रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
षष्ठः सर्गः १८५
षष्ठः सर्गः १८५
अन्वयः—उत्तमसौकुमार्या सा अभिद्योतितबन्धुपद्मे प्रतापसंशोषित शत्रुपङ्के तस्मिन् कुमुद्वती भानुमती इव भावं न बबन्ध ।
तस्मिन्निति । उत्तमसौकुमार्योत्कृष्टाङ्गमार्दवा सेन्दुमती अभिद्योतितान्युल्लसितानि बन्धव एव पद्मानि येन तस्मिन् प्रतापेन तेजसा संशोषिताः एव पङ्काः कर्दमा येन तस्मिन्नवन्तिनाथे कुमुद्वतीम् । "कुमुदनड्वेतसेभ्यो ड्मतुप्" इति ड्मत्तुप्प्रत्यय भानुमत्यंशुमतीव भावं चित्तं न बबन्ध न तत्रानुरागमकरोदित्यर्थः । पद्मत्वेन शत्रूणां पङ्कत्वेन च निरूपणं राज्ञः सूर्यसाम्यार्थम् ।
भाषार्थ—अत्यन्त सुकुमारी उस कुमारी इन्दुमती को मित्रों को प्रसन्न करने बाला और शत्रुओं का संहारक वह प्रतापी राजा उसी प्रकार अच्छा नहीं लगा जिस प्रकार कुमुदिनी को वह सूर्य अच्छा नहीं लगता जो कमलों को खिलाता है और कीचड़ को सुखा देता है ॥ ३६ ॥
तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् ।
विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥ ३७ ॥
अन्वयः—सुनन्दा तामरसान्तराभां गुणैः अनूनां विधातुः ललितां सृष्टिं सुदतीं तां अनूपराजस्य अग्रतः विधाय भूयः जगाद ।
तामिति । सुनन्दा तामरसान्तराभां पद्मोदरतुल्यकान्ति कनकगोरीमित्यर्थः । गुणैरनूनाम् अधिकामित्यर्थः । शोभना दन्ता यस्याः सा सुदती । "वयसि दन्तस्य दतृ" इति दत्तादेशः । "उगितश्च" इति ङीप् । तां प्रकृतां प्रसिद्धां वा विधातुर्ललितां सृष्टि मधुरनिर्माणां स्त्रियमित्यर्थः । अनुगता आपो येषु तेऽनूपा नाम देशाः । "ऋक्पूरब्ध्रुः पथामनक्षे" इत्यप्प्रत्ययः समासान्तः । "ऊदनोर्देशे" इत्यूदादेशः । एनां राज्ञोनूपराजस्याग्रतो विधाय व्यवस्थाप्य भूयः पुनर्जगाद ।
भाषार्थ—कमल के समान कान्तिवाली, गुणों से परिपूर्ण, ब्रह्मा की मनोहर रचना और सुन्दर दांतों वाली उस इन्दुमती को वहाँ से अनूप देश के राजा के सामने ले जाकर सुनन्दा फिर बोली ॥ ३७ ॥
सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिश्वातयूपः ।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्त्तवीर्यः ॥ ३८ ॥
अन्वयः—संग्रामनिविष्टसहस्रबाहुः अष्टादशद्वीपनिश्वातयूपः अनन्यसाधारणराजशब्दः योगी कार्त्तवीर्यः बभूव किल ।
सङ्ग्रामेति । सङ्ग्रामेषु युद्धेषु निर्विष्टा अनुभूताः सहस्रं बाहवो यस्य स तथोक्तः युद्धादन्यत्र द्विभुज एव दृश्यत इत्यर्थः । अष्टादशसु द्वीपेषु निखाता स्था-
१८४ | रघुवंशमहाकाव्ये
पिता यूपा येन स तथोक्तः सर्वक्रतुयाजी सार्वभौमश्चेति भावः । जरायुजादि- सर्वभूतरञ्जनादनन्यसाधारणो राजशब्दो यस्य तथोक्तः योगी ब्रह्मविदित्यर्थः । स किल भगवतो दत्तात्रेयाल्लब्धयोग इति प्रसिद्धिः । कृतवीर्यस्यापत्यं पुमान्कार्त- वीर्यो नाम राजा बभूव किलेति । अयं चास्य महिमा सर्वोऽपि दत्तात्रेयवरप्रसाद- लब्ध इति भारते दृश्यते ।
भाषार्थ—पहले कार्तवीर्य नामक एक योगाभ्यासी राजा हो गये हैं उनमें यह विशेषता थी कि जब वे युद्ध में लड़ने जाते थे तब उनके हजारों हाथ निकल जाते थे । उन्होंने अट्ठारहों द्वीपों में जाकर यज्ञस्तम्भों को गाड़ दिया था । वे ऐसे प्रतापी थे कि उनके सामने कोई अपने को राजा नहीं कह सकता था ॥ ३८ ॥
अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् । अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥ ३६ ॥
अन्वयः—विनेता यः अकार्यचिन्तासमकालं एव पुरस्ताच्चापधरः प्रादुर्भवन् सन् प्रजानाम् अन्तःशरीरेषु अपि अविनयं प्रत्यादिदेश ।
अकार्येति । विनेता शिक्षको यः कार्तवीर्यः अकार्यस्यासत्कार्यस्य चिन्तया अहं चौर्यादिकं करिष्यामीति बुद्ध्या समकालमेककालमेव यथा तथा पुरस्तादग्रे चापधरः प्रादुर्भवन्सन् प्रजानां जनानाम् । 'प्रजा स्यात्संततौ जने' इत्यमरः अन्तः-शरीरेष्वन्तःकरणेषु शरीरशब्देनेन्द्रियं लक्ष्यते । अविनयमपि प्रत्यादिदेश । मानसापराधमपि निवारयामासेत्यर्थः । अन्ये तु वाक्कायापराधमात्रप्रतिकर्तार इति भावः ।
भाषार्थ—इनकी प्रजाओं में से जो कोई व्यक्ति ज्यों ही किसी बुरे कार्य को करने का मन में विचार करता था त्यों ही उसे ऐसा मालूम पड़ता था कि धनुष बाण हाथ में लिए हुए राजा कार्तवीर्यार्जुन हमें दण्ड देने के लिए सामने उपस्थित हैं । इसलिए इनकी प्रजायें किसी अकार्य को करने का विचार तक भी नहीं करती थी ॥ ३९ ॥
ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण । कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमाप्रसादात् ॥ ४० ॥
अन्वयः—ज्याबन्धनिष्पन्दभुजेन विनिःश्वसद्वक्त्रपरम्परेण निर्जितवासवेन लङ्केश्वरेण यस्य कारागृहे आप्रसादात् उषितम् ।
ज्याबन्धेति । ज्याया मौर्व्या बन्धेन बन्धनेन निष्पन्दा निश्चेष्टा भुजा यस्य तेन विनिःश्वसती ज्याबन्धोपरोधाद्दीर्घं निःश्वसन्ती वक्त्रपरम्परा दशमुखी यस्य तेन निर्जितवासवेनेन्द्रविजयिना अत्रेन्द्रादयोऽप्यनेन जितप्राया एवेति भावः । लङ्केश्वरेण
षष्ठः सर्गः | १८५
दशास्येन यस्य कार्तवीर्यस्य कारागृहे बन्धनागारे। 'कारास्याद्बन्धनालये' इत्यमरः। आप्रसादादनुग्रहपर्यन्तमुषितं स्थितम् । "नपुंसके भावे क्तः" एतत्प्रसाद एव तस्य मोक्षोपायो न तु क्षात्रमिति भावः।
**भाषार्थ—**जिस रावण ने इन्द्र को जीत लिया था उसे भी उन्होंने अपने कारागार में बन्दी बनाकर उसकी भुजाओं को धनुष की डोरी से इस प्रकार क- सकर बांध दिया था कि वह बेचारा तब तक उसी में उसांस करता रहा जब तक प्रसन्न होकर इन्होंने उसे नहीं छोड़ा ॥ ४० ॥
तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी ।
येन श्रियाः संशयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥ ४१ ॥
**अन्वयः—**आगमवृद्धसेवी प्रतीपः इति एष भूपतिः तस्य अन्वये जातः येन संश्रयदोषरूढं श्रियः स्वभावलोला इति अयशः प्रमृष्टम् ।
तस्येति । आगमवृद्धसेवी श्रुतवृद्धसेवी प्रतीप इति ख्यात इति शेषः । एष भूपतिस्तस्य कार्तवीर्यस्यान्वये वंशे जातः । येन प्रतीपेन संश्रयस्याश्रयस्य पुंसो दोषैर्व्यसनादिभिः रूढमुत्पन्नं श्रियः संवन्धि स्वभावलोला प्रकृतिचञ्चलेत्येवंरूप- मयशो दुष्कीर्तिः प्रमृष्टं निरस्तम् । दुष्टाश्रयत्यागशीलायाः श्रियः प्रकृतिचापलं- प्रवादो मूढजनपरिकल्पित इत्यर्थः । अयं तु दोषराहित्यान्न कदाचिदपि श्रिया त्यज्यत इति भावः ।
**भाषार्थ—**उन्हीं प्रसिद्ध राजा कीर्तवीर्य के वंश में ये उत्पन्न हुए हैं। ये वेदों और वृद्धों की बड़ी सेवा करते हैं इनका नाम प्रतीप है। इन्होंने आश्रय दोष से दूषित लक्ष्मी के स्वभावचञ्चला इस अपयश को धो दिया है। अर्थात् इनके पास लक्ष्मी सदा निवास करती है। वास्तविक बात यह है कि लक्ष्मी तो उसी व्यक्ति को छोड़कर अन्यत्र चली जाती है जो दुर्व्यसनी हो पर इनमें कोई व्यसन नहीं तो इन्हें क्यों कर छोड़े ॥ ४१ ॥
आयोधने कृष्णगति सहायमवाप्य यः क्षत्रियकालरात्रिम् ।
धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्रधाराम् ॥ ४२ ॥
**अन्वयः—**यः आयोधने कृष्णगतिं सहायं अवाप्य क्षत्रियकालरात्रि रामपर- श्वधस्य शितां धारां उत्पलपत्रधारां संभावयति ।
आयोधन इति । यः प्रतीप आयोधने युद्धे कृष्णगति कृष्णवर्त्मानमग्नि सहाय- मवाप्य क्षत्रियाणां कालरात्रि संहाररात्रिमित्यर्थः। रामपरश्वधस्य जामदग्न्यपरशोः। 'द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः' इत्यमरः । शितां तीक्ष्णां धारां मुखम् ।
१८६ | रघुवंशमहाकाव्ये
'खड्गादीनां च निशितमुखे धारा प्रकीर्तिता' इति विश्वः। उत्पलपत्रस्य सार इव सारो यस्यास्तां तथाभूतां सम्भावयति मन्यते । एतन्नगरजिगीषयाऽगतान्रिपू- न्स्वयमेव भक्ष्यामीति भगवता वैश्वानरेण दत्तवरोऽयं राजा दह्यन्ते च तथागताः शत्रव इति भारते कथानुसंधेया ।
भाषार्थ— ये राजा इतने बलवान् हैं कि अग्नि से वरदान प्राप्त करके उस परसुरामजी के फरसे की तेज धारा को कमल के पत्रों के समान निःसार समझते हैं जिसने युद्ध में २१ बार क्षत्रियों का संहार कर डाला है ।। ४२ ।।
अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् । प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥ ४३ ॥
अन्वयः— यदि माहिष्मतीवप्रनितम्बकाञ्चीं जलवेणिरम्यां रेवां प्रसादजालैः प्रेक्षितुं कामः अस्ति तर्हि त्वं दीर्घबाहोः अस्य अङ्कलक्ष्मीः भव ।
अस्येति । दीर्घबाहोरस्य प्रतीपस्याङ्कलक्ष्मीर्भव ! एनं वृणीष्वेत्यर्थः । अनेनायं विष्णुतुल्य इति ध्वन्यते । माहिष्मती नामास्य नगरी तस्या वप्रः प्राकार एव नितम्बः तस्य काञ्चीं रशनाभूतां जलानां वेण्या प्रवाहेण रम्याम् । 'ओघः प्रवाहो वेणी च' इति हलायुधः । रेवां नर्मदां प्रसादजालैर्गवाक्षैः । 'जालं समूह आनायो गवाक्षक्षारकावपि' इत्यमरः । प्रेक्षतुं काम इच्छाऽस्ति यदि ।
भाषार्थ— इनकी राजधानी माहिष्मती नगरी की चहार दिवारी रूप नितम्ब की करधनी के रूप में स्थित और जल रूप वेणी से रमणीय नर्मदा नदी को राजभवनों के झरोखों से यदि देखना चाहती हो तो इस महाबाहु राजा को वरण करो ॥ ४३ ॥
तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव । शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्यः ॥ ४४ ॥
अन्वयः— प्रकामं प्रियदर्शनः अपि स क्षितीशः शरत्प्रमृष्टाम्बुधरोपरोधः पर्याप्तकलः शशी नलिन्याः इव तस्या रुचये न बभूव ।
तस्या इति । प्रकामं प्रीतिकरं दर्शनं यस्य सोऽपि दर्शनीयोऽपीत्यर्थः । स क्षितीशः शरदा प्रमृष्टाम्बुधरोपरोधो निरस्तमेघावरणः पर्याप्तकालः पूर्णकलः शशी नलिन्या इव । तस्या इन्दुमत्या रुचये न बभूव । रुचिं नाजीजनदित्यर्थः । लोको भिन्नरुचिरिति भावः ।
भाषार्थ— जिस प्रकार मेघरूप आवरण से रहित निर्मल शरद ऋतु का मनो-हर चन्द्रमा कमलिनी को अच्छा नहीं लगता है उसी प्रकार देखने में अत्यन्त सुन्दर भी वह प्रतीप राजा इन्दुमती के मन में नहीं जँचा ॥ ४४ ॥
षष्ठः सर्गः १८७
सा शूरसेनाधिपतिं सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् ।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ ४५ ॥
अन्वयः—लोकान्तरगीतकीर्तिम् आचारशुद्धोभयवंशदीपं शूरसेनाधिपतिं सुषेणमुद्दिश्य शुद्धान्तरक्ष्या सा कुमारी जगदे ।
सेति । लोकान्तरे स्वर्गादावपि गीतकीर्तिमाचारेण शुद्धयोरुभयोर्वंशयोर्मातृ-पितृकुलयोर्दीपं प्रकाशकम् । उभयवंशेत्यत्रोभयपक्षवन्निर्वाहः । शूरसेनानां देश-नामाधिपतिं सुषेणं नाम नृपतिमुद्दिश्याभिसंधाय शुद्धान्तरक्ष्यान्तःपुरपालिकया । 'कर्मण्यण्' 'टिड्ढाणञ्०' इति ङीप् । सा कुमारी जगदे ।
भाषार्थ—तब अन्तःपुरपालिका सुनन्दा राजकुमारी इन्दुमती को मथुरा के राजा सुषेण के पास ले गई और उन्हें दिखा कर इन्दुमती से कहने लगी कि इनकी कीर्ति स्वर्गादिलोक में भी गाई जाती है और इन्होंने अपने शुद्ध चरित्र से मातृकुल और पितृकुल दोनों को उज्ज्वल कर दिया है ॥ ४५ ॥
नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रत्य परास्परेण ।
सिद्धाश्रमं शान्तमिवैत्य सत्त्वैर्नैसर्गिकऽप्युत्ससृजे विरोधः ॥ ४६ ॥
अन्वयः—यज्वा एष पार्थिवः नीपान्वयः अस्ति यं आश्रित्य गुणैः शान्तं सिद्धाश्रमं एत्य सत्त्वैः नैसर्गिकैः अपि परेण उत्ससृजे ।
नीपेति । यज्वा विधिवदिष्टवान् । "सुयजोङ्निप्" इति ङ्वनिप्प्रत्ययः । एष पार्थिवः नीपोनामान्वयोऽस्येति नीपान्वयो नीपवंशजः। यं सुषेणमाश्रित्य गुणैर्ज्ञान-मौनादिभिः शान्तं प्रसन्नं सिद्धाश्रममेत्य प्राप्य सत्त्वैर्गजसिंहादिभिः प्राणि-भिरिव नैसर्गिकः स्वाभाविकौऽपि परस्परेण विरोध उत्ससृजे त्यक्तः ॥ ४६ ॥
भाषार्थ—ये राजा विधिपूर्वक यज्ञ करनेवाले हैं और राजा नीप के वंश में उत्पन्न हुए हैं । इनमें सभी गुण एक साथ उसी प्रकार स्थित रहते हैं, जिस प्रकार ऋषियों के शान्त आश्रमों में सभी जीव स्वाभाविक विरोध को छोड़कर एक साथ रहते हैं ॥ ४६ ॥
यस्यात्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव सन्निविष्टा ।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यं रिपुमन्दिरेषु ॥ ४७ ॥
अन्वयः—यस्य नयनाभिरामा कान्तिः हिमांशो कान्तिः इव आत्मगेहे सन्निविष्टा अस्ति । अविषह्यं तेजः तु हर्म्याग्रसंरूढतृणाङ्कुरेषु रिपुमन्दिरेषु सन्निविष्टम् अस्ति ।
यस्येति । हिमांशोः कान्तिश्चन्द्रकिरणा इव नयनयोरभिरामा यस्य सुषेणस्य
| १८८ | रघुवंशमहाकाव्ये |
|---|
कान्तिः शोभात्मगेहे स्वभवने संनिविष्टा संक्रांता अविषह्यं विसोढुमशक्यं तेजः प्रतापस्तु हर्म्याग्रेषु धनिकमन्दिरप्रान्तेषु । 'हर्म्यादि धनिनां वासः' इत्यमरः । संरूढास्तृणाङ्कुरा येषां तेषु शून्येध्वित्यर्थः । रिपुमन्दिरेषु शत्रुन्गरेषु । 'मन्दिरे नगरे गृहे' इति विश्वः । सन्निविष्टम् । स्वजनाह्लादको द्विषन्तपञ्चेति भावः ।
भावार्थ—चन्द्रमा की चांदनी के समान नेत्रों को आह्लादित करनेवाला जिसका प्रकाश तो घर में रहता है और सूर्य के समान प्रचण्ड तेज शत्रुओं के उन राजभवनों पर दिखाई देता है जिनके उजड़ जाने से उसमें घास पात जम गई है ॥ ४७ ॥
यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्तजलेव भाति ॥ ४८ ॥
अन्वयः—यस्य वारिविहारकाले अवरोधस्तनचन्दनानां प्रक्षालनात् मथुरां गता अपि कलिन्दकन्या गङ्गोर्मिसंसक्तजला इव भाति ।
यस्येति । यस्य सुषेणस्य वारिविहारकाले जलक्रीडासमयेऽवरोधतामन्तःपुराङ्गनानां स्तनेषु चन्दनानां मलयजानां प्रक्षालनाद्धेतोः कलिन्दो नाम शैलस्तत्कन्या यमुना । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्यमरः । मथुरा नामास्य राज्ञो नगरी तां गतापि । गङ्गाया विप्रकृष्टापीत्यर्थः । मथुरायां गङ्गाभावं सूचयत्यपिशब्दः । 'कालिन्दी तीरे मधुरा लवणसुरवधकाले शत्रुघ्नेन निर्मास्यसे' इति वक्ष्यति तत्कथमधुना मथुरासंभव इति चिन्त्यम् । मधुरा मथुरापुरीति शब्दभेदः । यद्वा सान्येति गङ्गाया भागीरथ्या ऊर्मिभिः संसक्तजलेव भाति । धवलचन्दनसंसर्गात्प्रयागादन्यत्राप्यत्र गङ्गासङ्गतेव भातीत्यर्थः । 'सितासिते हि गङ्गायमुने' इति घंटापथः ।
भावार्थ—जलविहार करते समय इनकी रानियों के स्तनों पर लगा हुआ श्वेत चन्दन घुलकर जब यमुना जल में मिल जाता है उस समय मथुरा में यमुना जी का रंग ऐसा मालूम पड़ेगा कि मानों वहीं पर उनका गंगाजी की लहरों से संगम हो गया है ॥ ४८ ॥
त्रस्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।
वक्षःस्थलव्यापि रुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्णम् ॥ ४९ ॥
अन्वयः—तार्क्ष्यात् त्रस्तेन यमुनौकसा कालियेन विसृष्टं किल वक्षःस्थलव्यापिरुचं मणिं दधानः यः सकौस्तुभं कृष्णं ह्रेपयति इव ।
षष्ठः सर्गः १८६
षष्ठः सर्गः १८६
त्रस्तेनेति। तार्क्ष्याद्गरुडात्त्रस्तेन यमुनौकः स्थानं यस्य तेन कालियेन नाम नागेन विसृष्टं किलाभयदाननिष्क्रयत्वेन दत्तम्। किलेत्यैतिह्ये। वक्षःस्थलव्यापिरुचं मणिं दधाना यः सुषेणः सकौस्तुभं कृष्णं ह्रेपयतीवं व्रीडयतीव। 'अत्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णो' इत्यनेन पुगागमः। कौस्तुभमणेरप्युत्कृष्टोऽस्य मणिरिति भावः।
भाषार्थ— गरुड़ के डर से यमुना के जल में रहने वाले कालियनाग द्वारा अभयदान देने के उपहार में दिए गए छाती पर फैलती हुई कान्तिवाले मणि को धारण किए हुए इस राजा की शोभा के सामने कौस्तुभ मणि को पहने हुए भगवान् कृष्ण की शोभा भी फीकी पड़ जाती है ॥ ४९ ॥
संभाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये।
वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि ! यौवनश्रीः ॥ ५० ॥
अन्वयः— हे सुन्दरि ! अमुं युवानं भर्तारं संभाव्य मृदुप्रवालोत्तरपुष्पशय्ये चैत्ररथात् अनूने वृन्दावने यौवनश्रीः निर्विश्यताम्।
सम्भाव्येति। युवानममुं सुषेणं भर्तारं संभाव्य मत्वा पतित्वेनाङ्गीकृत्येत्यर्थः। मृदुप्रवालोत्तरोपरिप्रस्तारितकोमलपल्लवापुष्पशय्या यस्मिंस्तत्तस्मिंश्चैत्ररथात्कुबेरोद्यानादनूने वृन्दावने वृन्दावननामक उद्याने हे सुन्दरि ! यौवनश्रीयौवनफलं निर्विश्यतां भुज्यताम्।
भाषार्थ— हे सुन्दरी ? इस युवक राजा के साथ विवाह करके चैत्ररथ नामक कुबेर के उद्यान से भी सुन्दर वृन्दावन में कोमल पत्तों और पुष्पों की शय्यायों पर बिहार करते हुए अपनी जवानी की शोभा को चरितार्थ करो।
अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि।
कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥ ५१ ॥
अन्वयः— च प्रावृषि कान्तासु गोवर्धनकन्दरासु, अम्भः पृषतोक्षितानि शैलेयगन्धीनि शिलातलानि अध्यास्य कलापिनां नृत्यं पश्य।
अध्यास्येति। किं च प्रावृषि वर्षासु कान्तासु गोवर्धनस्याद्रेः कन्दरासु दरीषु। 'दरी तु कन्दरी वा स्त्री' इत्यमरः। अम्भसः पृषतैर्बिन्दुभिरुक्षितानि सिक्तानि शिलायां भवं शैलेयम्। 'शिलाजतु च शैलेयम्' इति यादवः। यद्वा—शिला पुष्पाख्य ओषधिविशेषः। 'कलानुसार्यं वृद्धाश्मपुष्पशीत शिवानि तु। शैलेयम्' इत्यमरः 'शिलायां ढः।' इत्यत्र शिलाया इति योगविभागादि- वार्थे ढप्रत्ययः। तद्गन्धवन्ति शैलेयगन्धीनिशिलान्यध्यास्याधिष्ठाय कलापिनां बर्हिणां नृत्यं पश्य।
१६० | रघुवंशमहाकाव्ये
भाषार्थ—और वर्षा ऋतु में गोवर्धन पर्वत की सुहावनी गुफाओं में पानी की फुहारों से भीगे हुए एवं शिलाजीत के गन्ध से सुवासित चट्टानों पर बैठकर मोरों का नाच देखो ॥ ५१ ॥
नृपं तमावर्त्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री ।
महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥ ५२ ॥
अन्वयः—आवर्त्तमनोज्ञाभिः अन्यवधूः भवित्री सा सागरगामिनी स्रोतोवहा मार्गवशात् उपेतं महीधरं इव तं नृपं व्यत्यगात् ।
नृपमिति । 'स्यादवर्तोऽम्भसां भ्रमः' इत्यमरः । आवर्त्तमनोज्ञा नाभिर्यस्याः सा । इदं च नदीसाम्यार्थमुक्तम् । अन्यवधूरन्यपत्नी भवित्री सा कुमारी तं नृपं सागरगामिनी सागरं गन्त्री स्रोतोवहा नदी मार्गवशादुपेतं प्राप्तं महीधरं पर्वतमिव व्यत्यगादतीत्य गता ।
भाषार्थ—पानी के भंवर के समान गहरी नाभी वाली और किसी दूसरे की स्त्री बनने वाली वह इन्दुमती उस राजा सुषेण को छोड़कर उसी प्रकार आगे बढ़ गई जिस प्रकार समुद्र से मिलने वाली नदी मार्ग में पड़े हुए पर्वतों को छोड़कर आगे बढ़ जाती है ॥ ५२ ॥
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् ।
आसेदुषीं सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे ॥ ५३ ॥
अन्वयः—अथ भुजिष्या अंगदाश्लिष्टभुजं सादितशत्रुपक्षं हेमाङ्गदं नाम कलिङ्गनाथं आसेदुषीं अबालेन्दुमुखीं बालां बभाषे ।
अथेति । अथ भुजिष्या किंकरी सुनन्दा । 'भुजिष्या किंकरी मता' इति हलायुधः । अङ्गदाश्लिष्टभुजं केयूरबद्धबाहुं सादितशत्रुपक्षं विनाशितशत्रुवर्गं हेमाङ्गदं नाम कलिङ्गनाथमासेदुषीमासन्नामबालेन्दुमुखीं पूर्णेन्दुमुखीं बालामिन्दुमर्ती बभाषे ।
भाषार्थ—इसके बाद दासी सुनन्दा पूर्णचन्द्रमा के समान सुन्दरमुखवाली इन्दुमती को उस कलिंग देश के राजा हेमाङ्गद को दिखाकर बोली, जो अपनी बाहु में बिजायठ पहने हुए थे और अपने शत्रुओं को नष्ट कर डालने मे दक्षथे ।
असौ महेन्द्राद्रिसमानससारः पतिर्महेन्द्रस्य महोदधेश्च ।
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥ ५४ ॥
अन्वयः—महेन्द्राद्रिसमानससारः असौ महेन्द्रस्य महोदधेः च पतिः अस्ति यस्य यात्रासु महेन्द्रः क्षरसैन्यगजच्छलेन पुरः याति इव ।
षष्ठः सर्गः
१६१
असाविति । महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महोदधेश्च पतिः स्वामी । महेन्द्रमहोदधी एवास्य गिरिजलदुर्गे इति भावः । यस्य यात्रासु क्षगतां मदस्राविणां सैन्यगजानां छलेन महेन्द्रो महेन्द्रादिः पुरोऽग्रे यातीव अद्रिकल्पा अस्य गजा इत्यर्थः ।
भाषार्थ—ये महेन्द्रपर्वत के समान शक्तिशाली हैं और इनका अधिकार महेन्द्र पर्वत एवं समुद्र दोनों पर है । जब ये युद्ध के लिये प्रस्थान करते हैं तब इनके आगे २ चलनेवाले मस्त हाथी ऐसे मालूम पड़ते हैं मानों महेन्द्र पर्वत स्वयं हाथियों का वेष बनाकर इनके आगे चल रहा है ।। ५४ ।।
ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः ।
रिपुश्रिया साञ्जनबाष्पसेके बन्दीकृतानामिव पद्धती द्वे ॥ ५५ ॥
अन्वयः—सुभुजः चापभृतां पुरोगः यः बन्दीकृतानां रिपुश्रिया साञ्जन-बाष्पसेके पद्धती इव द्वे ज्याघातरेखे भुजाभ्यां विभर्ति ।
ज्याघातेति । सुभुजश्चापभृतां पुरोगो धनुर्द्धराग्रेसरो यः बन्दीकृतानां प्रगृहीतानाम् 'प्रग्रहोपग्रहो बन्द्याम्' इत्यमरः । रिपुश्रिया साञ्जनो बाष्पसेको ययोस्ते कज्जलमिश्राश्रुसिकते इत्यर्थः । पद्धती इव द्वे ज्याघातानां मोर्वीकिणानां रेखे राजी भुजाभ्यां विभर्ति । द्विवचनात्सव्व्यसाचित्वं गम्यते । रिपुश्रिया भुजाभ्यामेवाहरणात्तद्गमरेखयोस्तत्पद्धतित्वेनोत्प्रेक्षा । तयोः श्यामलत्वात्साञ्जनाश्रुसेकोक्तिः।
भाषार्थ—सुन्दर भुजा वाले और धनुर्धारियों में श्रेष्ठ इस हेमाङ्गद राजा के दोनों भुजाओं में धनुष की डोरी खींचने से जो दो काली २ रेखायें बन गई हैं वे ऐसी मालूम पड़ती हैं मानों बन्दिनी बनाई गई शत्रुओं की राजलक्ष्मी के अञ्जन-युक्त आंसुओं से सिक्त उनके आने के लिए दो मार्ग बने हों ॥ ५५ ॥
यमात्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः ।
प्रासादवातायनदृश्यवीचिः प्रबोधयत्यर्णव एव सुप्तम् ॥ ५६ ॥
अन्वयः—आत्मनः सद्मनि सुप्तं यं सन्निकृष्टः मन्द्रध्वनित्याजितयामतूर्यः वातायनदृश्यवीचिः अर्णवः एव प्रबोधयति ।
यमिति । आत्मनः सद्मनि सुप्तं हेमाङ्गदं संनिकृष्टः समीपस्थोऽत एव प्रासादवातायनैर्दृश्यवीचिर्मन्द्रेण गम्भीरेण । 'मन्द्रस्तु गम्भीरे' इत्यमरः । ध्वनित्रात्रिव त्याजितं निर्जितं यामस्य तूर्यं प्रहरावसानसूचकं वाद्यं येन स तथोक्तः । 'द्वौ यामप्रहरौ समौ' इत्यमरः । अर्णव एव प्रबोधयति अर्णवस्यैव तूर्यकार्यकारित्वात्तद्वैयर्थ्यमित्यर्थः । समुद्रस्यापि सेव्यः किमन्येषामिति भावः ।
१६२ | रघुवंशमहाकाव्ये
भाषार्थ—ठीक, इनके राजभवन के पास ही समुद्र वर्तमान है जिसकी लहरें राजभवन के झरोखों से स्पष्ट दिखाई देती हैं। जब ये अपने महल में सोते हैं तब अपनी गम्भीर गर्जना से रात्रि के चतुर्थ प्रहर के अन्त में बजनेवाले बाजों को व्यर्थ कर देने वाला वह समुद्र ही इन्हें प्रातः काल में जगाता है ॥ ५६ ॥
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥ ५७ ॥
अन्वयः—अनेन सार्द्धं तालीवनमर्मरेषु अम्बुराशेः तीरेषु द्वीपान्तरानीत-लवङ्गपुष्पैः मरुद्भिः अपाकृतस्वेदलवा सती त्वं विहर ।
अनेनेति । अनेन राज्ञा सार्धं तालीवनैमर्मरेषु मर्मरेति ध्वनत्सु । ‘अथ मर्मरं स्वनिते वस्त्र-पर्णानाम्’ इत्यमरवचनाद्गुणपरस्यापि मर्मरशब्दस्य गुणिपरत्वं प्रयोगादवसेयम् । अम्बुराशेः समुद्रस्य तीरेषुद्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यैस्तैः । लवङ्गं देवकुसुमम् इत्यमरः । मरुद्भिर्वातैरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्यः सा तथाभूता सती त्वं विहर क्रीड ।
भाषार्थ—यदि तुम चाहो तो इनके साथ विवाह करके समुद्र के उन तटों पर विहार करो, जहां पर रातों दिन ताड़ के वृक्षों की मर्मरध्वनि सुनाई पड़ती रहती है और विहार करनेवालों के पसीनों को अन्य द्वीपों से लवंग के पुष्पों की गन्ध को लेकर बहने वाली हवा दूर करती है ॥ ५७ ॥
प्रलोभिताप्याप्याकृतिलोभनीया विदर्भराजावरजा तथैवम् ।
तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥ ५८ ॥
अन्वयः—आकृतिलोभनीया विदर्भराजावरजा तथा एवं प्रलोभिता अपि नीत्या दूरकृष्टा लक्ष्मीः प्रतिकूलदैवात् जनात् इव तस्मात् अपावर्तत ।
प्रलोभितेति । आकृत्या रूपेण लोभनीयाऽकर्षणीया न तु वर्णनमात्रेणेत्यर्थः । विदर्भराजावरजा भोजानुजेन्दुमती तया सुनन्दयैवं प्रलोभितापि प्रचोदितापि नीत्या पुरुषकारेण दूरकृष्टा दूरमानीता लक्ष्मीः प्रतिकूलं दैवं तस्य तस्मात्पुंस इव तस्माद्धे-माङ्गदादपावर्तत प्रतिनिवृत्ता ।
भाषार्थ—केवल वर्णनमात्र से नहीं किन्तु सौन्दर्य से आकृष्ट होनेवाली विदर्भराज भोज की छोटी बहन वह इन्दुमती सुनन्दा की लुभावनी बातें सुनकर भी उस राजा को छोड़कर उसी प्रकार आगे बढ़ गई जिस प्रकार पुरुषार्थ से पाई गई लक्ष्मी भाग्यहीनपुरुष को छोड़कर चली जाती है ॥ ५८ ॥
षष्ठः सर्गः १६३
अथोरगाख्यस्य पुरस्य नाथं दौवारिकी देवसरूपमेत्य । इतश्चकोराक्षि ! विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥ ५६ ॥
**अन्वयः—**अथ दौवारिकी देवसरूपं उरगाख्यस्य पुरस्य नाथं एत्य हे चकोराक्षि ! इतः त्वं विलोकय इति पूर्वानुशिष्टां भोज्यां निजगाद ।
अथेति । अथ द्वारे नियुक्ता दौवारिकी सुनन्दा । “तत्र नियुक्तः” इति ठक्प्रत्ययः । “द्वारादीनां च” इत्यौ आगमः । अकारेण देवरूपं देवतुल्यम् उरगाख्यस्य पुरस्य पाण्ड्यदेशे कान्यकुब्जतीरवर्तिनागपुरस्य नाथमेत्य प्राप्य हे चकोराक्षि ! इतो विलोकयेति पूर्वानुशिष्टां पूर्वमुक्तां भोजस्य राज्ञो गोत्रापत्यं स्त्रियं भोज्यामन्दिन्दुमतीम् । “क्रोष्ट्यादिभ्यश्च” इत्यत्र भोजात्क्षत्रियादित्युपसंख्यानात्यङ्प्रत्ययः । “यङश्चाप्” इति चाप् । निजगाद । इतो विलोकयेति पूर्वमुक्त्वा पश्चाद्वक्तव्यं निजगादेत्यर्थः ।
**भावार्थ—**इसके बाद द्वारपालिका सुनन्दा देवताओं के समान सुन्दर उरगपुर (नागपुर) के राजा के पास ले जाकर भोजवंश में उत्पन्न उस इन्दुमती से बोली कि चकोर के समान नेत्र वाली इन्दुमती ! इधर तो देखो ॥ ५९ ॥
पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार एवाद्विराजः ॥ ६० ॥
**अन्वयः—**अंसार्पितलम्बहारः हरिचन्दनेन कॢप्ताङ्गरागः अयं पाण्ड्यः बालातपरक्तसानुः सनिर्झरोद्गारः अद्रिराजः इव आभाति ।
पाण्ड्य इति । अंसयोरर्पिताः लम्बन्त इति लम्बाः हारा यस्य सः हरिचन्दनेन गोशीर्षाख्येन चन्दनेन । ‘तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्’ इत्यमरः । कॢप्ताङ्गरागः सिद्धानुलेपनोऽयं पाण्डूनां जनपदानां राजा पाण्ड्यः । पाण्डोर्जनपदशब्दात्क्षत्रियाडण् वक्तव्यः ॐ इति ङ्यण्प्रत्ययः । तस्य राजन्यपत्यदिति वचनात् बालातपेन रक्ता अरुणाः सानवो यस्य स सनिर्झरोद्गारः प्रवाहस्यन्दनसहितः । ‘वारिप्रवाहो निर्झरो झरः’ इत्यमरः । अद्रिराज इवाभाति ।
**भावार्थ—**ये पाण्ड्य देश के राजा हैं इनके कन्धों पर बड़ा हार लटक रहा रहा है और शरीर में हरिचंदन का लेप लगा हुआ है । इस देश में ये उस हिमालय के समान सुन्दर लग रहे हैं जिसका शिखर प्रातःकाल की धूप से लाल हो गया हो और जिस पर से पानी के अनेक झरने गिर रहे हों ॥ ६० ॥
विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः । प्रीत्याऽवमेधावभृथार्द्रमूर्तेः सोल्लासिको यस्य भवत्यगस्त्यः ॥ ६१ ॥
१३ र० सम्पू०
| १६४ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—विन्ध्यस्य महाद्रेः संस्तम्भयिता निःशेषपीतोज्झितसिन्धुराजः अगस्त्यः अश्वमेधावभृथार्द्रमूर्तेः यस्य प्रीत्या सौस्नातिकः भवति।
विन्ध्यस्येति। विन्ध्यस्य नाम्नो महाद्रेः तपनमार्गनिरोधाय वर्धमानस्येति शेषः। संस्तम्भयिता निवारयिता। निःशेषं पीत उज्झितः पुनस्त्यक्तः। सिन्धुराजः समुद्रो येन सोऽगस्त्योऽश्वमेधस्यावभृथे दीक्षान्ते कर्मणि। 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः। आर्द्रमूर्तेः स्नातस्येत्यर्थः। यस्य पाण्ड्यस्य प्रीत्या स्नेहेन न तु दाक्षिण्येन सुस्नातं पृच्छतीति सौस्नातिकः भवति। * पृच्छतौ सुस्नातादिभ्यः * इत्युपसंख्यानाद्वुक्।
भाषार्थ—जब ये अश्वमेध यज्ञ के अन्त में अवभृथ स्नान कर लेते हैं तब वे अगस्त्य ऋषि आकर इनसे कुशल पूछते हैं जिन्होंने महापर्वत विन्ध्याचल को ऊपर बढ़ने से रोक दिया था और समुद्र को पीकर पुनः उगल दिया था॥६१॥
अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः ।
पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपतिः प्रतस्थे ॥ ६२ ॥
अन्वयः — पुरा जनस्थानविमर्दशङ्की दृप्तः लंकाधिपतिः दुरापं अस्त्रं हराद् आप्तवता येन इन्द्रलोकावजयाय प्रतस्थे।
अस्त्रमिति। पुरा पूर्वं जनस्थानस्य खरालयस्य विमर्दशङ्की दृप्त उद्धतो लङ्काधिपती रावणो दुरापं दुर्लभमस्त्रं ब्रह्मशिरोनामकं हरादाप्तवता येन पाण्ड्येन संधाय इन्द्रलोकावजयायेन्द्रलोकं जेतुं प्रतस्थे। इन्द्रविजयिनो रावणस्यापि विजेतेत्यर्थः।
भाषार्थ—जब महाप्रतापी रावण इन्द्र को जीतने के लिए चला तब उसने इनसे इस डरसे सन्धि कर लिया कि कहीं ऐसा न हो कि ये मेरे पीछे खरदूषण के निवास स्थान दण्डकारण्य को नष्ट भ्रष्ट कर दें क्योंकि इन्होंने भी शिवजी से ब्रह्मशिरा नाम का एक दुर्लभ अस्त्र प्राप्त किया है ॥ ६२ ॥
अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी ।
रत्नानुविद्धाणवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥ ६३ ॥
अन्वयः—महाकुलीनेन अनेन पाणौ विधिवद् गृहीते सती त्वं गुर्वी मही इव रत्नानुविद्धाणवमेखलायाः दक्षिणस्याः दिशः सपत्नी भव।
अनेनेति। महाकुलीनेन महाकुले जातेन। “महाकुलादञ्खञौ” इति खञ्प्रत्ययः। अनेन पाण्ड्येन त्वदीये पाणौ विधिवद्यथाशास्त्रं गृहीते सति गुर्वी
षष्ठः सर्ग १६५
षष्ठः सर्ग १६५
गुरुः । “वोतो गुणवचनात्” इति ङीष् । महीव रत्नेरनुविद्धो व्यासोऽर्णव एव मेखला यस्यास्तस्याः । इदं विशेषणं मह्यामिन्दुमत्यों च योज्यम् । दक्षिणस्याः दिशः सपत्नी भव । अनेन सपत्न्यन्तराभावो ध्वन्यते ।
भाषार्थ—उच्चकुल में उत्पन्न इस राजा के साथ विधिपूर्वक विवाह कर लेने पर तुम पृथ्वी के समान उस दक्षिण दिशा की सौत बन जाओगी जिसकी करधनी रत्नों से परिपूर्ण समुद्र ही है ॥६३॥
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालङ्गितचन्दनासु । तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ ६४ ॥
अन्वयः—ताम्बूलवल्लीपरिणद्धपूगासु एलालतालिङ्गितचन्दनासु तमालपत्रा- स्तरणासु मलयस्थलीषु शश्वत् रन्तुं त्वं प्रसीद ।
ताम्बूलेति । ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगाः क्रमुका यासु तासु ‘ताम्बूलवल्ली नागवल्लद्यपि’ इति ‘घोण्टा तु पूगः क्रमुकः’ इति चामरः । एलालताभिरालिङ्गिताश्चन्दना मलयजा यासु तासु । गन्धसारो मल- यजो भद्रश्रीश्चन्दनोऽस्त्रियाम्’ इत्यमरः । तमालस्य तापिच्छस्य पत्राण्येवास्तर- णानि यासु तासु । ‘कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि’ इत्यमरः । मलय- स्थलीषु । शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ।
भाषार्थ—यदि तुम मलय पर्वत की उन घाटियों में सर्वदा विहार करना चाहती हो तो इनसे विवाह कर लो वहाँ पर नागवल्ली लताओं से परिवेष्टित सुपारी के वृक्ष हैं एवं इलायची की लता से लिपटे हुए चन्दन के वृक्ष हैं और तमाल के पत्ते ही बिछौने हैं ॥ ६४ ॥
इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥ ६५ ॥
अन्वयः—असौ नृपः इन्दीवरश्यामतनुः त्वं रोचनागौरशरीरयष्टिः असि तडित्तोयदयोः इव वां योगः अन्योऽन्यशोभापरिवृद्धये अस्तु ।
इन्दीवरेति । असौ नृप इन्दीवरश्यामतनुः त्वं रोचना गोरोचनेव गोरी शरीरयष्टिर्यस्याः सा ततस्तडित्तोयदयोर्विद्युन्मेघयोरिव वां युवयोर्योगः समागमोऽ- न्योन्यशोभायाः परिवृद्धयेऽस्तु ।
भाषार्थ—ये राजा नोलकमल के समान श्यामवर्ण हैं तुम गं०रोचन जैसी गोरी हो । अतः यदि इनके साथ तुम्हारा विवाह हो जायेगा तो तुम ऐसी सुन्दरी लगोगी जैसे बादल के साथ बिजली सुन्दर लगती है ॥ ६५ ॥
१६६ रघुवंशमहाकाव्ये
स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः। दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे ॥ ६६ ॥
अन्वयः—विदर्भाधिपतेः स्वसुः चेतसि तदीयः उपदेशः दिवाकरादर्शनबद्ध- कोशे अरविन्दे नक्षत्रनाथांशुः इव अन्तरं न लेभे।
स्वसुरिति। विदर्भाधिपतेर्भोजस्य स्वसुरिन्दुमत्यश्चेतसि तदीयः सुनन्दा- सम्बन्ध्युपदेशो वाक्यं दिवाकरस्य दर्शनेन बद्धकोशे मुकुलितेऽरविन्दे नक्षत्रनाथां- शुश्चन्द्रकिरण इव अन्तरमवकाशं न लेभे।
भाषार्थः—जिस प्रकार सूर्य के न देखने से बन्द होने वाले कमल में चन्द्रमा की किरणों को स्थान नहीं मिलता है उसी प्रकार सुनन्दा का उपदेश विदर्भ नरेश भोज की बहन इन्दुमती के हृदय में स्थान नहीं प्राप्त कर सका ॥ ६६ ॥
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा। नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ६७ ॥
अन्वयः—पतिम्वरा सा रात्रौ सञ्चारिणी दीपशिखा इव यं यं व्यतीयाय सः सः भूमिपालः नरेन्द्रमार्गाट्टः इव विवर्णभावं प्रपेदे।
संचारिणीति। पतिंवरा सेन्दुमती रात्रौ सञ्चारिणी दीपशिखेव यं यं भूमि- पालं व्यतीयायातीत्य गता स स भूमिपालः। स सर्व इत्यर्थः। "नित्यवीप्सयोः' इति वीप्सायां द्विवंचनम्। नरेन्द्रमार्गे राजपथेऽट्टारूढ्यो गृहभेद इव। 'स्यादट्टः क्षोममस्त्रियाम्' इत्यमरः। विवर्णभावं विच्छायत्वम् अट्टस्तु तमोवृतत्वं प्रपेदे।
भाषार्थ—जिस तरह रात में आगे बढ़ने वाली दीपशिखा राजमार्ग में बने हुए जिस महल को पारकर जब आगे बढ़ जाती है तब वह महल अंधेरा व्याप्त हो जाने के कारण शोभारहित हो जाता है। उसी तरह पति को स्वयं वरण करने वाली वह इन्दुमती जिस-जिस राजा को छोड़कर आगे बढ़ती जाती थी वह राजा उदासीन होता जाता था ॥ ६७ ॥
तस्यां रघोः सूनुरुपस्थितायां वृणोत मां नेति समाकुलोऽभूत् । वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नु नोद ॥ ६८ ॥
अन्वयः—तस्यां उपस्थितायां सत्यां रघोः सूनुः माम् वृणीत न वा इति समा- कुलः अभूत् । अस्य वामेतरः बाहुः केयूरबन्धोच्छ्वसितैः संशयं नुनोद ।
तस्यामिति। तस्यामिन्दुमत्यमुपस्थितायामासन्नायां सत्यां रघोः सूनुरजौ मां वृणीत न वेति समाकुलः संशयितोऽभूत् । अथाजस्य वामेतरो वामादितरो
षष्ठः सर्गः १६७
दक्षिणो बाहुः केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानं तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ।
**भाषार्थ—**जब वह इन्दुमती रघु के पुत्र अज के पास आकर खड़ी हो गई तब उनका मन इसलिये व्याकुल हो उठा कि यह मुझे वरण करेगी या नहीं ? किन्तु उसी समय दक्षिण भुजा ने विजयमठ बांधने की जगह को फड़का कर उनके सन्देह को दूर कर दिया । शकुन शास्त्र के अनुसार दाहिनी भुजा फड़कने से स्त्री की प्राप्ति होती है अतः अब अज को सन्देह नहीं रहा ॥ ६८ ॥
तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।
नहि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदालीः ॥ ६६ ॥
**अन्वयः—**कुमारी सर्वावयवानवद्यं तं प्राप्य अन्योपगमात् व्यावर्तत हि षट्पदालीः प्रपुल्लं सहकारवृक्षम् एत्य वृक्षान्तरं नहि काङ्क्षति ।
तमिति। कुमारी सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य अन्योपगमाद्राजान्तरो पगमाद्वयावर्तत निवृत्ता । तथा–हि षट्पदालीः भृङ्गावलिः प्रफुल्लतीति प्रफुल्लं विकसितम् । पुष्पितमित्यर्थः । प्रपूर्वात्फुल्लतेः पचाद्यच् । फलतेस्तु प्रफुल्लमिति पठितव्यम् । "अनुपसर्गात् फुल्लक्षीवकृशांल्लाघा" इति निषेधात् इत्युभयथापि न कदाचिदनुपपत्तिरित्युक्तः प्राक् । सहकारं चूतावशेषमेत्य 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभ' इत्यमरः । वृक्षान्तरं न काङ्क्षति । नहि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः ।
**भाषार्थ—**जिस प्रकार पुष्पित आम के वृक्ष को पाकर भ्रमर की पंक्ति दूसरे वृक्ष की चाह नहीं करती, उसी प्रकार सर्वांग सुन्दर उस अज को पाकर वह इन्दुमती दूसरे राजा के पास जाने से रुक गई ॥ ६९ ॥
तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य ।
प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ॥ ७० ॥
**अन्वयः—**अनुक्रमज्ञासुनन्दा इन्दुप्रभां इन्दुमतीं तस्मिन् समावेशितचित्तवृत्तिं अवेक्ष्य सविस्तरं इदं वाक्यं वक्तु प्रचक्रमे ।
तस्मिन्निति। तस्मिन्नजे समावेशिता संक्रामिता चित्तवृत्तिर्यया ताम् इन्दोः प्रभेव प्रभा यस्यास्ताम् आह्लादकत्वादिन्दुसाम्यम् । इन्दुमतीमवेक्ष्यानुक्रमज्ञा वाक्यपौर्वापर्याभिज्ञा सुनन्देदं वक्ष्यमाणं सविस्तरं सप्रपञ्चम् । "प्रथने वावशब्दे" इति घञो निषेधात् "ऋदोरप्" इत्यप्प्रत्ययः । 'विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः' इत्यमरः । वाक्यं वक्तुं प्रचक्रमे ।
१६८ रघुवंशमहाकाव्ये
**भाषार्थ—**बोलने का क्रम जाननेवाली सुनन्दा चन्द्रमा की कान्ति के समान सुन्दर कान्तिवाली इन्दुमती को अज में अनुरक्त जानकर विस्तारपूर्वक बात बनाती हुई बोली ॥ ७० ॥
इक्ष्वाकुवंशयः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् ।
काकुत्स्यशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ॥ ७१ ॥
**अन्वयः—**इक्ष्वाकुवंशयः नृपाणां ककुदम् आहितलक्षणः ककुत्स्थः इति राजा अभूत्, यतः उन्नतेच्छाः उत्तरकोशलेन्द्राः श्लाघ्यं काकुत्स्यशब्दं, दधति ।
इक्ष्वाक्विति । इक्ष्वाकोर्मनुपुत्रस्य वंशयो वंशे भवः नृपाणां ककुदं श्रेष्ठः 'ककुच्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि' इति विश्वः। आहितलक्षणः प्रख्यातगुणः । 'गुणैः प्रतीते तु कृतलक्षणाहितलक्षणो' इत्यमरः । ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाऽभूत् । यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः। 'महेच्छस्तु महाशयः' इत्यमरः । उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाघ्यं प्रशस्तं ककुत्स्थस्यापत्यं पुमान्काकुत्स्य इति शब्दां संज्ञां दधति बिभ्रति । तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः । पुरा किल पुरञ्जयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदिक्ष्वाको राजा देवैः सह समयबन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिलमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभे इति पौराणिकी कथानुसंधेया । वक्ष्यते चायमेवार्थे उत्तरश्लोके ।
**भाषार्थ—**इक्ष्वाकु के वंश में उत्पन्न राजाओं में श्रेष्ठ प्रख्यातगुणशाली एक ककुत्स्थ नाम के राजा हो गये हैं जिनके कारण उत्तर कोशल के सभी राजा प्रसिद्धि की इच्छा से अपने को काकुत्स्थ कहते आये हैं ॥ ७१ ॥
महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥ ७२ ॥
**अन्वयः—**यः प्राप्तपिनाकिलीलः सन् महोक्षरूपं महेन्द्रम् आस्थाय संयति बाणैः असुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः चकार।
महेन्द्रमिति । यः ककुत्स्थः संयति युद्धे महानुक्षा महोक्षः । "अचतुर०" इत्यादिना निपातः । तस्य रूपमिव रूपं यस्य तं महेन्द्रमास्थायारुह्य अत एव प्राप्ता पिनाकिन ईश्वरस्य लीला येन स तथोक्तः सन्बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखा निवृत्तपत्ररचनाश्चकार । तद्भर्तॄनसुरानावधीदित्यर्थः । नहि विधवा प्रसाध्यन्त इति भावः ।
**भावार्थ—**जिस ककुत्स्थ राजा ने देवासुर संग्राम में बैल का रूप धारण किये
षष्ठः सर्गः १६६
हुए इन्द्र के ऊपर सवार होकर नन्दी पर चढ़े हुए शंकरजी की लीला को प्राप्त होकर अपने बाणों से असुरों का संहार कर दिया जिससे उनकी स्त्रियां विधवा होने के कारण अपने कपोलों पर पत्र रचना रूप शृङ्गार करना सदा के लिए छोड़ दिया ॥ ७२ ॥
ऐरावतास्फालनविशलथं यः संघट्टयन्नङ्गदमङ्गदेन । उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदोऽधितष्ठौ ॥ ७३ ॥
अन्वयः— यः ऐरावताऽऽस्फालनविशलथम् अङ्गदम् अङ्गदेन संघट्टयन् स्वाम् अग्र्यां मूर्तिम् उपेयुषः अपि गोत्रभिदः अर्धासनम् अधितष्ठौ ।
ऐरावतेति । यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमङ्गदेन स्वकीयेन संघट्टयन्·संघर्षयन्स्वामग्र्यां श्रेष्ठां मूर्त्तिमुपेयुषोऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनमर्धासनम् । "अर्धं नपुंसकम्" इति समासः । अधितष्ठावधितिष्ठवान् । "स्यादिष्वभ्यासेन चाभ्यासस्य" इत्यभ्यासेन व्यववायेऽपि षत्वम् । न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुक्षत् किन्तु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः । अथवा अर्धासनमपीत्यपेरन्वयः ।
भाषार्थं— जो ककुत्स्थ राजा संग्राम समाप्त हो जाने पर जब इन्द्र अपना असली रूप धारण करके ऐरावत पर सवार होकर स्वर्ग में जाकर सिंहासन पर बैठे, तब ऐरावत को बारबार हांकने से इन्द्र का जो विजावठ ढीला पड़ गया था उसे अपने विजावट से रगड़ता हुआ अपने ही श्रेष्ठ मूर्ति को प्राप्त किये हुए इन्द्र के आधे आसन पर बैठे ॥ ७३ ॥
जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः । अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥ ७४ ॥
अन्वयः— उरुकीर्तिः कुलप्रदीपः नृपतिः दिलीपः तस्य कुले जातः किल यः शक्राभ्यसूयाविनिवृत्तये एकोनशतक्रतुत्वे अतिष्ठत् ।
जात इति । उरुकीर्त्तिर्महायशाः कुलप्रदीपो वंशदीपको दिलीपो नृपतिस्तस्य ककुत्स्थस्य कुले जातः किल । यो दिलीपः शक्राभ्यसूयाविनिवृत्तये न त्वशक्त्येति भावः । एकेनोनाः शतं क्रतवो यस्य स एकोनशतक्रतुः तस्य भावे तत्त्वेऽतिष्ठत् । इन्द्रप्रीतये शततमं क्रतुमवशेषितवानित्यर्थः ।
भाषार्थ— उस ककुत्स्थ राजा के वंश में महायशस्वी कुलदीपक दिलीप नाम के राजा उत्पन्न हुए थे जो इन्द्र की डाह को दूर करने के लिए निन्यानवे अश्वमेध यज्ञ करके ही रुक गये सौवां यज्ञ पूर्ण नहीं किये ॥ ७४ ॥
२०० रघुवंशमहाकाव्ये
यस्मिन्महीं शासति वाणिनीनां निद्रां विहाराधंपथे गतानाम् ।
वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥ ७५ ॥
अन्वयः—यस्मिन् महीं शासति सति विहाराधंपथे निद्रां गतानां वाणिनीनाम् अंशुकानि वातः अपि न अस्रंसयत् आहरणाय हस्तं कः लम्बयेत् ।
यस्मिन्निति । यस्मिन्दिलीपे महीं शासति सति विहरत्यत्रेति विहार क्रीडा-स्थानम् तस्यार्धंपथे निद्रां गतानां - वाणिनीनां मत्ताङ्गनाताम् । 'वाणिनी नर्तकी मत्ताविदग्धवनितासु च" इति विश्वः । 'वाणिन्यो नर्तकीदूत्यो' इत्यमरश्च । अंशुकानि वस्त्राणि वातोऽपि नास्रंसयन्नाकम्पयत् आहरणायोपहर्तुं को हस्तं लम्बयेत् तस्याज्ञासिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः । अर्धञ्चासौ पन्थाश्चेति विग्रहः । समप्रविभागे प्रमाणाभावान्नै कदेशिसमासः ।
भावार्थ—जिस राजा दिलीप के शासन करते समय क्रीडा स्थान में मद पीकर सोई स्त्रियों के वस्त्रों को वायु भी नहीं छू सकता था तो फिर दूसरा कौन पुरुष उन्हें छूने के लिए हाथ बढ़ा सकता है ॥ ७५ ॥
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ।
चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥ ७६ ॥
अन्वयः—विश्वजितः महाक्रतोः प्रयोक्ता तस्य पुत्रः रघुः पदं प्रशास्ति यः चतुर्दिगावर्जितसम्भृतां विभूतिं मृत्पात्रशेषाम् अकरोत् ।
पुत्र इति । विश्वजितो नाम महाक्रतोः प्रयोक्ताऽनुष्ठाता तस्य दिलीपस्य पुत्रो रघुः पदं पैत्र्यमेव प्रशास्ति पालयति । यो रघुश्चतसृभ्यो दिग्भ्य आर्वाजिताऽऽहृता संभृता सम्यग्वर्धिता च या तां चतुर्दिगावर्जितसंभृतां विभूतिं सम्पदं मृत्पात्रमेव शेषो यस्यास्तामकरोत् । विश्वजिद्यागस्य सर्वस्वदक्षिणकत्वादित्यर्थः ।
भावार्थ—उन्हीं के पुत्र रघु उनके बाद राजा हुए हैं जिन्होंने चारों दिशाओं को जीतकर इकट्ठा किया हुआ अपार धनराशि विश्वजित नामक यज्ञ में ब्राह्मणों को दान देकर अपने पास केवल मिट्टी के पात्र को ही शेष रखा था ॥ ७६ ॥
आरूढमद्रीनुदधीन्वितीर्णं भुजङ्गमानां वसतिं प्रविष्टम्।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयाऽलम् ॥ ७७ ॥
अन्वयः—अद्रीन् आरूढम् उदधीन् वितीर्णं भुजङ्गमानां वसतिं प्रविष्टम् ऊर्ध्वं गतम् अनुबन्धि च यस्य यशः इयत्तया परिच्छेत्तुम् अलं न अस्ति ।
आरूढमिति—किं च अद्रीना रूढम् उदधीन्वितीर्णमवगाढम् सकलभूगोलव्यापक-
षष्ठः सर्गः २०१
षष्ठः सर्गः २०१
मित्यर्थः । भुजङ्गमानां वसतिं पातालं प्रविष्टम् ऊर्ध्वं स्वर्गादिकं गतं व्याप्तम् । इत्थं सर्वदिग्व्यापीत्यर्थः । अनुबध्नातीत्यनुबन्धि चाविच्छेदि कालत्रयव्यापकं चेत्यर्थः । अत एवैवंभूतं यस्य यश इयत्तया देशतः कालतो वा केनचिज्ज्ञानेन परिच्छेतुं परिमातुं नालं न शक्यम् ।
**भाषार्थ—**पर्वतों तक पहुँचा हुआ, समुद्रों के पार गया हुआ, नागलोक से भी व्याप्त हुआ, स्वर्गादिलोंकों में फैला हुआ और अविच्छन्न रूप से सर्वत्र व्याप्त जिस रघु के यश की कोई इयत्ता नहीं कर सकता है ॥ ७७ ॥
असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः । गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ॥ ७८ ॥
**अन्वयः—**असौ कुमारः अजः त्रिविष्टपस्य पतिं जयन्तः इव तम् अनुजातः दम्यः यः भुवनस्य गुर्वी धुरं धुर्येण पित्रा सदृशं बिभर्ति ।
असाविति । असावजाख्यः कुमारः त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव । ‘जयन्तः पाकशासनिर’ इत्यमरः । तं रघुमनुजातः तस्माज्जात इत्यर्थः । तज्जातोऽपि तदनुजातो भवति जन्यजनकयोरानन्तर्यात् । “गत्यर्थाकर्मकश्लिष-शीङ्स्थासवसज्जनरुहजीर्यतिभ्यश्च” इति क्तः । सोपसृष्टत्वात्सकर्मकत्वम् । आह चात्रैव सूत्रे वृत्तिकारः—“श्लिषादयः सोपसृष्टाः सकर्मका भवन्ति” इति । दम्यः शिक्षणीयावस्थः योऽजो गुर्वी भुवनस्य धुरं धुर्येण धुरंधरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिभर्ति । यथा कश्चिद्वत्सतरीऽपि धर्मेण महोक्षेण समं वहतीत्युपमालङ्कारो ध्वन्यते । ‘दम्यवत्सतरौ समौ’ इत्यमरः ।
**भाषार्थ—**ये कुमार अज स्वर्ग के स्वामी इन्द्र से जयन्त के समान उस महाराज रघु से उत्पन्न हुए हैं और ये भी अपने प्रतापी पिता के सामान राज्य का सब काम सम्भालते हैं ॥ ७८ ॥
कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः । त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥ ७९ ॥
**अन्वयः—**कुलेन कान्त्या नवेन वयसा विनयप्रधानैः तैस्तैः गुणैः आत्मनः तुल्यम् अमुं त्वं वृणीष्व, रत्नं काञ्चनेन समागच्छतु ।
कुलेनेति । कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व किं बहुना रत्नं काञ्चनेन समागच्छतु संगच्छताम् । प्रार्थनायां रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वायुवयोः समांगमः प्रार्थ्यंत इत्यर्थः ।
२०२ रघुवंशमहाकाव्ये
भाषार्थ—कुल से सौन्दर्य से नई युवावस्था से और विनय, दया, दाक्षिण्य, शील, शक्ति आदि सद्गुणों से ये तुम्हारे अनुरूप हैं इसलिये तुम इन्हें वरण करो जिससे सुवर्ण का रत्न के साथ मेल हो जाय । क्योंकि रत्न की शोभा उसके अनुरूप सुवर्ण से ही होती है दूसरे से नहीं ॥ ७९ ॥
ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ ८० ॥
अन्वयः—ततः सुनन्दावचनावसाने नरेन्द्रकन्या लज्जां तनूकृत्य प्रसादामलया दृष्ट्या संवरणस्रजा इव कुमारं प्रत्यग्रहीत् ।
तत इति । ततः सुनन्दावचनस्यावासानेऽन्ते नरेन्द्रकन्येन्दुमती लज्जां तनूकृत्य संकोच्य प्रसादेन मनः प्रसादेनामलया प्रसन्नया दृष्ट्या संवरणस्य स्रजा स्वयंवर-णार्थं स्रजेव कुमारमजं प्रत्यग्रहीत्स्वीचकार । सम्यक्सानुरागमपश्यदित्यर्थः ।
भाषार्थ—इस प्रकार सुनन्दा के कहने के बाद राजकुमारी इन्दुमती ने संकोच छोड़कर प्रेम भरी दृष्टि से देखकर अज को स्वीकार कर लिया, मानो वह दृष्टि ही स्वयंवर की माला हो ॥ ८० ॥
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् । रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः ॥ ८१ ॥
अन्वयः—सा यूनि तस्मिन् अभिलाषबन्धं शालीनतया वक्तुं न शशाक, तथापि अरालकेश्याः सः रोमाञ्चलक्ष्येण गात्रयष्टिं भित्त्वा निराक्रामत् ।
सेति । सा कुमारी यूनि तस्मिन्नजेऽभिलाषबन्धमनुरागग्रन्थि शालीनतयाऽधृष्टतया । 'स्यादधृष्टस्तु शालीनः' इत्यमरः । ''शालीनकौपीने अधृष्टाकार्ययोः'' इति निपातः । वक्तुं न शशाक तथाप्यरालकेश्याः सोऽभिलाषबन्धो रोमाञ्चलक्ष्येण पुलकव्याजेन । 'व्याजाऽपदेशो लक्ष्यं च' इत्यमरः । गात्रयष्टिं भित्त्वा निराक्रामत् सात्त्विकाविर्भावलिङ्गेन प्रकाशित इत्यर्थः ।
भाषार्थ—वह कुमारी इन्दुमती उस युवक अज विषयक अपने अनुराग को धृष्ट न होने के कारण वाणी से प्रगट तो नहीं कर सकी, पर घुँघराले बालवाली उस इन्दुमती के हृदय का वह अनुराग छिपाने पर भी नहीं छिप सका, रोमाञ्च के बहाने बाहर आ ही गया ॥ ८१ ॥
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे । आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥ ८२ ॥