विमानं सूर्यसंनिभम् । दिव्याप्सरोभिः संकीर्णमन्नदो लभते फलम् ॥ ३
आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि । आयुः प्रकाममैश्वर्यं रूपं च लभते सुतम् ॥ ४
उपवीतं तु यो दद्याच्छ्राद्धकालेषु धर्मवित् । पानं च सर्वविप्राणां ब्रह्मदानस्य यत्फलम् ॥ ५
कृतं विप्रेषु यो दद्याच्छ्राद्धकाले कमण्डलुम् । मधुक्षरिस्रवा धेनुर्दातारमुपतिष्ठति ॥ ६
चक्राविद्धं तु यो दद्याच्छ्राद्धकाले कमण्डलुम् । धेनुं स लभते दिव्यां पयोदां काम्यदोहिनीम् ॥ ७
पूर्णशय्यां तु यो दद्यात्पुष्पमालाविभूषिताम् । प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ॥ ८
भवनं रत्नसंपूर्ण सशय्यासनभोजनम् । श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे स मोदते ॥ ९
मुक्तावैदूर्यवासांसि रत्नानि विविधानि च । वाहनानि च दिव्यानि अयुतान्यर्बुदानि च ॥ १०
सुमहज्ज्वलनप्रख्यं रत्नकामसमन्वितम् । सूर्यचन्द्रमभं दिव्यं विमानं लभतेऽक्षयम् ॥ ११
अप्सरोभिः परिवृतं कामगं तु मनोजवम् । वसते स विमानाग्र्ये स्तूयमानः समन्ततः ॥ १२
*दिव्यैर्गन्धैः प्रसिञ्चन्ति पुष्पवृष्टिभिरेव च । गन्धर्वाप्सरसस्तत्र गायन्ते वादयन्ति च ॥ १३
कन्या युवतयो मुख्याः सहिताश्चाप्सरोगणैः । सुस्वरैस्ते विबुध्यन्ते सततं हि मनोरमैः ॥ १४
अश्वदानसहस्रेण रथदानशतेन च । दन्तिनां च सहस्रेण योगिन्या वसते नरः ॥ १५
दद्यात्पितृभ्यो योगिभ्यो यस्तूज्वलनमम्भसि । अथ निष्कसहस्राणां फलं प्राप्नोति मानवः ॥ १६
*एतदर्धस्थान इदमर्धं ‘ दिव्यैः पुष्पैः प्रसिञ्चन्ति पूर्णवृष्टिभिरेव च ’ इति ख. ग. घ. ङ. पुस्तकेषु ।
३८
लक्षणानि सुवर्णानि श्राद्धे पात्राणि दापयेत् । रसास्तमुपतिष्ठन्ति भक्ष्याः सौभाग्यमेव च ॥ १९
२९८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८०श्लो०१७-४३]
(श्राद्धकल्पः)
जीवितस्य प्रदानाद्धि नान्यद्दानं विशिष्यते । तस्मात्सर्वप्रयत्नेन देयं प्राणाभिरक्षणम् ॥ १७
अहिंसा सर्वदेवेभ्यः पवित्रा सर्वदायिनी । दानं हि जीवितस्याऽऽहुः प्राणिनां परमं बुधाः ॥ १८
लक्षणानि सुवर्णानि श्राद्धे पात्राणि दापयेत् । रसास्तमुपतिष्ठन्ति भक्ष्याः सौभाग्यमेव च ॥ १९
पात्रं वै तैजसं दद्यान्मनोज्ञं श्राद्धभोजने । पात्रं भवति कामानां रूपस्य च धनस्य च ॥ २०
(* रजतं काञ्चनं वाऽपि दद्याच्छ्राद्धे तु कर्माणि । दत्त्वा तु लभते दाता प्रकामं धर्ममेव च ) ॥
धेनुं श्राद्धे तु यो दद्याद्गुष्टिं कुम्भोपदोहनीम् । गावस्तमुपतिष्ठन्ति गवां पुष्टिश्चतैव च ॥ २२
शिशिरेषु तथा त्वग्निं बहुकाष्ठं तथैव च । + इन्धनानि तु यो दद्याद्विजेभ्यः शिशिरागमे ॥ २३
नित्यं जयति सङ्ग्रामे श्रिया युक्तश्च दीप्यते । सुरभीणि च माल्यानि गन्धवन्ति तथैव च ॥ २४
पूजयित्वा तु पात्राणि श्राद्धे सत्कृत्य दापयेत् । गन्धवाहा महानद्यः सुखानि विविधानि च ॥ २५
दातारमुपतिष्ठन्ति युवत्यश्च मनोरमाः । शयनासनानि रम्याणि भूमयो वाहनानि च ॥ २६
श्राद्धेष्वेतानि यो दद्यादश्वमेधफलं लभेत् । श्राद्धकाले निवेद्यं च दर्शश्राद्ध उपस्थिते ॥ २७
विप्राणां गुणयुक्तानां स्मृतिं मेधां च विन्दति । सर्पिष्पूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥ २८
×कुम्भदोहनधेनूनां बह्वीनां च फलं लभेत् । अस्मिंस्तु मोदते लोके स्यन्दनेश्व सुवाहनैः ॥ २९
श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकस्य यत्फलम् । रम्यमावसथं दत्त्वा राजसूयफलं लभेत् ॥ ३०
वनं पुष्पफलोपेतं दत्त्वा सौरभमश्नुते । कूपारामतडागानि क्षेत्रघोषगृहाणि च ॥ ३१
दत्त्वैतान्मोदते स्वर्गे नित्यमाचन्द्रतारकम् । आस्तीर्णशयनं दत्त्वा राजसूयफलं लभेत् ॥ ३२
पितरस्तस्य तुष्यन्ति स्वर्गे चाऽऽनन्त्यमश्नुते । राजाभिः पूज्यते चापि धनधान्यैश्च वर्धते ॥ ३३
ऊर्णाकौशेयवस्त्राणि तथा प्रवरकम्बलो । अजिनं काञ्चनं पट्टं प्रवेणीमृगलोमकम् ॥ ३४
दानान्येतानि विप्रेभ्यो भोजयित्वा यथाविधि । प्राप्नोति श्रद्धधानस्तु वाजपेयशतं फलम् ॥ ३५
बह्वयो नार्यः सुरूपास्तु पुत्रा भृत्याश्च किंकराः । वशे तिष्ठन्ति भूतानि अस्मिँल्लोके त्वनामयम् ॥ ३६
कौशेयं क्षौमकार्पासं दुकूलमहतां तथा । श्राद्धेष्वेतानि यो दद्यात्कामानामोति पुष्कलान् ॥ ३७
अलक्ष्मीं विनुदत्याशु तमः सूर्योदये यथा । भ्राजते स विमानाग्र्ये नक्षत्रेष्विव चन्द्रमाः ॥ ३८
वासो हि सर्वदैवस्त्वभितुष्टम् । वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च ॥ ३९
तस्माद्वस्त्राणि देयानि श्राद्धकाले विशेषतः । तानि सर्वाण्यवाप्नोति यज्ञवेदतपांसि च ॥ ४०
नित्यं श्राद्धेषु यो दद्यात्प्रयत्नस्तत्परायणः । सर्वान्कामानवाप्नोति स्वर्गं राज्यं तथैव च ॥ ४१
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते । भक्ष्यान्धानाः करम्भांश्च पिष्टकाद्युन्तशर्कराः ॥ ४२
कृशरान्मधुपर्कं च पयः पायसमेव च । स्निग्धांश्च पूपान्यो दद्यादग्निष्टोमस्य यत्फलम् ॥ ४३
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + इतउत्तरमेतदर्धमधिकम् 'कायाग्निदीप्तिः प्राकाश्ये रूपं सौभाग्यमेव च' इति ख. घ. ङ. पुस्तकेषु । × एतदर्धस्थानेऽयं पाठः 'कुम्भोदोहधेनूनां बह्वीनां फलमश्नुते ' इति ख. ग. घ. ङ. पुस्तकेषु ।
[अ० ८०-८१ श्लो० ४४-६२।१] वायुपुराणम् २९९
( श्राद्धकल्पः )
दधि गव्यमसंसृष्टं भक्ष्यान्नानाविधांस्तथा । तदन्नं शोचति श्राद्धे वर्षासु च मघासु च ॥ ४४
घृतेन भोजयेद्विप्रान्वृतं भूमौ समुत्सृजेत् । गयायां हस्तिनश्चैव दत्त्वा श्राद्धे न शोचति ॥ ४५
ओदनं वायसं सर्पिर्मधुमूलफलानि च । भक्ष्यांश्च विविधान्दत्त्वा प्रेत्य चेह च मोदते ॥ ४६
शर्कराक्षीरसंयुक्तं पृथुकं नित्यमक्षयम् । स्युश्च संवत्सरं प्रीताः कृशरैर्महिषेण च ॥ ४७
सकुलाजास्तथा पूपाः कुल्माषव्यञ्जनैस्तथा । सर्पिःस्निग्धानि हृद्यानि दध्ना सक्तूंस्तु भोजयेत् ॥
श्राद्धेष्वेतानि यो दद्यात्पद्मानि लभते निधिम् ॥ ४८
नवसस्यानि यो दद्याच्छ्राद्धे सत्कृत्य यत्नतः । सर्वभोगानवाप्नोति पूज्यते च दिवं गतः ॥ ४९
भक्ष्यभोज्यानि चोष्माणि पेयलेह्यवराणि च । सर्वश्रेष्ठानि यो दद्यात्सर्वश्रेष्ठो भवेन्नरः ॥ ५०
वैश्वदेवं च सौम्यं च खाड्गमांसं परं हविः । विषाणं वर्जयेत्खाड्गं असूयां नाशयामहे ॥ ५१
भोजनेऽग्र्यासनं दद्यादातिथिभ्यः कृताञ्जलिः । सर्वयज्ञक्रियाणां स फलं प्राप्नोत्यनुत्तमम् ॥ ५२
क्षिप्रमत्युष्णमाक्लिष्टं दद्याचान्नं बुभुक्षते । व्यञ्जनं च तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः ॥ ५३
तरुणादित्यसंकाशं विमानं हंसवाहनम् । अन्नदो लभते तिस्रः कन्याकोटीस्तथैव च ॥ ५४
अन्नदानात्परं दानं विद्यते नेह किंचन । अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ॥ ५५
जीवदानात्परं दानं न किंचिदिह विद्यते । अन्नैर्जीवन्ति त्रैलोक्यमन्नस्यैव हि तत्फलम् ॥ ५६
अन्ने लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् । अन्नं प्रजापतिः साक्षात्तेन सर्वमिदं ततम् ॥
तस्मादन्नसमं दानं न भूतं न भविष्यति ॥ ५७
यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा । क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तो हि मानवः ॥ ५८
प्रतिश्रयं सदा दद्यादातिथिभ्यः कृताञ्जलिः । देवास्ते संप्रतीक्षन्ते दिव्यातिथिभिः सहस्रशः ॥ ५९
सर्वाण्येतानि यो दद्यात्पृथिव्यामेकराड्भवेत् । त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भवेत् ॥ ६०
दानानि परमो धर्मः सद्भिः सत्कृत्य पूजितः । त्रैलोक्यस्याऽऽधिपत्यं हि दानादेव व्यवस्थितम् ॥ ६१
राजा तु लभते राज्यमधनश्चोत्तमं धनम् । क्षीणायुर्लभते चाऽऽयुः पितृभक्तः सदा नरः ॥
यान्कामान्मनसाऽर्थेत तांस्तस्य पितरो ददुः ॥ ६२
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे दानफलं नामाशीतितमोऽध्यायः ॥ ८० ॥
आदितः श्लोकानां समष्ट्यङ्काः--७३२१
अथैकाशीतितमोऽध्यायः ।
श्राद्धकल्पे तिथिविशेषे श्राद्धफलम् ।
बृहस्पतिरुवाच--
अत ऊर्ध्वं प्रवक्ष्यामि श्राद्धकर्माणि पूजितम् । काम्यनैमित्तिकाजस्रं श्राद्धकर्मणि नित्यशः ॥ १
३०० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८१श्लो०२-२६] ( श्राद्धकल्पः)
पुत्रदा धनमूलाः स्युरष्टकास्तिस्र एव च । पूर्वपक्षो वरिष्ठो हि पूर्वा चित्री उदाहृता ॥ २
प्राजापत्या द्वितीया स्यात्तृतीया वैश्वदैविकी । आद्या पूपैः सदा कार्या मांसैरन्या भवेत्सदा ॥ ३
( * शाकैरन्या तृतीया स्यादेवं द्रव्यगवो विधिः । अन्वष्टका पितॄणां वै नित्यमेव विधीयते ॥ ४
यद्यन्या च चतुर्थी स्यात्तां च कुर्याद्विशेषतः । नासु श्राद्धं बुधः कुर्यात्सर्वस्वैनापि नित्यशः ॥ ५
परत्रेह च सर्वेषु नित्यमेव सुखीभवेत् । पूजकानां सदोत्कर्षो नास्तिकानामधोगतिः ॥ ६
पितरः पर्वकालेषु तिथिकालेषु देवताः । सर्वे पुरुषमायान्ति निपानमिव धेनवः ॥ ७
मा स्म ते प्रतिगच्छेयुरष्टकाः सूरपूजिताः । मोघस्तस्य भवेल्लोको लब्धं चास्य विनश्यति ॥ ८
देवांस्तु दायिनो यान्ति तिर्यग्गच्छन्त्यदायिनः । प्रजां पुष्टिं स्मृतिं मेधां पुत्रानैश्वर्यमेव च ॥ ९
कुर्वाणः पौर्णमास्यां च पूर्वं पूर्णं समश्रुते । प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ॥ १०
द्वितीयायां तु यः कुर्याद्द्विपदाधिपतिर्भवेत् । वरार्थीनां तृतीया तु शत्रुघ्नी पापनाशिनी ॥ ११
चतुर्थी कुरुते श्राद्धं शत्रोश्छिद्राणि पश्यति । पञ्चम्यां वै प्रकुर्वाणः प्राप्नोति महतीं श्रियम् ॥ १२
षष्ठ्यां श्राद्धानि कुर्वाणं द्विजास्तं पूजयन्त्युत । कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ॥ १३
महासत्रमवाप्नोति गणानामधिपो भवेत् । संपूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ॥ १४
श्राद्धं नवम्यां कुर्वाणं ऐश्वर्यं काङ्क्षितं स्त्रियम् । कुर्वन्दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ॥ १५
वेदांश्चैवाऽऽप्नुयात्सर्वान्प्रणाशमेन सस्तथा । एकादश्यां परं दानमैश्वर्यं सततं तथा ॥
द्वादश्यां राष्ट्रलाभं तु जयमाहुर्वसूनि च ॥ १६
प्रजां बुद्धिं पशून्मेधां स्वातन्त्र्यं पुष्टिमूत्तमाम् । दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ॥ १७
युवानश्च मृता यस्य गृहे तेषां प्रदापयेत् । शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्दशीम् ॥ १८
तथा विषमजातानां यमलानां तु सर्वशः । अमावास्यां प्रयत्नेन श्राद्धं कुर्याच्छुचिः सदा ॥ १९
सर्वान्कामानवाप्नोति स्वर्गमानन्त्यमश्नुते । ऋतं दद्यादमावास्यां सोममाप्यायनं महत् ॥ २०
एवमाप्यायितः सोमस्त्रींल्लोकान्धारयिष्यति । सिद्धचारणगन्धर्वैः स्तूयमानस्तु नित्यशः ॥ २१
स्तवैः पुष्पैर्मनोज्ञैश्च सर्वकामपरिच्छदैः । नृत्यवादित्रगीतैश्च अप्सरोभिः सहस्रशः ॥ २२
उपक्रीडैर्विमानैस्तु पितृभक्तं दृढव्रतम् । स्तुवन्ति देवगन्धर्वाः सिद्धसंघाश्च तं सदा ॥ २३
पितृभक्तस्त्वमावस्यां सर्वान्कामानवाप्नुयात् । प्रत्यक्षमर्चितास्तेन भवन्ति पितरः सदा ॥ २४
पितृदेवा मघा यस्मात्तस्माच्चास्वक्षयं स्मृतम् । पित्र्यं कुर्वन्ति तस्यां तु विशेषेण विचक्षणाः ॥ २५
तस्मान्मघां वै वाञ्छन्ति पितरो नित्यमेव हि । पितृदैवतभक्ता ये तेऽपि यान्ति परां गतिम् ॥ २६
इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे तिथिविशेषे श्राद्धफलवर्णनं नामैकाशीतितमोऽध्यायः॥८१॥
आदितः श्लोकानां समष्ट्यङ्काः-७३४७
* धनुश्चिह्नान्तर्गतग्रन्थः ग. पुस्तके नास्ति ।
[अ० ८१-८२ श्लो० १-१५।] वायुपुराणम् । ३०१ (श्राद्धकल्पः)
अथ द्व्यशीतितमोऽध्यायः ।
श्राद्धकल्पे नक्षत्रविशेषे श्राद्धफलम् ।
बृहस्पतिरुवाच-- यमस्तु यानि श्राद्धानि प्रोवाच शिवविन्दवे । तानि मे शृणु कात्स्न्र्येन नक्षत्रेषु पृथक्पृथक् ॥ १ श्राद्धं यः कृत्तिकायोगे करोति सततं नरः । अग्नीनाधाय सापत्यो जायते स गतज्वरः ॥ २ अपत्यकामो रोहिण्यां सौम्येनाौजस्विता भवेत् । प्रायशः क्रूरकर्मा तु चाऽऽर्द्रायां श्राद्धमाचरेत् ॥ ३ क्षेत्रभागी भवेत्पुत्री श्राद्धं कुर्वन्पुनर्वसौ । धनधान्यसमाकीर्णः पुत्रपौत्रसमाकुलः ॥ ४ तुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः । आश्लेषासु पितॄनर्च्य वीरान्पुत्रानवाप्नुयात् ॥ ५ श्रेष्ठो भवति ज्ञातीनां मघासु श्राद्धमाचरन् । फाल्गुनीषु पितॄनर्च्य सौभाग्यं लभते नरः ॥ ६ प्रधानशीलः सापत्य उत्तरासु करोति यः । स सत्सु मुख्यो भवति हस्ते यस्तर्पयेत्पितॄन् ॥ ७ चित्रायां चैव यः कुर्यात्पश्येदूपवतः सुतान् । स्वातिना चैव यः कुर्याद्विद्वाँल्लाभमवाप्नुयात् ॥ ८ पुत्रार्थं तु विशाखासु श्राद्धमीहेत मानवः । अनुराधासु कुर्वाणो नरश्चक्रं प्रवर्तयेत् ॥ ९ आधिपत्यं लभेच्छ्रैष्ठ्यं ज्येष्ठायां सततं तु यः । मूलेनाऽऽरोग्यमिच्छन्ति आषाढासु महद्यशः ॥ १० आषाढाभिश्चोत्तराभिर्वीतशोको भवेन्नरः । श्रवणेन तु लोकेषु प्राप्नुयात्परमां गतिम् ॥ ११ राजभाग्वै धनिष्ठासु प्राप्नुयाद्विपुलं धनम् । श्राद्धं त्वाभिजिता कुर्वन्वेदान्साङ्गानवाप्नुयात् ॥ १२ नक्षत्रे वारुणं कुर्वन्भिषक्सिद्धिमवाप्नुयात् । पूर्वे प्रोष्ठपदे कुर्वन्विन्देतेऽजाविकं फलम् ॥ १३ उत्तरास्वनतिक्रम्य विन्देद्वाश्व सहस्रशः । बहुरूपकृतं द्रव्यं विन्देत्कुर्वंस्तु रेवतीम् ॥ अश्वांश्चैवाऽश्विनीयुक्तो भरण्यामायुरुत्तमम् ॥ १४ इमं श्राद्धविधिं कुर्वञ्शशबिन्दुर्महीमिमाम् । *कृत्स्नां तु लेभे स कृत्स्नां लब्ध्वा च प्रशशांस तम् ॥ १५
इति श्रीमहापुराणे वायुप्रोक्ते नक्षत्रविशेषे श्राद्धफलवर्णनं नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥ आदितः श्लोकानां समष्ट्यङ्काः--७३६२
अथ त्र्यशीतितमोऽध्यायः ।
श्राद्धकल्पे भिन्नकालिकतृप्तिसाधनद्रव्यविशेषगयाश्राद्धादिफल- ब्राह्मणपरीक्षादिकथनम् ।
( + शंयुरुवाच-- किंचिद्दत्तं पितॄणां तु धिनोति वदतां वर । किं हि स्विच्चिररात्राय किं चाऽऽनन्त्याय कल्प्यते ॥ ) १
* एतदर्धस्थान इदमर्धम्-‘कृत्स्नां सलभतोत्कृष्टां लब्ध्वा च प्रशशास ताम् इति' ङ. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
३०२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०८२श्लो०२–२७] (श्राद्धकल्पः)
बृहस्पतिरुवाच– हवींषि श्राद्धकाले तु यानि श्राद्धविदो विदुः । तानि मे शृणु सर्वाणि फलं चैषां यथाबलम् ॥ २ तिलैर्व्रीहिर्यवैर्माषैरद्भिर्मूलफलेन च । दत्तेन मासं प्रीयन्ते श्राद्धेन तु पितामहाः ॥ ३ मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु । शाशं तु चतुरो मासान्पञ्च प्रीणाति शाकुनम् ॥ ४ वाराहेण तु षण्मासांश्छागलं सप्तमासिकम् । अष्टमासिकमित्युक्तं यच्च पार्वतकं भवेत् ॥ ५ रौरवेण तु प्रीयन्ते नव मासान्पितामहाः । गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ ६ कौर्मस्य चैव मांसेन मासानेकादशैव तु । श्राद्धमेवं विजानीयाद्गव्यं संवत्सरं भवेत् ॥ ७ तथा गव्यसमायुक्तं पायसं मधुसर्पिषा । वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ८ आनन्त्याय भवेद्युक्तं खाड्गमांसैः पितृक्षये । कृष्णच्छागस्तथा गोधा अनन्त्यायैव कल्प्यते ॥ ९ अत्र गाथाः पितृगीताः कीर्तयन्ति पुराविदः । तास्तेऽहं संप्रवक्ष्यामि यथावत्सन्निबोधत ॥ १० अपि नः स्वकुले जायाद्योऽन्नं दद्यात्त्रयोदशीम् । पायसं मधुसर्पिभ्यां छायायां कुञ्जरस्य तु ॥ ११ आजेन सर्वलोहेन वर्षासु च मघासु च । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ * गौरीं वाऽप्युद्वहेद्भार्यां नीलं वा वृषमुत्सृजेत् ॥ १२
शंयुरुवाच– गयादीनां फलं तात प्रब्रूहि मम पृच्छतः । पितॄणां चैव यत्पुण्यं निखिलेन ब्रवीहि मे ॥ १३
बृहस्पतिरुवाच– ( अब्दमध्ये गयाश्राद्धं यः करोति च मानवः । सर्वान्कामान् लभते स्वर्गलोके महीयते ॥ १४ यदि पुत्रो गयां गच्छेद्वच्छ्राद्धं कुर्यादतन्द्रितः । कामान् लभते दिव्यान्मोक्षोपायं च विन्दति ॥ १५ उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । विधाय कर्पटीवेषं ग्रामस्यापि प्रदक्षिणम् ॥ १६ ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् । कृत्वा प्रदक्षिणं गच्छेत्प्रतिग्रहविवर्जितः ॥ १७ केशश्मश्रुनखादीनां वपनं न प्रशस्यते । अतो न कार्यं वपनं श्राद्धार्थी ना गयासदा(?) ॥ १८ वित्तशाठ्यं न कुर्वीत गयाश्राद्धे सदा नरः । वित्तशाठ्यं तु कुर्वाणो न तीर्थफलभाग्भवत् ॥ १९ ब्रह्मकुण्डे प्रभासे च ब्रह्मवेद्यां तथैव च । प्रेतपर्वतमासाद्य श्राद्धं कुर्याद्विधानतः ॥ २० उत्तरे मानसे चैव यन्न मैनाकसंज्ञकाः । उदीच्यां कनकखले चैव दक्षिणे मानसे तथा ॥ २१ स्नात्वा कृत्वा तथा श्राद्धं पितृलोकं समुद्धरेत् । स्वर्गपातालमर्त्येषु नास्ति तीर्थसमं भुवि ॥ २२ तेषु श्राद्धं प्रकुर्वीत यदिच्छेत्परमां गतिम् । धर्मारण्यं ततो गच्छेद्दाद्यं दृष्ट्वा गदाधरम् ॥ २३ मतङ्गे स पुनर्दृष्ट्वा बुद्धा नारायणं तथा । श्राद्धं कृत्वा विधानेन कुलकोटीः समुद्धरेत् ॥ २४ यदि पुत्रो गयां गच्छेत्कदाचित्कालपर्ययात् । तानेव भोजयेद्विप्रान्ब्राह्मणा ये प्रकल्पिताः ॥ २५ अमानुषतया विप्रा ब्राह्मणा ये प्रकल्पिताः । तेषु तुष्टेषु संतुष्टाः पितृभिः सह देवताः ॥ २६ न विचार्यं कुलं शीलं विद्यां च तप एव च । पूजितैस्तैस्तु राजेन्द्र मुक्तिं प्राप्नोति मानवः ॥ २७
* इदमर्धं नास्ति घ. पुस्तके । + अब्दमध्य इत्यारभ्यः दद्याद्विचक्षण इत्यन्तग्रन्थ ख. पुस्तके वर्ततेऽत्रैव स्थले गयामाहात्म्यमपि तत्रिचत्वारिंशाध्यायादुपरितनं द्रष्टव्यम् ।
[अ०८२श्लो०२८-५५] वायुपुराणम् । ३०३
( श्राद्धकल्पः )
ततः प्रवर्तयेच्छ्राद्धं यथाशक्तिबलाबलम् । कामान्स लभते दिव्यान्मोक्षोपायं च विन्दति ॥ २८
सवर्णा जातयो मित्रा बान्धवाः सुहृदश्च ये । तेभ्यो भूप गयाकूपे पिण्डा देया विधानतः ॥ २९
तेऽपि यान्ति दिवं सर्वे पिण्डदा इति नः श्रुतम् । अज्ञातनामगोत्राणां मन्त्र एष प्रकीर्तितः ॥ ३०
पितृवंशे समुत्पन्ना मातृवंशे तथैव च । गुरुश्वशुरबन्धूनां ये चान्ये बान्धवास्तथा ॥ ३१
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः । विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ॥ ३२
क्रियालोपगता ये च ये चान्ये गर्भसंस्थिताः । तेभ्यो दत्तो मया पिण्डो ह्यक्षय्यमुपतिष्ठताम् ॥ ३३
आत्मनस्तु महाबुद्धे गयायां तु तिलैर्विना । पिण्डानिर्वपणं कुर्यात्तथा चान्येऽत्र गोत्रजाः ॥ ३४
पुत्रेभ्योऽपि दुहितृभ्य इष्टेभ्योऽपि च सर्वशः । दद्यात्पिण्डं प्रयत्नेन बुद्धिमान्सुसमाहितः ॥ ३५
त्रिदिवं यान्ति ते सर्वे पिण्डदा इति च श्रुतिः । ब्रह्महा च कृतघ्नश्च महापातकिनश्च ये ॥ ३६
ते सर्वे निष्कृतिं यान्ति गयायां पिण्डपातनात् । ब्रह्मघ्नस्य सुरापस्य बालवृद्धगुरुद्रुहः ॥ ३७
नाशमायाति वै पापं गयायामनुयाति यः । यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥ ३८
दुर्लभं त्रिषु लोकेषु नास्ति तीर्थं गयासमम् । नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ॥ ३९
अपि नस्वे भविष्यन्ति कुले सन्मार्गशालिनः । गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥ ४०
मकरे वर्तमाने तु ग्रहणे चन्द्रसूर्ययोः । प्रेतपक्षे च चैत्रे च दुर्लभं पिण्डपातनम् ॥ ४१
अधिमासे जन्मदिने चास्ते च गुरुशुक्रयोः । न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ ॥
गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः ) ॥ ४२
( *गयायामक्षयं श्राद्धं जपहोमतपांसि च । पितृक्षयाहे ते पुत्र तस्मात्तत्राक्षयं स्मृतम् ॥ ४३
पुनीयादेकविंशं तु गौर्यामुत्पादितः सुतः । मातामहांस्तु षड्भूय इति तस्य फलं स्मृतम् ॥ ४४
फलं वृषस्य वक्ष्यामि गदतो मे निबोधत । वृषोत्सृष्टा पुनात्येव दशातीतान्दशावरान् ॥ ४५
यत्किंचित्स्पृश्यते तोयैरुत्तीर्णेन जलान्महिषि । वृषोत्सर्गे पितॄणां तु अक्षयं समुदाहृतम् ॥ ४६
यद्वाङ्गं संस्पृशेत्तोयं लाङ्गूलादिभिरन्ततः सर्वं तदक्षयं तस्म पितॄणां नात्र संशयः ॥ ४७
शृङ्गे खुरैर्वा यद्भूमिमुल्लिखत्यानिशं वृषः । मधुकुल्याः पितृस्तस्य अक्षयास्ता भवन्ति वै ॥ ४८
(× सहस्त्रनलमात्रेण तडाकेन यथा श्रुतिः । तृप्तिस्तृप्तिः पितॄणां वै तद्वृषस्याधिकोच्यते ॥ ४९
यो ददाति गुडैर्मिश्रांस्तिलान्वै श्राद्धकर्मणि । मधुना मधुमिश्रान्वा अक्षयं सर्वमेव तत् ॥ ५०
बृहस्पतिरुवाच--)
न ब्राह्मणान्परीक्षेत सदा देये तु मानवः । दैवे कर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ॥ ५१
सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः । ये च भाष्यविदो मुख्या ये च व्याकरणे रताः ॥ ५२
अधीयते पुराणं च धर्मशास्त्रं तथैव च । त्रिणाचिकेतपञ्चाग्नित्रिसुपर्णः षडङ्गवित् ॥ ५३
ब्रह्मदेयसुतश्चैव छन्दोगो ज्येष्ठसामगः । पुण्येषु येषु तीर्थेषु अभिषेककृतव्रताः ॥ ५४
मुख्येषु येषु सत्रेषु भवन्त्यवभृथप्लुताः । ये च सद्योव्रता नित्यं स्वकर्मनिरताश्च ये ॥
अक्रोधनाः शान्तिपरास्तान्वै श्राद्धे निमन्त्रयेत् ॥ ५५
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । × धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
३०४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०८२श्लो०५६-८३] (श्राद्धकल्पः)
[+ये चापि नित्यं दशसु सुकृतेषु व्यवस्थिताः। *स्वकर्मनिरता नित्यं ताञ्श्राद्धेषु निमन्त्रयेत्॥ ५६ एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः। श्रद्धया ब्राह्मणा ये तु योगधर्ममनुव्रताः॥ ५७ धर्माश्रमवरिष्ठास्ते हव्यकव्येषु ते वराः। त्रयोऽपि पूजितास्तेन ब्रह्माविष्णुमहेश्वराः॥ ५८ पितृभिः सह लोकांश्च यो ह्येतान्पूजयेन्नरः। पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम्॥ ५९ प्रथमः सर्वधर्माणाम योगधर्मो निगद्यते। अपाङ्क्तेयांस्तु वक्ष्यामि गदतो मे निबोधत॥ ६० कितवो पद्यपो यक्ष्मी पशुपालो निराकृतिः। ग्रामैष्यो वार्धुषिको गायनो वाणिजस्तथा॥ ६१ अगारदाही गरदः कुण्डाशी सोमविक्रयी। समुद्रयायी दुश्चर्मा तौलिकः कूटकारकः॥ ६२ पित्रा विवदमानश्च यस्य चोपपतिर्गृहे। अभिशस्तस्तथा स्तेनः शिल्पैर्यश्चोपजीवति॥ ६३ सूचकः पर्वकारी च यस्तु मित्रेषु द्रुह्यति। गणयाचनकश्चैव नास्तिको वेदवर्जितः॥ ६४ उन्मत्तः षण्डकशठौ भ्रूणहा गुरुतल्पगः। भिषक्कूजीवः मैषाणिकः परस्त्रीं यश्च गच्छति॥ ६५ विक्रीणाति च यो ब्रह्म व्रतानि च तपांसि च। नष्टं स्यान्नास्तिके दत्तं कृतघ्ने चैव शंसके॥ ६६ यच्च वाणिजके चैव नेह नामुत्र तद्भवेत्। निक्षेपहारिणे चैव कितवे वेदानिन्दके॥ ६७ तथा वाणिजके चैव कारुके धर्मवर्जिते। निन्दन्क्रीणाति पण्यानि विक्रीणंश्च प्रशंसति॥ ] ६८ अनृतस्य समावासो न वाणीक्श्राद्धमर्हति। भस्मनीव हुतं हव्यं दत्तं पौनर्भवे द्विजे॥ ६९ षष्टिं काणः शतं षण्डः श्वित्री यावत्प्रपश्यति। पापरोगी सहस्रस्य दातुर्नाशयते फलम्॥ ७० भ्रश्यते सत्फलात्तस्माद्दाता यस्य तु बालिशः। यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः॥ ७१ सोपानत्कश्च यो भुङ्क्ते यच्च दद्यात्तिरस्कृतम्। सर्वं तदसुरेन्द्राणां ब्रह्मा भागमकल्पयत्॥ ७२ श्वानश्च यातुधानाश्च नावेक्षेरन्कथंचन। तस्मात्परिवृतिं दद्यात्तिलैश्चान्ववकिरयन्॥ ७३ राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतिस्तथा। दर्शनात्सूकरो हन्ति पक्षपातेन कुक्कुटः॥ ७४ न प्रीणाति पितॄन्देवात्स्वर्गं न च स गच्छति॥ ७५ नदीतीरेषु रम्येषु सरित्सु च सरस्सु च। विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः॥ ७६ न चाश्रु पातयेज्जातु न युक्तो वाचमीरयेत्। न च कुर्वीत भुञ्जानो ह्यन्योन्यं मत्सरं तदा॥ ७७ अपसव्ये कृते तेन विधिवद्धर्मपाणिना। पित्र्यमानिधनं कार्यमेवं प्रीणाति वै पितॄन्॥ ७८ अनुमत्याऽऽदितौ विप्रानग्नौ कुर्याद्यथाविधि। पितॄणां निर्वपेद्भूमौ सूर्पे वा दर्भसंस्तरे॥ ७९ शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः। कृष्णपक्षेऽपराह्णे तु रौहिणं न विलङ्घयेत्॥ ८० एवमेते महात्मानो महायोगा महौजसः। सदा वै पितरः पूज्या द्रष्टारो देशकालयोः॥ ८१ पितृभक्तिरतो नित्यं योगं प्राप्नोत्यनुत्तमम्। ध्यानेन मोक्षं गच्छन्ति हित्वा कर्म शुभाशुभम्॥ ८२ यज्ञहतोर्यदुद्धृत्य मोहयित्वा जगत्तदा। गुहायां निहितं योगं कश्यपेन महात्मना॥ ८३
- धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । * इदमर्धं नास्ति क. पुस्तके ।
[अ० ८३ श्लो० ८४-१०५] वायुपुराणम् । ३०५
( श्राद्धकल्पः )
अमृतं गुह्यमुद्धृत्यं योगं योगविदांवर । प्रोक्तं सनत्कुमारेण महान्तं धर्मशाश्वतम् ॥ ८४
देवानां परमं गुह्यमृषीणां च परायणम् । पितृभक्त्या प्रयत्नेन पितृभक्तैश्च नित्यशः ॥ ८५
तं च योगं समासेन पितृभक्तस्तु कृत्स्नशः । प्रयत्नात्प्राप्नुयात्तत्र सर्वमेव न संशयः ॥ ८६
यस्मै श्राद्धानि देयानि यच्च दत्तं महाफलम् । येषु वाऽप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ॥
येषु च स्वर्गमाप्नोति तत्ते प्रोक्तं ससंग्रहम् ॥ ८७
बृहस्पतिरुवाच --
श्रुतैवं श्राद्धकल्पं तु योऽसूयां कुरुते नरः । स मज्जेन्नरके घोरे नास्तिकस्तमसाऽऽवृतः ॥ ८८
महारोगावसायस्तु स यः संयतमानसः । वेदाश्रमान्मुक्तचित्तः कुम्भीकानधिगच्छति ॥
जिह्वाच्छेदं स्तेनमेत्य प्राप्नुयुस्तेन चैव ह ॥ ८९
सीदन्ति ते सागर लोष्ठभूता योगद्विषः स्थास्यन्ते यावदुर्वी ॥
तस्माच्छ्राद्धे धर्म उद्दिष्ट एष नित्यं कार्यः श्रद्दधानेन पुंसा ॥ ९०
परिवादो न कर्तव्यो योगिनां च विशेषतः । परिवादाल्लक्ष्मिर्भूत्वा तत्रैव परिवर्तते ॥ ९१
योगं परिवदेद्यस्तु ध्वानिनां मोक्षकारणम् । स गच्छेन्नरकं घोरं श्रोता यश्च न संशयः ॥ ९२
आवृतं तमसा सर्वं घोरदर्शनम् । योगेश्वरपरीवादान्निश्चयं याति मानवः । ९३
योगेश्वराणायाक्रोशं शृणुयाद्यो यतात्मनाम् । स हि कालं चिरं मज्जेत्कुम्भीपाके न संशयः ॥ ९४
मनसा कर्मणा वाचा द्वेषं योगिषु वर्जयेत् । प्रेत्यान्यं तत्फलं भुङ्क्ते इह चैव न संशयः ॥ ९५
न पारगो विन्दति पारमात्मनस्त्रिलोकध्ये चरति स्वकर्मभिः ।
ऋचो यजुः साम तदङ्गपारगो विकारमेवं ह्येनवाप्य सदिति ॥ ९६
विकारपारः प्रकृतेश्च पारगस्त्रयीगुणानां त्रिगुणान्तपारगः ।
तत्त्वं चतुर्विंशतियोगपारगः स पारगो यस्त्वयनान्तपारगः ॥ ९७
कृत्स्नं यथा तत्त्वविसर्गमात्मनस्तथैव भूयः प्रलयं सदाऽऽत्मनः ।
प्रत्याहरेद्योगबलेन योगवित्स सर्वपारक्रमयानगोचरः ॥ ९८
वेदस्य वेदिता यो वै वेद्यं विन्दति योगवित् । तं वै वेदविदं प्राहुस्तं प्राहुर्वेदपारगम् ॥ ९९
वेद्यं च वेदितव्यं च विदित्वा वै यथाविधि । एवं वेदविदं प्राहुस्ततोऽन्ये वेदचिन्तकाः ॥ १००
यज्ञान्वेदांस्तथा कामान्ज्ञानानि विविधानि च । प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो धनानि च ॥ १०१
श्राद्धे यः श्राद्धकल्पं वै यस्त्विमं नियतं पठेत् । सर्वाण्येतान्यवाप्नोति तीर्थे दानफलानि च ॥ १०२
स पङ्क्तिपावनश्चैव द्विजानामग्रभुग्भवेत् । अध्याप्य वा द्विजान्सर्वान्सर्वान्कामानवाप्नुयात् ॥ १०३
यश्चैव शृणुयान्नित्यमानन्त्यं स्वर्गमश्नुते । अनसूयो जितक्रोधो लोभमोहविवर्जितः ॥ १०४
तीर्थानां च फलं कृत्स्नं दानादीनां तथैव च । मोक्षोपायो जितक्रोधो ह्ययं श्रेष्ठः स्वर्गोपायो ह्ययं परः॥
इह चापि परा तुष्टिस्तस्मात्कुर्वीत यत्नतः ॥ १०५
३९
अपत्यभाग्भवति परेण तेजसा दिवौकसां स व्रजते सलोकताम् ॥ १०६
३०६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८३श्लो०१०६-१२९] ( श्राद्धकल्पः)
इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसंधिषु । अपत्यभाग्भवति परेण तेजसा दिवौकसां स व्रजते सलोकताम् ॥ १०६ येन प्रोक्तोस्त्वयं कल्पो नमस्तस्मै स्वयंभुवे । महायोगेश्वरेभ्यश्च सदा च प्रणतो ह्यहम् ॥ १०७ इत्येते पितरस्तात देवानामपि देवताः । सप्तस्वेतेषु ते नित्यं स्थानेषु पितरोऽव्यथाः ॥ १०८ प्रजापतिसुता ह्येते सर्वे चैव महात्मनः । आद्यो गणस्तु योगानां स नित्यो योगवर्धनः ॥ १०९ द्वितीयो देवतानां नु तृतीयो देवतागणिाम् । शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः ॥ ११० देवास्त्वेतान्यजन्ते वै सर्वेष्वेतेष्वव्यवस्थिताः आश्रमास्तु यजन्त्येतांश्चत्वारस्तु यथाक्रमम् ॥ १११ वर्णाश्चापि यजन्त्येतांश्चत्वारस्तु यथाविधि । तथा संकरजाताश्च म्लेच्छाश्चैव यजन्ति वै ॥ ११२ पितॄंश्च यो यजेद्भक्त्या पितरः पूजयन्ति तम् । पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः ॥ पुष्टिं प्रजाश्च स्वर्गं च प्रयच्छन्ति पितामहाः ॥ ११३ देवकार्यादपि सूनो पितृकार्यं विशिष्यते । देवतानां हि पितरः पूर्वमाप्यायनं स्वयम् ॥ ११४ न हि योगगतिः सूक्ष्मा पितॄणां च परा गतिः । तपसा विप्रकृष्टेन दृश्यते मांसचक्षुषा ॥ ११५ सर्वेषां रजतं पात्रमथवा रजतान्वितम् । पावनं सुत्तमं प्रोक्तं देवानां पितृभिः सह ॥ ११६ येषां दास्यन्ति पिण्डांस्त्रीन्बान्धवा नामगोत्रतः । भूमौ कुशोत्तरायां च अपसव्यविधानतः ॥ ११७ सर्वत्र वर्तमानांस्ते पिण्डाः प्रीणन्ति वै पितॄन् । यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते ॥ ११८ यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् । तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठते ॥ ११९ नाम गोत्रं च मन्त्रश्च दत्तमन्नं नयन्ति तम् । अपि योनिशतं प्राप्तांस्तृप्तिस्ताननुगच्छति ॥ १२० एवमेषा स्थिता संस्था ब्रह्मणा परमेष्ठिना । पितॄणामादिसर्गस्तु लोकानामक्षयार्थिनाम् ॥ १२१ इत्येते पितरो देवा देवाश्च पितरः पुनः । दौहित्रा यजमानाश्च प्रोक्ताश्चैव मयाऽनघाः ॥ १२२ लोका दुहितरश्चैव दौहित्राश्च सुतास्तथा । दानानि सह शौचेन तीर्थानि च फलानि च ॥ १२३ अक्षयत्वं द्विजाश्चैव यायावरविधिस्तथा । प्रोक्तं सर्वं यथान्यायं यथा ब्रह्माऽब्रवीत्पुरा ॥ १२४
बृहस्पतिरुवाच--
इत्येतदङ्गिराः प्राह ऋषीणां शृण्वतां तदा । पृष्टस्तु संशयं सर्वं पितॄणां प्राह संसदि ॥ १२५ सत्रे वै वितते पूर्वं तदा वर्षसहस्रिके । यस्मिन्गृहपतिर्ह्यासीद्ब्रह्मा वै देवता प्रभुः ॥ १२६ संवत्सरशतान्पञ्च तत्रोपेता इति श्रुतिः । श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ॥ १२७ दीक्षितस्य तदा सत्रे ब्रह्मणः परमात्मनः । तत्रैव जातमत्युग्रं पितॄणामक्षयार्थिनाम् ॥ लोकानां च हितार्थाय ब्रह्मणा परमेष्ठिना ॥ १२८
सूत उवाच--
एवं बृहस्पतिः पूर्वं पृष्टः पुत्रेण धीमता । प्रोवाच पितृवंशं तु यत्तद्वै समुदाहृतम् ॥ अत ऊर्ध्वं प्रवक्ष्यामि वरुणस्य निबोधत ॥ १२९
इति महापुराणे वायुप्रोक्ते श्राद्धकल्पे त्र्यशीतितमोऽध्यायः ॥ ८३ ॥
आदितः श्लोकानां समष्ट्यङ्काः--७४९१
[अ० ८४ श्लो० १-२५] (श्राद्धकल्पः)
वायुपुराणम् ।
३०७
अथ चतुरशीतितमोऽध्यायः ।
श्राद्धकल्पे वरुणवंशवर्णनम् ।
ऋषयश्चैवमुक्तास्तु परं हर्षमुपागताः । परं शुश्रूषवो भूयः पप्रच्छुस्तदनन्तरम् ॥ १ ऋषय ऊचुः-- वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् । स्थितिं चैषां प्रभावं च ब्रूहि नः परिपृच्छताम् ॥ २ एवमुक्तस्ततः सूतस्तथाऽसौ लोमहर्षणः । शुश्रूषामुत्तराख्याने ऋषीणां वाक्यकोविदः ॥ ३ आख्यानकुशलो भूयः परं वाक्यमुवाच ह । सूत उवाच-- ब्रुवतो मे निबोधस्व ऋषिराह यथा मम ॥ ४ वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् । स्थितिं चैव प्रभावं च ब्रुवतो मे निबोधत ॥ ५ वरुणस्य पत्नी सामुद्री शुनादेवीत्युदाहृता । तस्याः पुत्रौ कलिर्वैद्यः सुता च सुरसुन्दरी ॥ ६ कलिपुत्रौ महावीर्यौ जयश्च विजयश्च ह । वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ ॥ ७ प्रजानामत्तुकामानामन्योन्यस्य प्रभाक्षिणौ । भक्षयित्वा तावन्योन्यं विनाशं समवापतुः ॥ ८ कलिः सुरायां संजज्ञे तस्य पुत्रो मदः स्मृतः । त्वाष्ट्री हिंसा कलेर्भार्या ज्येष्ठा या निकृतिः स्मृता ॥ असूतान्यान्कलेः पुत्रांश्चतुरः पुरुषादकान् । नाकं विघ्नं च विख्यातं सद्रमं विधमं तथा ॥ १० अशिरस्कस्तयोर्विघ्नो नाकश्चावाशरीरवान् । सद्रमश्चैकहस्तोऽभूद्विधमश्चैकपात्स्मृतः ॥ ११ सद्रमस्य तथा पत्नी तामसी पूतना स्मृता । रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ॥ १२ नाकस्य शकुनिः पत्नी विघ्नस्य च अयोमुखी । राक्षसास्तु महारौद्राः संध्याद्वयविचारिणः ॥ १३ रेवतीपूतनापुत्रा नैर्ऋता नामतः स्मृताः । ग्रहास्ते राक्षसाः सर्वे बालानां तु विशेषतः ॥ स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमते प्रभुः ॥ १४ बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नममसक्ता चरेत सदा ॥ १५ प्रभातस्य तु सा भार्या वसूनामष्टमस्य तु । विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ॥ १६ त्वष्टा विराजा रूपाणां धर्मपौत्र उदारधीः । कर्ता शिल्पसहस्राणां त्रिदशानां च वास्तुकृत् ॥ १७ यः सर्वेषां विमानानि देवतानां चकार ह । मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ १८ प्रह्लादी विश्रुता तस्य त्वष्टुः पत्नी विरोचना । विरोचनस्य भगिनी माता त्रिशिरसस्तु सा ॥ १९ देवाचार्यस्य महतो विश्वकर्माऽस्य धीमतः । विश्वकर्मात्मजश्चैव विश्वकर्मा मयः स्मृतः ॥ २० सुरेणुरिति विख्याता स्वसा तस्य यवीयसी । त्वाष्ट्री सा सवितुर्भार्या पुनः संज्ञेति विश्रुता ॥ २१ असूत तपसा सा तु मनुं ज्येष्ठं विवस्वतः । यमौ पुनरसूतौसौ यमं च यमुनां च ह ॥ २२ सा तु गत्वा कुरुन्देवी वडवारूपधारिणी । सवितुश्चाश्वरूपस्य नासिकाभ्यां तु तौ स्मृतौ ॥ २३ असूत सा महाभागा त्वन्तरिक्षेऽश्विनौ किल । नासत्यं चैव दस्रं च मार्तण्डस्याऽऽत्मजावुभौ ॥ २४ ऋषय ऊचुः-- कस्मान्मार्तण्ड इत्येष विवस्वानुच्यते बुधैः । किमर्थं साऽश्वरूपा वै नासिकाभ्यामसूयत ॥ एतद्वेदितुमिच्छामस्तत्त्वं विब्रूहि पृच्छताम् ॥ २५
३०८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८४श्लो०२६-५२] (श्राद्धकल्पः)
सूत उवाच-- चिरोत्पन्नमतिर्भिन्नमण्डं त्वष्ट्रा विदारितम् । दृष्ट्वा गर्भबधाद्धीतः कश्यपो दुःखितोऽभवत् ॥ २६ अण्डे द्विधाकृते त्वण्डं दृष्ट्वा त्वष्टारमब्रवीत् । नैतदण्डं भवान्नूनं मार्तण्डस्त्वं भवानघ ॥ २७ न खल्वयं मृतोऽण्डस्थ इति स्नेहात्पिताऽब्रवीत् । तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरत् ॥ २८ यन्मार्तण्डो भवेत्युक्तः पित्राऽण्डे वै द्विधा कृते । तस्माद्दिवस्वान्मार्तण्डः पुराणज्ञैर्विभाष्यते ॥ २९ ततः प्रजाः प्रवक्ष्यामि मार्तण्डस्य विवस्वतः । विजज्ञे सवितुः संज्ञाभार्यायां तु त्रयं पुरा ॥ ३० मनुर्यवीयान्सावर्णिः संज्ञायां च तथाऽश्विनौ । शनैश्चरश्च सप्तैते मार्तण्डस्याऽऽत्मजाः स्मृताः ॥ ३१ विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां महायशाः । तस्य भार्याऽभवत्त्वाष्ट्री महादेवी विवस्वतः ॥ सुरेणुरिति विख्याता पुनः संज्ञेति विश्रुता ॥ ३२ सा तु भार्या भगवतो मार्तण्डस्यातितेजसः । नातुष्यद्भर्तुरूपेण रूपयौवनशालिनी ॥ ३३ आदित्यस्य हि तद्रूपं मार्तण्डस्य हि तेजसा । गात्रेषु प्रतिरुद्धं वै नातिकान्ताभिभाववत् ॥ ३४ न खल्वयं मृतो ह्यण्डे इति स्नेहात्तमब्रवीत् । अज्ञानः कश्यपः स्नेहान्मार्तण्ड इति चोच्यते ॥ ३५ तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः । येनापि तापयामास त्रीँल्लोकान्कश्यपात्मजः ॥ ३६ त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः । द्वौ सुतौ तु महावीर्यौ कन्यां कालिन्दिमेव च ॥ ३७ मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ततो यमो यमी चैव यमजौ संबभूवतुः ॥ ३८ शातवर्णं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः । असहन्ती स्वकां छायां सवर्णां निर्ममे पुनः ॥ ३९ महीमयी तु सा नारी तस्याश्छायासमुद्गता । प्राञ्जालिः प्रयता भूत्वा पुनः संज्ञामभाषत ॥ ४० वदस्व किं मया कार्यं सा संज्ञा तामथाब्रवीत् । अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ॥ ४१ त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया । इमौ च बालको मह्यं कन्या च वरवर्णिनी ॥ ४२ भर्त्रे वै नैवमाख्येयमिदं भगवते त्वया । एवमुक्ताऽब्रवीत्संज्ञां संज्ञा या पार्थिवी तु सा ॥ ४३ आकेशग्रहणाद्देवि आशयं नैव कर्हिचित् । आख्यास्यामि मतं तुभ्यं गच्छ देवि स्वमालयम् ॥ ४४ समाधाय च तां संज्ञा तथेत्युक्तां तया च सा । त्वष्टुः समीपमगमद्ब्रीडितेव तपस्विनी ॥ ४५ पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत् । भर्तुः समीपं गच्छ त्वं मा जुगुप्स दिवाकरम् ॥ ४६ सैवमुक्ता तदा पित्रा नियुक्ता च पुनः पुनः । वर्षाणां तु सहस्रं वै वसति स्म पितुर्गृहे ॥ ४७ भर्तुः समीपं गच्छ त्वं नियुक्ता च पुनः पुनः । अगमद्वडवा भूत्वाऽऽच्छाद्य रूपमनिन्दिता ॥ उत्तरान्सा कुरून्गत्वा तृणान्यथ चचार सा ॥ ४८ द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्त्य ताम् । आदित्यो जनयामास पुत्रावादित्यवर्चसौ ॥ ४९ पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभुः । श्रुतश्रवं तु धर्मज्ञं श्रुतकर्मणमेव च ॥ ५० श्रुतश्रवा मनुः सोऽपि सावर्णिर्वै भविष्यति । श्रुतकर्मा तु विज्ञेयो ग्रहो वै यः शनैश्चरः ॥ ५१ मनुरेवाभवत्स वै सावर्ण इति बुध्यते । संज्ञा तु पार्थिवी सा वै स्वस्य पुत्रस्य वै तदा ॥ ५२
[अ०८४श्लो०५३-८२] वायुपुराणम्। ३०९
(श्राद्धकल्पः)
चकाराभ्याधिकं स्नेहं न तथा पूर्वजेषु वै । मनुस्तच्चाक्षमत्सर्वं यमस्तद्वै न चाक्षमत् ॥ ५३
बहुशो यस्य मानस्तु ( अवमानितश्च बहुशः ) सापत्न्यादातिदुःखितः ।
तां वै रोषाच्च बालचाच्च भाविनोऽर्थस्य वै बलात् ॥ ५३
पदा संतर्जयामास संज्ञां वैवस्वतो यमः । सा शशाप ततः क्रोधात्सवर्णा जननी यमम् ॥ ५४
पदा तर्जयसे यस्मात्पितृभार्यां यशस्विनीम् । तस्मात्तवैष चरणः पतिष्यति न संशयः ॥ ५५
यमस्तु तेन शापेन भृशं पीडितमानसः । मनुना सह धर्मात्मा पितुः सर्वं न्यवेदयत् ॥ ५६
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः । बाल्याद्वा यदि वा मोहान्मां भवांस्त्रातुमर्हति ॥ ५७
शमोऽहमास्मि लोकेश जनन्या तपतां वर । तत्र प्रसादो नस्त्रातु ह्येतस्मान्महतो भयात् ॥ ५८
विवस्वानेवमुक्तस्तु यमं प्रोवाच वै प्रभुः । 'असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ॥ ५९
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् । न शक्यमेतन्मिथ्या तु कर्तुं मातुर्वचस्तव ॥ ६०
क्रिमयो मांसमादाय यास्यन्ति तु महीं तव । ततः पादं महाप्राज्ञ पुनः संप्राप्स्यसे सुखम् ॥ ६१
कृतमेवं वचः सत्यं मातुस्तव भविष्यति । शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ ६२
आदित्यस्त्वब्रवीत्संज्ञां किमर्थं तनयेषु वै । तुल्येष्वप्याधिकः स्नेह एकस्मिन्क्रियते त्वया ॥ ६३
सा तत्परिहरन्ती वै नाऽऽचचक्षे विवस्वतः । आत्मना स समाधाय योगं तथ्यमपश्यत ॥ ६४
तां शप्तुकामो भगवानान्नाशाय कुपितः प्रभुः । सा तत्सर्वं यथातत्त्वमाचचक्षे विवस्वतः ॥ ६५
विवस्वानाथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्ययात् । त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ॥ ६६
निर्दग्धुकामं रोषेण सान्त्वयामास वै शनैः । तवातितेजसा युक्तमिदं रूपं न शोभते ॥ ६७
असहन्ती तु तत्संगा वने चरति शाद्वले । द्रक्ष्यते तां भवानद्य स्वां भार्यां शुभचारिणीम् ॥ ६८
श्लाघ्यां यौवनसंपन्नां योगमास्थाय गोपते । अनुकूलं भवेदेवं यदि स्यात्समयो मतः ॥ ६९
रूपं निवर्तयेऽयं ते आद्यं श्रेष्ठमरिंदम । रूपं विवस्वतस्त्वार्सीच्चित्यमूर्ध्वमधस्तथा ॥ ७०
तेनासौ व्रीडितो देवो रूपेण तु दिवस्पतिः । तस्मात्त्वष्टा स चक्रं तु बहु मेने महातपाः ॥ ७१
अनुज्ञातस्ततस्त्वष्टा रूपनिवर्तनाय तु । ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः ॥ ७२
भ्रमिमारोप्य तत्तोजः शातयामास तस्य वै । तत्तु निर्भासितं तेजस्तेजसाऽपहतेन तु ॥ ७३
कान्तात्कान्ततरं द्रष्टुमशुभं शुशुभे ततः । ददर्श योगमास्थाय स्वां भार्यां वडवां तथा ॥ ७४
अदृश्यां सर्वभूतानां तेजसा नियमेन च । अश्वरूपेण मार्तण्डस्तां मुखे समभावयत् ॥ ७५
मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया । सा तन्निर्धमच्छुक्रं नासिकाभ्यां विवस्वतः ॥ ७६
देवौ तस्मादजायेतामश्विनौ भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥ ७७
मार्तण्डस्य सुतावेतावष्टमस्य प्रजापतेः । तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ ७८
सा तं दृष्ट्वा तदा भार्या तुतोष च मुमोह च । यमस्तु तेन शापेन भृशं पीडितमानसः ॥ ७९
धर्मेण रञ्जयामास धर्मराजस्ततस्तु सः । सोऽलभत्कर्मणा तेन शुभेन परमद्युतिः ॥ ८०
पितॄणामाधिपत्यं च लोकपालत्वमेव च । मनुः प्रजापतिस्त्वेवं सावर्णः स महायशाः ॥ ८१
भाव्यसौ नागते तस्मिन्मनुः सावर्णिकेऽन्तरे । मेरुपृष्ठे सुरम्ये वै अद्यापि चरते प्रभुः ॥ ८२