भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

५४८ | कादम्बरी- | [ कथायाम्-

कमलिनीमिव स्वच्छाम्बरदृश्यमानमृणालकोमलोरुमूलाम्, मयूरावलीमिव नितम्बचुम्बि-शिखण्डभारविस्फुरच्चन्द्रकान्ताम्, कल्पतरुलतामिव कामफलप्रदाम्, शयनसमीपे सम्मुखोपविष्टम् 'कोऽसौ, कस्य वाऽपत्यम्, किमभिधानो वा, कीदृशमस्य रूपम्, कियद्वा वयः, किमभिधत्ते, भवता किंमभिहितः, कियच्चिरं दृष्टस्त्वया, कथञ्चास्य महाश्वेतया सह परिचय उपजातः, किमयमत्रागमिष्यति' इति मुहुर्मुहुश्चन्द्रापीडसम्बद्धमेवालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्तीं कादम्बरीं ददर्श।

तस्य तु दृष्ट्वाकादम्बरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम्।

दृश्यमानम् अवलोक्यमानं मृणालवत् कोमलं मृदुलं ऊरुमूलं सक्थिमूलं यस्याः ताम् पक्षान्तरे तु—स्वच्छा-म्बरे निर्मलगगने दृश्यमानं मृणालस्य विसस्य कोमलम् उरु विस्तृतञ्च मूलं ग्रन्थिदेशो यस्याः ताम्।

मयूरेति। मयूरावलीमिव कलापिश्रेणीमिव, नितम्बचुम्बी नितम्बस्पर्शी शिखण्डभारः कचकलापो यस्याः सा चासौ विस्फुरन् शोभमानः चन्द्र इव कान्ता कमनीया चेति ताम्। पक्षान्तरे तु—नितम्ब-चुम्बिनि शिखण्डभारे पिच्छनिकरे विस्फुरन्तः प्रकाशमानाः चन्द्रकाणां मेचकानाम् अन्ताः प्रान्तभागा यस्याः ताम्।

कल्पतरुरिति। कल्पतरुः मन्दारवृक्षः तस्य लतां वल्लींमिव, कामफलं मन्मथविकारफलं वाञ्छित-पदार्थञ्च प्रददातीति सा तादृशी ताम्।

इह 'पद्मिनीमिव' इत्यारभ्य 'कल्पतरुलतामिव' इत्यन्तं सर्वत्र पूर्णोपमालङ्कारः।

शयनेति। शयनस्य तल्पस्य समीपे निकटे, सम्मुखम् अभिमुखं यथा स्यात्तथा उपविष्टम् आसी-नम्, अग्रेतनस्य 'केयूरक' इत्यस्य विशेषणमेतत्। असौ तरुणः। अपत्यं प्रजाः। किमभिधानः किन्नामा। रूपं सौन्दर्यम्। कियद्वयः कियत्प्रमाणमवस्थाविशेषः। कियच्चिरं कियत्समयम्। अस्य पुरोवर्त्तमानस्य यूनः। परिचयः संस्तवः। चन्द्रापीडसम्बद्धं चन्द्रापीडविषयकम् आलापं भाषणम्, तस्य चन्द्रापीडस्य रूपवर्णनायां सौन्दर्यवर्णनायां मुखरम् अश्रान्तवक्तारम्। पृच्छन्तीं प्रश्नविषयं कुर्वन्तीम्। ददर्श अवलोकयामास।

तस्येति। कादम्बर्या गन्धर्वराजपुत्र्या वदनं मुख चन्द्रलेखा शशिरखेवेत्युपमितसमासः स च 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति सूत्रेण बोध्यः, सागरस्येवेत्युपमासाहचर्यात्। दृष्टा अवलोकिता कादम्बरीवदनचन्द्रलेखाया लक्ष्मीः शोभा येन तस्य, तस्य चन्द्रापीडस्य हृदयं चेतः कर्तृ, दृष्टचन्द्रलेखा-लक्ष्मीकस्य सागरस्य समुद्रस्य, अमृतं जलमिव उल्ललास उच्छ्वसितं बभूव।

इह 'कादम्बरीवदनचन्द्रलेखेव' इत्यत्र लुप्तोपमा, 'अमृतमिव' इत्यत्र श्रौतोपमा चेत्युभयोरङ्गाङ्गि-भावसङ्करः। तथा केवलम् 'उल्ललास' इति भूतकालिकप्रयोगे भग्नप्रक्रमत्वदोषः समापतातं तद्वारणाय 'सागरस्य' हृदयं यधोल्लसति तथा तस्य 'हृदयमुल्ललास' इति पाठो विधेय इति मान्याः।


गङ्गाके तटपर पद्मिनीमृणालका कोमल और विस्तृत मूलदेश, जिस प्रकार निर्मल आकाशमें दीखता है, उसका भी उसी प्रकार मृणालके समान कोमल ऊरु-युगलका मूलदेश, निर्मल वस्त्रके अभ्यन्तरमें दीखता था; मयूरगणके नितम्बस्पर्शी पुच्छदेशमें जिस प्रकार चन्द्राकृति चिह्नका प्रान्तभाग मनोहर प्रतीत होता है, उसकी मनोहर आकृति भी उसी प्रकार चन्द्रके समान मनोहर थी, एवं केशकलाप नितम्ब-पर्यन्त लम्बित थे; कल्पतरुकी लता जिस प्रकार अभिलषित फलप्रदान करती है, वह भी उसी प्रकार कामफल देती थी। और वह शय्याके समीपमें ही सम्मुख बैठे, मुख्यतया चन्द्रापीडके सौन्दर्यका ही वर्णन करते, केयूरकसे—'वे कौन हैं? किसके पुत्र हैं? उनका नाम क्या है? उनका रूप कैसा है? उनकी अवस्था कितनी है? वे क्या चाहते थे? तूने क्या कहा? कहाँ तक उनको तूने देखा? महाश्वेताके साथ उनका परिचय किस प्रकारसे हुआ? एवं वे क्या यहाँ आवेंगे? यों बारम्बार चन्द्रापीडसम्बन्धी बातें ही पूछ रही थी।

चन्द्रमाको देखकर समुद्रका जल जिस प्रकार उच्छ्वसित होने (उछलने) लगता है, कादम्बरी वदन-रूप चन्द्र-रेखाकी शोभा देखते ही चन्द्रापीडका हृदय भी उसी प्रकार आनन्दसे उच्छ्वसित होने (उछलने)


१. पुरस्तन्नीपे।
२. भवतां च।
३. सन्निहितम्।
४. '...सम्बद्धालापम्, सम्बन्धालापम्।
५. क्वचित् 'इह' इति पदं न दृश्यते।

कादम्बरीचन्द्रापीडयोर्भावावेश० ८७] चन्द्रकला-विद्योतिनीसहिता । २४६

आसीच्चास्य मनसि—'शेषेन्द्रियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृतमवदातं कर्म चक्षुषा, यदिवारितमेनां पश्यति । अहो ! चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम । कुत एते रूपातिशयपरमाणवः ममासादिताः । तन्नूनमेनामुत्पादयतो विधेः करतलपरामर्शक्लेशेन ये विगलिता लोचनयुगलादश्रुबिन्दवस्तेभ्य एतानि जगति कुमुद-कमल-कुवलय-सौगन्धिकवनान्युत्पन्नानि' इत्येवं चिन्तयत एवास्य तस्या नयनयुगले¹ निपपात चक्षुः । तदा तस्या अपि 'नूनमयं स केयूरक णावेदित' इति चि-न्तयन्त्या रूपातिशयविलोकिनविस्मयस्मेरं निश्चलनिबद्धलक्ष्यं² चक्षुस्तस्मिन् सुचिरं पपात । लोचनप्रभावधवलितस्तु कादम्बरीदर्शनविह्वलो बल इव⁴ तत्क्षणमराजत चन्द्रापीडः । दृष्ट्वा च

आसीदिति । अस्य चन्द्रापीडस्य मनसि चित्ते ( एवम् ) आसीद् बभूव । वेधसा ब्रह्मणा मे मम शेषेन्द्रियाण्यपि चक्षुर्व्यतिरिक्ताकरणान्यपि किमिति हेतोः लोचनमयान्येव न कृतानि विहितानि तथा सति वीक्षणस्य पूर्णता स्यादित्याशयः । अनेन मम चक्षुषा, अवदातं शुद्धं कर्म कृत्यं पुण्यमित्यर्थः । यद्य-स्मात् अनिवार्य्यतम् अप्रतिषिद्धं यथा स्यात्तथा एनां कादम्बरीं पश्यति अवलोकयति । अनेनास्यातुपमं सौन्दर्यं प्रतीयते ।

अहो इति । चित्रम् आश्चर्यम् । वेधसा विधात्रा सर्वरमणीयां समस्तसौन्दर्याणाम् एकमद्वि-तीर्यं धाम स्थानम् उत्पादितं निर्मितम् । रूपातिशयस्य असामान्यभव्याकृतेः परमाणव उपादानकारणी भूताशुद्रव्याणि समासादिताः प्राप्ताः । परमाणुलक्षणञ्चाह—

'जालान्तर्गते मानौ यत्सूक्ष्मं दृश्यते रजः । तस्य षष्टितमो भागः परमाणुः स उच्यते ॥

न्यायवैशेषिके हि उक्तपरमाणुतो द्व्यणुकादिक्रमेण स्थूलोत्पत्तिरिति तन्मतमाश्रित्येदमभिहित मिथ्यवधेयम् ।

तदिति । एनां कादम्बरीम् उत्पादयतो जनयतो विधेर्ब्रह्मणः करतलपरामर्शक्लेशेन रचनाकालीन-पाणितलामर्दनकष्टेन लोचनयुगलात् नेत्रद्वयात् विगलिताः च्युता ये अश्रुविन्दवः कादम्बर्या एव नयन-युगलाः तेभ्यो जगति संसारे एतानि पुरो दृश्यमानानि, कुमुदानि कैरवाणि, कमलानि नलिनानि कुवल-यानि उत्पलानि सौगन्धिकानि कह्वाराणि उत्पन्नानि समुद्भूतानि । अस्य चन्द्रापीडस्य चक्षु, तस्याः कादम्बर्या नयनयुगले नेत्रद्वये निपतात दृढसंलग्नं बभूव ।

तदेति । रूगत्तिशयविलोकेनेन अत्यधिकसौन्दर्यवीक्षणेन यो विस्मय आश्चर्यं तेन स्मेरं विकसितम्, तया निश्चलं स्थिरं यथा स्यात्तथा निबद्धं गृहीतल्लक्ष्यं येन तत्तथोक्तम् । तस्मिश्चन्द्रापीडे । इह नूनमित्युत्पादा-नाट्टाच्या भावाभिमानिनी क्रियोत्प्रेक्षा, तया चास्या निरतिशयसौकुमार्यं ध्वन्यत इत्यलङ्कारेण वस्तुध्वनिः ।

लोचनेति । लोचनप्रभया कादम्बर्या आत्मनश्च नयनालोकेन धवलितः श्वेतीकृतश्चन्द्रापीडः तत्क्षणं तस्मिन् समये बलो बलराम इव, कादम्बर्या गन्धर्वराजपुत्र्याः सुरायाश्च दर्शनेन अवलोकनेन विह्वलः कामाकुलः पानाय धैर्य्यरहितश्च सन् अराजन अशोभत् । बलरामः सुरापानतत्पर आसीदिति पौराणिकी वार्त्ता । पूर्णोपमा ।

दृष्ट्वेति । अपि च, तं चन्द्रापीडं दृष्ट्वा विलोक्य स्थितायाः कादम्बर्याः प्रथमम् आदौ रोमोद्गमः


तथा । उस समय उसके मनमें होने लगा कि—'विधाताने मेरी अवशिष्ट इन्द्रियोंको भी नयनमय क्यों नहीं बनाया ? अथवा मेरे ये नेत्र ही पुण्यकार्य किये हैं जो कि इसको अबाधगति (बे रोकटोक) से देखते हैं। विधाताने समस्त सौन्दर्यका एक ही कैसा विचित्र भण्डार उत्पन्न किया है? ऐसे अतिशय सौन्दर्यनिर्माण करनेके परमाणुका आनयन कहाँसे किया है ? अत एव मुझे प्रतीत होता है कि इसके निर्माण करनेमें विधाता के हाथ घर्षण-क्लेशसे, इसके नेत्रोंमेंसे जो अश्रुबिन्दु (आंसूकी बूँदें) टपके उतने ही संसारमें ये समस्त श्वेतोत्पल, पद्म, नीलोत्पल और रक्तोत्पल उत्पन्न हुए हैं।' इस प्रकार चिन्ता करते ही उसकी दृष्टि कादम्बरीके नेत्रोंपर जा पड़ी और उसी क्षण वह भी भावना करती थी कि—'केयूरकने जिसका वर्णन किया है, निश्चय ही ये वही युवा पुरुष हैं' तब चन्द्रापीडका अत्यन्त सौन्दर्य देखकर विस्मयवश विस्तृत हो उसकी दृष्टि चन्द्रापीड पर पड़ी और निश्चल भावसे बहुत देर तक अपने लक्ष्य पर स्थिर रही। स्वकीय-नयन-प्रभासे शुक्लवर्ण बलराम जिस प्रकार मदिरा देखकर विह्वल हो गये, उस समय चन्द्रापीड भी उसी प्रकार कादम्बरी की नयन-प्रभासे शुक्लवर्ण होकर


१. आनने । २. ०००लक्ष्यं । ३. नयनेन । ४. अचल इव । ५. क्वचित् 'तव' इति पदं न दृश्यते ।

५५०कादम्बरी-[ कथायाम्-

तं^१ प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुत्तस्थौ ।

अथ तस्याः कुसुमायुध एव स्वेदमजनयत् , ससम्भ्रमोत्थानश्रमो ^२व्यपदेशोऽभवत् । ऊरुकम्प एव^३ गतिं रुरोध, नूपुररवाकृष्टहंसमण्डलमयशो^४ लेभे । निश्वासप्रवृत्तिरेव^५ अंशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । अन्तःप्रविष्ट-चन्द्रापीड^६-स्पर्श-लोभेनेव निपपात हृदये हस्तः, स एव^७ स्तनावरणव्याजो बभूव । आनन्द एवाश्रुजलमपातयत् , चलितकर्णावतंसकुसुमरजो व्याज आसीत्^९ । लज्जैव वक्तुं न ददौ, मुखकमलपरिमलागतालिवृन्दं द्वार-

रोमाञ्चः समुत्तस्थौ उत्थितवान् , मदनविकारोदयादित्याशयः, ततो भूषणरवः आभरणसिञ्जितं समुत्तस्थौ उत्थानवेगादित्याशयः, तदनु तत्पश्चाच्च कादम्बरी समुत्तस्थौ, अतिथेः सत्कारप्रदर्शनार्थमित्याशयः ।

इह 'समुत्तस्थौ' इत्येकक्रियया अनेककर्त्रा सहाभिसम्बन्धात्तुल्ययोगिता । तथा च साहित्यदर्पणे-

'पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् । एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता ॥'

अथेति । अथ समुत्थानानन्तरम् । कुसुमायुधः काम एव स्वेदं घर्मवारि अजनयत् उत्पादितवान् । ससम्भ्रमं सत्वरं यद् उत्थानम् उत्थितिः तस्मात् श्रमः खेदः स एव व्यपदेशश्छलम् । अयमाशयः-मदनविकारवशादेव तस्याः स्वेदोऽभवत् , किन्तु सा समुत्थानपरिश्रमादेवायं मम स्वेदः सञ्जात इति व्याजेन सहचरीणां पुरतो हेतुगोपनं विहितवतीति । अत एवेह व्याजोक्तिः तल्लक्षणञ्च साहित्यदर्पणे-

'व्याजोक्तिर्गोपनं व्याजादुद्भिन्नस्यापि वस्तुनः ।' इति ।

ऊरुकम्प इति । ऊरुकम्प एव गतिं गमनं रुरोध रुद्धवान् । नूपुरे पादकटके तयोः रवो रञ्जितं तेन आकृष्टम् आकर्षितं यत् हंसमण्डलं चक्राङ्गसमूहः तत् अपयशः अकीर्तिं लेभे प्राप । ममायं गतिरोधो नोरुकम्पात् किन्तु पादकटकख्वाकृष्टन हंसमण्डलेन पादनिरोधादित्याशयः ।

इह कार्यकारणयोर्वैयधिकरणयादसङ्गतिः, प्राग्वद्व्याजोक्तिश्चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

निश्वासेति । निश्वासप्रवृत्तिरेव प्रमाणाधिकश्वासप्रवर्त्तनमेव अंशुकं कुचवस्त्रम्, चलं चपलं चकार कृतवती, चामरानिलो बालव्यजनपवनो निमित्ततां कारणतां ययौ प्राप, बालव्यजनपवन एवेदं वस्त्रं चालयति न पुनः श्वासारम्भ इति कृत्वा प्रस्तुतहेतुगोपनं विहितवतीत्याशयः । व्याजोक्तिरलङ्कारः ।

अन्तःप्रविष्टेति । अन्तःप्रविष्टः अनुपमसौन्दर्य्यात्तत्कालादेव हृदयं गतो यश्चन्द्रापीडः तस्य स्पर्शलोभेनेव स्पर्शंतृष्णयैव हृदये हस्तः करो निपपात निपतितो बभूव । स एव हस्त एव, स्तनावरणव्याजः कुचाच्छादनकपटो बभूव जातः । एवञ्च अकस्मादुत्थानेन कुचयोराच्छादनापसरणात् पुनस्तयोराच्छादनार्थमेव हृदये करः समर्पितः, न पुनरभ्यान्तःप्रविष्टस्य स्पर्शंतृष्णयेति व्याजेन सहचरीणां पुरतः प्रस्तुतहेतुगापनं कृतवतीत्यभिप्रायः । उक्तालङ्कारः ।

आनन्द इति । आनन्दः प्रमोद एव अश्रुजलं नयनसलिलम् अपातयत् पातितवान् , चलितस्य वालव्यजनपवनेन उत्थानरभसा वा कम्पितस्य कर्णावतंसकुसुमस्य श्रवणालङ्कारीभूतपुष्पस्य रजः परागः व्याजः कपटः । कुसुमपराग एव मम नयनजलमपातयत् न तु प्रमोद इत्याशयः । उक्तालङ्कारः ।

लज्जेति । लज्जा त्रपा सैव वक्तुम् अभिधातुं न ददौ दत्तवती, मुखकमलस्य वदनपङ्कजस्य परिमलेन


उसे देख विह्वल हो गये । इधर चन्द्रापीडको देखकर पहले कादम्बरी को रोमाञ्च उत्पन्न हुआ; उसके बाद आभूषण का शब्द हुआ और उसके पीछे ( अन्तमें ) कादम्बरी स्वयं उठ खड़ी हुई ।

तदनन्तर कामदेवने ही कादम्बरीमें स्वेद ( पसीना ) उत्पन्न किया, किन्तु सखियोंके समीपमें उतावलीसे उठनेका परिश्रम उसका बहाना हुआ । ऊरुकम्पन ही उसके गतिरोध करनेवाला था, किन्तु उसका अपयश, नूपुर-स्वर सुनकर दौड़ आए, हंस-मण्डलको मिला । निःश्वास चलने से ही स्तनका वस्त्र कम्पित होने लगा; किन्तु समीपमें डोलते चमर का पवन उसका कारण समझा गया । हृदयमें प्रविष्ट चन्द्रापीडका स्पर्श करनेकी अभिलाषा ने ही उसका हाथ तत्काल वक्षःस्थल ( छाती ) पर पड़ा, किन्तु स्तनोंके आवरण करनेके बहानेसे रखा प्रतीत हुआ । आनन्दसे ही वास्तविक उसके नेत्रोंमें आँसू भर आये, किन्तु बाहरमें कम्पित (हिले हुए) कर्णपूरकी


१. क्वचित् 'तन्' इति पदं न विद्यते ।
२. व्यपदेशेन ।
३. जरूस्तम्भ एव^१ ।
***४. नपदशो ।
५. निश्वासप्रवृत्तिरेव निश्वास एव ।
६. ***चन्द्रापीडस्य ।
७. हस्तपल्लवः, स एव करः ।
८. स्तनावरणम् ।
९. व्याजमासीत् , व्यपदेशतान्यासीत् ।

चन्द्रापीडस्य भावावेश० ८८ ]' चन्द्रकला-विद्योतिनीसहिता । ५५१

तामगात्¹ । मदनशरप्रथमप्रहारवेदनैव सीत्कारम्² अकरोत्, कुसुमप्रकरकेतकीकण्टकक्षतिः साधारणतामवाप । वेपथुरेव करतलम कम्पयन्, निवेदनोद्यतप्रतीहारीनिवारणं कपटमभूत् । तदा च कादम्बरीं विशतो मन्मथस्यापि मन्मथ इवाभूद् द्वितीयः, तया सह यो विवेश-चन्द्रापीडहृदयम् । तथाहि, असावपि तस्या रत्नाभरणद्युतिमाप तिरोधामममस्त, हृदयप्रवेशमपि परिग्रहमगणयत्, भूषणरवमपि सम्भाषणममन्यत, सर्वेन्द्रियाहरणमपि प्रसादमचिन्त-

आमोदेन आगतम् आयातञ्च तत् अलिवृन्दं मधुकरसमूहश्चेति तत्, द्वारतां गोपनसाधनताम् अगात् अगमन् । मधुकरसमूह एव वक्तुं प्रतिबध्नाति न पुनस्त्रपेत्याशयः । उक्तालंकारः ।

मदनेति । मदनशरस्य कामबाणस्य यः प्रथमप्रहारः आद्याभिघातः तस्य वेदनैव व्यथैव सीत्कारं ‘सी सी’ इति शब्दविशेषम् अकरोत् अजनयत्, कुसुमप्रकरेषु उपहारपुष्पपुञ्जेषु मध्ये या केतकी केतकीकुसुमं तस्याः कण्टकक्षतिः कण्टकेन पादभेदनं साधारणतां सीत्कारसाधारणनिमित्तताम् अवाप प्राप । केतकीकण्टकक्षतिरेव मे सीत्कारमेन मकरोत्, न तु कामबाणव्यथयेति छलं विधाय प्रस्तुतगोपनं कृतवतीत्याशयः । उक्तालंकारः ।

वेपथुरिति । वेपथुरेव मदनावेषोपलक्ष कम्प एव करतलं हस्ततलम् अकम्पयत् कम्पितवान्, निवेद-नाय वस्तुविशेषबोधनाय उद्यता या प्रतीहारी द्वारपालिका तस्या निवारणं हस्तविधूननेन निषेधनं कपटं छलम् अभूत् । प्रतीहारीनिषेधेन कैतवेन प्रादुर्भूतस्यापि गात्रकम्पनस्य गोपनं कृतवतीत्याशयः । उक्तालंकारः । एतेन कादम्बर्याश्चन्द्रापीडविषयको भावावेशः स्पष्टीकृतः ।

अथ चन्द्रापीडस्यापि तद्विषयकं भावावेशं निरूपयति—तदेति । कादम्बरीं विशतः प्रवेशं कुर्वतः मन्मथस्यापि कन्दर्पस्यापि द्वितीयः स्वसदृशोऽपरः मन्मथ इवाभूत् , यः तया कादम्बर्या सह चन्द्रापीडहृदयं विवेश प्रविष्टवानिति सम्बन्धः । अन्यथैकस्यैकस्मिन्समये स्थानद्वये प्रवेशासम्भवादित्याशयः । एवञ्च यथा चन्द्रापीडावलोकनानन्तरमेव तेन सह कामदेवः कादम्बरीहृदयं प्रविष्टवान्, तथैव कादम्बरीवीक्षणानन्तरमपि तया सह कामदेवः चन्द्रापीडहृदयमपि प्रविष्टवानिति निष्कर्षः ।

इह द्वव्योत्प्रेक्षा । तथा ‘यत्तदोर्नित्यसम्बन्ध’ इति न्यायादुत्तरवाक्ये यच्छब्दोपादानेऽपि पूर्ववाक्ये तदनुपादानाद्विधेयाविमर्शादोषस्तु न शङ्क्यः, ‘आत्मा जानाति यत्पापम्’ इतिवत् यच्छब्दस्य तच्छब्दानपेक्षत्वात् ।

तदेतत्समर्थयति — तथाहीति । असौ चन्द्रापीडोऽपि तस्याः कादम्बर्याः, रत्नाभरणद्युतिमपि मणिखचितभूषणकान्तिमपि तिरोधानं व्यवधानं समग्रमेवावलोकनप्रतिबन्धकमित्यर्थः अमन्यत ज्ञातवान् । इह प्रकाशरूपया कान्त्या तिरोधानासम्भवा द्विरोधः, लोचनाच्छादकत्वेन च तत्सम्भवात्परिहार इति विरोधाभासोऽलङ्कारः । हृदयप्रवेशमपि चित्तप्रवेशमपि परिग्रहं ‘पतित्वेन ममानया परिग्रहः कृतः’ इति कामुकस्वभावानुकूलम् अगणयत् ‘कामः स्वतां पश्यति’ इति न्यायादित्याशयः । इह निरङ्गकेवलरूपकम् । भूषणरवम् अलङ्कारझणकारमपि सम्भाषणम् अभ्यर्थनालापरूपम् अमन्यत अबुध्यत । इहाप्युक्तालंकारः ।

पुष्प-रेणु उसका बहाना हो गई। लज्जा ही वास्तविक्में बोलने नहीं दिया, किन्तु मुखकमलके सौरभसे आए भ्रमर उसको रोकने प्रतीत हुए। काम-बाणके प्रथम प्रहारकी वेदनाने ही वस्तुतः उसको सीत्कार होने लगा, किन्तु भूतलमें विक्षिप्त पुष्पोंके पुञ्झमेंसे केतकी (केवड़े) के कांटेसे आघात होने (छिंदने) के कारण उत्पन्न हुआ दीखा। कामकम्पसे ही उसका हाथ कम्पित होने लगा, किन्तु किसी विषयको निवेदन करनेके लिए उद्यत प्रतीहारीको निवारण करना उसका दशाना हुआ।

उस समय कादम्बरीके सहित जो कामदेव चन्द्रापीडके हृदयमें प्रवेश किया वह वही मानो कादम्बरीमें प्रवेश करते हुए कामदेवका भी एक द्वितीय कामदेव उत्पन्न हुआ, क्योंकि चन्द्रापीड भी, गन्धर्वराजकुमारी कादम्बरीके रत्नालङ्कारकी प्रभाको तिरोधान (दृष्टिको रोकनेवाली, विदाईके समय वर-वधूके मध्यमें लगाये गये वस्त्र) समझने लगा; कादम्बरी जो अपने हृदयमें प्रवेश की थी उसे ही पतित्वेन वरणका स्वरूप (स्वीकार, वर-ग्रहण) गणना करने लगा; उसके आभूषणोंके शब्दको भी सम्भाषण कह कर मानने लगा; अपने सब


१. द्वारपात्रताम् । २. सीत्कारम् ।

५५२ | कादम्बरी- | [ कथायाम्-

यत्त् , देहप्रभासम्पर्कमपि सुरतसमागमसुखमकल्पयत् ।

कादम्बरी तु कृच्छ्रादिव दत्तकतिपयपदा महाश्वेतां स्नेहनिर्भरं चिरदर्शनजातोत्कण्ठा^१ सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत्-'सखि ! कादम्बरी ! भारते वर्षे राजा अनेक-वर-तुरग-खुर-मुखोल्लेखदत्त-चतुः-समुद्र-मुद्रो रक्षितप्रजापीडस्तारापीडो नाम, तस्यायं निज-भुज-शिलास्तम्भ-विश्रान्त-विश्व-विश्वम्भरापीडः चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनाँगतः भूमिमिमाम् । एष च दर्शनात् प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः, परित्यक्तसकलासङ्गेनिष्ठुरामपि मे सँविशेषस्वभावसरलैर्गुणैराकृष्यै

अचिन्तयत् । इह निजवस्तुहरणस्यानभिलषितत्वेनानुग्रहत्वासम्भवाद्विरोधः, मावाभिव्यक्तिपूर्वकंमनोनयनादिहरणाच्च नितान्तेष्टत्वेन तत्सम्भवात् परिहार इति प्राग्वद्विरोधाभास एवालङ्कारः । देहप्रभासम्पर्कमपि शरीरकान्तिसम्बन्धमपि सुरतसमागमसुखं सम्भोगाय सङ्गात्पन्नसुखरूपम् अकल्पयत् अगणयत् । इहापि प्राग्वद्रूपकमलङ्कारः ।

कादम्बरीति । कृच्छ्रादिव कष्टादिव दत्तानि अर्पितानि कतिपयानि कियन्ति पदानि पादानि यया सा तादृशी, चिरदर्शनात् अधिकसमयादनन्तरं साक्षात्कारात् जाता उत्पन्ना उत्कण्ठा औत्सुक्यं यस्याः सा तादृशी, सोत्कण्ठं सोत्सुक्यम्, स्नेहनिर्भरं प्रेम्णा गाढं यथा स्यात्तथा कण्ठे जग्राह आश्लेषं चकारेत्यर्थः ।

इह हेतूत्प्रेक्षा वृत्त्यनुप्रासश्चेत्युभयोर्मिथो नैरपेक्ष्येण संसृष्टिः । तथा 'सोत्कण्ठम्' इत्यस्य परित्याग एवोचितम्, अन्यथैतत्पदस्य द्विरुपादानेन पुनरुक्तत्वापत्तेरित्यवधेयम् ।

महाश्वेतेति । दृढतरं बलवत्तरं यथा स्यात्तथा दत्तः कण्ठग्रहः आश्लेषो यया सा तादृशी । अनेके नानाविधाः, वराः श्रेष्ठाः, ये तुरगा अश्वाः तेषां खुरमुखैः शफाग्रैः उल्लेिखेन भूमिभेदनेन दत्ताः चतुर्षु समुद्रेषु चतुःसंख्येषु सागरेषु मुद्रा जयचिह्नानि येन सः। रक्षिता सुशासनादिग्व्यवहारैर्निवारिता प्रजानां जनानां पीडा व्यथा येन सः तादृशः । छेकानुप्रासः ।

तस्येति । अयं तस्य सूनुरित्यन्वयः । निजौ स्वीयौ भुजौ बाहू एव दृढत्वसादृश्यात् शिलास्तम्भौ प्रस्तरस्थूणे तत्र विश्रान्ता सुखनावस्थिता विश्वा निखिला विश्वम्भरा पृथिवी सैव पीडा अनायासधार्यत्वसादृश्यादुत्तंस आभरणविशेषो यस्य सः । दिग्विजयप्रसङ्गेन इमाम् एनां भूमिं पृथिवीम् आगतः प्राप्तः । 'पीडात्तंसेर्मनोत्तंसकृपासु सरलद्रुमे' इति हैमः ।

इह निरङ्गकेवलरूपकद्वयं छेकानुप्रासश्चेत्युभयोर्मिथ्यो निरपेक्षतया संसृष्टिः ।

एष इति । एष चन्द्रापीडः दर्शनात्प्रभृति अवलोकनादारभ्य प्रकृत्या स्वभावेन, निष्कारणबन्धुतां निहैतुकस्वजनत्वं गतः प्राप्तः । सविशेषाः सातिरेका अलौकिका इत्यर्थः ते च ते स्वभावसरलाश्च स्वारसिकऋजव इति तैः गुणैः दयादाक्षिण्यादिभिः करणैः, परित्यक्तैः उज्झितैः सकलासङ्गैः समस्तसंसर्गैः निष्ठुरा कठिना तां तादृशीमपि मे मम चित्तवृत्तिं मनोवृत्तिम आकृष्य आकर्षणं विधाय वर्तते । हि यतः, दाक्षिण्यपरवशः निखिलानामेवानुकूलाचरण इत्यर्थः, निर्निमित्तमित्रम् अहेतुकबन्धुः, अकृत्रिमहृदयः ।

इन्द्रियों के हरणको भी अनुग्रह मानने लगा और उसकी शरीर-कान्तिके संपर्कसे भी सुरतसमागमके सुखकी मन ही मन कल्पना करने लगा ।

कादम्बरीने मानो बड़े क्लेशसे कितने ही कदम आगे आकर, बहुत कालके बाद दर्शन होनेसे उत्कण्ठित हुई महाश्वेताके कण्ठसे स्नेह और उत्कण्ठा-पूर्वक गाढ़ आलिङ्गन किया (लिपट गई) महाश्वेताने भी उसको गाढ़तर कण्ठालिङ्गन देकर कहा—सखि, कादम्बरि ! भारत वर्षमें सुशासनके गुणसे प्रजाओंके समस्त कष्टों का निवारण करनेवाले तारापीड नामक एक राजा हैं, उन्होंने बहुत उच्च घोड़ोंके खुराग्र (टापों) से भूमिविदारण कर चारों समुद्रों तक अपना विजय-चिह्न स्थापन किया है, ये उनके पुत्र हैं, इनका नाम चन्द्रापीड है, इनके निज-बाहु-युगलरूपी शिलास्तम्भों पर समग्र पृथ्वीरूप भूषण सुखसे स्थित है, ये दिग्विजयके प्रसङ्गसे इस प्रदेश तक आये हैं। जब से इनका साक्षात्कार हुआ है तबसे ही ये स्वभावतः मेरे अकारण-बन्धु हो गए हैं, एवं समस्त आसक्ति परित्याग करनेसे मेरी चित्तवृत्ति निष्ठुर होने पर भी इन्होंने लोकोत्तर और स्वभाव-सरल गुणोंसे उस


१. ॰॰॰जातोत्कण्ठं । २. ॰॰॰विश्रान्तिविश्वम्भरापीडः, विश्वबन्धुः । ३. अनुगतः । ४. सविशेषैः । ५. वाङ्गम्य ।

चन्द्रापीडमैत्रीव्यवहारावश्यकत्व०८९] चन्द्रकला-विद्योतिनीसहिता । ५५३

चित्तवृत्तिं वर्त्तने, दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः१। यतो दृष्ट्वैवेमम् अहमिव त्वमपि निर्माणकौशलं प्रजापतेः, निःसपत्नताञ्च रूपस्य, स्थानाभिनिवेशित्वञ्च लक्ष्म्याः, सद्भर्तृ तासुखञ्च पृथिव्याः, सुरलोकातिरिक्तताञ्च मर्त्यलोकस्य, सफलताञ्च मानुषीलोचनानाम्, एकस्थानसमागमञ्च सर्वकलानाम्, ऐश्वर्य्यञ्च सौभाग्यस्य, अग्राम्यताञ्च मनुष्याणां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य मया बहुप्रकारं२ प्रियसखी। तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम्, अनुपजातपरिचय इत्युत्सृज्य अविश्रम्भताम्, अविज्ञातशील इत्यपहाय शङ्काम्, यथा मयि तथात्रापि वर्त्तितव्यम्३ । एष ते मित्रञ्च


सर्वेषां समस्तानाम् इन्द्रियाणां मनोलोचनादीनां करणानाम् आहरणम् आकर्षणमपि प्रसादम् अनुग्रहम् वञ्चनारहितचित्तं, विदग्धजनो विचक्षणपुरुषो दुर्लभो दुष्प्रापः, अत एवेष विचक्षणो मम मनोवृत्तिमाकृष्य विद्यत इत्याशयः ।

इह सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।

यत इति । 'यतस्त्वमपि ज्ञास्यसि' इत्यन्वयः । प्रजापतेर्ब्रह्मणो निर्माणकौशलं रचनाचातुर्यम् । रूपस्य सौन्दर्यस्य निःसपत्नतां प्रतिस्पर्द्धिशून्यत्वम् सौन्दर्ये कोऽपि प्रतिद्वन्द्वी नास्तीत्यर्थः । लक्ष्म्या राज्यश्रियः स्थानाभिनिवेशित्वं यथास्थले स्थातुमाग्रहवत्त्वम् । पृथिव्या भूमेः सद्भर्तृ तया साधूच्चस्वामितया सुखम् आनन्दः । मर्त्यलोकस्य मृत्युभुवनस्य सुरलोकाद् देवाल्यात् (स्वर्गात् ) अतिरिक्तताम् उत्कृष्टत्वम् एतस्याधिपतित्वेन विद्यमानत्वादित्याशयः । अनेन सुरेशादपि चन्द्रापीडस्योत्कर्षो ध्वन्यते । मानुष्यो मानवजातीया नार्यः तासां लोचनानां नयनानां सफलतां साफल्यम, निरन्तरमेतस्य निरीक्षणादित्याशयः । सर्वकलानां समस्तनृत्यगीतादिकलाविद्यानाम्, एकस्थाने एकत्र समागमं संयोगम् । अनेन समस्तकलाविद्यावत्त्वं प्रतीयते । सौभाग्यस्य भाग्यवत्तायाः, ऐश्वर्यं महासमृद्धिम्, अस्य प्राप्तेरित्यादायः । अनेनायं सकलस्यैव दुष्प्राप इत्यवगम्यते । मनुष्याणां मानवानाम्, अग्राम्यतां नागरिकताम् । अनेनैतस्य सुरादिभ्योऽपि वैदग्ध्यं सूच्यते ।

इह तुल्ययोगितालङ्कारः, 'निर्माणकौशलम्' इत्यादीनां सर्वेषां 'ज्ञास्यसि' इत्येकक्रियायां कर्मत्वेनाभिसम्बन्धात् ।

कथितेति । अस्य कुमारस्य निकटे, प्रियसखी त्वम्, बहवोऽनेके प्रकारा भेदा यत्र क्रियायां तद् यथा स्यात्तथा कथिता निरूपिता । अयं कुमारः, अपूर्वम् अभिनवं दर्शनम् अवलोकनं यस्य स तथोक्तः, एवमूपेण सर्वत्रान्वयः। अनुपजातः अनुत्पन्नः परिचयः संस्तवो यस्य स तादृशः, नास्ति विश्रम्भो विश्वासो यत्र सः तस्य भावस्ताम्, उत्सृज्य त्यक्त्वा । अविज्ञातम् अविदितं शीलं स्वभावो यस्य सः, शङ्कां सन्देहम् अपहाय दूरीकृत्य, यथा मयि महाश्वेतायां तथा अत्रापि अस्मिन् कुमारेऽपि वर्त्तितव्यं त्वया आचरणीयम्, सकलगुणनिधित्वान्न तत्र दोष आशङ्कनीय इत्याशयः ।

एष इति । मित्रं सुहृत्, बान्धवः स्वजनः, परिजनः परिचारकश्च, अनेन सर्वथैवायमेव स्त्वानित्वेन


(चित्तवृत्ति) का आकर्षण कर लिया है; क्योंकि- सबके ही अनुकूलमें अकारण-बन्धु और प्रतारणा-हीन-चित्त इस प्रकारके विदग्धजनों का मिलन संसारमें दुर्लभ है। इस लिए मेरे समान, तुम भी इनको देखकर ही विधाताका निर्माण-नैपुण्य, सौन्दर्य की अतुलनीयता, राजलक्ष्मीका योग्यस्थानमें रहनेका आग्रह, उत्कृष्ट पतिप्राप्ति होनेसे पृथिवीको सुख, देवलोककी अपेक्षा मर्त्यलोकका उत्कर्ष, मनुष्य-रमणियाेंके लोचनोंकी सार्थकता, एक स्थानमें समस्त कलाओंका सम्मेलन, सौभाग्यकी सम्पत्ति एवं मनुष्योंकी भद्रता, इन सभीको ही समझोगी, इस लिए इनको मैं यहां बलपूर्वक ले आई हूँ, और तुम्हारे विषयमें इनके समक्ष मैने अनेक प्रकारसे परिचय दिया है अत एव-'इनके साथ यह पहली भेंट है'- इस धारणासे जो लज्जा हो उसे छोड़कर, 'इनका मुझसे कुछ परिचय नहीं है'इस प्रकार समझ्नेसे जो अविश्वास हो उसे भी छोड़, एवं 'इनके स्वभावसे मैं अज्ञात हूँ'-इस प्रकार समझकर जो कुछ आशंका उत्पन्न हो उसे भी दूर कर, जिस प्रकार तुम्हारा व्यवहार मेरे साथ


१. विदग्धो जनः। २. बहुतरं। ३. प्रवर्त्तितव्यम्।

३५ का०

३५४कादम्बरी-[ कथामुखम्-

बान्धवश्च परिजनश्च' इत्यावेदिते तया, चन्द्रापीडः प्रणाममकरोत् ।

कृतप्रणामञ्च तं तदा कादम्बर्य्यतिस्निग्धं' विलोकयन्त्याः सस्नेहमतिदीर्घलोचनापाङ्ग- मार्गं गच्छतस्तारकस्य श्रम-सलिल लव-विसर इवानन्दबाष्पजलबिन्दुनिकरो निपपात । त्वरितमभिप्रस्थितस्य धूलिरिव सुधाधवला स्मितज्योत्स्ना विससार । सम्मान्यतामयं हृदयरु- चिरो जनः प्रतिप्रणामेनेति शिरो वक्तुमिवैका भ्रूलता समुन्ननाम । अङ्गुलिविवरविनिःसृतम- रकत्ताङ्गुलीयक मयूखलेखो ^२विभ्रम-गृहीतताम्बूलवीटिक इव करो जृम्भारम्भमन्थरं मुखमु-

वरणीय इति ध्वन्यते । तया महाश्वेतया इति पूर्वप्रतिपादिते विषये आवेदिते निवेदिते सति, चन्द्रापीडः प्रणामं नमस्कारम् अकरोत् कृतवान् । इह युवराजस्य चन्द्रापीडस्य कादम्बर्याः प्रणामो नोचित इति नाशङ्कनीयः, गन्धर्वाणां देवयोनित्वेन तत्कन्यकायास्तस्यास्तत्करणस्य न्याय्यत्वात् ।

कृतेति । तदा तस्मिन् समये कृतप्रणामं विहितनमस्कारं तं चन्द्रापीडं सस्नेहं सानुरागं यथा स्यात्तथा तिर्यक् विलोकयन्त्याः पश्यन्त्याः कादम्बर्याः, अतिदीर्घलोचनस्य अतिविस्तृतनयनस्य अपाङ्गभागं प्रान्तदेशं गच्छतो ब्रजतः तारकस्य कनीनिकायाः श्रमः तावद्गमनेनापि यः खेदः तस्य ये सलिल-लवाः तन्नभवा घर्मबिन्दवः तेषां विसरः पुञ्ज इव निपपात अपतत् । तिर्यग्विलोकनसमये लोचनकनीनिका विस्तृतस्य नयनस्य पर्यन्तभागं गता, पर्यन्तभागश्च दूरवर्ती, यतो हि सुविस्तृतं नेत्रम्, अतएव आयतनयनमध्ये दूरगमनात् तारकस्य श्रमो जातः । अतएव घर्मस्वेदवद् अश्रु पपातेत्यभिप्रायः । विशाललोचनतया नायकस्य निरतिशयसौन्दर्यं प्रतीयते । इहोपमा 'कनीनिकायां नक्षत्रे तारकं तारकेतिच' इति विश्वः

त्वरितमिति । त्वरितं शीघ्रम् अभिप्रस्थितस्य प्रथानमार्गेण चन्द्रापीडं प्रति चलितस्य कादम्बर्याः श्वेतसः, धूलिश्चरणरज इव, सुधाधवला स्मितज्योत्स्ना मन्दहास्यद्युतिः विससार विस्तृता जाता । कादम्बरी भावावेशवशेन मन्दहास्यं कृतवतीत्याशयः ।

इह 'सुधाधवला' इत्यत्र लुप्तोपमा, 'धूलिरिव' इत्यत्र च जात्युत्प्रेक्षयोरङ्गाङ्गिभावसङ्करः ।

सम्मान्यतामिति । रुचं प्रीति रति ददातीति रुचिरः, हृदयस्य रुचिरः अनुपमसौन्दर्याच्चेतसो रुचिज्जनकः सर्वथैव मनोऽभिलषित इत्यर्थः, अयं महल्लक्षणो जनो लोकः प्रतिप्रणामेन सदृशनमस्कारेण सम्मान्यतां सत्क्रियताम् इति एवं शिरो वक्तुमिव शिरसे निवेदयितुमिव एका भ्रूलता भ्रूवल्ली समुन्ननाम उच्चीबभूव । इह फलोत्प्रेक्षालङ्कारः ।

अङ्गुलिविवरेति । अङ्गुल्यः करशाखाः तासां विवरेभ्यश्छिद्रेभ्यो विनिःसृता विनिर्गता मरकताङ्गुलीयकानाम् अश्मगर्भरचिताङ्गुलीयकाणां मयूखलेखा रश्मिपङ्क्तिर्यस्य सः, अतएव विश्रमेण विलासेन गृहीता जाता ताम्बूलवीटिका नागवल्लीदलवाटिका येन सः, मरकतनिरिचताङ्गुलीयकानां रश्मिपङ्ग्यास्ताम्बूलवीटिकावत् कृष्णवर्णत्वादित्याशयः । करो हस्तः । जृम्भाया आरम्भेण मन्थरं स्तब्धं मुखं वदनम् उत्ससर्प उज्जगाम ।

इह पदार्थहेतुकं काव्यलिङ्गमलङ्कारः, तद्रश्मिपङ्क्तेस्ताम्बूलवीटिकात्वेनोत्प्रेक्षणाज्जात्युत्प्रेक्षालङ्कारश्चेत्युभयोरङ्गाङ्गिभावसङ्करः ।

हैं, उसी प्रकार इनके साथ भी करो । ये तुम्हारे मित्र बान्धव और परिजन हैं। इस प्रकार महाश्वेताके समझाने पर, चन्द्रापीडने [ गन्धर्वोके देवयोनित्व होनेके कारण ] कादम्बरीको प्रणाम किया ।

उस समय कादम्बरी कटाक्ष-पात करके स्नेहके साथ चन्द्रापीडको देखने लगी, उसके नेत्रकी तारा (पुतली) बड़े बड़े नेत्रोंके प्रान्तभागमें उपस्थित हो गई, एवं उधर जानेके परिश्रमसे घर्मबिन्दुसमूहके समान आनन्दाश्रुबिन्दुसमूह टपकने लगे । उसका हृदय चन्द्रापीडके प्रति शीघ्रतासे आगे दौड़ गया, अतएव उसके हृदयरूपी चरण-धूलिके समान अमृततुल्य शुभ्रवर्ण ईषद्-हास्यकी प्रभा फैलने लगी । 'प्रतिप्रणाम कर इस हृदय-रुचिर -व्यक्तिको सम्मानित करो' इस बातको मस्तकसे कहनेके लिए ही मानो उसकी एक भ्रूलता ऊपरकी ओर चढ़ी । [ दक्षिण हस्तके ] अङ्गुलियोंके मध्यमें होकर मरकतमाणिके अङ्गुरीदलों (अँगूठियों) की किरणें निकलनेके कारण प्रतीत होता था कि मानो, वह (हाथ) लीलासहित ताम्बूल-वीटिका (पानकी बीड़ी) धारणकर जँभाईके


१. अतिदीर्घलोचनाय अपाङ्गभागं गच्छतस्तारकस्य लोचनस्य अतिदीर्घलोचनयोरपाङ्गभागम् । २... लेखाविभ्रम ' ' अङ्गुलीयकलेखः... ।

कादम्बर्या भावावेशवर्णना ९० ] चन्द्रकला-विद्योतिनीसहिता । २५५

त्ससर्प । स्रवत्स्वेदजलधौतलावण्यनिर्मलेषु चास्याः संक्रान्तं-प्रतिविम्बतया सञ्चरन्मूर्तिमन्मकर- केतुरिवावयवेष्वदृश्यत चन्द्रापीडः। तथाहि, शिञ्जन्मणिनूपुरैपुटेन भुवं आलिखताऽङ्गुष्ठेना- हूत इव चरणनखेषु निपपात । दर्शनातिरभसप्रधावितेन गत्वा हृदयेनानीत इव स्तनाभ्य- न्तरे समदृश्यत । विकचकुवलयदामदीर्घया दृष्ट्या च निपीत इव कपोलतले समलक्ष्यत । सर्वासामेव च तदा तासां कन्यकानां तिर्यक् पश्यन्तीनां कुतूहलादपाङ्गचुम्बिन्यो निर्ग- न्तुकामा इव कर्णपूरमधुकरैः समं वभ्रमुस्तरलास्तारकाः। कादम्बरी तु सविभ्रम-कृत-प्रति-प्रणामा महाश्वेतया सह पर्यङ्के निपसाद ।

स्रवत्स्वेदेति। किञ्च, स्रवता भावोद्गमाच्च्यवता स्वेदजलेन घर्मवारिणा धौतं क्षालितं यल्लावण्यं तेन निर्मलेषु स्वच्छेषु। अनेन प्रतिबिम्बपतनयोग्यत्वं ध्वनितम्। अस्याः कादम्बर्याः अवयवेषु अङ्गेषु, चन्द्रा-पीडः संक्रान्तप्रतिविम्बतया आत्मन एव सञ्चरितप्रतिच्छायतया कारणेन, सञ्चरन्मूर्तिः संक्रान्तस्वरूपो मकरकेतुः काम इव अदृश्यत अवालोक्यत सहचरीभिरिति शेषः।

इह द्रव्योत्प्रेक्षा, अतएव च कादम्बर्या मदनविह्वळत्वं तस्य च कामसदृशसौन्दर्यं प्रतीयत इत्यलं-कारेण वस्तुध्वनिः।

अभिहितमेव विषयं विवृणोति—तथाहीति। भुवं पृथिवीम् आलिखता (कपंन्ता, किञ्चित्खनता) अतएव शिञ्जत् अस्फुटशब्दं विदधत् मणिनूपुरपुटं रत्नखचितपादकटकपुटं यत्र तथोक्तेन अङ्गुष्ठेन आहूत इव पादकटकशब्देनामन्त्रित इव चन्द्रापीडः, चरणनखेषु कादम्बर्याः पादपुनर्नखेषु निपपात निपतितवान्, तेषु तत्प्रतिबिम्बं पपात इति तात्पर्यम्। 'आहूत इव' इति क्रियोत्प्रेक्षा।

दर्शनेति। दर्शनाय चन्द्रापीडस्यैवावलोकनार्थम् अतिरभसम् अतिशीघ्रं प्रधावितेन अत्यन्तवेगो-द्गलितेन हृदयेन चेतसा गत्वा व्रजित्वा आनीत इव प्रापित इव चन्द्रापीडः कादम्बर्याः स्तनाभ्यन्तरे कुच-योर्मध्ये समदृश्यत समवालोक्यत सहचरीभिरिति शेषः। उत्तालंकारः।

विकचेति। विकचानि विकसितानि यानि कुवलयानि नीलोत्पलानि तेषां दाममाला तद्वद् दीर्घया विस्तृतया, निरन्तरकटाक्षपातादित्याशयः, दृष्ट्या अवलोकनेन निपीत इव निगीर्ण इव चन्द्रापीडः कपो-लतले कादम्बर्या गण्डतले समलक्ष्यत सदृश्यत। उक्तालंकारः।

सर्वासामिति। कुतूहलात् कौतुकात् तं चन्द्रापीडं तिर्यक् पश्यन्तीनां कुटिलेनावलोकयन्तीनां सर्वासाम् समस्तानामेव तासां कन्यकानां कुमारीणाम् अपाङ्गचुम्बिन्यो लोचनप्रान्तस्थायिन्यः, तरलाश्च-पलाः तारका नेत्रकनीनिकाः, निर्गन्तुकामा इव बहिर्गमनोत्सुका इव सत्यः, कर्णपूरमधुकरैः समं श्रवणा-लङ्कारीभूतकुसुमगतभ्रमरैः साकं वभ्रमुः भ्रमणं चक्रुः, यथा मधुकराराश्चञ्चलास्तथा तारका अपि चाञ्चल्यम-भजन्नित्यर्थः।

इह गुणोत्प्रेक्षा सहोक्तिश्चेत्युभयोरङ्गाङ्गिभावसङ्करः।

कादम्बरीति। सविभ्रमं सविलासं कृतो विहितः प्रतिप्रणामः चन्द्रापीडाय नमस्कारो यया सा तादृशी । पर्यङ्के पल्यङ्के निपसाद उपविवेश ।


कारण होनेसे मन्दिर मुखकी ओर गया; गिरते हुए घर्मजल (पसीने) से उसके समस्त अङ्गलावण्य धुल जानेके कारण अधिक स्वच्छ हुए उसके अवयवोंमें उस (चन्द्रापीड) का प्रतिविम्ब पड़नेसे मानो वह विचरण करता हुआ (फिरता) कामदेव ही है ऐसा दीखने लगा—क्योंकि मणि-भूमि पर कुछ लिखते हुए उसके चरणाङ्गुष्ठने मानो मणिनूपुरोंकी झंकारसे उसका आह्वान किया हो यों वह चरण-नखोंमें आ पड़ा था; चन्द्रापीडको देखनेके लिए तत्काल उसका हृदय मानो अतिशीघ्र जाकर उसे ले आया हो, इस प्रकार वह उसके स्तनाभ्यन्तरमें दीखता था; और प्रस्फुटित नीलोत्पलमालाके समान अपने सुदीर्घ दृष्टिसे उसका मानो पान किया हो, इस प्रकार उसके कपोल-मण्डल (गाल) पर दृष्टिगोचर होता था। फिर उस समय बैठी समस्त कन्याओंकी, जो उसे कौतुकसे वक्रदृष्टि (कटाक्ष) डाल-डालकर देखती थीं, प्रान्तभाग (कोने) तक गई हुई चञ्चल नयनताराएँ (पुलियों) बाहर जानेकी अभिलाषिणी सी मानों, कर्णाभरण-कुसुमके भंवरोंके साथ गिरने लगीं।

कादम्बरी भी नानाविध विलास-सहित चन्द्रापीडको प्रणाम करके महाश्वेताके साथ पलङ्ग पर जाकर


१. समभ्यक्रान्तं...। २. ...मणिनिम्ननूपुर । ३. मनिम्बन्द । ४. अपाङ्गचुम्बिन्या दृष्ट्या निर्गन्तु-कामा इव । ५. ...कृतप्रणामा ।

कादम्बरी- [कथामुखम्

ससम्भ्रमं 'परिजनोपनीतायाञ्च शयनशिरोभागनिवेशितायां धवलांशुकप्रच्छदपटायां हेम- 'पादाङ्कितायां पीठिकायां चन्द्रापीडः समुपविशत् । महाश्वेतानुरोधेन च विदितकाद- म्बरीचित्ताभिप्रायाः संवृतमुखन्यस्तहस्तशब्दनिवारणसंज्ञाः प्रतीहार्यो वेणुरवान् वीणाघो- षान् गीतध्वनीन् मागधीयशब्दांश्च सर्वतो निवारयाञ्चक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्योत्तरीयांशुकेनापमृज्य पुनः पर्यङ्क- मारुरोह । चन्द्रापीडस्यापि कादम्बर्याः सखी रूपानुरूपा जीवितनिर्विशेषा सर्वविश्रम्भभू- मिर्मदलेखेति नाम्ना बलादनिच्छतोऽपि प्रक्षालितवती चरणौ। महाश्वेता तु कर्णाभरणप्रभा- वर्षिण्यं संप्रदेशे सप्रेम-पाणिना स्पृशन्ती, मधुकरभर-पर्यस्तस्रङ्ग कर्णावतंसमुत्क्षिपन्ती, चाम- रपवनविद्युति पर्यस्ताञ्च" अलकवल्लरीमनुप्लवमाना कादम्बरीमनामयं पप्रच्छ ।

ससम्भ्रममिति । अपि च, चन्द्रापीडः ससम्भ्रमं शीघ्रं परिजनेन परिचारकेन उपनीतायाम् उपस्था- पितायाम्, शयनस्य तल्पस्य शिरोभागे मस्तकदेशे निवेशितायां स्थापितायाम्, धवलांशुकेन स्वच्छव- स्त्रेणैव प्रच्छदपटः आस्तरणवस्त्रं यस्यास्तस्याम्, हेमपादैः सुवर्णरचितपादैः अङ्कितायां चिह्नितायां पीठिकायां लघुपीठे समुपविशत् आसेदिवान् ।

महाश्वेतेति । विदितो ज्ञातः कादम्बर्याः चित्ताभिप्रायः स्वान्ताशयो याभिस्तास्तादृश्यः प्रतीहार्यो द्वाररक्षिकाधियः महाश्वेताया अनुरोधेन प्रतिबन्धेन, संवृतेषु पिहितेषु मुखेषु न्यस्तैः स्थापितैः हस्तैः, इष्टा ज्ञापिता शब्दकरणनिवारणसंज्ञा ध्वनिकरणनिवृत्तिसङ्केतो याभिस्तास्तादृश्यः सत्यः, वेणुरवान् वंशीशब्दान् वीणाघोषान् वल्लकीनादान् गीतध्वनीन् गेयनिनादान्, मागधीनां स्तुतिपाठिकानां ये शब्दास्ता नब्रूथेति रवांस्तांश्च सर्वतः समन्ताद् निवारयाञ्चक्रुः निषेधितवत्यः ।

त्वरितेति । त्वरितपरिजनोपनीतेन सत्वरपरिचारिकानीतेन सलिलेन जलेन । उत्तरीयांशुकेन ऊर्ध्ववस्त्रेण सङ्गोपहनेनेत्यर्थः अपमृज्य जलं शोषयित्वेत्यर्थः । आरुरोह उपविष्टवती । रूपेण सौन्दर्येण अनुरूपा स्वसमाना, जीवितनिर्विशेषा नितान्तप्रेमभाजनमित्यर्थः, सर्वविश्रम्भभूमिः सर्वविधविश्वास- पात्रम्, मदेन निजसौन्दर्यादुन्मत्तत्वेन लिखति विध्यति तरुणानां चित्तमिति मदलेखा । लिखतः पचाद्यचप्रत्ययः । अनिच्छतोऽपि अनभिलषतोऽपि बलाद् हठाद् चन्द्रापीडस्यापि चरणौ पादौ प्रक्षालित- वती प्रक्षालनं कृतवती ।

महेति । कर्णाभरणप्रभायाः श्रवणभूषणकान्तेः वर्ष वृष्टिरस्यास्तीति तस्मिंस्तादृशे संसदेशे काद- म्बर्याः स्कन्धदेशे सप्रेम स्नेहसहितं यथा स्यात्तथा पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती, मधुमराणां भ्रमराणां भरण भारेण पर्यस्तं स्खलितं कर्णावतंसं कादम्बर्याः श्रवणभूषणभूतं कुसुमम् उत्क्षिपन्ती पुनः 'स्वस्थानमुत्तोलयन्ती, तथा चामरपवनेन बालव्यजनवायुना या विद्युतितः सञ्चालनं तेन पर्यस्ताम् इत- स्ततो विक्षिपाम् अलकवल्लरीं कादम्बर्याः कुन्तलसमूहाग्रभागमित्यर्थः अनुप्लवमाना पाणिनामर्शन्ती । अनामयम् आरोग्यं पप्रच्छ पृष्टवती । 'दुह्याच्पच्दण्ड्रुधिप्रच्छि चिब्रूशासुजिमन्थमुषाम्' इत्यादिना प्रच्छ- धातुर्द्धिकर्मकः परिगणितः ।

बैठो । इधर शीघ्रतासे किसी परिचारिका द्वारा शयनके गराने निहित एक छोटी चौकी लाकर कादम्बरीकी इच्छाके शिरहानेके निकट रखी गई, उसके ऊपरने शुक्लबर्ण एक आस्तरण-दल बिछा दिया गया, चन्द्रापीड उस पर बैठ गये । कादम्बरीके चित्तका अभिप्राय समझकर एवं महाश्वेताके अनुरोधसे प्रतिहारियोंने मुँहपर (मंद) हाथ उलटनेके ऊपर हाथ रख, शब्द करनेके निषेधका सङ्केत सूचित करके, बजने वालेसे बंशीके स्वर, वीणाका झङ्कार (घोष), गीतकी ध्वनि और स्तुतिपाठक मागधियोंके भद्र शब्द बन्द करा दिया। फिर किसी एक परिचारिकाके शीघ्रतासे जल ले आने । उससे कादम्बरीने अपने से ही उठकर महाश्वेताके चरण धोई और अपने उत्तरीय-वस्त्र (दुपट्टे) से उनको पोंछकर फिर वह पलङ्ग पर जा बैठी। उधर चन्द्रापीडके चरण भी सौन्दर्यमें कादम्बरीके अनुरूप, उसकी अत्यन्त-स्नेह-भाजन एवं सकल प्रकारके विश्वास-पात्र मदलेखा नामक सखीने उस (चन्द्रापीड) की अनिच्छा न करने पर भी बलपूर्वक पाद-प्रक्षालन किये (धोये) । फिर कर्णभूषणोंकी प्रभासे छाये हुए उस (कादम्बरी) के स्कन्धे पर स्नेहसे हाथ फेरती, भ्रमर के भारसे लटकता (टूटते) हुए कर्णावतंसको उठाती हुई,


१. 'ससम्भ्रमपरिजनापनीतायाम् ।
२. अत्र विचित्तिरत्नप्रभामित्यास्तन' इति कचित् पाठो दृश्यते ।
३. 'अंसांशदेशे ।
४. 'विह्युति' ।
५. 'पर्यस्तालकाम्... ।

कादम्बर्या भावावेशवर्णना ९० ] चन्द्रकला-विद्योतिनीसहिता । ५५७

सा तु सखीप्रेम्णा गृहनिवासेन कृतापराधेवानामयेनैव लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । समुपजातशोकापि च तस्मिन् काले महाश्वेतामुखनिरीक्षणतत्परापि मुहुर्मुहुरपाङ्ग-विक्षेप-प्रचलित-तरल-तर-तारशारोदरं$^२$ चक्षुर्मण्डलितचापेन भगवता कुसुमधन्वना बलान्नीयमानं चन्द्रापीडपीडनायेवं$^३$ न शशाक निवारयितुम् । तेनैव क्षणेन तेनासन्नसखीकपोलसंक्रान्तेनेर्ष्याम्$^४$, रोमाञ्च-भिद्यमान-कुचतटे$^५$-नश्यत्-प्रतिबिम्बेन विरहव्यथाम् , स्वेदार्द्र-वक्षःस्थल घटित-


सेति । सा कादम्बरी, सखीप्रेम्णा सहचरीस्नेहेन । अनामयेनैव आरोग्यावस्थानेनैव लज्जमाना त्रपमाणा, सहचरीत्वेन तुल्यसुखदुःखभोगयोग्यत्वादित्याशयः । कृच्छ्रादिव कष्टादिव कुशलं क्षेमं आचचक्षे आख्यातवती ।

समुपजातेति । किञ्च, कादम्बरी समुपजातशोकाऽपि समुत्पन्नदुःखापि महाश्वेताया अवलोकनेन तच्छोकस्मरणादित्याशयः, तस्मिन् काले तत्समये महाश्वेतामुखनिरीक्षणतत्परापि महाश्वेतावदनावलोकनासक्तापि मुहुर्मुहुः वारंवारम्, अपाङ्गो नेत्रप्रान्तस्तस्य विक्षेपेण चन्द्रापीडं प्रति कटाक्षपातसमये सञ्चालनेन प्रचलिता अतएव तरलतरा नितान्तचपला तारा कनीनिका यस्य तत्तादृशञ्च तत्, तत एव च शारं विचित्रम् उदरम् अभ्यन्तरं यस्य तत्तादृशञ्चेति तत्तथोक्तम् । मण्डलितचापेन आकृष्टधनुषा भगवता माहात्म्यवता कुसुमधन्वना कामेन चन्द्रापीडपीडनायेव चन्द्रापीडव्यथार्थमिव बलाद्वलात् तं प्रति नीयमानं प्राप्यमाणं चक्षुर्नेयनम्, निवारयितुं निषेद्धुं न शशाक न समर्था बभूव । कामेन चन्द्रापीडपीडनायेव कादम्बरी चक्षुः चन्द्रापीडाभिमुखं नीतं नायकस्य अभिलाषातिशये नायिकाकटाक्षैः पीडोदयात्, कादम्बरी तु न तन्निवारयितुमशकदिति सरलार्थः । 'चन्द्रापीडपीडनायेव' इत्यत्र फलोत्प्रेक्षालङ्कारः ।

तेनैवेति । सा कादम्बरी, तेन चन्द्रापीडेन, आसन्नाया निकटवर्तिन्याः सख्या वयस्यायाः कपोले गण्डे संक्रान्तेन प्रतिबिम्बितेन कारणेन ईर्ष्याम् अभजत्, निजप्राणेशस्यान्यनायिकागामित्वादित्याशयः । रोमाञ्चैः पुलकैः भिद्यमाने उज्जृम्भमाणे कुचतटे स्वस्य स्तनमण्डले नश्यत् पुलकैरून्नतावनततयैव लोपं गच्छत् प्रतिबिम्बं प्रतिच्छायां यस्य तेन तथोक्तेन चन्द्रापीडेन करणेन, विरहव्यथां वियोगपीडाम् अभजत प्रतिच्छायासत्त्वादित्याशयः । स्वेदार्द्रे घर्मक्लिन्ने वक्षःस्थले उरःस्थले घटिता घर्मैरेव निर्मिता या शालभञ्जिका पुत्तलिका तस्यां प्रतिमा प्रतिबिम्बं यस्य तथोक्तेन चन्द्रापीडेन कारणेन, सपत्नीरोप सपत्नीक्रोधम् अभजत्, चन्द्रापीडप्रतिच्छायाप्राप्तिन्याः पुत्तलिकाया अपि नायिकात्वादित्याशयः । निमिषता स्वावलोकने लोचनयोरुन्मीलननिमीलने विदधता चन्द्रापी-


चामरके वायुसे बिखरे केशकलापकी लटोंको सँवारती महाश्वेता कादम्बरीसे कुशल पूछने लगी—किन्तु कादम्बरी तो सखीका ऐसा स्नेह देख, अपना घरमें रहना महाश्वेताके समीप मानो एक बड़ा अपराध समझ, अपने कुशल होने से ही मानो लज्जित होती उसके प्रति प्रणय-वश कष्टसे ही मानो अपना कुशल-सम्वाद कहने लगी। महाश्वेताको देखकर कादम्बरीको भी शोक उपस्थित हुआ, एवं वह महाश्वेताके मुखकी ओर ही निरीक्षण कर (देख) रही थी; तथापि प्रान्तभागमें प्रेरणा करने (कटाक्ष फेंकने) से हिलती अत्यन्त चञ्चल पुतलीसे मध्यभाग विचित्र हो गया था, ऐसे नेत्रोंको, धनुष चढ़ाकर खड़ा, भगवान् कामदेव, बार बार बलात्कारसे चन्द्रापीडको मानो पीड़ा देनेके लिए ही उसकी ओर ले जाता था, और कादम्बरी उन नेत्रोंको निवारण करनेमें समर्थ नहीं हो सकती थी। उसी समयमें ही अपने समीपवर्तिनी किसी सखीके कपोल-मण्डल पर चन्द्रापीडकी प्रतिमूर्ति (प्रतिबिम्ब) देखकर कादम्बरीको ईर्ष्या होने लगी, रोमाञ्च उत्पन्न हो जानेके कारण उसके स्तनमण्डलमें पड़ा चन्द्रापीडका प्रतिबिम्ब लुप्त (नष्ट) होते ही वह विरहवेदनाको भोगने लगी; उसके वक्षःस्थल पर घर्मजल उत्पन्न होकर एक पुत्तलिकाके आकारमें परिणत हो गया, उसके ऊपर चन्द्रापीडका प्रतिबिम्ब पड़ गया, उससे कादम्बरीको सपत्नी-विद्वेष उत्पन्न होने लगा; उस (कादम्बरी) के देखनेके समयमें चन्द्रापीडकी पलक गिर


१. इह 'तस्मिन् काले' इति क्वचित्पुस्तके नावलोक्यते ।
२. '...तारोदरं ।
३. '...पीडनयेव, चन्द्रापीडपीडनादेव, चन्द्रापीडे प्रति' ।
४. ईर्ष्याया ईर्ष्या ।
५. क्वचित् 'तट' इति पदं नोपलभ्यते ।
५. विरहव्यथास्वेदार्द्र...' ।

५५८ कादम्बरी- [ कथायाम्-

शालभञ्जिकाप्रतिमेन सपत्नीरोषं१ निमिषता दौर्भाग्यशोकम्, आनन्दजलतिरोहितेनान्धता-दुःखमभजत सा। मुहूर्त्तापगमे च ताम्बूलदानोद्यतां महाश्वेता तामभाषत२—‘सखि ! कादम्बरि ! सम्प्रतिपन्नमेवै३ सर्वाभिरेवास्माभिः अयमभिनवागतश्चन्द्रापीड आराघनीयः, तदस्मै तावद्दोयतां ताम्बूलम्’४ इत्युक्ता च किञ्चिद्विवर्त्तितानवनमितमुखी५ शनैरव्यक्तमिव ‘प्रियसखि ! लज्जेऽहमनुपजातपरिचया प्रागल्भ्येनानेन, गृहाण, त्वमेवास्मै प्रयच्छ’ इत्युवाचं। पुनः पुनरभिधीयमाना च तया कथमपि ग्राम्येव चिराद्दानाभिमुखं मनश्चक्रे। महाश्वेतामुखदनाकृष्टदृष्टिरेवं७ वेपमानाङ्गयष्टिराकुलोलोचना८ स्थूलस्थूलं निश्वसती९ निजशरप्रहारमूर्च्छिता मन्मथेन स्नपि-

डेन कारणेन, दौर्भाग्यशोकं स्वस्य दुर्भाग्यताक्लेशम् अभजत, निमेषकरणेन निजावलोकने तथाविधोत्कण्ठाभावप्रत्यायनादित्यभिप्रायः। तथा च आनन्दजलेन निजलोचनत एवावन्दान्ध्रुपातेन तिरोहितो लोचनाच्छादनादेवाच्छादितस्तेन चन्द्रापीडेन कारणेन, अन्धतादुःखं दृष्टिराहित्यक्लेशम् अभजत, दर्शनव्याघातादित्यशयः। अनेन निरतिशयानुरागो ध्वन्यते।

इह ईर्ष्यादीनामनेकेषां कर्मणाम् 'अभजत' इत्येकस्यां क्रियायामभिसम्बन्धात्तुल्ययोगितालङ्कारः।

मुहूर्त्तेति। मुहूर्त्तापगमे किञ्चित्क्षणं व्यतीते ताम्बूलदानोद्यतां महाश्वेतायै नागवल्लीदलार्पणाय तत्परां तां कादम्बरीम् अभाषत अवोचत्। अभिनवागतः प्रत्यग्रायातः। सम्प्रतिपन्नमेव युक्तियुक्तमेव यथा स्यात्तथा आराधनीयः पूजनीयः 'सर्वस्याभ्यागतो गुरुः' इतिस्मरणादित्याशयः। इत्युक्ता महारवेतया एवं कथिता च कादम्बरी, किञ्चिद्विवर्त्तितम् ईषत्परावर्तितम् अवनमितञ्च मुखं वदनं यया सा तथोक्ता सती, अव्यक्तमिव अस्पष्टमिव। 'अनुपजातपरिचया सनुत्पन्नसंस्तवा, अनेन प्रागल्भ्येन ताम्बूलदानरूपधार्ष्ट्येन लज्जे त्रपे। प्रयच्छ देहि' इत्युवाच इत्युक्तवती।

पुनः पुनरिति। किञ्च, तया महाश्वेतया, पुनः पुनरभिधीयमाना चन्द्रापीडाय ताम्बूलमर्पयितुं भूयो भूयः वध्यमाना कादम्बरी, ग्राम्येव ग्रामभवा सुन्दरीव ग्रामीणा रमणी हि नागरिकवदुचितमनुचितं वावबुध्यते। चिरात् चिरकालेन दानाभिमुखम् अर्पणसांमुख्यं मनश्चित्तं चक्रे विदधे। इहोपमा। वेपमानाङ्गयष्टिः कम्पमानाङ्गयष्टिः, आकुले धैर्यरहिते लोचने नयने यस्याः सा तादृशी। मन्मथेन कामेन कर्त्रा स्वेदजलविसरैः घर्मसलिलपुञ्जैः करणैः, निजशराणां स्वबाणानां प्रहारेण अभिघातेन मूर्च्छिता मोहं प्राप्ता अतएव स्नपितेव, स्नानं कारितेव, मूर्च्छितो हि जनः स्वीयर्जनैरम्बुना स्नाप्यते मूर्च्छापनोदनाये-

जाती थी, उससे कादम्बरी दौर्भाग्यका शोक करने लगी और अपने नेत्रोंमें आनन्दाश्रु भर जानेसे जब उसे देख न सकी, तब कादम्बरीको अन्धताका दुःख अनुभव होने लगा।

इस प्रकारसे कुछ देर बीत जाने पर [जब] कादम्बरी महाश्वेताको ताम्बूल देने लगी तब महाश्वेताने उससे कहा—'सखि, कादम्बरि ! चन्द्रापीड नवीन अभ्यागत उपस्थित हुए हैं, इसलिए हम सब लोगोंको इनका सत्कार करना उचित है, अत एव तुम इन्हें ही ताम्बूल दो'। उसके इस प्रकार कहने पर, कादम्बरीने जरा मुँह फेरकर और नीचे अवनत (झुका) कर धीरे धीरे कुछ अव्यक्तरूपसे उत्तर दिया—'प्रियसखि ! इनके साथ मेर। चय नहीं है इसलिए मैं इतनी प्रगल्भता (धृष्टता) करनेमें लज्जित होती हूँ, अत एव लो, तुम ही उनको दे दो।' फिर महाश्वेताके बार-बार समझाने पर भी कादम्बरी ग्राम्य रमणीके समान बहुत देरके बाद किसी प्रकारसे ताम्बूल देनेमें मनको अभिमुखी किया—(अर्थात् वह जैसे तैसे पान देनेको राजी हुई); उसके बाद कादम्बरी महाश्वेताके मुखकी ओरसे दृष्टि आकर्षण न करके ही ताम्बूल सहित अपना कोमल हाथ आगे बढ़ाया। उस समय उसका शरीर काँप रहा था, नयनयुगल अधीर हो गए थे, एवं दीर्घनिश्वास छूट रहे थे (अर्थात् वह अत्यन्त हाँफ रही थी) और अपने शरप्रहारसे ही वह मूच्छित हो गई थी—इस लिए ही


१. सपत्नीरोषात्। २. तां महाश्वेतां समभाषत। ३. क्वचिदेष पाठो नास्ति। ४. सर्वाभिरस्माभिः, सर्वाभिरेवास्माभिरभिनव....। ५. क्वचित् 'ताम्बूलम्' इति पदं न दृश्यते। ६. ...त्तानमितमुखी। ७. सा तान्। ८. कादम्बरी तु। ९. चिरेण। १०. अनाकर्षितदृष्टिरेव। ११. आकुलकुटिललोचना, व्याकुलितलोचना। १२. निश्वसन्ती।

कादम्बर्या भावावेशवर्णना ९० ] चन्द्रकला-विद्योतिनीसहिता । ५५६

तेव स्वेदजलविसरैः, स्वेदजलविसरनिमज्जनभयेन च हस्तावलम्बनमिव याचमाना, साध्वसपरवशा पतामीति लगितुमिवं कृतप्रयत्ना प्रसारयामास ताम्बूलगर्भं हस्तपल्लवम्। चन्द्रापीडस्तु जयकुञ्जरकुम्भस्थलास्फालन संक्रान्त सिन्दूरमिव स्वभावपाटलं, धनुर्गुणाकर्षणकृतकिणश्यामलं, कचग्रहाकृष्ट-रुदितारिलक्ष्मी-लोचन-परामर्श-लग्नाञ्जनबिन्दुमिव, विसर्पन्नखकिरणतया अतिरभसेन प्रधाविताभिरिव विवर्धिताभिरिव प्रहसिताभिरिवाङ्गुलीभिरुपेतम्, स्पर्शलोभाच्च तत्कालकृत-सन्निवेशाः सरागाः पञ्चापीन्द्रियवृत्तीरपरा इवाङ्गुलीरुद्वहन्तम् प्रसारि-

त्याशयः । अपि च तस्मिन्नेव स्वेदजलविसरे घर्मवारिपूरे निमज्जनभयेन बुडनत्रासेन हस्तावलम्बनं करावलम्बनं याचमानेव प्रार्थयमानेव, भयेन करं विस्तारयन् कस्यचित् करावलम्बनं प्रार्थयते तथा साध्वसपरवशा भयाधीनाऽहं पतामि इति हेतोः लगितुं चन्द्रापीडशरीरे संसक्तुं कृतप्रयत्नेव विहितोद्योगेव । पतितो हि लोको हस्तं प्रसार्य क्वापि संसक्तो भवति । ताम्बूलगर्भं नागवल्लीदलाभ्यन्तरं हस्तपल्लवं करकिसलयं प्रसारयामास विस्तारितवती कादम्बरीत्यन्वयः ।

इह 'स्नपन्तेव' 'याचमानेव' 'कृतप्रयत्नेव' त्रिष्वपि क्रियोत्प्रेक्षालङ्कारः ।

चन्द्रेति । चन्द्रापीडस्तु पाणिं प्रसारितवानिति सम्बन्धः । इह द्वितीयाकवचनान्तानि पदानि अग्रेतनस्य 'पाणिम्' इत्यस्य विशेषणान्यवगन्तव्यानि । स्वभावेन प्रकृत्यैव पाटलं श्वेतरक्तम् , अतएव जयकुञ्जरो विजयसाधनगजः तस्य कुम्भस्थले मूर्द्धास्थले आस्फालनेन प्रोत्साहनार्थं संमर्दनेन सङ्क्रान्तं संसक्तं सिन्दूरं नागजं यत्र तमिव । इह सिन्दूरसंलग्नाश्लेषेणाद्युत्प्रेक्षालङ्कारः ।

धनुरीति । धनुर्गुणाकर्षणेन । चापप्रत्यञ्चाकृष्ट्या कृतो विहितो यः किणश्चिह्नं तेन श्यामलं कृष्णवर्णम् , अतएव कचग्रहाकृष्ट्या केशग्रहणपूर्वकमाकर्षणेन रुदिता आक्रन्दिता या अरिलक्ष्मीः रिपुश्रीः तस्या लोचनयोर्नयनयोः परामर्देन कृपया नयनाम्बु मार्जयितुं पुनरामर्शनेन लग्नाः सक्ता अञ्जनविन्दवः कज्जलकणा यस्मिंस्तमिव । इहाऽप्युक्तदिशा उत्प्रेक्षालङ्कारः ।

विसदिति । विसर्पन्तः प्रसरन्तो नखकिरणाः करपुनर्भावरश्मयो यस्य तस्य भावस्तेन कारणेन । अतिरभसेन अत्यन्तजवेन प्रधाविताभिरिव नखकिरणैरेव उच्छलिताभिरिव, विवर्द्धितामिरिव वृद्धिं प्राप्ताभिरिव, प्रहसितामिरिव हास्यं कुर्वतीभिरिव, विसर्पितनखरश्मीनां हासस्य च तुल्यश्वेतत्वादित्याशयः । इह तिस्र एव क्रियोत्प्रेक्षाः, तासां परस्परं नैरपेक्ष्येण संसृष्टिः ।

स्पर्शलोभादिति । अपि च, कादम्बर्याः स्पर्शलोभात्, तस्मिन् काले तत्समये कृतो विहितः संनिवेशः उपस्थितिः याभिस्ताः, सरागाः सानुरागाः सरक्ताश्च, अपरा अन्याः पञ्च अङ्गुलीरिव करशाखा इव, पञ्चापि इन्द्रियवृत्तीः तदवलोकनतद्गन्धश्रवणतदाननघ्राण-तदधरपान-तदङ्गस्पर्शस्वरुपान् लोचनादीनां पञ्चज्ञानेन्द्रियाणां व्यापारान् तासामभिलाषान् इत्यर्थः, उद्वहन्तम् उत्पादकत्वसम्बन्धेन धारयन्तम् उत्पादपन्तमित्यभिप्रायः । पाणिं हस्तं प्रसारितवान् विस्तारितवान् इह जात्युत्प्रेक्षा ।


कामदेव मानो उसे स्वेद-जलके प्रवाहमें स्नान करा रहा था, एवं कादम्बरी स्वेद-जलमें निमग्न होनेके भयसे ही मानो हाथ फैलाकर किसीको हाथ पकड़नेके लिए प्रार्थना करती थी; और 'मैं भयवश गिर रही हूँ' इसलिए ही मानो हाथ फैलाकर चन्द्रापीडके शरीरमें संलग्न होनेके लिए प्रयत्न करती थी । इधर चन्द्रापीडने भी उस ताम्बूलको ग्रहण करनेके लिए अपना हाथ आगे बढ़ाया । उसका वह हाथ स्वभावसे ही आरक्तवर्ण (गुलाबी) था, अतएव प्रतीत होता था कि-विजयहस्तीके कुम्भस्थल पर आमर्दन करने (थपकाने) से उसका सिन्दूर मानो उसमें लग रहा हो, धनुषकी डोरी खींचनेके चिह्नोंसे वह हाथ कुछ श्यामवर्ण हो गया था, इससे प्रतीत होता था कि-केशधारणपूर्वक आकर्षण करने (केश पकड़ कर खींचने) से शत्रुवंशीय लक्ष्मी रोदन कर रही है, उस पर दया कर उसके आँसू पोछनेके लिए नेत्रमें हस्तामर्शन करनेसे मानो अञ्जन-बिन्दु लग गये हैं । नख-किरणोंके फैल जानेसे प्रतीत होता था कि अंगुलियाँ मानो हँस रही हों, अत्यन्त वेगसे आगे दौड़ रही हों, और उनसे ही उन्हें मानो वर्द्धित कर रही हों । और चन्द्रापीड का वह हाथ कादम्बरीके हाथके स्पर्श करनेके लोभसे, अन्य पाँच अंगुलियोंके समान अनुरागके साथ उस समयमें उपस्थित पाँचों इन्द्रियोंके वृत्तियों को ही धारण करता था ।


१. विलगितुमिव, लपितुमिव; तापितुमिव ।
२. प्रभाविताभिः प्रसारिताभिः ।
३. अपराङ्गुलीः, " इतरीिवाङ्गुलीः*** ।

५६०कादम्बरी-[ कथायाम्-

तवान् पाणिम् । तत्र च सा तत्काल-सुलभ-विलास-दर्शन-कुतूहलिभिरिव कुतोऽप्यागत्य सर्वरसैर्धिष्ठिता¹ । तेनानिबद्धलक्ष्यतया शून्यप्रसारितेन, चन्द्रापीडहस्तान्वेषणायेव पुरःप्रवर्तित-नखांशनिवहेन, वेपथुचलितवलयावलीवाचालेन सम्भाषणमिव कुर्वता हस्तेन, स्वेदसलिलपातपूर्वकं 'गृह्यतामयं मन्मथेन दत्तो दासजनः' इत्यात्मानमिव प्रतिग्राहयन्ती, 'अद्य प्रभृति भवतो हस्ते वर्तते' इति जीवितमिव स्थापयन्ती, ताम्बूलमदात् । आकर्षन्ती³ च करकिसलयं भुजलतानुसारेण स्पर्शतृष्णागतमनङ्गशरभिन्नमध्यं हृदयमिव पतितमपि रत्नवलयं नाज्ञासीत् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छन् ।

तत्रेति । अपि च, तत्र ताम्बूलार्पणकाले, तस्मिन् समये सुलभा अनायासलभ्या ये विलासाः कादम्बर्या विभ्रमाः तेषां दर्शने अवलोकने कुतूहलं कौतुकम् एषामस्तीति तैरिव सर्वरसैः सर्वविधैरनुरागैः कुतोऽपि अनिर्दिष्टस्थानाद् आगत्य एत्य, सा कादम्बरी अधिष्ठिता आश्रिता। तन्समये न केवलं स्पर्शविषयक एवानन्दः, किन्त्वन्येऽप्यनुरागा आनन्दजनका आसन्नित्यभिप्रायः।

'रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुशारदे ॥'

इति विश्वः। सर्वरसैरित्यस्य शृङ्गारादिभिरिति व्याख्यानं तु न युक्तं 'रसस्योक्तिः स्वशब्देन स्थायिसंचारिणोरपि' इत्यादिसाहित्यदर्पणदिशा स्वशब्दवाच्यत्वदोषप्रसङ्गात्, तत्काले कादम्बर्यां वीरबीभत्सादिरसानां सर्वथैवाश्रयणाच्चेति विभावनीयम्।

तेनेति। अनिबद्धलक्ष्यतया अकृतस्थाननिश्चयतया कारणेन, शून्ये चन्द्रापीडहस्तव्यतिरिक्तस्थाने प्रसारितेन विस्तारितेन, अतएव चन्द्रापीडहस्तस्य अन्वेषणायेव मार्गणायेव पुरःप्रवर्तितः अग्रतः प्रेरितो नखांशनिवहो नखरश्मिजालं येन तेन । वेपथुना कम्पेन चलितया स्फुरितया वलयानां कङ्कणानाम् आवल्या पद्धत्या वाचालेन मुखरायमाणेन, अतएव सम्भाषणम् आलापं कुर्वतेव विदधतेव विद्यमानेन तेन हस्तेन । स्वेदसलिलं घर्मजलं तस्य पातः पतनं तत्पूर्वकं यथा स्यात्तथा सम्प्रदानसमये सलिलपातस्य शास्त्रसंमतत्वादियाशयः । 'मन्मथेन कामेन दत्तः अर्पितः अयं मल्लक्षणो दासजनः परिचारकलोकः त्वया गृह्यताम् अङ्गीक्रियताम्' इत्येवम् आत्मानं निजं प्रतिग्राहयन्तीव प्रतिग्रहणं कारयन्तीव । तथा अद्यप्रभृति अद्यदिनादारभ्य मम जीवितं भवनस्त्व हस्ते वर्त्तते विद्यते इत्येवं जीवितं प्राणितं स्थापयन्तीव कादम्बरी ताम्बूलं नागवल्लीदलम् अदाद् दत्तवती ।

इह 'अन्वेषणायेव' 'कुर्वतेव' 'प्रतिग्राहयन्तीव' 'स्थापयन्तीव' इत्येतेषु क्रियोत्प्रेक्षालङ्कारः ।

आकर्षन्तीति । अपि च, करकिसलयं पाणिपल्लवम् आकर्षन्ती प्रत्यानयन्ती कादम्बरी, भुजलतानुसारेण विस्तारितां निजबाहुवल्लीमनुसृत्य तया साकमित्यर्थः, चन्द्रापीडस्य स्पर्शतृष्णया स्पर्शतर्षेण गतं प्रयातम्, अनङ्गशरेण कामबाणेन भिन्नं विदीर्णं मध्यम् अभ्यन्तरं यस्य तत्तथोक्तम् आत्मनो हृदयमिव पतितमपि कराद्भ्रष्टमपि रत्नवलयं मणिखचितकङ्कणं नाज्ञासीत् न ज्ञातवती अनेन तन्मयता व्यञ्जिता। जात्युत्प्रेक्षा। अपरं तद्व्यतिरिक्तं ताम्बूलं नागवल्लीदलं महाश्वेतायै सख्यै प्रायच्छन् अदात् ।

एवं उस समय सभी प्रकारका अनुराग, तत्काल अनायासलब्ध कादम्बरीके विलासको देखनेके लिए कौतुकी होकर ही मानो किसी निर्दिष्ट स्थानसे आकर उसके हृदयमें बस गए। ऐसी अवस्थामें कादम्बरीने हाथ फैला कर चन्द्रापीडके हाथमें पानकी बीड़ीको रखा। उस समय वह लक्ष्य न दीखनेसे शून्यस्थानमें हाथको फैलाया, इससे प्रतीत होता था कि वह हाथ चन्द्रापीडके हाथका अन्वेषण करनेके लिए ही मानो सम्मुख नखके किरणोंको प्रेरणा कर रहा था। कम्प उपस्थित हो जानेसे हिलते कङ्कनके शब्द होने लगे, उससे प्रतीत होता था कि वह हाथ मानो चन्द्रापीडसे सम्भाषण करता था। कामदेवने दान कर दिया है, इसलिए आप इस दासीको ग्रहण कीजिए, इस भावसे कादम्बरी मानो स्वेद-जल-पात्-पूर्वक अपनेको उसनेते ही प्रतिग्रह कराती थी, एवं 'आजसे लेकर आपके हाथमें मेरा जीवन है' इस भावसे चन्द्रापीडके हाथमें अपना जीवन ही मानो स्थापित करती थी। कादम्बरी पानकी बीड़ी देकर अपने कोमल हाथोंको खींचकर ले आई, किन्तु पहलेसे ही उसका हृदय, चन्द्रापीडके स्पर्श करनेके लोभसे भुजलताका अनुसरण कर गया था, मदन-शर-विदीर्ण वह अपने हृदयके समान एक रत्न-वलय खींचनेके समयमें जो हाथसे निकल पड़ा, उसे यह समझनेमें समर्थ न हो सकी। उसके बाद कादम्बरीने और एक दूसरी पानकी बीड़ी लेकर महाश्वेताको दी।


१. क्वचित् 'मुष्ठम्' इति पदं नास्ति । २. '•••अधिष्ठितेनाननिबद्धलक्ष्यस्त्व•••' । ३. आकर्षन्ती ।

शुक्सारिकाभ्यां युद्धवर्णनम् ९१ ] चन्द्रकला-विद्योतिनीसहिता । ५६१

अथ सहसैव त्वरितगतिः, त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता विद्रु- माङ्कुरानुकारिचञ्चुपुटेन¹ मरकतद्युतिपक्षतिना मन्थरगतेन शुकेनानुबध्यमाना², कुमुद-केसर- पिञ्जरतया चरणयुगलस्य, चम्पककलिकाकारतया च मुखस्य, कुवलयदलनीलतया च पक्ष- द्युतीनाम् • कुसुममयीवागत्य सारिका सक्रोधमवादीत्—भर्तृदारिके ! कादम्बरि ! कस्मान्न निवारयस्येनमलीकसुभगाभिमानिनमतिदुर्विनीतं³ मामनुबध्नन्तं विहङ्गापसदम्⁴ । यदि माम- नेन परिभूयमानामपेक्षसे ततोऽहं नियतमात्मानमुत्सृजामि । सत्यं शपामि ते पादपङ्कजस्प- र्शन⁵ इत्येवमभिहिता च तया कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता 'किमिदं वदति' इति मदलेखां पप्रच्छ । सा चोकथयत्—'एषा भर्तृदुहितुः सखी⁶ कादम्बर्याः


अथेति । ताम्बूलदानान्तरं त्वरिता शीघ्रा गतिर्गमनं यस्याः सा सारिका पीतपादा सहसैव अकस्मादेव आगत्य समेत्य 'सक्रोधमवादीत्' इत्यत्र सम्बन्धः । कण्ठेन गलदेशेन इन्द्रायुधं शक्रचाप इव कुण्डलीकृतं वर्तुलीकृतम् , त्रयाणां वर्णानां नीलपीतरक्तानां रागं रञ्जनं रेखामिति तात्पर्यम् वहता धार- यता । विद्रुमाङ्कुरं प्रवालखण्डं तदनुकारि तत्सदृशं रक्तमित्यर्थः चञ्चुपुटं त्रोटिसंपुटं यस्य तेन । मरकतस्य मरकतमणेः द्युतिः कान्तिरिव द्युतिर्ययोस्तयोक्ते पक्षती पक्षयोर्मूलयुगले यस्य तेन । मन्थरं मन्दं गतं गमनं यस्य तेन, शुकेन कीरेण पक्षिणा अनुबध्यमाना अनुव्रज्यमाना सारिका । तया चरणयुगलस्य पादद्वयस्य कुमुदकेसरवत् श्वेतकमलकिञ्जल्कवत् पिञ्जरतया पीतवर्णतया, मुखस्य वदनस्य च चम्पक- कलिकाकारतया हेमपुष्पकोरकसदृशतया, पक्षद्युतीनां छदकान्तीनाञ्च कुवलयदलवत् नीलोत्पलपत्रवत् नीलतया श्यामवर्णतया कारणेन, कुसुममयीव पुष्परचितेव सारिका, सक्रोधं सकोपम् अवादीत् अवोचत् ।

इह 'इन्द्रायुषमिव' इत्यत्र श्रौतोपमा, 'विद्रुमङ्कुरानुकारि' इत्यत्र सार्थोपमा, 'कुवलयदलनील- तया' इत्यत्र लुप्तोपमा, आसां परस्परं निरपेक्षेण संसृष्टिः। 'कुसुममयीव' इत्यत्रोत्प्रेक्षामानिः संकीर्णा क्रियोत्प्रेक्षा ।

भर्त्रिति । भर्तृदारिके कादम्बरि ! अलीकं मिथ्या सुभगं भार्याप्रियम् आत्मानम् अभिमन्यते बुध्यत इति तम् , अनेन स्वस्य तत्र प्रियत्वं नास्तीति ध्वनितम् । अतिदुर्विनीतं नितान्ताधिनयशालि- नम् , माम् अनुबध्नन्तम् अनुसरन्तं विहङ्गापसदं विहगाधमम् एनं पुरो विद्यमानं शुकं कीरं कस्माद्धेतोः न निवारयसि प्रतिषेधयसि । परिभूयमानां सम्भोगाय हठादाक्रम्यमाणाम् उपेक्षसे उपेक्षाम् ( अवहे- लनां ) करोषि । नियतं नूनम् आत्मानं जीवितम् उत्सृजामि परित्यक्ष्यामि । भविष्यति वर्तमानता । ते पादपङ्कजस्पर्शेन तवाङ्घ्रिसरोरुहस्पर्शेन, सत्यम् अनृतं शपामि । तया सारिकया, एवं पूर्वोक्तप्रकारेण अभिहिता उक्ता ।

अविदितेति । अविदितवृत्तान्ता अज्ञातमनाचारा। इयं सारिका। भर्तृदुहितुः कादम्बर्याः सखीति


तदनन्तर सहसा ही शीघ्रचाले एक सारिका (मैना) आकर उपस्थित हुई। उसके पीछे-पीछे अपेक्षाकृत मन्दगतिसे एक शुक (तोता) भी उपस्थित हुआ; उस शुकके कण्ठदेश (गले) ने इन्द्रधनुषके समान मण्डला- कारमें नील, पीत और लोहित (रक्त) वर्ण की तीन रेखाएँ थीं। चञ्चुपुट (चोंच) प्रवालखण्ड का अनुकरण करता था, एवं मरकतमणिके समान पक्षयुगल (पंखों) की प्रभा प्रकाश पा रही थी; और उस सारिका का भी चरणयुगल श्वेतकमल-पत्रके केसरके समान पिञ्जरवर्ण थे, मुखभाग चम्पकपुष्पकी कलिकाके समान पीतवर्ण था, एवं पक्ष की प्रभा नीलोत्पल-पत्रके समान नीलवर्ण थी, इसप्रकार उसे मानो विधाताने पुष्पद्वारा निर्माण किया था [दिखा प्रतीत होता था]। वह सारिका (मैना) क्रोधके साथ बोली—'राजकन्ये कादम्बरि ! पक्षियोंके मध्यमें यह शुक अधम, व्यर्थते ही अपने को भाग्यवान् कह कर मिथ्याभिमान करने वाला तथा अत्यन्त दुर्विनीतस्वभाव वाला है, यह हमारे पीछे-पीछे आता है, आप इसका निवारण क्यों नहीं करती हैं ? इसके मेरे ऊपर आक्रमण करने पर आप यदि उपेक्षा करेंगी, तो ऐसा होने पर मैं निश्चय ही अपना प्राण त्याग दूँगी । मैं आपके पाद-पङ्कजके स्पर्शकी शपथ खाकर सत्य ही कहती हूँ। उस सारिकाके इस प्रकार कहने पर कादम्बरी तो मन्द-मन्द हँसने लगी । किन्तु महाश्वेता इस वृत्तान्तको नहीं जानती थी इसलिए उसने मदलेखासे पूछा कि—'यह मैना क्या कहती है ?' तब


¹***अनुकारिणा चञ्चुपुटेन ।
² मन्थरगमनेन 'शुकेनानुगम्यमाना ।
³ दुर्विनीतं ।
⁴ विहङ्ग-मापसदम् ।
⁵ त्वचा ।
⁶ क्वचिद् उक्तेति पदं न दृश्यते ।

५६२कादम्बरी-[ कथामुखम्-

कालिन्दीति नाम्ना सारिका, एतस्य^१ परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहण-पूर्वकं जायापदं ग्राहिता। अद्य चायनया प्रत्युषसि कादम्बर्य्यास्ताम्बूलकरङ्कवाहिनीमिमां तमालिकानेकाकिनीं किमपि पाठयन् दृष्टो यतः, ततः प्रभृति सञ्जातेर्ष्या कोपपराङ्मुखी नैतमुपसर्पति, नालपति, न स्पृशति, न विलोकयति, सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदती^२ति।

एतदाकर्ण्य स्फुरितकपोलोदरश्चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत्—'अस्त्येषा कथा, श्रूयत एवैतद्राजकुले कर्णपरम्परया, परिजनोऽप्येवं मन्त्रयते,^३ बहिरपि जनाः कथयन्ति, एवं दिगन्तरेष्वप्ययमालापो वर्त्तत एव^४, अस्माभिरप्येतदाकर्णितमेव, 'यथा किल देव्याः कादम्बर्य्यास्ताम्बूलदायिनीं^५ तमालिकां^६ कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्ती'ति। तदयमास्तां तावद्वामाचारः, परित्यक्तनिजकलत्रो निर्लज्जयाऽनया सह, देव्यास्तु कादम्बर्य्याः कथमेतद् युक्तं यन्न निवारयतीमां चपलां दुष्टदासीम्। अथवा देव्यापि


सम्बन्धः। पाणिग्रहणं हस्तग्रहणं पूर्वं यत्र क्रियायां तद् यथा स्यात्तथा, जायापदं पत्नीस्थानं पत्नीत्वमिति तात्पर्यम्, ग्राहिता प्रापिता। अद्य यतः प्रभृति यतः समयादारभ्येत्यर्थः। अनया सारिकया प्रत्युषसि प्रभाते। एकाकिनीम् अद्वितीयम् तमालिकां तमालिकाभिधेयाम्। पाठयन् मन्त्रयन्, दृष्टोऽवलोकितः। ततःप्रभृति तद्दिनादारभ्य सञ्जातेर्ष्या समुत्पन्नेर्ष्या कोपपराङ्मुखी क्रोधाद्व्यावृत्तमुखी। नोपसर्पति न निकटे गच्छति, नालपति न संभाषते। प्रसाद्यमानापि प्रसन्नीक्रियमाणापि न प्रसीदति न प्रसन्ना भवति।

स्फुरितेति। स्फुटं स्पष्टं स्फुरितं हास्योदयाच्चलितं कपोलयोर्गण्डयोः उदरम् मध्यन्तरं यस्य सः। कर्णपरम्परया श्रवणपरम्परया। मन्त्रयते विचारयति। आकर्णितमेव श्रुतमेव। कामयमानः अभिलषमाणः। मदनपरवशः कामपराधीनः। गतानि व्यतीतानि। न वेत्ति न जानाति तन्मयत्वादित्याशयः। अयं शुकः। वामो निजपत्नीं प्रति प्रतिकूलः आचारो व्यवहारो यस्य सः। परित्यक्तनिजकलत्रः उज्झितस्वभार्यः, निर्लज्जया निर्लज्जया पक्षिणं प्रत्यपि मदनावेषादित्याशयः। अनया पुरो विद्यमानया तमालिकया। चपलां चञ्चलाम् इमां दुष्टदासीं तमालिकां न निवारयति निषेधयति। कथमेतद् युक्तम्, अपि तु नोचितमेवेत्यर्थः। इह यच्छब्दसम्बन्धितवाक्यस्योत्तरत्र पाठाद्वाक्यगतविधेयाविमर्शदोषस्तु तस्य पूर्वपाठविधानेन वारणीयः।

न्यवेति। ईदृशाय एवंविधाय दुर्विनीताय दुर्विनेयाय विहङ्गाय पक्षिणे इमां वराकीं शोच्यां


महिलेकाने कहा—यह राजकन्या कादम्बरी की सखी कालिन्दी नाम की सारिका है। इसको इस परिहास नामके तोतेके साथ इन्होंने ही पाणिग्रहण करा (ब्याह) दिया है। किन्तु आज प्रातःकालमें इस मैनाने कादम्बरी की ताम्बूल-करङ्कवाहिनी इस तमालिकासे अकेलेमें इस शुकको कुछ कहते देखा। इस कालिन्दीने जिस समयसे यह देखा है उस समयसे इसे ईर्ष्या उत्पन्न हो गई है, एवं मान करके परिहासके प्रति विमुख हो गई है, इससे उसके समीपमें यह नहीं जाती है, न इसके साथ आलाप करती है, न इसका स्पर्श करती है, यह क्या, इसके प्रति दृष्टिपात भी नहीं करती है; हम लोगोंने इसको प्रसन्न करनेके लिए अनेक प्रकारसे चेष्टा की है, फिर भी यह प्रसन्न नहीं होती।'

यह सुनकर चन्द्रापीडके हास्य उपस्थित होनेके लिए कपोल-युगल का मध्यस्थान (गालोंके बीचका भाग) स्पष्टतः स्पन्दित हो उठा (फड़कने लगा), तब वह मन्द मन्द हँस कर बोला—'यह बात सत्य है, क्यों कि—इस राजभवनमें ही कर्ण-परम्परासे यह बात सुनी जाती है, परिजनवर्ग भी ऐसी ही बातें करते हैं, बाहरके लोग भी ऐसा ही कहते हैं, एवं दिग्विग्दन्तरमें भी इसकी ही आलोचना होती रहती है, और हमने भी इस प्रकार सुना है कि, 'परिहास-नामक शुक, कादम्बरीदेवीकी ताम्बूलकरङ्कवाहिनी तमालिका को इच्छा करता हुआ कातार् होकर उसमें मासक्त (फँसा) है इस प्रकार वह यह भी नहीं जानता कि दिन किस तरह व्यतीत होते (बीते) जा रहे हैं।' अतएव प्रतिकूल स्वभाववाला यह परिहास, अपनी भार्या का परित्याग कर इस निर्लज्जा तमालिकाके साथ रहता है तो, रहे, किन्तु देवी कादम्बरी को क्या यह उचित है कि ऐसी चञ्चला दुष्ट दासी को निवारण नहीं


^१. एतस्य च।
^२. सारिका···।
^३. क्वचित् 'इति' इति पदं नावलोक्यते।
^४. नानन्वयके, कथ्येवं मन्त्रयति एवम्, अपि मन्त्रयते।
^५. एवम्।
^६. वाहिनीं।
^७. तमालिकां।
^८. निरूप्य।

शुकसारिकाभ्यां कुतूहलवर्णना ९१ ] चन्द्रकला-विद्योतिनीसहिता । ५६३

कथितैव निःस्नेहता^१ प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहङ्गाय प्रयच्छन्त्या । किमिदानीमियं करोतु, यदेतत् सापत्न्यकरणं नारीणां प्रधानं कोपकारणम् , अग्रणीर्विरागहेतुः, परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगरिम्णा जातवैराग्यया विषं वा नास्वादितम् , अनलो वा नासादितः अनशनं वा नाङ्गीकृतम् । न ह्येवंविधम्^३ अपरमस्ति योषितां लघिम्नः कारणम् । यदि चेयमीदृशेऽप्यपराधे अनुनीयमाना अनेन प्रत्यासत्तिमेष्यति । तदा धिगिमाम् , अलमनया, दूरतो वर्जनीयेयम् , अभिभवनिरास्या^५, । क एनां^६ ऽरालापयिष्यति, को वावलोकयिष्यति, को वास्या नाम ग्रहीष्यति'इत्येवमभिहितवति तस्मिन् सर्वास्ताः सह कादम्बर्याः क्रीडालापभाविताः जहसुरङ्गनाः ।

परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद - धूर्त्त ! राजपुत्र ! निपुणेयम् , न


कालिन्दी तन्नामिकां प्रयच्छन्त्या प्रददत्या देव्या कादम्बर्यापि, प्रथममेव निःस्नेहता कालिन्दीं प्रति वात्सल्यशून्यता कथितैव, व्यञ्जितैव, अन्यथैनामेवविधाय न प्रदददेदित्याशयः ।

किमिति । इयं कालिन्दी, इदानीं सम्प्रति किं करोतु परिहासं प्रति दोषं विना किं कि विदधात्वित्यर्थः । एतदेव समर्थयति-यदेतदिति । यद् यस्माद्धेतोः एतत् सापत्न्यकरणं तदिति शेषः, नारीणां योषितां प्रधानं मुख्यं कोपकारणं क्रोधहेतुः, अग्रणीः श्रेयान् विरागहेतुः विरक्ततायाः कारणम् , परम् अत्यन्तं परिभवस्थानं पराभवपदम् ।

इयमिति । अनया कालिन्द्या, अनेन स्वयमनुभूयमानेन, स्वामिना अवहेलिता स्त्री दुर्भगा तस्य भावो दौर्भाग्यं तस्य गरिम्णा गुरुतया अतिरेकेण कारणेन, जातवैराग्यया उत्पन्ननिर्वेदया अनया कालिन्द्या विषं गदलं नास्वादितं न भक्षितम् , वा अथवा अनलोऽग्निः नासादितः न प्राप्तः तत्र न प्रविष्ट इत्यर्थः । अनशनम् अनशनेन मरणं वा नाङ्गीकृतं न स्वीकृतम् । योषितां नारीणां लघिम्नः लघुतायाः कारणं हेतुः एवंविधम् एतादृशम् अपरम् अन्यत् नास्ति न विद्यते ।

यदीति । अनुनीयमाना प्रसङ्गीक्रियमाणा, अनेन शुकेन सह, प्रत्यासत्ति पुनः सङ्गमम् , एष्यति प्राप्स्यति । इमां कालिन्दीम् । वर्जनीया त्याज्या । अभिभवेन तिरस्कारेण निरास्या दूरीकरणीया ।

कइति । एतां कालिन्दीम् आलापयिष्यति सम्भाषयिष्यति । अवलोकयिष्यति दर्शयिष्यति । क्रीडालापेन नर्मभाषणेन भाविताः सञ्जाततदनुकूलगुणभावोदया इत्यर्थः, अङ्गना नार्यो जहसुः हसितवत्यः।

परिहास इति । परिहासः परिहाससंज्ञकः शुकः नर्मभावितं क्रीडालापम् । निपुणा अभिज्ञेयम् ।


करती ( रोकती नहीं ) है ? अथवा देवी कादम्बरीने भी इस भाग्यहीना कालिन्दी को ऐसे दुर्विनीतस्वभाववाले तोतेके हाथमें देकर इसके प्रति अपनी निःस्नेहता ( वात्सल्यहीनता ) पहले से ही सूचित कर दी है । अब यह विचारी क्या करे ? क्योंकि-यह जो सपत्नी कर लिया है वह स्त्रियोंके पक्षमें क्रोध का प्रधान कारण है, गुरुतर वैराग्य उत्पन्न होने का मुख्य हेतु है, और अत्यन्त अवज्ञा का बड़ा स्थान है। यह कालिन्दी ही अत्यन्त धीरप्रकृति है, क्योंकि-इसने इतने गुरुतर ( बड़े ) दुर्भाग्यसे वैराग्य हो जाने पर विष-पान नहीं कर लिया, किंवा अग्निमें ही प्रवेश नहीं किया, अथवा अनशनसे आत्महत्या नहीं कर लिया। स्त्रियोंके पक्षमें लघुता का कारण इसके समान अन्य कोई नहीं है। इस प्रकारके बड़े अपराध रहने पर भी, केवल अनुनय करनेसे ही कालिन्दी यदि फिरसे इस परिहासके साथ सम्मिलित हो जाय तो इसको धिक्कार है और इसका कोई प्रयोजन नहीं है, हम सबों को दूरसे ही इसे तिरस्कारपूर्वक परित्याग कर देना उचित है । एवं उसके रहने पर कालिन्दीके साथ कौन आलाप करेगा, अथवा कौन इसके प्रति दृष्टिपात करेगा ? या कौन व्यक्ति ही इसका नाम भी लेगा ? चन्द्रापीडके इस प्रकार कहने पर कादम्बरीके सहित सब कन्याएँ, जो इस परिहासवाक्य को समझ गई थीं, वे सब आनन्दसे खिलखिला कर हँसने लगीं ।

परन्तु परिहास ( शुक ), चन्द्रापीडके परिहास-वाक्य ( कोमल वचन ) सुन कहने लगा - 'धूर्त्त, राज-


१. निस्नेहता ।
२. क्वचिदिह 'तपस्विनी' इत्यधिक पाठः समुपलभ्यते ।
३. न ह्येतत् ।
४. तेन सह ।
५. अभिभवनिरास्याम्, अभिभवनिरस्ता ।
६. ०-मापिताः ।

५६४कादम्बरी-[ कथायाम्-

त्वयान्येन वा लोलापि प्रतारयितुं शक्यते। एषापि बुध्यत एवैतावतीर्वक्रोक्तीः, इयमपि जानात्येव परिहासजल्पितानि, अस्या अपि राजकुलसम्पर्कचतुरा मतिः। विरम्यताम्, अमूमिरैषा भुजङ्गभङ्गिभाषितानाम्, इयमेव हि वेत्ति मञ्जुभाषिणी कालञ्च कारणञ्च प्रमाणञ्च विषयञ्च प्रस्तावञ्च कोपप्रसादयोः इति ।

अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत् - 'आयुष्मति ! देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्वयते'। एवमभिहिता च गन्तुकामा 'सखि ! चन्द्रापीडः क्वास्ताम्' इति कादम्बरीमपृच्छत्। असौ तु 'न पर्याप्तमनेकस्त्रीहृदयसहस्रावस्थानेने?' इति मनसा विहस्य प्रकाशमवदत्- 'सखि ! महाश्वेते ! किं त्वमेवमभिदधासि, दर्शनादारभ्य शरीरस्याप्ययमेव प्रभुः, किमुत भवनस्य विभवस्य परिजनस्य वा, यत्रास्मै रोचते प्रियसखीहृदयाय वा, तत्रायमास्ताम्' इति । तच्छ्रुत्वा महाश्वेतावदत् - 'अथैवं त्वत्प्रासादसमीपवर्त्तिनि प्रमदवने

अन्येन स्वदव्यतिरिक्तपुंसा, लोलापि चञ्चलापि नारीत्वेन स्त्राभीरुबुद्धिरपि प्रतारयितुं वञ्चयितुं न शक्यते न पार्यते । वक्रोक्तीः कूटकथाः वक्रनदवचनानि । परिहासप्रजल्पितानि परिहासभाषितानि । राजकुले राजवंशे यः सम्पर्कः सम्बन्धः तेन चतुरा विदग्धा । एषा सारिका, भुजङ्गा अग्राम्याः तेषां भङ्गिभाषितानि प्रतारणवचनानि तेषाम्, अमूमिः अपात्रम् । मञ्जुभाषिणी मनोज्ञालापिनी इयमेव हि कोपप्रसादयोः क्रोधप्रसन्नतयोः कालं समयम्, कारणं हेतुम्, प्रमाणम् इयत्ताम्, विषयं देशम्, प्रस्तावम् अवसरञ्च वेत्ति जानाति ।

अत्रेति । अत्रान्तरेऽस्मिन् समये । देवः पूज्यः चित्ररथः तत्संज्ञको राजा । आह्वयते आकारयति । एवमभिहिता अनेन प्रकारेणोक्ता च महाश्वेतेति शेषः । क्वास्तां क्व तिष्ठतु । असौ कादम्बरी । अनेकम् अधिकतरं यत् स्त्रीहृदयसहस्रं नारीचित्तसमूहः तदेव अवस्थानम् अवस्थित्यहं स्थानं तेन किं न पर्याप्तम् ? अर्थात् हृदयसहस्ररूपं स्थानमस्य किं न यथेष्टं जातमिति काक्वा, येन स्थित्यर्थमन्यस्थानान्वेषणं विधीयत इत्याशयः । अभिदधासि कथयसि । अयं राजपुत्र एव प्रभुः स्वामी, सौजन्येन स्वाधीनविधानादिति बाह्याभिप्रायः, चिरकालेन प्राणेश्वरविधानादित्यान्तरिकाभिप्रायः । अनेन स्वेनापि निरतिशयसौजन्यं ध्वनितम् । विभवस्य वित्तसम्पत्तेः । यत्र यस्मिन् स्थाने अवस्थानं कर्तुं, अस्मै राजपुत्राय रोचते अभिप्रेति, प्रियसख्यास्तव हृदयाय चेतसे वा रोचते, तत्र तस्मिन् स्थाने अयं राजपुत्रः आस्ताम् तिष्ठतु ।

तच्छ्रुत्वेति । त्वत्प्रासादसमीपवर्त्तिनि भवत्सौधनिकटस्थायिनि प्रमदवने अन्तःपुरोपवने क्रीडापर्व-


पुत्र ! यह बहुत चतुर है। अतएव चञ्चल होने पर भी; तुम अथवा अन्य कोई व्यक्ति इसकी प्रतारणा करने (धोखा देने) में समर्थ नहीं हो सकते, क्योंकि-यह भी इन समस्त व्यङ्ग्योक्तियों (चतुर भाषणों) को अवश्य ही समझती है, यह भी परिहास भाषण करना जानती ही है, एवं राजकुलमें सम्पर्क रहनेसे इसकी बुद्धि भी समस्त विषयोंमें निपुण है, इसलिए अब तुम चुप रहो, यह नागरिकोंके व्यङ्ग्योक्तियों का पात्र नहीं (अर्थात् इसपर कुछ प्रभाव नहीं पड़ेगा) और मधुरभाषिणी यह सारिका भी किससे क्रोध होता है, अथवा किससे प्रसन्नता उत्पन्न होती है-इसका अवसर, कारण, परिमाण, स्थान और प्रसङ्ग-इन सबों को ही जानती है।'

इस बीचमें कञ्चुकीने आकर महाश्वेतासे कहा-'आयुष्मति ! महाराज चित्ररथ एवं महारानी मदिरा आपको देखनेके लिए बुलाती हैं' यह समाचार कहने पर वहाँ जानेकी अभिलाषासे उसने कादम्बरीसे पूछा-'सखि ! चन्द्रापीड कहाँ ठहरेंगे ?' तब कादम्बरी हँस कर मन ही मन कहने लगी-'असंख्य स्त्रियोंके हृदयरूपी स्थान उनके रहने के लिए पर्याप्त नहीं हैं ?' इसके बाद कादम्बरीने प्रकट रूपसे कहा-'सखि महाश्वेते ! तुम इस प्रकार क्यों कहती हो ? जबसे दर्शन हुए तबसे ये अपने सौजन्य गुणसे मेरे शरीरके भी प्रभु हो गए हैं, तो फिर गृह (भवन), सम्पत्ति और परिजन की तो बात ही क्या है अतएव जिस स्थानमें इनकी अभिरुचि हो अथवा तुम्हें जिस स्थानमें अभिमत हो वहाँ ही ये सुखसे रहें।' यह सुन कर महाश्वेताने कहा-'तब तो तुम्हारी अट्टालिका


१. ननु पर्याप्तमनेकानेकस्त्रीहृदयसहस्रावस्थानमनेन ।
२. ..."शरीरस्याप्यहं न विभुः किमुत भवनस्य परिजनस्य वा। यत्रासौ रोचते" ।
३. महाश्वेता तदत्रैव च ।

कादम्बरीचिन्तावर्णना० १२] चन्द्रकला-विद्योतिनीसहिता । ५६५

क्रीडापर्वतकमणिवेश्मन्यास्ताम्' इत्यभिधाय गन्धर्वराजं द्रष्टुं ययौ । चन्द्रापीडोऽपि तयैव सह निर्गत्य विनोदनाथै वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च गीतकलाकुशलाभिश्च दुरोदर-क्रीडारागिणीभिश्च अष्टापदपरिचयचतुराभिश्च चित्रकर्मकृतश्रमाभिश्च सुभाषितपाठिकाभिश्च कादम्बरीसमादिष्ट-प्रतीहारी-प्रेषिताभिः कन्याभिरनुगम्यमानः पूर्वदृष्टेन केयूरकेणोपदिद्य-मानमार्गः क्रीडापर्वतमणिमन्दिरमगात् । गते च तस्मिन् गन्धर्वराजपुत्री विसृज्य सकलं सखीजनं परिजनञ्चै परिमित-परिचा-रिकाभिरनुगम्यमाना प्रसादमारुरोह । तत्र च शयनीये निपत्य दूरं-स्थिताभिर्विनयनिभृ-ताभिः परिचारिकाभिर्विनोद्यमानः कुतोऽपि प्रत्यागतचेतना चैकाकिनी तस्मिन् काले 'चपले ! किमिदमारब्धम्' इति निगृह्णीतेव लज्जया, 'गन्धर्वराजपुत्रि ! कथमेतद् युक्तम् ?' इत्युपालब्धेव विनयेन, 'अयमसावव्युत्पन्नो बालभावः क्व गतः' इत्युपहसितेव मुग्धतया,

तदस्य खेलार्थगिरेः मणिवेश्मनि रत्ननिर्मितगृहे आस्ताम् । ययौ गतवती । तयैव महाश्वेतयैव सह निर्गत्य बहिरेत्य । वीणावादिन्यो वल्लकीवादिन्यः ताभिः वेणुवादिन्यः वंशीवादिन्यः ताभिश्च एवं गीतकला-कुशलाभिः गानविज्ञानदक्षाभिः, दुष्टम् आसमन्तात् उदरम् अभ्यन्तरं यस्य तद् दुरोदरं द्यूतं तत्क्रीडायां तल्लीलायां रागिणीभिः अभिरुचियुक्ताभिः अष्टौ अष्टौ पदान्यस्येति अष्टापदं शारिफलम् 'अष्टनः संज्ञायाम्' (६।३।१२५) इति सूत्रेण दीर्घः । तस्य परिचये विज्ञाने चतुराभिर्दक्षाभिः । 'अष्टापदोऽस्त्री कनके शारीणां फलकेऽपि च' इति मेदिनी । चित्रकर्मसु आलेख्यक्रियासु कृतो विहितः श्रमः शिक्षायै आयासो याभिस्ताभिः । सुभाषितपाठिकाभिश्च सूक्तपाठविधायिनीभिश्च, कादम्बर्या समादिष्टा आज्ञप्ता या प्रतीहारी द्वारपालिका तया प्रेषिताभिः प्रेरिताभिः कन्याभिः अनूढाभिः अनुव्रज्यमानश्चन्द्रापीडः । उपदिश्यमान-मार्गः प्रदर्श्यमानपथः । अगात् गतवान् ।

गत इति । गन्धर्वराजपुत्री कादम्बरी, सकलं समस्तं सखीजनं सहचरीवर्गं परिजनं परिचारिकावर्गं च विसृज्य स्वस्थानं गमयतामित्यादिश्य परिमितपरिचारिकाभिः अल्पपरिजनैः अनुगम्यमाना अनुव्रज्यमाना । आरुरोह आरूढवती । शयनीये शय्यायां निपत्य त्रस्तशरीरा सती स्थित्वा, दूरस्थि-ताभिः दविष्ठदेशावस्थायिनीभिः विनयेन शिष्टव्यवहारेण निभृताभिः तूष्णीम्भूताभिः परिचारिकाभिः परि-जनैः विनोद्यमानः विनोदविषयीक्रियमाणः । प्रत्यागता पुनरुपस्थितिः चेतना चैतन्यं यस्याः सा, चन्द्रा-पीडावलोकनसमये मोह एवासीदित्यशयः । चपले चञ्चले कादम्बरि ! इदं किमारब्धं प्रस्तुतमिति लज्जया त्रपया निगृह्णीतेव निर्यातितेव । एनत् पूर्वोक्तं कथं न्याय्यं युक्तमिति विनयेन शिक्षणाचारेण उपालब्धेव तिरस्कृतेव । अयमसौ सोऽयमित्यर्थः, अव्युत्पन्नः 'अबोधः, यौवनकालिकशृङ्गारविषयकभावानभिज्ञः, बालभावः शिशुप्रकृतिस्तव क्व गता इति मुग्धतया अभिनवायातेन मुग्धाभिधनायिकाविशेषभावेन उपहसितेव हास्यविषयीकृतेव बालस्वभावस्य मुग्धाभावेन निरासादित्याशयः । मुग्धास्वरूपं साहित्यदर्पणे-

(महल) के समीपवर्ती इस प्रमद-वनमें क्रीडा-पर्वतके मणि-मन्दिर पर ये ठहरें। यों कह कर गन्धर्वराजको देखनेके लिए (अर्थात् उनसे मिलनेके लिए) चली गई। चन्द्रापीड भी उसके ही साथ बाहर निकला और उसके चित्तके विनोदके लिए कादम्बरीके आदेशसे प्रतीहारीद्वारा भेजी गई—वीणा बजाने वाली, वंशी बजानेमें निपुण, सङ्गीत-कला (गानविद्या) में दक्ष, द्यूतक्रीड़ा करनेमें अनुरक्त, शतरञ्जमें सुचतुर, चित्रकार्यमें श्रम करने वाली, एवं सुन्दर प्रबन्ध (सुभाषित) पाठ करनेमें निपुण कितनी ही कन्याओंके साथ, पूर्वपरिचित तथा केयूरकके द्वारा बताए हुए मार्गसे क्रीडापर्वतस्य मणि-मन्दिरमें गया।

चन्द्रापीडके चले जाने पर (तत्काल ही) कादम्बरी सब सखीजन और परिजनको विदाकर केवल थोड़ी सी दासियोंको लेकर अट्टालिका (महल) पर चढ़ी। वहाँ जाकर पलङ्ग पर लेट गई और विनयवती परिचारिकाओंने निःशब्द दूर खड़ी होकर उसका कुछ कुछ चित्त-विनोदन करने लगीं। किन्तु वह अकेली, उस समयमें—चञ्चले ! यह तुम क्या आरम्भ की हो ? यों कहकर लज्जा मानो उसको यातना देती हो—गन्धर्वराजकन्ये ! ऐसा कार्य क्या तेरे योग्य है ?" यों कह कर विनय मानो उसका तिरस्कार करता हो—'तुम्हारा वह शृङ्गाररसानभिज्ञ


१. तया सहैव । २. विनोदायें । ३. दुरोदरेत्यारभ्य पाठिकाभिरित्यन्तं यावद् पाठः क्वचिन्न दृश्यते । ४. गृहन् । ५. सकलसखीजनञ्च । ६. तनः । ७. अद्दूर...। ८. विवृताभिः । ९. परिचयचतुराभिरुपास्यमानापि ।

५६६ | कादम्बरी- | [ कथायाम्-

'स्वैरिणि ! मा कुरु यथेष्टमेकाकिन्यविनयम्' इत्यामन्त्रितैव कुमारभावेन, 'भीरु ! नायं कुल- कन्यकानां क्रमः' इति गर्हितेव महत्त्वेन, 'दुर्विनीते ! रक्षाविनयम्' इति तर्जितेवाचारेण, 'मूढे ! मदनेन लघुतां नीतासि' इत्यनुशासितेवाऽभिजात्येन, 'कुतस्तवेयं तरलहृदयता' इति धिक्कृतेव धैर्येण, 'स्वच्छन्दचारिणि ! अप्रमाणीकृताहं त्वया' इति निन्दितेव कुलस्थित्या, अतिगुर्वी लज्जामुवाह ।

समचिन्तयच्चैवम्—'अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्या अद्य मया किं कृतमिदं मोहान्धया तथाहि, अदृष्टपूर्वोऽयमिति साहसिकया मया न शङ्कितम् । लघुहृदयां मां लोकैः कलयिष्यतीति निर्ह्रीकया नाककलितम् । कास्य चित्तवृत्तिरिति मूढया न परीक्षितम् । दर्शना- नुकूलाहमस्य नेति वा तरलया न कृतो विचारक्रमः । प्रत्याख्यानवैक्लव्यान भीतम् , गुरुज-


'प्रथमावतीर्णयौवनमदनविकारा रतौ वामा। कथिता सदृश्च माने समधिकलज्जायती मुग्धा ॥' इति ।

हे स्वैरिणि स्वच्छन्दविहारिणि ! अविनयम् अशिष्टाचरणम् , नायकेन साकमशिष्टाचारं विधातुं शक्नोषि न तन्न चतैरिति सूचयितुम् 'एकाकिनी' इति पदमुपात्तमित्यवधेयम् । कुमारभावेन कन्यका- दशया आमन्त्रितैव आमन्त्रणपूर्वकं शिष्टितेव । कुलकन्यकानां कुलकुमारिकाणां क्रमो रीतिः, महत्त्वेन औदार्येण गर्हितेव निन्दितेव । अविनयम् अशिष्टाचारं रक्षं अवरोधय इति आचारेण साधुव्यवहारेण तर्जितेव ताडितेव । मूढे हिताहितप्रज्ञाशून्ये ! लघुतां तुच्छतां नीतासि प्रापितासि । आभिजात्येन कौली- न्येन अनुशासितेव पाठितेव । तरलहृदयता चपलचित्तता । अहं कुलमर्यादा अप्रमाणीकृता अवहेलिता । कुलस्थित्या कुलमर्यादया निन्दितेव गर्हितेव, अतिगुर्वीम् अतिमहतीं लज्जां त्रपाम् उवाह धारयामास ।

समेति । समचिन्तयत् अध्यायत् । न गणिता संख्याकृता सर्वेभ्यो जनकादिभ्यः शङ्का सन्देहो यया तया । दर्शयन्त्या प्रकटयन्त्या । मोहान्धया अज्ञानान्धया ।

उपपादयति—तथाहिती । साहसिकया हठकारिण्या अविचार्यविधायिन्येत्यर्थः । अयं कुमारः अदृष्टपूर्वः अनवलोकितपूर्वः इति न शङ्कितम् अनवलोकितपूर्वत्वेन प्रकृतिपरिचयाभावात् वञ्चयितुमपि समर्थो भविष्यतीति न चिन्तितमित्यर्थः। लघुहृदयां तुच्छचित्तां कलयिष्यति प्रतिपादयिष्यति इति निर्ह्रीकया निष्त्रपया मया नाकलितं न विभावितम् । का किंस्वरूपा अस्य कुमारस्य चित्तवृत्तिर्मनो- व्यापारः । दर्शनानुकूला अवलोकनसुभगा । तरलया चञ्चलया । विचारस्य विवेचनस्य क्रमः परम्परा न कृतो विहितः ।

प्रत्येति । प्रत्याख्यानेन कुमारद्वारा मद्रणयप्रतिषेधेन यद्वैक्लव्यं विह्वलीभावस्तस्माद् गुरुजनाद्


बाल-भाव कहाँ गया ?' यों कहकर मुग्धता मानो उसकी हँसी करती हो—'हे स्वेच्छाचारिणि ! तुम केवल अपनी इच्छाके अनुसार अशिष्ट व्यवहार मत कर' यों सम्बोधनपूर्वक कहकर कन्यावस्था मानो उसे उपदेश देती हो—'अरे भीरु ! यह कुलीनकन्याओंकी रीति नहीं' यों कहकर औदार्य मानो निन्दा करता हो—'दुर्विनीते ! अपने अशिष्ट व्यवहारका निवारण करो' यों कहकर आचार मानो भर्त्सना करना (फटकारता) हो—'अरी मूढे ! कामदेवने तुझमें लघुता (हलकापना) लाकर तुच्छ कर दिया है' यों कहकर मानो कुलीनता शासन करती हो—तुम्हारी यह चपलता कहाँसे आई' यों कहकर धैर्य मानो धिक्कार देता हो—हे स्वच्छन्दचारिणि ! मैंने तुझे अवहेलना की' यों कहकर मानो वंशमर्यादा निन्दा करती हो—यों न समझमें आता कि कहाँसे इस प्रकारकी चेतना आनेसे अत्यधिक लज्जानुभव करने लगी ।

उसके बाद वह इस प्रकार चिन्ता करने लगी कि—मैंने आज हताश और मोहान्ध होकर, समस्त आशङ्काओंकी गणना न कर, मनकी चञ्चलता प्रकट कर यह क्या किया ? मेरी और उनकी यह पहली ही भेंट थी—इसकी भी मैंने हृदयार्पण-रूप साहस करनेमें कुछ शङ्का नहीं की; 'लोग मेरे मनको चञ्चल बतलावेंगे' यह भी मैं निर्लज्जाके कारण विवेचना नहीं कर सकी; 'इनकी चित्तवृत्ति कैसी है' उसकी भी मूढता होनेके कारण परीक्षा नहीं कर सकी; 'मैं इनके दर्शन योग्य हू या नहीं' चञ्चलतावश इसकी भी मैं विवेचना नहीं कर सकी; उनके अस्वीकार कर देने पर एक बार जो आकुलता होगी उसका भी भय नहीं किया, गुरुजनसे भी


१. मूढ ! निगृहीतां मदनेन । २. लघुता नीतासि मदनेनेति ज्ञापितेव । ३. तरलतां । ४. अगणितसर्व- शङ्का । ५ मोहान्धया हताशया । ५ साहसिकतया । ७. अयं । ८. मया ।

कादम्बरीचिन्तावर्णना ९२ ] चन्द्रकला-विद्योतिनीसहिता । ५६७

नान्न त्रस्तम्, लोकापवादान्नोद्विग्नम्, तथा च महाश्वेतातिदुःखितेति' निर्दाक्षिण्यया नापे- क्षितम्, आसन्नवर्त्तिसखीजनोऽप्युपलक्षयतीति मन्दया न लक्षितम्, पार्श्वस्थितः परिजनः पश्यतीति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं विभावयेयुः, किमुता- नुभूतमदनवृत्तान्ता महाश्वेता सकलकलाकुशलाः सख्यो वा राजकुलसञ्चारचतुरो वा नित्य- मिङ्गितज्ञः परिजनः । ईदृशेष्वतिनिपुणतरदृष्टयोऽन्त-पुरदास्यः । सर्वथा हतास्मि मन्दपुण्या, मरणं मेऽद्य श्रेयो न लज्जाकरं जीवितम् । श्रुत्वैतं वृत्तन्तं किं वक्ष्यत्यम्बा, तातो वा, गन्धर्व- लोको वा । किं करोमि, कोऽत्र प्रतीकारः, केनोपायेन स्खलितमिदं प्रच्छादयामि, कस्य वा चापलमिदमेतेषां दुर्विनीतानामिन्द्रियाणां कथयामि, क्व वानेन दग्धहृदयेन पञ्चबाणेन न खलु जानामि गृहीता गच्छामि' । तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता प्रियसखीनां पुरो

पूज्यवर्गात् न त्रस्तं न भीतम् । लोकापवादाज्जनप्रवादान् नोद्विग्नं नोद्वेगः प्राप्तः । तथा च अपि च । अतिदुःखिता नितान्तक्लेशिता पतिवियोगादित्याशयः । निर्गतं निःसृतं दाक्षिण्यम् औदार्यं यस्यां सा तयैवंभूतया मया । 'सशोकायां महाश्वेतायां नाहं स्वस्य पाणि ग्राहयिष्यामि' इति पूर्वप्रतिश्रुतेन यदौ- दार्य समुत्पन्नं सम्प्रति पाणिग्रहणे तु तल्लुप्यत इत्याशयः । आसन्नवर्त्तिसखीजनोऽपि निकटस्थायि- सहचरीगणोऽपि उपलक्षयति ज्ञास्यति भविष्यति वर्त्तमानता । मन्दया मूढया मया । लक्षितं ज्ञातम् । नष्टचेतनया विलुप्तविवेकयेत्यर्थः ।

त्युलेति । स्थूलबुद्धयोऽपि मन्दमतयोऽपि विनयच्युतिं मम धैर्यस्खलनमित्यर्थः विभावयेयुः जानीयेयुः । अनुभूतमदनवृत्तान्ता अनुभवविषयीकृतकामोदन्ता । राजकुलसञ्चारचतुरः राजकुलसञ्चरण- निपुणः, इङ्गितं हृदयाभिप्रायद्योतककटाक्षादिशरीरव्यापारं जानातीति सः । परिजनः परिचारकगणः । इहार्थोपत्तिरलङ्कारः ।

ईदृशेष्विति । अन्तःपुरदास्यः अवरोधसेवाकारिण्यः, ईदृशेषु एवंविधेषु प्रजयव्यापारेषु, अति- निपुणतरा प्रकृतभावं प्रत्याययितुं नितान्तकुशला दृष्टियाँसां ताः । अतएव ता अपि तं ममाभिप्रायं ज्ञात- वत्य एवेत्याशयः ।

सर्वथेति । मन्दपुण्या पापिनीत्यर्थः । गन्धर्वलोकः स्वजनवर्गो वक्ष्यति कथयिष्यति । स्खलितं धैर्यच्युतिम्, प्रच्छादयामि गोपायामीत्यर्थः । दुर्विनीतानाम् अनुचितचरणविधायिनाम् इन्द्रियाणां चक्षु- रादीनां कारणानाम् । दग्धं हृदयं येन तेन अनेन पञ्चबाणेन कामेन गृहीता आविष्टता, क्व गच्छामि कुत्र व्रजामि, इति न खलु जानामीति सम्बन्धः । इह विषादभावस्य वितर्कनामा भावोऽङ्गमिरित प्रेयोनामा- लङ्कारः । न च 'न खलु जानामि' इति वाक्यस्य वाक्यान्तरे प्रवेशेन गर्भितत्वदोषः आपतत इति वाच्यम् , विच्छित्तिविशेषस्य प्रकाशनत्वेन 'गर्भितत्वं गुणः क्वापि' इति दर्पणोक्तदिशा गुणत्वस्यैव जायमानत्वात् ।

तथेति । महाश्वेताया व्यतिकरः सहचरीत्वसम्बन्धस्तेन, तथा 'महाश्वेतायां सशोकायां नाहं स्वस्य पाणि ग्राहयिष्यामि' इत्येवंरूपा प्रतिज्ञा कृता विहिता । प्रियसखीनां प्रियसहचरीणां पुर अग्रतोऽपि तथा

भय न हुआ एवं लोकापवादकी भी आशङ्का न किया । और महाश्वेता अत्यन्त दुःखी होकर समय व्यतीत करती हैं औदार्य-रहित होनेसे उसकी भी अपेक्षा नहीं की, एवं समीपवर्ती सखियाँ भी देखती होंगी मूढतावश मैं इसको भी समझ न सकी; एवं पार्श्ववर्ती परिजन जो देखते होंगे, चैतन्यलोप हो जानेके कारण मैं उसको भी देख न सकी, जिनकी बुद्धि स्थूल है वे भी मेरी इस धैर्यच्युतिको जब समझ लेंगे तब फिर अपने मदन-वृत्तान्तका अनुभव करनेवाली महाश्वेता, समस्त कला-विद्याओंमें निपुण सखिया एवं सर्वदा राजकुलमें विचरण करनेके कारण समस्त विषयोंमें सुचतुर दासियोंकी तो बात ही क्या है? विशेषतः अन्तःपुरस्थ दासियोंकी दृष्टि, ऐसी घटनाओंमें और भी निपुण होती है । मुझमें पुण्य थोड़े हैं जिससे मैं सब प्रकारसे ही मारी गई हूं । ऐसे लज्जाकर जीवन-धारणकी अपेक्षा आज मरना ही श्रेयस्कर है, क्योंकि-इस वृत्तान्तको सुनकर पिता-माता और गन्धर्व लोग क्या कहेंगे ? इस समय मैं क्या करूँ ? इसका क्या प्रतीकार है ? किस उपायसे अपने इस दोषका गोपन करूँ, अथवा किसके समीप अपनी इस दुर्विनीत इन्द्रियोंकी चपलता कहूं ? हृदयदाहकारी इस कन्दर्पद्वारा वशीभूत हुई मैं कहाँ जाऊँ यह समझमें नहीं आता । महाश्वेताके साथ सम्पर्क रहनेसे मैं उस प्रकारकी प्रतिज्ञा की थी, प्रिय सखियोंके


१. दुःखितेति । २. दाक्षिण्यया । ३. निपुणदृष्टय । ४. श्रुत्वैतद्वृत्तान्तं । ५. ॰॰॰दग्धहृदयेन गृहीता गच्छामि, दग्धहृदया पञ्चवाणेन गच्छामि ।