अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
अतिलघूत्तरीयाणि लघूत्तरीयाणि च प्रश्नोत्तराणि ४४५
(५९) प्रश्न:—का दीर्घ विरहव्रतं विभर्ति ?
उत्तरम्—शकुन्तला दीर्घ विरहव्रतं विभर्ति ।
(६०) प्रश्न:—पार्थिवः कस्मै प्रवर्त्तताम् ?
उत्तरम्—पार्थिवः प्रकृतिहिताय प्रवर्त्तताम् ।
लघूत्तरीयाणि प्रश्नोत्तराणि
(१) प्रश्न:—कालिदासस्य कति ग्रन्थाः सन्ति ?
उत्तरम्—कालिदासस्याष्टौ ग्रन्थाः सन्ति, तद्यथा—
१. कुमारसम्भवमहाकाव्यम्, २. रघुवंश-महाकाव्यम्, ३. मेघदूतखण्डकाव्यम्, ४. ऋतुसंहारः, ५. शृङ्गारतिलकम्, त्रीणि नाटकानि, ६. अभिज्ञानशाकुन्तलम्, ७. मालविकाग्निमित्रम्, ८. विक्रमोर्वशीयञ्च ।
(२) प्रश्न:—कालिदासस्योपमाविषये किमप्येकमुदाहरणं लिख ?
उत्तरम्—कालिदासस्योपमाविषये उदाहरणमेकमवलोकयन्तु सुधयः—
सञ्चारिणी दीपशिखेव रात्रौ-
र्यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे
विवर्णभावं स स भूमिपालः ॥
(३) प्रश्न:—धीरोदात्तस्य लक्षणं किमस्ति ?
उत्तरम्—धीरोदात्तनायकस्य लक्षणमुक्तं साहित्यदर्पणे—
अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥
(४) प्रश्न:—नायकः कतिविधः भवति ?
उत्तरम्—नायकः चतुर्विधः भवति । यथोक्तं साहित्यदर्पणे—
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥
(५) प्रश्न:—नाटकस्य कि लक्षणम् ?
उत्तरम्—नाटकस्य लक्षणमुक्तं साहित्यदर्पणे—
नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिसमन्वितम् ।
(६) प्रश्न:—कति रूपकाणि भवन्ति ?
उत्तरम्—दशरूपकाणि सन्ति । तदुक्तं साहित्यदर्पणे—
नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः ।
ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥
(७) प्रश्न:—अभिज्ञानशाकुन्तलस्य व्युत्पत्तिर्लेख्या ?
उत्तरम्—अभिज्ञायतेऽनेन यत्तद् अभिज्ञानम्, शकुन्तैर्लालिता शकुन्तला, शकुन्तलामधिकृत्य कृतं काव्यं शाकुन्तलं, अभिज्ञानं च तत् शाकुन्तलम्, अभिज्ञान-शाकुन्तलमिति ।
४४६ | अभिज्ञानशाकुन्तलम्
(८) प्रश्नः—अभिज्ञानशाकुन्तले के मुनित्रयः ?
उत्तरम्—अभिज्ञान शाकुन्तले त्रयः मुनयः सन्ति—
१. कण्वः २. दुर्वासा, ३. मरीचिनन्दनः कश्यपश्च ।
(९) प्रश्नः—शार्ङ्गरवशारद्वतौ कौ ?
उत्तरम्—शार्ङ्गरवशारद्वतौ महर्षिकण्वस्य व्यवहारज्ञौ आज्ञाकारिणौ शिष्यौ स्तः।
(१०) प्रश्नः— अनसूयाप्रियंवदे के ?
उत्तरम्—अनसूयाप्रियंवदे शकुन्तलायाः प्रियसख्यौ।
(११) प्रश्नः—गौतमी कास्ति ?
उत्तरम्—गौतमी महर्षिकण्वस्य धर्मभगिनी।
(१२) प्रश्नः—सर्वदमनः कः ?
उत्तरम्—सर्वदमनः शकुन्तलायाः पुत्रः।
(१३) प्रश्नः—अभिज्ञानशाकुन्तले विदूषकस्य किं नामास्ति ?
उत्तरम्—अभिज्ञानशाकुन्तले विदूषकस्य नाम माधव्योऽस्ति।
(१४) प्रश्नः—का मिश्रकेशी ?
उत्तरम्—मिश्रकेशी मेनकायाः प्रियसखी एका अप्सरास्ति।
(१५) प्रश्नः—अदितिः का ?
उत्तरम्—अदितिः महर्षिकश्यपस्य धर्मपत्नी, देवानां माता, दक्षस्य कन्यास्ति।
(१६) प्रश्नः—अभिज्ञानशाकुन्तलस्य मङ्गलाचरणस्य श्लोकं लिखत ?
उत्तरम्—अभिज्ञानशाकुन्तले मङ्गलाचरणश्लोकमस्ति—
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणाः या स्थिता व्याप्य विश्वम्।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥
(१७) प्रश्नः—काभिः प्रत्यक्षाभिः तनुभिरष्टाभिः शङ्करः पातु ?
उत्तरम्—जल-वह्नि-यजमान-चन्द्र-सूर्य-गगन-धरणी-वायुरूपाभिरष्टाभिः प्रत्यक्षाभिस्तनुभिः शङ्करो वः पुनातु। यथोक्तम्—
भूमिरापोऽनलो वायुरात्मा व्योम रविशशी।
इत्यष्टौ सर्वलोकानां प्रत्यक्षा हरमूर्तयः॥
(१८) प्रश्नः—नान्द्याः किं लक्षणम् ?
उत्तरम्—नान्द्याः लक्षणमुक्तं साहित्यदर्पणे—
देवतादिनमस्कारमङ्गलारम्भपाठकैः।
या क्रिया नन्द्यते नाट्यारम्भे नान्दी तु सा स्मृता॥
(१९) प्रश्नः—सूत्रधारः कः भवति ?
उत्तरम्—सूत्रं = सूत्रं प्रयोगानुष्ठानं धारयतीति सूत्रधारः, यया नाटकीयसर्वपात्रप्रवर्तनाप्रयोजकं सर्वान्तःस्यूतं पुष्पमालामिव धारयतीति सूत्रधारः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अतिलघूत्तरीयाणि लघूत्तरीयाणि च प्रश्नोत्तराणि ४४७
तल्लक्षणमुक्तम्—
नाट्योपकरणादीनि सूत्रमित्यभिधीयते ।
सूत्रं धारयतीत्यर्थे सूत्रधारो निगद्यते ॥
(२०) प्रश्न:—किं नाम नेपथ्यम् ?
उत्तरम्— नेपथ्यं वेशविन्यासः, तदर्थं यद् गृहं तदपि नेपथ्यम् । यत्र नाटकीयपात्राणि स्ववेशविन्यासान् प्रकुर्वते तन्नेपथ्यमिति ।
(२१) प्रश्न:—प्रयोगविज्ञानं न साधु कुतः मन्यते ?
उत्तरम्— आपरितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
(२२) प्रश्न:—केषां आत्मन्यप्रत्ययं चेतः भवति ?
उत्तरम्— बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।
(२३) प्रश्न:—कथं तपोवनस्याभोगः ज्ञायते ?
उत्तरम्— सूतः दुष्यन्तं प्रति कथयति—इह हि क्वचित् तरूणां तलेषु शुक-गर्भकोटरमुखभ्रष्टाः मुनिधान्यकणाः विद्यन्ते । कुत्रापि इङ्गुदीफलभिदः प्रस्निग्धाः पाषाण-खण्डाः सूच्यन्ते । कस्मिंश्चिद्भागे विश्वासोपगमात् अभिन्नगतयः मृगाः रथशब्दं सहन्ते । क्वचित् प्रदेशे तोयाधारपथाः वल्कलाग्रपरिश्रुतजलाधाररेखाविभूषिताः दृश्यन्ते । तस्मादेभिर्लक्षणैरयमाश्रमस्यैवाभोग एवानुमीयते ।
(२४) प्रश्न:—कथं वनलताभिरुद्यानलता दूरीकृताः ?
उत्तरम्— राजा दुष्यन्तः मुनिकन्यकाः अवलोक्य कथयति—
इदं पुरो दृश्यमानं अन्तःपुरे दुर्लभं वपुःलावण्यं वा वनवासिनोऽपि जनस्य मुनिबालिकालोकस्य अस्ति तर्हि निश्चयेन वनलताभिः सौन्दर्यसौकुमार्यादिभिः गुणैः उद्यानलताः निराकृताः ।
(२५) प्रश्न:—ऋषिः कण्वः कथं शमीलतां छेत्तुं व्यवस्यति ?
उत्तरम्— राजा दुष्यन्तः वृक्षसेचनादौ तपोवनकर्तव्ये नियुक्तां दृष्ट्वा कथयति—
यः ऋषिः कण्वः पुरो दृश्यमानमव्याजमनोहरं शरीरं तपश्चरणयोग्यं सम्पादयितुं वाञ्छति, सः ऋषिः नूनं नीलोत्पलपत्रधारया कठिनां शमीवृक्षस्य शाखां छेतुं समीहते ।
(२६) प्रश्न:—‘किमिव हिः मधुराणां मण्डनं नाकृतीनाम्’ सूक्तिरियं व्याख्येया ?
उत्तरम्— राजा दुष्यन्तः वल्कलभृतां शकुन्तलामवलोक्य कथयति—
शैवलेनापि अनुविद्धं सरसिजं रम्यम्, मलिनमपि चिह्नं चन्द्रस्य शोभां विस्तारयति । यतः एषा पुरोदृश्यमाना कृशाङ्गी निसर्गसुन्दरी शकुन्तला वल्कलेन कामं मनोहारिणी अस्ति, कतमत् वस्तु कमनीयानामाकृतीनां मण्डनं न भवति, अपि तु सर्वमपि वस्तु रम्याणां सुषमा वर्द्धयत्येव नीलकण्ठस्य कण्ठे विषमिव, कलङ्केन चन्द्रस्येव, शैवलेन कमलस्येव, अनेन वृक्षत्वग्वस्त्रेण अस्याः शकुन्तलायाः शोभैवेत्याशयः ।
(२७) प्रश्न:—मधुकरः कथं कृती ?
उत्तरम्— राजा दुष्यन्तः कथयति—
४४८ | अभिज्ञानशाकुन्तलम्
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करं व्याधुन्वन्त्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥
(२८) प्रश्नः—वसुधातलात् किं न उदेति ? उत्तरम्—प्रभाभिः तरलं ज्योतिः वसुधातलात् न उदेति ।
(२९) प्रश्नः—प्रस्तावनायाः किं लक्षणम् ? उत्तरम्—प्रस्तावनायाः लक्षणमुक्तं साहित्यदर्पणे—
नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥
(३०) प्रश्नः—अकृतार्थेऽपि मनसिजे का रतिं कुरुते ? उत्तरम्—राजा दुष्यन्तो विरहेणोद्विग्नमना शकुन्तलां मनसा स्मरन् विमृशति— यथेच्छं शकुन्तला सुखप्राप्या न, तस्या प्रदानस्य गुर्वधीनत्वात्, तु मे मनः शकुन्तलायाः मय्यनुरागसूचकानां भावानां दर्शनेन आश्वासयुक्तं वर्तते । मनसिजे अचरितार्थेऽपि स्त्रीपुरुषयोः प्रार्थना रतिं प्रीतिं कुरुते सुखं जनयति । नायिका-समागमसुखालाभेऽपि तच्चेष्टादिभिरेव मनो मे मोदते ।
(३१) प्रश्नः—सेनापतिः मृगयाया गुणान् कथं वर्णयति ? उत्तरम्—
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदं कुतः ॥
अनेन प्रकारेण सेनापतिः मृगयायाः गुणान् वर्णयति ।
(३२) प्रश्नः—शकुन्तलायाः लाभे सन्दिहानो राजा किं चिन्तयति ? उत्तरम्—शकुन्तलायाः लोकोत्तरं लावण्यं सञ्चिन्त्य तल्लाभे सन्दिहानो राजा दुष्यन्तो नर्मसचिवं विदूषकं प्रति कथयति—
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- रनाविद्धं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥
(३३) प्रश्नः—सुरयुवतयः कुत्र विजयम् आशंसन्ते ? उत्तरम्—दैत्यैः बद्धवैराः सुरयुवतयः दुष्यन्तस्य अधिज्ये धनुषि पौरुहूते वज्रे च विजयं आशंसन्ते ।
(३४) प्रश्नः—'परिहासविजल्पितं सखे' इति राजा कथं कथयति ?
अतिलघूत्तरीयाणि लघूत्तरीयाणि च प्रश्नोत्तराणि । ४४९
उत्तरम्—शकुन्तलाविषयकमनुरागं प्रच्छादयन् तस्याः स्वाभिलाषानर्हत्वं च समर्थन् राजा दुष्यन्तो विदूषकं ब्रूते—
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥
(३५) प्रश्नः—विष्कम्भकस्य किं लक्षणम् ?
उत्तरम्—
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः।
सङ्क्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥
(३६) प्रश्नः—राजा दुष्यन्तः कथं विघ्नानपोहति ?
उत्तरम्—राजा दुष्यन्तः धनुषः हुङ्कारेणेव विघ्नानपोहति ।
(३७) प्रश्नः—कः कुसुमवाणान् वज्रसारीकरोति ?
उत्तरम्—मदनः कुसुमवाणान् वज्रसारीकरोति ।
(३८) प्रश्नः—शकुन्तलायाः अस्वास्थ्यं ग्रीष्ममूलकं काममूलकं वेति कथं विचारयति राजा दुष्यन्तः ?
उत्तरम्—मालिनीतीरवर्तिनि लतामण्डपे कुसुमशयने शयानां सखीभ्यां वीज्यमानामस्वस्थशरीरां शकुन्तलामवलोक्य तदस्वास्थ्यं ग्रीष्ममूलकं काममूलकं वेति विकल्पयन् राजा दुष्यन्तो विचारयति—
स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम्।
समस्तापः कामं मनसिजनिदाघप्रसरयो-
र्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु ॥
(३९) प्रश्नः—'श्रिया दुरापः कथमीप्सितो भवेत्' सूक्तिरियं पूरणीया ?
उत्तरम्—शकुन्तलाद्वारा कृतामात्मनोऽवधीरणामाशङ्कमानो राजा दुष्यन्तः तां परिहरन्नभिधत्ते—
अयं स ते तिष्ठति सङ्गमोत्सुकः
विशङ्कसे भीरु यतोऽवधीरणाम्।
लभेत् वा प्रार्थयिता न वा श्रियं
श्रिया दुरापः कथमीप्सितो भवेत् ॥
(४०) प्रश्नः—शकुन्तला पत्रे किं लिखित्वा वाचयति ?
उत्तरम्—शकुन्तला पत्रे लिखित्वा वाचयति—
तव न जाने हृदयं मम पुनः कामो दिवापि रात्रावपि ।
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥
(४१) प्रश्नः—दुष्यन्तस्य के द्वे प्रतिष्ठे ?
उत्तरम्—राजा दुष्यन्तः कथयति—
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।
समुद्रवसना चोर्वी सखी च युवयोरियम् ॥
४५० | अभिज्ञानशाकुन्तलम्
(४२) प्रश्नः—गान्धर्वेण विवाहेन परिणीताः काः अभिनन्दिता ?
उत्तरम्—गान्धर्वेण विवाहेन बहव्यो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥
यतो हि क्षत्रियस्य गान्धर्वो विवाहः श्रेष्ठः उच्यते ।
(४३) प्रश्नः—चक्रवाकवधूः आमन्त्रयस्व सहचरमित्यनेन का सूचना ?
उत्तरम्—लतामण्डपदिशा गौतम्याः प्रवेशमालोक्य शकुन्तलाबोधनाय प्रकृतमर्थं सङ्गोप्य सख्योः प्रियंवदाऽनसूपयोः वचनमिदं नेपथ्यात् । अमुनाऽप्राकृतेन च हे शकुन्तले ! स्वप्रियं दुष्यन्तम् आमन्त्रयस्व = आपृच्छस्वगोपाय, उपस्थिता तत्र भवती गौतमी । रात्रिर्हि चक्रवाकमिथुनस्य वियोगकारिणी राजन्यपगते चक्रवाकयोरिव गौतमीगमने पुनरपि युवयोः समागमो भविष्यति । अतोऽत्यन्तं विषादो मा विधेय इति सूच्यते ।
(४४) प्रश्नः—कीदृश्यः बहुधा छायाः चरन्ति ?
उत्तरम्—भयमादधानाः सन्ध्यापयोदकपिशाः पिशिताशनानां राक्षसानां छायाः बहुधाः चरन्ति ।
(४५) प्रश्नः—'कथा प्रमत्तः प्रथमं कृतामिव' इति सम्पूर्णं पद्यं लिखत ?
उत्तरम्—शकुन्तलायै शापवचनं नेपथ्यात्—
विचिन्तयन्ती यमनन्यमानसा
तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन्
कथां प्रमत्तः प्रथमं कृतामिव ॥
(४६) प्रश्नः—को नाम उष्णोदकेन नवमालिका सिञ्चति इत्यस्य भावार्थो लेख्यः ?
उत्तरम्—शकुन्तलायाः शापवचननिवेदनं सर्वथानुचितमिति दृष्टान्तमुखेन प्रियंवदा कथयति—
कः जनो नाम तप्तजलेन नवमालतीलतां सिञ्चिति, यथा तप्तजलेन नवमालिका-सिञ्चनमपराद्धं तथा शकुन्तलायै शापवचनकथनं अपराधपूर्णमस्ति ।
(४७) प्रश्नः—'लोको नियम्यत इवात्मदशान्तरेषु' इति सम्पूर्णं पद्यं लिखत?
उत्तरम्—यात्येकतोऽस्तशिखरं पतिरोषधीना-
माविष्कृतोऽरुणपुरःसर एकतोऽर्कः ।
तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां
लोको नियम्यत इवात्मदशान्तरेषु ॥
(४८) प्रश्नः—केन सूचितस्तातकण्वस्य शकुन्तलावृत्तान्तः ?
उत्तरम्—अग्निशरणं प्रविष्टस्य तातकण्वस्य शरीरं विना छन्दोमम्य्या वाण्या शकुन्तलावृत्तान्तः सूचितः ।
(४९) प्रश्नः—छन्दोमम्य्यां वाण्या शकुन्तलाविषये किं सूचितम् ?
उत्तरम्—अग्निशरणं प्रविष्टस्य तातकण्वस्य शरीरं विना छन्दोमम्य्या वाण्या
अतिलघूत्तरीयाणि लघूत्तरीयाणि च प्रश्नोत्तराणि
४५१
सूचितम्, यत्—
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव॥
(५०) प्रश्नः—शकुन्तलाहेतोर्वनस्पतिभिः कानि पदार्थानि दत्तानि ?
**उत्तरम्—**शकुन्तलाहेतोर्वनस्पतिभिः आभरणानि दत्तानि। अथ च—
क्षौमं केनचिदिन्दुपाण्डुतरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित्।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः॥
(५१) प्रश्नः—यास्यत्यद्य शकुन्तलेति सम्पूर्णं पद्यं लिखत ?
उत्तरम्—
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठस्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम्।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः॥
(५२) प्रश्नः—वन्दमानां शकुन्तलां कण्वः कः आर्शीवादः ददाति ?
**उत्तरम्—**वन्दमानां शकुन्तलां कण्वः तदनुरूपं स्नेहातिशयव्यञ्जकमाशीर्वचनं कथयति, यत्—
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव।
सुतं त्वमपि सम्राजं सेव पुरमवाप्नुहि॥
(५३) प्रश्नः—कीदृशी शकुन्तला पतिगृहं याति ?
उत्तरम्—
पातुं न प्रथमं व्यवस्यति जलं युष्माष्वपितेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम्।
आद्ये वः कुसुमप्रवृत्तिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्॥
(५४) प्रश्नः—शकुन्तलायाः पन्थाः कीदृशः भवतु ?
**उत्तरम्—**शकुन्तलायाः पन्थाः शान्तानुकूलपवनः शिवश्च भवतु।
(५५) प्रश्नः—कीदृशः मृगः शकुन्तलायाः पदवीं न जहाति ?
**उत्तरम्—**पतिगेहं प्रस्थितायाः शकुन्तलाया वसनाञ्चलं गृहीत्वाऽऽकर्षयन्तं मृगशिशुमवलोक्य महर्षिः कण्वः कथयति—
यस्य त्वया व्रणविरोपणमिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविद्धे।
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते॥
(५६) प्रश्नः—महर्षि कण्वः दुष्यन्ताय किं सन्देशं कथयति ?
**उत्तरम्—**राज्ञे दुष्यन्ताय सन्देष्टव्यमर्थं विवृण्वन् महर्षिः कण्वः कथयति—
४५२
अभिज्ञानशाकुन्तलम्
अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्याधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते ॥
(५७) प्रश्नः—वनौकषोऽपि सन्तो लौकिकज्ञा वयमिति सूक्तेराशयः लेख्यः ?
उत्तरम्— महर्षिकण्वः शकुन्तलायै अपि पतिगृहे प्रवर्तनप्रकारमुपदेष्टुमारभते— वत्से त्वमिदानीमनुशासनीयासि । वनवासिनोऽपि अपरिचितनागरिकलोका अपि वर्तमानाः वयं लोकव्यवहाराभिज्ञाः । गृहस्थलोकवृत्तज्ञाः लोकाचारपाटवाः स्मः । अतो लोकाचारं त्वां शिक्षयामः ।
(५८) प्रश्नः—कण्वः शकुन्तलां पतिगृहं प्राप्य किं कर्तुं शिक्षयति ?
उत्तरम्— कण्वः शकुन्तलां पतिगृहं प्राप्य वर्तनप्रकारं शिक्षयति, यत्—
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भोग्येष्वनुत्सेकिनी ।
यान्त्येवं गृहिणीपदं युवतयो वामा कुलस्याधयः ॥
(५९) प्रश्नः—भूत्वा चिराय सदिगन्तेति सम्पूर्णं पद्य लिखत ?
उत्तरम्—
भूत्वा चिराय सदिगन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं प्रसूय ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं
शान्त्यै करिष्यसि पदं पुनराश्रमेऽस्मिन् ।
(६०) प्रश्नः—अर्थो हि कन्या परकीय एवेति श्लोकं सम्पूर्णं लिखत ?
उत्तरम्—
अर्थो हि कन्या परकीय एव
तामद्य सम्प्रेष्य परिग्रहीतुः ।
जातोऽस्मि सद्यो विशदान्तरात्मा
चिरस्य निक्षेपमिवार्पयित्वा ॥
(६१) प्रश्नः—स्त्रीणामशिक्षितपटुत्वममानुषीषु इति सम्पूर्णं पद्यं लिखत ।
उत्तरम्—
स्त्रीणामशिक्षितपटुत्वममानुषीषु
संदृश्यते किमुत या प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात् स्वमपत्यजातं
मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥
(६२) प्रश्नः—उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी सूक्तिरियं साधु व्याख्येया ?
उत्तरम्— शारद्वतो हि राज्ञा साकं विवादोऽनुचित इति मत्वा ततो विवादात् शार्ङ्गरवं विरम्य्य निजकर्तव्यमुपदिशन् कथयति—हे राजन् वादविवादेन किमपि प्रयोजनं न सेत्स्यति, निःसंशयमियं भवतो दारा अस्माकं गुरुणा भवता कण्वेन तव समीपे प्रहिता, यद्येनां त्यक्तुमिच्छसि तर्हि त्यज्यतां धर्मपत्नीत्वेन ग्रहणमनुमन्यसे चेत् गृहाण धर्मपत्नीषु सर्वथा भर्तुरिव स्वातन्त्र्यमस्तीति प्रसिद्धमेव । तस्मात् यथेच्छं कार्यम् ।
अतिलघूत्तरीयाणि लघूत्तरीयाणि च प्रश्नोत्तराणि
४५३
(६३) प्रश्नः—प्रवेशकस्य किं लक्षणम् ?
उत्तरम्—विश्वनाथेन साहित्यदर्पणे प्रवेशकस्य लक्षणं लिखितम्—
प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः ।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥
(६४) प्रश्नः—अङ्कावतारस्य किं लक्षणम् ?
उत्तरम्—अङ्कावतारस्य लक्षणमुक्तं साहित्यदर्पणे—
अङ्कान्ते सूचितः पात्रैः तदङ्कस्याविभागतः ।
यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः ॥
(६५) प्रश्नः—शकुन्तलाया अङ्गुलीयकं कुत्र प्रभ्रष्टम् ?
उत्तरम्—शकुन्तलायाः अङ्गुलीयकं शक्रावताराभ्यन्तरे शचीतीर्थसलिले प्रभ्रष्टम्
(६६) प्रश्नः—कतमस्मिन् प्रदेशे मारीचाश्रमः ?
उत्तरम्—मातलिहस्तेन दर्शयन् राजानं दुष्यन्तं ब्रवीति—
वल्मीकाग्रनिमग्नमूर्तिरुरसा सन्दष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलये नात्यर्थसम्पीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥
(६७) प्रश्नः—कीदृशी शकुन्तला विरहव्रतं बिभर्ति ?
उत्तरम्—
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥
(६८) प्रश्नः—'स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया' सूक्तिरियं श्लोकेन पूरणीयम् ?
उत्तरम्—नृपो दुष्यन्तः प्रियां शकुन्तलाममुनयन् कथयति—
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्राया शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥
(६९) प्रश्नः—मारीचः शकुन्तलां का आशीः ददाति ?
उत्तरम्—पतिपुत्राभ्यां सह प्रणमन्तीं शकुन्तलां शुभाशीः प्रयच्छन् महर्षिः कश्यपः (मारीचः) कथयति—
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥
(७०) प्रश्नः—दुष्यन्तः किं त्रितयं समागतम् ?
उत्तरम्—मारीचः दुष्यन्तमभिनन्दन् कथयति—
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥
४५४ | अभिज्ञानशाकुन्तलम्
(७१) प्रश्नः—अभिज्ञानशाकुन्तलस्य भरतवाक्यं लिखत ?
उत्तरम्—
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतिमहतां महीयताम्।
ममापि च क्षयमतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः॥
(७२) प्रश्नः—भरतवाक्येन किं वाञ्छति कविः ?
**उत्तरम्—**समस्ताः पृथ्वीपतयः स्वसुखनिरपेक्षाः सन्तः प्रजानामेव श्रेयसे सर्वदा प्रवर्तन्ताम्, महाकवीनां सरसाः कविताश्च सहृदयानां हृदयेषु चमत्कारं जनयित्वा विशिष्टसम्मानं लभन्ताम्, सर्वशक्तिशाली पार्वतीपतिः परमेश्वरश्च जन्मान्तरं निरस्य शाश्वतं पदं दिशत्विति शम्।
Vidya Sagar 9697176202 9419266702
अन्य महत्त्वपूर्ण प्रकाशन
- अभिज्ञानशाकुन्तलम्। 'विमला' 'चन्द्रकला'-संस्कृत-हिन्दीव्याख्या। कृष्णमणि त्रिपाठी
- उत्तररामचरितम्। 'रमा' संस्कृत-हिन्दी व्याख्या सहित। रमाकान्त त्रिपाठी
- कालिदास-ग्रन्थावली। हिन्दी टीका सहित। रामतेज पाण्डेय एवं ब्रह्मानन्द त्रिपाठी
- किरातार्जुनीयम्। मल्लिनाथ कृत संस्कृतटीका एवं हिन्दीटीका। बद्रीनारायण मिश्र
- कुमारसम्भव्। मल्लिनाथ कृत 'सञ्जीवनी'-प्रकाश हिन्दी व्याख्या। प्रद्युम्न पाण्डेय
- मेघदूतम्। सान्वय 'चन्द्रकला' संस्कृत-हिन्दी टीका सहित। श्रीशेषराजशर्मा रेग्मी
- मालविकाग्निमित्रम्। संस्कृत-हिन्दी व्याख्या। रामशङ्कर पाण्डेय
- मृच्छकटिकम्। 'विमला' संस्कृत-हिन्दी व्याख्या। जगदीशचन्द्र मिश्र
- रघुवंशमहाकाव्यम्। 'संजीवनी' संस्कृत-'चन्द्रकला' हिन्दीव्याख्या। कृष्णमणि त्रिपाठी
- विक्रमोर्वशीयम्। 'सुधा' संस्कृत-हिन्दी व्याख्या सहित। परमेश्वरदीन पाण्डेय
- शिशुपालवधम्। मल्लिनाथकृत संस्कृत-मणिप्रभा हिन्दीव्याख्या सहित। हरगोविन्दशास्त्री
- ऋतुसंहारम्। संस्कृत-हिन्दी टीका सहित। डॉ॰ शिवप्रसाद द्विवेदी
नवीन प्रकाशन
लघुसिद्धान्तकौमुदी
'श्रीधरमुखोल्लासिनी' विस्तृत हिन्दीव्याख्या, विशेष स्पष्टीकरण एवं सम्पूर्ण रूपसिद्धि सहित
हिन्दीव्याख्याकार
गोविन्द प्रसाद शर्मा ( गोविन्दाचार्य )
चौखम्बा सुरभारती प्रकाशन, वाराणसी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA