भारतकोश
संग्रह पर लौटें

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

हठयोगप्रदीपिका १२७ अथ राजयोगप्रशंसा—राजयोगस्येति । राजयोगस्यानन्तरमेवोक्तस्य माहात्म्यं प्रभावं तत्त्वतो वस्तुतः को वा जानाति ? न कोऽपि जानातीत्यर्थः । तत्त्वतो वक्तुमशक्यत्वेऽप्येकदेशेन राजयोगप्रभावमाह—ज्ञानमिति । ज्ञानं स्वस्वरूपापरोक्षानुभवो मुक्तिर्विदेहमुक्तिः स्थितिर्निर्विकारस्वरूपावस्थितिरूपा जीवन्मुक्तिः सिद्धिरणिमादिर्गुरुवाक्येन गुरुवचसा लभ्यते । राजयोगादिति शेषः ॥ ८ ॥ दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् । दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ ९ ॥ दुर्लभ इति । विशेषेण सिन्वन्त्यवबध्नन्ति प्रमातारं स्वसङ्गेनेति विषया ऐहिका दारादय आमुष्मिकाः सुधादयस्तेषां त्यागो भोगेच्छाभावो दुर्लभः । तत्त्वदर्शनमात्मापरोक्षानुभवः दुर्लभम् । सहजावस्था तुर्यावस्था । सद्गुरोः ‘दृष्टिः स्थिरा यस्य विनैव दृश्यम्’ इति वक्ष्यमाणलक्षणस्य करुणां दयां विनेति सर्वत्र संबध्यते । दुर्लभा लब्धुमशक्या । ‘दुःस्यात् कष्टनिषेधयोः’ इति कोशः । गुरुकृपया तु सर्वं सुलभमिति भावः ॥ ९ ॥ विविधैरासनैः कुम्भैर्विचित्रैः करणैरपि । प्रबुद्धायां महाशक्तौ प्राणः शून्ये प्रलीयते ॥ १० ॥ विविधैरिति । विविधैरनेकविधैरासनैर्मत्स्येन्द्रादिपीठैर्विचित्रैर्नानाविधैः कुम्भैः कुम्भकैः । विचित्रैरिति काकाक्षिगोलकन्यायेनोभयत्र संबध्यते । विचित्रैरने- कप्रकारकैः करणैर्हठसिद्धौ प्रकृष्टोपकारकैर्महामुद्रादिभिर्महाशक्तौ कुण्डलिन्यां प्रबुद्धायां गतनिद्रायां सत्यां प्राणो वायुः शून्ये ब्रह्मरन्ध्रे प्रलीयते प्रलयं प्राप्नोति । व्यापाराभावः प्राणस्य प्रलयः ॥ १० ॥

१२८ हठयोगप्रदीपिका उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्था स्वयमेव प्रजायते ॥ ११ ॥ उत्पन्नेति । उत्पन्नो जातः शक्तिबोधः कुण्डलीबोधो यस्य तस्य । त्यक्तानि परिहृतानि निःशेषाणि समग्राणि कर्माणि येन तस्य योगिनः । आसनेन कायिकव्यापारे त्यक्ते प्राणेन्द्रियेषु व्यापारस्तिष्ठति । कुम्भकेन प्राणनिरोधे प्राणेन्द्रियव्यापारे त्यक्ते मनसि व्यापारस्तिष्ठति । प्रत्याहारधारणाध्यानसंप्रज्ञात- समाधिभिर्मानसिकव्यापारे त्यक्ते बुद्धौ व्यापारस्तिष्ठति । 'असङ्गो ह्ययं पुरुषः' (Bṛh. Up., IV. 3. 15) इति श्रुतेरपरिणामी शुद्धः पुरुषः सत्त्वगुणात्मिका परिणामिनी बुद्धिरिति । परवैराग्येन दीर्घकालसंप्रज्ञाताभ्यासेनैव वा बुद्धिव्यापारे परित्यक्ते निर्विकारस्वरूपावस्थितिर्भवति सैव सहजावस्था तुर्यावस्था जीवन्मुक्तिः स्वयमेव प्रयत्नान्तरं विनैव प्रजायते प्रादुर्भवति । 'येन त्यजसि तत्तयज' इति 'निःसङ्गः प्रज्ञया भवेत्' (Māṇ. Up., III. 45) इति च श्रुतेः॥ ११ ॥ सुषुम्नावाहिनि प्राणे शून्ये विशति मानसे । तदा सर्वाणि कर्माणि निर्मूलयति योगवित् ॥ १२ ॥ सुषुम्नेति । प्राणे वायौ सुषुम्नावाहिनि मध्यनाडीप्रवाहिनि सति मानसेऽन्तःकरणे शून्ये देशकालवस्तुपरिच्छेदहीने ब्रह्मणि विशति सति तदा तस्मिन् काले योगविच्चित्तवृत्तिनिरोधज्ञः सर्वाणि कर्माणि समारब्धानि निर्मूलानि करोति निर्मूलयति । निर्मूलशब्दात् 'तत् करोति—' (Gaṇasūtra) इति णिच् ॥ १२ ॥ अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः । पतितं वदने यस्य जगदेतच्चराचरम् ॥ १३ ॥

हठयोगप्रदीपिका १२९ समाध्यभ्यासेन प्रारब्धकर्मणोऽप्यभिभवाज्जितकालं योगिनं नमस्करोति— अमरायेति । न म्रियत इत्यमरः तस्मै अमराय चिरंजीविने तुभ्यं योगिने नमः । सोऽपि दुर्वारोऽपि कालो मृत्युस्त्वया योगिना जितोऽभिभूतः । इदं वाक्यं नमस्कारणे हेतुः । स कः ? यस्य कालस्य वदने मुखे एतद् दृश्यमानं चराचरं स्थावरजङ्गमं जगत् संसारः पतितः । सोऽपि जगद्भक्षकोऽपीत्यर्थः ॥ १३ ॥ चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे । तदामरोली वज्रोली सहजोली प्रजायते ॥ १४ ॥ पूर्वोक्तममरोल्यादिकं समाधिसिद्धावेव सिद्ध्यतीति समाधिनिरूपणानन्तरं समाधिसिद्धौ तत्सिद्धिरित्याह—चित्त इति । चित्तेऽन्तःकरणे समत्वं ध्येयाकार- वृत्तिप्रवाहवत्त्वम् आपन्ने प्राप्ते सति वायौ प्राणे मध्यमे सुषुम्नायां व्रजति सतीति चित्तसमत्वे हेतुः । तदा तस्मिन् काले अमरोली वज्रोली सहजोली च पूर्वोक्ताः प्रजायन्ते । नाजितप्राणस्य न चाजितचित्तस्य सिद्ध्यन्तीति भावः ॥ १४ ॥ ज्ञानं कुतो मनसि संभवतीह तावत् प्राणोऽपि जीवति मनो म्रियते न यावत् । प्राणो मनो द्वयमिदं विलयं नयेद् यो मोक्षं स गच्छति नरो न कथंचिदन्यः ॥ १५ ॥ हठाभ्यासं विना ज्ञानं मोक्षश्च न सिद्ध्यतीत्याह—ज्ञानमिति । यावत्प्राणो जीवति । अपिशब्दादिन्द्रियाणि जीवन्ति न तु म्रियन्ते । यावन्मनो न म्रियते किंतु जीवत्येव । इडापिङ्गलाभ्यां वहनं प्राणस्य जीवनं, स्वस्वविषयग्रहणमिन्द्रि- याणां जीवनं, नानाविषयाकारवृत्त्युत्पादनं मनसो जीवनं, तत्तदभावः तत्तन्मरणमत्र विवक्षितम् । न तु स्वरूपतस्तेषां नाशस्तावन्मनस्यन्तःकरणे ज्ञानमात्मापरोक्षानु- 9

१३० हठयोगप्रदीपिका भवः कुतः संभवति ? न कुतोऽपि । प्राणोन्द्रियमनोवृत्तीनां ज्ञानप्रतिबन्धकत्वादिति भावः । प्राणो मनः, इदं द्वयं यो योगी विलयं नाशं नयेत् स मोक्षमात्यन्तिक- स्वरूपावस्थानलक्षणं गच्छति प्राप्नोति । ब्रह्मरन्ध्रे निर्व्यापारस्थितिः प्राणस्य लयः । ध्येयाकारावेशात् विषयान्तरेणापरिणमनं मनसो लयोऽन्यः । अलीन- प्राणोऽलीनमनाश्च कथंचिदुपायशतेनापि न मोक्षं प्राप्नोतीत्यर्थः । तदुक्तं योगबीजे— ‘ नानाविधैर्विचारैस्तु न साध्यं जायते मनः । तस्मात् तस्य जयोपायः प्राणस्य जय एव हि ॥' इति । नानामार्गैः सुदुष्प्रापं कैवल्यं परमं पदं सिद्धमार्गेण लभ्येत, नान्यथा शिवभाषितमिति च । सिद्धमार्गो योगमार्गः । एतेन योगं विना ज्ञानं मोक्षश्च न सिद्ध्यतीति सिद्धम् । श्रुतिस्मृतीतिहासपुराणादिषु चेदं प्रसिद्धम् । तथाहि— ‘ अथ तद्दर्शनाभ्युपायो योगः’ इति, तद्दर्शनमात्मदर्शनम् । ‘ अध्यात्मयोगाधि- गमेन देवं मत्वा धीरो हर्षशोकौ जहाति' (Kaṭ. Up., II. 12) इति । ‘ श्रद्धाभक्तिध्यानयोगादवेहि' (Kai. Up., 2) इति । ‘ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् । तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ॥ अप्रमत्तस्तदा भवति ।' (Kaṭ. Up., VI. 10-11) ‘ यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥' (Śve. Up., II. 15) ‘ ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत' । (Mahānā. Up., 24. 2) इति

हठयोगप्रदीपिका १३१ ‘ त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिरुध्य । ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोताꣳसि सर्वाणि भयावहानि ॥ ’ इति । (Śve. Up., II. 8) ‘ओमित्येवं ध्यायथ आत्मानम्’ (Muṇ. Up., II. 2. 6) इत्याद्याः श्रुतयः । यतिधर्मप्रकरणे मनुः— ‘ भूतभाव्यानवेक्षेत योगेन परमात्मनः । देहद्वयं विहायाशु मुक्तो भवति बन्धनात् ॥ ’ याज्ञवल्क्यस्मृतौ—(I. 1. 8) ‘ इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ ’ महर्षिमातङ्गः— ‘ अग्निष्टोमादिकान् सर्वान् विहाय द्विजसत्तमः । योगाभ्यासरतः शान्तः परं ब्रह्माधिगच्छति ॥ ’ ‘ ब्राह्मणक्षत्रियविशां स्त्रीशूद्राणां च पावनम् । शान्तये कर्मणामन्यद् योगान्नास्ति विमुक्तये ॥ ’ दक्षस्मृतौ व्यतिरेकमुखेनोक्तम्— ‘ स्वसंवेद्यं हि तद् ब्रह्म कुमारी स्त्रीसुखं यथा । अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ॥ ’ (VII. 25) इत्याद्याः स्मृतयः । महाभारते योगमार्गप्रसङ्गे व्यासः— ‘ अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी । तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ (XII. 246. 34)

१३२ हठयोगप्रदीपिका यदि वा सर्वधर्मज्ञो यदि वाप्यकृती पुमान् । यदि वा धार्मिकः श्रेष्ठो यदि वा पापकृत्तमः ॥ यदि वा पुरुषव्याघ्रो यदि वा क्लीब्यधारकः । तरत्येव महादुःखं जरामरणसागरम् ॥ अपि जिज्ञासमानोऽपि शब्दब्रह्मातिवर्तते ॥' इति । भगवद्गीतायाम्— 'युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥' (VI. 15) 'यत् सांख्यैः प्राप्यते स्थानम्' (V. 5) इत्यादि च । आदित्यपुराणे— 'योगात् संजायते ज्ञानं योगो मय्येकचित्तता' । स्कन्दपुराणे— 'आत्मज्ञानेन मुक्तिः स्यात् तच्च योगादृते नहि । स च योगश्चिरं कालमभ्यासादेव सिद्ध्यति ॥' कूर्मपुराणे शिववाक्यम्— 'अतःपरं प्रवक्ष्यामि योगं परमदुर्लभम् । येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥ योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् । प्रसन्नं जायते ज्ञानं ज्ञानान्निर्वाणमृच्छति ॥' गरुडपुराणे— 'तथा यतेत मतिमान् यथा स्यान्निर्वृत्तिः परा । योगेन लभ्यते सा तु न चान्येन तु केनचित् ॥ भवतापेन तप्तानां योगो हि परमौषधम् ।

हठयोगप्रदीपिका १३३ परावरप्रसक्ता धीर्यस्य निर्वेदसंभवा ॥ स च योगाग्निना दग्धसमस्तक्लेशसंचयः । निर्वाणं परमं नित्यं प्राप्नोत्येव न संशयः ॥ संप्राप्तयोगसिद्धिस्तु पूर्णो यस्त्वात्मदर्शनात् । न किंचिद् दृश्यते कार्यं तेनैव सकलं कृतम् ॥ आत्मारामः सदा पूर्णः सुखमात्यन्तिकं गतः । अतस्तस्यापि निर्वेदः परानन्दमयस्य च ॥ तपसा भावितात्मानो योगिनः संयतेन्द्रियाः । प्रतरन्ति महात्मानो योगेनैव महार्णवम् ॥’ विष्णुधर्मेषु— ‘यच्छ्रेयः सर्वभूतानां स्त्रीणामत्युपकारकम् । अपि कीटपतङ्गानां तन्नः श्रेयः परं वद ॥ इत्युक्तः कपिलः पूर्वं देवैर्देवर्षिभिस्तथा । योग एव परं श्रेयस्तेषामित्युक्तवान् पुरा ॥’ वासिष्ठे— ‘दुःसहा राम संसारविषवेगविषूचिका । योगगारुडमन्त्रेण पावनेनोपशाम्यति ॥’ इति । ननु तत्त्वमस्यादिवाक्यैरप्यपरोक्षप्रमा संभवतीति किमर्थमतिश्रमसाध्ये योगे प्रयासः कार्यः। न च वाक्यजन्यज्ञानस्यापरोक्षत्वे प्रमाणासंभव इति वाच्यम्। तत्त्वमस्यादिवाक्यजन्यं ज्ञानमपरोक्षम्, अपरोक्षविषयकत्वात्, चाक्षुषघटादिप्रत्यक्षवदित्यनुमानस्य प्रमाणत्वात्। न च विषयगतापरोक्षत्वस्य दुर्नि- रूपत्वाद्धेत्वसिद्धिरिति वाच्यम्। अज्ञानाविषयचित्त्वतत्तादात्म्यापन्नत्वान्यतररूपस्य

१३४ \qquad\qquad\qquad\qquad हठयोगप्रदीपिका तस्य सुनिरूपत्वात् । यथा हि घटादौ चक्षुःसंनिकर्षेणान्तःकरणवृत्तिदशायां तद- धिष्ठानचैतन्याज्ञाननिवृत्तौ तच्चैतन्यस्याज्ञानाविषयत्वं तद्धटस्थाज्ञानाविषयचैतन्य- तादात्म्यापन्नत्वं चापरोक्षत्वम् । तथा तत्त्वमस्यादिवाक्येन शुद्धचैतन्याकारान्तः- करणवृत्त्युत्थापने सति तदज्ञानस्य निवृत्तत्वेनैव चैतन्यस्याज्ञानाविषयत्वाच्चैतन्य- स्यापरोक्षत्वमिति न हेत्वसिद्धिः । न चाप्रयोजकत्वम् , ज्ञानगतापरोक्षत्वं प्रत्यपरोक्ष- विषयकत्वेन प्रयोजकत्वात् । नत्विन्द्रियजन्यत्वं, मनस इन्द्रियत्वाभावेन सुखादि- प्रत्यक्षे व्यभिचारात् । अथवाभिव्यक्तचैतन्याभिन्नतया भासमानत्वं विषयस्याप- रोक्षत्वम् । अभिव्यक्तत्वं च निवृत्तावरणकत्वं परोक्षवृत्तिस्थले चावरणनिवृत्त्य- भावान्नातिव्याप्तिः । सर्पादिभ्रमजनकदोषवतस्तु नायं सर्पः किंतु रज्जुरिति वाक्येन नायमाना वृत्तिस्तु नावरणं निवर्तयतीति तत्र परोक्ष एव विषयः । वेदान्तवाक्यजन्यं च ज्ञानमावरणनिवर्तकत्वादपरोक्षमेव । मननादेः पूर्वमुत्पन्नं ज्ञानमज्ञानानिवर्त- कम् । प्रमाणसंभावनादिदोषसामान्याभावविशिष्टस्यैव तस्याज्ञाननिवर्तकत्वात् । किंच ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ (Bṛh. Up., III. 9. 26) इति श्रुति- प्रतिपन्नमुपनिषन्मात्रगम्यत्वं योगगम्यत्वे नोपपन्नं स्यात् । तस्मात् तत्त्वमस्यादि- वाक्यादेवापरोक्षमिति चेन्न । अनुमानस्याप्रयोजकत्वात् । नच प्रत्यक्षं प्रति निरुक्तापरोक्षविषयकत्वेन प्रयोजकात् तन्मूलकतर्केणाप्रयोजकशङ्कानिवृत्तिरिति वाच्यम् । लाघवाज्जन्यप्रत्यक्षसामान्यं प्रति इन्द्रियत्वेन कारणतया तज्जन्यस्यैव प्रयोजकत्वात् । नित्यानित्यसाधारणप्रत्यक्षत्वे तु न किंचित्प्रयोजकमिति । तन्मते तु प्रत्यक्षविशेषे इन्द्रियं कारणं तद्विशेषे च शब्दविशेष इति कार्यकारणभावद्वयं स्यात् । न च मनसोऽनिन्द्रियत्वं मनस इन्द्रियत्वे बाधकाभावात् ‘इन्द्रियाणां मनो नाथः’ (IV. 29) इति तु, मनुष्यमेवोद्दिश्य मनुष्याणामयं राजेत्यादिवदि- न्द्रियेष्वेव किंचिदुत्कर्षं ब्रवीति । न तु तस्यानिन्द्रियत्वं तत्त्वं च षट्सुस्व- खण्डोपाधिविशेष एव । अत एव ‘कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्’ इति (AK., I. 5. 8) ‘प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्’

हठयोगप्रदीपिका १३५

इति (AK., III. 1. 79) च शक्तिप्रमाणभूतकोशोऽपीन्द्रियाप्रमाणक- ज्ञानस्याप्रत्यक्षत्वं वदन् मनस इन्द्रियत्वज्ञापकः संगच्छते। 'इन्द्रियाणि दशैकं च' इति गीतावचनमपि (XIII. 5) मनस इन्द्रियत्वे प्रमाणम्। किंच तत्त्वमस्यादिवाक्यजन्यं ज्ञानं शाब्दम्, शब्दजन्यत्वाद् यजेतेत्यादिवाक्य- जन्यज्ञानवदित्यनेनापरोक्षत्वविरोदिशाब्दत्वसाधकेन सत्प्रतिपक्षः। न चेदम- प्रयोजकम्। शाब्दं प्रत्येव शब्दस्य जनकत्वेन लाघवमूलकानुकूलतर्कात्। तन्मते तु शब्दादपि प्रत्यक्षस्वीकारेण कार्यकारणभावद्वयकल्पने गौरवम्। अपि च मनननिदिध्यासनाभ्यां पूर्वमप्युत्पन्नं ज्ञानं तव मते ऽपरोक्षमपि नाज्ञाननि- वर्तकमित्यज्ञाननिवृत्तिं प्रतिप्रतिबद्धज्ञानत्वेनैव हेतुत्वमिति गौरवम्। मम तु समाध्यभ्यासपरिपाकेनासम्भावनादिसकलमलरहितेनान्तःकरणेनात्मनि दृष्टे सति दर्शनमात्रादेवाज्ञाननिवृत्तेर्न कश्चिद्गौरवावकाशः। 'एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः॥' 'यच्छेद्वाङ्मनसी प्राज्ञः' (Kat. Up., III. 12-13)। इत्यारभ्याज्ञाननिवृत्त्यर्थकेन 'मृत्युमुखात्प्रमुच्यते' (III. 16) इत्यन्तेन कठवल्लीस्थमृत्यूपदेशेन संमतोऽयमर्थ इति न कश्चिदत्र विवादः इति। यदि तु मननादेः पूर्वमुत्पन्नं ज्ञानं परोक्षमेवेति नाप्रतिबद्धत्वकृतगौरवमिति मत- माद्रियते तदापि श्रवणादिभिर्मनःसंस्कारे सिद्धेऽव्यवहितोत्तरमात्मदर्शनसंभवात् तदुत्तरं वाक्यस्मरणादिकल्पनं महद्गौरवापादकमेव। ननु न वयं केवलेन तर्केण शब्दजन्यज्ञानस्यापरोक्षत्वं वदामः किंतु श्रुत्यापि। तथाहि—'तं त्वौपनिषदं पुरुषं पृच्छामि' (Brh. Up., III. 9. 26) इति श्रुत्या चौपनिषदत्वं पुरुषस्य नोपनिषज्जन्यबुद्धिविषयत्वमात्रं प्रत्यक्षादिगम्येऽप्यौपनिषदत्वव्यवहारापत्तेः। यथा हि द्वादशकपालेष्वष्टानां कपालानां सत्त्वाद् द्वादशकपालसंस्कृतेनाष्टाकपालादि-

१३६ हठयोगप्रदीपिका

व्यवहारः, यथा द्विपुत्रादावेकपुत्रादिव्यवहारः, तथात्रापि। नान्यत्र तथा व्यवहार इति उपनिषन्मात्रगम्यत्वमेव प्रत्ययार्थः। तच्च मनोगम्यत्वेऽनुपपन्नमिति चेन्न। न हि प्रत्ययेनोपनिषद्भिन्नं सर्वं कारणत्वाद् व्याववर्त्यते। शाब्दापरोक्षवादिना त्वयाप्यात्मापरोक्षे मनआदीनां करणत्वस्याङ्गीकारात्। किं तु पुराणादिशब्दान्त- रमेव, 'श्रोतव्यः श्रुतिवाक्येभ्यः' इति स्मरणात् स चार्थो ममापि संमत इति न किंचिदेतत्। प्रमाणान्तरव्यावृत्तौ तात्पर्यकल्पनं चात्मापरोक्षे शब्दस्य प्रमाणत्वे सिद्ध एव वक्तुमुचितम्। शब्दान्तरव्यावृत्तितात्पर्यं तु श्रुत्यादिसंमतत्वात् कल्प- यितुमुचितमेव। एवं स्थिते 'मनसैवानुद्रष्टव्यम्' (Bṛh. Up., IV. 4. 19) 'मनसैवेदमाप्तव्यम्' (Kaṭ. Up., IV. 11) इत्यादिश्रुतयोऽप्याञ्जस्येन प्रतिपा- दिता भवेयुः। यत्तु कैश्चिदुक्तं दर्शनवृत्तिं प्रति मनोमात्रस्योपादानत्वपरायत्ताः श्रुतयो न विरुध्यन्त इति तदतीव विचारासहम्। यतः प्रमाणाकाङ्क्षायां प्रवृत्तास्ताः कथमुपादानपरा भवेयुः। 'कामः संकल्पो विचिकित्सा—' (Bṛh. Up., I. 5. 3) इत्यादिश्रुत्या सावधारण्या सर्वासां वृत्तीनां मनोमात्रोपादानकत्वे बोधिते आकाङ्क्षाभावेनोपादानतात्पर्यकत्वेन वर्णयितुं कथं शक्येरन्। पूर्वे द्वितीयवल्यां प्रणवस्य ब्रह्मबोधकत्वेनोक्तेस्तस्याप्यपरोक्षहेतुत्वमिति शङ्कां निवारयितुं मनसै- वानुद्रष्टव्यमित्यादि सावधारणवाक्यानीत्येवं वर्णयितुं शक्यानि स्युरित्यलमति- वाग्जालेन। वस्तुतस्तु योगिनां समाधौ दूरविप्रकृष्टपदार्थज्ञानं सर्वशास्त्रप्रसिद्धं, न परोक्षम्। तदानीं परोक्षसामग्र्यभावात्। नापि स्मरणं तेषां पूर्वं विशिष्याननुभवात्। नापि सुखादिज्ञानवत् साक्षिरूपम्, अपसिद्धान्तात्। नाप्यप्रमाणकं प्रमासामान्ये करणनियमात्। नापि चक्षुरादिजन्यं तेषामसंनिकर्षात्। तस्मान्मानसिकी प्रमैव सा वाच्येति मनस इन्द्रियत्वं प्रमाणत्वं च दुरपह्नवमेवेति। येऽपि योगश्रुतयोः समुच्चयं कल्पयन्ति तेषामपि पूर्वोक्तदूषणगणस्तदवस्थ एव। तस्माद् योगजन्यसंस्कारसचिवमनोमात्रगम्य आत्मेति सिद्धम्। न च कामिनीं भावयतो व्यवहितकामिनीसाक्षात्कारस्येव भावनाजन्यत्वेनात्मसाक्षात्कारस्याप्रमात्वप्रसङ्गः।

हठयोगप्रदीपिका १३७

अबाधितविषयत्वाद् दोषजन्यत्वाभावाच्च। कामिनीसाक्षात्कारस्य तु बाधितवि- षयत्वाद् दोषजन्यत्वाच्चाप्रामाण्यम्, न भावनाजन्यत्वात्। न च भावनासामग्रेर्ज्ञा- नजनकत्वे प्रमाणान्तरत्वापातः। तस्या मनःसहकारित्वात् प्रमाणनिरूपणनि- पुणैर्नैयायिकादिभिरपि योगजप्रत्यक्षस्यालौकिकप्रत्यक्षेऽन्तर्भावः कृतः। योग- जालौकिकसंनिकर्षेण योगिनो व्यवहितविप्रकृष्टसूक्ष्मार्थमात्मानमपि यथार्थं पश्यन्ति। तथा च पातञ्जले सूत्रे—‘ऋतंभरा तत्र प्रज्ञा। श्रुतानुमान- प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्’ (1. 48-9)। तत्र समाधौ या प्रज्ञा सा ऋतं सत्यमेव पुरुषयाथार्थ्यं बिभर्तीति ऋतंभरेति प्रथमसूत्रार्थः। सा समाधि- प्रज्ञा श्रुतानुमानप्रज्ञाभ्यां श्रुतं श्रवणं शाब्दबोधः, अनुमननमनुमानं यौक्ति- कज्ञानं तद्रूपप्रज्ञाभ्यामन्यविषया अतिरिक्तविषया। कुतः? विशेषार्थत्वात्। विशेषो निर्विकल्पोऽर्थो विषयो यस्याः सा तथा तस्या भावस्तथात्वं तस्माच्छब्दस्य पदार्थतावच्छेदकपुरस्कारेणैवानुमानस्य व्यापकतावच्छेदकपुरस्कारेणैव धीजन- कत्वनियमेन तद्ग्रहणायोग्यविशेष्यमात्रपरत्वादित्यर्थः। अत्र बादरायणकृतं भाष्यम्—‘श्रुतमागमविज्ञानं तत्सामान्यविषयम्। न ह्यागमेन शक्यो विशेषोऽभि- धातुम्, कस्मात्, नहि विशेषेण कृतसंकेतः शब्दः’ इत्यारभ्य ‘समाधिप्रज्ञा- निर्ग्राह्य एव स विशेषो भूतसूक्ष्मगतो वा पुरुषगतो वा’ इति (I. 49)। योगबीजे— ‘ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञोऽपि जितेन्द्रियः। विना योगेन देवोऽपि न मोक्षं लभते प्रिये ॥’ किं च। ‘तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य’ (Bṛh. Up., IV. 4. 6) इति श्रुतेः ‘कारणं गुणसङ्गोऽस्य सद्सद्योनिजन्मसु’ इति स्मृतेश्च (BG., XIII. 21) देहावसानसमये यत्र रागाद्युद्बुद्धो भवति

१३८ हठयोगप्रदीपिका तामेव योनिं जीवः प्राप्नोतीति योगहीनस्य जन्मान्तरं स्यादेव मरणसमये समुद्भूतवैक्लव्यस्यायोगिना वारयितुमशक्यत्वात् । तदुक्तं योगबीजे— ‘ देहावसानसमये चित्ते यद्यद् विभावयेत् । तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् ॥ देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः । तस्माज्ज्ञानं च वैराग्यं जपश्च केवलं श्रमः ॥ पिपीलिका यदा लग्ना देहे ज्ञानाद् विमुच्यते । असौ किं वृश्चिकैर्दष्टो देहान्ते वा कथं सुखी ॥’ इति । योगिनां तु योगबलेनान्तकालेऽप्यात्मभावनया मोक्ष एवेति न स्याज्जन्मान्तरम् । तदुक्तं भगवता । ‘ प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ’ (BG., VIII. 10) इत्यादिना । ‘शतं चैका च हृदयस्य नाड्यः’ (Chā. Up., VIII. 6. 6) इत्यादि श्रुतेश्च । न च तत्त्वमस्यादिवाक्यस्या- परोक्षज्ञानाजनकत्वे तद्विचारस्य वैयर्थ्यमेवेति शङ्क्यम् । वाक्यविचारजन्यज्ञा- नस्य योगद्वारापरोक्षज्ञानसाधनत्वात् । अत्र च योगबीजे गौरीश्वरसंवादो महानस्ति, ततःकिंचिल्लिख्यते । देव्युवाच— ‘ ज्ञानिनस्तु मृता ये वै तेषां भवति कीदृशी । गतिः कथय देवेश कारुण्यामृतवारिधे ॥’ ईश्वर उवाच— ‘ देहान्ते ज्ञानिना पुण्यात् पापात् तत्फलमाप्यते । यादृशं तु भवेत् तत्तद् भुक्त्वा ज्ञानी पुनर्भवेत् ॥

हठयोगप्रदीपिका १३९ पश्चात् पुण्येन लभते सिद्धेन सह संगतिम् । ततः सिद्धस्य कृपया योगी भवति नान्यथा । ततो नश्यति संसारो नान्यथा शिवभाषितम् ॥' देव्युवाच— 'ज्ञानादेव हि मोक्षं च वदन्ति ज्ञानिनः सदा । [स] कथं सिद्धयोगेन योगः किं मोक्षदो भवेत् ॥' ईश्वर उवाच— 'ज्ञानेनैव हि मोक्षो हि तेषां वाक्यं तु नान्यथा । सर्वे वदन्ति खड्गेन जयो भवति तर्हि किम् ॥ विना युद्धेन वीर्येण कथं जयमवाप्नुयात् । तथा योगेन रहितं ज्ञानं मोक्षाय नो भवेत् ॥' इति । ननु जनकादीनां योगमन्तरेणाप्यप्रतिबद्धज्ञानमोक्षयोः श्रवणात् कथं योगादेवाप्रतिबद्धज्ञानं मोक्षश्चेति चेत् उच्यते । तेषां पूर्वजन्मानुष्ठितयोगज- संस्काराज्ज्ञानप्राप्तिरिति पुराणादौ श्रूयते । तथाहि— 'जैगीषव्यो यथा विप्रो यथा चैवासितादयः । क्षत्रिया जनकाद्यास्तु तुलाधारादयो विशः ॥ संप्राप्ताः परमां सिद्धिं पूर्वाभ्यस्तस्वयोगतः । धर्मव्याधादयः सस शूद्राः पैलवकादयः ॥ मैत्रेयी सुलभा शार्ङ्गी शाण्डिली च तपस्विनी । एते चान्ये च बहवो नीचयोनिगता अपि । ज्ञाननिष्ठां परां प्राप्ताः पूर्वाभ्यस्तस्वयोगतः ॥'

१४० हठयोगप्रदीपिका इति। किं च पूर्वजन्मानुष्ठितयोगाभ्यासपुण्यतारतम्येन केचिद् ब्रह्मत्वं केचिद् ब्रह्मपुत्रत्वं केचिद् देवर्षित्वं केचिद् ब्रह्मर्षित्वं केचिन्मुनित्वं केचिद् भक्तत्वं च प्राप्ताः सन्ति। तत्रोपदेशमन्तरेणैवात्मसाक्षात्कारवन्तो बभूवुः। तथाहि। हिरण्यगर्भवासिष्ठनारदसनत्कुमारवामदेवशुकादयो जन्मसिद्धा इत्येव पुराणादिषु श्रूयन्ते। यत्तु ब्राह्मण एव मोक्षाधिकारीति श्रूयते पुराणादौ तदयोगिपरम्। तदुक्तं गरुडपुराणे— ‘योगाभ्यासो नृणां येषां नास्ति जन्मान्तराहतः। योगस्य प्राप्तये तेषां शूद्रवैश्यादिक्रमः ॥ स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्यत्वमाप्नुयात् । ततश्च क्षत्रियो विप्रः क्रियाहीनस्ततो भवेत् ॥ अनूचानः स्मृतो यज्वा कर्मन्यासी ततः परम् । ततो ज्ञानित्वमभ्येति योगी मुक्तिं क्रमाल्लभेत ॥’ इति। शूद्रवैश्यादिक्रमाद् योगी भूत्वा मुक्तिं लभेतेत्यर्थः। इत्थं च योगे सर्वाधिकारश्रवणाद् योगोत्पन्नतत्त्वज्ञानेन सर्व एव मुच्यन्त इति सिद्धम्। योगिनस्तु भ्रष्टस्यापि न शूद्रादिक्रमः। ‘शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । अथवा योगिनामेव ॥’ (BG., VI. 41-2) इत्यादिभगवद्वचनादित्यलम् ॥ १५ ॥ ज्ञात्वा सुषुम्नासङ्भेदं कृत्वा वायुं च मध्यगम् । स्थित्वा सदैव सुस्थाने ब्रह्मरन्ध्रे निरोधयेत् ॥ १६ ॥ प्राणमनसोर्लयं विना मोक्षो न सिध्यतीत्युक्तम् । तत्र प्राणलयेन मनसोऽपि लयः सिध्यतीति तल्लयरीतिमाह—ज्ञात्वेति। सदैव सर्वदैव

हठयोगप्रदीपिका १४१ सुस्थाने शोभने स्थाने ‘सुराज्ये धार्मिके देशे’ (I. 12) इत्याद्युक्तलक्षणे स्थित्वा स्थितिं कृत्वा वसतिं कृत्वेत्यर्थः । सुषुम्ना मध्यनाडी तस्याः सद्भेदं शोभनं भेदनप्रकारं ज्ञात्वा गुरुमुखाद् विदित्वा वायुं प्राणं मध्यगं मध्यनाडीसंचारिणं कृत्वा ब्रह्मरन्ध्रे मूर्धावकाशे निरोधयेन्नितरां रुद्धं कुर्यात् । प्राणस्य ब्रह्मरन्ध्रे निरोधो लयः, प्राणलये जाते मनोऽपि लीयते । तदुक्तं वासिष्ठे— ‘अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते । मनः प्रशममायाति निर्वाणमवशिष्यते ॥’ इति । प्राणमनसोर्लये सति भावनाविशेषरूपसमाधिसहकृतेनान्तःकरणेनाबाधि- तात्मसाक्षात्कारी भवति, तदा जीवन्नेव मुक्तः पुरुषो भवति ॥ १६ ॥ सूर्याचन्द्रमसौ धत्तः कालं रात्रिंदिवात्मकम् । भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् ॥ १७ ॥ प्राणलये कालजयो भवतीत्याह—सूर्याचन्द्रमसाविति । सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ । ‘देवताद्वन्द्वे च’ (Pāṇ., VI. 3. 26) इत्यानङ् । रात्रिश्च दिवा च रात्रिंदिवम् । ‘अचतुर—’ (Pāṇ., V. 4. 77) इत्यादिना निपातितः । रात्रिंदिवं आत्मा स्वरूपं यस्य स रात्रिंदिवात्मकस्तं रात्रिंदि- वात्मकं कालं समयं धत्तो विधत्तः कुरुतः । सुषुम्ना सरस्वती कालस्य सूर्याचन्द्रमोभ्यां कृतस्य रात्रिंदिवात्मकस्य समयस्य भोक्त्री भक्षिका विनाशिका । एतद् गुह्यं रहस्यमुदाहृतं कथितम् । अयं भावः । सार्धं घटिकाद्वयं सूर्यो वहति सार्धं घटिकाद्वयं चन्द्रो वहति । यदा सूर्यो वहति तदा दिनमुच्यते । यदा चन्द्रो वहति तदा रात्रिरुच्यते । पञ्चघटिकामध्ये रात्रिंदिवात्मकः कालो भवति । लौकिकाहोरात्रमध्ये योगिनां द्वादशाहोरात्रात्मकः कालव्यवहारो भवति । तादृशकालमानेन जीवानामायुर्मानमस्ति । यदा सुषुम्नामार्गेण वायुर्ब्रह्मरन्ध्रे

१४२ हठयोगप्रदीपिका लीनो भवति तदा रात्रिंदिवात्मकस्य कालस्याभावादुक्तं भोक्त्री सुषुम्ना कालस्येति । यावद् ब्रह्मरन्ध्रे वायुर्लीयते तावद् योगिन आयुर्वर्धते । दीर्घकालाभ्य- स्तसमाधियोगी पूर्वमेव मरणकालं ज्ञात्वा ब्रह्मरन्ध्रे वायुं नीत्वा कालं निवारयति स्वेच्छया देहत्यागं च करोतीति ॥ १७ ॥ द्वासप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे । सुषुम्ना शांभवी शक्तिः शेषास्त्वेव निरर्थकाः ॥ १८ ॥ द्वासप्ततीति । पञ्जरे पञ्जरवच्छिरास्थिभिर्बद्धे शरीरे द्वाभ्यामधिका सप्ततिः द्वासप्ततिः द्वासप्ततिसंख्याकानि सहस्राणि नाडीनां शिराणां द्वाराणि वायुप्रवे- शमार्गाः सन्ति । सुषुम्ना मध्या नाडी शांभवी शक्तिरस्ति । शं सुखं भवत्यस्मा- द्भक्तानामिति शंभुरीश्वरस्तस्येयं शांभवी, ध्यानेन शंभुप्रापकत्वात् । शंभोरा- विर्भावजनकत्वाद्व्वा शांभवी । यद्वा शं सुखरूपो भवति तिष्ठतीति शंभुरात्मा तस्येयं शांभवी । चिदभिव्यक्तिस्थानत्वाद् ध्यानेनात्मसाक्षात्कारहेतुत्वाच्च । शेषा इडापिङ्गलादयस्तु निरर्थका एव, निर्गतोऽर्थः प्रयोजनं यासां ता निरर्थकाः । पूर्वोक्तप्रयोजनाभावात् ॥ १८ ॥ वायुः परिचितो यस्मादग्निना सह कुण्डलीम् । बोधयित्वा सुषुम्नायां प्रविशेदनिरोधतः ॥ १९ ॥ वायुरिति । यस्मात् परिचितोऽभ्यस्तो वायुस्तस्मादग्निना जठराग्निना सह कुण्डलीं शक्तिं बोधयित्वा अनिरोधतोऽप्रतिबन्धात् सुषुम्नायां सरस्वत्यां प्रविशेत्, वायोः सुषुम्नाप्रवेशार्थमभ्यासः कर्तव्य इत्यर्थः ॥ १९ ॥ सुषुम्नावाहिनि प्राणे सिद्ध्यत्येव मनोन्मनी । अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम् ॥ २० ॥

हठयोगप्रदीपिका १४३ सुषुम्नेति। प्राणे सुषुम्नावाहिनि सति मनोन्मनी उन्मन्यवस्था सिद्धयत्येव। अन्यथा प्राणे सुषुम्नावाहिन्यसति तु इतराभ्यासाः सुषुम्नेतर- नाड्यभ्यासाः योगिनां योगाभ्यासिनां प्रयासायैव श्रमायैव भवन्तीत्यर्थः ॥ २० ॥ पवनो बध्यते येन मनस्तेनैव बध्यते । मनश्च बध्यते येन पवनस्तेन बध्यते ॥ २१ ॥ पवन इति। येन योगिना पवनः प्राणवायुर्बध्यते बद्धः क्रियते तेनैव योगिना मनो बध्यते, येन मनो बध्यते तेन पवनो बध्यते। मनः पवनयोरेकतरे बद्धे उभयं बद्धं भवतीत्यर्थः ॥ २१ ॥ हेतुद्वयं तु चित्तस्य वासना च समीरणः । तयोर्विनष्ट एकस्मिन् तौ द्वावपि विनश्यतः ॥ २२ ॥ हेतुद्वयं तु चित्तस्येति। चित्तस्य प्रवृत्तौ हेतुद्वयं कारणद्वयमस्ति किं तदित्याह । वासना भावनाख्यः संस्कारः, समीरणः प्राणवायुश्च तयोर्वासनासमीरणयोरेकस्मिन् विनष्टे सति क्षीणे सति तौ द्वावपि विनश्यतः । अयमाशयः । वासनाक्षये समीरणचित्ते क्षीणे भवतः । समीरणे क्षीणे चित्तवासने क्षीणे भवतः । चित्ते क्षीणे समीरणवासने क्षीणे भवतः । तदुक्तं वासिष्ठे— 'द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने । एकस्मिंश्च तयोर्नष्टे क्षिप्रं द्वे अपि नश्यतः ॥' तत्रैव व्यतिरेकेणोक्तम्— 'यावद् विलीनं न मनो न तावद् वासनाक्षयः । न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ॥

१४४ हठयोगप्रदीपिका न यावत् तत्त्वविज्ञानं न तावच्चित्तसंक्षयः । यावन्न चित्तोपशमो न तावत् तत्त्ववेदनम् ॥ यावन्न वासनानाशस्तावत् तत्त्वागमः कुतः । यावन्न तत्त्वसंप्राप्तिर्न तावद् वासनाक्षयः ॥ तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः कारणतां गत्वा दुःसाध्यानि स्थितान्यतः ॥ त्रय एते समं यावन्न स्वभ्यस्ता मुहुर्मुहुः । तावन्न तत्त्वसंप्राप्तिर्भवत्यपि समैः शतैः ॥' २२ ॥ मनो यत्र विलीयेत पवनस्तत्र लीयते । पवनो लीयते यत्र मनस्तत्र विलीयते ॥ २३ ॥ मन इति । यत्र यस्मिन्नाधारे मनो विलीयते पवनस्तत्र तस्मिन्नाधारे लीयते । यत्र यस्मिन्नाधारे पवनो लीयते तत्र तस्मिन्नाधारे मनो विलीयत इत्यन्वयः ॥ २३ ॥ दुग्धाम्बुवत् संमिलितावुभौ तौ तुल्यक्रियौ मानसमारुतौ हि । यतो मरुत् तत्र मनःप्रवृत्ति- र्यतो मनस्तत्र मरुत्प्रवृत्तिः ॥ २४ ॥ दुग्धाम्बुवदिति । दुग्धाम्बुवत क्षीरनीरवत् संमिलितौ सम्यक् मिलितौ तावुभौ द्वावपि मानसमारुतौ मानसं च मारुतश्च मानसमारुतौ चित्तप्राणौ तुल्यक्रियौ तुल्या समा क्रिया प्रवृत्तिर्ययोस्तादृशौ भवतः । तुल्यक्रियत्वमेवाह— यत इति । यतः यत्र सार्वविभक्तिकस्तसिः । यस्मिन् चक्रे मरुद् वायुः प्रवर्तते

हठयोगप्रदीपिका १४५ तत्र तस्मिन् चक्रे मनःप्रवृत्तिः मनसः प्रवृत्तिर्भवति । यतो यस्मिन् चक्रे मनः प्रवर्तते तत्र तस्मिन् चक्रे मरुत्प्रवृत्तिः, वायोः प्रवृत्तिर्भवतीत्यर्थः । तदुक्तं वासिष्ठे— ‘अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी । कुसुमामोदवन्मिश्रे तिलतैले इव स्थिते । कुरुतश्च विनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥’ इति ॥ २४ ॥ तत्रैकनाशादपरस्य नाश एकप्रवृत्तेरपरप्रवृत्तिः । अध्वस्तयोश्चेन्द्रियवर्गवृत्तिः प्रध्वस्तयोर्मोक्षपदस्य सिद्धिः ॥ तत्रेति । तत्र तयोर्मानसमारुतयोर्मध्ये एकस्य मानसस्य मारुतस्य वा नाशाल्लयादपरस्यान्यस्य मारुतस्य मानसस्य वा नाशो लयो भवति । एकप्रवृत्तेरेकस्य मानसस्य मारुतस्य वा प्रवृत्तेर्व्यापारादपरप्रवृत्तिरपरस्य मारुतस्य मानसस्य वा प्रवृत्तिर्व्यापारो भवति । अध्वस्तयोरलीनयोर्मानसमारुतयोः सतोरिन्द्रियवर्ग- वृत्तिरिन्द्रियसमुदायस्य स्वस्वविषये प्रवृत्तिर्भवति । प्रध्वस्तयोः प्रलीनयोस्तयोः सतोर्मोक्षपदस्य मोक्षाख्यपदस्य सिद्धिर्निष्पत्तिर्भवति । तयोर्लये पुरुषस्य स्व- रूपेऽवस्थानमित्यर्थः । ‘तत्रापि साध्यः पवनस्य नाशः षडङ्गयोगादिनिषेवणेन । मनोविनाशस्तु गुरोः प्रसादान्निमेषमात्रेण सुसाध्य एव ॥’ योगबीजे मूलश्लोकस्यायमुत्तरः श्लोकः ॥ २५ ॥ रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥ २६ ॥ 10

१४६ हठयोगप्रदीपिका रसस्येति । रसस्य पारदस्य मनसो मानसस्य स्वभावतः स्वभावचञ्चलत्वं चाञ्चल्यमस्ति । रसः पारदो बद्धश्चेन्मनश्चित्तं बद्धं भवति । ततो भूतले पृथिवीतले किं न सिद्धयति ? सर्वं सिद्ध्यतीत्यर्थः ॥ २६ ॥ मूर्च्छितो हरते व्याधीन् मृतो जीवयति स्वयम् । बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति ॥ २७ ॥ तदेवाह—मूर्च्छित इति । ओषधिविशेषयोगेन गतचापलो रसो मूर्च्छितः । कुम्भकान्ते रेचकनिवृत्तौ वायुर्मूच्छित इत्युच्यते । हे पार्वतीति पार्वतीं संबोध्येश्वरवाक्यम् । मूर्च्छितो रसः पारदः, वायुः प्राणश्च व्याधीन् रोगान् हरते नाशयति । भस्मीभूतो रसः, ब्रह्मरन्ध्रे लीनो वायुश्च मृतः स्वयमात्मना स्वसामर्थ्ये- नेत्यर्थः । जीवयति दीर्घकालं जीवनं करोति । क्रियाविशेषेण गुटिकाकारकृतो रसो बद्धः, भ्रूमध्यादौ धारणाविशेषेण धृतो वायुश्च बद्धः, खेचरतामाकाशगतिं धत्ते विधत्ते करोतीत्यर्थः । तदुक्तं गोरक्षकशतके (72)— ‘यद्भिन्नाञ्जनपुञ्जसंनिभमिदं वृत्तं भ्रुवोरन्तरे तत्त्वं वायुमयं यकारसहितं यत्रेश्वरो देवता । प्राणं तत्र विलाप्य पञ्चघटिकं चित्तान्वितं धारये- देशा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥’ इति ॥ २७ ॥ मनः स्थैर्ये स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् । बिन्दुस्थैर्यात् सदा सत्त्वं पिण्डस्थैर्यं प्रजायते ॥ २८ ॥