भारतकोश
संग्रह पर लौटें

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

Here is the complete, line-by-line transcription of both pages in pure, clean Unicode Devanagari:

[पृष्ठ ४३४]

यदुक्तम्—"माध्यन्दिनीयसंहितापदपाठस्य सम्प्रदायाविच्छेदे सति अस्मर्यमाणकर्तृकत्वेऽपि वेदत्वमपौरुषेयत्वं च नास्ती"ति, तन्न; तस्यापि अवश्यस्मर्तव्यत्वाभावेन व्यभिचारात् । मन्त्रसंहिताब्राह्मणानामेव च पौरुषेयत्वे कर्तुरवश्यस्मर्तव्यता उक्ता । कर्तुः आप्तत्वज्ञानमन्तरा तदर्था- नुष्ठानादौ प्रवृत्त्यभावापत्तेः । नहि खलु पदपाठज्ञानस्य साक्षाद् वाक्यार्थ- ज्ञाने उपयोगः, पदार्थस्मरणहेतुत्वेन तस्य अन्यथासिद्धत्वात् । 'पदप्रकृतिः संहिता' (निरुक्त १।६) इति प्रसङ्गे पदानां या प्रकृतिः सेयं पदप्रकृतिः संहिता, यतः संहितातः पदानि प्रक्रियन्ते । तस्मात् संहितैव प्रकृतिर्विकारः पदानीत्येके मन्यन्ते । अपरे तु—पदानि प्रकृति- [L10

[पृष्ठ ४३६]

पवादः' इति (ऐ० आ० ३।१।३) । अथ उपासनानन्तरं निर्भुजं ब्रुवन्तं संहितामधीयानमेनमुपासकं यद्यन्यः कश्चित् उपवदेत् उपासकेन पठ्यमानायां संहितायां स्वर-वर्णादिवैकल्यदोषमुद्भावयेत्, तदानीमेनं दोषोद्भावकमयमुपासक एव ब्रूयात्— हे उपवादिन् अवराभ्यामधो- वर्तिभ्यां स्थानाभ्यां पृथिव्यन्तरिक्षलोकाभ्यामच्योष्ठा त्वं प्रच्युतोऽसीति । युक्तञ्चैतदुपासकस्य वचनम्, संहितायाः पृथिवीरूपत्वेनाध्येन परि- हारात् । अतो निर्दोषायां संहितायां दोषमुद्भावयितुः पृथिवीलोकात् तत्सहभाविनोऽन्तरिक्षलोकाच्च प्रच्युतिर्भवति । अथशब्दः पूर्ववैलक्षण्यार्थः । संहितायां दोषमनुक्त्वा प्रतृण्णं ब्रुवन्तं पदमधीयानमेनमुपासकं यदि कश्चिदुपवदेत् । अधीयाने पदे दोषोद्भावनमुपवादः । तदानीमेनमुपवादिनं प्रत्युपासक उत्तराभ्यां- स्थानाभ्यामन्तरिक्षद्युलोकाभ्यामच्योष्ठा प्रच्युतोऽसीत्येवं ब्रूयात् । यस्तु उपासक उभयमन्तरेणाह क्रममधीते तस्योपासकस्य उपवादः परेणोद्भावयितव्यः क्रमविषये दोषो नास्त्येव । संहितायां पदे च भ्रान्त- दृष्ट्या दोषः सम्भाव्यते । तथाहि—'अग्निमीळे' इत्यस्यां संहिताया- मुत्तरपदगत ईकारः स्वरितः । एकारः प्रचयः । पदकाले तु तदुभय- मुदात्तम् । तथा सति पदवासनावासितस्य कस्याचिच्छ्रद्धाजडस्य संहितायां स्वरान्यथात्वभ्रान्तिरुदियात् तथा संहितावासनावासितस्य श्रद्धाजडस्य पदच्छेदकाले स्वरान्यथात्वभ्रान्तिः । क्रमकाले तु नोक्तभ्रम- द्वयमस्ति, द्विविधस्वरस्य पठ्यमानत्वात् । 'अग्निमित्यनेन पूर्वपदेन सह संहितायाम् ई इतिपदेन सह स्वरितप्रचयौ पठ्येते । 'पुरोहितम्' इत्यनेन उत्तरपदेन सह संहितायामनुदात्ताद्वयं पठ्यते । तस्मान् क्रमे स्वरान्यथात्वभ्रमो नोदेति । कथञ्चिदन्यथात्वेऽपि देवताध्यायेन दोषः समाधीयते । तस्मात् उपासनं प्रशस्तमित्यर्थः । निर्भुजादिशब्दानां विवक्षितार्थे लोकप्रसिद्धयभावात् श्रुतिरेव तमर्थं दर्शयति—'यदि सन्धि विवर्तयति तन्निर्भुजस्य रूपम् । अथ यच्छुद्धे अक्षरे अभिव्याहरति, तत्प्रतृण्णस्याथ उ एवोभयमन्तरेणोभयं व्याप्तं भवति' इति (ऐ० आ० ३।१।३) । यदुच्चारणसन्धि पदयोरुभयो-


[पृष्ठ ४३७]

रत्यन्तं सन्निकर्षं विवर्तयति विशेषेण सम्पादयति, तदुच्चारणं निर्भुज- शब्दार्थस्य स्वरूपम् । निर्दिष्टौ भुजसदृशौ पूर्वोत्तरशब्दौ यस्मिन् संहिता- रूप उच्चारणे तदुच्चारणं निर्भुजम् । अथशब्दः पूर्ववैलक्षण्यार्थः । शुद्धे विकाररहिते पूर्वोत्तरे उभे अक्षरे अभिव्याहरति स्पष्टमुच्चारयतीति यदस्ति तत् प्रतृण्णशब्दाभिधेयस्य पदच्छेदस्य स्वरूपम् । तथा— 'इषे त्वोर्जे त्वा' इत्यत्र योऽयमोकारः सोऽयं संहितास्वरूपः यदा त्वाका- रान्तं त्वेति पदम् उकारादिकम् ऊर्ज इति पदमुच्चारयति तदानीम् आकार ऊकारश्चेत्युभे अक्षरे शुद्धे भवतः । तदानीं सन्निकर्षापायात् संहिताया विच्छिन्नत्वात् विच्छेदरूपहिंसावाचिना प्रतृण्णशब्देन विच्छिन्नं पदमभिधीयते । यदेतत् प्रतृण्णस्य स्वरूपं तदेतदग्र उ प्रथम- भाव्येव । सिद्धे पदस्य स्वरूपे पश्चात् संहिता प्रवर्तते, संहितायाः सन्धी- यमानपदद्वयधर्मत्वेन पदपूर्वकत्वस्य अवश्यंभावात् । येन क्रमेण संहिता पदञ्चेत्युभयं व्याप्तं भवति, सोऽयं क्रम उभयमध्यवर्तित्वात् उभयमन्तरेणेत्युच्यते ।” इत्थमुपर्युक्तश्रुतिविद्वद्भाष्यैः स्पष्टं संहिता-पद-क्रमाणांम् उपास्यत्वं तन्निन्दकानामानिष्टप्राप्तिश्च सिद्ध्यति । यथा छान्दोग्यादौ ऋचः पृथिवी- रूपत्वम्, साम्नोऽग्निरूपत्वमुक्तम्, तथैव इहापि ध्येयम् । न च तेषां पौरुषेयत्वेऽनित्यत्वे च नित्यापौरुषेये वेदे तदुपासनाविधानमाञ्जस्येन युज्यते । न केवलं संहिता-पद-क्रमाणांमेव किन्तु जटा-माला-शिखा-रेखा- ध्वज-दण्ड-रथ-घनाख्यानामष्टविकृतीनामपि नित्यत्वमपौरुषेयत्वञ्च, शाखीयब्राह्मणप्रामाण्यात् । तथा हि—'सत्याषाढश्रौतसूत्रस्य रत्नमाला- ख्यायां टीकायां गोपीनाथभट्टः— 'शाखीयब्राह्मण उक्तत्वादष्टौ विकृती- रपि सति सामर्थ्ये पठेत् । तासां लक्षणानि तैत्तिरीय-बह्वृच-प्रातिशाख्यादि- [

नैतद्युक्तम्; प्रदर्शितश्रुतियुक्तिविरोधात् कस्याश्चिच्छाखाया अपरेऽपि विशेषाङ्गाः । तथा हि- 'भगवान् संहितां प्राह पदपाठं तु रावणः । बाभ्रव्यर्षिः क्रमं प्राह जटां व्याडिरवोचत ॥ मालापाठं वशिष्ठश्च शिखापाठं भृगुर्व्यधात् । अष्टावक्रोऽब्रवीद्रेखां विश्वामित्रोऽपठद् ध्वजम् ॥ दण्डं पराशरोऽवोचत् कश्यपो रथमब्रवीत् । घनमत्रिमुनिः प्राह विकृतीनामयं क्रमः ॥' इति मधुशिक्षायां मधुमुनिः । श्रीसाववलेकरकृत वेदव्याख्यानम्, पृ० १६) अत्र व्याडि-रावणौ केचिन्महर्षी, प्रसिद्धावेव वा । 'यस्यां पदकृदा- त्रेयः क्रमकारस्तु कुण्डिनः' इति काण्डानुक्रमण्यादिरीत्यापि पद-क्रम- सम्प्रदायप्रवर्तकत्वमेव । न च कृञः कर्तृत्वमेवार्थः, तथात्वे 'मन्त्रकृत

पदपाठस्य सम्प्रदायश्च शोऽङ्गीकृतः। यच्च पतञ्जलिना 'न लक्षणेन पद- कारा अनुवर्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम्' इति कथितम्" इति। तदप्यविचारितरमणीयम्; वेदरूपसम्बन्ध इव पदपाठेऽपि कैयट-नागे- शयोः वैदिकैर्मतभेदेन तदप्रामाण्यात्। पतञ्जलेस्तु उक्तभाष्यांशे वैदिक- शब्दानुपूर्व्या अनित्यत्वोक्तिस्त्वेकदेश्येव। तथा हि-'तेन प्रोक्तम्' (४।३।१०१ इति सूत्रे ननु चोक्तं नहि च्छन्दांसि क्रियन्ते, नित्यानि छन्दां- सीति। यद्यप्यर्थो नित्यो या त्वसौ वर्णानुपूर्वी साऽनित्या' इति महाभाष्ये अर्थनित्यत्वेनैव वेदानां नित्यत्वमुक्तम्। वर्णानुपूर्वीविशिष्टस्य वेदस्य तु अनित्यत्वमेवाङ्गीकृतम्। कैयट-नागेशाभ्यामपि ब्रह्मनित्यत्वेनैव वेदानां नित्यत्वमुक्तम्। शब्दानुपूर्वीरुपेण त्वनित्यत्वमेव। शब्दार्थोभ

४४२ वेदस्वरूप-विमर्श 'वा यः' इति मुद्रितम् । तेन समाजिनां मूलवेदत्वेनाभिमता ऋक्- संहिता यास्कदृष्ट्या शाकल्यकृता पौरुषेयी एव सिद्ध्यति । श्रीविश्वेश्वरानन्दश्च शाकलसंहितासूच्यां 'वायः' इत्येकं पदं न प्रकाशितवान् । किंतु सूच्याः ३७१ पृष्ठे 'वा', ३७२ पृष्ठे च 'यः' इति प्रकाशितवान् । तत एव प्रकाशितायाम् अथर्वसंहितायां 'वा' 'यः' इति पृथक् पृथगेव पाठः । तेनोभयोः संहितयोः पौरुषेयत्वमापतति । अर्थस्तु 'वायः, इति पाठं मत्वैव कृतः । तेषां स्वाभिमतरीत्या तु सर्वेऽपि पाठा अपौरुषेया एव । पाठभेदेन पौरुषेयत्वोक्तिस्तु निन्दार्थ- वाद एव । 'शाखाभेदाश्च ये केचित् याश्च शाखासु गीतयः । स्वरवर्णसमुचाराः सर्वास्तान् विद्धि मत्कृतान् ॥' महा० शान्ति० ३४२।१००-१००-१०१ (९७) इति भगवत्कृतत्वादपौरुषेयत्वेन शाखाभेदीयगीतिस्वरवर्णसमु- च्चाराणाम् अपौरुषेयत्वमेवोक्तम् । आनुपूर्व्या अनित्यत्वञ्चेत् ? तद् यथा ब्राह्मणभागस्य तथैव मन्त्रभागस्यापि, यथेतरासंहितानां तथैव समाजिसम्मत-शाकली- शौनकी-कौथुमी-माध्यन्दिनीति संहिताचतुष्टयस्यापि । ४।३।१०१ सूत्रे महाभाष्योद्धृतानि काठक-कालापक-मौदक-पैप्पलादशाखानामानि अन्या- सामुपलक्षणार्थमेव । अन्यथा समुद्धृतनाम्नीनां शाखानामेव आनु- पूर्व्या अनित्यत्वे तद्भिन्नानां मैत्रायणी-काण्व-तैत्तिरीयक-कापिष्ठलक- जैमिनि-राणायनीय-बाष्कलादि संहितानाम् आनुपूर्व्या नित्यत्वापत्तिः स्यात् । न च सामाजिकानामिष्टं तत् । “महाभाष्यकारेण—'छन्दोऽर्थं तर्हीदं वक्तव्यम् । नहि छन्दांसि क्रियन्ते, नित्यानि छन्दांसि' ( छन्द

[पृष्ठ ४४४]

सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा... ( अथर्व० शौनकंसंहिता १६।६।१ ), 'छन्दांसि जज्ञिरे तस्मात्' (ऋक् सं० १०।६०।६ ), 'छन्दो ह जज्ञिरे तस्मात्' (अ० सं० १६।६।१३), 'त्रिपादूर्ध्वं उदत्' 'ततो विष्वङ्' (ऋक् सं० ४) 'त्रिभिः पद्भिद्यौमरोहत्' तथा 'व्यक्रामत् विष्वङ्' (अथर्व २), 'एतावानस्य महिमातो' (ऋक् सं० ३), 'तावन्तोऽस्य महिमानस्ततो' (अथर्व सं० ३), उतामृतत्वस्येशानो' (ऋक् सं० २ ), 'उतामृतत्वस्येश्वरो' (अथर्व सं० ४), 'ऊरू तदस्य यद्वैश्यः' (ऋक् सं० १२), 'मध्यं तदस्य यद्वैश्यः' (अथर्व सं० ६), -'को बाहू का ऊरू पादा' (ऋक् सं० ५), इति सर्वत्र आनुपूर्व्या असमानत्वेऽपि अर्थस्य समानत्वम् । इदमेव शब्दानुपूर्व्या अनित्यत्वम्, अर्थस्य च नित्यम् । यदुक्तम् - "स्वरो नियत आम्नाये' 'अस्य वामशब्दस्य वर्णानुपूर्वी खल्वप्याम्नाये नियता अस्य वामशब्दस्य' इत्याम्नाये वर्णानुपूर्व्या नित्यत्वमेवोक्तम् । तथा च भाष्योक्तिषु परस्परविरोधः स्यात्, आम्नाय- छन्दःशब्दयोः समानार्थकत्वे आनुपूर्व्या अपि नित्यत्वमनित्यत्वमेव वा स्यात् । न च काठकादिसंहितानां छन्दस्त्वं शाकलादिसंहितानामा- म्नायत्वमिति वाच्यम्; 'यत्र ब्रह्मापयमानः छन्दस्यां वाचं वदन्' (ऋक् सं० ९।११२।६), 'छन्दं वचः' (साम० पूर्वा० ३।३।३ ), 'छन्दांसि जज्ञिरे' (शुक्लयजुः) इत्यादि विरोधादि"ति । तन्न; नियतेत्यस्य निश्चितार्थकत्वात् । 'एतस्मिंश्चातिसृष्टिशब्दस्य प्रयोगविषये ते ते शब्दास्तत्र तत्र नियतविधया दृश्यन्ते' इत्यादिषु नियतशब्दस्य निश्चिता- र्थतादर्शनात् । नात्र नित्यार्थको नियतशब्दः । अस्मिन् प्रसङ्गेऽपि "देशः खल्वप्याम्नाये नियतः, 'श्मशाने नाध्येयम्' 'चतुष्पथे नाध्येयम् ।" कालः खल्वप्याम्नाये नियतः - 'नामावास्यायामध्येयम्, न चतुर्दश्याम् ।' पदैकदेशः खल्वप्याम्नाये दृश्यते - 'अस्यवामीय'मिति । सर्वत्र नियत- शब्दो निश्चितार्थकः ।


[पृष्ठ ४४५]

किञ्च-'श्मशाने नाध्येयमि'ति वचनं न सामाजिकसम्मतेष्वाम्नायेषु दृश्यते । एवमेव - 'अस्य वामीयमिति पदैकांशोऽपि न सामाजिक- सम्मतासु संहितासु दृश्यते । लौकिकेष्वपि पतन् नियतवाचो युक्तयो नियतानुपूर्व्या भवन्ति १।१६।४ इति निरुक्ते पितापुत्रौ इन्द्राग्नी इत्यानुपूर्व्या नियतत्व वक्तुं शक्यं न नित्यत्वम् । नियतशब्दस्य 'तुष्यतु दुर्जन' न्यायेन नित्यार्थकत्वेऽपि न विरोधः 'अथवा नेदमेव नित्यलक्षणं ध्रुवं कूटस्थमविचाल्यनपायोपजनविकारि यत्तन्नित्यम्, तदपि नित्यं यस्मिंन् तत्त्वं (तद्भावो ) न विहन्यते ।' इति महाभाष्यम् । अन्यत्र च 'अयं खलु नित्यशब्दो नावश्यं कूटस्थे अविचालिषु भावेषु वर्तते । किं तर्हि ? आभीक्ष्ण्येऽपि वर्तते । तद्यथा - 'नित्य प्रहसितः, नित्य प्रजल्पित ।' तेनानित्येऽपि नित्यशब्दो महाभाष्ये प्रयुक्तः । तदुक्तं नागेशेन 'सा आनुपूर्वी त्कल्पसमाप्तिपर्यन्तं नियता इत्यर्थः ।' गौतम- सूत्रे (२ ।१६८) 'अतीतानागतसम्प्रदायाभ्यासप्रयोगाविच्छेदेन वेद- नित्यत्वं' इति वात्स्यायनः । अस्मिन् पक्षे गोतम-वात्स्यायनादिनैयायिकादिवत् महाभाष्यकार- स्यापि वेदपौरुषेयत्वादित्वमेव सिद्धयति । कल्पपर्यन्तस्थायित्वेन तु नित्यत्वापौरुषेयत्ववादित्वमौपचारिकमेव तच्च न केवलं शाखान्तरीय- पाठभेदेन असमानानुपूर्विकत्वेनैव, किन्तु एकस्यामपि शाखायां कल्पान्त- रीयासमानानुपूर्विकत्वेनापि पौरुषेयत्वमनित्यत्वञ्च । अत एव 'तेन कृतम्' इत्यनेनैव प्रत्ययो न 'तेन प्रोक्तमि'ति छन्दोऽर्थे सम्भवति । छन्दस्त्वस्य शब्दार्थोभयवृत्तित्वेन अर्थस्य नित्यत्वेनैव नित्यत्वम्, शब्दा- नुपूर्वी रूपेण त्वनित्यत्वमेव । अस्मिन् पक्षे नित्यत्वेनियतशब्दोऽपि प्रलयपर्यन्तस्थायित्वेन चरितार्थः । निश्चितार्थको नियतशब्दोऽपि तत्तत्कल्पे तत्तच्छाखासु च निश्चितानुपूर्वीकत्वेनैव नियतता, न नित्यानुपूर्वीकत्वेनेति । वस्तुतस्तु - नित्यानां विभूनां वर्णानां देशकालकृतपौर्वापर्यलक्षण- क्रमासम्भवात् अनित्यानां वर्णाभिव्यक्तीनामेव देशकालकृतपौर्वापर्य-

४४६ वेदस्वरूपविमर्शे रूपानुपूर्वी सम्भवति । सा च सर्वथा अनित्यैव सम्भवति, न नित्या । अत एव शिक्ष्यमाणा नर्तकी यथा शिक्षकगात्रविक्षेपमनुकरोति तथैव माणवकोऽप्याचार्योच्चारितां मन्त्रानुपूर्वीमनुकरोति । अनुकरणीयगात्र- विक्षेपादनुकर्तृविक्षेपादनुकर्त्या गात्रविक्षेपभेदवत् आचार्योच्चारिताया आनुपूर्व्या माणवकोच्चारितानुपूर्व्या अपि भेद एव । तथापि प्रति- कल्पं समानरूपत्वात् एकरूपत्वात् निश्चितत्वाच्च आनुपूर्व्याः प्रवाह- रूपेण नित्येति व्यपदिश्यते । प्रतिकल्पं तद्भेदेन चासमानरूपत्वेन अनिश्चितत्वात् अनित्येत्युच्यते । तत्रानुपूर्व्या अनित्यता नैयायिकादि- रीत्या, नियतता किञ्च मीमांसकरीत्या सङ्गच्छते । अस्मिन् पक्षे 'तेन प्रोक्तमि'त्यनेनैव प्रत्ययः । बहूनां प्रवक्तृत्वेऽपि कठादिविशिष्टनाम्नैव प्रत्ययः । यथा बहूनां मातृत्वेऽपि देवदत्तमातेति समाख्या भवति, तद्वत् । अत्र पक्षे 'समाख्या प्रवचनात्' इति जैमिनिसूत्रं 'वाचा विरूप नित्यया' इति मन्त्रश्च आञ्जस्येन सङ्घटते । सर्वथाऽपि 'पदकारैर्नाम लक्षणमनुवर्त्यमि'ति भाष्यं प्रौढिवादाभि- प्रायकमेव ज्ञातव्यम् । पदपाठपौरुषेयत्ववादिनापि पदपाठस्य शाकल्या- दृषिकर्तृकत्वाङ्गीकारात् । पदक्रममूलिका एव जटा मालाद्या अष्टौ विकृ- तयोऽपि । तासामपि पौरुषेयत्वे वशिष्ठ-विश्वामित्र-पराशराष्टावक्राद्यृ- षिकर्तृकत्वमेव । ऋषयश्च लक्ष्यैकचक्षुष्का एव भवन्ति, न लक्षणैक- चक्षुष्काः । तेन लक्षणान्येव ताननुवर्तेरन्, न ते लक्षणानुवर्तिनः । ऋषिकृतपदानां छन्दस्तुल्यत्वेन न तत्र लक्षणविरोधो दूषणाय भवति, 'छन्दोवत् सूत्राणि भवन्ति' इत्युक्तेः । तदर्थमेव 'पृषोदरादीनि यथोप- दिष्टम्' । (पा० सू० ६ । ३ । १०६) इति सूत्रञ्च । न च पाणिन्याद्युक्तय एव तथाभूता इति वाच्यम्; वाल्मीक्याद्युक्ती- नामपि आर्षत्वेनैव लक्षण-विरोधपरिहारदर्शनात् । 'मनायेतरायवा' इत्याद्युदाहरणानि । 'आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ ब्राह्मणानां वेदत्वविमर्शः ४४७ अतीन्द्रियानसंवैद्यान् पश्यन्त्यार्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥' इति 'पृषोदरादीनि' सूत्रे कैयटः । छन्दसि दृष्टानुविधिर्हि भवति । अत एव 'व्यत्ययो बहुलम्' ( पा० सू० ३ । १ । ८५ ) इत्यत्र भाष्यम्— 'सुप्तिङुपग्रहलिङ्गन्नराणां कालहलच्स्वरकर्तृ यङाञ्च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥' इति । वस्तुतस्तु पदपाठस्यापौरुषेयत्वमित्युक्तमेव । 'सूर्यऋषिर्मन्त्रकृत्' (ऐ० ब्रा० ६।१) 'यत्र धीरा मनसा वाचमक्रत' (ऋ० सं० १०।७१।२) 'ऋषिः कुत्सः कर्ता भवति स्तोमानामित्युपमन्यवः' (नि० ३।२।५) 'ऋषे मन्त्रकृतां स्तोमैः' (ऋक्संहिता ९।११४।२) इत्यादिप्रमाणैः यथा मन्त्राणां कर्तृत्वश्रवणेऽपि सम्प्रदायप्रवर्तनमेव अर्थः, तथैव ऐतरेय- याज्ञवल्क्यादीनामपि कर्तृत्वश्रवणं सम्प्रदायप्रवर्तन एव पर्यवस्यति । वस्तुतः पदपाठस्यापौरुषेयत्वमित्युक्तमेवेति आस्तां विस्तरः । इति पदवाक्यप्रमाणपारावारीणपरमहंसपरिव्राजकाचार्यवर्य अनन्त- श्रीस्वामिहरिहरानन्दसरस्वती महाराज विरचितः वेदस्वरूप विमर्शः पूर्णतामभजत् । ॥ ॐ तत्सत् ॥

पुस्तक प्राप्ति स्थान ◆ १-सन्तशरण वेदान्ती धर्म संघ दुर्गाकुण्ड, वाराणसी 1 ◆ २-श्री बाबूलाल गनेड़ीवाले कमला स्टोर काटन स्ट्रीट, कलकत्ता । ◆ ३-श्री मोतीलाल बनारसीदास चौक, वाराणसी। ◆ ४-श्री मास्टर खेलाड़ीलाल एण्ड सन्स कचौड़ीगली, वाराणसी । ◆ ५-श्री भारती विद्या प्रकाशन कचौड़ीगली, वाराणसी । ◆ ६-धर्मसंघ महाविद्यालय ७ इन्द्रप्रस्थ मार्ग सिविल लाइन दिल्ली ।