बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
१६४ बौधायन-धर्मसूत्रम् [ प्रायश्चित्तम्
तत्रैता देवताः—
नैर्ऋतः पशुः पुरोडाशश्च रक्षोदैवतो यमदैवतो वा ॥ ३१ ॥
**अनु०—**पशु के मांस का पुरोडाश निर्ऋति के लिए, रक्षोदेवता के लिए या यम देवता के लिये होता है ॥ ३१ ॥
पुरोडाशदेवताभिधानं 'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इति परिभाषासिद्धस्याऽनुवादः । निर्ऋतिरक्षोयमानां च विकल्पः । पुराडाशे वोत्तरयोः ॥ ३१ ॥
शिश्नात्प्राशित्रमप्स्ववदानैश्चरन्तीति विज्ञायते ॥ ३२ ॥
**अनु०—**प्रायश्चित्त करने वाले के भक्षण के लिए प्राशित्र पशु (गर्दभ) के शिश्न से ग्रहण किया जाता है तथा अन्य अवयवों को जल में अर्पित किया जाता है ॥ ३२ ॥
'सान्नाय्यविकारस्याऽपि पशोः प्राशित्रवचनाच्च शिश्नावयवादवदातव्यम् । हृदयाद्यवयवमप्सु प्रचरितव्यम् । अन्यत् लौकिकेऽग्नौ कर्त्तव्यम् ॥ ३२ ॥
अपि वाऽमावास्यायां निश्यग्निमुपसमाधाय दार्विहोमिकीं परिचेष्टां कृत्वा द्वे आज्याहुती जुहोति "कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोस्मि कामकामाय स्वाहे"ति ॥ ३३ ॥
**अनु०—**अथवा प्रमावस्या की रात्रि में अग्नि का उपसमाधान कर तथा दर्विहोम की प्रारम्भिक क्रियाएं भाज्य संस्कार इत्यादि अनुष्ठित कर "कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा ।" तथा "कामाभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामकामाय स्वाहा" मन्त्रों से दो आज्य आहुतियां प्रदान करें ॥ ३३ ॥
१. अयं भावः—दर्शपूर्णमासयोस्सन्ति षट् यागाः । तत्र पौर्णमास्यां आग्नेय । उपांशुयाजः, अग्नीषोमीयश्चेति । अमावास्यायां आग्नेयः, ऐन्द्रदधियागः, ऐन्द्रपयोयागश्चेति । तत्र दधिपयोयागद्वयं सान्नाय्यमित्युच्यते । तदेव पशुयागस्य प्रकृतिभूतम् । इदं च "सान्नाय्यं वा तत्प्रभवत्वात्" इत्यष्टमे जैमिनिना निर्णीतम् । सान्नाय्ये च प्राशित्रावदानं नाऽस्ति । पुरोडाशयाग एव तत् विहितम्—"आग्नेस्य मस्तकं विहृत्य" इत्यादिना । एवञ्च पशुयागस्य प्रकृतिभूते सान्नाय्ययागे प्राशित्राभावेन ततः अतिदेशेन प्राप्त्यभावेऽपि अत्रैव विशिष्य विधानात् तत् कर्त्तव्यमिति । तच्चात्र गर्दभपशोः शिश्नादवदातव्यमिति च ।
प्रथमः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६५
परिचेष्टा आज्यसंस्कारादिना । आग्निहोत्रिकप्रयोग इत्यन्ये । पूर्वस्याऽसम्भव एतत्प्रायश्चित्तम्। यद्वा-स्वपरप्रेरणसकृदसकृच्छक्तिकसदसद्भाववर्गव्रतोत्सर्गाद्यपेक्षया द्रष्टव्यम् । अत्र स्मृत्यन्तरोक्तम् ‘तस्याऽजिनमूर्ध्ववालं परिधाय लोहितपात्रस्सप्त गृहान् भैक्षं चरेत् कर्माऽऽचक्षाणः संवत्सरम्’ इत्यादि द्रष्टव्यम् ॥३३॥
हुत्वा प्रयताञ्जलिः क्वातिर्यङ्ङग्निमुपतिष्ठेत—“सं मा सिञ्चन्तु मरुतस्समिन्द्रस्सं बृहस्पतिः । सं माऽयमग्निरिसञ्चन्त्वायुषा च बलेन चाऽऽयुष्मन्तं करोतु मे”ति ॥ ३४ ॥
**अनु०—**हवन करने के बाद अञ्जलि बांध कर अग्नि से थोड़ा किनारे मुड़कर इस मन्त्र से प्रार्थना करे—“सं मा सिञ्चन्तु मरुतस्समिन्द्रस्सं बृहस्पतिः । सं माऽयमग्निरिसञ्चन्त्वायुषा च बलेन चाऽऽयुष्मन्तं करोतु मे” ( मरुत्, इन्द्र, बृहस्पति और यह अग्नि मुझे दीर्घ जीवन एवं शक्ति प्रदान करें यह अग्नि मुझको आयुष्मान् बनावे ) ॥३४॥
हुत्वेत्युत्तरत्र निवृत्त्यर्थम् । प्रयताञ्जलिः शुद्धाञ्जलिः। अञ्जलिश्च द्विहस्तसंयोगः । क्वातिर्यङ् नाऽत्यन्ताग्न्यभिमुखता नाऽत्यन्तपराङ्मुखता । तद्विधानं नित्याग्न्युपस्थाने “क्वातिर्यङ्ङिवोपतिष्ठेत नैनं प्रत्यङ्न पराङ्’ इति ॥३४॥
अथ महापातकदेव विप्लावकादयश्च ज्ञातिभिः कथं त्याज्याः ? कथं वा संग्राह्या इति ? तत्राऽऽह—
अथ यस्य ज्ञातयः परिषद्युदपात्रं निनयेयुरसावहमित्थंभूत इति । चरित्वाऽधः पयो घृतं मधु लवणमित्यारब्धवन्तं ब्राह्मणा ब्रूयुश्चरितं त्वयेति ॥ ३५ ॥
अनु०—(महापातक आदि के दोषियोँ के परित्याग की विधि इस प्रकार है ) उस व्यक्ति के बन्धु-बान्धव एकत्र होकर उसके लिए जलपात्र खाली करें और वह भी उस सभा में अमुक नाम के मैंने यह दुष्कर्म किया है । उसके प्रायश्चित्त कर लेने पर जल, दूध, घृत, मधु और नमक का स्पर्श कर लेने पर उसे ब्राह्मण इस प्रकार कहे ‘क्या तुमने प्रायश्चित्त कर लिया है’ ॥ ३५ ॥
उदपात्रनिनयनेन स्मृत्यन्तरप्रसिद्धस्याऽङ्गस्य विधिरुक्तः । सोऽयं प्रदर्श्यते —विप्राणां गुरूणां ज्ञातीनां च परिषदि सन्निधौ किं कृतवानसीति पृष्टे असा-
१. शुद्धबद्धाञ्जलिरिति. क. घ. पु.
| १६६ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् |
|---|
वहमित्थम्भूत इति प्रतिब्रूयात् । इत्थम्भूत 'इदं पापं कृतवानस्मीति। एवं तं सम्भाष्य उदपात्रं निनयेयुरिति सम्बन्धः। अवस्करादमेध्यपात्रमपां पूर्णमानीय दासेन कर्मकरेण वा विप्रा नाययेयुः। स यद्येवं कृते चीर्णव्रतः अचरमहं प्रायश्चित्तमिति ब्रूयात्। तमबादिपञ्चतयमारब्धवन्तं स्पृष्टवन्तं ब्राह्मणा ब्रूयुः पृच्छेयुः—चरितं त्वया यथाविधि प्रायश्चित्तमिति ॥ ३५ ॥
ओमितीतरः प्रत्याह ॥ ३६ ॥
अनु०—दूसरा व्यक्ति (अर्थात प्रायश्चित्त करने वाला) ओम्, (हाँ, मैंने यथाविधि प्रायश्चित्त कर लिया है) उत्तर दे ॥ ३६ ॥
अभ्यनुज्ञावचनमेतत्। एवं तस्मिन् विच्छन्दना ? ॥ ३६ ॥
चरितनिर्वेर्शं सवनीयं कुर्युः ॥ ३७ ॥
अनु०—जिस व्यक्ति ने यथाविधि प्रायश्चित्त कर लिया है उसको सभी प्रकार के यज्ञकर्मों में भाग लेने का अधिकारी समझना चाहिए ॥ ३७ ॥
चरितनिर्वेर्शं चरितप्रायश्चित्तं सवनीयं सवनयोग्यं सवनशब्देन क्रतुरभिप्रतः। तेन याज्ययाजकभावमापादयेयुरित्यर्थः। यद्वा—सूतेः प्राणिप्रसवकर्मणस्सवनं तत्र भवं सवनीयं जातकर्मादि तस्य कुर्युरीति यावत्। तथा च वसिष्ठः—'प्रत्युद्धारः पुत्रजन्मना व्याख्यातः' इति। तदेतत् सपितृत्यागप्रत्युद्धारसम्बन्धं गौतमीये 'त्यजेत्पितरम्' इत्यस्मिन्नध्याये विवृतम्। तदपि प्रतीक्ष्यम् ॥ ३७ ॥
सगोत्रां चेदमत्योपयच्छेन्मातृवदेनां बिभृयात्। प्रजाता चेत्कृच्छ्राब्दपादं चरित्वा यन्म आत्मनो मिन्दाऽभूत्पुनरग्निश्चक्षुरदादित्येताभ्यां जुहुयात् ॥ ३८ ॥
अनु०—यदि अनजाने ही अपने गोत्र की कन्या से विवाह कर लिया हो तो उसे माता के समान समझते हुए उसका भरण-पोषण करे यदि इस प्रकार की स्त्री से पुत्र उत्पन्न कर चुका हो तो तीन मास तक कृच्छ्रव्रत का आचरण कर 'यन्म आत्मनो मिन्दाऽभूत् पुनः' 'अग्निः चक्षुरदादित्य' आदि दो मन्त्रों से आहुति करे ॥ ३७ ॥
अप्रजाता चेच्चान्द्रायणम्। तच्च महाप्रवरेषु स्वयमेवोक्तम्—सर्वेषां 'सगोत्रां गत्वा चान्द्रायणं कुर्यात्। व्रते परिनिष्ठिते ब्राह्मणीं न संत्यजेन्मातृवच्च'
१. इत्थम्भूतमिदमिति क. घ. पु.
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६७
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६७
गिनीवत्' इति । बिभृयादिति शेषः । स्वयमेव ब्रवीति—'गर्भो न दुष्यति कश्यप इति विज्ञायते' इति । मिन्दाहुती पुनः सर्वत्राऽविशिष्टे । अनिर्दिष्टद्रव्यकत्वादाज्यद्रव्यं प्रतीयात् ॥ ३८ ॥
( परिवित्तः परिवेत्ता या चैनं परिविन्दति ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ) ॥
परिवित्तः परिवेत्ता दाता यश्चाऽपि याजकः ।
कृच्छ्रद्वादशरात्रेण स्त्री त्रिरात्रेण शुद्ध्यतीति ॥ ३९ ॥
इति बौधायनीयधर्मसूत्रे द्वितीयप्रश्ने प्रथमः खण्डः ॥ १ ॥
**अनु०—**वह ज्येष्ठ भ्राता, जिसके अविवाहित रहते हुए ही छोटे भाई ने विवाह कर लिया हो, ज्येष्ठ भ्राता के अविवाहित रहते हुए विवाह करने वाला, इस प्रकार विवाह करने वाले से विवाहित स्त्री, उस कन्या का विवाह के लिए दान करने वाला तथा इस प्रकार का विवाह कराने वाला पुरोहित ये सभी पाँच नरक जाते हैं। वह ज्येष्ठ भ्राता, जिसके अविवाहित रहते हुए ही छोटे भाई ने विवाह कर लिया है, बड़े भाई के विवाह से पहले ही विवाहित छोटा भाई, विवाह के लिए कन्यादान देने वाला, विवाह संस्कार संपन्न कराने वाला पुरोहित बारह दिन का कृच्छ्रव्रत करने पर शुद्ध होते हैं और जिस स्त्री का इस प्रकार विवाह हुआ हो वह तीन दिन उपवास करने पर शुद्ध होती है ॥३९॥
अकृतदाराग्निहोत्रसंयोगे अग्रजे तिष्ठति यः कनीयान् दारसंयोगमग्निहोत्रसंयोगं वा करोति स परिवेत्ता । इतरः परिवित्तः । परिवेत्तर्य्यः कन्यां प्रयच्छति स दाता । तमेव यो याजयति स याजकः । एतेषां चतुर्णां कृच्छ्रेण शुद्धिः । ययाऽसौ परिवेत्ताऽभूत् ^२तस्याः त्रिरात्रोपवासेन शुद्धिः ॥ ३९ ॥
द्वितीयः खण्डः
अथ पतनीयानि ॥ १ ॥
**अनु०—**अब पतनीय कर्मों का विवेचन किया जायगा, (जिनसे पतन या वर्ण की हानि होती है)
वक्ष्याम इति वाक्यसमाप्तिः । पतनीयानि पतनाहार्णि कर्माणि महापातकेभ्य ईषन्न्यूनानि ॥ १ ॥
१. कुण्डलान्तर्गतो भागो ग. पुस्तके नाऽस्ति ।
२. सा स्त्री त्रिसत्रेण शुध्यति घ. पु. ।
| १६८ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् |
|---|
कानि पुनस्तानि ?
^१समुद्रसंयानम् । ब्रह्मस्वन्यासापहरणम् । भूम्यनृतम् । सर्व-पण्यैर्व्यवहरणम् । शूद्रसेवनम् । शूद्राभिजननम् । तदपत्यत्वं च । ^२एषामन्यतमत्कृत्वा चतुर्थकालामितभोजिनस्स्युस्सवनानु कल्पम् । स्थानासनाभ्यां विहरन्त एते त्रिभिर्वर्षैस्तदपहन्ति पापम् ॥ २ ॥
अनु०—ये पतनीय कर्म हैं—समुद्र की यात्रा करना, ब्राह्मण की सम्पत्ति या धरोहर रखी हुई वस्तु हड़प लेना, भूमि के संबन्ध में झूठी गवाही देना, सभी प्रकार की वस्तुओं का क्रय-विक्रय करना ( चाहे वह निषिद्ध हो या न हो ), शूद्र की सेवा करना, शूद्रा स्त्री में गर्भाधान करना, इस प्रकार शूद्रा से ( अपनी शूद्रा पत्नी से भी पुत्र के रूप में उत्पन्न होना,—इनमें से कोई भी पतनीय कर्म करने पर प्रायश्चित्त के लिए भोजन की चौथी वेला को ही अल्प भोजन करे, तीनों सवन काल प्रातः, मध्याह्न और सायं ) स्नान करे, दिन में खड़ा रहे तथा रात्रि को बैठकर ही बितावे, इस प्रकार तीन वर्ष बिताने पर पतनीय कर्म का पाप नष्ट माना जाता है ॥ २ ॥
टि०—'शूद्राभिजननम्, तदपत्यत्वं च' की व्याख्या में गोविन्द स्वामी ने शूद्र की सन्तान होने की यह भी स्थिति बतलायी है कि शूद्र के यहाँ पुत्र बनकर रहना भी पतनीय कर्म है 'शूद्रस्य वा पुत्रभावः, तवायं पुत्रोऽस्मि इत्युपजीवनम् ।'
समुद्रसंयानं नावा द्वीपान्तरगमनम् । ब्राह्मणस्वन्यासापहरणं निक्षेपापहरणम् । भूम्यनृतं साक्ष्ये भूमिविषयानृतवादः । सर्वैः पण्यैर्व्यवहरणीयैरप्युभयतोदद्भिव्र्यवहरणम् । शूद्रप्रेष्यता तत्सेवनमुच्यते । शूद्रायां गर्भस्थापनं शूद्राभिजननम् । शूद्रायां स्वभार्यायामपि जातत्वं तदपत्यत्वम् । शूद्रस्य वा पुत्रभावस्तवाऽहं पुत्रोऽस्मोत्युपजीवनम् । एषामन्यतमस्मिन् कृते प्रायश्चित्तम्—चतुर्थकालाः चतुर्थे काले येषां भोजनं ते तथोक्ताः । मितभोजिनः अल्पभुजः । अपोऽभ्युपेयुस्सवनानु कल्पं त्रिषवणस्नानिनः स्थानासनाभ्यामहोरात्रयोर्यथासङ्ख्यं विहरन्त एवमाचरन्तः एते तत्पापं त्रिभिः संवत्सरैरपहन्ति अपघ्नन्तीत्यर्थः ॥२॥
^३यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणस्सेवमानः । चतुर्थकाल उदकाभ्यवायी त्रिभिर्वर्षैस्तदपहन्ति पापमिति ॥ ३ ॥
१. एतत्सूत्रं नवधा विभक्तं इ. पुस्तके ।
२. cf. आप. ध. १. २५. ११.
३. cf. आप ध. १. २७. ११.
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६९
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १६९
अनु०—ब्राह्मण एक दिन और रात्रि की अवधि में कृष्ण वर्ण के व्यक्ति की सेवा करने से जो पाप करता है वह पाप तीन वर्षों में प्रत्येक चतुर्थ भोजन वेला पर भोजन करने तथा तीनों सवनों में स्नान करने से दूर होता है ॥ ३ ॥
टि०—इस सूत्र को गोविन्द स्वामी ने शूद्रा स्त्री से या चण्डाली से मैथुन के प्रसङ्ग में लिया है । संभवतः उपर्युक्त सूत्र शूद्र वर्ण की सेवा का निषेधमात्र करता है किन्तु पूर्ववर्ती सूत्र में शूद्रसेवा के प्रसंग में नियम दिया जा चुका है । केवल एक दिन रात्रि शूद्र सेवा के इस प्रायश्चित्त में दिन में खड़े रहने और रात्रि में बैठे रहने का कठोर व्रत नहीं विहित है, संभवतः शूद्रसेवा की अल्पावधि के कारण । गोविन्द स्वामी का दृष्टिकोण भी ठीक हो सकता है ।
'कृष्णो वर्णः चण्डालोत्येके । वर्णशब्दानुपपत्तेः शूद्रैवेत्यपरे । तत्सेवनं तद्गमनम् । व्याख्यातं चतुर्थकालत्वमनन्तरसूत्रेऽपि । उदकाभ्यवायी त्रिषवण-स्नायी एकरात्रेण सकृद्गमनमाह । अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् विदुषो बुद्धिपूर्वकगमन इदम् ॥ ३ ॥
अथोपपातकानि ॥ ४ ॥
अनु०—अब उपपातकों का विवेचन किया जायगा ॥ ४ ॥
वक्ष्यन्त इति शेषः । एतान्यपि पतनीयेभ्यो न्यूनानि ॥ ४ ॥
अगम्यागमनं गुर्वीसखीं गुरुसखीमपपात्रां पतितां च गत्वा भेषजकरणं ग्रामयाजनं रङ्गोपजीवनं नाट्याचार्यता गोमहिषीरक्षणं यच्चाऽन्यदप्येवंयुक्तं कन्यादूषणमिति ॥ ५ ॥
अनु०—जिन स्त्रियों से संभोग वर्जित है उनका संभोग, माता की सखी, गुरु अर्थात् पिता की सखी, अपपात्र स्त्री, तथा पतिता स्त्री से मैथुन करना, जीविका के लिए चिकित्सा करना, अनेक लोगों के लिए यज्ञ कराना, मञ्च पर अभिनयादि कला दिखा कर जीविका चलाना, नृत्य, गीत अभिनय आदि की शिक्षा देना, जीविका के लिए गाय या भैंस पालना तथा अन्य इसी प्रकार के दुष्कर्म करना, किसी कन्या को ( संभोग द्वारा या उसके किसी दोष की अफवाह उड़ाकर ) दूषित करना—ये सभी उपपातक हैं ॥ ५ ॥
अगम्याः मातृष्वसृपितृष्वस्त्राद्याः । ताश्च नारदो जगाद—
माता मातृष्वसा श्वश्रूर्मतुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भार्या पुत्रस्य या भवेत् ॥
१, कृष्णो वर्णः शूद्रः इत्युज्ज्वलायां हरदत्तः ।
| १७० | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् |
|---|
दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रब्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसामन्यतमां गत्वा गुरुतल्पव्रतं चरेत् ॥
शिश्नस्योत्कर्तनं दण्डः नाऽन्यो दण्डो विधीयते ॥ इति ।
अत्र माता स्तन्यप्रदा । गर्भी माता गुरुः पिता तयोस्सखी च । अपपात्रा कन्या । उपपात्रेति पाठे पण्यस्त्री । पतिता ब्रह्महत्यादिभिः यैः पुरुषः पतति, स्वकीयैश्च । तथा च वसिष्ठः—
त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः ।
भर्तृवधो भ्रूणहत्या स्वस्य गर्भस्य पातनमिति ॥
भेषजकरणं उपजीवनाय । ग्रामयाजनं बहूनां याजनम् । रङ्गोपजीवनं रङ्गो नर्तनं तेनोपजीवनम् । नाट्याचार्यता नर्तकेभ्यो नटशास्त्रस्य भरतविशाखिलादेः प्रतिपादनम् । गोमहिषीरक्षणमप्युपजीवनाय । एवं युक्तम्, वेदनिन्दा, विप्रापवादः, शस्त्रपाणित्वं, अग्निगोत्राद्ब्राह्मणेभ्यो दानप्रतिषेधः। अयाज्यसंयाज्यपारदार्यात्मविक्रय इत्यादि । कन्यादूषणं तद्गमनं तद्दूषणं वा—रोगिणी काणा विरूपा बहुभुगाकुला मन्दगतिमन्दप्रज्ञा बहुभाषिणी दुर्गन्धगात्रेत्यादि ॥ ५ ॥
तेषां तु निर्वेशः पतितवृत्तिद्धौ संवत्सरौ ॥ ६ ॥
अनु०—उपपातक के दोषी व्यक्तियों का प्रायश्चित्त यह है कि वे दो वर्ष तक पतित व्यक्ति का जीवन व्यतीत करें ॥ ६ ॥
टि०—अर्थात् ऐसे पतित भिक्षावृत्ति का आश्रय लेकर जीवन निर्वाह करें ।
निर्वेशः प्रायश्चित्तं पतितानां वृत्तिः जीवनं भैक्ष्यवृत्तिरित्यर्थः । अथ वा—ब्राह्मणो व्रतं द्वौ संवत्सरौ चरेत् ॥ ६ ॥
अथाऽशुचिकराणि ॥ ७ ॥
अनु०—अब अशुद्धि उत्पन्न करने वाले दुष्कर्मों का विवेचन किया जाता है ॥७॥
वक्ष्यमाणानि वेदितव्यानि । तान्युपपातकेभ्यो न्यूनानि ॥ ७ ॥
द्यूतमभिचारोऽनाहिताग्नेरुञ्छवृत्तित्ता समावृत्तस्य भैक्षचर्या तस्य चैव गुरुकुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यस्तस्य चाऽध्यापनं नक्षत्रनिर्देशश्चेति ॥ ८ ॥
अनु०—जुआ खेलना, आभिचारिक अनुष्ठान करना, अग्निहोत्र न करने वाले
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७१
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७१
व्यक्ति का खेत में गिरे अन्न को एकत्र कर जीवनवृत्ति चलाना, समावर्तन संस्कार होने के बाद भी भिक्षा मांग कर जीविका निर्वाह करना, समावर्तन के बाद चार मास से अधिक गुरु के यहां निवास करना, ऐसे समावर्तन संस्कार के बाद गुरुकुल में निवास करने वाले व्यक्ति का अध्यापन करना और नक्षत्रों का निर्देश कर ज्योतिष द्वारा जीविका निर्वाह करना ये सभी अशुद्धि उत्पन्न करने वाले कर्म हैं ॥८॥
द्यूतमक्षादिभिर्देवनम् । अभिचारः श्येनाद्यनुष्ठानम् । उञ्छः पथि क्षेत्रे वाऽनाघृते देशे एकैककणिशोद्धरणं तेन वर्तनमुञ्छवृत्तिः । सा चाऽनाहिताग्नेरशुचिकरा । आहिताग्नेस्तु विहिता ! तथा हि—
वर्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः ।
इष्टीः पार्वणनान्तीयाः केवला निर्वपेत्सदा ॥ इति ।
समावृत्तो गृहस्थस्तस्य भिक्षाचर्या । तस्य चैव समावर्तनप्रभृति मासचतुष्टयादूर्ध्वं गुरुकुले वासः । अतस्तस्य मासद्वयं मासचतुष्टयं वा गुरुकुलवास इष्यत एव । तथा चाऽपस्तम्बः—'द्वौ द्वौ मासौ समाहित आचार्यकुले वसेत् भूयश्श्रुतमिच्छन्' । इति तस्यैवमुक्तलक्षणात् कालादूर्ध्वं यदध्यापनं तदप्यशुचिकरम् । अतश्चैतत् ज्ञापितं यावन्मरणं विद्यासङ्ग्रहः कार्य इति । तदुक्तम्—
वलीपलितकालेऽपि कर्तव्यश्श्रुतिसङ्ग्रहः ॥ इति ॥
नक्षत्रनिर्देशो ज्योतिःशास्त्रोपजीवनम् । चशब्दात् प्रतिमालेखनगृहस्थपरपाकोपजीवनानि गृह्यन्ते ॥ ८ ॥
यान्येतान्यशुचिकराणि—
'तेषां तु निर्वेशो द्वादश मासान् द्वादशाऽर्धमासान् द्वादश द्वादशाहान् द्वादश षडहान् द्वादश त्र्यहान् द्वादशाहं षडहं त्र्यहमहोरात्रमेकाहमिति यथाकर्माभ्यासः ॥ ९ ॥
अनु०—ऐसे अशुचियुक्त व्यक्तियों का प्रायश्चित्त दुष्कर्म की मात्रा के अनुसार बारह मास, बारह पक्ष, बारह-बारह दिनों की अवधि, बारह छः दिनों की अवधि, बारह तीन दिनों की अवधि, बारह दिन, छः दिन, तीन दिन-रात्रि या एक दिन व्रत करना होता है ॥ ९ ॥
अत्र षडहात् प्राग्ये काला निर्दिष्टाः तान् प्राजापत्येन याजयेत् । षडहादींस्त्वनशनेन । यथा पापस्य कर्मणोऽभ्यासस्तथा सेवा । तत्र गुर्वभ्यासे गुरुकल्पः । मध्यमे मध्यमः । लघौ लघुः ॥ ९ ॥
१. सूत्रमिदं समानाक्षरमेव आप. ध. १. २९ १७-१८ द्रष्टव्यम् ।
१७२ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम्
पतितानामेव किञ्चिद्वदाह—
'अथ पतितास्समवसाय धर्मांश्चरेयुरितरेतरयाजका इतरेतराध्याप-
का मिथो विवहमानाः पुत्रान् सन्निष्पाद्य ब्रूयुर्विप्रव्रजताऽस्मत्त
एवमार्यान् सम्प्रतिपत्स्यथेति ॥ अथापि न सेन्द्रियः पतति । तदेतेन
वेदितव्यमङ्गहीनोऽपि ²हि साङ्गं जनयतीति ॥ १० ॥
अनु०—सभी पतित एक साथ एक स्थान पर निवास करें, आपस में ही धर्मों का पालन करें, एक दूसरे का यज्ञ करावें, एक दूसरे का अध्यापन करें, आपस में ही विवाह करें और पुत्र उत्पन्न होने पर उनसे कहें हमें छोड़ कर जाओ, इस प्रकार तुम पुनः आर्यों को प्राप्त करोगे ॥ १० ॥
टि०—मनुष्य अपने इन्द्रियों के साथ पतित नहीं होता, इसका दृष्टान्त यही है कि विकलांग मनुष्य का पुत्र भी सम्पूर्ण अंगों से युक्त उत्पन्न होता है।
टि०—तात्पर्य यह है कि आर्यों के सम्पर्क में आने पर पतितों के पुत्र पवित्र हो हो जाते हैं। मनुष्य के पतित होने पर भी उसके इन्द्रियों का पतन नहीं माना जाता और इस कारण पुत्र को भी पतित नहीं माना जाता।
समवसाय सम्भूय परस्परं पतिता धर्मांश्चरेयुः ! किंल्लक्षणान् । यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणान् अत्र परस्परं विवहमानेषु यदि पुत्रा निष्पन्ना भवेयुः तान्निष्पादितानुपनीयैव पितरो ब्रूयुः—विप्रव्रजत निर्गच्छत अस्मत्तः अस्मान् त्यक्त्वा निर्गच्छत निर्गता आर्यान् प्रतिपत्स्यथ यूयमार्यान् प्रतिपत्स्यथ, अपिशब्दस्सम्भावनावचनः । आर्यैः किल यूयं सम्प्रयोगं प्राप्स्यथेति आर्या एव युष्माकमुपनेतारो भविष्यन्तीति । पतितपुत्रा अपि तैस्संसर्गाभावे शुचयो भवन्ति । संसर्गे हि संसर्गपतनमिति ॥
ननु पतितपुत्रत्वादपि तद्वत्वतीत्याशङ्कयाऽऽह—अथाऽपि न सेन्द्रियः पतति यद्यपि च पिता पतति तथाऽपि सेन्द्रियः इन्द्रियैस्सह न पतति । कस्मात् ? न हि पतनीयकारणम् । न चेन्द्रियाणि करणानि पतितानि । कर्तृकरणयोश्च पृथक्त्वं प्रसिद्धम् , उपस्थेन्द्रियं च कर्मेन्द्रियम् ।
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता ॥ इति ॥
१. इदमपि सूत्रमापस्तम्बधर्मसूत्रे समानानुपूर्वीकं समानाक्षरमेव । परन्तु तत्र चतुर्धा विभक्तम् । see, आप. ध. १. २९. ८-११,
२. अङ्गहीनोऽपि क. घ. पु.
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७३
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७३
पुत्राश्चेन्द्रियनिष्पादिताः । तथा च मन्त्रः—'अङ्गादङ्गात्सम्भवसि' इति । अतः करणसमवायिनः ।
अथोच्येत सर्वैरेव पितृगुणैः पुत्रैर्भवितव्यम् । अपि पतितत्वेनेति । तदपि न । कस्मात्—तदेतेन वेदितव्यम् दृश्यते ह्ययमर्थोऽङ्गहीनोऽपि साङ्गं जनयति, साङ्गोऽप्यङ्गहीनम् । अतो नाऽवश्यं पतितपुत्रेणाऽपि पतितेन भवितव्यम् ॥ १० ॥
अमुं तावत्पक्षं दूषयति—
'मिथ्यैतदिति हारीतो दधिधानीसधर्माः स्त्रियस्तयो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तच्छिष्टा धर्मकृत्येषूपयोजयन्ति । एवमशुचि शुक्लं यन्निर्वर्तते न तेन सह सम्प्रयोगो विद्यते ॥ ११ ॥
हारीत का कथन है कि यह धारणा मिथ्या है । उनके अनुसार स्त्रियां यज्ञिय दधिधानी पात्र के समान होती हैं, जिस प्रकार दधिधानी में अशुद्ध दूध को मथने पर शिष्ट लोग उसका प्रयोग धर्म कार्यों में नहीं करते हैं इसी प्रकार जो व्यक्ति अपवित्र वीर्य से उत्पन्न होता है उसके साथ किसी प्रकार का संबन्ध नहीं होना चाहिए ॥ ११ ॥
टि०—इस मत के अनुसार देह भी कर्ता होने के कारण पतित होता है ।
अपतितायामपि जनन्यां पतितादुत्पन्नश्चेत् पतित एव भवतीत्येतदनेन कथ्यते । कस्य हेतोः ? यावता जनन्या अपि स उत्पन्नः । मिथ्यैतदिति हारीतः । हारीतग्रहणं पूजार्थम्, नाऽऽत्मीयं मतं पर्युदसितुम् । अत्र दधिधानीसाधर्म्यात् स्त्रीणां बीजप्राधान्यं दर्शयति । तथा द्रव्यानन्तरनिष्पत्त्यायतनत्वं दधिधान्या एव । आसामप्यशुचिशुक्लाधारत्वम् । यथा च दधिधान्यां प्रयतायामातञ्चितादप्रयताद्दध्नो मथननिष्पन्नं नवनीतं घृतं न धर्मकार्येष्विष्ट्यादिषु उपयुज्यते, एवमशुचिशुक्लनिष्पादितेन पुंसा न धर्मसम्बन्धो विधीयते । अथ यदुक्तं 'न सेन्द्रियः पतति इति तत् मिथ्यैव'। कथं ? द्वौ हि पुरुषौ भवतः-सोपाधिको निरूपाधिकश्च । यो निरूपाधिकः परमात्मा तस्याऽकर्तृत्वम् । सोपाधिकस्तु पुण्यापुण्ये करोति, तत्फलं चाऽनुभवति । उपाधिश्च बुद्ध्यादिर्देहपर्यन्तः । स हि क्षेत्रज्ञः । तस्मिंश्चाऽहम्प्रत्ययः । स च भूतात्मा स देहोऽहङ्कारं मनः ॥
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ इति ॥
१. इदमपि सूत्रमापस्तम्बीये धर्मे प्रायशस्समानानुपूर्विकमेव See. आप. ध. १ २९. १२--१४ ।
१७४ बौधायन-धर्मसूत्रम् [ प्रायश्चित्तम्
ततो देहोऽपि कर्तृत्वादेव पतति । एवं च कृत्वा मृतेष्वपि पतितेषु तत्सपि- ण्डानां तद्देहस्पर्शनादिः शिष्टैर्नाऽभ्युपगम्यते । तस्मादशुचिशुक्लोत्पन्नानामशु- चित्वमेव । तथा च स्मृतिः--'पतितोत्पन्नः पतितो भवतीत्याहुः' इति । यदप्यु- क्तम् 'अङ्गहीनोऽपि साङ्गम्' इति, तदपि ग्रहस्थितिवशात् आहारविशेषवशाच्च युक्तम् । इह तु सेन्द्रिय एव पततीत्युक्तम् । किञ्च--स्त्रीपुंसाभ्यां हि पुत्रो जन्यते । यद्यत्राऽपि पुमानङ्गहीनः स्त्री तु साङ्गा भवत्येव । ततोऽस्याऽङ्गानि- प्रवर्तन्ते ॥ मनुः-- पितुर्वा भजते शीलं मातुर्वोभयमेव वा ॥ इति । इदं चाऽन्यत्-भूयांसो धर्माः कारणगताः कार्ये भवन्ति । तत्र शुक्लादयो गुणाः पुत्रे न भवन्तीति प्रमाणशून्यं वचः । अत एव तदपि मिथ्यैव । तस्मान्न तेन सह सम्प्रयोगो विद्यत इति स्थितम् ॥ ११ ॥
यद्यपि सम्प्रयोगो न विद्यते, तथाऽपि प्रायश्चित्तं तस्याऽस्तीत्याह-- अशुचिशुक्लोत्पन्नानां तेषामिच्छतां प्रायश्चित्तिः । पतनीयानां तृतीयांशस्स्त्रीणामंशस्तृतीयः ॥ १२ ॥
अनु०—इस प्रकार अपवित्र वीर्य से ( पतित पुरुषों से ) उत्पन्न पुरुष यदि प्रायश्चित्त करने के इच्छुक हों तो उनका व्रत पतनीयों के व्रत का तीसरा अंश होता है और इस प्रकार उत्पन्न स्त्रियों का व्रत उसको भी तृतीय अंश होता है ॥ १२ ॥
पतनीयप्रायश्चित्तं यत्तूक्तं 'चतुर्थकाला मितभोजिनस्स्युः' इति तस्य तृतीयो भागः पतितोत्पन्नानां प्रायश्चित्तम् । स्त्रीणां तदुत्पन्नानां तस्याऽपि तृतीयो भागः, नवमभाग इति यावत् । तत्र तौल्येऽपि तद्बीजत्वे स्त्रीणां दोषलाघवमवगम्यम् । तथा च वसिष्ठो युक्तिमेवाऽऽह-- 'पतितोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः, सा हि परगामिनी, तामरिक्थामुपेया'दिति ॥ १२ ॥
'सर्वपण्यैर्व्यवहरणम्' ( २.२.५ ) इति पतनीयमुक्तम् । तत्र किल विषये किञ्चिदुच्यते- भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः । श्वविष्ठायां क्रिमिर्भूत्वा पितृभिस्सह मज्जतीति ॥ १३ ॥
अनु०—यदि भोजन, मालिश और दान के अतिरिक्त किसी अन्य प्रयोजन के लिए तिलों का व्यवहार करता है तो वह क्रिमि बनकर अपने पितरों के साथ कुत्ते के मल में डूबता है, ऐसा उद्धरण दिया जाता है ॥ १३ ॥
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७५
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७५
^१नाऽत्र तिरोहितं किञ्चिदस्ति ॥ १३ ॥
पितॄन्वा एष विक्रीणीते यस्तिलान् विक्रीणीते ।
प्राणान् वा एष विक्रीणीते यस्तण्डुलान् विक्रीणीते ॥ १४ ॥
अनु०— जो तिल का विक्रय करता है वह अपने पितरों का ही विक्रय करता है, जो चावल बेचता है वह अपने प्राणों को ही बेचता है ॥ १४ ॥
निन्दैषा तिलतण्डुलयोर्विक्रयस्य ॥ १४ ॥
सुकृतांशांन्वा एष विक्रीणीते यः पणमानो दुहितरं ददाति ॥ १५ ॥
अनु०— जो सौदा कर (बदले में द्रव्य लेकर) पुत्री देता है वह अपने पुण्य के अंशों को ही बेचता है ॥ १५ ॥
सुकृतं पुण्यं तदंशाः सुकृतांशाः । पणमानो योऽन्यस्माद् द्रव्यं गृहीत्वाऽन्यस्मै द्रव्यान्तरप्राप्त्यर्थं प्रयच्छति ॥ १५ ॥
अथ प्रसङ्गात् पण्यमाचष्टे—
तृणं काष्ठमविकृतं विक्रेयम् ॥ १६ ॥
अनु०— तृण और काष्ठ अविकृत रूप में बेचे जा सकते हैं ॥ १६ ॥
टि०— अविकृत से तात्पर्य यह है कि उनसे कोई उपकरण न बनाया गया हो—जैसे चटाई, रस्सी, काष्ठपात्र आदि ।
तृणविकाराः रज्ज्वासनकटादयः । काष्ठविकाराः स्रुक्स्रुवप्रतिमादयः । तद्वर्ज्जं तृणं काष्ठं ब्राह्मणैरप्यापदि विक्रेयम् ॥ १६ ॥
अथाप्युदाहरन्ति—
पशवश्चैकतोदन्ता ^२अश्मा च लवणादुद्धृतः ।
एतद् ब्राह्मण ते पण्यं तन्तुश्चा^३रजनीकृत इति ॥ १७ ॥
अनु०— इस विषय में निम्नलिखित पद्य उद्धृत किया जाता है—ब्राह्मणो, तुम इन्हीं वस्तुओं को बेच सकते हो वे पशु जिनके मुख में केवल एक जबड़े में दांत होते हैं, नमक के अतिरिक्त अन्य खनिज पदार्थ, तथा बिना रंगा हुआ धागा ॥ १७ ॥
ऋचा ब्राह्मणमाह—हे ब्राह्मण ! तवैतत्पण्यं यदेकतोदन्ताः । पशवः शृङ्गिण-
१. नेदं ग-पुस्तकेऽस्ति ।
२. अश्मानो लवणोद्धृताः इति ग. पु.
३. रजनीकृतः इति. ग. पु.
| १७६ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् |
|---|
स्तेष्वेकतोदन्ताः, अश्मा$^१$ पाषाणश्च लवणोद्धृतो लवणवर्जितः। तन्तु$^२$श्चारजनीकृतः कुसुम्भकुङ्कुमहरिद्राद्यरञ्जित इत्यर्थः ॥ १७ ॥
पातकविवर्जितेषु पण्याविक्रेयेषु प्रायश्चित्तं वक्तव्यम्, तदुच्यते—
पातकवर्जं वा बभ्रुं पिङ्गलां गां रोमशां सर्पिषाऽवसिश्च्य कृष्णैस्तिलैरवकीर्याऽनूचानाय दद्यात् ॥ १८ ॥
अनु०— पातक के अतिरिक्त कोई अन्य पाप कर्म करने पर प्रायश्चित्त के रूप में वेदों के विद्वान् ब्राह्मण को भूरे या पिंगल वर्ण की प्रचुर रोमवाली गौ का उसके ऊपर जल छिड़क कर तथा काला तिल बिखेर कर दान करे ॥ १८ ॥
वाशब्दो वक्ष्यमाणेन प्रायश्चित्तेन विकल्पार्थः । बभ्रुपिङ्कलयोर्विकल्पार्थो वा । रोमशाम् एवंभूतां गां घृतेनाऽभ्यज्य तामेव कृष्णतिलैरवकीर्य बहुश्रुताय ब्राह्मणाय दद्यात् ॥ १८ ॥
$^३$कूष्माण्डैर्वा द्वादशाहम् ॥ १९ ॥
अनु०— अथवा कूष्माण्ड मन्त्रों का उच्चारण करते हुए बारह दिन हवन करे ॥ १९ ॥
जुहुयादिति शेषः ॥ १९ ॥
यदवचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यते इति ॥ २० ॥
अनु०— इस प्रकार प्रायश्चित्त करने वाला विद्वान् ब्राह्मण की हत्या की अपेक्षा कम दोष वाले दुष्कर्मों के पाप से मुक्त हो जाता है ॥ २० ॥
अर्वाचीनमर्वाक्तनम् । फलविधिः फलार्थवादो वाऽयम् ॥ २० ॥
पातकाभिशंसने कृच्छ्रः ॥ २१ ॥
अनु०— पातक का दोष लगाये जाने पर भी प्रायश्चित्त के लिए कृच्छ्र व्रत करे ॥ २१ ॥
पातक्ययमित्युक्तिमात्रे प्राजापत्योऽयं प्रायश्चित्तम् । कस्य ? अनृतेन पातकेनाऽभिशस्तस्य ॥ २१ ॥
अथाऽस्मिन्नेव विषयेऽभिशंसितुराह—
तदब्दोऽभिशंसितुः$^४$ ॥ २२ ॥
१. अत्राऽपि बहुवचनान्तपाठो दृश्यते ग. पुस्तके
२. रजनीकृतः कुसुम्भहरिद्रादिभी रञ्जित इत्यर्थः इति. ग. पु.
३. कूष्माण्डा व्याख्याताः १७. पृष्ठे ।
४. अभिशंसितरिति. घ. पु.
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७७
द्वितीयः खण्डः ] द्वितीयप्रश्ने प्रथमोऽध्यायः १७७
अनु०— पातक का मिथ्या दोष लगाने वाला एक वर्ष तक कृच्छ्र व्रत करे।२२।
तदिति कृच्छ्रं प्रतिनिर्दिशति । ब्राह्मणमनृतेन पातकेनाभिशंस्य संवत्सरं प्राजापत्यव्रतं चरेत् । अत्र गौतमः—'ब्राह्मणाभिशंसने दोषस्तावत् । द्विरनेन-सि' इति ॥ २२ ॥
पतितसम्पयोगे सति कियता कालेन केन सम्प्रयोगेण पततीति ? तदुभयं वक्ति—
संवत्सरेण पतति पतितेन समाचरन् ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनादिति ॥ २३ ॥
अनु०— जो व्यक्ति पतित के साथ एक वर्ष तक संबन्ध बनाये रखता है वह भी पतित हो जाता है, पतित का यज्ञ कराने, उसका अध्यापन करने या उससे वैवाहिक संबन्ध स्थापित करने से नहीं, अपितु उसके साथ एक सवारी पर चलने, एक साथ बैठने, एक साथ भोजन करने से ही पतित हो जाता है ॥ २३ ॥
यानासनाशनानैस्संवत्सरेण पतति । न तु याजनादिभिस्संवत्सरेण । किं तर्हि ? सम्बन्धमात्रेण, सद्य एवेत्यर्थः । अन्तरङ्गत्वात् याजनादीनां बहिरङ्ग-त्वाच्च यानादीनाम् । तस्माद्युक्ता योजना । याजनं नाम ऋत्विग्यजमानस-म्बन्धः । शिष्योपाध्यायसम्बन्धोऽध्यापनम् । कन्यादानप्रतिग्रहलक्षणसम्बन्धो यौनम् । यानाद्येकस्यां शालायामेकस्मिन् कुञ्जरे खट्वायाँ वा ॥ २३ ॥
१अमेध्यप्राशने प्रायश्चित्तं नैष्पुरीष्यं तत्सप्तरात्रेणाऽवाप्यते । २अपः पयो घृतं पराक इति प्रतित्र्यहमुष्णानि स तप्तकृच्छ्रः ॥ २४ ॥
अनु०— अमेध्य वस्तुओं को खा लेने का प्रायश्चित्त यह है कि जब तक पेट का मल पूर्णतः शरीर से बाहर नहीं निकल जाता तब तक उपवास करे, सात दिन रात में मलोत्सर्ग द्वारा पूर्णतः शुद्धि होती है। जल, दूध और घृत को उष्ण कर तीन-तीन दिन सेवन करते हुए पुनः तीन दिन उपवास करे तो वह तप्तकृच्छ्र नामक व्रत होता है ॥ २४ ॥
अमेध्यशब्देन श्वापदोष्ट्रखरादीनां मांसं लशुनगृञ्जनपलाण्डुकवकाद्-यश्च गृह्यन्ते । अबादीनि त्रीण्युष्णानि । पराक उपवासः प्रतित्र्यहम् । एवमे-कैकस्मिन् कृते सति द्वादश सम्पद्यन्ते । तस्यैतस्य तप्तकृच्छ्र इति संज्ञा ॥ २४ ॥
१. See, आप. ध. १. २७. ३. and गौ. ध. २१. ४
२. See. याज्ञवल्क्य. ३. ३२७. and मनु also. ११; २१४.
१५ बौ०ध०
१७८ | बौधायन-धर्मसूत्रम् | [ प्रायश्चित्तम् ]
^१त्र्यहं प्रातस्तथा सायं त्र्यहमन्यदयाचितम् ।
त्र्यहं परं तु नाऽश्नीयात् पराक इति कृच्छ्रः ॥ २५ ॥
**अनु०—**तीन दिन केवल प्रातः काल भोजन करने, अगले तीन दिन केवल सायंकाल भोजन करने, उसके बाद तीन दिन बिना माँगे मिले हुए भोजन पर निर्वाह करने और फिर तीन दिन भोजन न करने पर कृच्छ्र व्रत होता है ॥ २५ ॥
अयमपि द्वादशाह एव ॥ २५ ॥
अथ बालकृच्छ्रमाह—
प्रातस्सायमयाचितं पराक इति त्र्यूश्चतूरात्राः स एषः स्त्रीबालवृद्धानां कृच्छ्रः ॥ २६ ॥
**अनु०—**यदि प्रातः भोजन, सायंभोजन, अयाचित अन्न का भोजन तथा उपवास करते हुए चार-चार दिनों के तीन भागों में बारह दिनों का समय विभक्त किया जाय तो वह स्त्रियों, बालकों और वृद्धों का कृच्छ्र व्रत होता है ॥ २६ ॥
एकैकमेकाहः परं तु नाऽश्नीयात् अतश्चतुरहोऽयम् । बालादिग्रहणमशक्तोपलक्षणम् ॥ २६ ॥
^२यावत्सकृदाददीत तावदश्नीयात्पूर्ववत्सोऽतिकृच्छ्रः ॥ २७ ॥
**अनु०—**एक बार में जितना अन्न खा सकता हो उतना मात्र ही खाते हुए उपर्युक्त विधि से व्रत करे तो वह अतिकृच्छ्र नाम का व्रत होता है ॥ २७ ॥
पूर्ववदित्येतेन सर्वातिदेशे प्राप्ते ग्रासनियमार्थं सकृद्ग्रहणम् । ग्रासस्तु ^३शिख्यण्डपरिमितो पाणिपूरणान्नो वा ॥ २७ ॥
^४अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥ २८ ॥
**अनु०—**यदि केवल जल पीकर ( बारह दिन का ) व्रत करे तो वह तीसरा व्रत कृच्छ्रातिकृच्छ्र नाम का व्रत होता है ॥ २८ ॥
कृत्स्नोऽपि द्वादशाहोऽब्भक्षो भवेत् । तृतीयग्रहणं समुच्चितानामेषां सर्वप्रायश्चित्तत्वप्रदर्शनार्थम् । यथाऽयं तृतीयो भवति तथा कुर्यादित्यर्थः । यद्वा—
१. See. आप. ध. १. २७. ७. and गो. ध. २६. ४.
२. cf. गौ. ध. २७. १८.
३. See. या. स्मृ. ३. २१९. शिख्यण्डो मयूराण्डः ।
४. cf. गौ. ध २७. १९. and See also. या. स्मृ. ३. ३२०
द्वितीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः [ १७९
द्वितीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः [ १७९
चतुर्षु त्र्यहेषु तृतीयस्त्र्यहोऽन्भक्षो भवति । प्रथमद्वितीयौ चोदनमक्षौ । चतुर्थः पराक इति । स एष कृच्छ्रातिकृच्छ्रः ॥ २८ ॥
अथ कृच्छ्रव्रतमुच्यते—
कृच्छ्रे त्रिषवणमुदकोपस्पर्शनम् ॥ २६ ॥
अनु०—कृच्छ्र व्रत करते समय तीनों सवन काल में स्नान करे ॥ २९ ॥
त्रीणि सवनानि प्रातर्मध्यन्दिनं सायमिति । उपस्पर्शनं स्नानम् ॥ २९ ॥
अधश्शयनम् ॥ ३० ॥
अनु०—भूमि पर सोवे ॥ ३० ॥
उपरि खट्वादिषु शयननिषेधः। अनुपस्तीर्णे देशे शयनमधश्शयनमित्यपरे ॥ ३० ॥
एकवस्त्रता केशश्मश्रुलोमनखवापनम् ॥ ३१ ॥
अनु०—केवल एक वस्त्र धारण करे, केशों। दाढ़ी-मूँछ, शरीर के लोम तथा नखों को कटवाए ॥ ३१ ॥
अत्रोत्तरीयं प्रतिषिध्यते ॥ ३१ ॥
एतदेव स्त्रियाः केशवपनवर्जं केशवपनवर्जनम् ॥ ३२ ॥
इति बौधायनीये धर्मसूत्रे द्वितीयः खण्डः ॥
अनु०—यही नियम स्त्रियों के लिए भी होता है, किन्तु वे अपने केश न कटवाएँ ॥ ३२ ॥
यो यावान्निग्रमः कृच्छ्रेषु पुरुषस्योक्तः स एव स्त्रीणाम् । कृच्छ्रचरणे केशवपनं तु वर्ज्यते । द्विरुक्तिरुक्तप्रयोजना ॥ ३२ ॥
इति बौधायनधर्मविवरणे गोविन्दस्वामिकृते द्वितीये प्रश्ने प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः
तृतीयः खण्डः
एवं तावद्ब्रह्मचारिधर्मप्रसङ्गात् प्रसक्तानुप्रसक्तमभिहितम् । अधुना गृहस्थधर्मा उच्यन्ते । तत्र प्रथमं तावत्संक्षिप्याऽऽह—
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलान्नवर्जी ।
ऋतौ च गच्छन् विधिवच्च जुह्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ १ ॥
१८० | बौधायन-धर्मसूत्रम् | [ गृहस्थधर्माः
अनु०-सदैव कमण्डलु में जल लेकर चलने वाला, सदा यज्ञोपवीत धारण करने वाला, नित्य वेद का स्वाध्याय करने वाला, शूद्र के अन्न को न ग्रहण करने वाला, ऋतुकाल में ही अपनी पत्नी से मैथुन करने वाला और वेदविहित विधि के अनुसार हवनादि यज्ञ कर्म करने वाला ब्राह्मण मृत्यु के बाद ब्रह्म के लोक से च्युत नहीं होता ॥ १ ॥
टि०--इस सूत्र के अनुसार यदि गृहस्थ भी अपने आश्रम के अनुसार कर्मों को करते हुए धर्म का आचरण करता है तो मुक्ति का अधिकारी बन सकता है। इस संबन्ध में गोविन्दस्वामी ने याज्ञवल्क्य स्मृति का पद्य उद्धृत किया है।
नित्योदकी उदकमण्डलुहस्तः। नित्ययज्ञोपवीती निवीतिप्राचीनावीतिभ्यामन्यत्र। नित्यस्वाध्यायी नित्याध्ययनः अन्यत्रानध्यायात्। वृषलश्शूद्रः। अन्नग्रहणादामं प्राणसंशये तत्स्थित्यर्थमभ्यनुज्ञातमेव। ऋतुः आर्तवः ऋतेर्ग-तिकर्मणो गर्भाधानक्षमकालः। न वसन्तादिः। तत्र गच्छन् मैथुनमाचरन् आह--
ऋतुस्स्वाभाविकः स्त्रीणां रात्रयष्षोडश स्मृताः।
चतुर्भिरितरैस्सार्धमहोभिस्सद्भिर्गर्हितैः॥
तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः॥
एतच्च स्वभार्यायामेव। विधिवच्च जुह्वत् श्रुतिस्मृतिचोदितेन मार्गेण ब्रह्मलोकान्न च्यवते। ब्रह्म च तल्लोकश्च ब्रह्मलोकः। तस्मान्न च्यवते न भेदं प्रतिपद्यत इत्यर्थः। अनेन प्रकारेण गृहस्थस्याऽपि स्वाश्रमविहितकर्मणा मुक्तिमनुमन्यते¹। आह च याज्ञवल्क्यः--
न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ।
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते ॥ इति ।
तथा च धर्मस्कन्धब्राह्मणम्--'सर्व एते पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽमृतत्वमे'ति इति ॥ १ ॥
'ऋतौ च गच्छन्' इत्युक्तम् । तच्च 'प्रजानिश्श्रेयसम्' इति गृह्येषूक्तम् । प्रजानां च जीवनं कथं भवतीति दायविभागप्रकरणमारभ्यते । तत्र परकृतिरूपां श्रुतिमुदाहरति--
"²मनुः पुत्रेभ्यो दायं व्यभज"दिति श्रुतिः ॥ २ ॥
१. अनुमीयत. इति. ग. पु.
२. "मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् स
तृतीयः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः १८१
अनु०--श्रुति में कहा गया है कि मनु ने अपने पुत्रों में अपनी सम्पत्ति का विभाजन किया ॥ २ ॥
टि०--'पुत्रेभ्यः' से यह विशेष अर्थ निकलता है कि पुत्रों को ही पिता की सम्पत्ति में अधिकार है, पुत्रियों को नहीं । "मनुः पुत्रेभ्यो दायं व्यभजत् स नाभाने दिष्ठं ब्रह्मचर्यं वसन्तं निरभजत् स आगच्छत्सोऽब्रवीत् कथा मा निरभागिति न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्रमासते ते सुवर्गं लोकं न प्रजानन्ति तेभ्य इदं ब्राह्मणं ब्रूहि ते सुवर्गं लोकं यन्तो य एषां पशवस्तांस्ते दास्यन्तीति तदेभ्योऽब्रवीत् ते सुवर्गं लोकं यन्तो य एषां पशव आसन् तानस्मा अददुः ।"
पुत्रग्रहणात् पुंस एव विभजेत्, न दुहितुः । तथा च श्रुतिः-'तस्मात्स्त्रियो निरिन्द्रिया अदायादीः' इति । स्मृतिरपि—
विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ॥ इति ।
तत्र दायो दातव्यं द्रव्यम्, तस्य विभागो दायविभागः, इदानीं कर्तव्य इति विधिकल्पना ॥ २ ॥
तत्राऽयं प्रकारः—
समशस्सर्वेषामविशेषात् ॥ ३ ॥
अनु०— पिता अपनी सम्पत्ति का सभी पुत्रों में विशेष भाग न देकर समान विभाजन करे ॥ ३ ॥
न विशेषः कश्चिच्छिष्यते—विषमो विभाग इति । अयं तु समो विभागः सवर्णापुत्राणामौरसानां समानगुणानां च । न त्वसवर्णापुत्राणामनौरसानामसमानगुणानाम् ॥ ३ ॥
अस्मिन्नेव विषये उद्धारयुक्तं विभागमाह—
वरं वा रूपमुद्धरेज्ज्येष्ठः ॥ ४ ॥
अनु०— अथवा ज्येष्ठ पुत्र उस सम्पत्तिमें सबसे उत्कृष्ट द्रव्य अपने विशेष भाग के रूप में प्राप्त करे ॥ ४ ॥
'आगच्छत्सोऽब्रवीत् कथा मा निरभागिति न त्वा निरभाक्षमित्यब्रवीदङ्गिरस इमे सत्रमासते ते सुवर्गं लोकं न प्रजानन्ति तेभ्य इदं ब्राह्मणं ब्रूहि ते सुवर्गं लोकं यन्तो य एषां पशवस्तांस्ते दास्यन्तीति तदेभ्योऽब्रवीत् ते सुवर्गं लोकं यन्तो य एषां पशव आसन् तानस्मा अददुः" इति समग्रा श्रुतिः ॥ नाभानेदिष्ठः इति मनुपुत्रेष्वन्यतमस्य नाम । ब्रह्मचर्यं वसन्तं गुरुकुलेऽधीयानम् । निरभजत् भागरहितमकरोत् । कथा कथम् । अन्यदत्र सुगमम् ।
१८२ | बौधायन-धर्मसूत्रम् | [ दायविभागः
वरमुत्कृष्टरूपं द्रव्यमुद्धरेत् गृह्णीयात् ॥ ४ ॥
किं तत्र प्रमाणम्—
तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीति श्रुतिः ॥ ५ ॥
**अनु०—**इस कारण लोग ज्येष्ठ पुत्र को धन (का विशिष्ट भाग) देकर पृथक् करते हैं ऐसा श्रुति का वचन है ॥ ५ ॥
**टि०--**यह तैत्तिरीय संहिता, २.५.२.७ में आया है। इस श्रुतिवाक्य से पूर्वोक्त अविशेष समान विभाजन का नियम निरस्त हो जाता है।
निरवसायनं पृथक्करणम् । धनेनोपतोष्य पृथक्कुर्वन्तीत्यर्थः । अनया श्रुत्याऽविशेषादिति हेतुरपसारितो भवति ॥ ५ ॥
दशानां वैकमुद्धरेज्ज्येष्ठः ॥ ६ ॥
**अनु०—**अथवा ज्येष्ठ पुत्र दश भागों में एक भाग अपने विशेष अंश के रूप में प्राप्त करता है ॥ ६ ॥
सर्वं धनजातं दशधा विभज्य ज्येष्ठस्यैको भाग उद्धारः कार्यः । दशसङ्ख्याधिकेषु सत्स्वेष विभागो लाभाय भवति, न तु दशसंख्यान्यूनेषु । एतावुद्धारौ गुणवज्ज्येष्ठविषयौ वेदितव्यौ ॥ ६ ॥
सममितरे विभजेरन् ॥ ७ ॥
**अनु०--**शेष धन को दूसरे पुत्रों में समान अंश देते हुए विभाजन करे ॥ ७ ॥
सर्वं धनजातं दशधा विभज्य ज्येष्ठस्यैको भाग उद्धारः कार्यः । अवशिष्टनवभागानितरे पुत्रास्समं विभजेरन् ॥ ७ ॥
पितुरनुमत्या दायविभागस्सति पितरि ॥ ८ ॥
**अनु०—**पिता के जीवित रहने पर सम्पत्ति का विभाजन उसकी आज्ञा से ही होना चाहिए ॥ ८ ॥
तदनिच्छ्या विभागो दोषो भवति ॥ ८ ॥
चतुर्णां वर्णानां गोऽश्वाजावयो ज्येष्ठांशः ॥ ९ ॥
**अनु०—**ज्येष्ठ पुत्र का अतिरिक्त अंश चार वर्णों के क्रम के अनुसार गो, अश्व, बकरा और भेड़ होता है ॥ ९ ॥
अंशनियमेनोद्धारः । मृते जीवति वा पितरि सत्सु गोऽश्वाजाविष्वेतत् । इतरे समं विभजेरन् । गवादीनां ज्येष्ठभागद्गवावशिष्टस्याऽप्याधिक्ये सति विज्ञेयम् ॥ ९ ॥
तायः खण्डः ] द्वितीयप्रश्ने द्वितीयोऽध्यायः
एवं समानवर्णस्त्रीपुत्रविषयो विभाग उक्तः। अथ—
नानावर्णस्त्रीपुत्रसमवाये दायं दशांशान् कृत्वा चतुरस्त्रीन् द्वावे-
कमिति यथाक्रमं विभजेरन् ॥ १० ॥
अनु०—यदि अनेक वर्ण की स्त्रियों से उत्पन्न अनेक पुत्र हों तो सम्पत्ति का दश भाग कर, स्त्री के वर्ण-क्रम के अनुसार पुत्रों को चार, तीन, दो और एक भाग मिलता है। १० ॥
टि०—ब्राह्मणी का पुत्र चार भाग, क्षत्रिया से उत्पन्न पुत्र तीन भाग, वैश्या से उत्पन्न पुत्र दो भाग तथा शूद्रा से उत्पन्न पुत्र एक भाग प्राप्त करते हैं। इसी प्रकार क्षत्रिय अपनी सम्पत्ति का छः भागकर अपनी क्षत्रिया, वैश्या, शूद्रा पत्नियोंके पुत्रों को क्रमशः तीन, दो और एक भाग बाँटता है; वैश्य अपनी सम्पत्ति का तीन भाग कर वैश्या से उत्पन्न पुत्रों को दो भाग तथा शूद्रा पत्नीसे उत्पन्न पुत्रों को एक भाग दे।
नानावर्णस्त्रियो ब्राह्मणादिखियः। तत्पुत्रसमवाये सति सर्वं दशधा विभ-
ज्य चतुरोंऽशान् ब्राह्मणीपुत्रो हरेत्। इतरेषु षट्सु त्रीनंशान् क्षत्रियासुतः। तत्परि-
शिष्टेषु त्रिषु द्वौ वैश्यासुतः। तायैतदविशिष्टांशं शूद्रासुतः। एवं क्षत्रियोऽपि सुत-
स्य वर्णक्रमात् षोढा कृतानां त्रीन् द्वावेकमिति यथाक्रमं प्रकल्पयेत्। तथा
वैश्योऽपि स्वपुत्रयोः द्वावेकमिति विभजेत् ॥ १० ॥
अथौरसविषयविभागः—
औरसे तूत्पन्ने सवर्णास्तृतीयांशहराः ॥ ११ ॥
अनु०—औरस पुत्र के उत्पन्न होने पर अन्य सवर्ण पुत्र सम्पत्ति का तृतीय अंश प्राप्त करते हैं ॥ ११ ॥
टि०—औरस पुत्र पति द्वारा अपनी सवर्णा पत्नी से स्वयं उत्पादित पुत्र को कहते हैं। यदि किसी पुरुष का औरस पुत्र उत्पन्न होता है तो उसके अन्य सवर्ण पुत्र पूरी सम्पत्ति के तृतीय अंश में ही अपना हिस्सा पाते हैं। गोविन्दस्वामी की व्याख्या में 'सवर्णाः' के स्थान पर “असवर्णाः” ग्रहण किया गया है अर्थात् औरस सवर्ण पुत्र उत्पन्न होने पर अन्य वर्ण की पत्नियों से उत्पन्न पुत्र पूरी सम्पत्ति के तृतीय अंश में भी छः भाग कर वर्णानुसार तीन, दो, एक अंश ग्रहण करें।
औरसं सवर्णापुत्रं वक्ष्यति—'सवर्णायां संस्कृतायाम्' इति। तस्मिन्नु-
त्पन्नेऽसवर्णास्तृतीयांशहरा भवेयुः। सर्वं धनजातं त्रेधा विभज्य तेषामेकं
षोढा सम्पाद्य त्रीन् द्वावेकमिति कल्पयेत् ॥ ११ ॥