BharatKosha
Back to the archive

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

by महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा)

Source: Paraskara Grihyasutram with Margadarshini Hindi Commentary (origin)

DevanagariHindipublished263 pages
Page 145Permalink

( १२३ )

वा—पक्षान्तरे, अर्द्धसप्तमासान्—अर्द्धः सप्तमः येषां मासानां तान् अर्द्धसप्तमासान्, अधीत्य उत्सृजेयुः । अत्र छन्दसामुत्सर्गोपदेशात् अङ्गाध्ययनमनुज्ञायते ।

अथेमासृचं जपन्ति—

उभा कवी युवा यो नो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि सृजामह इति । १२

अथ—उत्सर्गानन्तरम्, आचार्यसहिताः शिष्याः इमाम् उभाकवी इत्यादिकाम ऋचं जपन्ति ।

मन्त्रार्थः—हे अश्विनौ ! युवाम् उभा—उभौ, कवी—क्रान्तदर्शिनौ, युवा—युवानौ, धर्मिणः—परस्परमनुकूलस्य परिसख्यस्य—मित्रभावस्य यः धर्मः सः नः—अस्मान्, परापतत्—प्राप्तः । तेन धर्मेण विसख्यानि—विद्वेषादीनि विषमाध्ययनादीनि वा सृजामहे—विसृजामहे—त्यजाम इत्यर्थः "सृज विसर्गे" । सख्यानि सृजामहे इति भावः । विसख्यानि विसृजामहे इति गुजरातिमुद्रणालयपाठः ।

त्रिरात्रं सहोष्य विप्रतिष्ठेरन् । १३

त्रिरात्रम्—अहोरात्रत्रयं, सह—एकत्र आचार्यसहिता शिष्याः उष्य—उषित्वा निवासं कृत्वा, विप्रतिष्ठेरन्—विविधस्थानं प्रति गच्छेयुः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे एकादशी कण्डिका ॥


( उत्सर्गः )

पौषस्य रोहिण्यां मध्यमायां वाष्टकायामध्यायानूत्सृजेरन् । १

पौषस्य—पुष्यनक्षत्रेण युक्ता पौर्णमासी यस्य मासस्य स पौषो मासः । तस्य मासस्य रोहिण्यां—रोहिणीनक्षत्रे, वा—पक्षान्तरे,

Page 146Permalink

( १२४ )

मध्यमायामष्टकायां—पौषपूर्णिमापरवर्त्तिन्यामष्टम्यामित्यर्थः । अध्यायान्— वेदान् पूर्वमुपाकृतान्, उत्सृजेरन्— पुनरुपाकरणं यावत् नाधीयीरन्।

उदकान्तं गत्वाद्भिर्देवाँ ᳪ श्छन्दाँ ᳪ सि वेदानृषीन् पुराणाचार्यान् गन्धर्वानितराचार्यान्त्संवत्सरं च सावयवं पितॄ नाचार्यान्त्स्वाँ ᳪ श्च तर्पयेयुः । २

उत्सर्गविधिमाह—उदकान्तं—नद्यादिजलसमीपं गत्वा, यथाविधि स्नात्वा, अद्भिः "देवास्तृप्यन्ताम्, छन्दांसि तृप्यन्ताम्, वेदास्तृप्यन्ताम्, ऋषयस्तृप्यन्ताम्, पुराणाचार्यास्तृप्यन्ताम्, गन्धर्वाचार्यास्तृप्यन्ताम्, इतराचार्यास्तृप्यन्ताम्, संवत्सरः सावयवस्तृप्यन्ताम् इति तर्पणं कृत्वा ततः अपसव्यदक्षिणामुखः स्वान् पितॄन्—स्वपितृपितामहप्रपितामहान् आचार्यांश्च नामगोत्रोच्चारणपूर्वकं तर्पयेयुः।

सावित्रीं चतुरनुद्रुत्य विरता स्म इति प्रब्रूयुः । ३

ततः सावित्रीं— तत्सवितुरित्यादिकामृचं, चतुः— चतुःकृत्वः अनुद्रुत्य—पठित्वा, विरताः स्म इति आचार्यप्रमुखाः शिष्याः प्रब्रूयुः— वदेयुः ।

क्षपणं च प्रवचनं च पूर्ववत् । ४

क्षपणम्—अनध्ययनं, चकारात् लोमनखानामनिकृन्तनं, प्रवचनम्— अध्यायादीनां पठनं, पूर्ववत्—उपाकरणवत् कुर्युः—विदध्युः ।

ततस्त्रिरात्रानन्तरं शुक्लपक्षेषु छन्दांसि कृष्णपक्षेषु अङ्गानि पठेयुः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे द्वादशी कण्डिका ॥

Page 147Permalink

( १२५ )

( लाङ्गलयोजनम् )

पुण्याहे लाङ्गलयोजनम् । १

कृषिप्रवृत्तस्य एतत् कर्म उच्यते। पुण्याहे—चन्द्रतारानुकूले दिवसे, नात्र उत्तरायणशुक्लपक्षाद्यपेक्षा। लाङ्गलयोजनं—लाङ्गलस्य—हलस्य योजनं—प्रवर्त्तनं कुर्यात्।

ज्येष्ठया वेन्द्रदैवत्यम् । २

वा—पक्षान्तरे। ज्येष्ठया—ज्येष्ठानक्षत्रेण युक्ते दिवसे, इन्द्रदैवत्यम्—इन्द्रदेवताकं कर्म, कृषिकर्म कुर्यात्। ज्येष्ठानक्षत्रस्य हि देवता इन्द्रः। इन्द्राधीनं च कृषिकर्म; ततः ज्येष्ठानक्षत्रे लाङ्गलयोजनं प्रशस्तमिति भावः।

इन्द्रं पर्जन्यमश्विनौ मरुत उदलाकाशयपर्कं स्वातिकारीँ सीतामनुमतिं च दध्ना तण्डुलैर्गन्धैरक्षतैरिष्ट्वाऽनडुहो मधुघृते प्राशयेत् । ३

तत्र मातृपूजाभ्युदयिकादि कृत्वा इन्द्रादीननुमत्यन्तान् देवताविशेषान् दध्ना, तण्डुलैः गन्धैः अक्षतैः—यवैः "अक्षतास्तु यवाः प्रोक्ता" इति छन्दोगपरिशिष्टे। इष्ट्वा—नमोन्तैः नाममन्त्रैः यथा इन्द्राय नमः इत्यादिरूपैः बलिहरणेन संपूज्य, अनडुहः—वलीवद्दान् मधुघृते—मधु च घृतं च मधुघृते मिलिते, प्राशयेत्—लेहयेत्।

सीरा युञ्जन्तीति योजयेत् । ४

"सीरा युञ्जन्ति" इति मन्त्रेण दक्षिणोत्तरक्रमेण वलीवद्दौ हले योजयेत्। सम्पूर्णो मन्त्रो यथा—

"सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक्।
धीरा देवेषु सुम्नया। यजुः १२-६७

शुनं सुफाला इति कृषेत् फालं वाऽऽलभेत । ५

शुनं सुफाला इति मन्त्रेण फालं—हलमुखम्, आलभेत—स्पृशेत्। वा—अथवा, अनेन मन्त्रेण कृषंत्—भूमिकर्षणं कुर्यात्।

Page 148Permalink

( ४२६ )

सम्पूर्णो मन्त्रः—शुनं सुफाला विर्कृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैः। शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्त्तनास्मे। शु. य. १२-६६

नवाग्न्युपदेशात् । ६

वपनानुषङ्गाच्च । ७

वलीवर्दयोजने कर्षणे च मन्त्रप्रयोगो नास्तीति पक्षान्तरमाह— वा—पक्षान्तरे। योजने कर्षणे च न—न मन्त्रयोगः, अग्न्युपदेशात्—अग्निचयने तयोरुपदेशात् । न च अग्निप्रकरणे पठितयोरत्र उपदेशः अतिदेशो वा अस्ति । यदि तौ मन्त्रौ अत्र भवतः तर्हि अग्निप्रकरणे बीजवपने 'या ओषधीरित्यादयः ये मन्त्राः विनियुक्ताः तेषामपि अनुसङ्ग-सम्बन्धः आपतेत् । अतएव वलीवर्दयोजने कर्षणे च मन्त्रो नास्ति। इति पक्षान्तरम् ।

अग्र्यमभिषिच्याकृष्टं तदाऽऽकृषेयुः । ८

अग्र्यं—श्रेष्ठं वलीवर्दम्, अभिषिच्य—गन्धमाल्यादिभिः भूषयित्वा अकृष्टम्—अविलिखितं क्षेत्रं तदा आकृषेयुः—विलिखेयुः ।

स्थालीपाकस्य पूर्ववद्देवता यजेदुभयोर्व्रीहियवयोः प्रवपन् सीतायज्ञे च । ९

साग्निकस्य कृषिकर्मणि विशेषमाह—मातृपूजाभ्युदयिकश्राद्धानन्तरम् आवसथ्याग्नौ ब्रह्मोपवेशनादिप्राशनान्ते लाङ्गलयोजनोक्त तण्डुलस्थाने पूर्वसिद्धस्य स्थालीपाकस्य—चरोः, पूर्ववत्—लाङ्गलयोजनोक्तवत् देवताः—लाङ्गलयोजनदेवताः इन्द्रादीन्, यजेत्, किं कुर्वन् ? प्रवपन्—वपनं कुर्वन् । कयोः ? व्रीहियवयोः, तथा सीतायज्ञे च । व्रीहियवयोः वपनकाले सीतायज्ञे च लाङ्गलयोजनदेवताः अर्च्चा इत्यर्थः।

ततो ब्राह्मणभोजनम् । १०

व्याख्यातमेतत् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे त्रयोदशी कण्डिका ॥

—४०४—

Page 149Permalink

( १२७ )

( श्रवणाकर्म )

अथातः श्रवणाकर्म । १

अथातः—व्रीहिवापादिकालान्तरं प्राप्तं श्रवणकर्माख्यं कर्म उच्यते।

श्रावण्यां पौर्णमास्यां । २

तत्र श्रवणाकर्म श्रावण्यां पौर्णमास्यां—श्रावणमासस्य पूर्णिमायां भवति।

स्थालीपाकं श्रपयित्वाऽक्षतधानाश्चैककपालं पुरोडाशम् । ३

स्थालीपाकं—चरुम्, अक्षतानां—सतुषाणां यवानां धानाः ताश्च, एककपालं—एकस्मिन् कपाले श्रप्यत इति एककपालं, पुरोडाशं श्रपयित्वा—पक्त्वा।

धानानां भूयसीः पिष्ट्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति "अपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च वारुणैरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहा । न वै श्वेतस्याध्याचारेऽहिर्ददर्श कंचन । श्वेताय वैदर्ध्याय नमः स्वाहेति । ४

धानानां—भर्जितानां यवानां, भूयसीः—बह्वीः, पिष्ट्वा—सक्तुत्वं सम्पाद्य आज्यभागौ—आग्नेयसौम्ययागौ कृत्वा ततः "अपश्वेतपदा, न वै श्वेतस्येति मन्त्रद्वयेन आहुतिद्वयं जुहोति।

मन्त्रार्थः (द्वयोः प्रजापतिः अनुष्टुप् गायत्र्यौ सर्प, आज्यहोमे)—

हे श्वेतपद ! राजबान्धवैः—वासुकिवंशीयैर्नागैः त्वम् इमाः—सर्वाः मदीयाः सप्त—सपिण्डादिप्रकारेण सप्तपुरुषवर्त्तिनः प्रजाः, पूर्वेण—पूर्वभागेन, अपरेण—पश्चाद्भागेन च अपजहि—परित्यज अर्थात् मम वंशे सर्पभीतिर्नास्तु।

श्वेतस्य—नागस्य, अध्याचारे—आधिपत्ये, अहिः—सर्पः कंचन—लोकं प्राणिजातीयं न ददर्श—न पश्यति। वै—निश्चये। तस्मात् वैदर्ध्याय—विदर्भापत्याय, श्वेताय—शुद्धाय नागाय नमः।

Page 150Permalink

( १२८ )

स्थालीपाकस्य जुहोति-विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यश्चेति । ५

ततः स्थालीपाकस्य—चरोः, चतस्रः आहुतीः जुहोति—विष्णवे स्वाहा, श्रवणाय स्वाहा, श्रावण्यै पौर्णमास्यै स्वाहा, वर्षाभ्यः स्वाहा, चेति मन्त्रैः ।

धानावन्तमिति धानानाम् । ६

धानावन्तं करम्भिणमिति ऋचा धानानामेकामाहुतिं जुहोति । सम्पूर्णो मन्त्रः—धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः ।। शु. य. २०-२६

घृताक्तान् सक्तून् सर्पेभ्यो जुहोति— आग्नेयपाण्डुपार्थिवाना७ सर्पाणामधिपतये स्वाहा, श्वेतवायवान्तरिक्षाणा७ सर्पाणामधिपतये स्वाहा, अभिभूः सौर्यदिव्याना७ सर्पाणामधिपतये स्वाहा । ७

घृताक्तान्—घृतेन अक्तान्—अभिघारितान् सक्तून् सर्पेभ्यः आग्नेयपाण्डुपार्थिवानामित्यादिभिस्त्रिभिर्मन्त्रैः आहुतित्रयं जुहोति ।

मन्त्रार्थः (त्रयाणां परमेष्ठी यजुः, सर्पाधिपतयः सक्तुहोमे)— आग्नेयाः—अग्निदैवत्याः, पाण्डुपार्थिवाः,—पाण्डुजातीयाः पृथिवीविहारिणश्च, एवम्भूता ये सर्पास्तेषाम्, अधिपतये—वासुकये, स्वाहा—सुहुतमस्तु । श्वेतवायवान्तरिक्षाणां—श्वेता—श्वेतजातीयाः, वायवाः—वायुदैवत्याः, आन्तरिक्षाः—अन्तरिक्षविहारिणः ये सर्पास्तेषाम्, अधिपतये स्वाहा । अभिभूःसौर्यदिव्यानाम्—अभिभवन्ति सर्वानिति अभिभुवः, सौर्याः—सूर्यदैवत्याः दिव्याः—दिविविहाराः ये सर्पास्तेषामधिपतये स्वाहा । अभिभूरित्यत्रविसर्गश्छान्दसः ।

सर्वहुतमकेकपालं ध्रुवाय भौमाय स्वाहेति । ८

सक्तुहोमानन्तरम् एककपालम्—एकस्मिन् कपाले पक्वं पुरोडाशं सर्वहुतं—सम्पूर्णं हुतं यथास्यात्तथा "ध्रुवाय भौमाय स्वाहेति मन्त्रेण

Page 151Permalink

( १२६ )

जुहोति । ततः स्थालीपाक धानासक्तुभ्यः स्विष्टकृद्धोमः । ततो भूरादिहोमश्च ।

प्राशनान्ते सक्तूनामेकदेशं शूर्पे न्युप्योपनिष्क्रम्य बहिःशालायाः स्थण्डिलमुपलिप्योल्कायां ध्रियमाणायां मान्तरा गमतेत्युक्त्वा वाग्यतः सर्पानवनेजयति, आग्नेयपाण्डुपार्थिवानाꣳ सर्पाणामधिपतेऽवनेनिक्ष्व । श्वेतत्रायवान्तरिक्षाणाꣳ सर्पाणामधिपतेऽवनेनिक्ष्व । अभिभूः सौर्यदिव्यानाꣳ सर्पाणामधिपतेऽवनेनिक्ष्वेति । ६

प्राशनान्ते—संस्स्रवप्राशनान्ते, सक्तूनां—पूर्वकृतधानासक्तूनाम् एकदेशं—बलित्रयपर्याप्तं भागं शूर्पं—वंशादिनिर्मिते पात्रविशेषे, न्युप्य—कृत्वा, शालायाः सकाशात्, उपनिष्क्रम्य—निर्गत्य, बहिः—प्राङ्गणे, स्थण्डिलं—भूमिम्, उपलिप्य—गोमयेन स्वयमेव उपलिप्य उल्कायां ध्रियमाणायाम्—ज्वलति काष्ठे अन्येन गृह्यमाणे "मान्तरा गमत—आवसथ्यस्य मम च अन्तरा—मध्ये, मा गमत—न गच्छत इत्युक्त्वा, वाग्यतः—मौनौ सर्पान् 'आग्नेय-श्वेत-अभिभू-रित्यादिभिः अवनेनिक्ष्व इत्येतदन्तैः मन्त्रैः प्राक्संस्थान् भूमौ उदकप्रक्षेपेण अवनेजयति—शुचीन् करोति ।

यथावनिक्तं दर्व्योपघातꣳ सक्तून् सर्पेभ्यो बलिꣳ हरति आग्नेयपाण्डुपार्थिवानाꣳ सर्पाणामधिपत एष ते बलिः । श्वेतवायवान्तरिक्षाणाꣳ सर्पाणामधिपत एष ते बलिः । अभिभूः सौर्यदिव्यानाꣳ सर्पाणामधिपत एष ते बलिरिति । १०

यथावनिक्तं—येषु देशेषु अवनेजनं कृतं तान् देशान् अनतिक्रम्य, दर्व्योपघातं—प्रादेशमात्रया द्व्यङ्गुष्ठपर्वविस्तीर्णया पालाशादियज्ञियवृक्षोद्भवया दर्व्या उपघातम्—उपहत्य उपहत्य, गृहीत्वा सक्तून् आग्नेय इत्यादिभित्रिभिर्मन्त्रैः सर्पेभ्यो बलिं हरति—ददाति ।

Page 152Permalink

( १३० )

अवनेज्य पूर्ववत् कंकतैः प्रलिखति—
आग्नेयपाण्डुपार्थिवानाँ सर्पाणामधिपते प्रलिखस्व।
श्वेतवायवान्तरिक्षाणाँ सर्पाणामधिपते प्रलिखस्व।
अभिभूःसौर्यदिव्यानाँ सर्पाणामधिपते प्रलिखस्वेति।

अवनेज्य—पुनः पूर्ववत् अवनेजनं दत्त्वा, कंकतैः—वैकङ्कतकाष्ठ-निर्मितैः प्रादेशमात्रैः त्रिभिः एकतोदन्तैः समुच्चितैः प्रतिवलि प्रलिखति-कण्डूयति "आग्नेय" इत्यादिभिर्मन्त्रैः।

अञ्जनानुलेपनं स्रजश्चाञ्जस्वानुलिम्पस्व स्रजोऽपिनह्यस्वेति।

ततः प्रतिवलि यथाक्रमम् "आग्नेयपाण्डुपार्थिवाना"मित्यादिभिः त्रिभिः अञ्जस्व इत्यन्तैः मन्त्रैः अञ्जनं—कज्जलम्, अनुलिम्पस्व इत्यन्तैस्त्रिभिर्मन्त्रैः अनुलेपनं—सुरभिचन्दनादि, स्रजो पिनह्यस्व इत्यन्तैः मन्त्रैः स्रजः—पुष्पमालाः दद्यात्।

सक्तुशेषं स्थण्डिले न्युप्योदपात्रेणोपनिनियोपतिष्ठते-नमोऽस्तु सर्पेभ्य इति त्रिभिः। १३

सक्तुशेषं—यत् शूर्पे न्युप्य आनीतं तत्, स्थाण्डले—वलिदानार्थं उपलिप्ते भूभागे न्युप्य—शूर्पेण क्षिप्त्वा, उदपात्रेण—जलपात्रेण उपनिनोय—प्रवाह्य, प्राङ्मुखः तिष्ठन् सर्पान्, उपतिष्ठते—स्तौति नमोऽस्तु सर्पेभ्य इति तिसृभिः ऋग्भिः।

सम्पूर्णा मन्त्राः—
नमोऽस्तु सर्पेभ्यो ये के च पृथिवी मनु।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः। शु. य. १३-६
या इषवो यातुधानानां ये वा वनस्पतीँ ँ रनु
ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः। १३-७
ये वामी रोचने दिवो ये वा सूर्यस्य रश्मिषु।
येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः। १३-८ इति

Page 153Permalink

( १३१ )

स यावत् कामयेत न सर्पा अभ्युपेयुरिति तावत् सन्ततयोदधारया निवेशनं त्रिः परिषिञ्चन् परीयाद् "अपश्वेतपदा जहोति द्वाभ्याम् । १४

सः—गृहपतिः, यावत्—यावन्तं देशं सर्पा नाभ्युपेयुः—न सञ्चरेयुः इति कामयते—इच्छेत्, तावत्—तावन्तं देशं, सन्ततया—अनवच्छिन्नया, उदधारया—जलधारया, निवेशनं—गृहं, परिषिञ्चन्—सेचितं कुर्वन्, त्रिः—त्रीन् वारान्, परीयात्—प्रादक्षिण्येण परिक्रम्य गच्छेत् “अप श्वेतपदा जहि” इति द्वाभ्यां पूर्वोक्ताभ्यां मन्त्राभ्याम् ।

दर्वी शूर्पं च प्रक्षाल्य प्रतप्य प्रयच्छति । १५

दर्वी—यया दर्व्या वलिदानं कृतं तां, शूर्पं च प्रक्षाल्य—क्षालयित्वा, प्रतप्य—सन्निधानात् उल्कायामेव सकृत् तापयित्वा प्रयच्छति—ददाति, उल्काधाराय ।

द्वारदेशे मार्जयन्त आपोहिष्ठेति तिसृभिः । १६

द्वारदेशे—शालाया द्वारे आपोहिष्ठेति तिसृभिः ऋग्भिः मार्जयन्ते—आत्मशिरसि जलप्रक्षेपेण मार्जनं कुर्वन्ति ब्रह्मयजमानोल्काधाराः बहुवचनोपदेशात् ।

अनुगुप्तमेतठ्ठू सक्तुशेषं निधाय ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्य दर्व्योपघातठ्ठू सक्तून् सर्पेभ्यो बलिं हरेदाग्रहायण्याः ।१७

एतं—प्रकृतं सक्तुशेषम्—अवशिष्टसक्तून्, अनुगुप्तं—सुरक्षितं यथा भवति तथा निधाय—स्थापयित्वा, ततः—श्रवणाकर्मकालात् प्रभृति, अस्तमिते, अस्तमिते—प्रत्यहं सूर्यास्तमनानन्तरम्, अग्निम्—आवसथ्याग्नि, परिचर्य—सायं होमेन आराध्य, ततः दर्व्योपघातं—पूर्वोक्तदर्व्या उपहत्य उपहत्य सक्तून् शूर्पे कृत्वा सर्पेभ्यो बलिं हरेत् पूर्वोक्तप्रकारेण आग्रहायणीं मार्गशीर्षपूर्णिमा यावत् । बलिदानं च अवनेजनदानादिकङ्कतविलेखनान्तं कर्म ।

Page 154Permalink

( १३२ )

तं हरन्तं नान्तरेण गच्छेयुः । १८

हरन्तं—बलीन् उपहरन्तं, तं—गृहपतिम् आवसथ्याग्निं च अन्तरेण—मध्ये न गच्छेयुः प्राणिनः। ततः श्वादयोऽपि निवार्याः।

दर्व्याचमनं प्रक्षाल्य निदधाति । १९

दर्व्याः—पूर्वोक्तायाः, आचमनं—मुखं, प्रक्षाल्य—क्षालयित्वा, निदधाति—स्थापयति। शूर्पं न प्रक्षालयेत् अनुक्तत्वात्।

धानाः प्राश्नन्त्यसँस्क्यूताः । २०

असंस्क्यूताः—दन्तैरलग्राः, धानाः—भर्जितान् यवान् प्राश्नन्ति—अचर्वयन्तः भक्षयन्ति, ब्रह्मयजमानोल्काधाराः।

ततो ब्राह्मणभोजनम् । २१

व्याख्यातमेतत् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे चतुर्दशी कण्डिका ॥

—४०४—

( इन्द्रयज्ञः )

प्रौष्ठपद्यामिन्द्रयज्ञः । १

प्रौष्ठपद्यां—प्रौष्ठपदी—भाद्रपदपौर्णमासी तस्याम्, इन्द्रयज्ञः—इन्द्रयज्ञाख्यं कर्म भवति औपासनाग्नौ।

पायसमैन्द्रँ श्रपयित्वाऽपूपारँश्च । २

तस्यां—प्रौष्ठपद्याम्, ऐन्द्रं—इन्द्रदैवत्यं पायसं—पयसा सिद्धं चरुं, श्रपयित्वा—पक्त्वा, अपूपांश्च चतुरः श्रपयित्वा।

अपूपैस्तीर्त्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोती- न्द्रायेन्द्राण्या अजायैकपदेऽहिर्बुध्न्याय प्रौष्ठपदाभ्यश्चेति । ३

अपूपैः प्रतिदिशम्, अग्निं स्तीर्त्वा—परिस्तीर्य, आज्यभागौ—आधारपूर्वकौ आग्नेयसौम्ययागौ कृत्वा इन्द्राय स्वाहा, इन्द्राण्यै स्वाहा

Page 155Permalink

( १३३ )

अजायैकपदे स्वाहा, अहिर्बुध्न्याय स्वाहा, प्रौष्ठपदाभ्यः स्वाहा, इत्येतैः पञ्चभिर्मन्त्रैः प्रतिमन्त्रं पञ्च आज्याहुतीर्जुहोति । आज्याहुत्यन्ते इन्द्राय स्वाहेति पायसेन एकाहुतिहोमः । ततः पायसेन स्विष्टकृदादिहोमः ।

प्राशनान्ते मरुद्भ्यो बलिं हरत्यहुतादो मरुत इति श्रुतेः । ४

ततः प्राशनान्ते—स्विष्टकृदादिसंस्रवप्राशनानन्तरं मरुद्भ्यः—वक्ष्यमाणेभ्यः एकोनपञ्चाशत्संख्यकेभ्यः बलिं हरति—बलिं ददाति । बलिदाने कारणमुपन्यस्यति—मरुतः—देवताविशेषाः, अहुतादः—न हुतम् अहुतं, तत् अहुतम् अदन्तीति अहुतादः अर्थात् मरुतां होमो नास्त्येव किन्तु बलिरेव । इति श्रुतेः—अहुतादो मरुत इति श्रुतिवचनात् ।

आश्वत्थेषु पलाशेषु मरुतोऽश्वत्थे तस्थुरितिवचनात् । ५

मरुद्भ्यः कुत्र बलिं दद्यादित्याह—आश्वत्थेषु पलाशेषु—अश्वत्थवृक्षपत्रेषु । कस्मात् ? मरुतः—अश्वत्थे—वृक्षराजे, तस्थुः—स्थितवन्तः इति वचनात् ।

शुक्रज्योतिरिति प्रतिमन्त्रम् । ६
विमुखेन च मनसा । ७
नामान्येषामेतानीति श्रुतेः । ८

शुक्रज्योतिरित्यादिभिः षड्भिः मन्त्रैः प्रतिमन्त्रं, तथा विमुखेन—मुखोच्चारणभिन्नेन मनसा—मनसा उच्चारितेन “उग्रश्च भीमश्चे”त्यादिना सप्तमेन मन्त्रेण च बलिं ददाति—दद्यात् । एतानि—शुक्रज्योतिरित्येवमादीनि एषां— मरुतां, नामानि— अभिधेयानि इति श्रुतेः—वेदवचनात् ।

ते च नाममन्त्रा यथा— शु० यजुः १७-८० तः—

“शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च
शुक्रश्च ऋतपाश्चात्यं२हाः । १७-८०
ईदृङ् चान्यादृङ् च सदृङ् च प्रतिसदृङ् ।
मितश्च सम्मितश्च सभराः । १७-८१

Page 156Permalink

( १३४ )

ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्त्ता च विधर्त्ता च विधारयः । १७ ८२ ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च । अन्तिमित्रश्च दूरे अमित्रश्च गणः । १७-८३ ईदृक्षास एतादृक्षास ऊषुणः सहक्षास प्रतिसहक्षास एतन । मितासश्च सम्मितासो नो अद्य सभरसो मरुतो यज्ञे अस्मिन् । १७-८४ स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च : क्रीड़ी च शाकी चोज्जेषी । १७-८५ उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च । सासह्वाँश्चाभियुग्वा च विक्षिपः स्वाहा ।

इन्द्रं दैवीरिति जपति । ९

वलिहरणान्ते इन्द्रं दैवीरिति ऋचं जपति ।

मन्त्रोयथा—शु. यजुः १७-८६

इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन् यथेन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन् । एवमिमं यजमानं दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु !

ततो ब्राह्मणभोजनम् । १०

व्याख्यातमेतत् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे पञ्चदशी कण्डिका ॥


आश्वयुज्यां पृषातकाः । १

आश्वयुज्याम्—आश्विनपौर्णमास्यां, पृषातकाः—पृषातका इति कर्म भवति ।

पायसमैन्द्रं श्रपयित्वा दधिमधुघृतमिश्रं जुहोतीन्द्रायेन्द्राण्यै अश्विभ्यामाश्वयुज्यै पौर्णमास्यै शरदे चेति । २

Page 157Permalink

( १३५ )

तत्र— ऐन्द्रम्—इन्द्रदेवत्यं, पायसं—पयसा सिद्धं चरुं दधिमधु-घृतसिश्रं—दधिमधुघृतैः मिश्रितं कृत्वा "इन्द्राय स्वाहा, इन्द्राण्यै स्वाहा, अश्विभ्यां स्वाहा, आश्वयुज्यै पौर्णमास्यै स्वाहा, शरदे स्वाहा, इति पञ्चभिः मन्त्रैः प्रतिमन्त्रं पञ्चाहुतीः जुहोति ।

प्राशनान्ते दधिपृषातकमञ्जलिना जुहोति
“ऊनं मे पूर्यतां पूर्णं मे माविगात् स्वाहेति । ३

ततः प्राशनान्ते—स्विष्टकृत्प्रभृतिसंस्रवप्राशनान्ते दधिपृषातकं—दधिमिश्रितमाज्यम् अञ्जलिना जुहोति "ऊनं मे पूर्यता"मित्यादिना मन्त्रेण । दुग्धमिश्रितमाज्यं यद्यपि पृषदाज्यं भवति तथापि अत्र वचनात् दधिपृषातकग्रहणम् ।

मन्त्रार्थः—हे इन्द्र ! मे—मम यत् ऊनं, तदनेन होमेन, पूर्यतां—पूर्णं क्रियताम् । यच्च पूर्णं तच्च, माविगात्—अपूर्णतां न गच्छतु ।

दधिमधुघृतमिश्रममात्या अवेक्षन्त आयात्विन्द्र इत्यनुवाकेन । ४

होमानन्तरम् अमात्याः—गृहजनाः, अमा—गृहं तत्र भवाः यजमानगृहजनाः भ्रातृपुत्रादय इत्यर्थः । ते दधिमधुघृतमिश्रं हुतशेषं पायसम् 'आयात्विन्द्रोऽत्रस' इत्यनुवाकेन अवेक्षन्ते पश्यन्ति । अनुवाको यथा—

आयात्विन्द्रो वस उपन इह स्तुतः सधमादस्तु शूरः ।
वावृक्षानस्तविर्षीयस्य पूर्वी र्द्यौर्न क्षत्रमभिभूति पुष्यात् । इति
(शु. य. २०-४७) आरभ्य 'यूयं पात स्वस्तिभिः सदा नः
(शु. य. २०-५४) इत्यन्तः ।

मातृभिर्वत्सान्त्संसृज्य ताꣳ रात्रिमाग्रहायणीं च । ५

ताम्—आश्विनपूर्णिमारात्रिम्, आग्रहायणीं—मार्गशीर्षपूर्णिमारात्रिं च अत्र अत्यन्तसंयोगे द्वितीया, मातृभिः जननीभिर्धेनुभिः सह वत्सान् संसृज्य—संसृष्टान् कृत्वा, स्थापयेत् तेन सन्ध्यायां वत्सान् मातृभिः सह

Page 158Permalink

( १३६ )

संयोज्य सम्पूर्णां रात्रिं न वध्नीयात् । ततो ब्राह्मणभोजनम् । ६

व्याख्यातमेतत् ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे षोडशी कण्डिका ॥

—४०४—

( सीतायज्ञः )
अथ सीतायज्ञः । १

अथ—इदानीं, सीतायज्ञः—सीतायज्ञकर्म व्याख्यास्यते । तत्र कृषिप्रवृत्तः साग्निः अधिकारी ।
व्रीहियवानां यत्र यत्र यजेत तन्मयं स्थालीपाकं श्रपयेत् । २
व्रीहियवानां—व्रीहयश्च यवाश्च व्रीहियवाः तन्मध्ये, यत्र यत्र—व्रीहिकाले यवकाले वा, यजेत—सीतायज्ञेन यजेत, तत्र, तन्मयं—व्रीहिकाले व्रीहिमयं यवकाले यवमयं स्थालीपाक—चरुं श्रपयेत् ।

कामादीजानोऽन्यत्रापि व्रीहियवयोरैवान्यतरं
स्थालीपाकं श्रपयेत् । ३
ईजानः—यागं कुर्वाणः अन्यत्रापि यज्ञादिषु व्रीहियवयोरैव, अत्र एवकाररेण इतरव्यवच्छेदः । अन्यतरं—व्रीहिमयं यवमयं वा स्थालीपाकं—चरुं कामात्—स्वेच्छया श्रपयेत् ।

न पूर्वचोदितत्वात् सन्देहः । ४
व्रीहियवयोरन्यतरेण यागः कर्त्तव्यः इति "व्रीहीन् वा यवान् वा १-६-१ इति पूर्वचोदितत्वात्—पूर्वम् उक्तत्वात् सन्देहः न कर्त्तव्यः।

असम्भवाद् विनिवृत्तिः । ५
किन्तु असम्भवात्—यवेन चरुसम्पादनस्य असम्भवात् एव यवस्य विनिवृत्तिः दृश्यते न शास्त्रात् । कथमसम्भव इति चेत् यतः अनवस्राविणन्तरौषणपक्वके ईषदसिद्धेऽप्यनुक्तवाक्येकीकृत्याप्यशक्यप्रयोगात्, ततः

Page 159Permalink

( १३७ )

स्थालीपाकः व्रीहीणामेव न यवानाम् । यत्र यावः स्थालीपाकः वाचनिकः तत्र गुलिकाभिः स्थालीपाकः सम्पाद्यते । यत्र विकल्पः तत्र असम्भवात् विनिवृत्तिः ।

क्षेत्रस्य पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे फलानुपरोधेन । ६

क्षेत्रस्य—शस्यवतः क्षेत्रस्य, पुरस्तात्—पूर्वस्यां दिशि, उत्तरतः—उत्तरस्यां दिशि, कृष्टे—फालेन विलिखिते, शुचौ—अमेध्यरहिते देशे, फलानुपरोधेन— फलस्य शस्यस्य अनुपरोधेन— अबाधेन, सीतायज्ञः कर्त्तव्यः ।

ग्रामे वोभयसंप्रयोगादविरोधात् । ७

वा—पक्षान्तरे । सीतायज्ञः ग्रामे कर्त्तव्यः । कुत इति उभयसंप्रयोगात्—उभयं क्षेत्रं च ग्रामश्च सम्प्रयोक्तुमधिकरणतया सम्बद्धुं शक्यते फलानुपरोधेन कृष्टत्वेन वा । पुरस्तात् उत्तरतो वा शुचौ देशे कृष्टे इति ग्रामस्यापि विशेषणत्वेन सम्बध्यते । अविरोधात्—न विरोधः अविरोधः तस्मात् विकल्पादित्यर्थः ।

यत्र श्रपयिष्यन्नुपलिप्त उद्धतावोक्षितेऽ-
ग्निमुपसमाधाय तन्मिश्रैर्दर्भैस्तीर्त्वाऽऽ-
ज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति । ८

यत्र—क्षेत्रे ग्रामे वा चरुं श्रपयिष्यन् भवति, तत्र उपलिप्ते—गोमयोदकेन उपलिप्ते, उद्धते—स्फ्येन उल्लिखिते, अवोक्षिते—मणिकोदकेन सिक्ते अर्थात् पूर्वोक्तपञ्चधासंस्कारसंस्कृते देशे, अग्निम्—आवसथ्यम्, उपसमाधाय—स्थापयित्वा, तन्मिश्रैः—तैः व्रीहिभिः यवैर्वा मिश्राः— मिलिताः तन्मिश्राः तैः दर्भैः, अग्निं स्तीर्त्वा—परिस्तीर्य, आज्यभागौ— आज्यभागाभिधानौ आग्नेयसोमयागौ आघारपूर्वकौ, इष्ट्वा—हुत्वा, वक्ष्यमाणा आज्याहुतीर्जुहोति वक्ष्यमाणैः पञ्चभिर्मन्त्रैः ।

१-पृथिवी द्यौः प्रदिशो दिशो यस्मै द्युभिरावृताः ।
तमिहेन्द्रमुपह्वये शिवा नः सन्तु हेतयः स्वाहा ॥

Page 160Permalink

( १३८ )

२-यन्मे किञ्चिदुपेप्सितमस्मिन् कर्मणि वृत्रहन् । तन्मे सर्व्ठं समृद्ध्यतां जीवतः शरदः शत स्वाहा ॥ ३-सम्पत्तिर्भूतिर्भूमिर्वृष्टिर्ज्यैष्ठ्यं श्रेष्ठ्यं श्रीः प्रजामिहावतु स्वाहा ॥ ४-यस्या भावे वैदिकलौकिकानां भूतिर्भवति कर्मणाम् । इन्द्रपत्नीमुपह्वये सीता ऽसा मे त्वन्नपायिनी भूयात् कर्मणि कर्मणि स्वाहा ॥ ५-अश्वावती, गोमती, सूनृतावतो, बिभर्त्ति या प्राणभृतो अतन्द्रिता खलमालिनीमुर्वरामस्मिन् कर्म्मण्युपह्वये ध्रुवा ऽसा मे त्वनपायिनी भूयात् स्वाहेति । ६

मन्त्राणामर्थः ( पञ्चानां प्रजापतिः आद्ययोरनुष्टुप् तृतीयादिषु प्रतिष्ठा पङ्क्तिजगत्यः लिङ्गोक्ता देवता आज्यहोमे )— पृथिवी, द्यौः प्रदिशः— आग्नेयादिकोणभागाः, दिशः— पूर्वादयः, देवताः, द्युभिः— कान्तिभिः, आवृताः— व्याप्ताः सत्यः, यस्मै— इन्द्राय स्थिताः तम्— इन्द्रम् इह—यज्ञे उपह्वये—समीपमाह्वये । तस्य हेतयः—वज्रादीनि आयुधानि, नः—अस्माकं शिवाः— मङ्गलकारिण्यः, सन्तु— भवन्तु, तस्मै—इन्द्राय, स्वाहा— सुहुतमस्तु । १

हे वृत्रहन्—इन्द्र ! अस्मिन् कर्मणि—सीतायज्ञे, मे—मम, यत्किञ्चित् उपेप्सितम्—अभिलषितं, मे मम यजमानस्य तत्—सर्वम् अभिलषितं समृद्ध्यतां—सम्पद्यताम् । किम्भूतस्य मम ? शतं शरदः—शतं वत्सरान् जीवतः । अहं शतं वर्षाणि जीवामि मम मनोरथपूर्त्तिश्चास्तु इति भावः । २

सम्पत्तिः—धनवृद्धिः, भूतिः—ऐश्वर्य्यम्, भूमिः—आश्रयः क्षेत्रं च, वृष्टिः—अभीष्टस्य पूर्त्तिः । ज्यैष्ठ्यं—ज्येष्ठत्वम् श्रेष्ठ्यं—श्रेष्ठत्वम् । श्रीः—प्रतिष्ठा । एतत्सर्वम् इह—यज्ञे, प्रीतं सत् मम प्रजां—पुत्रादिवर्गम्

Page 161Permalink

( १३६ )

अवतु-पालयतु ! इन्द्रो वा एतैः सम्पत्त्यादिभिः युक्तां मम प्रजां अवतु ।३

यस्याः—सीतायाः, भावे—सम्पत्तौ, वैदिकलौकिकानां कर्मणां भूतिः— अभिवृद्धिः भवति, ताम् इन्द्रपत्नीं सीताम्, उपह्वये—आवाहयामि । सा—सीता, मे—मम, यजमानस्य, कर्मणि कर्मणि—प्रतिकर्म, अनपायिनी—अन्नानां वृद्धिकारिणी, भूयात्—भवतु । ४

या सीता अश्वावती— अश्वादिदात्री, गोमती— गोदात्री, सूनूतावति—सूनृता—मधुरा वाक् तद्वती, या च सीता अतन्द्रिता—सावधाना सती, प्राणभृतः—प्राणिनः, विभर्ति—पुष्णाति, तां ध्रुवां—स्थिरां, खलमालिनीं—धान्यराशियुक्ताम्, उर्वरां—सर्वशस्यसम्पत्कारिणीं सीताम्, अस्मिन् कर्मणि—सीतायज्ञे उपह्वये—आवाहयामि । सा—प्रसिद्धा सीता मे— मम यजमानस्य, अनपायिनी— अविनाशिनी, भूयात्—अस्तु । ५

स्थालीपाकस्य जुहोति “सीतायै यजायै समायै'भूत्या इति । १०

स्थालीपाकस्येत्यत्र अवयवलक्षणा षष्ठी । अर्थात् स्थालीपाकात् किञ्चिदुद्धृत्य पात्रान्तरे कृत्वा जुहोति “सीतायै स्वाहा, यजायै स्वाहा, समायै स्वाहा, भूत्यै स्वाहा, इति चतसृभ्यः देवताभ्यः ।

मन्त्रवत् प्रदानमेकेषाम् । ११

एकेषाम् आचार्याणां मतेन मन्त्रवत्प्रदानम्—आसां देवतानां होमः मन्त्रपूर्वको विधेयः । न केवलं चतुर्थ्यन्तनामभिः स्वाहाकार सहितैः ।

स्वाहाकारप्रदाना इति श्रुतेः । १२

विनिवृत्तिः । १३

देवाः स्वाहाकारप्रदानाः—स्वाहाकारेण प्रदानं येषु ते स्वाहाकार-प्रदानाः जुहोतयः इति श्रुतेः—श्रुतिनिर्देशात् अत्र सीतायज्ञहोमे मन्त्राणां विनिवृत्तिः—अप्रवृत्तिः निरास इति यावत् एतदाह छन्दोगपरिशिष्टे कात्यायनः—

Page 162Permalink

( १४० )

स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । हन्तकारो मनुष्याणां स्वधाकारः स्वधाभुजाम् । इति

हरिहरादयः भङ्गीभेदेनं अमुमेवार्थं निरूपयन्ति । अस्मिन्नवसरे लाङ्गलयोजनदेवताभ्यः "सीतायज्ञे च २-१३-६ इति निर्देशानुसारेण भूतोपात्तेन स्थालीपाकेन होमः । ताश्च देवताः—इन्द्रः, पर्जन्यः, अश्विनौ, मरुतः, उदलाकाश्यपः, स्वातिकारी, सीता, अनुमतिश्चेति अष्टौ पूर्वोक्ताः । ततः स्विष्टकृदादिहोमः ।

स्तरणशेषकूर्चेषु सीतागोप्तृभ्यो बलिं हरति "पुरस्तात् ये त आसते सुधन्वानो निषङ्गिणः । ते त्वा पुरस्ताद्गोपायन्त्वप्रमत्ता अनपायिनः नम एषां करोम्यहं बलिमेभ्यो हरामीममिति । १४

स्तरणशेषकूर्चेषु—अग्नेः परिस्तरणे ये कुशाः व्रीहिशस्यमिश्राः यवशस्यमिश्रा वा शेषभावम्—अङ्गभावं गताः त एव कुशाः कूर्चाः आसनानि तेषु, सीतागोप्तृभ्यः—सीता—लाङ्गलपद्धतिः, तां ये गोपायन्ति-पालयन्ति ते सीतागोप्तारः तेभ्यः, पुरस्तात्—प्राच्यां दिशि, बलिं हरति-उपहरति "ये त इत्यादिना मन्त्रेण ।

मन्त्रार्थः (चतुर्णां परमेष्ठी यजुः लिङ्गोक्ता बलिहरणे)—हे सीते ! सुधन्वानः—शोभनधनुर्द्धारणः, निषङ्गिणः—तूणीरयुक्ता ये देवाः, ते—तव, पुरस्तात्—प्राच्यां दिशि, आसते—सन्ति, ते—देवाः, त्वा—त्वां प्राच्यां दिशि अप्रमत्ताः—प्रमादरहिताः, अनपायिनः—अविनष्टाः, निरन्तरंवर्त्तमानाः सन्तः, गोपायन्तु—रक्षन्तु । अहं—यजमानः, एषां देवानां नमः करोमि, एभ्यः इमं बलिं हरामि ।

अथ दक्षिणतोऽनिमिषा वर्मिण आसते ते त्वा दक्षिणतो गोपायन्त्वप्रमत्ता अनपायिनः नम एषां करोम्यहं बलिमेभ्यो हरामीममिति । १५

Page 163Permalink

( १४१ )

अथ—पुरस्ताद्वल्यनन्तरं दक्षिणतः—अग्नेर्दक्षिणपार्श्वे कूर्चेषु बलिं हरति अनिमिषा इत्यादिना मन्त्रेण ।

मन्त्रार्थः—हे सीते ! तवं दक्षिणभागे ये अनिमिषाः—निमेषरहिताः, वर्म्मणः—सन्नद्धाः देवाः आसते—सन्ति ते—प्रसिद्धाः देवाः, त्वा—त्वां दक्षिणतः—दक्षिणस्यां दिशि, अप्रमत्ता गोपायन्तु—रक्षन्तु । अन्यत् सर्वं पूर्ववत् ।

अथ पश्चादाभुवः प्रभुवो भूतिर्भूमिः पार्ष्णिः शुनंकुरिः
ते त्वा पश्चाद्गोपायन्त्वप्रमत्ता अनपायिनः नम एषां
करोम्यहं बलिमेभ्यो हरामीममिति । १६

अथ – दक्षिणपार्श्ववल्यनन्तरं, पश्चात् – अग्नेः पश्चिमायां दिशि कूर्चेषु बलिं हरति, आभुवः प्रभुव इत्यादिमन्त्रेण ।

मन्त्रार्थः—आभुवः—आ—समन्तात् भवन्तीति आभुवः । प्रभुवः—प्रकर्षेण भवाः, भूतिर्भूमिस्त्यादयो देवतानां नामशब्दाः । भूत्यादयो देवाः, ते—तव, पश्चात्—पश्चिमायां दिशि वर्त्तमानाः, त्वा—त्वां, गोपायन्तु—रक्षन्तु । अन्यत् सर्वं पूर्ववत् ।

अथोत्तरतो भीमा वायुसमा जवे ते त्वोत्तरतः
क्षेत्रे खले गृहेऽध्वनि गोपायन्त्वप्रमत्ता अनपायिनः
नम एषां करोम्यहं बलिमेभ्यो हरामीममिति । १७

अथ—पश्चिमकूर्चवल्यनन्तरम्, उत्तरतः—अग्नेरुत्तरस्यां दिशि बलिं हरति "भीमा वायुसमा इत्यादिना मन्त्रेण—

मन्त्रार्थः—भीमाः—भयङ्कराः, जवे—वेगे. वायुसमाः—वायुना समाः देवाः, क्षेत्रे— केदारे, खले— धान्यादीनामुत्पत्तिस्थाने, गृहे अध्वनि—मार्गे च त्वा—त्वाम्, उत्तरतः—उत्तरस्यां दिशि गोपायन्तु—रक्षन्तु । अन्यत् पूर्ववत् ।

Page 164Permalink

( १४२ )

प्रकृतादन्यस्मादाज्यशेषेण च पूर्ववद्बलिकर्म । १८

प्रकृतात्— प्रधानदेवतासम्बन्धिनः वैह्याद् यावाद् वा स्थालीपाकात्, अन्यस्मात्—अन्यः यः सिद्धोपात्तः चरुः तस्मात्, तथा आज्यशेषेण च पूर्ववत्—लाङ्गलयोजनकर्मवत, बलिकर्म—इन्द्रपर्जन्यादिभ्यः देवताभ्यः बलिहरणं कर्तव्यम् ।

स्त्रियश्चोपयजेरन्नाचरितत्वात् । १९

स्त्रियः—भार्यादयः च, उपयजेरन्—बलिकर्मणा ताभ्य एव देवताभ्यः पूजां कुर्युः, आचरितत्वात्—प्राचीनाभिः स्त्रीभिः कृतत्वात् । अयमेव समाचार इति भावः ।

संस्थिते कर्मणि ब्राह्मणान् भोजयेद् ब्राह्मणान् भोजयेत् । २०

कर्मणि—सीतायज्ञाख्ये कर्मणि, संस्थिते—समाप्ते, ब्राह्मणान्—विप्रान् त्रिप्रभृतीन् भोजयेत् । ब्राह्मणान् भोजयेदिति द्विरुक्तिः काण्डसमाप्तिबोधिनी ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयः काण्डः समाप्तः ।। १३-४-७५