दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
by महाकवि दण्डी
Source: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (origin)
वर्तिकाग्निशिखासहस्रप्रस्तनैशान्धकारराशिरगत्यार्थसिद्धये यतेथाः' इति । ( १८ ) स किल कृतज्ञतां दर्शयन्—'असिद्धिरैषा सिद्धिः, यदसन्नि- धिरिहार्याणाम् । कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति । नच निषेधनीया गरीयसां गिरः' इति स्नानाय गृहानयासीत् । अहं च नि- र्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः । तलस्य भूतलस्य तैतिलगणाः देवाः ब्राह्मणा इत्यर्थः येनासौ । कृतब्राह्मणपूजः इत्यर्थः । तिलस्नेहेति—तिलस्नेहेन तिलतैलेन सिक्तानां आर्दीकृतानां यष्ट्यग्रेषु दण्डाग्रेषु प्रथितानां प्रोतानां वर्तिकानां दीपद्शानां अग्निशिखासहस्रेण अग्निज्वाला समूहेन ग्रस्तो ध्वस्तः नैशान्धकारराशिः रजनीतिमिरसङ्घो येनासौ । आगत्य- सरस्तटमिति शेषः । अर्थसिद्धये स्वप्रयोजनसम्पादनाया यतेथाः प्रयत्नं कुर्याः । ( १८ ) स जयसिंहः । कृतज्ञतां स्वकृतज्ञभावं दर्शयन् प्रकाशयन् गृहानया- सीदित्यग्रिमेणान्वयः । असिद्धिरित्यादि—एषा सिद्धिः मदभीष्टलाभः असिद्धिरलाभ एव, यत्-यतः आर्याणां भवादृशां महापुरुषाणामिह अस्मिन् स्थाने असन्निधि- रसन्निधानम् अनवस्थानमिति यावत् । मत्प्रयोजनसिद्धौ सत्यामपि भवतोऽन्यत्र गमनान्न सा सिद्धिर्मे रोचते इति भावः । इयमीदृशी निःसङ्गता—भवत्सङ्गरहि- त्यम् । कष्टा—दुःखदायिनी । या निःसङ्गता । निरागसं निरपराधं दासजनं सेवकं मामिति शेषः त्याजयति दूरीकरोति । गरीयसां गुरूणां गिरः वचनानि । गुरूणां वाक्यानि न लङ्घनीयानि अतो नाहं भवन्तं प्रतिरुणध्मि इति भावः । इति- एवमुक्त्वा । स्नानाय-स्नातुम् । अहं-मन्त्रगुप्तः । निशीथे अर्धरात्रे । सरस्तीरेति- सरस्सतीरे यद् रन्ध्रं बिलं तत्र निलीनो गुप्तः । ईषदिति ईषच्छिद्रे स्वल्परन्ध्रे दत्तौ हजारों अग्निशिखासे रातका अन्धकार दूर करें । और अपने अर्थसिद्धिका प्रयत्न करें । ( १८ ) उस राजाने कृतज्ञता प्रकाशित करते हुए कहा—'यह लाभ मुझे इस समय अलाभके समान प्रतीत होता है, क्योंकि, इस अवसर पर आपका रहना न होगा । आपके संगसे रहित होना कष्टप्रद है । हाय ! निःसंगताके कारण निरपराधी सेवकका (मेरा) आपसे वियोग हो जायगा । गुरुजनोंकी वाणीका लङ्घन नहीं करना चाहिये (इसलिए मैं आपको रोक भी नहीं सकता ) ।' इस प्रकार कहकर स्नानके लिये घर चला गया । मैं ( मन्त्रगुप्त ) भी सूनी आधी रातमें उस कुटीसे निकलकर तालाबके तीरवाले बिल ( छेद ) में प्रविष्ट होकर छोटे छेदमें कान लगाकर बैठ गया । आधी रातके समय वह राजा, मुझसे उपदेशित क्रियाओंको करके स्थान-स्थान पर रक्षक पुरुषोंको नियुक्त करके, अनेकों धीवरोंको लाकर, उस तालाबके अन्तःप्रदेशके शल्यों ( कांटों ) को निकलवाकर उस तालाबके जलमें
सप्तमोच्छ्वासः । बालबोधिनीव्याख्यासहितम् । ४०५ स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जाल- कजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगा- हत गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नक्रलीलया नीरातिनिलीनया तं तथा शयानं कन्धरयां कन्थया न्यग्रहीषम् । खर- तरकालदण्डसंघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेना- जहात्स चेष्टाम् । ततश्चाकृष्य तच्छरीरं छिद्रं निधाय नीरान्निर्यासिषम् । ( १६ ) सङ्गतानां च सैनिकानां तदत्यचित्रियताकारान्तरग्रहणम् । कर्णौ येन तादृशः । स्थिते अवशिष्टे । कृतेति—कृता अनुष्ठिता यथादिष्टा मत्व- थनानुरूपा क्रिया येनासौ । स्थानेति-स्थाने अनेकेषु स्थानेषु रचिता कृता रक्षा रक्षिपुरुषसंस्थापनं येनासौ । राजा जयसिंहः । निराकृतेति—निराकृतं दूरीकृतं परीक्ष्य शोधितमिति यावत् अन्तःशल्यं जलमध्यस्थविघ्नो यस्य तादृशं सरः सलिलम् । सलीलगतिः सविलासगमनः । अगाहत प्राविशत् । गतमित्यादि— कीर्णकेशं कीर्णा विक्षिप्ताः केशा मूर्द्धजा यस्मिन् कर्मणि तद् यथा तथा, संहत- कर्णनासं—कर्णौ च नासे चेति कर्णनासं प्राण्यङ्गत्वादेकवद्भावः संहतं पिहितं कर्णनासं यस्मिन् कर्मणि तद् यथा तथा । एतत्पदद्वयं गतमिति क्रियाया विशेष- णम् । हास्तिनं-हस्तिप्रमाणकं—हस्ती प्रमाणमस्येति अण्प्रत्ययः । सरसस्तलं गतं प्रविष्टं, तथा पूर्वोद्दिष्टानुसारेण शयानं सुप्तम् तं जयसिंहं ग्रीवायां कन्थरायां नक्रलीलया नक्रस्य मकरस्येव लीला तया-नक्रवदित्यर्थः नीरातिनिलीनया नीर सलिले अतिनिलीनया अत्यन्तनिमग्नया कन्थया प्रावरणविशेषेण न्यग्रहीपं निगृहीतवानहमिति शेषः । खरतरेति—खरतरोऽतितीक्ष्णः यः कालदण्डो यम- दण्डस्तस्य यत्सङ्घट्टनं सङ्घर्षस्तद्वत् अतिचण्डैः अतिभीषणैः । करचरणघातः हस्तपादप्रहारैः । निर्दयैति—निर्दयं यथा तथा दत्तो निग्रहो निकारो यस्यासौ । स जयसिंहः चेष्टां अजहात् अम्रियत । ततः—सरस्तलात् । आकृष्य बहिष्कृत्य । छिद्रे पूर्वकृतरन्ध्रे । निधाय संस्थाप्य । निर्यासिषम्-निर्गतोऽभवम् । ( १९ ) सङ्गतानां तत्रोपस्थितानाम् । तदाकारान्तरग्रहणं अन्याकारप्राप्तिः । विलासयुक्त प्रविष्ट हुआ । राजा अपने बालोंको खोलकर, कान-नाक बन्दकर हस्तिप्रमाण जलमें सो गया । तब मैने उस सोनेवाले राजाके गलेको पानीमें अत्यन्त गुप्त मगरकी लीलासे कन्धा कन्था द्वारा पकड़ लिया । तदनन्तर अत्यन्त तीक्ष्ण कालदण्ड के संघटनके समान अति भीषण अपने हाथ-पैरोंके आघातसे उस राजाको खूब मारा जिससे उस जयसिंहने एक क्षणमें ही अपनी लीला समाप्त कर दी ( मर गया ) । फिर उसके शरीरको ले जाकर उसी छेदमें रख दिया और मै जलसे बाहर आ गया । ( १९ ) वहांपर उपस्थित सैनिकोंने रूप-परिवर्त्तन देखकर अत्यन्त आश्चर्य प्रकट-
४०६ दशकुमारचरितम् । [ उत्तरपीठिकायां
४०६ दशकुमारचरितम् । [ उत्तरपीठिकायां गजस्कन्धगतः सितच्छत्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डता- डनत्रस्तजनदत्तान्तरालया राजवीथ्या यातस्तां निशां रसनयननिरस्त- निद्रारतिरनैशम् । नीते च जनाक्षिलक्ष्यतां लाक्षारसदिग्धदिग्गजशिरः- सदृक्षे शक्रदिगङ्गनारत्नादर्शोऽर्कचक्रे कृतकरणीयः किरणजालकरालरत्नरा- जिराजितराजार्हासनाध्यासी यथासदृशा वारदर्शिनःशङ्कायन्त्रिताङ्गान्सन्नि- अस्यचित्रीयत-अस्याश्चर्यजनकमभवत् । गजस्कन्धगतः हस्तिशिरःस्थितः । सितेति सितच्छत्रादि येषां तानि सितच्छत्रादीनि श्वेतातपत्रप्रभृतीनि यानि सकलानि निखिलानि राजचिह्नानि नृपलक्षणानि तैः राजितः शोभितः । विशेषणद्वयं अह- मित्यस्य मन्त्रगुप्तवाक्यस्य । चण्डतरेति-चण्डतराणामतिप्रचण्डानां दण्डिनां दण्डधारिदौवारिकाणां दण्डैर्लगुडैस्ताडनेन प्रहारेण त्रस्ता भीता ये जनास्तैर्दत्त- मन्तरालमवकाशो यस्यां तया । राजवीथ्या राजमार्गॆण । यातश्चलितः । अहमिति शेषः । रसेति-रसेन अत्यधिकानन्दे कनकलेखानुरागेण वा नयनाभ्यां-पञ्चमी- द्विवचनमेतत्-निरस्ता अपगता निद्रारतिः शयनप्रीतिः यस्य तादृशोऽहम् अनै- षम् अत्यवाहयम् निशामिति पूर्वोक्तेनान्वयः। नीते चेत्यादि-लाक्षारसेन याव- केन दिग्धमनुलिप्तं यद् दिग्गजस्य दिङ्मातङ्गस्य शिरो मस्तकं तत्सदृशे तत्सम्ये रक्तवर्णे इति भावः, शक्रस्य दिक् पूर्वाशा-सैवाङ्गना कामिनी तस्या रत्नादर्शे मणि- दर्पणस्वरूपे अर्कचक्रे सूर्यमण्डले जनाक्षिलक्ष्यतां नरनयनगोचरतां नीते प्रापिते सति-सूर्ये उदिते सतीत्यर्थः। कृतकरणीयः विहितनित्यक्रियः। किरणजालेति- किरणजालेन मयूखमण्डलेन कराला व्याप्ता या रत्नराजिः रत्नसमूहस्तया राजितं शोभितं यद् राजाहं राज्योग्यमासनं तदध्यास्ते इति तच्छीलः । अहमिति शेषः । यथेति-यथासदृशं स्वस्वाधिकारोचितं आचारं राजमर्यादादिकं दर्शयन्ति ये तान्। शङ्केति-शङ्कया-यथा राज्ञः आकृतिपरिवर्त्तनं जातं तथैव प्रकृतेरपि क्रिया । हाथीके ऊपर चढ़कर सफेद छत्र आदि सभी राजचिन्होंसे सुशोभित मै राजमार्गसे चला । उस राजमार्गको अत्यन्त प्रबल दण्डधारी सेवकगण आगे आगे दण्डोंके प्रहार द्वारा जनोंको भय दिखाकर खाली करा देते थे। उस रात कनकावतीके प्रबलानुरागसे मुझे आँखोंमें निद्रा न आयी-वह रात मैंने जागकर बिता दी। प्रभातमें जब लाक्षारससे परिन्याप्त हुए दिग्गजोंके मस्तकोंके तुल्य, इन्द्रकी दिशा-( पूर्वदिशा-) रूपी अंगनाके मणिदर्पणके सदृश, सूर्यमण्डल लोगोंकी आखोंके सामने लक्षित हुआ। उस समय मै नित्यक्रियासे निवृत्त होकर, किरणजालसे परिपूर्ण एवं रत्नराशिसे देदी- प्यमान, राजाओंके अनुरूप श्रेष्ठ (सिंहासन) पर आरूढ़ होकर बैठा । उस समय यथानुरूप अपने नियमाचरणोंको प्रदर्शित करनेवाले, भयसे शरीरोंको संकुचित
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
सप्तमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४०७
धिनिषादिनः सहायानगादिषम्—'दृश्यतां शक्तिरार्षी, यत्तस्य यतेर- जेयस्येन्द्रियाणां संस्कारेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि सरसि सरसिजदलसन्निकाशच्छायास्याधिकतरदर्शनीयस्याकारान्तरस्य सिद्धिरासीत् । अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः। तदि- दानीं चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशानां स्थानान्या- दररचितनृत्यगीताराधनानि क्रियन्ताम्। ह्रियन्तां च गृहादितः क्लेश- निरसनसहान्यर्थिसार्थैर्धनानि' इति ।
परिवर्तनं जातं स्यादिति भयेन यन्त्रितानि सङ्कुचितानि अङ्गानि गात्राणि येषां तान् । सन्निधिनिषादिनः सन्निधौ समीपे निषीदन्ति ये तान् पार्श्वचरानित्यर्थः । सहायान् सचिवादीन् । अगादिषम् अवोचम् । शक्तिः प्रभावः । आर्षी ऋषि- सम्बन्धिनी । यत्तस्येत्यादि—इन्द्रियाणां चक्षुरादीनां करणानां अजेयस्य जेतुम- शक्यस्य तस्य पूर्वोक्तस्य यतेर्मुनेः नीरजसा रजोगुणरहितेन पवित्रेणेत्यर्थः संस्कारेण मन्त्रानुष्ठानेन नीरजानां कमलानां सान्निध्येन सम्पर्केण शालते शोभते एवं शीले—तथा सहर्षाः सानन्दा अलिनो भ्रमरा यत्र तथाभूते सरसि सरोवरे सरसिजदलैः कमलदलैः सन्निकाशा तुल्या छाया कान्तिर्यस्य तादृशस्य तथा अधिकतरदर्शनीयस्य परमरमणीयस्य आकारान्तरस्य अन्यशरीरस्य सिद्धिः प्राप्तिरभूत् । ममेति शेषः । अद्य साम्प्रतम् सकलनास्तिकानां मन्त्रतन्त्रादिप्रभाव- मस्वीकुर्वताम् पाषण्डानामित्यर्थः । जायेत भवेत् । तत् तस्मात् । चन्द्रशेखरो महेश्वरः, नरकशासनो विष्णुः सरसिजासनो ब्रह्मा तदादीनां त्रिदशानां देवा- नाम् । स्थानानि मन्दिराणि । आदरेति—आदरेण श्रद्धया भक्त्या वा रचितमनु- ष्ठितं नृत्यगीताभ्यां आराधनं पूजनं येषु तानि । ह्रियन्तां नीयन्ताम् । गृहात् इतः अस्माद् राजसदनात् । क्लेशनिरसनसहानि-दारिद्र्यदुःखनाशसमर्थानि धनानि । अर्थिसार्थैः याचकसमूहैः । दरिद्रा आगत्य यथेष्टं स्वाभिलषितं धनं गृह्णन्त्विति भावः ।
करनेवाले, पार्श्वचरो और सहायकोंसे मैंने कहा—ऋषियोंकी शक्ति देखिये । इन्द्रियोंसे अजेय उस तपस्वीके पवित्र (रजोगुण रहित) संस्कारद्वारा उस तालाबमें, मैंने कमल- दलतुल्य क्या उससे भी अधिक दर्शनीय देह प्राप्त की । जिस तालाबमें कमलोंके समीप रहनेवाले प्रमुदित भौंरे कमल पर शोभा पा रहे हैं। (अपूर्व सिद्धि प्राप्त की । आज सभी नास्तिकोंका (आर्यधर्मविहीनोंका) शिर लज्जासे झुक गया है। अतः सम्प्रति सभी, महादेव, विष्णु, ब्रह्मा तथा अन्य देवताओंके मन्दिरोंमें श्रद्धाके साथ नाच-गाना एवं पूजा-अर्चा होवे । दारिद्र्यके दुःखको नाश करनेवाली लक्ष्मी (धन, वस्त्र आदि) याचक जनोंको इस राजप्रासादसे दिये जायें ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४०८ दशकुमारचरितम् । [ उत्तरपीठिकायां
४०८ दशकुमारचरितम् । [ उत्तरपीठिकायां ( २० ) आश्चर्यरसातिरेकहृष्टदृष्टयस्ते 'जय जगदीश, स्वतेजसाति- शय्य दश दिशः स्थगयन्निजेन यशसादिराजयशांसि' इत्यसकृदाशास्या रचयन्यथादिष्टाः क्रियाः। स चाहं दयितायाः सखीं हृदयस्थानीयां शशाङ्कसेनां कन्यकां कदाचित्कार्यान्तरागतां रहस्याचक्षिषि - 'कच्चिदयं जनः कदाचिदासीद् दृष्टः' इति । (२१) अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदीधितिलतां लीलालसं लासयन्ती, ललिताञ्चितकरशाखान्तरितदन्तच्छदकिसलया, (२०) आश्चर्यति-आश्चर्यरसस्य विस्मयस्य अतिरेकेण आधिक्येन हृष्टा प्रसन्ना दृष्टिर्येषां ते तादृशाः । ते सचिवादयः । स्वतेजसा निजप्रतापेन दशदिशः अतिशय्य अतिक्रम्य निजेन यशसा कीर्त्या आदिराजयशांसि पूर्वनृपतिकीर्तीः स्थगयन् आच्छादयन् जय सर्वोत्कर्षेण वर्त्तस्वेति असकृत्पुनःपुनः आशास्य आशीर्भिरभिनन्द्य यथादिष्टाः राजाज्ञानुसारेण क्रियाः देवताराधनादिकाः अर- चयन् अन्वतिष्ठन् । स च अहं-नृपरूपेण परिणतो मन्त्रगुप्त इत्यर्थः । दयितायाः प्रियायाः। हृदयस्थानीयां स्वहृदयतुल्यामन्तरङ्गभूताम् । कार्यान्तरागतां-अन्य- कार्यव्यपदेशेनागताम् । रहसि निर्जने । आचक्षिषि अकथयम् । अयञ्जनः-मज्ज- णः । कदाचित् कस्मिन्नपि समये । दृष्टः आसीत् त्वयेति शेषः कच्चित्-किम् । (२१) अथ प्रश्नानन्तरम् । सा शशाङ्कसेना । हर्षकाष्ठां हर्षातिशयम् । गतेन प्राप्तेन हृदयेनोपलक्षिता । ईषदल्पं आलक्ष्या दृश्या दशनदीधितिरेव दन्तकिरणा एव लता वल्ली तां लीलालसं विलासमन्दं यथा तथा लासयन्ती नर्त्तयन्ती प्रक्षिपन्तीति यावत् । तथा ललितेति-ललितं सुन्दरं यथा तथा (२०) विस्मयकी अधिकतासे प्रफुल्लित दृष्टिवाले उन याचकगण तथा मन्त्रिगणने 'जय जगदीश' एवं 'अपने प्रतापसे दश दिशाओंको परिव्याप्त करके तथा अपने यशसे पूर्ववर्त्ती राजाओंकी कीर्तिको जिन्होंने आच्छादित कर लिया है' ऐसे-ऐसे प्रशंसनीय वाक्य तथा आशीर्वचनको बार-बार कहकर, राजाद्वारा आदेशित पूजा-अर्चा समाप्त की। तदनन्तर किसी समय मेरे समीप किसी कार्यवश आयी हुई अपनी प्यारीकी सखी जो उसकी अन्तरंगिणी थी जिसका नाम शशांकसेना था, उस शशांकसेनासे मैंने (मन्त्रगुप्तने) एकान्तमें कहा-'क्या इस पुरुष को (मुझे) कभी पहिले देखा था ?' (२१) प्रश्नके बाद उस शशांकसेनाने आनन्दकी परम सीमा से युक्त चित्तसे कुछ देर देखकर, दन्तरूपी लताको विलासमें नर्त्तन कराकर, सुन्दर और संकुचित हाथकी अंगुलीसे अपने अधर पल्लवको ढककर, हर्षसे उत्पन्न जो आँसू उससे आक्लिन्न एवं कज्जल रहित नेत्रोंसे बद्धाञ्जलि होकर कहा- 'मैं आपको भली-भाँति पहचानती हूँ, यदि यह दृश्य (आपकी छवि) कोई कपटसे नहीं रचा हुआ है तो यह कैसे
हर्षजलक्लेदजर्जरनिरञ्जनेक्षणा रचिताञ्जलिः नितरां जाने यदि न स्यादै- न्द्रजालिकस्य जालं किञ्चिदेतादृशम् । कथं चैतत् कथय । इति स्नेहनि- र्यन्त्रणं शनैरगादीत् । अहं चास्यै कात्स्न्ये॑नाख्याय तदाननसङ्क्रान्तेन सन्देशेन सञ्जनय्य सहचर्या निरतिशयं हृदयाह्लादं ततश्चैतया दयितया निरर्गलीकृत। तिसत्कृतकलिङ्गनाथन्यायदत्तया सङ्गत्यान्ध्रकलिङ्गराजराज्य- शासी तस्यास्यारिणा लिलङ्घयिषितस्याङ्गराजस्य साहाय्यकायालघीयसा साधनेनागत्यात्र ते सखिजनसङ्गतस्य यादृच्छिकदर्शनानन्दराशिलङ्घित- अन्वितया संकुचितया करशाखया कराङ्गुल्या अन्तरितौ पिहितौ दन्तच्छदौ ओष्ठाधरावेव किसलयौ यथा तादृशी, तथा-हर्षेति-हर्षजलक्लेदेन आनन्दाश्रु- निर्गमेण जर्जरे क्लान्ते अतएव निरञ्जने कज्जलरहिते ईक्षणे नयने यस्याः सा । नितरां-अतिशयेन । जाने-त्वां जानामि । ऐन्द्रजालिकस्य मायाविनः । जालं- कपटम् एतादृशं एवम्भूतम् । यद्येषा ऐन्द्रजालिकमाया न स्यात्तदा त्वां सर्वथा परिचिनोमीत्यर्थः । कथं चैतत् कथय-कथमेवं सम्भावितमभूत् तत् कथयेत्यर्थः । स्नेहनिर्यन्त्रणं-स्नेहेन प्रेम्णा निर्यन्त्रणं निर्बाधम् । अस्यै शशाङ्कसेनायै । कात्स्न्र्येन-साकल्येन । तदाननसंक्रान्तेन-शशाङ्कसेनामुखद्वारा कथितेन । संजनय्य-उत्पाद्य । सहचर्याः कनकलेखायाः । एतया पूर्वोक्तया कनकलेखया । कीदृश्या इत्याह-निरर्गलीति-निरर्गलीकृतेन बन्धनान्मोचितेन ततः सत्कृतेन पूजितेन कलिङ्गनाथेन कर्दनाख्येन न्यायेन विधिपूर्वकं दत्तया अर्पितया कृत- विवाहयेत्यर्थः । संगत्य संगं प्राप्य । आन्ध्रेति-आन्ध्रकलिङ्गराजयोः आन्ध्रराजस्य कलिङ्गराजस्य च राज्यं शास्तीति तच्छासी अहमिति शेषः । तस्येत्यादि-तस्य पूर्ववर्णितस्यास्य अङ्गराजस्य सिंहवर्मणः अरिणा, शत्रुना चण्डवर्माख्येन लिल- घयिपितस्य आक्रमितुमिष्टस्य । साहाय्यकाय-साहाय्यं कर्तुम् । अलघायसा विपुलेन । साधनेन सैन्येन । अत्र अस्मिन् अङ्गदेशे । सखिजनसंगतस्य मित्र- वर्गपरिवृतस्य । ते तव राजवाहनस्येत्यर्थः । यादृच्छिकेति-यादृच्छिकं दैवसंयो- गाजातं यद्दर्शनं ते तव आनन्दराशिस्तेन लङ्घितमाक्रान्तं चेतो यस्य सः । इत्यन्तं मन्त्रगुप्तस्य वचनम् । हुआ, कहिये।' स्नेहसं बाधित हुई उसने मुझसे धीरेसे उपर्युक्त बात पूछी। तब मैंने अपनी सभा कृतियां उससे निवेदित कर दीं। फिर उसी शशांकसेनाके मुखसे अपना समां कृतियां, जो मेरी प्यारीको आनन्ददायिका थीं, अपनी प्यारीके समीप कहला भेजी तत्पश्चात् अति आदरपूर्वक प्रतिबन्ध रहित यथाविधि कलिङ्गराज की पुत्रीको स्वीकार किया और आन्ध्र तथा कलिङ्गराज भी प्राप्त किया। ततः आन्ध्र और कलिङ्ग देशपर शासन करते हुए इस शत्रु को जीतनेकी अभिलाषासे और अङ्गराजको
४१० दशकुमारचरितम् । [ उत्तरपीठिकायां
४१० दशकुमारचरितम् । [ उत्तरपीठिकायां चेता जात इति । तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भिरभिनन्द्यचित्रमिदं महामुनेर्वृत्तम् । अत्रैव खलु फलितमतिकष्टं तपः । तिष्ठतु तावन्नर्म । हर्षप्रकर्षस्पृशोः प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपम् । इत्याभिधाय पुनः अवतरतु भवान् इति बहुश्रुते विश्रुते विकचराजीवसदृशं दृशं चिक्षेप देवो राजवाहनः । इति मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः । (२२) तस्य मन्त्रगुप्तस्य । तत् पूर्ववर्णितम् । कौशलं नैपुण्यम् । अभि- नन्द्येत्यस्य कर्म । स्मितेति-स्मितस्य मन्दहासस्य ज्योत्स्नया किरणेन अभिषिक्तौ अनुलिप्तौ दन्तच्छदौ ओष्ठाधरौ यस्य तादृश इति राजवाहन इत्यग्रिमेणान्वयः । चित्रं-विस्मयकरम् । महामुनेः महातापसस्य तापसवेषधारिणो मन्त्रगुप्तस्ये- त्यर्थः । वृत्तं चरित्रम् । अत्रैव इह जन्मन्येव । फलितं सिद्धम् । अतिकष्टं-कष्ट- साध्यं । नर्म परिहासवाक्यम् । एतावद् यदुक्तं राजवाहनेन तत्त परिहाससूचकमेव साम्प्रतं परिहासं विहाय तत्त्वमेवोच्यते इत्यत्र तात्पर्यम् । हर्षप्रकर्षेति हर्षस्यान- न्दस्य प्रकर्षमाधिक्यं स्पृशतः इति तयोः-समधिकानन्दजनकयोः । प्रज्ञासत्त्वयोः बुद्धिबलयोः । स्वरूपम् तत्त्वम् । अवतरतु-स्वचरितवर्णनमारभताम् इत्यर्थः। बहुश्रुते-बहु नानाशास्त्रं श्रुतमधीतं येन तस्मिन् । विश्रुते तन्नामधेये कुमारे, तदुपरीत्यर्थः । विकचं प्रफुल्लं यद् राजीवं कमलं तत्-सदृशं तत्तुल्यां दृशं नयनं चिक्षेप निदधौ । अत्र तस्येत्यारभ्य राजवाहन इत्यन्तं वर्णनं कविनेव कृतमतो- ऽत्र ओष्ठ्यवर्णप्रयोगो न वैरस्यमावहतीति सहृदयैर्बोध्यम् । इति बालविबोधिनी व्याख्यायां सप्तम उच्छ्वासः । सहायताके लिए संग्राम के प्रभूत साधनों (सैन्यादिकों) के सहित यहांपर आया । यहांपर मित्रोंसहित आपका दर्शन पाकर आनन्दराशिस मेरा मन पुलकित हो गया । (२२) कुमार मन्त्रगुप्तके इस वृत्तको सुनकर सुहृदोंके साथ राजवाहनने मुस्कुराते हुए चन्द्रिकासे अभिषिक्त अधरोद्वारा उस मन्त्रगुप्तका अभिवादन किया और कहा-'इस महामुनिका चरितवृत्त विचित्र है। अति कठिन तपका फल आपको इसी जीवनमें उपलब्ध हो गया। अब परिहास त्याग दिया जाय। आनन्दके आधिक्यको स्पर्शित करनेवाला आपके बुद्धिवलका स्वरूप इस वृत्तमें देखा गया। वस्तु...। ऐसी बातें कह कर अपने विकसित पद्म के सदृश नेत्र को विक्षेपित कर देव राजवाहनने नानाशास्त्र निष्णात विश्रुतसे अपने चरितको प्रारम्भ करनेके लिये कहा। इस प्रकार सप्तम उच्छ्वासकी बालक्रोड़ा नामक हिन्दी टीका समाप्त हुई ।
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ॥ श्रीः ॥ दशकुमारचरितम् अष्टमोच्छ्वासः ( १ ) अथ सोऽप्याचचक्षे—'देव, मयापि परिभ्रमता विन्ध्याटव्यां कोऽपि कुमारः क्षुधा तृषा च क्लिश्यन्नक्लेशाहैः क्वचित्कूपाभ्याशेऽष्टवर्षदे- शीयो दृष्टः । स च त्रासगद्गदमगदत्—'महाभाग, क्लिष्टस्य मे क्रियता- मार्य, साहाय्यकम् । अस्य मे प्राणापहारिणीं पिपासां प्रतिकर्तुमुदकमु- दद्धन्निह कूपे कोऽपि निष्कलो ममैकशरणभूतः पतितः । तमलमस्मि नाहमुद्धर्तुम्' इति । ( २ ) अथाहमभ्येत्य व्रतत्या कयापि वृद्धमुत्तार्य, तं च बालं वंश ( १ ) अथ मन्त्रगुप्तकथनानन्तरम् । स विश्रुतनामा कुमारः । विन्ध्याटव्यां विन्ध्यारण्ये । कोऽपि अज्ञातकुलनामा । अक्लेशाहैः क्लेशसहनयोग्यो नेत्यर्थः । कूपाभ्याशे जलाशयसमीपे । अष्टवर्षदेशीयः असमाप्ताष्टवर्षः । सः बालकः । त्रास- गद्गदं भयविह्वलं यथा तथा । क्लिष्टस्य क्लेशयुक्तस्य । आर्य पूज्य । साहाय्यकं- स्वार्थे कः । प्राणापहारिणीं जीवितनाशिनीम् । प्रतिकर्तुम् अपनोदयितुम् । उदद्धन् निष्कासयन् । निष्कलो वृद्धः । ममैकशरणभूतो मदवलम्बनभूतः । तं कूपपतितं वृद्धम् । अलं समर्थः । उद्धर्तुं कूपात्निष्कासयितुम् । इत्यन्तम् अगददित्यस्य कर्म । ( २ ) अथ तच्छ्रवणानन्तरम् । अभ्येत्य समीपमागत्य । व्रतत्या लतया, ( १ ) इसके पश्चात् विश्रुतने कहा—हे देव ! विन्ध्याटवीमें इतस्ततः भ्रमण करते हुए मैंने सहसा एक कूपके समीप आठ बरसके बालकको देखा । क्लेशोंको सहन करनेमें अशक्त वह मृदु बालक भूख-प्याससे पीड़ित हो रहा था। मुझे देखकर उसने भयान्रित होकर गद्गद स्वरसे कहा—हे महाभाग ! इस समय मैं बड़ी आपत्तिमें हूँ । आप मेरी सहायता करें । मुझे प्राणापहारिणी पिपासा सता रही है, उसीके निवृत्त्यर्थ मैं इस कूपपर आया तो पानी निकालनेके समय मेरे साथका एक वृद्ध इसमें गिर पड़ा । मेरे अतिरिक्त उसका कोई सहायक भी नहीं है और मुझमें इतना पौरुष नहीं कि मैं उसे खींचकर कूपके बाहर निकाल सकूं । ( २ ) तदनन्तर मैंने कुछ लताओंको एकत्र करके उनकी सहायतासे उस बूढ़ेको २७ द० कु० उ० Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४१२ दशकुमारचरितम् । [ उत्तरपीठिकायां
[Top Header: CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF]
४१२ दशकुमारचरितम् । [ उत्तरपीठिकायां
नालीमुखोद्घृताभिरद्भिः फलैश्च पञ्चषैः शरक्षेपोच्छ्रितस्य लकुचवृक्षस्य शिखरात्पाषाणपातितैः प्रत्यानीतप्राणवृत्तिमापाद्य, तरुतलनिषण्णस्तं जरन्तमब्रवम्-'तात, क एष बालः, को वा भवान्, कथं चेयमापदापन्ना' इति । ( ३ ) सोऽश्रुगद्गदमगदत्-'श्रूयतां महाभाग ! विदर्भो नाम जन- पदः तस्मिन्भोजवंशभूषणम्, अंशावतार इव धर्मस्य, अतिसत्त्वः, सत्यवादी, वदान्यः, विनीतः, विनेता प्रजानाम्, रञ्जितभृत्यः, कीर्ति- मान्, उदग्रः, बुद्धिमूत्तिभ्यामुत्थानशीलः, शास्त्रप्रमाणकः, शक्यभव्य- रज्जुभूतयेत्यर्थः । उत्तार्य उद्धृत्य । वंशनालीति-वंशस्य नाली अन्तश्छिद्रं वेणुर्वा तस्या मुखमग्रभागस्तेनोद्धृताभिर्निष्कासिताभिः । अद्भिजैलैः । पञ्च षड्वा प्रमाण- मेषां ते पञ्चषास्तैः । शरक्षेपो बाणगतिः, यावद्वाणा गच्छन्तीत्यर्थः । शरक्षेपाद- प्युच्छ्रितस्योन्नतस्य । शिखरात् अग्रदेशात् । पाषाणपातितैः प्रस्तरनिक्षेपेणाधः- क्षिप्तैः । फलैरित्यस्य विशेषणम् । करणभूतैः तैः प्रत्यानीता पुनराच्छिन्ना प्राणवृत्तिः जीवनयोगो यस्य तम्। आपाद्य कृत्वा । जरन्तं वृद्धम् । ( ३ ) सः वृद्धः । जनपदः देशः । अस्तीति शेषः । अंशावतारः-अंशेनैक- देशेन अवतारः न तु पूर्ण इत्यर्थः । अतिसत्त्वः समधिकबलवान् सत्त्वगुणप्रधानो वा । वदान्यो दानशौण्डः । विनेता शिक्षादाता । रञ्जितभृत्यः अनुरक्तसेवकः । बुद्धया मूर्त्या आकारेण चोत्थानशीलः पौरुषस्वभावः । शक्यं स्वसाध्यं अन्यं मङ्गल- जनकं कल्पं विधिम् आरभत इति शक्यभव्यकल्पारम्भी । संभावयिता मानधना- खींचकर उस कूपके बाहर निकाला तथा बांस की नलीद्वारा जल खींचकर उस बालक को पीनेको दिया जिससे उसकी प्यास बुझी । इसके पश्चात् मैने बाणों और पत्थरोंकी सहायतासे लकुच वृक्षसे पांच-छः फल तोड़कर उन दोनों को खिलाये जिससे उन दोनों की क्षुधा निवृत्त हुई। पुनः हम सब एक वृक्षकी छायामें जा बैठे और मैंने उस वृद्धसे प्रश्न किया-हे तात ! यह बालक कौन है ? आप कौन हैं ? यहाँ कैसे आये ? कैसे इस आपत्तिमें फँस पड़े ? मेरे प्रश्नों को श्रवण कर उस बूढ़ेके नेत्रोंमें आँसू आ गये और वह गद्गद कण्ठसे कहने लगा- ( ३ ) हे महाभाग ! विदर्भ नामका एक देश है । उसमें भोजवंशका भूषण पुण्यवर्मा नाम का एक शासक रहता था जो धर्मका अवतार, सत्यवादी, अप्रमेय बलिष्ठ, विनय-भावसम्पन्न, दानी, प्रजापालक, यशस्वी, अपने दासोंको प्रसन्न रखनेवाला, उन्नतिशील, शास्त्रपर श्रद्धा रखनेवाला, अपनी बुद्धि द्वारा तथा अपनी देह द्वारा प्रजाकी निरन्तर उन्नति करनेवाला, विद्वानोंकी पूजा करनेवाला, सेवकोंका
[Bottom Footer: Nepal Sanskrit University, Balmeeki Campus, Kathmandu]
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४१३ कल्पारम्भी, संभावयिता बुधान्, प्रभावयिता सेवकान्, उद्भावयिता बन्धून्, न्यग्भावयिता शत्रून्, असंबद्धप्रलापेष्वदत्तकर्णः, कदाचिदप्य- वितृष्णो गुणेषु, अतिनदीष्णः कलासु, नेदिष्ठो धर्मार्थसंहितासु, स्वल्पेऽपि सुकृते सुतरां प्रत्युपकर्ता, प्रत्यवेक्षिता कोशवाहनयोः, यत्नेन परीक्षिता सर्वाध्यक्षाणाम्, उत्साहयिता कृतकर्मणामनुरूपैर्दानमानैः, सद्यः प्रतिकर्ता दैवमानुषीणामापदाम्, षाड्गुण्योपयोगनिपुणः, मनुमार्गेण प्रणेता चातु- र्वर्ण्यस्य पुण्यश्लोकः पुण्यवर्मा नामासीत् । (४) स पुण्यैः कर्मभिः प्राप्य पुरुषायुषम्, पुनरपुण्येन प्रजानाम- दिना सत्कर्त्ता । प्रभावयिता प्रभुत्वकारकः । उद्भावयिता संवर्द्धकः । न्यग्भावयिता जेता । असंबद्धप्रलापेषु निरर्थकवचनेषु । अवितृष्णो विरागरहितः, सर्वदा गुणा- नुरक्त एवेत्यर्थः । अतिनदीष्णः परमपटुः । नेदिष्ठोऽतिसमीपवर्ती, सर्वदैव तत्र संलग्न- इति भावः । सुकृते केनापि कृते उपकारे । सुतरामतिशयेन । प्रत्यवेक्षिता । अनु- सन्धानकर्त्ता । परीक्षिता परीक्षकः । सर्वाध्यक्षाणां प्रधानकर्मकर्तॄणाम् । कृतं निष्पादितं कर्म कार्यं यैस्तेषाम् । प्रतिकर्त्ता शमयिता । षाड्गुण्यं सन्धिविग्रहादिः तेषामुपयोगे विविच्य प्रयोगे निपुणः कुशलः । मनुमार्गेण मनूक्तपद्धत्या । पुण्य- श्लोकः पवित्रकीर्त्तिः । (४) सः पुण्यवर्मा । पुण्यैः कर्मभिः, यज्ञदानादिभिः । पुरुषायुषं पूर्णमायुः, शतं वर्षाणीति यावत् । प्राप्य लब्ध्वा । प्राप्येति पाठे जीवित्वेत्यर्थः । अपुण्येन प्रभाववर्द्धक, बन्धुओंकी सहायता करनेवाला, शत्रुओंका दमन करनेवाला तथा कार्यकुशल था । वह कभी असम्बद्ध तथा व्यर्थ बातोंपर ध्यान ही नहीं देता था । गुणोंकी प्राप्तिमें सदा वह तत्पर रहता था । सभी कलाओंका वह परिज्ञाता था । धर्म और अर्थका संग्रह करनेमें वह सदा प्रयत्नशील रहता था । यदि कोई उसका थोड़ा भी उपकार कर देता था तो उसके लिये वह अत्यधिक प्रत्युपकार करता था। अपने कोश और वाहनोंपर सदा दृष्टि रखता था । अपने समस्त कर्मचारियोंकी गुप्त रूपसे परीक्षा किया करता था । कार्यदक्ष लोगोंके पदोंकी अभिवृद्धि करता हुआ उन्हें पुरस्कृत करता रहता तथा सदा अर्थकी सहायतासे उनको सन्तुष्ट रखता था । सन्धि, विग्रह, यान, आसन, आश्रय, द्वैधीभाव इन छहों गुणोंका वह विधिवत् पालन करता था । मनुस्मृतिके अनुसार चारों वर्णोंके तथा चारों आश्रमोंके धर्मोंका पालन प्रजासे करवाता था । उसकी पवित्र कीर्ति समस्त भूतलपर छायी हुई थी । (४) उसने मानवीय अवस्थाका सुख पूर्णरूपेण भोगा और अन्तमें वह प्रजाके Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४१४ दशकुमारचरितम् । [ उत्तरपीठिकायां
४१४ दशकुमारचरितम् । [ उत्तरपीठिकायां गण्यतामरेषु । तदनन्तरमनन्तवर्मा नाम तदायतिरवनिमध्येतिष्ठत् । स सर्वगुणैः समृद्धोऽपि दैवादण्डनीत्यां नात्यादृतोऽभूत् । तमेकदा रहसि वसुरक्षितो नाम मन्त्रिवृद्धः पितुरस्य बहुमतः प्रगल्भवागभाषत । ( ५ ) 'तात, सर्वैवात्मसंपदभिजातप्रभृत्यन्यूनैवात्रभवति लक्ष्यते । बुद्धिश्च निसर्गपट्वी, कलासु नृत्यगीतादिषु चित्रेषु च काव्यविस्तरेषु प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते । तथाप्यसावप्रतिपद्यात्मसंस्कार- मर्थशास्त्रेषु, अनग्निसंशोधितेव हेमजातिर्नातिभाति बुद्धिः । बुद्धिहीनो पापेन, दौर्भाग्येनेति यावत् । अमरेषु अगण्यत स्वर्गमगच्छत् । तदायतिः—तस्मात् पुण्यवर्मणः आयतिः प्रभावो यस्य सः । तत्पुत्र इत्यर्थः । स्यात्प्रभावेऽपि चायतिरित्पमरः । दण्डनीत्यां राजनीतौ । अत्याहत आदरवान् । बहुमतः सम्मा- नितः । प्रगल्भवाक् वाक्पटुः । ( ५ ) आत्मसात् पुरुषगुणपरम्परा । अभिजातप्रभृति कुलक्रमानुसारेण । अन्यूना अहीना । अत्रभवति त्वयि । निसर्गेति—निसर्गात् स्वभावात् पट्वी पटुः । चित्रेषु नानाविधेषु । प्राप्तविस्तरा लब्धप्रसरा । प्रतिविशिष्यते विशिष्टा- स्ति । असौ बुद्धिः । अप्रतिपद्य अप्राप्य । आत्मसंस्कारं वासनाम् । अर्थशास्त्रेषु दण्डनीत्यादिषु । अनग्निशोधितेति—अनग्निशोधितं सुवर्णं यथा न शोभते तथा सस्काररहिता । बुद्धिरपीत्यर्थः । अत्युच्छितः अत्युन्नततः । परैः शत्रुभिः । पापोंके कारण स्वर्गके देवगणोंमें जाकर मिल गया । इसके पश्चात् उसका पुत्र अनन्तवर्मा राजसिंहासनपर बैठा । यद्यपि अनन्तवर्मा सभी राजगुणोंसे परिपूर्ण था परन्तु, दुर्भाग्यवश उसकी नीतिसे लोग असन्तुष्ट थे और उसका आदर नहीं करते थे । एक दिन उसके पिताके द्वारा सम्मानित वृद्ध मन्त्री वसुरक्षितने अनन्तवर्माको एकान्त स्थलमें ले जाकर कहा— ( ५ ) हे तात ! स्ववंशानुसार आपमें सभी गुण वर्त्तमान हैं । स्वभावसे ही आप- बुद्धिमैं तीक्ष्ण हैं । औरोंकी अपेक्षा आपमें नृत्य, गीत, काव्यकला, चित्र-चातुर्य भी अधिक है । परन्तु, इन सबके रहते हुए भी आपकी प्रतिभा अर्थशास्त्रके तत्त्वान्वेषणमें असफल है । अतः इसकी शोभा उसी प्रकार हीन लग रही है जैसे अग्निमें बिना तपा हुआ सुवर्ण शोभाहीन रहता है । बुद्धिरहित राजा कितना ही बड़ा क्यों न हो, उसके रिपुगण उसे भीतर ही भीतर खोखला बना देते हैं । यद्यपि ऊपरसे देखनेमें यह बात ज्ञात नहीं होती परन्तु सूक्ष्मतासे ज्ञात हो जाती है । बुद्धिके न होनेसे वह राजा अपने साध्य-साधनोंका विभाग करनेमें असमर्थ रहता है । जो राजा राज्यपदके अनुकूल आचरण नहीं करता।
हि भूभृदत्युच्छ्रितोऽपि परैरध्यारुह्यमाणमात्मानं न चेतयते । न च शक्तः साध्यं साधनं वा विभज्य वर्तितुम् । अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय । अतिक्रान्तशासनाश्च प्रजा यत्किंचनवादिन्यो यथाकथंचिद्वर्त्तिन्यः सर्वाः स्थितीः संकिरेयुः । निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनमात्मानं च भ्रंशयते । आगमदीपदृष्टेन खल्वध्वना सुखेन वर्तते लोकयात्रा । दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यवहितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामा- प्रतिहतवृत्ति । तेन हीनः सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुः
अध्यारुह्यमाणम् आक्रम्यमाणम् । चेतयते ज्ञातुं प्रभवति । शक्तः समर्थः । साध्यं कार्यम्, साधनं कारणम्, अथवा साध्यं विपक्षभूतं साधनं सपत्नभूतम् । विभज्य निर्णीय । अयथावृत्तः योग्यचरित्रहीनः । कर्मसु कार्येषु । प्रतिहन्यमानः प्रतिरुध्य- मानः । परिभूयते अवज्ञायते । अलब्धस्य लाभो योगः, लब्धस्य संरक्षणं क्षेमस्तयो- राराधनाय साधनाय अतिक्रान्तं लङ्घितं शासनं नृपादेशो याभिस्ताः । यत्किञ्चन- वादिन्यः अनियन्त्रितभाषिण्यः । यथाकथञ्चिद्वर्त्तिन्यः यथेच्छं विहरन्त्यः । स्थिती- र्मर्यादाः । संकिरेयुः विशृङ्खलयेयुः । इतो लोकात् । अमुतः परलोकात् । भ्रंशयति पातयति । आगमः शास्त्रमेव दीपस्तेन दृष्टेन । वर्तते सम्पद्यते । लोकयात्रा लोकस्थितिः । व्यवहिता विषयान्तरेणाच्छादिताश्च विप्रकृष्टा असन्निहितास्तेषु । अप्रतिहताऽकुण्ठिता वृत्तिः प्रसरो यस्य तत् । चक्षुषा सर्वं द्रष्टुं न प्रभवन्ति जीवाः शास्त्ररूपं दिव्यं चक्षुर्न कुत्रापि प्रतिहतं भवतीति भावः । तेन शास्त्रचक्षुषा । सतोः वर्तमानयोः । शन्तन्तादस्धातोः सप्तमीद्विवचने रूपम् । आयतविशालयोः दीर्घम-
उसे अपने-पराये शत्रु एक न एक दिन अवश्य धर दबाते हैं। ऐसी दशामें वह राजा प्रजासे तिरस्कृत हो जाता है तथा तिरस्कृत राजाकी आज्ञाओंका कोई भी पालन नहीं करता है। तब वह राजा जनताके योग-क्षेमकी व्यवस्था करनेमें अशक्त हो जाता है। ऐसी परिस्थिति होनेपर राजाज्ञाओंका उल्लङ्घन करके प्रजा मनमाने मार्गसे सभी नियमोंको तोड़कर चलने लगती है। नियमविरुद्ध चलनेवाली प्रजा अपनेको, राजाको और राज्यको नष्ट-भ्रष्ट कर डालती है। धर्मशास्त्ररूपी दीपकके प्रकाशमें चलनेसे राजा-प्रजाका जीवन बड़े सुखमें व्यतीत होता है। धर्मशास्त्र दिव्य दृष्टिके समान है जो दृष्टि वर्त्तमान, भूत और भविष्य तथा अज्ञातावश न दिखायी देनेवाले सभी पदार्थोंतक अप्रतिहत गतिसे पहुँच जाती है, कहीं रुकती नहीं है। सुन्दर तथा विशाल नेत्रोंवाले भी अन्धेके समान हैं यदि उनके पास उक्त धर्मशास्त्ररूपी दृष्टि नहीं है, क्योंकि कार्य तथा अकार्यका विचार
४१६ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ४१६ दशकुमारचरितम् । [ उत्तरपीठिकायां र्थदर्शनेष्वसामर्थ्यात् । अतो विहाय बाह्यविद्यास्वभिषङ्गमगमय दण्डनीतिं कुलविद्यां तदर्थानुष्ठानेन चावर्जितशक्तिसिद्धिरस्खलितशासनः शाधि चिरमुदधिमेखलामुर्वीम्' इति । ( ६ ) एतदाकर्ण्य 'स्थान एव गुरुभिरनुशिष्टम् । तथा क्रियते' इत्य- न्तःपुरमविशत् । तां च वार्तां पार्थिवेन प्रसङ्गेनोदीरितामुपनिशम्य समी- पोपविष्टश्चित्तानुवृत्तिकुशलः प्रसादवित्तो गीतनृत्यवाद्यादिष्वबाह्यो बाह्यना- रीपरायणः पटुरयन्त्रितमुखो बहुभङ्गिविशारदः परर्मान्वेषणपरः परिहा- सयिता परिवादरुचिः पैशुन्यपण्डितः सचिवमण्डलादप्युत्कोचहारी सकल- हतोः । जन्तुर्जीवः । अर्थदर्शनेषु विषयज्ञानेषु । बाह्यविद्यासु नीतिविद्येतरविद्यासु । अभिषङ्गमासक्तिम् । आगमय प्रापय । आवर्जिता प्राप्ता शक्तिः सामर्थ्यं सिद्धिः कार्यसिद्धिश्च येन सः । अस्खलितशासनः अप्रतिहताज्ञः । शाधि पालयेत्यर्थः । अनुशासनाथंकशासधातोलोंटि मध्यमपुरुषैकवचने रूपम् । उदधिः समुद्रो मेखला रशना यस्यास्तां ससागरामित्यर्थः । उर्वी पृथिवीम् । ( ६ ) स्थाने युक्तम् । प्रसादवित्तः राज्ञः प्रसादेन वित्तः प्रसिद्धः अथवा प्रसाद एव वित्तं धनं यस्य सः, राजप्रसादोपजीवीत्यर्थः । अबाह्यः बहिर्भूतो न; सर्वक- ळकदॆशज्ञ इत्यर्थः । बाह्यनारीपरायणो वेश्यासक्तः । अयन्त्रितमुखः । असंयतमुखः- वाच्यावाच्यज्ञानहीनो बहुभाषी वा बहुभङ्गिविशारदः वक्रोक्तिचतुरः । परस्य मर्मा- न्वेषणे गोप्यविषयानुसन्धाने परतत्परः, परच्छिद्रान्वेषणपरायणो वा। परिवादरुचिः परनिन्दारसिकः । पैशुन्यं खलता तत्र पण्डितः । सचिवमण्डलात् मन्त्रिसमूहादपि धर्मशास्त्रज्ञान बिना नहीं हो सकता, अतः आप बाहरकी सभी विद्याओंकी ओरसे चित्त हटाकर अपने वंशकी विद्याओं तथा दण्डनीतकी ओर चित्त लगावें और उसे सीखनेका प्रयास करें । यदि आप उस दण्डनीति-प्रतिपादित मार्गसे कार्यसाधनकी ओर अग्रसर होंगे तो समस्त सिद्धियाँ तथा शक्तियां आपतक स्वयमेव दौड़ आयेंगी तथा शासनकार्यमें न कभी त्रुटि होगी और न किसीका भय रहेगा । मेरी इस सम्मतिको मानकर आप समुद्रवसना पृथ्बीका दीर्घकालतक शासन कीजिये । ( ६ ) मन्त्रीकी बात सुनकर अनन्तवर्माने कहा- 'हे सचिववर ! आपका उपदेश युक्तिपूर्ण तथा शिरोधार्य है, मै इसका पालन करूंगा।' ऐसा कहकर वह अन्तःपुरमें चला गया । वहां पर नृत्य-गोतादिके प्रसंगमें उसने अपने बूढ़े मन्त्रीके उपदेशकी चर्चा कर दी। उस चर्चाको अनन्तवर्माके एक सेवक विहारभद्रने सुन लिया क्योंकि वह भी उस समय वहीं पर विद्यमान था। विहारभद्र दूसरोंके भावोंको जाननेमें पटु था तथा Nepal Sanskrit University, Balmeeki Campus, Kathmandu
अष्टमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ४१७ दुर्जयोपाध्यायः कामतन्त्रकर्णधारः कुमारसेवको विहारभद्रो नाम स्मित- पूर्वं व्यज्ञापयत्— (७) 'देव, दैवानुग्रहेण यदि कश्चिद्भाजनं भवति विभूतेः, तमक- स्मादुच्चावचैरुपप्रलोभनैः कदर्धयन्तः स्वार्थं साधयन्ति धूर्ताः। तथाहि- केचित्प्रेत्य किल लभ्यैरभ्युदयातिशयैराशामुत्पाद्य, मुण्डयित्वा शिरः, बद्ध्वा दर्भरज्जुभिः, अजिनेनाच्छाद्य, नवनीतेनोपलिप्य, अनशनं च शयित्वा सर्वस्वं स्वीकरिष्यन्ति । तेभ्योऽपि घोरतराः पाषण्डिनः पुत्रदार- अन्यजनात्तु का कथा । उत्कोचहारी गुप्तरूपेण द्रव्यग्रहणपरः । कुमारसेवकः कुमारा- वस्थामारभ्य राज्ञः सेवकः । (७) भाजनं पात्रम् । विभूतेः ऐश्वर्यस्य । उच्चावचैर्नानाविधैः । कदर्ध- यन्तो गर्हयन्तः । केचित् केचन धूर्ताः । स्वीकरिष्यन्तीत्यनेनान्वयः । प्रेत्य मर- णानन्तरम् । अजिनेन मृगचर्मणा । सर्वस्वम् अन्यस्य सर्व धनम् । स्वीकरिष्यन्ति ग्रहीष्यन्ति । यज्ञदीक्षितस्य शिरोमुण्डनं कुशरज्जुभिर्वेष्टन, मृगचर्माच्छादनमन- शनञ्च प्रसिद्धमेव । तेभ्यो धूर्तेभ्योऽपि पाषण्डिनः भ्रष्टाः । पुत्रदारेति पुत्रदारा- दीन्यकिञ्चित्कराणि धर्मं एवाश्रयणीय इत्यादि कथयित्वा जनान् स्वस्वपुत्रकलत्रा- राजाकी उसपर दया भी रहती थी। वह वाद्य-नृत्य-गीतादि विद्याओंमें पारंगत, वेश्या- गामी, व्यंग्य बोलनेमें कुशल, मुँहफट तथा अन्योंके रहस्यभेद जाननेमें प्रवीण, परनिन्दामें तत्पर और चुगलखोर एवं मन्त्रिमण्डलोंसे भी घूस लेनेमें दक्ष, लम्पटों तथा दुष्टोका मुखिया, कामतन्त्रवेत्ता, नायक-नायिकाको मिलानेमें पाखट और निपुण था। उसने राजाकी समस्त बातें श्रवण कर हँसते हुए कहा- (७) हे देव ! सौभाग्यसे यदि कोई धनिक हो जाता है तो वृथा ही धूर्तगण उसे इधर- उधरकी बातें बताकर उसके मस्तिष्कको बिगाड़कर अपना स्वार्थसाधन करते रहते हैं। कितने धूर्त तो ऐसे भी होते हैं जो सीधे-सादे धनिकको अपनी कपटकला द्वारा फँसाकर उसके चित्तमें ऐसी आशा जमाते हैं कि वह मृगचर्मकी लँगोटी धारण कर कई दिनोंतक उपवास करने लगता है और फिर धीरे धीरे समय पाकर वे धूर्त उसका सर्वस्व हरण कर लेते हैं। जो धूर्त इन कथित धूर्तोंसे और अधिक बड़े होते हैं वे तो स्त्री, पुत्र, भाई आदि में भी पार्थक्य करा देते हैं; यहाँ तक कि शरीर और जीवन तकसे विभेद कराकर अपना स्वार्थ सिद्ध कर लेते हैं। यदि कोई पट्ट शिष्य उन धूर्तोंके बताये मार्गसे नहीं चलता और अपनी हस्तगत सम्पत्ति नहीं नष्ट करता है तो उसके समीप और अनेक धूर्तंराट् आ जाते हैं और आकर उपदेश देने लगते हैं- मैं एक कौड़ीसे लाखों रुपये बना सकता
४१८ दशकुमारचरितम्। [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ४१८ दशकुमारचरितम्। [ उत्तरपीठिकायां शरीरजीवितान्यपि मोचयन्ति । यदि कश्चित्पटुजातीयो नास्यै मृगतृ- ष्णिकायै हस्तगतं त्यक्तुमिच्छेत् तमन्ये परिवार्याहुः - एकामपि काकिणीं कार्षापणलक्षमापादयेम, शस्त्रादृते सर्वशत्रून्घातयेम, एकशरीरिणमपि मर्त्यं चक्रवर्तिनं विदधीमहि यद्यस्मद्दिष्टेन मार्गेणाचर्यते' इति । ( ८ ) स पुनरिमान्प्रत्याह - 'कोऽसौ मार्गः' इति । पुनरिमे ब्रुवते- 'ननु चतस्रो राजविद्यास्त्रयी वार्तान्वीक्षिकी दण्डनीतिरिति । तासु तिस्रस्त्र- यीवार्तान्वीक्षिक्यो महत्यो मन्दफलाश्च तास्तावदास्ताम् । अधीष्व ताव- दण्डनीतिम् । इयमिदानीमाचार्यविष्णुगुप्तेन मौर्यार्थे षड्भिः श्लोकसहस्रैः संक्षिप्ता । सैवेयमधीत्य सम्यगनुष्ठीयमाना यथोक्तकर्मक्षमा' इति । दीनि त्याजयन्तीति भावः । पटुजातीयः चतुरसदृशः । प्रकारवचने जातीयर् प्रत्ययः । अस्यै अनन्तरोक्तायै । मृगतृष्णिकायै मरीचिकायै । निमित्ते चतुर्थी । हस्तगतं धनमिति शेषः । तं पटुजातीयम् । अन्ये अपरे राजनीतिज्ञा इति भावः । काकिणी वराटिकानां विंशतिः । पणचतुर्थोऽश इत्यर्थः । कार्षापणः षोडश पणाः । आपादयेम उत्पाद्येम । अर्थशास्त्रबलात् एकयाऽपि काकिण्या कार्षापणलक्षमुर्जं- यितुं प्रभवति नर इति भावः । शस्त्रादृते शस्त्रं विना । कूटनीत्या विना युद्धं शत्रु- नाशो भवतीत्यर्थः । एकशरीरिणम् एकाकिनं पुरुषम् । मर्त्यानां मनुष्याणां चक्रे मण्डले समूहे वा वर्त्तते प्राधान्येन चरतीति तथा । विदधीमहि कर्तुं शक्नुयाम । अस्मदुद्दिष्टेन अस्माभिः प्रदर्शिताने । आचर्यते अनुष्ठीयते त्वयेति शेषः । ( ८ ) त्रयी वेदः । वार्ता अर्थशास्त्रम् । आन्वीक्षिकी न्यायशास्त्रम् । मन्दफलाः निष्फलप्रायाः । आसतां तिष्ठन्तु । आस् उपवेशने इत्यस्य धातोलोंटि रूपम् । इयं दण्डनीतिः । आचार्यविष्णुगुप्तेन चाणक्येन । मौर्यार्थे चन्द्रगुप्तकृते । अनुष्ठीय- माना आचर्यमाणा । यथोक्तकर्मक्षमा पूर्वप्रतिपादितकार्यकरणसमर्था । हूँ। बिना शस्त्र उठाये ही सब शत्रुगणोंको जीत सकता हूँ । केवल एक शरीर मात्रधारी निर्धनको भी चक्रवर्ती सम्राट् बना सकता हूँ। परन्तु ये सब बातें तभी होंगी जब मेरे बताये गये मार्गका वह व्यक्ति अनुसरण करे । ( ८ ) यदि उस धूर्तकी इन लम्बी-चौड़ी बातोंपर विश्वास करके कोई पूछता है कि 'अन्ततोगत्वा आपका वह कौनसा मार्ग है' तो वे कहते हैं-चार प्रकारकी राजविद्याएँ होती हैं । त्रयी ( ऋग् यजुः, साम ), वार्ता ( कृष्यादि कर्म ), आन्वीक्षिकी ( न्यायशास्त्र ) और दण्डनीति (अर्थशास्त्र ) । इनमें भी तीन विद्याएँ तो अति परिश्रम से प्राप्त होती हैं परन्तु उनका फल अतिसाधारण है । अतः उनके जानने की आवश्यकता नहीं Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF
अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४१६
(६) स 'तथा' इत्यधीते । शृणोति च । तत्रैव जरां गच्छति । तत्तु किल शास्त्रं शास्त्रान्तरानुबन्धि । सर्वमेव वाङ्मयमविदित्वा न तत्त्वतोऽ- धिगंस्यते । भवतु, कालेन बहुनाल्पेन वा तदर्थाधिगतिः । अधिगतशास्त्रेण चादावेव पुत्रदारमपि न विश्वास्यम् । आत्मकुक्षेरपि कृते तण्डुलैरियद्भि- रियानोदनः संपद्यते । इयत ओदनस्य पाकायैतावदिन्धनं पर्याप्तमिति मानोन्मानपूर्वकं देयम् । उत्थितेन च राज्ञा क्षालिताक्षालिते मुखे
(९) तथा तथैवास्तु ! तत्रैव दण्डनीत्यध्ययने । जरां गच्छति-वृद्धत्वं प्राप्नोति । शास्त्रान्तरानुबन्धि-अन्यशास्त्रापेक्षि । वाङ्मयं शास्त्रम् । तत्त्वतो याथा- तथ्येन । अधिगंस्यते-सम्यग् ज्ञानं भविष्यति । तदर्थाधिगतिः-तदर्थबोधः । अधि- गतं सम्यग् ज्ञातं शास्त्रं येन तेन; जनेनेति शेषः । आदावेव प्रथममेव । विश्वास्यं विश्वसनीयम् । आत्मकुक्षेः स्वोदरस्य । कृते निमित्तम् । इयद्भिः इयत्परिमाणैः । इयान् इयत्परिमाणः । इयतः इयत्परिमाणस्य । एतावत् एतत्परिमाणम् । इन्धनं काष्ठम् । मानं प्रस्थादिकृतम् , उन्मानं तुलादण्डकृतम् , तत्पूर्वकम् , प्रस्थेन तुलया वा परिमाप्येति भावः । उत्थितेन शय्याया इति शेषः । क्षालिताक्षालिते-कार्य- त्वरया किञ्चित् क्षालिते किञ्चिदक्षालिते मुखे-इत्यस्य विशेषणम् । अभ्यन्तरीकृत्य
है । तुम उनको छोड़कर दण्डनीतिका ही अध्ययन करो । इस विद्याको आचार्य विष्णु- गुप्त तथा चाणक्यने अपने-अपने शिष्योंको अर्थात् यथाक्रम राजपुत्रोंको और चन्द्रगुप्त मौर्यको समझानेके लिये केवल छः सहस्र श्लोकोंमें ही रच दिया है । बस, यदि इसे तुम जान लो और इसके अनुसार चलो तो जो चाहोगे सो प्राप्त कर लोगे—सब सिद्धियाँ इसीमें निहित हैं । (९) उस धूर्तके इस उपदेशपर जब शिष्य कह देता है कि 'मैं ऐसा ही यथावत् करूँगा' तथा वह दण्डनीति पढ़ने एवं सुनने लगता है तो केवल उसी दण्डनीतिको जानते- जानते वह वृद्ध हो जाता है और फिर भी उसे कुछ लाभ नहीं होता । जब वह शिष्य दण्डनीतिके मन्थनमें घबड़ाता है तो धूर्त उसे समझाता है और कहता है—देखो, एक शास्त्रका सम्बन्ध दूसरे शास्त्रसे होता है अतः जब तक तुम सकल शास्त्र न पढ़ोगे तब तक कुछ लाभ न होगा—कुछ समझमें न आवेगा । मान लो, कुछ समय माथापच्ची करके दण्डनीति कुछ समझमें आ भी गयी तो क्या ! उस दण्डनीतिका प्रथम उपदेश है कि अपनी पत्नी और पुत्र पर भी विश्वास न करो । एक आदमीका पेट भरनेके लिए इतने चावलोंसे इतना भात तैयार होता है । इतना चावल पकानेमें इतनी लकड़ी लगती है अतः उतना चावल और लकड़ी नाप- जोखकर रसोईदारको देना चाहिये । सूर्योदयसे पहले उठकर राजाको आय-व्यय समझना
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४२० दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ४२० दशकुमारचरितम् । [ उत्तरपीठिकायां मुष्टिमर्घमुष्टिं वाभ्यन्तरीकृत्य कृत्स्नमायव्ययजातमह्नः प्रथमेऽष्टमे वा भागे श्रोतव्यम् । शृण्वत एवास्य द्विगुणमपहरन्ति तेऽध्यक्षधूर्ता- श्चत्वारिंशतं चाणक्योपदिष्टानाहरणोपायान्सहस्रधात्मबुद्धयैव ते विक- ल्पयितारः । ( १० ) द्वितीयेऽन्योन्यं विवदमानानां जनानामाक्रोशाद्दह्यमानकर्णः कष्टं जीवति । तत्रापि प्राङ्क्षिवाकादयः स्वेच्छया जयपराजयौ विदधानाः, पापेनाकीर्त्या च भर्तारमात्मनश्चार्थैर्योजयन्ति । तृतीये स्नातुं भोक्तुं च न लभते । भुक्तस्य यावदन्धःपरिणामस्तावद् विषभयं न शाम्यत्येव । निक्षिप्य गिलित्वेति भावः । शृण्वत इति अनादरे षष्ठी । शृण्वन्तं तमनादृत्य तस्यैव समक्षमित्यर्थः । अध्यक्षधूर्त्ताः धूर्त्ताः अधिकारिणः । चत्वारिंशतमित्यादि- चाणक्येन चत्वारिंशत्संख्यका एवाहरणोपाया उपदिष्टास्ते तु स्वबुद्धिबलेन सहस्र- प्रकारानाहरणोपायान् कल्पयेयुरित्यर्थः । ( १० ) द्वितीये दिवसस्य द्वितीयभागे । आक्रोशात् चीत्कारशब्दात् । प्राङ्- विवाकः व्यवहारद्रष्टा 'जज' इति भाषा । पापेनेत्यादि-पापेन निन्दया च भर्तारं स्वामिनं योजयन्ति आत्मनः स्वान् अर्थैर्धनैर्योजयन्ति । तृतीये तृतीयभागे । अन्धसामन्नानां परिणामः परिपाकः । विषभयमिति । नृपस्य विनाशाय शत्रवोऽन्नेन सह विषप्रदानं कुर्वन्तीति प्रसिद्धम् । हिरण्यप्रतिग्रहाय प्रजाभ्यो धनग्रहणाय । मन्त्रचिन्तया अमात्यैः सह मन्त्रणायाम् । आयासं क्लेशम् । मध्यस्था उदासीनाः। सम्भूय मिलित्वा । दोषगुणावित्यदि द्वितीयान्तपदानि विपरिविंतयन्त इत्यस्य पड़ता है; चाहे वह मुँह धोये वा न धोये । एक-दो मुट्ठी अन्न खाकर उसे वह कार्य करना ही पड़ता है। वे मूर्ख राजगण आय-व्ययका निरीक्षण चाहे जितना भी करें, किन्तु उनके कपटी अधिकारी दुगुनी-तिगुनी रकम हड़प कर ही जाते हैं। चाणक्य ऋषिने दूसरोंका धन अपहरण करनेकी चार युक्तियां बतायी हैं+ किन्तु वे धूर्त अपनी युक्तियोंसे उन्हें सहस्रों प्रकारकी कर देते हैं। ( १० ) पारस्परिक मनमुटावसे जनताके स्पर्धायुक्त गाली-गलौजवाले, वाक्य राजाओं को अलग सुनने पड़ते हैं। यहाँ तक कि उन कटु वचनोंको श्रवण करते करते सीधे-सादे राजाओं के कान भर जाते हैं। इस प्रकार वे राजा बड़े कष्टके साथ अपना जीवन व्यतीत करते हैं। दूसरी बात वे धूर्तगण अपने मनसे अनेक प्रकारके मनगढ़न्त झगड़ोंको खड़े करके जय-विजय अथवा हानि-लाभकी बात गढ़कर अनेक प्रकारके पाप एवं दुष्कीर्तिकर कार्यको करते हुए अपने मूर्ख स्वामीको बदनाम कर अपना स्वार्थ साधते हैं- Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४२१
चतुर्थे हिरण्यप्रतिग्रहाय हस्तं प्रसारयन्नेवोत्तिष्ठति । पञ्चमे मन्त्रचिन्तया महान्तमायागमनुभवति । तत्रापि मन्त्रिणो मध्यस्था इवान्योन्यं संभूय, दोषगुणौ दूतचारवाक्यानि शक्याशक्यतं देशकालकार्यावस्थाश्च स्वेच्छ- या विपरिवर्तयन्तः, स्वपरमित्रमण्डलान्युपजीवन्ति । बाह्याभ्यन्तरांश्च को- पान् गूढमुत्पाद्य प्रकाशं प्रशमयन्त इव स्वामिनमवशमवगृह्णन्ति । (११) षष्ठे स्वैरविहारो मन्त्रो वा सेव्यः । सोऽस्यैतावान्स्वैरविहार- कर्माणि । विपरिवर्तयन्तः विपर्यासयन्तः । दोषं गुणरूपेण गुणं च दोषरूपेणेत्यर्थः । दूतचारवाक्यादीन्यपि तथैव । स्वपरेति स्वस्य परस्य मित्राणाञ्च मण्डलानि उप- जीवन्ति आश्रयन्ते । तेभ्योऽपि धनं गृह्णन्ति । बाह्यान् प्रजाः, आभ्यन्तरान् अमा- त्यादींश्च । प्रशमयन्तः शान्तिं प्रापयन्तः । अवगृह्णन्ति अनाद्रियन्ते । (११) स्वैरविहारः स्वच्छन्दविहरणम् । त्रिपादोत्तराः त्रिपादाधिकाः । नाडिकाः घटिकाः । चतुरङ्गबलस्य हस्त्यश्वरथपदातिलक्षणस्य, प्रत्यवेक्षणं परीक्षणं तस्य प्रयासः क्लेशः । सेनापतिसखस्य सैन्याध्यक्षेण सहेत्यर्थः । शस्त्राग्नीति- शस्त्रेण अग्निना रसेन विषेण च हन्तारः, प्रणिधयो गुप्तदूताः । अनुष्ठेयाः कर्त्तव्या खूब धन पैदा करते हैं। नित्य ही राजकाजमें संलग्न रहनेसे राजाओंको नहाने-खाने तकका समय नहीं मिलता है। तीसरी बात-यदि भोजन ठीकसे मिला भी तो उसके ठीकसे न पचनेतक यह चिन्ता बनी रहती है कि कहीं किसीने विष तो नहीं मिला दिया। इसी प्रकार चौथी बात-नित्य ही धनप्राप्तिकी अभिलाषा लिये हुए सोकर उठना पड़ता है। पाचवीं बात-विचार विमर्शकी रात-दिन चिन्ताएँ लगी रहती हैं और उनसे बड़ा क्लेश होता है। इसपर भी सचिवगण मध्यस्थ बनकर राजदूतों और गुप्तचरोंकी बातोंके अनेक दोष-गुण, सबलता-निर्बलता तथा देश-कालकी स्थितिमें मनमाने परिवर्तन करके अपना और अपने साथियोंका कार्य साधा ही करते हैं। वाह्य एवं आन्तरिक चर्चायें वे लोग राजाओंका सुनाते हैं तथा कभी कभी क्रोधसे परिपूर्ण भी राजाओंको कर देते हैं। यद्यपि ऊपर-ऊपर से वे लोग राजाओंके क्रोधकी शान्ति चाहते हैं परन्तु, वास्तविकमें वे लोग राजाओंको क्रोधाभिभूत तथा मतिहीन करके सदा अपने वशमें किये रहना चाहते हैं और किये रहते भी हैं। (११) छठी बात-मनुष्य या तो स्वेच्छापूर्वक विहार कर सकता है या सम्मति आदि परामर्श का बोझ उठा सकता है। दोनों बातें एक ही व्यक्ति नहीं कर सकता। परन्तु उन धूर्त मन्त्रिगणोंकी यह नीति रहती है कि राजाओंको दो-तीन घड़ीसे अधिक स्वेच्छाविहार करनेका समय ही नहीं प्राप्त होता है-इतने झमेलेमें वे फँसाये रहते हैं।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
४२२ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ४२२ दशकुमारचरितम् । [ उत्तरपीठिकायां कालो यस्य तिस्रस्त्रिपादोत्तरा नाडिकाः । सप्तमे चतुरङ्गबलप्रत्यवेक्षण- प्रयासः । अष्टमेऽस्य सेनापतिसखस्य विक्रमचिन्ताक्लेशः । पुनरुपास्यैव संध्याम्, प्रथमे रात्रिभागे गूढपुरुषा द्रष्टव्याः । तन्मुखेन चातिनृशंसाः शस्त्राग्निरसप्रणिधयोऽनुष्ठेयाः । द्वितीये भोजनानन्तरं श्रोत्रिय इव स्वा- ध्यायमारभेत । तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत किल । कथ- मिवास्याजस्रचिन्तायासविह्वलमनसो वराकस्य निद्रासुखमुपनमेत । पुनः षष्ठे शास्त्रचिन्ताकार्यचिन्तारम्भः । सप्तमे तु मन्त्रग्रहो दूताभिप्रेषणानि च, दूताश्च नामोभयत्र प्रियाख्यानलब्धान् अनर्थान् वीतशुल्कबाधवर्त्मनि वणिज्यया वर्धयन्तः, कार्यमविद्यमानमपि लेशेनोत्पाद्यानवरतं भ्रमन्ति । प्रयोज्या इति भावः । तूर्यघोषेण नृपस्य शयनसमयसूचकेन वाद्यध्वनिना । संविष्टः शयितः । उपनमेत समीपमागच्छेत् । उभयत्र येन प्रेषितो यदन्तिकं प्रेषितश्च । वीतशुल्केति—वीता राजकीयपुरुषोऽयमिति कृत्वा अपगता शुल्कस्य भाषायां 'मासूल' इति ख्यातस्य बाधा यत्र तादृशे वर्त्मनि मार्गे । लेशेन कपटेन । सातवीं बात—राजाओको निरन्तर अपनी चतुरंगिणी सेनाका निरीक्षण करते रहनेका प्रयास करना पड़ता है। आठवीं बात—राजाओंको यह परमावश्यक होता है कि वे प्रधान सेनापतिको अपना मित्र बनाये रहें तथा अपनी शक्ति बढ़ानेकी सदा चेष्टायें करते रहें । सायंकालमें सन्ध्या-पूजनसे निवृत्ति प्राप्त करके रातके पहले पहरमें ही गुप्तचरोंसे वार्तालाप करनी चाहिए । तथा उनके कार्यों को देखना चाहिए । उनके द्वारा क्रूर, दुराचारियों के शस्त्रप्रहार, अग्निदाहकों या विषदाताओं एवं पापियों की गूढ़ चेष्टाओं का प्रतिकार कराना चाहिये । ज्योंही भोजनसे निवृत्ति पावें त्योंही वेदपाठियोंके समान पुस्तकें लेकर शास्त्रोंका मनन करें । संगीत एवं तुरही आदि वाद्योंके कोलाहलोंके कारण राजाओंको केवल चार-पाँच घड़ी सोनेके लिए प्राप्त होता है। इस कथित प्रकारसे जिनके चित्त नित्य क्लेश एवं चिन्ताओंसे पूर्ण रहेंगे, भला वे कैसे सुखकी नींद सो सकते हैं ! ज्योंही वे सोकर उठते हैं त्योंही उन्हें शास्त्रों और राजकार्योंकी चिन्तायें सताने लगती हैं । सचिवोंके साथ विचारविनिमय करके दूतोंको भेजनेके झमेले उनके समक्ष आकर उपस्थित होते हैं । वे दूत भी राजा-प्रजा दोनोंमें मीठी-मीठी बातें करके कहींसे धन लेते हैं तो कहीं चुङ्गीका महसूल माफ करा देते हैं और कहीं किसी वस्तुका व्यापार स्वयं ही करके अपना स्वार्थ साधते हैं । वास्तव में जिनकी कोई आवश्यकता भी नहीं होती उन छोटी-छोटी बातोंको वे लोग बढ़ा-चढ़ाकर अपने कार्यसाधनकी नित्य-नयी, व्यवस्था किया करते हैं तथा अपना कार्य निकाल लेते हैं । Nepal Sanskrit University, Balmeeki Campus, Kathmandu
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF अष्टमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ४२३ (१२) अष्टमे पुरोहितादयोऽभ्येत्यैनमाहुः- 'अद्य दृष्टो दुःस्वप्नः। दुःस्था ग्रहाः शकुनानि चाशुभानि। शान्तयः क्रियन्ताम्। सर्वमस्तु सौवर्णमेव होमसाधनम्। एवं सति कर्म गुणवद्भवति। ब्रह्मकल्पा इमे ब्राह्मणाः। कृतमेभिः स्वस्त्ययनं कल्याणतरं भवति। ते चामी कष्टदा- रिद्र्या बह्वपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्राप्तप्रतिग्रहाः। दत्तं चैभ्यः स्वर्गमायुष्यमरिष्टनाशनं च भवति' इति बहु बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति। तदेवमहर्निशमविहितसुखलेशमायासबहुलमवि- रलकदर्धनं च नयतोऽनयज्ञस्यास्तां चक्रवर्तिता स्वमण्डलमात्रमपि (१२) दुःस्थाः निकृष्टस्थानस्थिताः, अनिष्टकारका इति भावः। होमसाधनं हवनसामग्री। एवं सति—सौवर्णे होमसाधने सतीत्यर्थः। कर्म यज्ञादि। गुण- वत् सार्थकम्। स्वस्त्ययनं शान्त्यादिकम्। कष्टं दारिद्र्यम्। बहूनि अपत्यानि येषां ते तथा। अप्राप्तः अद्यापि न लब्धः प्रतिग्रहो दानादिकं यैस्ते। उपांशु गूढमिति भावः। अविरला घना कदर्शना निन्दा यत्र तद् यथा तथा। नयतः जीवनं यापयतः। आस्तां तिष्ठतु। शास्त्रज्ञेति-नीतिशास्त्रज्ञोऽयमिति या समझ्ज्ञा कीर्त्तिस्तस्या इति पञ्चम्यास्तसिल्। अभिसन्धातुं जनान् वञ्चयितुम्। अविश्वासो जनानामुत्पद्यते इति शेषः। यावता यत्परिमाणेन। अर्थः प्रयोजनम्। जनन्य। (१२) इसके अतिरिक्त राजपुरोहित-गण आकर कहते हैं—'आज मैंने बड़ा खराब स्वप्न देखा है तथा इस समय आपका अमुक ग्रह, अमुक स्थानमें खराब पड़ा है। शकुन भी अच्छे नहीं दीखते हैं अतः यज्ञादि द्वारा इन अरिष्टोंका शमन होना चाहिये।' फिर वे यज्ञ-सामग्रियां बताते हैं तथा कहते हैं कि 'इस यज्ञके सभी पात्र सुवर्णके होने चाहिये क्योंकि इससे यज्ञफल सद्यः सिद्ध होता है। ब्राह्मण परमात्मा के स्वरूप हैं। यदि ये लोग आपका मंगल चाहेंगे तो आपका शीघ्र ही होगा। ये विप्रगण अति दरिद्रताका अनुभव कर रहे हैं और इनके अनेक बालबच्चे हैं। ये लोग नित्य यज्ञानुष्ठान करते हैं। अतः इनका तेज असाधारण है। ये किसीके यहां प्रतिग्रह भी नहीं लेते हैं। जो लोग इनकी पूजा करते हैं उन्हें स्वर्गमें भी सुख प्राप्त होता है तथा आयु भी बढ़ती है और सभी अनिष्ट दूर हो जाते हैं।' इस रीतिसे प्रशंसा करके वे लोग उन ब्राह्मणोंको प्रचुर धन दिला देते हैं और बादमें उनसे छीनकर स्वयं उसे डकार जाते हैं। इस प्रकार रात-दिन सुखसे दूर रहकर घोर परिश्रम करके संसारकी भी भलाई-बुराई ढोनेवाले नीति ज्ञानसे रहित होकर पुरुष भला सार्वभौम; तो क्या होगा अपने राज्यकी रक्षा करना भी उसे दुर्गम होगा। उनके मन्त्री आदि धूर्त सेवकगण जो शास्त्रानुसार बात बताते हैं वे दिखानेके लिए Nepal Sanskrit University, Balmeeki Campus, Kathmandu