भारतकोश
संग्रह पर लौटें

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

५४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०श्लो०२-३२]

( * द्वाभ्यामपि च संप्रीतिर्विष्णोश्चैव भवस्य च । यच्चापि कुरुते नित्यं प्रणामं शंकरस्य च ) ॥ ( कल्पनिरूपणम् )
विस्तरेणाऽऽनुपूर्व्या च शृणुत ब्रुवतो मम । मन्वन्तरस्य संहारे पश्चिमस्य महात्मनः ॥ ११
आसीत्तु सप्तमः कल्पः पद्मो नाम द्विजोत्तमाः । वराहः सांप्रतस्तेषां तस्य वक्ष्यामि विस्तरम् ॥ १२

सावर्णिरुवाच-
कियता चैव कालेन कल्पः संभवते कथम् । किं च प्रमाणं कल्पस्य तन्नः प्रब्रूहि पृच्छताम् ॥ १३

वायुरुवाच--
मन्वन्तराणां सप्तानां कालसंख्या(ख्यां) यथाक्रमम् । प्रवक्ष्यामि समासेन ब्रुवतो मे निबोधत ॥ १४
कोटीनां द्वे सहस्रे वै अष्टौ कोटिशतानि च । द्विषष्टिश्च तथा कोट्यो नियुतानि च सप्ततिः ॥ १५
कल्पार्धस्य तु संख्यायामेतत्सर्वमुदाहृतम् । पूर्वौकौ च गुणच्छेदौ वर्षाग्रं लब्धमादिशेत् ॥ १६
शतं चैव तु कोटीनां कोटीनामष्टसप्ततिः । द्वे च शतसहस्रे तु नवतिर्नियुतानि च ॥ १७
मानुषेण प्रमाणेन यावद्वैवस्वतान्तरम् । एष कल्पस्तु विज्ञेयः कल्पाधार्द्विगुणीकृतः ॥ १८
अनागतानां सप्तानामेतदेव यथाक्रमम् । प्रमाणं कालसंख्याया विज्ञेयं मतमैश्वरम् ॥ १९
नियुतान्यष्टपञ्चाशत्तथाऽशीतिशतानि च । चतुरशीति चा(श्चा)न्यानि प्रयुतानि प्रमाणतः ॥ २०
सप्तर्षयो मनुश्चैव देवाश्चेन्द्रपुरोगमाः । एतत्कालस्य विज्ञेयं मर्त्याग्रं तु प्रमाणतः ॥ २१
एष मन्वन्तरे तेषां मानुषाब्दः प्रकीर्तितः । प्रणवान्ताश्च ये देवाः साध्या देवगणाश्च ये ॥ २२
विश्वे देवाश्च ये नित्याः कल्पं जीवन्ति ते गणाः । अयं यो वर्तते कल्पो वाराहः स तु कीर्त्यते ॥
यस्मिन्स्वार्यंभुवाद्याश्च मनवश्च चतुर्दश ॥

ऋषय ऊचुः---
कस्माद्वाराहकल्पोऽयं नामतः परिकीर्तितः । कस्माच्च कारणाद्देवो वरा २ इति कीर्त्यते ॥ २४
को वा वराहो भगवान्कस्य योनिः किमात्मकः । वराहः कथमुत्पन्न एतदिच्छामि वेदितुम् ॥ २५

वायुरुवाचः--
वराहस्तु यथोत्पन्नो यस्मिन्नर्थे च कल्पितः । वाराहश्च यथा कल्पः कल्पत्वं कल्पना च या ॥ २६
कल्पयोरन्तरं यच्च तस्य चास्य च कल्पितम् । तत्सर्वं संप्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ॥ २७
भवस्तु प्रथमः कल्पो लोकादौ कथितः पुरा । ज्ञातव्यो भगवान्यत्र ह्यानन्दः सांपतः स्वयम् ॥ २८
ब्रह्मस्थानमिदं दिव्यं प्राप्तं वा दिव्यसंभवम् । द्वितीयस्तु भुवः कल्पस्तृतीयस्तप उच्यते ॥ २९
भवश्चतुर्थो विज्ञेयः पञ्चमो रम्भ एव च । ऋतुकल्पस्तथा षष्ठः सप्तमस्तु क्रतुः स्मृतः ॥ ३०
अष्टमस्तु भवेद्वह्निर्नवमो हव्यवाहनः । सावित्रो दशमः कल्पो भुवंस्त्वेकादशः स्मृतः ॥ ३१
उशिको द्वादशस्तत्र कुशिकस्तु त्रयोदशः । चतुर्दशस्तु गन्धर्वो गांधारो यत्र वै स्वरः ॥ ३२


* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. ङ. पुस्तकेषु नास्ति ।

५५

[अ० २१ श्लो ३३-६०] वायुपुराणम् । ( कल्पनिरूपणम् )

उत्पन्नस्तु यथा नादो गन्धर्वा यत्र चोत्थिताः । ऋषभस्तु ततः कल्पो ज्ञेयः पञ्चदशो द्विजाः ॥ ३३ ऋषभो यत्र संभूतः स्वरो लोकमनोहरः । षड्जस्तु षोडशः कल्पः षड्जना यत्र चर्षयः ॥ ३४ शिशिरश्च वसन्तश्च निदाघो वर्ष एव च । शरद्धेमन्त इत्येते मानसा ब्रह्मणः सुताः ॥ ३५ उत्पन्नाः षड्जसंसिद्धाः पुत्राः कल्पे तु षोडशे । यस्माज्जतैश्च तैः षड्भिः सद्योजातो महेश्वरः तस्मात्समुत्थितः षड्जः स्वरस्तूदधिसंनिभः । ततः सप्तदशः कल्पो मार्जालीय इति स्मृतः ॥ ३७ मार्जालीयं तु तत्कर्म यस्माद्ब्रह्मामकल्पयत् । ततस्तु मध्यमो नाम कल्पोऽष्टादश उच्यते ॥ ३८ यस्मिंस्तु मध्यमो नाम स्वरो वैवतपूजितः । उत्पन्नः सर्वभूतेषु मध्यमो वै स्वयंभुवः ॥ ३९ ततस्त्वेकोनविंशस्तु कल्पो वैराजकः स्मृतः । वैराजो यत्र भगवान्मनुर्वै ब्रह्मणः सुतः ॥ ४० तस्य पुत्रस्तु धर्मात्मा दधीचिर्नाम धार्मिकः । प्रजापतिर्महातेजा बभूव त्रिदशेश्वरः ॥ ४१ अकामयत गायत्री यजमानं प्रजापतिम् । तस्माज्जज्ञे स्वरः स्निग्धः पुत्रस्तस्य दधीचिनः ॥ ४२ ततो विंशतिमः कल्पो निषादः परिकीर्तितः । प्रजापतिस्तु तं दृष्ट्वा स्वयंभूप्रभवं तदा ॥ ४३ विरराम प्रजाः स्रष्टुं निषादस्तु तपोऽतपत् । दिव्यं वर्षसहस्रं तु निराहारो जितेन्द्रियः ॥ ४४ तमुवाच महातेजा ब्रह्मा लोकपितामहः । ऊर्ध्वबाहुं तपोग्लानं दुःखितं क्षुत्पिपासितम् ॥ ४५ निषीदेत्यब्रवीदेनं पुत्रं शान्तं पितामहः । तस्मान्निषादः संभूतः स्वरस्तु स निषादवान् ॥ ४६ एकविंशतिमः कल्पो विज्ञेयः पञ्चमो द्विजाः । प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ ४७ ब्रह्मणो मानसाः पुत्राः पञ्चैते ब्रह्मणः समाः । तैस्त्वर्थवादिभिर्युक्तैर्वाग्भिरिष्टो महेश्वरः ॥ ४८ यस्मात्पारिगतैर्गतिः पञ्चभिस्तैर्महात्मभिः । स्वरस्तु पञ्चमः स्निग्धस्तस्मात्कल्पस्तु पञ्चमः ॥ ४९ द्वाविंशस्तु तथा कल्पो विज्ञेयो मेघवाहनः यत्र विष्णुर्महाबाहुर्मेघो भूत्वा महेश्वरम् ॥ ५० दिव्यं वर्षसहस्रं तु अवहत्कृत्तिवाससम् । तस्य विध्वसमानस्य भाराक्रान्तस्य वै मुखात् ॥ ५१ निर्जगाम महाकायः कालो लोकप्रकालनः । यस्त्वयं पठ्यते विप्रैर्विष्णुर्वै कश्यपात्मजः ॥ ५२ त्रयोविंशतिमः कल्पो विज्ञेयश्चिन्तकतस्तथा । प्रजापतिसुतः श्रीमांस्थितिंश्च मिथुनं च तौ ॥ ५३ ध्यायतो ब्रह्मणश्चैव यस्माच्चिन्ता समुत्थिता । तस्मात्तु चिन्तकः सोवै (कोऽसौ) कल्पः प्रोक्तः स्वयंभुवा ॥ ५४ चतुर्विंशतिमश्चापि ह्याकृतिः कल्प उच्यते । आकृतिश्च तथा देवी मिथुनं संबभूव ह ॥ ५५ प्रजाः स्रष्टुं तथाऽऽकृतिं यस्मादाह प्रजापतिंः । तस्मात्स पुरुषो ज्ञेय आकृतिः कल्पसंज्ञितः ॥ ५६ पञ्चविंशतिमः कल्पो विज्ञातिः परिकीर्तितः । विज्ञातिश्च तथा देवी मिथुनं संप(सम)सूयत ॥ ५७ ध्यायततः पुत्रकामस्य मनस्यध्यात्मसंज्ञितम् । विज्ञातं वै समासेन विज्ञातिस्तु ततः स्मृतः ॥ ५८ षड्विंशस्तु ततः कल्पो मन इत्यभिधीयते । देवी च शंकरी नाम मिथुनं संप्रसूयते ॥ ५९ प्रजा वै चिन्तमानस्य स्रष्टुकामस्य वै तदा । यस्मात्प्रजासंभवनादुत्पन्नस्तु स्वयंभुवा ॥ ६०

५६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०२२श्लो०१-२] ( कल्पसंख्यानिरूपणम् )

तस्मात्प्रजासंभवनाद्भावनासंभवः स्मृतः । सप्तविंशातितमः कल्पो भावो वै कल्पसंज्ञितः ॥ ६१
पौर्णमासी तथा देवी मिथुनं समपद्यत । प्रजा वै स्रष्टुकामस्य ब्रह्मणः परमेष्ठिनः ॥ ६२
ध्यायतरतु परं ध्यानं परमात्मानमीश्वरम् । अग्निस्तु मण्डली भूत्वा रश्मिजालसमावृतः ॥ ६३
भुवं दिवं च विष्टभ्य दीप्यते स महावपुः । ततो वर्षसहस्रान्ते संपूर्णे ज्योतिर्मण्डले ॥ ६४
आविश्या सहोत्पन्नमपश्यत्सूर्यमण्डलम् । यस्माद्दृश्यो भूतानां ब्रह्मणा परमेष्ठिना ॥ ६५
दृष्टस्तु भगवान्देवः सूर्यः संपूर्णमण्डलः । सर्वे योगाश्च मन्त्राश्च मण्डलेन सहोत्थिताः ॥ ६६
यस्मात्कल्पो ह्ययं दृष्टस्तमात्रं दर्शमुच्यते(?) । यस्मान्मनसि संपूर्णो ब्रह्मणः परमेष्ठिनः ॥ ६७
पुरा वै भगवान्सोमः पौर्णमासी ततः स्मृता । तस्मात्तु पर्वदर्शं वै पौर्णमासं च योगिभिः ॥ ६८
उभयोः पक्षयोर्योज्यमात्मनो हितकाम्यया । दर्शं च पौर्णमासं च ये यजन्ति द्विजातयः ॥ ६९
न तेषां पुनरावृत्तिर्ब्रह्मलोकात्कदाचन । योऽऽनाहिताग्निः प्रयतो वीराध्वानं गतोऽपि वा ॥ ७०
समाधाय मनस्तीव्रं मन्त्रमुच्चारयेच्छनैः । त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे
त्वं पाशगन्धर्वाशपं पूषा विधत्तपासिनो । इत्येव मन्त्र मनसा सम्यगुच्चारयेद्द्विजः ॥ ७२
अग्निं प्रविशते यस्तु रुद्रलोकं स गच्छति । सोमश्चाग्निरतु भगवान्कालो रुद्र इति श्रुतिः ॥ ७३
तस्माद्यः प्रविशेद्वाग्नं स रुद्रान्न निवर्तते । अष्टाविंशतिमः कल्पो वृहदित्यभिसंज्ञितः ॥ ७४
ब्रह्मणः पुत्रकामस्य स्रष्टुकामस्य वै प्रजाः । ध्यायमानस्य मनसा बृहत्साम रथंतरम् ॥ ७५
यस्मान्नत्र समुत्पन्नो बृहतः सर्वतोमुखः । तस्मातु बृहतः कल्पो विज्ञेयस्तत्त्वचिन्तकैः ॥ ७६
अष्टाशीतिसहस्राणां योजनानां प्रमाणतः । रथंतरं तु विज्ञेयं परमं सूर्यमण्डलम् ॥ ७७
तस्मादण्डं तु विज्ञेयमभेद्यं सूर्यमण्डलम् । यत्सूर्यमण्डलं चापि बृहत्साम तु भिद्यते ॥ ७८
भित्त्वा चैनं द्विजा यान्ति योगात्मानो दृढव्रताः । संघातमुपनीताश्च अन्ये कल्पा रथंतरे ॥ ७९
इत्येतत्तु मया प्रोक्तं चित्रमध्यात्मदर्शनम् । अतः परं प्रवक्ष्यामि कल्पानां विस्तरं शुभम् ॥ ८०
*जिह्वे स्तुहि(?) जगत्त्रितयैकनाथं नारायणं परमक run / परंकारुणिकं सदैव ।
प्राचीनकर्मनिगडार्गलबन्धमुक्त्यै नान्यः पुराणपुरुषादपरोऽस्त्युपायः ॥
इति महापुराणे वायुप्रोक्ते कल्पानिरूपणं नामैकविंशोऽध्यायः ॥ २१ ॥

आदितः श्लोकानां समष्ट्यङ्काः--१४१०


अथ द्वाविंशोऽध्यायः ।

कल्पसंख्यानिरूपणम् ।

ऋषय ऊचुः-
अत्यद्भुतमिदं सर्वं कल्पानां ते महामुने । रहस्यं वै समाख्यातं मन्त्राणां च प्रकल्पनम् ॥ १
न तवाविदितं किंचित्रिषु लोकेषु विद्यते । यस्माद्विस्तरतः सर्वाः कल्पसंख्या ब्रवीहि नः ॥ २


* ख. पुस्तक एवायं श्लोको न न्न्यादर्शपुस्तकेषु ।

[ अ०२२श्लो० ३–३० ] वायुपुराणम् । ५७

( कल्पसंख्यानिरूपणम )

वायुरुवाच-- अत्र वः कथयिष्यामि कल्पसंख्या यथा तथा । युगाग्रं च वर्षाग्रं तु ब्रह्मणः परमेष्ठिनः ॥ ३ एकं कल्पसहस्रं तु ब्रह्मणोऽब्दः प्रकीर्तितः । एतदष्टसहस्रं त ब्रह्मणस्तद्युगं स्मृतम् ४ एकं कल्पसहस्रं तु सवनं तत्प्रजापतेः । सवनानां सहस्रं तु द्विगुणं त्रिवृतं तथा ॥ ५ ब्रह्मणः स्थितिकालस्य चैतत्सर्वं प्रकीर्तितम् । तस्य संख्यां प्रवक्ष्यामि कल्पसंज्ञा यथाक्रमम् ६ अष्टाविंशतिर्ये कल्पा नामतः परिकीर्तिताः । तेषां पुरस्ताद्वक्ष्यामि कल्पसंज्ञा यथाक्रमम् ७ रथंतरस्य साम्नस्तु उपरिष्टान्निबोधत । कल्पान्ते नामधेयानि मन्वोत्पत्तिश्च यस्य या ॥ ८ एकोनत्रिंशकः कल्पो विज्ञेयः श्वेतलोहितः । यस्मिंस्तत्परमं ध्यानं ध्यायतो ब्रह्मणस्तथा ९ श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिखी । उत्पन्नस्तु महातेजाः कुमारः पावकोपमः १० भीमं मुखं महारौद्रं सुघोरं श्वेतलोहितम् । दप्तिर्दीप्तेन वपुषा महास्यं श्वेतवर्चसम् ११ तं दृष्ट्वा पुरुषः श्रीमान्ब्रह्मा वै विश्वतोमुखः । कुमारं लोकधातारं विश्वरूपं महेश्वरम् १२ पुराणपुरुषं देवं विश्वात्मा योगिनां वरम् । ववन्दे देवदेवेशं ब्रह्मा वै समचिन्तयत् १३ हर्षि कृत्वा महादेवं परमात्मानमीश्वरम् । सद्योजातं ततो ब्रह्म ब्रह्मा वै समचिन्तयत् ॥ १४ ज्ञात्वा मुमोच देवेशो हृष्टो हासं जगत्पतिः । ततोऽस्य पार्श्वतः श्वेता ऋषयो ब्रह्मवर्चसः १५ प्रादुर्भूता महात्मानः श्वेतमाल्यानुलेपनाः । सुनन्दो नन्दकश्चैव विश्वनन्दोऽथ नन्दनः १६ शिष्यास्ते वै महात्मानो यैस्तु ब्रह्म ततो वृतम् । तस्याग्रे श्वेतवर्णाभः श्वेतनामा महामुनिः १७ विजयेऽथ महातेजा यस्माज्जज्ञे नरस्त्वसौ । तत्र ते ऋषयः सर्वे सद्योजातं महेश्वरम् १८ तस्माद्विश्वेश्वरं देवं ये प्रपद्यन्ति वै द्विजाः । प्राणायामपरा युक्ता ब्रह्माणं व्यवसायिनः १९ ते सर्वे पापानिर्मुक्ता विमला ब्रह्मवर्चसः । ब्रह्मलोकमतिक्रम्य ब्रह्मलोकं व्रजन्ति च । २०

वायुरुवाच-- ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्तितः । रक्तो यत्र महातेजा रक्तवर्णमधारयत् २१ ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः । प्रादुर्भूतो महातेजाः कुमारो रक्तविग्रहः २२ रक्तमाल्याम्बरधरो रक्तनेत्रः प्रतापवान् । स तं दृष्ट्वा महादेवं कुमारं रक्तवाससम् २३ ध्यानयोगं परं गत्वा बुबुधे विश्वमीश्वरम् । स तं प्रणम्य भगवान्ब्रह्मा परमयन्त्रितः २४ वामदेवं ततो ब्रह्मा ब्रह्मात्मकं व्यचिन्तयत् । एवं ध्यातो महादेवो ब्रह्मणा परमेष्ठिना २५ मनसा प्रीतियुक्तेन पितामहमथाब्रवीत् । ध्यायता पुत्रकामेन(ण) यस्यान्तऽहं पितामह २६ दृष्टः परमया भक्त्या ध्यानयोगेन सत्तम । तस्माद्ध्यानं परं प्राप्य कल्पे कल्पे महातपाः २७ वेत्स्यसे मां महासत्त्व लोकधातारमीश्वरम् । एवमुक्त्वा ततः शर्वः अ(वंस्त्व)ट्टहासं मुमोच ह २८ ततस्तस्य महात्मानश्चत्वारश्च कुमारकाः । संबभूवुर्महात्मानो विरेजुः शुद्धबुद्धयः ॥ २९ विरजश्च विवाहूश्च विशोको विश्वभावनः । ब्रह्मणा ब्रह्मणस्तुल्या वीरा अध्यवसायिनः ॥ ३०

५८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०२२-२३श्लो०३१-३५।१८] ( माहेश्वरावतारयोगः )

रक्ताम्बराधराः सर्वे रक्तमाल्यानुलेपनाः । रक्तभस्मानुलिप्ताङ्गा रक्तास्या रक्तलोचनाः ॥ ३१ ततो वर्षसहस्रान्ते ब्रह्मण्य व्यवसायिनः । मृणन्तश्च महात्मानो ब्रह्म तद्धामदैविकम् ॥ ३२ अनुग्रहार्थं लोकानां शिष्याणां हितकाम्यया । धर्मोपदेशमखिलं कृत्वा ते ब्राह्मणाः स्वयम् ॥ ३३ पुनरेव महादेवं प्रविष्टा रुद्रमव्ययम् । येऽपि चान्ये द्विजश्रेष्ठा युञ्जाना वाममीश्वरम् ॥ ३४ प्रपद्यन्ति महादेवं तद्भक्तास्तत्परायणाः । ते सर्वे पापनिर्मुक्ता विमला ब्रह्मवर्चसः ॥ रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ ३५

इति श्रीमहापुराणे वायुप्रोक्ते कल्पसंख्यानिरूपणं नाम द्वाविंशोऽध्यायः ॥ २३ ॥

आदितः श्लोकानां समष्ट्यङ्काः--१४४५

अथ त्रयोविंशोऽध्यायः । माहेश्वरावतारयोगः ।

वायुरुवाच-- एकविंशत्तमः कल्पः पीतवासा इति स्मृतः । ब्रह्मा यत्र महातेजाः पीतवर्णत्वमागतः ॥ १ ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः । प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रवान् ॥ २ पीतगन्धानुलिप्ताङ्गः पीतमाल्यधरो युवा । पीतयज्ञोपवीतश्च पीतोष्णीषो महाभुजः ॥ ३ तं दृष्ट्वा ध्यानसंयुक्तं ब्रह्मा लोकेश्वरं प्रभुम् । मनसा लोकधातारं ववन्दे परमेश्वरम् ॥ ४ ततो ध्यानगतस्तत्र ब्रह्मा माहेश्वरीं पराम् । अपश्यद्वां विरूपां च महेश्वरमुखच्युताम् ॥ ५ चतुष्पदां चतुर्वक्त्रां चतुर्हस्तां चतुस्तनीम् । चतुर्नेत्रां चतुःशृङ्गीं चतुर्दंष्ट्रां चतुर्मुखीम् ॥ ६ द्वात्रिंशल्लोकसंयुक्तामीश्वरीं सर्वतोमुखीम् । स तां दृष्ट्वा महातेजा महादेवीं महेश्वरीम् ॥ ७ पुनराह महादेवः सर्वदेवनमस्कृतः । मतिः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः ॥ ८ एह्येहीति महादेवीं सोऽतिष्ठत्प्राञ्जलिर्भृशम् । विश्वमावृत्य योगेन जगत्सर्वं वशी कुरु ॥ ९ अथोवाच महादेवो रुद्राणी त्वं भविष्यसि । ब्राह्मणानां हितार्थाय परमार्थे भविष्यसि ॥ १० अथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः । प्रददौ देवदेवेशश्चतुष्पदां महेश्वरीम् ॥ ११ ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम् । ब्रह्मा लोकनमस्कार्यः पपद्ये तां महेश्वरीम् ॥ १२ गायत्री तु ततो रौद्रीं ध्यात्वा ब्रह्मा सुयन्त्रितः । इत्येतां वैदिकीं विद्यां रौद्रीं गायत्रीमर्पिताम् ॥ १३ जपित्वा तु महादेवीं रुद्रलोकनमस्कृताम् । प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा ॥ १४ ततस्तस्य महादेवो दिव्यं योगं पुनः स्मृतम् । ऐश्वर्यं ज्ञानसंपत्तिं वैराग्यं च ददौ पुनः १५ अथाट्टहासं मुमुचे भीषणं दीप्तमीश्वरः । ततोऽस्य सर्वतो दीप्ताः प्रादुर्भूताः कुमारकाः ॥ १६ पीतमाल्याम्बरधराः पीतगन्धविलेपनाः । पीतोष्णीषशिरसश्चैव पीतास्याः पीतमूर्धजाः ॥ १७ ततो वर्षसहस्रान्त उषित्वा विमलौजसः । योगात्मानस्ततः स्नाता ब्राह्मणानां हितैषिणः ॥ १८

[अ०२३ श्लो० १९–४५] वायुपुराणम् । ५९

( माहेश्वरावतारयोगः )

धर्मयोगबलोपेता ऋषीणां दीर्घसत्रिणाम् । उपदिश्य तु ते योगं प्रविष्टा रुद्रमीश्वरम् ॥ १९
एवमेतेन विधिना प्रपन्ना ते महेश्वरम् । अन्येऽपि नियतात्मानो ध्यानयुक्ता जितेन्द्रियाः ॥ २०
ते सर्वे पापमुत्सृज्य विरजा ब्रह्मवर्चसः । प्रविशन्ति महादेवं रुद्रं ते त्वपुनर्भवाः ॥ २१

वायुरुवाच--

ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवः । पुनरन्यः प्रवृत्तस्तु सितकल्पो हि नामतः ॥ २२
एकार्णवे तदा वृत्ते दिव्य वर्षसहस्रके । स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥ २३
तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः । कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः ॥ २४
अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम् । कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ॥ २५
कृष्णाम्बरधरोष्णीषं कृष्णयज्ञोपवीतिनम् । कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम् ॥ २६
स तं दृष्ट्वा महात्मानममरं घोरमन्त्रिणम् । ववन्दे देवदेवेशं विश्वेशं कृष्णपिङ्गलम् ॥ २७
प्राणायामपरः श्रीमान्हृदि कृत्वा महेश्वरम् । मनसा ध्यानसंयुक्तं प्रपन्नस्तु यतीश्वरम् ॥ २८
अघोरेति ततो ब्रह्मा ब्रह्म एवानुचिन्तयन् । एवं वै ध्यायतरतस्य ब्रह्मणः परमेष्ठिनः ॥ २९
मुमोच भगवान्रुद्रः अ(द्रुस्त्व)दृहादु महास्वनम् । अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः ॥ ३०
चत्वारस्तु महात्मानः संबभूवुः कुमारकाः । कृष्णाः कृष्णाम्बरोष्णीषाः कृष्णास्याः कृष्णवाससः ॥ ३१
तैश्चाट्टहासः सुमहान्हुंकारश्चैव पुष्कलः । नमस्कारश्च सुमहान्पुनः पुनरुदीरितः ॥ ३२
ततो वर्षसहस्रान्ते योगात्तत्पारमेश्वरम् । उपासित्वा महाभागाः शिष्येभ्यः प्रददुस्ततः ॥ ३३
योगेन योगसंपन्नाः प्रविश्य मनसा शिवम् । अमलं निर्गुणं स्थानं प्रविष्टा विश्वमीश्वरम् ॥ ३४
एवमेतेन योगेन ये चाप्यन्ये द्विजातयः । स्मरिष्यन्ति विधानज्ञा गन्तारो रुद्रमव्ययम् ॥ ३५
ततस्तस्मिन्गते कल्पे कृष्णरूपे भयानके । अन्यः प्रवर्तितः कल्पो विश्वरूपस्तु नामतः ॥ ३६
विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे । ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः ॥ ३७
प्रादुर्भूता महानादा विश्वरूपा सरस्वती । विश्वमाल्याम्बरधरं विश्वयज्ञोपवीतिनम् ॥ ३८
विश्वोष्णीषं विश्वगन्धं विश्वस्थानं महाभुजम् । अथ तं मनसा ध्यात्वा मुक्तात्मा वै पितामहः ॥ ३९
ववन्दे देवमीशानं सर्वेशं प्रभुम् । ओमीशान नमस्तेऽस्तु महादेव नमोऽस्तु ते ॥ ४०
एवं ध्यानगतं तत्र प्रणमन्तं पितामहम् । उवाच भगवान्रीशः प्रीतोऽहं ते किमिच्छसि ॥ ४१
ततस्तु प्रणतो भूत्वा वाग्भिः स्तुत्वा महेश्वरम् । (*उवाच भगवान्ब्रह्मा प्रीतः प्रीतेन चेतसा ॥ ४२
यदिदं विश्वरूपं ते विश्वगं विश्वमीश्वरम् । ) एतद्वेदितुमिच्छामि कथायं परमेश्वरः ॥ ४३
कैषा भगवती देवी चतुष्पादा चतुर्मुखी । चतुःशृङ्गी चतुर्वक्त्रा चतुर्दन्ता चतुःस्तनी ॥ ४४
चतुर्हस्ता चतुर्नेत्रा विश्वरूपा कथं स्मृता । किंनामधेया कोऽस्यात्मा किंवीर्या वाऽपी कर्मतः ॥ ४५


* धनुश्चिह्नान्तर्गतग्रन्थो ख. घ. पुस्तकयोर्नास्ति ।

६० श्रीमद्वैपायनमुनिप्रणीतम्— [अ० २३ श्लो० ४६-६७] (माहेश्वरावतारयोगः)

महेश्वर उवाच— रहस्यं सर्वमन्त्राणां पावनं पुष्टिवर्धनम् । शृणुष्वैतत्परं गुह्यमादिसर्गे यथातथम् ॥ ४६ अयं यो वर्तते कल्पो विश्वरूपस्त्वसौ स्मृतः । यस्मिन्भवादयो देवाः षट्त्रिंशन्मनवः स्मृताः ॥ ४७ ब्रह्मस्थानमिदं वापि यदा प्राप्तं त्वया विभो । तदाप्रभृति कल्पश्च त्रयस्त्रिंशत्तमो ह्ययम् ॥ ४८ शतं शतसहस्राणामतीता ये स्वयंभुवः । पुरस्तात्तव देवेश तान्शृणुष्व महामुने ॥ ४९ आनन्दस्तु स विज्ञेय आनन्दत्वे महातपः । गालव्यगोत्रतपसा मम पुत्रस्त्वमागतः ॥ ५० त्वयि योगश्च सांख्यं च तपो विद्याविधिः क्रिया । ऋतं सत्यं च यद्ब्रह्म अहिंसा संततिक्रमाः ॥ ५१ ध्यानं ध्यानवपुः शान्तिर्विद्याऽविद्या मतिर्धृतिः । कान्तिः शान्तिः स्मृतिर्मेधा लज्जा शुद्धिः सरस्वती । वृष्टिः तुष्टिः क्रिया चैव लज्जा शान्तिः प्रतिष्ठिता ॥ ५३ षड्विंशत्तद्गुणा ह्येषा द्वात्रिंशाक्षरसंज्ञिता । प्रकृतिं विद्धि तां ब्रह्मंस्त्वत्प्रसूतिं महेश्वरीम् ॥ ५४ सैषा भगवती देवी तत्प्रसूतिः स्वयंभुवः । चतुर्मुखी जगद्योनिः प्रकृतिर्गौः प्रकीर्तिता ॥ ५५ प्रधानं प्रकृतिं चैव यदाहुस्तत्त्वचिन्तकाः ॥ ५६ अजामेतां लोहितां शुक्लकृष्णां विश्वं संप्रसृजमानां सुरूपाम् अजोऽहं वै बुद्धिमान्विश्वरूपां गायत्रीं गां विश्वरूपां हि बुद्ध्वा ॥ ५७ एवमुक्त्वा महादेवः अ(वस्तव)ट्टहासमथाकरोत् । वलितास्फोटितरवं कहाकहिनदं तथा ॥ ५८ ततोऽस्य पार्श्वतो दिव्याः सर्वरूपाः कुमारकाः । जटी मुण्डी शिखण्डी च अर्धमुण्डश्च जज्ञिरे ततस्ते तु यथोक्तेन योगेन सुमहौजसः । दिव्यं वर्षसहस्रं तु उपासित्वा महेश्वरम् ॥ ६० धर्मोपदेशं नियतं कृत्वा योगमयं दृढम् । शिष्टानां नियतात्मानः प्रविष्टा रुद्रमीश्वरम् ॥ ६१

वायुरुवाच— ततो विस्मयमापन्नो ब्रह्मा लोकपितामहः । पप्रच्छस्तु महादेवं भक्तियुक्तेन चेतसा ॥ उवाच वचनं सर्वैः श्वेतत्वं ते कथं विभो ॥ ६२

भगवानुवाच— श्वेतः कल्पो यदा ह्यासीदहं श्वेतस्ततोऽभवम् । श्वेतोष्णीषः श्वेतमाल्यः श्वेताम्बरधरः शिवः ॥ ६३ श्वेतास्थिमांसरोमा च श्वेतत्वक्श्वेतलोहितः । तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ मत्प्रसादाच्च देवेशः श्वेताङ्गः श्वेतलोहितः । श्वेतवर्णा तदा ह्यासीद्गायत्री ब्रह्मसंज्ञिता ॥ ६५ यस्मादहं च देवेश त्वया गुह्ये पदे स्थितः । विज्ञातः स्वेन तपसा सद्योजातः सनातनः ॥ सद्योजातेति ब्रह्मैतद्गुह्यं चैव प्रकीर्तितम् ॥ ६६ तस्माद्गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः । तत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ ६७

[अ०२३श्लो०६८-९१] वायुपुराणम्। ६१ ( माहेश्वरावतारयोगः ) यदाऽहं च पुनस्त्वासं लोहितो नाम नामतः । स मत्कृतेन वर्णेन कल्पो वै लोहितः स्मृतः ॥ ६८
तदा लोहितमांसास्थिलोहितक्षीरसंनिभा । लोहिताक्षस्तनवती गायत्री गौः प्रकीर्तिता ॥ ६९
ततोऽस्य लोहित्वेन वर्णस्य च विपर्यये । वामत्वाच्चैव योगस्य वामदेवत्वमागतः ॥ ७०
तथापि हि महासत्त्व त्वयाऽहं नियतात्मना । विज्ञातः श्वेतवर्णेन तस्माद्वर्णोत्तमः स्मृतः ॥ ७१
ततोऽहं वामदेवेति ख्यातिं यातो महीतले ॥
ये चापि वामदेवत्वं ज्ञास्यन्तीह द्विजातयः । विज्ञाय चेमां रुद्राणीं गायत्रीं मातरं विभो ॥ ७२
सर्वपापविनिर्मुक्ता विरजा ब्रह्मवर्चसः । रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ ७३
यदा तु पुनरेवायं कृष्णवर्णो भयानकः । मत्कृतेन च वर्णेन मत्कल्पः कृष्ण उच्यते ॥ ७४
तत्राहं कालसंकाशः कालो लोकप्रकाशनः । विज्ञातोऽहं त्वया ब्रह्मन् घोरो घोरपराक्रमः ॥ ७५
तस्माद्घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले । तेषामघोरः शान्तश्च भविष्याम्यहमव्ययः ॥ ७६
तस्माद्विश्वत्वमापन्नं ये मां पश्यन्ति भूतले । तेषां शिवश्च सौम्यश्च भविष्यामि सदैव तु ॥ ७७
तस्माच्च विश्वरूपो वै कल्पोऽयं समुदाहृतः । विश्वरूपा तथा चेयं सावित्री समुदाहृता ॥ ७८
सर्वरूपास्तथा चे मे संवृत्ता मम पुत्रकाः । चत्वारस्ते समाख्याताः पादा वै लोकसंमताः ॥ ७९
तस्माच्च सर्ववर्णत्वं प्रजात्वं मे भविष्यति । सर्वभक्ष्या च मेध्या च वर्णतश्च भविष्यति ॥ ८०
मोक्षो धर्मस्तथाऽर्थश्च कामश्चेति चतुष्टयम् । तस्मादेता च वैद्यं च चतुर्धा वै भविष्यति ॥ ८१
भूतग्रामश्च चत्वार आश्रमाश्चस्तु(त्वा)रस्तथा । धर्मस्य पादाश्चत्वारश्चत्वारो मम पुत्रकाः ॥ ८२
तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम् । चतुर्धाऽवस्थितं चैव चतुष्पादं भविष्यति ॥ ८३
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा । जनस्तपश्च शान्तश्च रुद्रलोकस्ततः परम् ॥ ८४
(+अष्टाक्षरः स्मृतो लोकः स्थाने स्थाने तदक्षरम् । भुवं दिवं परं चैव पादाश्चत्वार एव च ॥ ८५
भूर्लोकः प्रथमः पादो भुवर्लोकस्ततः परम् ।) स्वर्लोको हि तृतीयस्तु चतुर्थस्तु महः स्मृतः ॥
तत्र लोकः परंस्थानं परं तद्योगिनां स्मृतम् ॥ ८६
निर्ममा निरहंकाराः कामक्रोधविवर्जिताः । द्रक्ष्यन्ते तद्विदो युक्ता ध्यानतत्परयुञ्जकाः ॥ ८७
यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती । तस्माच्च पशवः सर्वे भविष्यन्ति चतुष्पदाः ॥
तस्माच्चैषां भविष्यन्ति चत्वारो वै पयोधराः ॥ ८८
सोमश्च मन्त्रसंयुक्तो तस्मान्मम मुखाच्च्युतः । जीवः प्राणभृतां ब्रह्मन्सर्वः पीत्वा स्तनैर्धृतम् ॥ ८९
तस्मात्सोममयं चैतदमृतं चैव संज्ञितम् । चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत् ॥ ९०
यस्माच्चैवं क्रियां भूत्वा द्विपादा वै महेश्वरी । दृष्टा पुनस्त्वया चैषा सावित्री लोकभाविनी ॥
तस्माद्वै द्विपदाः सर्वे द्विस्तनाश्च नराः स्मृताः ॥ ९१


+ धनुश्चिह्नान्तर्गतग्रन्थः क. ग. पुस्तकयोर्नास्ति ।

६२ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०२३श्लो०९२-११४] ( माहेश्वरावतारयोगः )

यस्माच्चैवमजा भूत्वा सर्ववर्णा महेश्वरी। दृष्टा त्वया महासत्त्वा सर्वभूतधरा परा ॥ ९२ तस्मात्तु विश्वरूपत्वमजानां वै भविष्यति । अजश्चैव महातेजा विश्वरूपो भविष्यति ॥ ९३ अमोघरेताः सर्वत्र मुखे चास्य हुताशनः । *तस्मात्सर्वगतो मेध्यः पशुरूपी हुताशनः ॥ ९४ तपसा भावितात्मानो ये वै द्रक्ष्यन्ति वै द्विजाः । ईशित्वे च शिवत्वे च सर्वगं सर्वतः स्थिरम् ॥ ९५ रजस्तमोविनिर्मुक्तास्त्यक्त्वा मानुष्यकं भुवि । तत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ ९६ इत्येवमुक्तो भगवाञ्ब्रह्मा रुद्रेण वै द्विजाः । प्रणम्य प्रयतो भूत्वा पुनराह पितामहः ॥ ९७

ब्रह्मोवाच-- भगवन्देवदेवेश विश्वरूपो(प) महेश्वरः(र) । इमास्तव महादेव तनवो लोकवन्दिताः ॥ ९८ विश्वरूप महासत्त्व कस्मिन्काले महाभुज । कस्यां वा युगसंभूत्यां द्रक्ष्यन्ति त्वां द्विजातयः ॥ ९९ केन वा तत्त्वयोगेन ध्यानयोगेन केन वा । तनवस्ते महादेव शक्या द्रष्टुं द्विजातिभिः ॥ १००

भगवानुवाच- तपसा नैव योगेन दानधर्मफलेन वा । न तीर्थफलयोगेन क्रतुभिर्वा सदक्षिणैः ॥ १०१ न वेदाध्यायनैर्वाऽपि न वित्तेन निवेदनैः । शक्योऽहं मानुषैर्द्रष्टुमृते ध्यानात्परं न हि ॥ १०२ साध्यो नारायणश्चैव विष्णुस्त्रिभुवनेश्वरः । भविष्यतीह नाम्ना तु वाराहो नाम विश्रुतः ॥ १०३ चतुर्बाहुश्चतुष्पादश्चतुर्नेत्रश्चतुर्मुखः । तदा संवत्सरो भूत्वा यज्ञरूपो भविष्यति ॥ षडङ्गश्च त्रिशीर्षश्च त्रिस्थानस्त्रिशरीरवान् ॥ १०४ कृतं त्रेता द्वापरं च कालिश्चैव चतुर्युगम् । एतस्य पादाश्चत्वारः अ(रञ्चा)ङ्गानि क्रतवस्तथा ॥ १०५ भुजाश्च वेदाश्चत्वार ऋतुः संधिमुखानि च । द्वे मुखे द्वे च अयने नेत्राश्च चतुरस्तथा ॥ १०६ शिरांसि त्रीणि पर्वाणि फाल्गुन्याषाढकार्तिकाः । दिव्यान्तरिक्षभौमानि त्रीणि स्थानानि यानि तु ॥ संभवः मलयश्चैव आश्रमौ द्वौ प्रकीर्तितौ ॥ १०७ स यदा कालरूपाभो वराहत्वे व्यवस्थितः । भविष्यति यदा साध्यो विष्णुर्नारायणः प्रभुः ॥१०८ तदा त्वमपि देवेश चतुर्वक्त्रो व्यवस्थितः । ब्रह्मलोकनमस्कार्यो विष्णुर्नारायणः प्रभुः ॥ १०९ एकार्णवे प्लवे चैव शयानं पुरुषं हरिम् । यदा द्रक्ष्यसि देवेशं ध्यानयुक्तं महामुनिम् ॥ ११० तदा वां मम योगेन मोहितौ नष्टचेतसौ । अन्योन्यस्पर्धिनौ रात्रावविज्ञाय परस्परम् ॥ १११ एकैकस्योदरस्थांस्तु दृष्ट्वा लोकांश्चराचरान् । विस्मयं परमं गत्वा ध्यानादुद्बुध्य तु मानुषौ ॥ ११२ ततस्त्वं पद्मसंभूतः पद्मनाभः सनातनः । पद्माङ्कितस्तदा कल्पे ख्यातिं यास्यसि पुष्कलाम् ॥ ११३ ततस्तस्मिंस्तदा कल्पे वाराहे सप्तमे प्रभोः । पुनर्विष्णुर्महातेजाः कालो लोकप्रकालनः मनुर्वैवस्वतो नाम तव पुत्रो भविष्यति ॥ ११४


* इदमर्धं नास्ति घ. ड. पुस्तकयोः ।

[अ० २३ श्लो० ११५-१४२] वायुपुराणम् ६३

(माहेश्वरावतारयोगः । )

तदा चतुर्युगावस्थे कल्पे तस्मिन्युगान्तके । भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः ॥ ११५ हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे । चतुःशिष्या शिवं युक्ता भविष्यन्ति तदा मम ॥ ११६ श्वेतश्चैव शिखश्चैव श्वेताश्वः श्वेतलोहितः । चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ ११७ ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम् । तत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभाम् ॥ ११८ पुनस्तु मम देवेशो द्वितीयद्वापरे प्रभुः । प्रजापतिर्यदा व्यासः सत्यो नाम (*भविष्यति ॥ ११९ तदा लोकहितार्थाय सुतारो नाम नामतः । भविष्यामि कलौ तस्मँल्लोकानुग्रहकारणात् ॥ १२० तत्रापि मम ते पुत्रा भविष्या नाम नामतः । ) दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ॥ १२१ प्राप्य योगं तथा ज्ञानं ब्रह्म चैव सनातनम् । रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १२२ तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः । तदा साहं भविष्यामि दमनस्तु युगान्तिके ॥ १२३ तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः । विशोकश्च विकेशश्च विशापः शापनाशनः ॥ १२४ तेऽपि तेनैव मार्गेण योगोक्तेन महौजतः । रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १२५ चतुर्थे द्वापरे चैव यदा व्यासोऽङ्गिराः स्मृतः । तदाऽप्यहं भविष्यामि सुहोत्री नाम नामतः ॥ तत्रापि मम सत्पुत्राश्चत्वारश्च तपोधनाः ॥ १२६ भविष्यन्ति द्विजश्रेष्ठा योगात्मानो दृढव्रताः । सुमुखो दुर्मुखश्चैव दुर्दम्यो दुरतिक्रमः ॥ १२७ प्राप्य योगगतिं सूक्ष्मां विमला दग्धकिल्बिषाः । तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः ॥ १२८ पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा । तदा चापि भविष्यामि कङ्को नाम महातपाः ॥ १२९ अनुग्रहार्थं लोकानां योगात्मा नैककर्मकृत् । चत्वारस्तु महाभागा विरजाः शुद्धयोनयः ॥ १३० पुत्रा मम भविष्यन्ति योगात्मानो दृढव्रताः । सनः सनन्दनश्चैव प्रभुरूर्ध्वस्य सनातनः ॥ १३१ ऋतुः सनत्कुमारश्च निर्मला निरहंकृताः । मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १३२ परिवर्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः । तदाऽप्यहं भविष्यामि लोकाक्षर्नाम नामतः ॥ १३३ शिष्याश्च मम ते दिव्या योगात्मानो दृढव्रताः । भविष्यन्ति महाभागाश्चत्वारो लोकसंमतः ॥ १३४ सुधामा विरजश्चैव शङ्खपादव एव च । योगात्मानो महात्मानस्ते सर्वे दग्धकिल्बिषाः ॥ १३५ तेऽपि तेनैव मार्गेण गमिष्यन्ति न संशयः । सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः ॥ १३६ विभुर्नाम महातेजाः पूर्वमासीच्छतक्रतुः । तदाऽप्यहं भविष्यामि कलौ तस्मिन्युगान्तिके ॥ १३७ नैगिषव्येति विख्यातः सर्वेषां योगिनां वरः । तत्रापि मम त पुत्रा भविष्यन्ति युगे तदा ॥ १३८ सारस्वतः सुमेधश्च वसुवाहः सुवाहनः । तेऽपि तेनैव मार्गेण ध्यानयुक्तिं समाश्रिताः ॥ १३९ भविष्यन्ति महात्मानो रुद्रलोकपरायणाः । वसिष्ठश्चाष्टमे व्यासः + ( परिवर्ते भविष्यति ॥ १४० कपिलश्चाऽऽसुरिश्चैव तथा पञ्चशिखो मुनिः । वाग्वालिश्च महायोगी सर्व एव महौजसः । ) ॥ १४१ प्राप्य माहेश्वरं योगं ध्यानिनां दग्धकल्मषाः । मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ १४२


* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।

६४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० २३ श्लो० १४३-१७२] (माहेश्वरावतारयोगः।)

परिवर्तेऽथ नवमे व्यासः सारस्वतो यदा । तदा चाहं भविष्यामि ऋषभो नाम नामतः ॥ १४३ तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । पराशरश्च गार्ग्यश्च भार्गवो ह्यङ्गिरास्तथा ॥ १४४ भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगाः । सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः ॥ १४५ तेऽपि तेनैव मार्गेण योगोक्तेन तपस्विनः । ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते ॥ १४६ दशमे द्वापरे व्यासस्त्रिधामा नाम नामतः । भविष्यति यदा विप्रास्तदाऽहं भविता पुनः ॥ १४७ हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे । नाम्ना भृगोस्तु शिखरे तस्मात्तच्छिखरं भृगुः ॥ १४८ तत्रैव मम ते पुत्रा भविष्यन्ति दृढव्रताः । बलवन्धुर्निर्रा(र)मित्रः केतुशृङ्गस्तपोधनः ॥ १४९ योगात्मानो महात्मानो ध्यानयोगसमन्विताः । रुद्रलोकं गमिष्यन्ति तपसा दग्धकल्मषाः ॥ १५० एकादशे द्वापरे तु तिष्ठन्ध्यासो भविष्यति । तदाऽप्यहं भविष्यामि गङ्गाद्वार कलेर्धुरि ॥ १५१ उग्रा नाम महानादास्तत्रैव मम पुत्रकाः । भविष्यन्ति महौजस्काः सुवृत्ता लोकविश्रुताः ॥ १५२ लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः । प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः ॥ तेऽपि तेनैव मार्गेण गमिष्यन्ति परां गतिम् ॥ १५३ द्वादशे परिवर्ते तु शततेजा महामुनिः । भविष्यति महासत्त्वो व्यासः कविवरोत्तमः ॥ १५४ ततोऽप्यहं भविष्यामि अत्रिर्नाम युगान्तिके । हैमकं वनमासाद्य योगमास्थाय भूतले ॥ १५५ अत्रापि मम ते पुत्रा भस्मस्नानानुलेपनाः । भविष्यन्ति महायोगा रुद्रलोकपरायणाः ॥ १५६ सर्वज्ञाः समबुद्धिश्च साध्यः सर्वस्तथैव च । रुद्रलोकं गमिष्यन्ति ध्यानयोगपरायणाः ॥ १५७ त्रयोदशे पुनः प्राप्ते परिवर्ते क्रमेण तु । धर्मो नारायणो नाम व्यासस्तु भविता यदा ॥ १५८ तदाऽप्यहं भविष्यामि वालिर्नाम महामुनिः । वालि(ल)खिल्याश्रमे पुण्ये पर्वते गन्धमादने ॥ १५९ तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः । सुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा ॥ १६० महायोगाबलोपेता विमला ऊर्ध्वरेतसः । तेनैव योगमार्गेण गमिष्यन्ति न संशयः ॥ १६१ यदा व्यासः सुरक्षस्तु पर्यायश्च चतुर्दशे । तत्रापि पुनरेवाहं भविष्यामि युगान्तिके ॥ १६२ वंशे त्वङ्गिरसः श्रेष्ठो गौतमो नाम योगवित् । तस्माद्भविष्यते पुण्यं गौतमं नाम तद्वनम् ॥ १६३ तत्रापि नाम ते पुत्रा भविष्यन्ति कलौ तथा । अत्रिरुग्रतपाश्चैव श्रावणोऽथ सविष्ठ(ष्ठ)कः॥ १६४ योगात्मानो महात्मानो ध्यानयागपरायणाः । तेऽपि तेनैव मार्गेण रुद्रलोकानिवासिनः ॥ १६५ ततः प्राप्ते पञ्चदशे परिवर्ते क्रमागते । आरुणिस्तु यदा व्यासो द्वापरे भविता प्रभुः ॥ १६६ तदाऽप्यहं भविष्यामि नाम्ना वेदशिरा द्विजाः । तत्र वेदशिरा नाम अग्रं तत्पारमेश्वरम् ॥ १६७ भविष्यति महावीर्यं वेदशीर्षंश्च पर्वतः । हिमवत्पृष्ठमाश्रित्य सरस्वत्या नगोत्तमे ॥ १६८ तदाऽपि मम ते पुत्रा भविष्यन्ति तपोधनाः । कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ १६९ योगात्मानो महात्मानो बलिष्ठाश्चोर्ध्वरेतसः । तेऽपि तेनैव मार्गेण रुद्रलोकं गतास्तु ते ॥ १७० ततः षोडशमे चापि परिवर्ते क्रमागते । व्यासस्तु संजयो नाम भविष्यति तदा प्रभुः ॥ १७१ तदाऽप्यहं भविष्यामि गोकर्णो नाम नामतः । [*तस्माद्भविष्यते पुण्यं गोकर्णं नाम तद्वनम् ॥ १७२


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

[अ०२३श्लो०१७३-१९६] वायुपुराणम् ६५

( माहेश्वरावतारयोगः )
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । काश्यपो ह्युशना चैव च्यवनोऽथ बृहस्पतिः ]
तेऽपि तेनैव मार्गेण गमिष्यन्ति परं पदम् ॥ १७३
ततः सप्तदशे चैव परिवर्ते क्रमागते । तदा भविष्यते व्यासो नाम्ना देवकृतञ्जयः ॥ १७४
तदाऽप्यहं भविष्यामि गुहावासीति नामतः । हिमवच्छिखरे चैव महातुङ्गे महालये ॥
सिद्धक्षेत्रं महापुण्यं भविष्यति महालयम् ॥ १७५
तत्रापि मम ते पुत्रा ब्रह्मज्ञा योगवेदिनः । भविष्यन्ति महात्मानो मर्मज्ञा निरहंकृताः ॥ १७६
उतथ्यो वामदेवश्च महाकालो महालयः । तेषां शतसहस्रं तु शिष्याणां ध्यानसाधनम् ॥ १७७
भविष्यन्ति तदा कल्पे सर्वे ते ध्यानयुञ्जकाः । ते तु संनिहिता योगे हृदि कृत्वा महेश्वरम् ॥
महालये पदं शिप्त्वा प्रविष्टाः शिवमव्ययम् ॥ १७८
ये चान्येऽपि महात्मानः काले तस्मिन्युगान्तिके । ध्यानयुक्तेन मनसा विमलाः शुद्धबुद्धयः ॥
गत्वा महालयं पुण्यं दृष्ट्वा माहेश्वरं पदम् । तूर्णं तारयते जन्तून्दश पूर्वान्दशापरान् ॥ १७९
आत्मानमेकविंशं च तारायित्वा महार्णवम् । मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः ॥ १८०
ततोऽष्टादशमश्चैव परिवर्तो यदा भवेत् । तदा ऋतञ्जयो नाम व्यासस्तु भविता मुनिः॥
तदाऽप्यहं भविष्यामि शिखण्डी नाम नामतः ॥ १८१
सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते । हिमवच्छिखरे पुण्ये शिखण्डी यत्र पर्वतः ॥
शिखण्डिनो वनं चापि ऋषिसिद्धनिषेवितम् ॥ १८२
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः । वाचश्रवा ऋती(ची)कश्च शावासश्च दृढव्रतः ॥ १८३
योगात्मानो महासत्वाः सर्वे ते वेदपारगाः । प्राप्य माहेश्वरं योगं रुद्रलोकं व्रजन्ति ते ॥ १८४
ततस्त्वेकोनविंशे तु परिवर्ते क्रमागते । व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः ॥ १८५
तत्राप्यहं भविष्यामि जटामालीति नामतः । हिमवच्छिखरे रम्ये जटायुर्यत्र पर्वतः ॥ १८६
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । हिरण्यनामा कौशिल्यः काक्षीवः कुथुमिस्तथा ॥ १८७
ईश्वरा योगधर्माणः सर्वे ते ह्युर्ध्वरेतसः । प्राप्य माहेश्वरं योगं गमिष्यन्ति न संशयः ॥ १८८
ततो विंशतिमे सर्गे परिवर्ते क्रमेण तु । वाचःश्रवाः स्मृतो व्यासो भविष्यति महामतिः ॥ १८९
तदाऽप्यहं भविष्यामि हट्टहासेति नामतः । अट्टहासप्रियाश्चापि भविष्यन्ति तदा नराः ॥ १९०
तत्रैव हिमवत्पृष्ठे त्वट्टहासो महागिरिः । भविष्यति महातेजाः सिद्धचारणसेवितः ॥ १९१
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । युक्तात्मानो महासत्वा ध्यायिनो नियमव्रताः ॥ १९२
सुमन्तुर्बर्बरिर्विद्वान्सुबन्धुः कुशिकन्धरः । प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥ १९३
एकविंशे पुनः प्राप्ते परिवर्ते क्रमेण तु । वाचस्पतिः स्मृतो व्यासो यदा स ऋषिसत्तमः ॥ १९४
तदाऽप्यहं भविष्यामि दारुको नाम नामतः । तस्माद्भविष्यते पुण्यं देवदारुवनं महत् ॥ १९५
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । प्लक्षो दाक्षायणिश्चैव केतुमाली वकस्तथा ॥ १९६

६६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० २३ श्लो १९७-२१८] ( माहेश्वरावतारयोगः )

योगात्मानो महात्मानो नियता ह्यूर्ध्वरेतसः । परं योगमास्थाय रुद्रं प्राप्तास्तदाऽनघाः ॥ १९७
द्वाविंशे परिवर्ते तु व्यासः शुक्सायनो यदा । तदाऽप्यहं भविष्यामि वाराणस्यां महामुनिः ॥ १९८
नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः । द्रक्ष्यन्ति मां कलौ तस्मिन्प्रवतीर्णे हलायुधम् ॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः । तुल्यार्चिर्मधुपिङ्गाक्षः श्वेतकेतुस्तथैव च ॥ २००
तेऽपि माहेश्वरं योगं प्राप्य ध्यानपरायणाः । विराजा ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः ॥ २०१
परिवर्ते त्रयोविंशे तृणविन्दुर्यदा मुनिः । व्यासो भविष्यति ब्रह्मंस्तदाऽहं भविता पुनः ॥ २०२
श्वेतो नाम महाकायो मुनिपुत्रः सुधार्मिकः ॥ २०३
तत्र कालं जरिष्यामि तदा गिरिवरोत्तमे । तेन कालंजरो नाम भविष्यति स पर्वतः ॥ २०४
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः । आसिजो बृहदुद्यंश्च देवलः काविरेव च ॥
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥ २०५
परिवर्ते चतुर्विंशे ऋक्षो व्यासो भविष्यति । तत्राहं भविता ब्रह्मन्कलौ तस्मिन्युगान्तिके ॥
शूली नाम महायोगी नैमिषे योगिवन्दिते ॥ २०६
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः । शालिहोत्रोऽग्निवेश्यश्चः युवनाथः शरद्वसुः ॥
तेऽपि योगबलोपेता रुद्रं यास्यन्ति सुव्रताः ॥ २०७
पञ्चविंशे पुनः प्राप्ते परिवर्ते यथाक्रमम् । वसिष्ठस्य यदा व्यासः शक्तिर्नाम भविष्यति ॥ २०८
तदाऽप्यहं भविष्यामि दण्डी मुण्डीश्वरः प्रभुः । कोटिवर्षं समासाद्य नगरं देवपूजितम् ॥ २०९
तत्रापि मम ते पुत्रा भविष्यन्ति क्रमागतः । योगात्मानो महात्मानः सर्वे ते ह्यूर्ध्वरेतसः २१०
छागलः कुम्भकर्णाश्यः कुम्भश्चैव प्रवाहकः । प्राप्य माहेश्वरं योगं गमिष्यन्ति तथैव ते ॥ २११
षड्विंशे परिवर्ते तु यदा व्यासः पराशरः । तदाऽप्यहं भविष्यामि सहिष्णुर्नाम नामतः ॥
पुण्यं रुद्रवटं प्राप्य कलौ तस्मिन्युगान्तिके ॥ २१२
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः । उलूको वैद्युतश्चैव शर्वको ह्वाश्वलायनः ॥
प्राप्य माहेश्वरं योगं गन्तारस्ते तथैव हि ॥ २१३
सप्तविंशतितमे प्राप्ते परिवर्ते क्रमागते । जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः ॥ २१४
तदाऽप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः । प्रभासं तीर्थमासाद्य योगात्मा लोकविश्रुतः ॥ २१५
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः । अक्षपादः कणादश्च उलूको वत्स एव च ॥ २१६
योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः । प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः ॥
अष्टाविंशे पुनः प्राप्ते परिवर्ते कृपागते । पराशरसुतः श्रीमान्विष्णुर्लोकपितामहः ॥ २१७
यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः । तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ॥
वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति ॥ २१८

[अ०२३-२४श्लो०२१९-२२६।१-१२] वायुपुराणम् । ६७

(शार्वस्तवः)

तदा चाहं भविष्यामि योगात्मा योगमायया । (*लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः ॥ २१९
श्मशाने मृतमुत्सृष्टं दृष्ट्वा लोकमनाथकम् । ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया) ॥ २२०
दिव्यां मेरुगुहां पुण्यां त्वया सार्धं च विष्णुना । भविष्यामि तदा ब्रह्मन्नकुली नाम नामतः ॥२२१
कायारोहणमित्येवं सिद्धक्षेत्रं च वै तदा । भविष्यति तु विख्यातं यावद्भूमिर्धरिष्यति ॥ २२२
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः । कुशिकश्चैव गार्ग्यश्च मित्रको रुष्ट एव च ॥ २२३
योगयुक्ता महात्मानो ब्राह्मणा वेदपारगाः । प्राप्य माहेश्वरं योगं विमला ह्युर्ध्वरेतसः ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥ २२४
इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् । मन्वादिकृष्णपर्यन्तमष्टाविंशयुगक्रमात् ॥ २२५
+भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा । तत्र स्मृतिसमूहानां विभागो धर्मलक्षणम् ॥ २२६
इति महापुराणे वायुप्रोक्ते माहेश्वरातारयोगो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
आदितः श्लोकानां समष्ट्यङ्काः—१६७१

अथ चतुर्विंशोऽध्यायः ।

शार्वस्तवः ।

वायुरुवाच—
चत्वारि भारते वर्षे युगानि मुनयो विदुः । कृतं त्रेता द्वापरं च तिष्यं चेति चतुर्युगम् ॥ १
एतत्ससहस्रपर्यन्तमहर्यद्ब्रह्मणः स्मृतम् । यामाद्यास्तु गणाः सप्त रोभवन्तश्चतुर्दश ॥ २
सशरीरा श्रयन्ते स्म जनलोकं सहानुगाः । एवं देवेष्वतीतेषु महर्लोकाज्जनं तपः ॥ ३
मन्वन्तरेष्वतीतेषु देवाः सर्वे महौजसः । ततस्तेषु गतेषूर्ध्वं सायुज्यं कल्पवासिनाम् ॥ ४
समेत्य दैवैस्ते देवाः प्राप्ते संकालने तदा । महर्लोकं परित्यज्य गणास्ते वै चतुर्दश ॥ ५
भूतादिष्ववशिष्टेषु स्थावरान्तेषु वै तदा । शून्येपु तेषु लोकेषु महान्तेषु भुवादिषु ॥
देवेष्वथ गतेषूर्ध्वं कल्पवासिषु वै जनम् ॥ ६
तत्संहृत्य ततो ब्रह्मा देवर्षिगणदानवान् । संस्थापयति वै सर्वान्दाहवृष्ट्या युगक्षये ॥ ७
योऽतीतः सप्तमा कल्पो मया वः परिकीर्तितः । समुद्रैः सप्तभिर्गाढमेकीभूतैर्महार्णवैः ॥
आसीदेकार्णवं घोरमविभागं तमोमयम् ॥ ८
मयैकार्णवे तस्मिञ्शङ्खचक्रगदाधरः । जीमूताभोऽम्बुजाक्षश्च किरीटी श्रीपतिर्हरिः ॥ ९
नारायणमुखोद्गीर्णः सोऽष्टमः पुरुषोत्तमः । अष्टबाहुर्महोरस्को लोकानां योनिरुच्यते ॥
किमप्यचिन्त्यं युक्तात्मा योगमास्थाय योगवित् ॥ १०
फणासहस्रकलितं तमप्रतिमवर्चसम् । महाभोगपतेर्भागमन्वास्तीर्य महोच्छ्रयम् ॥
तस्मिन्महति पर्यङ्के शेते वै कनकप्रभे ॥ ११
एवं तत्र शयानेन विष्णुना प्रभविष्णुना । आत्मारामेण क्रीडार्थं सृष्टं नाभ्यां तु पङ्कजम् ॥ १२


* धनुश्चिह्नान्तर्गतग्रन्थो ख. घ. पुस्तके नास्ति । + इदमर्धं नास्ति क.. पुस्तके ।

६८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० २४ श्लो० १३-३६] (शार्वस्तवः)

शतयोजनविस्तीर्णं तरुणादित्यवर्चसम् । वज्रदण्डं महोत्सेधं लीलया प्रभविष्णुना ॥ १३ तस्यैवं क्रीडमानस्य समीपं देवमीढुषः । हेमब्रह्माण्डजो ब्रह्मा रुक्मवर्णो ह्यतीन्द्रियः ॥ चतुर्मुखो विशालाक्षः समागम्य यदृच्छया ॥ १४ श्रिया युक्तेन नव्येन सुप्रभेण सुगन्धिना । तं क्रीडमानं पद्मेन दृष्ट्वा ब्रह्मा तु भेजिवान् ॥ १५ स विस्मयमथाऽऽगम्य श्लक्ष्णसम्पूर्णया गिरा । प्रोवाच को भवांश्शेते आश्रितो मध्यमम्भसाम् ॥ १६ अथ तस्याच्युतः श्रुत्वा ब्रह्मज्ञस्तु शुभं वचः । उदतिष्ठत पर्यङ्काद्विस्मयोत्फुल्ललोचनः ॥ १७ प्रत्युवाचोत्तरं चैव क्रियते यच्च किंचन । द्यौरन्तरिक्षं भूश्चैव परं पदमहं प्रभुः ॥ १८ तमेवमुक्त्वा भगवान्विष्णुः पुनरथाब्रवीत् । कस्त्वं खलु समायातः समीपं भगवान्कुतः ॥ कुतश्च भूयो गन्तव्यं कुत्र वा ते प्रतिश्रयः ॥ १९ को भवान्विधमूर्त्तिस्त्वं कर्तव्यं किं च ते मया । एवं ब्रुवाणं वैकुण्ठं प्रत्युवाच पितामहः ॥ २० यथा भवांस्तथा चाहमादिकर्त्ता प्रजापतिः । नारायणसमाख्यातः सर्वं वै मयि तिष्ठति ॥ २१ सविस्मयं परं श्रुत्वा ब्रह्मणा लोककर्तृणा । सोऽनुज्ञातो भगवता वैकुण्ठो विश्वसंभवः ॥ २२ कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम् । इमानष्टादश द्वीपान्ससमुद्रान्सपर्वतान् ॥ २३ प्रविश्य स महातेजाश्चातुर्वर्ण्यसमाकुलान् । ब्रह्मादिस्तम्बपर्यन्तान्सप्तलोकान्सनातनान् ॥ २४ ब्रह्मणस्तूदरं दृष्ट्वा सर्वान्विष्णुर्महायशाः । अहोऽस्य तपसो वीर्यं पुनः पुनरभाषत ॥ २५ पर्यटन्विविधाँल्लोकान्विष्णुर्नानाविधाश्रमान् । ततो वर्षसहस्रान्ते नान्तं हि ददृशे तदा ॥ २६ तदाऽस्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रादिकेतनः । अजातशत्रुर्गर्भगवान्पितामहमथाब्रवीत् ॥ २७ भगवन्नादिमध्यं च अन्तः कालादिशे न च । नाहमन्तं प्रपश्यामि ह्युदरस्य तवानघ ॥ २८ एवमुक्तवाऽब्रवीद्भूयः पितामहमिदं हरिः । भवानप्येवमेवाद्य ह्युदरं मम शाश्वतम् ॥ प्रविश्य लोकान्पश्यैताननौपम्यानद्विजोत्तम ॥ २९ मनःप्रह्लादनीं वाणीं श्रुत्वा तस्याभिनन्द्य च । श्रीपतेरुदरं भूयः प्रविवेश पितामहः ॥ ३० तानेव लोकान्गर्भस्थः पश्यन्सोऽचिन्त्यविक्रमः । पर्यटित्वाऽऽदिदेवस्य ददर्शान्तं न वै हरेः ॥ ३१ ज्ञात्वाऽऽगमं तस्य पितामहस्य द्वाराणि सर्वाणि विधाय विष्णुः । विभुर्मनः कर्तुमियेष चाऽऽशु सुखं प्रसुप्तोऽस्मि महाजलौघे ॥ ३२ ततो द्वाराणि सर्वाणि पिहितान्युपलक्ष्य ते । सूक्ष्मं कृत्वाऽऽत्मनो रूपं नाभ्यां द्वारमविन्दत ॥ पद्मसूत्रानुमार्गेण ह्यनुगम्य पितामहः । उज्जहाराऽऽत्मनो रूपं पुष्कराच्चतुराननः । ३३ विरराजारविन्दस्थः पद्मगर्भसमद्युतिः ॥ ३४ एतस्मिन्नन्तरे ताभ्यामेकैकस्य तु कार्त्स्न्यतः । प्रवर्त्तमाने संहर्षे मध्ये तस्यार्णवस्य तु* ॥ ३५

सूत उवाच- ततो ह्यपरिमेयात्मा भूतानां प्रभुरीश्वरः । शूलपाणिर्महादेवो हेमचीराम्बरच्छदः ॥ आगच्छद्यत्र सोऽनन्तो नागभोगपतिर्हरिः ॥ ३६


* अस्मिन्स्थलेऽध्यायपरिसमाप्तिर्दृश्यते ख. घ. ङ. पुस्तकेषु ।

[अ० २४ श्लो० ३७-५७] वायुपुराणम् । ६९ ( शार्वस्तव )

शीघ्रं विक्रमदस्तस्य पद्मञ्चाम्यन्तपीडितः । उद्भूतास्तूर्णमाकाशे पृथुलास्तोयगिन्दवः ॥ अत्युष्णाश्चातिशीताश्च वायुस्तत्र ववौ भृशम् ॥ ३७ तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत । अब्बिन्दवो हि स्थूलोष्णाः कम्पते चाम्बुजं भृशम् एतं मे संशयं ब्रूहि किंचान्यच्चेषं चिकीर्षसि ॥ ३८ एतदेवंविधं वाक्यं पितामहमुखोद्भवम् । श्रुत्वाऽप्रतिमकर्माऽऽह भगवान्सुरान्तकृत् ॥ ३९ किं नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम् । वदति प्रियमत्यर्थं विप्रियेऽपि च ते मया ॥ ४० इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम् । किं न्वत्र भगवांस्तस्मिन्पुष्करे जातसंभ्रमः ॥ ४१ किं मया यत्कृतं देव यन्मां प्रियमनुत्तमम् । भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः ॥ ४२ एवं ब्रुवाणं देवेशं लोकमात्रां तु तत्त्वगाम् । प्रत्युवाचाम्बुजाभास्कः ब्रह्मा वेदनिधिः प्रभुः ॥ ४३ योऽसौ तवोदरं पूर्वं प्रविष्टोऽहं त्वदिच्छया । यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो । तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे ॥ ४४ ततो वर्षसहस्रान्त उपावृत्तस्य मेऽनव । नूनं मत्सरभावेन मां वशीकर्तुमिच्छता ॥ आशु द्वाराणि सर्वाणि घटितानि त्वया पुनः ॥ ४५ ततो मया महाभाग संचिन्त्य स्वेन चेतसा । लब्धो नाभ्यां प्रवेशस्तु पद्मसूत्राद्विनिर्गमः ॥ ४६ मा भूत्ते मनसोऽल्पोऽपि व्याघातोऽयं कथंचन । इत्येषाऽनुगतिर्विष्णोः कार्याणामौपसर्गिकौ ॥ ४७ यन्मयाऽनन्तरं कार्यं मयाऽध्यवसितं त्वयि । त्वां वा बाधितुकामेन क्रीडापूर्वं यदृच्छया ॥ आशु द्वाराणि सर्वाणि घटितानि मया पुतः ॥ ४८ न तेऽन्यथाऽवमन्तव्यो मान्यः पूज्यश्च मे भवान् । सर्वं मर्षय कल्याण यन्मयाऽथ कृतं तव ॥ तस्मान्मयोच्यमानस्त्वं पद्मादवतर प्रभो ॥ ४९ नाहं भवन्तं शक्नोमि सोढुं तेजोमयं गुरुम् । स चोवाच वरं ब्रूहि पद्मादवतराम्यहम् ॥ ५०

विष्णुरुवाच--

पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनाम् । सत्यधनो महायोगी त्वमडिचः प्रणवात्मकः ॥ ५१ अद्यप्रभृति सर्वेश श्वेतोष्णीषाविभूषणः । पद्मयोनिरितीत्येवं ख्यातो नाम्ना भविष्यसि ॥ पुत्रो मे त्वं भव ब्रह्मन्सर्वलोकाधिप प्रभो ॥ ५२ ततः स भगवान्ब्रह्मा वरं गृह्य किरीटिनः । एवं भवतु चेत्युक्त्वा प्रीतात्मा गतमत्सरः ॥ ५३ प्रत्यासन्नमथाऽऽयान्तं बालार्कभं महाननम् । भूतमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत् ॥ ५४ अप्रमेयो महावक्त्रो दंष्ट्री व्यस्तशिरोरुहः । दशबाहुस्त्रिशूलाङ्को नयनैर्विश्वतोमुखः ॥ ५५ लोकप्रभुः स्वयं साक्षाद्विकृतो मुञ्जमेखली । मेढ्रेणोधर्वेन महता नदमानोऽतिभैरवम् ॥ ५६ कः खल्वेष पुमान्विष्णो तेजोराशीर्महाद्युतिः । व्याप्य सर्वा दिशो द्यां च इत एवाभिवर्तते ॥ ५७

७०श्रीमद्वैपायनमुनिप्रणीतम्-[अ० २४ श्लो० ५८-८१]
( शार्वस्तवः )

तेनेवमुक्तो भगवान्विष्णुर्ब्रह्माणमब्रवीन् । पद्भ्यां तलनिपातेन यस्य मिक्रमतोऽर्णवे ॥
वेगेन महताऽऽकाशे व्यथिताश्च जलाशयाः ॥ ५८
छटाभिर्विधतोऽत्यर्थं सिच्यते पद्मसंभवः । घ्राणजेन च वातेन कम्प्यमानं त्वया सह ॥
दोधूयते महापद्मं स्वच्छन्दं मम नाभिजम् ॥ ५९
स एष भगवान्नीशो ह्यनादिश्रान्तकृद्विभुः । भवानहं च स्तोत्रेण ह्युपतिष्ठाव गोध्वजम् ॥ ६०
ततः क्रुद्धोऽम्बुजाभास्कं ब्रह्मा प्रोवाच केशवम् । न भवान्प्रनमात्मानं लोकानां योनिमुत्तमम् ॥ ६१
ब्रह्माणं लोककर्त्तारं मां च वेत्सि सनातनम् । कोऽयं भोः शंकरो नाम ह्वावयोर्व्यतिरिच्यते ॥ ६२
तस्य तत्क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत । मा मैवं वद कल्याण परिवादं महात्मनः ॥ ६३
मायायोगेश्वरो धर्मो दुराधर्षो वरप्रदः । हेतुरस्यात्र जगतः पुराणः पुरुषोऽव्ययः ॥ ६४
जीवः खल्वेष जीवानां ज्योतिरेकं प्रकाशते । बालक्रीडनकैर्र्देवः क्रीडते शंकरः स्वयम् ॥ ६५
प्रधानमव्ययं ज्योतिरव्यक्तं प्रकृतिस्तमः । अस्य चैतानि नामानि नित्यं प्रसवधर्मिणः ॥
यः कः स इति दुःखार्तैर्मृग्यते यतिभिः शिवः ॥ ६६
एष बीजी भवान्बीजमहं योनिः सनातनः । एवमुक्तोऽथ विश्वात्मा ब्रह्मा विष्णुमभाषत ॥ ६७
भवान्योनिरहं बीजं कथं बीजी महेश्वरः । एतन्मे सूक्ष्ममव्यक्तं संशयं छेत्तुमर्हसि ॥ ६८
ज्ञात्वा चैवं समुत्पत्तिं ब्रह्मणा लोकतन्त्रिणा । इदं परमसादृश्यं प्रक्षमभ्यवदद्धरिः ॥ ६९
अस्मान्महत्तरं गुह्यं भूतमन्यन्न विद्यते । महतः परमं धाम शिवमध्यात्मिनां पदम् ॥ ७०
द्वैधीभावेन चाऽऽत्मानं प्रविष्टस्तु व्यवस्थितः । निष्कलः सूक्ष्ममव्यक्तः सकलश्च महेश्वरः ॥ ७१
अस्य मायाविधिक्षस्य अगम्यगमनस्य च । पुरा लिङ्गं भवद्बीजं प्रथमं त्वादिसर्गिकम् ॥ ७२
मयि योनौ समायुक्तं तद्बीजं कालपर्ययात् । हिरण्ययमपारं तद्योन्याप्रण्डमजायत ॥ ७३
शतानि दश वर्षाणामण्डं चाप्सु प्रतिष्ठितम् । अन्ते वर्षसहस्रस्य वायुना तद्द्विधा कृतम् ॥ ७४
कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः । उल्बं तस्य महोत्सेधं योऽसौ कनकपर्वतः ॥ ७५
ततस्तस्मात्प्रबुद्धात्मा देवो देववरः प्रभुः । हिरण्यगर्भो भगवानहं जज्ञे चतुर्भुजः ॥ ७६
( * ततो वर्षसहस्रान्ते वायुना तद्द्विधा कृतम् । ) अतारार्केंन्दुनक्षत्रं शून्यं लोकमवेक्ष्य च ॥
कोऽयमेत्यभिध्याते कुमारास्तेऽभवंस्तदा ॥ ७७
प्रियदर्शनास्तु तनवो(या) येऽतीताः पूर्वजास्तव । भूयो वर्षसहस्रान्ते तत एवाऽऽत्मजास्तव ॥
भुवनाननसंकाशाः पद्मपत्रायतेक्षणाः ॥ ७८
श्रीमान्सनत्कुमारस्तु ऋतुश्चैवोर्ध्वरेतसौ । सनातनश्च सनकस्तथैव च सनन्दनः ॥
उत्पन्नः समकालं ते बुद्ध्याऽतीन्द्रियदर्शनाः ॥ ७९
उत्पन्नाः प्रतिघात्मानो जगदुश्चैतदेव हि । नारप्स्यन्ते च कर्माणि तापत्रयविवार्जिताः ॥ ८०
अल्पसौख्यं बहुक्लेशं जराशोकसमन्वितम् । जीवितं मरणं चैव संभवं च पुनः पुनः ॥ ८१


* इदमर्धं नास्ति ख. ग. घ. पुस्तकेषु ।

[अ० २४ श्लो० ८२-१०५] वायुपुराणम् । ७१

(शार्वस्तवः)

स्वप्नभूतं पुनः स्वर्गं दुःखानि नरकास्तथा । विदित्वा चाऽऽगमं सर्वमवश्यं भवितव्यताम् ॥ ८२
ऋभुं सनत्कुमारं च दृष्ट्वा तव वशे स्थितौ । त्रयस्तु त्रीन्गुणान्छित्वा आत्मजाः सनकादयः ॥
वैवर्त्तेन तु ज्ञानेन निवृत्तास्ते महौजसः ॥ ८३
ततस्तेष्वप्रवृत्तेषु सनकादिषु वै त्रिषु । भविष्यसि विमूढस्तु मायया शंकरस्य तु ॥ ८४
एवं कल्पे तु वै कल्पे संज्ञा नश्यति तेऽनघ । कल्पशेषाणि भूतानि सूक्ष्माणि पार्थिवानि च ॥ ८५
सा चैषा ह्यैश्वरी माया जगतः समुदाहृता । स एष पर्वतो मेरुर्देवलोको ह्युदाहृतः ॥ ८६
तवैवेदं हि माहात्म्यं दृष्ट्वा चाऽऽत्मानमात्मना । ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामम्बुजेक्षणम् ॥ ८७
महादेवं महायोगं भूतानां वरदं प्रभुम् । प्रणवात्मानमासाद्य नमस्कृत्या(त्य) जगद्गुरुम् ॥
त्वां च मां चैव संक्रुद्धो निश्वासाग्निर्दहेदयम् ॥ ८८
एवं ज्ञात्वा महायोगमभ्युत्तिष्ठ महाबल । अहं त्वामग्रतः कृत्वा स्तोष्येऽहमनलप्रभम् ॥ ८९

सूत उवाच--

ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः । अतीतैश्च भविष्यैश्च वर्तमानैस्तथैव च ॥ ९०
नामाभिश्चान्दसैश्र्चैव इदं स्तोत्रमुदीरयत् ॥
नमस्तुभ्यं भगवते सुव्रतेऽनन्ततेजसे । नमः क्षेत्राधिपतये बीजिने शूलिने नमः ॥ ९१
अमेद्यायोर्ध्वमेद्राय नमो वैकुण्ठरेतसे । नमो ज्येष्ठाय श्रेष्ठाय ह्यपूर्वप्रथमाय च ॥ ९२
नमो हव्याय पूज्याय सद्योजाताय वै नमः । (*गह्वराय धनेशाय हैमचीराम्बराय च ॥ ९३
नमस्ते ह्यस्मदादीनां भूतानां प्रभवाय च । वेदकर्मविदातानां द्रव्याणां प्रभवे नमः ॥ ९४
÷ग्रहाणां प्रभवे चैन ताराणां प्रभवे नमः । ) × नभो योगस्य प्रभवे सांख्यस्य प्रभवे नमः ॥
नमो ध्रुवनिशीथानामृषीणां पतये नमः ॥ ) ९५
विद्युदशनिमेघानां गर्जितप्रभवे नमः । उदधीनां च प्रभवे द्वीपानां प्रभवे नमः ॥ ९६
अद्रीणां प्रभवे चैन वर्षाणां प्रभवे नमः । नमो नदानां प्रभवे नदीनां प्रभवे नमः ॥ ९७
नमश्चौषधिप्रभवे वृक्षाणां प्रभवे नमः । धर्माध्यक्षाय धर्मार्थ स्थितीनां प्रभवे नमः ॥ ९८
नमो रसानां प्रभवे रत्नानां प्रभवे नमः । नमः क्षणानां प्रभवे कलानां प्रभवे नमः ] ९९
निमेषप्रभवे चैव काष्ठानां प्रभवे नमः । अहोरात्रार्धमासानां मासानां प्रभवे नमः ॥ १००
नम ऋतूनां प्रभवे संख्यायाः प्रभवे नमः । प्रभवे च परार्धस्य परस्य प्रभवे नमः ॥ १०१
नमः पुराणप्रभवे युगस्य प्रभवे नमः । चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे ॥ १०२
कल्पोदयनिबद्धानां वार्तानां प्रभवे नमः । नमो विश्वस्य प्रभवे ब्रह्मादिप्रभवे नमः ॥ १०३
विद्यानां प्रभवे चैव विद्यानां पतये नमः । नमो व्रतानां पतये मन्त्राणां पतये नमः ॥ १०४
पितॄणां पतये चैव पशूनां पतये नमः । वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च ॥ १०५


* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । ÷ इदमर्द्धं क. ख. ग. पुस्तकेषु नास्ति । × धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।

७२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० २४ श्लो० १०६–१३१] (शार्वस्तवः)

सुचारुचारुकेशाय ऊर्ध्वचक्षुःशिराय च । नमः पशूनां पतये गोवृपेन्द्रध्वजाय च ॥ १०६ प्रजापतीनां पतये सिद्धानां पतये नमः । (*दैत्यदानवसंघानां रक्षसां पतये नमः ॥ १०७ गन्धर्वाणां च पतये यक्षाणां पतये नमः । ) गरुडोरगसर्पाणां पक्षिणां पतये नमः ॥ १०८ गोकर्णाय च गोष्ठाय शङ्कुकर्णाय वै नमः । वराहायाप्रमेयाय रक्षोधिंपतये नमः ॥ १०९ नमोऽप्सरसां पतये गणानां पतये नमः । अम्भसां पतये चैव तेजसां पतये नमः ॥ ११० नमोऽस्तु लक्ष्मीपतये श्रीमते हिंमते नमः । बलाबल्समूहाय सक्षोभ्यक्षोभणाय च ॥ १११ दीर्घशृङ्गेकशृङ्गाय वृषभाय ककुद्मिने । नमः स्थैर्याय वपुषे तेजसे सुप्रभाय च ॥ ११२ भूताय च भविष्याय वर्तमानाय वै नमः । सुवर्चसेऽथ वीराय शूराय क्षतिगाय च ॥ ११३ वरदाय वरेण्याय नमः सर्वगताय च । नमो भूताय भव्याय भवाय महते तथा ॥ ११४ सर्वाय महतेऽजाय नमः सर्वगताय च । जनाय च नमस्तुभ्यं तपसे वरदाय च ॥ नमो वन्द्याय मोक्षाय जनाय नरकाय च ॥ ११५ भवाय भजमानाय इष्टाय याजकाय च । अभ्युदीर्णाय दीप्ताय तत्त्वाय निर्गुणाय च ॥ ११६ नमः पाशाय हस्ताय नमः स्वाभरणाय च । हुताय अपहुताय प्रहुतपाशिताय च ॥ ११७ नमस्त्विष्टाय मूर्ताय ह्यभिष्टेमर्त्विजाय च । (÷नम ऋताय सत्याय भूताधिपतये नमः ॥ ) ११८ सदस्याय नमश्चैव दक्षिणावभृथाय च । अहिंसायैाथ लोकानां पशुमन्त्रौषधाय च ॥ ११९ नमस्तुष्टिप्रदानाय त्र्यम्बकाय सुगन्धये । नमोऽस्त्विन्द्रियपतये परिहाराय स्रग्विणे ॥ १२० विधाय विधुरूपाय विश्वतोऽक्षिमुखाय च । सर्वतःपाणिपादाय रुद्रायाप्रमिताय च ॥ १२१ नमो हव्याय कव्याय हव्यकव्याय वै नमः । नमः सिद्धाय मेध्याय चेष्टाय त्वव्ययाय च ॥ १२२ सुवीराय सुवोराय सक्षोभ्यक्षोभणाय च । सुमेधसे सुपजाय दीप्ताय भास्कराय च ॥ १२३ नमो नमः सुपर्णाय तपनीयनिभाय च । विरूपाक्षाय त्र्यक्षाय पिङ्गलाय महौजसे ॥ १२४ दृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च । नमो धूम्राय श्वेताय कृष्णाय लोहिताय च ॥ १२५ पिशिताय पिशङ्गाय पीताय च निषङ्गिणे । नमस्ते सविशेपाय निर्विशेषाय वै नमः ॥ १२६ = नम इज्याय पूज्याय चोपजीव्याय वै नमः । नमः क्षेम्याय वृद्धाय वत्सलाय नमो नमः ॥ नम ऋताय सत्याय सत्यासत्याय वै नमः ॥ ) १२७ नमो वै पद्मवर्णाय मृत्युघ्नाय च मृत्यवे । नमः श्यामाय गौराय कद्रवे रोहिताय च ॥ १२८ ( × नमः कान्ताय सन्ध्याभ्रवर्णाय वायुरूपिणे । ) नमः कपालहस्ताय दिग्वस्त्राय कपर्दिने ॥ १२९ अप्रमेयाय शर्वाय ह्यवध्याय वराय च । पुरस्तात्पृष्ठतश्चैव विभ्रान्ताय कृशानवे ॥ १३० दुर्गाय महते चैव रोधाय कपिलाय च । अर्कप्रभशरीराय बलिने रंहसाय च ॥ १३१


* धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति । ÷ इदमर्धं ख. ग. घ. ङ. पुस्तकेषु नास्ति ।
= अस्मिन्नर्धस्थाने इदमर्धं दृश्यते ख. घ. ङ्. पुस्तकेषु । महासंध्याभ्रवर्णाय चारुरूपाय दक्षिणे ।
× धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति ।

पिनाकिने प्रसिद्धाय स्फीताय प्रस्तुताय च। सुमेधसेऽक्षमालाय दिग्वासाय शिखण्डिने ॥ १३२

[अ० २४ श्लो० १३२-१५५] वायुपुराणम्। ७३

(शार्वस्तवः)
पिनाकिने प्रसिद्धाय स्फीताय प्रस्तुताय च। सुमेधसेऽक्षमालाय दिग्वासाय शिखण्डिने ॥ १३२
चित्राय चित्रवर्णाय विचित्त्राय धराय च। चेकितानाय तुष्टाय नमस्त्वनिहिताय च ॥ १३३
नमः क्षान्ताय शान्ताय वज्रसंहननाय च। रक्षोघ्नाय मखघ्नाय शितिकण्ठोर्ध्वरेतसे ॥ १३४
अरिहाय कृतान्ताय तिग्मायुधधराय च। संमोदाय प्रमोदाय हरिण्यायैव ते नमः ॥ १३५
प्रणवप्रणवेशाय भक्तानां शर्मदाय च। मृगव्याधाय दक्षाय दक्षयज्ञहराय च ॥ १३६
सर्वभूताय भूताय सर्वेषातिशयाय च। पुरभेत्रे च शान्ताय सुगन्धाय वरैषवे ॥ १३७
पूष्णो दन्तविनाशाय भग्ननेत्रान्तकाय च। कणादाय वरिष्ठाय कामाङ्गदहनाय च ॥ १३८
रवेः करालचक्राय नागेन्द्रदमनाय च। दैत्यानामन्तकायाथो दिव्याक्रन्दकराय च ॥ १३९
श्मशानरतिनित्याय नमस्त्र्यम्बकधारिणे। नमस्ते प्राणपालाय धवमालाधराय च ॥ १४०
प्रहीणशोकैर्विविधैर्भूतैः परिवृताय च। नरनारीशरीराय देव्याः प्रियकराय च ॥ १४१
जटिने दण्डिने तुभ्यं व्यालयज्ञोपवीतिने। नमोऽस्तु नृत्यशीलाय वायनृत्यप्रियाय च ॥ १४२
मन्यवे गीतशीलाय सुगीतं गायते नमः। कटककराय भीमाय चोग्ररूपधराय च ॥ १४३
बिभीषणाय भीमाय भगप्रमथनाय च। सिद्धसंघातगीताय महाभागाय वै नमः ॥ १४४
नमो मुकाट्टहासाय क्ष्वेडितास्फोटिताय च। नदते कूर्दते चैव मनः प्रमुदिताय च ॥ १४५
नमोऽद्भुताय स्वपते धावते प्रस्थिताय च। ध्यायते जृम्भते चैव तुदते द्रवते नमः ॥ १४६
चलते क्रीडते चैव लम्बोदरशरीरिणे। नमस्कृताय कम्पाय मुण्डाय विकराय च ॥ १४७
नम उन्मत्तवेषाय किंकिणीकाय वै मनः। नमो विकृतवेषाय क्रूरोयामर्ष णाय च ॥ १४८
अपमेयाय दीप्ताय दीप्तये निर्गुणाय च। नमः प्रियाय वादाय मुद्रामणिधराय च ॥ १४९
(*नमस्तोकाय तनवे गुणैरप्रतिमाय च। नमो गणाय गुह्याय गम्याय गमनाय च ॥) १५०
लोकधात्री त्वियं भूमिः पादौ सज्जनसेवितौ। सर्वेषां सिद्धयोगानामाधिष्ठानं तवोदरम् ॥ १५१
मध्येऽन्तरिक्षं विस्तीर्णं तारागणविभूषितम्। तारापथ इवाऽऽभाति श्रीमान्हारस्त्ववोरसि ॥ १५२
दिशो दश भुजास्ते वै केयूराङ्गदभूषिताः। विस्तीर्णपरिणाहश्च नीलाम्बुदचयोपमः ॥ १५३
कण्ठस्ते शोभते श्रीमान्हेमसूत्रविभूषितः। दंष्ट्राकरालदुर्धर्षमनौपम्यं सुखं तव ॥ १५४
पद्ममालाकृतोष्णीषं शीर्षण्यां शोभते कथम्। दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं भूर्शनिलो बले ॥ १५५


* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति।

१०