आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
द्वितीयः खण्डः] अनाविलोपेतम् । १४१
द्वितीयः खण्डः] अनाविलोपेतम् । १४१
ध्यायम् । स्वाध्यायविधिरित्युपक्रम्यापि पुनः स्वाध्यायग्रहण- मोङ्कारव्याहृतिसावित्रीणामपि स्वाध्यायेऽनुप्रवेशार्थम् ॥ २ ॥
ओंपूर्वा व्याहृतयः ॥ ३ ॥
प्रथमं तावदोङ्कारपूर्विका व्याहृतयो वक्तव्याः ॥ ३ ॥
सावित्रीमन्वाह पच्छोऽर्धर्चशः सर्वामिति तृतीयम् ॥ ४ ॥
पश्चात् सवित्रीमन्वाह, कथं, प्रथमं पच्छः द्वितीय- मर्धर्चशः तृतीयं सर्वामिति । तृतीयग्रहणं पच्छो वार्धर्चशो वा सर्वां वेति विकल्पसंशयनिवृत्त्यर्थम् ॥ ४ ॥
अथ स्वाध्यायमधीयीत ॥ ५ ॥
पुनः स्वाध्यायग्रहणं वक्ष्यमाणो विशेषो वक्ष्यमा- णस्य स्वाध्यायस्यैव यथा स्यादिति । कः पुनरसौ । 'स या- वन्मन्येत तावदधीत्ये'ति । किं सिद्धं भवति । प्रणवव्या- हृतिसावित्र्यात्मकस्य वोक्तस्य स्वाध्यायस्य नित्यत्वं सिद्धं भवति ॥ ५ ॥
स्वाध्यायमाह —
ऋचो यजूंषि सामान्यथर्वाङ्गिरसो ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीति ॥ ६ ॥
कल्पशब्देन सूत्राण्युच्यन्ते । कथं पुनर्नित्ये स्वाध्या- याध्ययने अनित्यानां सूत्राणां विधानमुपपद्यते, तदाकृते-
१४२ आश्वलायनगृह्यसूत्रम् [द्वितीयोऽध्यायः
नित्यत्वात् । यथा पशोरनित्यस्य नित्ये ब्राह्मणवाक्ये दर्शनं तद्वत् । एतेन इतिहासपुराणानि व्याख्यातानि । गाथाः ‘तदे-षाभियज्ञगाथा गीयते’ इत्याद्युदाहृताः । नाराशंसीः नराशं-सदेवत्याः ‘नराशंसमिह प्रियमि’त्याद्या ऋचः । आसां पृथग् ग्रहणं फलविशेषविधानार्थम् । इतिहासो महाभारतम् । पुराणं वायुप्रोक्तादि ॥ ६ ॥
ऋगादीनामध्ययने फलविशेषमाह —
यदृचोऽधीते पयआहुतिभिरेव तद्देवतास्तर्पयति, यद्यजूंषि घृताहुतिभिः, यत्सामानि मध्वाहुतिभिः, यद-थर्वाङ्गिरसः सोमाहुतिभिः, यद् ब्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृताहुतिभिः ॥ ७ ॥
यथा पयःप्रभृतीनामाहुतिभिर्देवतास्तृप्यन्ति एवमृ-गादीनामध्ययनेनेत्युक्तं भवति । द्वितीयादिषु यद्यजूंषीत्या-दिष्वेवेत्यादेरनुषङ्गः ॥ ७ ॥
न केवलं देवतास्तर्पयति, पितॄनपीत्याह—
यदृचोऽधीते पयसः कुल्या अस्य पितॄन् स्वधो-पक्षिरन्ति, यद्यजूंषि घृतस्य कुल्याः, यत्सामानि मध्वः कुल्याः, यदथर्वाङ्गिरसः सोमस्य कुल्याः, यद् ब्राह्म-णानि कल्पान् गाथा नाराशंसीरितिहासपुराणानीत्यमृ-तस्य कुल्याः ॥ ८ ॥
कुल्याः क्षुद्रनद्यः । ऋगादीनामध्ययने पयःप्रभृ-तीनां कुल्या अस्याध्येतुः पितॄन् स्वधा भूत्वोपक्षरन्ति उप-
१. ‘त् पशुवत् । य’ व. पाठः.
२. ‘पो’ ग. पाठः.
तृतीयः खण्डः] अनाविलोपेथम् । १४३
तृतीयः खण्डः] अनाविलोपेथम् । १४३
तिष्ठन्ते । स्वधेति पितॄणामन्ननाम । अस्य पितॄन्नित्यादेश्च द्वितीयादिष्वनुषङ्गः ॥ ८ ॥
ऋगादीनां समस्तानामध्ययने प्राप्ते विशेषमाह —
स यावन्मन्येत तावदधीत्यैतया परिदधीत ॥ ९ ॥
स यावदध्येतुं शक्यं मन्यते देशकालावस्थानां तावदधीत्य एतया वक्ष्यमाणयर्चा परिदधीत समापयेत् । परिदधीतेति वचनं परिधानीयाधर्मस्य त्रिरभ्यासस्य प्राप्त्यर्थम् ॥ ९ ॥
तामृचमाह —
नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यो नमो वाचे नमो वाचस्पतये नमो विष्णवे महते करोमीति ॥ १० ॥
इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ तृतीयाध्याये द्वितीयः खण्डः ।
अथ तृतीयः खण्डः ।
देवतास्तर्पयति ॥ १ ॥
प्रीणयति । केन, उदकेन तर्पणस्य तथा प्रसिद्धत्वात् । अप^आप्लुत्येति च प्रकरणात् । तच्चाञ्जलिना कर्तव्यम् । जलाञ्जलिरिति हि तर्पणं प्रसिद्धम् । अन्ये त्वनादेशाद्दक्षिणेन पाणिना कुर्वन्ति । अपरे तु सव्योपगृहीतेन दक्षिणेन ॥ १ ॥
१. 'नं' ग. घ. पाठः.
१४४ आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः
प्रजापतिर्ब्रह्मा वेदा देवा ऋषयः सर्वाणि चच्छन्दांस्योङ्कारो वषट्कारो व्याहृतयः सावित्री यज्ञा द्यावापृथिवी अहोरात्राणि सांख्याः सिद्धाः समुद्रा नद्यो गिरयः क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसो नागा गावो वयांसि विप्रा यक्षा रक्षांसि भूतान्येवमन्तानि ॥ २ ॥
प्रजापतिस्तृप्यत्विति प्रथमो मन्त्रः । एवमुत्तरेषु तृप्यत्विति सर्वत्रानुषङ्गः, द्विवचनान्ते तृप्यतामिति, बहुवचनान्ते तृप्यन्त्विति । एकः समास एको मन्त्रः । भूतान्येवमन्तानीति नायं मन्त्रः, किं तर्हि आदित आरभ्य रक्षांसीत्येवमन्तानि भूतानीत्यर्थः । एवं हि ‘अथर्षय’ इति सङ्गतं भवति । अन्ये तु भूतानि तृप्यन्तु एवमन्तानि तृप्यन्त्विति मन्त्रावेव कृत्वा तर्पयन्ति । एतेषां प्राजापत्येन तीर्थेन तर्पणम् ॥ २ ॥
अथर्षयः ॥ ३ ॥
तर्पयितव्या वक्ष्यन्त इति शेषः ॥ ३ ॥
शतर्चिनो माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिर्भरद्वाजो वसिष्ठः प्रगाथाः पावमान्यः क्षुद्रसूक्ता महासूक्ता इति ॥ ४ ॥
अत्र इतिशब्द ऋषीणामवसानप्रदर्शनार्थः । एतेषां दैवेन तीर्थेन तर्पणम् । केचिन्निवीतमपि कुर्वन्ति, अपरे न, वचनाभावात् । प्राचीनावीतीति वक्ष्यमाणशेषः ॥ ४ ॥
१. 'ति समासेषु च ए', २. 'न्ते', ३. 'षः तस्मात् पूर्वं विशिष्टम् । प्रा' घ. पाठः
तृतीयः खण्डः ] अनाविलेापेतम् । १४५
तृतीयः खण्डः ] अनाविलेापेतम् । १४५
प्राचीनावीती सुमन्तुजैमिनिवैशम्पायनपैलसूत्र- भाष्यमहाभारतधर्माचार्या जानन्तिबाहाविगार्ग्यगौतम- शाकल्यवाभ्रव्यमाण्डव्यमाण्डूकेया गार्गीवाचक्नवी ब- डबाप्रातिथेयी सुलभा मैत्रेयी कहोलं कौषीतकं महा- कौषीतकं भरद्वाजं पैङ्ग्यं महापैङ्ग्यं सुयज्ञं शाङ्खाय- नमैतरेयं महैतरेयं बाष्कलं शाकलं गार्ग्यं सुजातवक्त्रम् औद्वाहिं सौजाभिं शौनकमाश्वलायनं ये चान्ये आ- चार्यास्ते सर्वे$^१$ तृप्यन्तु ॥ ५ ॥
सुमन्तुप्रभृतीनामपि पितृष्वेवान्तर्भावः प्राचीनावीत- दर्शनात् । कल्पान्तरेष्वपि वैशम्पायनप्रभृतीनामेव तर्पणं विहितम् । गर्गवाचक्नवीति प्रसिद्धः पाठः । कहोलमित्यादिषु द्वितीयानिर्दिष्टेषु तर्पयामीति भवति । कहोलं तर्पयामीति । ये चान्ये इत्यादिरेको मन्त्रः ॥ ५ ॥
प्रतिपुरुषं पितॄंस्तर्पयित्वा गृहानेत्य यद्ददाति सा दक्षिणा ॥ ६ ॥
मातॄणां मातामहादीनां मातामह्यादीनां च तर्पणमि- च्छन्ति । तत्र विप्रतिपत्तिः । केचित् पित्रादीनां नाम्ना त- र्पणमिच्छन्ति देवदत्तं यज्ञदत्तं विष्णुमित्रमिति । एवं मा- त्रादीनामपि। प्रसिद्धस्त्वाचारः पितरं तर्पयामीत्यादि, एवं पि- तामहं प्रपितामहं मातरं पितामहीं प्रपितामहीम् इति । एवं मातामहवर्गेऽपि । एतेषां पितृतीर्थेन तर्पणम् । अत्र याज्ञ- वल्क्यः —
१. 'र्वे यु' ख. ग. घ. पाठः.
१४१ | आश्वलायनगृह्यसूत्रम् | [तृतीयोऽध्यायः
“कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य तु । प्रजापतिपितृब्रह्मदेवतीर्थान्यनु क्रमात् ॥”
इति । एवं तर्पयित्वा गृहानेत्य वैश्वदेवान्ते अतिथिभ्यो यद् ददाति सा दक्षिणा ॥ ६ ॥
ब्रह्मयज्ञस्य पूर्वोक्तनियमासम्भवेऽप्यवश्यं कर्तव्यो ब्रह्मयज्ञो यथाकथञ्चिदित्याह --
अथापि विज्ञायते स यदि तिष्ठन्नासीनः शयानो वा यं यं क्रतुमधीते तेन तेन हास्य क्रतुनेष्टं भवतीति¹ ॥ ७ ॥
यस्य यस्य क्रतोः सम्बन्धिनं ब्राह्मणभागं मन्त्रभागं वाधीते तिष्ठन्नासीनः शयानो वा भूत्वा तेन तेन क्रतुनास्येष्टं भवतीति² । ब्राह्मणं भवतीत्यर्थः³ ॥ ७ ॥
विज्ञायते तस्य द्वावनध्यायौ यदात्माशुचिर्यद्देशः ॥ ८ ॥
तस्य ब्रह्मयज्ञस्य द्वावेवानध्यायौ यदशुचिरात्मा शावाद्याशौचेन चण्डालादिस्पर्शेन वा देशो वाप्यशुचिः⁴ एतावानेव ब्रह्मयज्ञस्यानध्यायः नाष्टम्यादिरिति विज्ञायत इति ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ तृतीयाध्याये तृतीयः खण्डः ।
१. 'ति यं यं क्रतुं य',
२. 'त्येवं विज्ञायते ब्रा',
३. 'र्थः पुनश्च वि',
४. 'चिः अवस्करादिः ए' घ. पाठः.
चतुर्थः खण्डः] अनाविलोपेताम् । १४७
चतुर्थः खण्डः] अनाविलोपेताम् । १४७
अथ चतुर्थः खण्डः।
अथातोऽध्यायोपाकरणम् ॥ १ ॥
अथशब्दोऽधिकारार्थः । अध्यायोपाकरणं नाम कर्म वक्ष्यते । अधीयत इत्यध्यायः स्वाध्यायः, स उपाक्रियते विधिवदारभ्यते यत्र कर्मणि तदध्यायोपाकरणम् । अतःशब्दो हेत्वर्थो यस्मादतोऽध्ययनसिद्धिः अत एतद् वक्ष्यत इति ॥
ओषधीनां प्रादुर्भावे श्रवणेन ॥ २ ॥
ओषधीनां प्रादुर्भावे सति श्रवणेन नक्षत्रेण कर्तव्यम् । 'नक्षत्रे च लुपि' इत्यधिकरणे तृतीया । कदा पुनरोषधीनां प्रादुर्भावः । श्रावणे भाद्रपदे वा मासि । तयोर्हि प्रकृत्या वृष्टिर्भवति । आषाढे तु कादाचित्की । यद्येवं श्रावणे भाद्रपदे वेति वक्तव्यं, किमोषधीनां प्रादुर्भाव इति परोक्षवचनेन । उच्यते । ओषधिप्रादुर्भावकृतोऽयं विकल्पो यथा स्यात् मासस्वरूपप्रयुक्तो विकल्पो मा भूदिति ॥ २ ॥
श्रावणस्य पञ्चम्यां हस्तेन वा ॥ ३ ॥
यद्वा श्रावणस्य मासस्य पञ्चम्यामेतत् कर्म कर्तव्यम् । सा यदि पञ्चमी हस्तेन युज्यते ॥ ३ ॥
आज्यभागौ हुत्वाज्याहुतीर्जुहुयात् सावित्र्यै ब्रह्मणे श्रद्धायै मेधायै प्रज्ञायै धारणात्यै सदसस्पतयेऽनुमतये छन्दोभ्यश्च ॥ ४ ॥
आज्यभागवचनं नित्यार्थम् । तथा 'आज्यभागौ पाकयज्ञेष्वि'ति विकल्पो मा भूदिति । अनुक्तद्रव्यत्वादेवाज्याहुतित्वे सिद्धेऽप्याज्याहुतिवचनं नियमार्थम्, उत्सर्जने वक्ष्यति
१४८ | आश्वलायनगृह्यसूत्रम् | [तृतीयोऽध्यायः
‘एताभ्यो देवताभ्योऽन्नेन हुत्वे’ति तत्राप्येता आज्याहुतयो यथा स्युः अन्नाहुतयो मा भूवन्निति । चतुर्थ्यन्तैः सावित्र्यादिभि-^१र्नवभिः स्वाहाकारान्तैर्होमः ॥ ४ ॥
अथ दधिसक्तून् जुहोत्यग्निमीळे पुरोहितमित्येका कुषुम्भकस्तदब्रवीद् आवदंस्त्वं शकुने भद्रमावद गृणाना जमदग्निना धामन्ते विश्वं भुवनमधिश्रितं गन्ता नो यज्ञं यज्ञियाः सुशमियो न स्वो अरणः प्रतिचक्ष्व विचक्ष्वाग्ने याहि मरुत्सखायत्तेराज्ञश्छतं हविरिति द्वृचाः समानीव आकूतिरित्येका तच्छंयोरानृणीमह इत्येका ॥ ५ ॥
आज्याहुतिभ्योऽनन्तरं दधिमिश्रान् सक्तून् जुहोति । लौकिका दधिसक्तवो विधिवत् संस्कृताः । तानेतैः प्रतिमन्त्रं जुहुयात् । कुषुम्भक इत्याद्या द्व्यृचाः । समानीव इति । शाकलस्य समाम्नायस्यान्त्या तदध्यायिनामेषा । तच्छंयोरिति बाष्कलस्य तदध्यायिनामेषा । उभयत्रैकाग्रहणं विस्पष्टार्थम् । द्वितीयाभावादेव द्व्यृचाधिकारस्य निवृत्तिः सिद्धा । अग्निमीळ इत्यत्र वक्ष्यमाणद्व्यृचत्वनिवृत्त्यर्थमेकाग्रहणम् ॥ ५ ॥
अध्येष्यमाणोऽध्याप्यैरन्वारब्ध एताभ्यो देवताभ्यो हुत्वा सौविष्टकृतं हुत्वा दधिसक्तून् प्राश्य ततो मार्जनम् ॥ ६ ॥
अध्येष्यमाण आचार्यः । अध्याप्याः शिष्याः । अत्राध्येष्यमाण इत्यध्यापनं विवक्षितम् । तदेवं ह्यात्मापेक्षमध्य-
१. 'भिः स्वा' ख.ग. घ. पाठः.
चतुर्थः खण्डः] अनाविलोपेताम् । १४९
चतुर्थः खण्डः] अनाविलोपेताम् । १४९
यनं भवति पारायणादिवत् । शिष्यार्थमध्यापनम् । अपर आह— अध्येष्यमाण इति वचनादध्याप्याभावेऽपि पारायण- ब्रह्मयज्ञाध्ययनार्थमप्येतत् कर्म भवति । एताभ्यो देवताभ्य इति वचनं सर्वासां देवतात्वज्ञापनार्थम् । तेन सावित्र्याद्या अग्न्याद्याश्चोभययो गृह्यन्ते । होमद्रव्यमप्युभयम् । हुत्वेति वचनं होमकालेऽन्वारम्भणं यथा स्यादिति । स्विष्टकृतो वचनं प्रधानान्तरं स्विष्टकृद् यथा स्यादिति । कथं पुनरन्यत्र प्रसङ्गः एतदेव ज्ञापयत्यागन्तुकानि प्राक्स्विष्टकृतो भवन्ति ततः स्विष्टकृदिति दधिसक्तुप्राशनं शिष्याणामपि । ततो मार्ज- नं कुर्युरीति शेषः । तत्परिस्तरणैरञ्जलिमन्तर्धायेत्याद्युक्तम् ॥
अपरेणाग्निं प्राक्कूलेषु दर्भेषूपविश्योदपात्रे दर्भान् कृत्वा ब्रह्माञ्जलिकृतो जपेत् ॥ ७ ॥
दर्भान् कृत्वा प्रागग्रान् दर्भान् निधाय ब्रह्माञ्जलि- कृतः दक्षिणोत्तरौ पाणी पवित्रवन्तौ सन्दधाति एष ब्रह्मा- ञ्जलिः स कृतो येन स तथोक्तः । ‘वाहिताग्न्यादिषु’ इति निष्ठान्तस्य परनिपातः ॥ ७ ॥
ओंपूर्वा व्याहृतयः ॥ ८ ॥
द्वितीयार्थे प्रथमा । अत्र जपतिचोदनायामप्युच्चैः प्रयोगः, माणवकार्थत्वादुच्चारणस्य ॥ ८ ॥
सावित्रीं च चतुरभ्यस्य वेदादिमारभेत ॥ ९ ॥
चशब्दादोंपूर्वामिति गम्यते । सावित्रीं चोंपूर्वां चतु- रभ्यस्यति । यथासमाम्नायमर्धर्चशोऽभ्यस्य वेदादिमारभेत ।
१. ‘कुतूले’ ग. ङ. पाठः.
| १५० | आश्वलायनगृह्यसूत्रम् | [तृतीयोऽध्यायः |
|---|
व्यत्ययेन परस्मैपदम् आरभेत । वेदस्यादिं सूक्तमनुवाकमध्यायं वा । एतच्च सर्वमध्याप्यानामपि समानम् । अपर आह — जपेदित्यत्र प्रकाराविधिः चतुरभ्यस्येति जप्यस्त्वोङ्कारादयः । तेन ओङ्कारव्याहृतीनामपि चतुरभ्यासो भवति । अस्मिन् पक्षे जपेदित्यातिरिच्यते ॥ ९ ॥
तथोत्सर्गे ॥ १० ॥
उत्सर्गो वक्ष्यते । तत्रापि तथा कर्तव्यं, यथोपाकरणे । तत्रैके कृत्स्नस्य कर्मणोऽतिदेशं मन्यन्ते । तन्न । यदि कृत्स्नस्य कर्मणोऽतिदेशोऽभविष्यद् एतेनोत्सर्जनमिति तृतीयया निरदेक्ष्यद् यथा ‘एतेन गोदानम्’ ‘एतेन वापनादी’ति । तस्माद् वेदादिमारभेदेत्येतदेवातिदिश्यते । अन्यदुत्सर्जनं कर्म कथं भविष्यति । वक्ष्यति — ‘एताभ्यो देवताभ्योऽन्नेन हुत्वे’ति । तेनोत्सर्जने प्राशनमार्जने न भवतः ॥ १० ॥
षण्मासानधीयीत समावृत्तो ब्रह्मचारिकल्पेन ॥ ११ ॥
समावृत्तोऽप्युपाकृत्याधीयानो ब्रह्मचारिकल्पेन मधुमांसवर्जनेनाधीयीत । यः केवलानि वृत्तानि पारं नीत्वा जायामुपयम्य पश्चादधीते तस्य ग्रहणाध्ययनविषयमेतत् ॥ ११ ॥
यथान्यायमितरे ॥ १२ ॥
इतरे असमावृत्ता ब्रह्मचारिणो यथान्यायं मेखलाजिनदण्डभिक्षाचरणसमिदाधानादिभिरधीयीरन् ॥ १२ ॥
जायोपेयेत्येके ॥ १३ ॥
समावृत्तविषयमिदम् । ब्रह्मचारिकल्पेनेत्यस्यापवादः ।
१. 'वानन्तरमति' ग. ङ. पाठः.
२. 'ने भ' ग. पाठः.
३. 'वेदानि वायं नी' ख. ग. ङ. पाठः.
चतुर्थः खण्डः] अनाविलोपेताम् । १५१
चतुर्थः खण्डः] अनाविलोपेताम् । १५१
एक आचार्याः जायोपेया उपयन्तव्येति मन्यन्ते ॥ १३ ॥
तत्रोपपत्तिः —
प्राजापत्यं तत् ॥ १४ ॥
तद् जायोपेयमनं प्राजापत्यम्, 'आसिञ्चतु प्रजापति- रि'ति दर्शनात् । रेतःसेचनं प्राजापत्यं तच्च प्रजार्थं तेन यदाह प्राजापत्यमिति प्रजार्थमित्येवैतदाह। यद्यप्यनुक्तमप्येतद् गम्यते जायोपेयमनं प्रजार्थमिति । तथाप्युच्यते ऋतावेवोपगमनं यथा स्यादनृतौ मा भूदिति ॥ १४ ॥
वार्षिकमित्येतदाचक्षते ॥ १५ ॥
यदिदमुपाकृत्य षण्मासाध्ययनमेतद् वार्षिकमित्याचार्या आचक्षते वर्षातौ भवति वा प्रतिसंवत्सरं भवतीति वा ! तथा च गौतमः —"श्रावणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत छन्दांस्यर्धपञ्चमान् मासान् पञ्च दक्षिणायनं वा ब्रह्मचार्यत्सृष्ट- लोमा न मांसं भुञ्जीत द्वैमास्यो वा नियम इति" । समाप्त- मुपाकरणम् ॥ १५॥
उत्सर्जनमुच्यते —
मध्यमाष्टकायामेताभ्यो देवताभ्योऽन्नेन हुत्वापो- ऽभ्यवयन्ति ॥ १६ ॥
मध्यमाष्टकायामिति सामीपिकमधिकरणम् । तस्याः पूर्वा या पौर्णमासी तस्यामिदं भवति । एतच्च षण्मासानधी- यीतेति पूर्वमुक्तत्वाल्लभ्यते । याः पूर्वोक्ताः सावित्र्याद्याः ता- भ्योऽन्नेन होमः । तत्र सावित्र्यादीनामाज्यमेवेति पूर्वमुक्तम् ।
१. 'ग', २. 'तदा' घ. पाठः. ३. 'त तद् द्वै' ख. पाठः.
१५२ | आश्वलायनगृह्यसूत्रम् | [तृतीयाेऽध्यायः
हुत्वा स्विष्टकृत् ततो वेदारम्भणं ततः शिष्टं तत् परिसमा- प्यापोऽभ्यवयन्ति अवगाहन्ते ॥ १६ ॥
एताश्चैव देवतास्तर्पयन्ति ॥ १७ ॥
सावित्र्याद्या इति केचित् । अपरे तु देवतास्तर्पयन्ती- त्यारभ्य यत्तर्पणं विहितं तदत्र कर्तव्यमिति मन्यन्ते ॥ १७ ॥
आचार्यान्¹ पितॄंश्च ॥ १८ ॥
आचार्याः सुमन्तुजैमिनिप्रभृतयः । पितरस्तत्रैवोक्ताः ॥
एतदुत्सर्जनम् ॥ १९ ॥
एतत् कर्मोत्सर्जनमिति शाखेषु² प्रसिद्धम् ॥ १९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ तृतीयाध्याये चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अथ काम्यानां स्थाने काम्याः ॥ १ ॥
अथशब्दो वाक्यारम्भे । यानि कर्माणि त्रेतायां काम्यानि तेषां स्थाने काम्याः पाकयज्ञाः कर्तव्याः । तत्रेष्टीनां स्थाने स्थालीपाकाः पशूनां स्थाने पशवः । यद्येवं सोमस्य स्थाने सोमोऽपि प्राप्नोति । स्यादेवेत्येके । अन्ये त्वाहुः— अस्मिन् गृह्ये पशुकल्पः स्थालीपाककल्पश्चोक्तः न सोमकल्पः, तेन सोमस्थाने सोमो न स्यादिति ॥ १ ॥
चरवः ॥ २ ॥
चरवश्च भवन्ति काम्यानां स्थाने काम्याः । पूर्वेणैव सिद्धे नियमार्थमिदं चरव एव न सान्नाय्याद्यन्यद् द्रव्यमिति ।
१. 'न् ऋषीन् पि',
२. 'खान्तरेषु' ङ. पाठः.
पञ्चमः खण्डः] अनाविलेपेतम् । १५३
पञ्चमः खण्डः] अनाविलेपेतम् । १५३
पशूनां तु निवृत्तिर्न भवति प्राणित्वेन विजातीयत्वात् । आयुष्कामेष्ट्यामित्यारभ्य काम्या इष्टयः, तासां स्थाने काम्याश्चरवः । 'वायव्यं श्वेतमालभेत भूतिकाम' इत्याद्याः काम्याः पशवः ॥ २ ॥
तानेव कामानाप्नोति ॥ ३ ॥
यावान् कामस्तेन कर्मणावाप्यते, यस्यायं स्थाने भवति, तावान् कामोऽनेनावाप्यते इत्युक्तं भवति । अन्यथल्पत्वादस्य कर्मणस्तमेव काममल्पमवाप्नोतीति शङ्क्येत । तस्मादयमारम्भः । एवं सति महतां श्रौतकर्मणामारम्भोऽपार्थकः स्यात् । तस्मादेवं कर्तव्यं तत्स्थानोपदेशात् तद्धर्मका एते स्युः । ततश्च दक्षिणा अपि प्रसज्येरन् । तत्र नियमः क्रियते कामा एव भवन्ति न दक्षिणा इति ॥ ३ ॥
अथ व्याधितस्यातुरस्य यक्ष्मगृहीतस्य वा षडाहुतिश्चरुर्मुञ्चामि त्वा हविषा जीवनाय कमित्येतेन ॥ ४ ॥
अथशब्दः पूर्ववत् । व्याधितादयो व्याख्याताः । षडाहुतिश्चरुर्होतव्यः मुञ्चामि त्वेत्यनेन सूक्तेन पञ्चर्चेन । स्विष्टकृत् षष्ठो भवति । षड्ग्रहणादाज्यभागौ न भवतः ॥ ४ ॥
स्वप्नममनोज्ञं दृष्ट्वाद्यानो देव सवितः यच्च गोषु दुःष्वप्न्यमिति पञ्चभिरादित्यमुपतिष्ठेत ॥ ५ ॥
अमनोज्ञमशुभम् । अद्यान इत्येका यच्च गोष्विति पञ्च एताभिः षड्भिरादित्यमुपतिष्ठेत ॥ ५ ॥
१. 'स्याय' ख. ग. पाठः.
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
१५४ आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः :
यो मे राजन्युज्यो वा सखा वेति वा ॥ ६ ॥
वाशब्दः समुच्चये । उपस्थानभेदात्तु पृथगुपदेशः । षड्भिरेकमुपस्थानम् । उपस्थानानन्तरमनया । तयोः समुच्चयः ॥ ६ ॥
क्षुत्वा जृम्भित्वामनोज्ञं दृष्ट्वा पापेकं गन्धमाघ्रायाक्षिस्यन्दने कर्णध्वनने च सुचक्षा अहमक्षीभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां मयि दक्षक्रतू इति जपेत् ॥ ७ ॥
क्षुतादिषु कृतेषु सुचक्षा इत्यादिमन्त्रं जपेत् ॥ ७ ॥
अगमनीयां गत्वायाज्यं याजयित्वाप्रतिग्राह्यं प्रतिगृह्य चैत्यं यूपं वोपहृत्य पुनर्मा मैत्विन्द्रियं पुनरायुः पुनर्भगः पुनर्द्रविणमैतु मा पुनर्ब्राह्मणमैतु मा स्वाहा । इमे ये धिष्ण्यासो अग्नयो यथास्थानमिह कल्पन्तां वैश्वानरो वावृधानोऽन्तर्यच्छतु मे मनो हृद्यन्तरं मृतस्य केतुः स्वाहेत्यौंज्याहुतीर्जुहुयात् समिधो वा जपेद् वा ॥ ८ ॥
अगमनीया रजःस्वला । अयाज्योऽभिशस्तादिः । अप्रतिग्राह्यं विषशस्त्रादि । चैत्योऽग्निः तत्र भवो यूपश्चैत्यः । उपहत्य स्पृष्ट्वा । एतेषु कृतेष्वेताभ्यां मन्त्राभ्यामेवं कुर्यात् ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
पञ्चमः खण्डः ।
१. 'ने' घ. पाठः.
२. 'व' ङ. पाठः.
३. 'क्षि' घ. पाठः.
४. 'त्याहु' ख. ग. पाठः.
षष्ठः खण्डः] अनाविलोपेत्तम् । १५५
षष्ठः खण्डः] अनाविलोपेत्तम् । १५५
अथ षष्ठः खण्डः ।
अव्याधितं चेत् स्वपन्तमादित्योऽभ्यस्तमिया- द्वाग्यतोऽनुपविशन् रात्रिशेषं भूत्वा येन सूर्य ! ज्योतिषा बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत ॥ १ ॥
अव्याधितो यः स्वपिति तं प्रति यद्यादित्योऽस्तं गच्छेत् तदा वाग्यतो भूत्वानुपविशन् रात्रिशेषं सर्वामेव रात्रिं तिष्ठन् व्युष्टायां येन सूर्येति पञ्चभिर्ऋग्भिरादित्यमुपतिष्ठेत । तस्येदं प्रायश्चित्तम् ॥ १ ॥
अभ्युदियाच्चेदकर्मश्रान्तमनभिरूपेण कर्मणा वाग्यत इति समानमुत्तराभिस्तसृभिरुपस्थानम् ॥ २ ॥
यः कर्मणा गुरोरभ्यङ्गादिना श्रान्तो न भवति तम- कर्मश्रान्तम् अनभिरूपं कर्म नृत्तदर्शनादि तेन वा श्रान्त- मप्यव्याधितं स्वपन्तमादित्यश्चेदभ्युदियात् तदा वाग्यत इति समानं वाग्यतोऽनुपविशन् अहःशेषं भूत्वेत्यूहेन । एवं भूत्वो- त्तराभिश्चतसृभिर्यस्य ते विश्वा भुवनानि केतुनेत्यादिभिरस्तं यन्तमुपतिष्ठेत ॥ २ ॥
सन्ध्योपासनमाह —
यज्ञोपवीती नित्योदकः सन्ध्यामासीत वाग्यतः सायमुत्तरापरमभिमुखोऽन्वष्टमदेशनर्धास्तमिते मण्डले आनक्षत्रदर्शनात् ॥ ३ ॥
यज्ञोपवीती भूत्वा नित्योदकः नित्यमुदककर्म प्रोक्ष- णाचमनादिकं कृतं येन स एवमुच्यते एवंभूतः सन्ध्यामो-
१. 'त्येताभि' ग० ङ० पाठः. २. 'मुपासी' ख० पाठः.
१५६ आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्याय
सीत वाग्यतः सायं यावान् सन्ध्याकालः तावन्तमासीत । उत्तरापरमन्वष्टमदेशमभिमुखः प्रतीच्यां दिशि य उत्तरो भागः तस्याष्टधा विभक्तस्य योऽष्टमो देशः उत्तरत आरभ्य तमनु । तं प्रति कियन्तं कालमासीत । अर्धास्तमयादारभ्या-नक्षत्रदर्शनात् । एतावती सन्ध्या । वाग्यत इति वचनादेता-वन्तं कालं न सावित्र्यपि जप्य पश्चात्तु जप्य । तथाच जैमिनीये गृह्ये भारद्वाजगृह्ये च द्रष्टव्यम् । अन्ये तु स्मृतिषु दर्शनात् सावित्र्या जपमिच्छन्ति । वाग्यतवचनं तु लौकिक-वाक्यनिवृत्त्यर्थमित्याहुः ॥ ३ ॥
एवं प्रातः प्राङ्मुखास्तिष्ठन्नामण्डलदर्शनात् ॥ ४ ॥
एवं प्रातः सन्ध्यामुपासीत1 प्राङ्मुखस्तिष्ठन्नासीत आदित्यस्यामण्डलदर्शनात् । उत्तरपूर्वमन्वष्टमदेशमभिमुखः अर्धास्तमितेषु नक्षत्रेषु । तथा गौतमः — ‘तिष्ठेत् पूर्वा-मासीतोत्तरां सज्योतिष्याज्योतिषो दर्शनाद्वाग्यत’ इति । आपस्तम्बस्तूभयोरपि सन्ध्ययोरासनं वाग्यमनं चाह— ‘सन्ध्ययोश्च बहिर्ग्रामादासनं वाग्यतस्ये2ति ॥ ४ ॥
कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोत-इति प्रत्यूचं जुहुयाज्जपेद् वा ॥ ५ ॥
कपोतः पक्षिविशेषः स चेदगारमुपहन्यात् तुण्डादिभि-र्घट्टयेद् अनुपतेद्वा तद्दुर्निमित्तम् । तस्येदं प्रायश्चित्तम् । देवाः
Footnotes
सप्तमः खण्डः] अनाविलोपेताम् । १५७
CC-0. Agamnigam Digital Preservation Foundation, Chandigarh
सप्तमः खण्डः] अनाविलोपेताम् । १५७
कपोत इति सूक्तेन प्रत्यृचम्स्वाहाकारं जुहुयात्, सूक्तमेतद् जपेद् वा ॥ ५ ॥
वयमु त्वा पथस्पते इत्यर्थचर्यां चरिष्यन् ॥ ६ ॥
धनार्थी यदि कश्चिद् गच्छेत् तदा वयमु त्वा पथस्पते इति सूक्तेन प्रत्यृचं जुहुयात्, जपेद् वा ॥ ६ ॥
संपूषन् विदुषेति नष्टमधिजिगमिषन् ॥ ७ ॥
यो नष्टद्रव्यमधिजिगमिषति अधिगन्तुं लब्धुमिच्छति, स संपूषन् विदुषेत्यनेन सूक्तेन प्रत्यृचं जुहुयाज्जपेद्वा ॥ ७ ॥
मूढो वा ॥ ८ ॥
यो वा मूढः अप्रज्ञः सोऽपि सूक्तेनानेन जुहुयाज्जपेद्वा ॥ ८ ॥
संपूषन्नध्वन इति महान्तमध्वानमेष्यन् प्रतिभयं वा ॥ ९ ॥
यो महान्तमध्वानं गमिष्यन् भवति अनल्पं प्रतिभयं वा गमिष्यन् भवति स सूक्तेनानेन प्रत्यृचं जुहुयाज्जपेद्वा ॥ ९ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ तृतीयाध्याये षष्ठः खण्डः ।
अथ सप्तमः खण्डः ।
अथैतान्युपकल्पयेत समावर्तमानो मणी कुण्डले
| १५८ | आश्वलायनगृह्यसूत्रम् । | [तृतीयोऽध्यायः |
|---|
वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रगुन्मर्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचार्याय च ॥ १ ॥
अथ गुरुकुलात् समावर्तमान एतानि वक्ष्यमाणानि द्रव्याण्युपकल्पयेत संपादयेत् । तानि चात्मने चाचार्याय च कल्पयितव्यानि । किमर्थमिदमुच्यते, एतेषां द्रव्याणामुपकल्पनं यथा स्यादिति । नैतदस्ति प्रयोजनम् । उत्तरत्र विनियोगवशादेवोपकल्पनं भविष्यति यथा 'आचार्योऽहतेन वाससा त्रिः प्रदक्षिणमि'त्यत्र । सत्यम् । एवमेव तत् । इह त्वात्मने चाचार्याय चेत्युच्यते । तत्र न ज्ञायते कानि द्रव्याणि किं कुर्यादिति । तदर्थमिदमुच्यते । एवमप्येतानीति वक्तव्यं, कथम्, एतेषामेवोत्तरत्र विनियोगो यथा स्यादिति । तेन 'अहते वाससी आच्छाद्ये'ति समावर्तमानस्यास्य वाससोरुपदिष्टमहतत्वमाचार्यवाससोरपि भवति । अन्यथोपकल्पनवेलायामनुपदिष्टत्वान्न स्यात् । तत्र मणी द्वौ कुण्डले द्वे । सौवर्णे मणिबद्धे च ते भवतः, मणिकुण्डले आबध्नीतेत्युत्तरत्र दर्शनात् । मणिकुण्डले इति ये समासं पठन्ति तेषां 'मणिं कण्ठे प्रमुञ्चे'ति दर्शनाद् यद्यपि समावर्तमानस्य मणिः सिद्धः तथाप्याचार्यस्य न स्यात् । तस्मान्मणी इति द्विवचनान्तमेव पठितव्यम् । वस्त्रयुगमेकैकस्मै । छत्रे द्वे । उपानद्युगं वस्त्रयुगवत् । दण्डौ द्वौ । स्रगुन्मर्दनं समाहारद्वन्द्वः । येन शरीरमुन्मृद्यते तदुन्मर्दनम् । उष्णीषौ द्वौ ॥ १ ॥
१. 'क्तवि' ङ. पाठः.
२. 'मेत' ख. ग. ङ. पाठः.
३. 'ति न ब'
४. 'ण्युपहिते ब' घ. पाठः.
सप्तमः खण्डः ] अनाविलोपे तम् । १५९
सप्तमः खण्डः ] अनाविलोपे तम् । १५९
यद्युभयोर्न विन्देताचार्यायैव ॥ २ ॥
यद्युभयोरेतानि द्रव्याणि न लभेत तदा आचार्यायैवोपकल्पयेत् ॥ २ ॥
समिधं त्वाहरेदपराजिताया दिशो यज्ञियस्य वृक्षस्य ॥ ३ ॥
अपराजिता पूर्वोत्तरा दिक् तस्याः समिध आहरेद् यज्ञियस्य वृक्षस्य ॥ ३ ॥
तत्र गुणकामैः—
आर्द्रामन्नाद्यकामः पुष्टिकामस्तेजस्कामो वा ॥ ४ ॥
अन्नाद्यपुष्टितेजसामन्यतमं यः कामयते स आर्द्रां समिधमाहरेत् ॥ ४ ॥
ब्रह्मवर्चसकाम उपवाताम् ॥ ५ ॥
उपवाता शुष्का ॥ ५ ॥
उभयीमुभयकामः ॥ ६ ॥
अन्नाद्यादीनामन्यतमं ब्रह्मवर्चसं च यः कामयते स उभयीमार्द्रामुपवातां च समिधमाहरेत् । अर्धशुष्कामित्युक्तं भवति ॥ ६ ॥
उपरि समिधं कृत्वा गामन्नं च ब्राह्मणेभ्यः प्रदाय गौदानिकं कर्म कुर्वीत ॥ ७ ॥
तामाहृतां समिधमुपरि कृत्वा अनधो निधाय ब्राह्मणेभ्योऽन्नं भोजनाय दत्त्वा गां दक्षिणां दत्त्वा गौदानिकं कर्म कुर्वीत । कर्मग्रहणस्य प्रयोजनं गोदान एव स्थित्वोक्तम् ॥ ७ ॥
१. 'माः' ख. ग., 'नाः' घ. पाठः.
१६० आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्यायः
आत्मनि मन्त्रान् संनमयेत् ॥ ८ ॥
गौदानिके कर्मणि क्रियमाणे तत्रत्यान् मन्त्रानात्मा- भिमुखान् ऊहेत । ऋचामप्यूहप्राप्त्यर्थं वचनम् । ‘ओषधे त्रायस्व मा स्वधीते मा मा हिंसीः तेन ब्रह्मणो वपते दम आयुष्मान् तेन म आयुषे वपामि¹ मा म आयुः प्रमोषी- रि’ति ॥ ८ ॥
एकक्लीतकेन शीतोष्णाभिरद्भिः स्नात्वा युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्याश्म- नस्तेजोऽसि चक्षुर्मे पाहीति चक्षुषी आज्यीत ॥ ९॥
यस्मिन् करञ्जफले एकं बीजं तदेकक्लीतकं तत्पि- ष्टमुन्मर्दनं पुरस्तादुपकल्पितम् । तेनोद्वर्तितगात्रः शीतोष्णा- भिरद्भिः स्नात्वा युवं वस्त्राणीति मन्त्रेणाहते वाससी आच्छा- दयति । एकमन्तर्वासः अपरं बहिर्वासः । अश्मनस्तेजोऽसि² चक्षुर्मे पाहीति मन्त्रेण ततश्चक्षुषी आञ्जयीत, सव्यं पूर्वं ‘सव्यं हि पूर्वं मनुष्या अञ्जत’ इति श्रुतेः ॥ ९ ॥
अश्मनस्तेजोऽसि श्रोत्रं मे पाहीति मणिकुण्ड- ले आबध्नीत अनुलेपनेन पाणी प्रलिप्य मुखमग्रे ब्रा- ह्मlocal: ह्मणोऽनुलिम्पेत ॥ १० ॥
अनुलेपनं चन्दनादि । ब्राह्मणो मुखं प्रथममनुलिम्पेत । ततोऽन्यान्यङ्गानि ॥ १० ॥
१. 'मि शुद्धिशिरोमा' क. पाठः. २. 'सीति' ङ. पाठः.